नाप्यनुमानम्
(३)भेदोज्जीवनम्
(३) नाप्यनुमानम् । आत्मत्वं नानाव्यक्तिनिष्ठं जातित्वात् पृथिवीत्ववदित्यस्यासिद्धेः । आत्मैक्यवादिनां(ना) व्यक्तिभेदस्य बाधितत्वेनात्मत्वस्य जातित्वानङ्गीकारात् । आत्मा आत्मप्रतियोगिकभेदाधिकरणं द्रव्यत्वाद् घटवदित्यस्याप्यसिद्धेः । आत्मनो निर्गुणस्यास्माभिर्गुणाश्रयत्वलक्षणद्रव्यत्वानङ्गीकारात् । अथ सुखं नानाव्यक्त्याश्रितं गुणत्वाद् रूपवत् । सुखत्वं वा नानाव्यक्त्याश्रिताश्रितं गुणनिष्ठजातित्वाद्रूपत्ववदिति । न च शब्दे शब्दत्वे च (वा) व्यभि
चारः । तस्य द्रव्यत्वात् । अद्रव्यत्वपक्षेऽपि तदन्यत्वेन हेतुविशेषणादिति चेन्न । सुखदुःखादीनामन्तःकरणाश्रितत्वेनान्तःकरणानां च नानात्वेन सिद्धसाधनात् । स्वरूपसुखविवक्षायां तु तस्य द्रव्यत्वेनासिद्धेः ।
चैत्रशरीरं मैत्रशरीरस्वामिभिन्नस्वामिकं तद्विरुद्धचेष्टावत्त्वादित्यत्र व्यभिचारः । एकस्वामिकयोरपि (सकलैकस्वामिकयोरपि) घटपटयोर्विरुद्धचेष्टा(चेष्टाकत्व)दर्शनात् । शरीरत्वेन हेतुविशेषणे दृष्टान्तासिद्धिः ।
विमतौ भिन्नौ विरुद्धधर्माधिकरणत्वाद् दहनतुहिनवदिति चेन्न । पारमार्थिकभेदसाधने अप्रसिद्धविशेषणत्वात् । अपारमार्थिक(व्यावहारिक)भेदसाधने सिद्धसाधनत्वात् । तस्मान्नानुमानमात्मजीवभेदे मानमिति ।
(३)भावप्रदीपः
॥ नाप्यनुमानमिति ॥ जीवेश्वरभेदे प्रमाणं भवतीति वर्तते ॥ आत्मत्वमिति ॥ यद्यपीदमनुमानमात्ममात्रभेदसाधकं तथाऽपि तद्विशेषजीवेश्वरभेदोऽप्यनेन सिध्यतीत्याभिप्रायेणेदमभिहितम् । यथा द्रव्यमात्रस्य गुणित्वसिद्धौ तद्विशेषस्य घटस्यापि तत्सिद्धिरिति । जीवेश्वरभेदस्येव परस्परजीवभेदस्यापि प्रस्तुतत्वस्य प्रदर्शितत्वात्तदपेक्षया चेति बोध्यम् ॥ जातित्वादिति ॥ जातेरनेकानुगतत्वलक्षणकत्वादिति भावः ॥ असिद्धेरिति ॥ अन्यतरासिद्धेरित्यर्थः । तामेवोपपादयति – आत्मैक्यवादिनेति ॥ जातित्वानङ्गीकारादिति सम्बन्धः ॥ व्यक्तिभेदस्येति ॥ आत्माख्यव्यक्तिभेदस्य वक्ष्यमाणप्रमाणबाधितत्वेनेत्यर्थः । असिद्धिमेवोपपादयति – आत्मनो निर्गुणस्येति ॥ निर्गुणस्याप्यात्मनो द्रव्यत्वं किन्नाङ्गीक्रियत इत्यत उक्तम् – गुणाश्रयत्वलक्षणेति ॥ आत्मभेदे पुनरनुमानद्वयमाशङ्कते – अथ सुखमित्यादिना ॥ अनुमानद्वये व्यभिचारमाशङ्क्य निराकारोति – न चेति ॥ आद्यानुमाने शब्दे व्यभिचारः । द्वितीयानुमाने शब्दत्वे व्यभिचार इत्यर्थः । आकाशव्यक्तेरेकत्वेन नानात्वाभावादिति भावः । कुतो न व्यभिचार इत्यत आह – तस्येति ॥ तथा च शब्दस्य गुणत्वाभावाच्छब्दत्वस्य गुणनिष्ठजातित्वाभावाद्धेतोरेवाभावान्न व्यभिचार इति भावः । मीमांसकमते शब्दस्य द्रव्यत्वेऽपि नैय्यायिकादिमते गुणत्वाव्द्यभिचारः सुस्थ इत्यत आह – अद्रव्यत्वपक्षेऽपीति ॥ तदन्यत्वेनेति ॥ आद्यानुमाने शब्दान्यत्वेन द्वितीयानुमाने शब्दत्वान्यत्वेनेत्यर्थः । एवं शङ्कितमनुमानद्वयं दूषयितुं किमत्र सुखशब्देनान्तःकरणधर्मभूतं प्राकृतं सुखं विवक्षितमुत स्वरूपसुखमिति विकल्पं मनसि निधायाद्यं निराचष्टे – सुखदुःखादीनामिति ॥ अत्र दुःखादिग्रहणं दृष्टान्तार्थम् । द्वितीयं निराह – स्वरूपसुखेति ॥ गुणगुणिनोर्भेदे स्वरूपत्वस्यैवानुपपत्तेरभेद एवाङ्गीकार्ये आत्मन इव तदभिन्नसुखस्यापि गुणत्वायोगादसिद्धिरित्यर्थः । एतेन द्वितीयानुमानेऽपि सुखत्वस्यान्तःकरणधर्मनिष्ठत्वे सिद्धसाधनता । स्वरूपसुखवृत्तिधर्मत्वे तस्यागुणत्वेन गुणनिष्ठजातित्वायोगेनासिद्धिरिति दूषणं सूचितं भवति । उपलक्षणमेतत् । अत्र किमेकमेव सुखं नानाव्यक्त्याश्रितमित्युच्यते । उतानेकम् । अद्ये बाधः । दृष्टान्ते साध्यवैकल्यं च । न ह्येकमेव सुखं रूपं वा नानाव्यक्त्याश्रितमनुभवविरोधत्वात् । एकत्वसङ्ख्यायां व्यभिचारश्च । द्वितीये हेतोयप्रयोजकता । एकस्मिन्नेवात्मनि कालभेदेनानेकसुखाश्रयत्वदर्शनात् । पादाद्यवच्छेदकभेदेन युगपदपि तद्दर्शनाच्च । स्वरूपसुखैक्यवादिनस्तद्वृत्तिसुखत्वस्य जातित्वानङ्गीकारादसिद्धिश्च । किञ्चैकस्यैव सुखस्य रूपस्य वा नानाव्यक्त्याश्रितत्वपक्षे जातिवत्पर्याप्त्या नानाव्यक्त्याश्रितत्वमुतानेकतृणाग्रप्रसारितपटवदपर्याप्त्या । नोभयमपि । अनुभवविरोधात् । तथा च सुखस्य नानाव्यक्त्याश्रयत्वानुपपत्तौ सुखत्वस्य नानाव्यक्त्याश्रिताश्रितत्वमपि दूरोत्सारितम् । तदधीनसिद्धिकत्वात्तस्य । एतेन स्वाश्रयद्वारकसम्बन्धेन नानाव्यक्त्याश्रितत्वं सुखत्वस्यैव साध्यत इत्यपि निरस्तम् । उक्तरीत्याऽप्रयोजकत्वादित्याद्यपि द्रष्टव्यम् । अत एवैवं बहुदूषणग्रस्तत्वादिदमनुमानद्वयं सिद्धान्तग्रन्थेन समाहितमिति ज्ञातव्यम् ।
अन्योन्यजीवभेदेऽनुमानमशङ्क्य निराह – चैत्रशरीरमिति ॥ मैत्रशरीरेति ॥ मैत्रशररिस्वामी मैत्रस्तद्भिन्नश्चैत्रस्तत्स्वामिकमित्यर्थः ॥ तद्विरुद्धेति ॥ मैत्रशरीरचेष्टाविरुद्धेत्यर्थः । अत्र मिथो युद्ध्यत्पालितमेषकुक्कुटादिदृष्टान्तः । यद्यद्विरुद्धचेष्टाकं तत्तत्स्वामिभिन्नस्वामिकमिति सामान्यव्याप्तिरभिमता । व्यभिचारमुपपादयति – एकस्वामिकयोरिति ॥ अत्र क्वचित्सकलैकस्वामिकयोरिति पाठः । स तु प्रामादिक इति प्राञ्चः
प्राहुः । उपलक्षणं चैतत् । पारमार्थिकभेदविवक्षायामप्रसिद्धविशेषणता । अपारमार्थिकभेदसाधने सिद्धसाधनतेति वक्ष्यमाणदूषणमपि ग्राह्यम् ॥ दृष्टान्ताभाव इति ॥ चैत्रमैत्रशब्दयोरुदाहरणमात्रार्थत्वेन विन्यासभेदेन सर्वशरीराणामपि पक्षत्वेन विवक्षितत्वाद्दृष्टान्ताभाव इत्यर्थः । केचित्त्वात्मैक्यवादिनो यज्ञदत्तादिशरीरेऽपि मैत्रशरीस्वामिभिन्नस्वामिकत्वस्यासम्प्रतिपत्तेर्दृष्टान्ताभाव इति व्याचक्षते ।
जीवेश्वरभेदेऽनुमानान्तरमाशङ्कते – विमताविति ॥ विरुद्धधर्माधिकरणत्वादिति ॥ अत्र पक्षे सर्वज्ञत्वासर्वज्ञत्वादिर्विरुद्धो धर्मः । दृष्टान्ते चौष्ण्यशीतत्वादिर्द्रष्टव्यः । विरोधस्वरूपं तु सिद्धान्तग्रन्थे वक्ष्यते । तत्र वक्तव्यमपि तद्व्याख्यानावसर एव वक्ष्यते – अप्रसिद्धविशेषणत्वादिति ॥ पारमार्थिकभेदस्य मया कुत्राप्यनङ्गीकृतत्वादिति भावः ॥ सिद्धसाधनत्वादिति ॥ जीवेश्वरभेदस्य व्यावहारिकतया मयाऽङ्गीकृतत्वादिति भावः । अनुमाननिराकरणमुपसंहरति – तस्मादिति ॥
(३)भेदचिन्तारत्नम्
॥ आत्मत्वमिति ॥ यद्यपि न तावदित्यादिना जीवेश्वरभेदमात्रोपक्षेपः कृतः । तथाऽपि पञ्चविधस्याप्यादावुपक्षेपात् सामान्येनात्मभेदसाधनं प्रसङ्गादत्र चिन्त्यते । ननु कथं भेदस्य पञ्चविधत्वम् । किं धर्मिभेदात्प्रतियोगिभेदाद्धर्मितावच्छेदकभेदात्प्रतियोगितावच्छेदकभेदाद्वा । नाद्यौ । जडजीवेश्वराणां त्रयाणामेव पर्यावृत्त्या प्रतियोगिधर्मित्वात् । अवान्तरभेदग्रहे त्वानन्त्यात्पञ्चत्वायोगः । अत एव नोत्तरौ । जडजीवेश्वरत्वानां त्रयाणामेव पर्यावृत्त्या तथात्वात् । तस्मादत्र त्रय एव भेदा वाच्याः । कथञ्चिद्धर्म्यादिपाञ्चविध्येऽपि दशभेदा इत्येव वाच्यम् । पञ्चप्रतियोगिकानां पञ्चानुयोगिकानां च दशत्वादिति । अत्र चकास्ति प्रतियोगितावच्छेदकभेदादेवाभावभेदः । अत एव घटानन्त्येऽप्यवच्छेदकैक्यान्न भूतले घटाभावानन्त्यम् । प्राक्प्रध्वंसाभावयोस्तु प्रतियोग्यैक्येऽपि पूर्वोत्तरकालरूपावच्छेदकभेदाद्भेदः । प्रकृते चेशत्वं जीवत्वं जडत्वं जडत्वव्याप्यधर्मो जीवत्वव्याप्यधर्मश्चेति पञ्चावच्छेदकाः । यद्यपि व्याप्यधर्मा अनेके तथाऽपि तत्त्वेनैकीकरणान्न दोषः ।
न हि जीवो जीवाज्जडाज्जडं भिन्नमित्यत्र जीवत्वजडत्वेऽवच्छेदकौ धर्मिभूतजीवजडेष्वपि सत्त्वात् । जडं जीवाद्भिन्नमित्यत्र तु जीवत्वादिकमेवावच्छेदकमिति धर्मिप्रतियोगिनां प्रत्येकं पञ्चकाभावेऽपि तदुभयसमुदायपञ्चकाद्भेदपञ्चकोपपत्तिरित्याहुः । विभज्य दशविधत्वं त्वनुमतमेव । धर्मितया प्रतियोगितया वा जीवजडोभयसम्बन्धी भेद इत्याद्येकीकरणसम्भवान्न पञ्चत्वहानिः । ननु तथाऽपि रमायाः पार्थक्यादीशरमयोर्जीवरमयोर्जडरमयोश्चेत्यष्टविधत्वं स्यात् । तच्च दुःखास्पृष्टत्वमीशत्वमिति तस्या अपीशकोटौ प्रवेश इति वाच्यम् । तथा सतीशयोर्भेदम् इति षड्विधः स्यादिति चेन्न । अस्वतन्त्रचेतनत्वं जीवत्वमिति विवक्षया तस्या अपि जीवशब्देन ग्रहणादिति । इहात्मत्वं नाम चित्त्वम् ॥ नानाव्यक्तीति ॥ परस्परप्रयोगिकधर्मिसत्तासमानसत्ताकानौपाधिककेवलभेदाधिकरणनिष्ठमित्यर्थः । एवमुत्तरत्रापि यथासम्भवं ज्ञेयम् ॥ जातित्वादिति ॥
ननु जातित्वं न जातिः किन्तु नित्यैकानेकानुगतत्वम् । तत्रानेकानुगतत्वादित्येवालम् । तावन्मात्रे च साध्यावैशिष्ट्यम् । मैवम् । अनेकानुगतत्वं चैकत्वेतरसङ्ख्यावद्वर्तित्वम् । साध्यं तु भेदवद्वृत्तित्वमिति भेदात् । स्वातन्त्र्येणानुगतधीनियामकत्वं वा जातित्वम् ॥ व्यक्तिभेदस्य बाधितत्वेनेति ॥ अत एवानुगतत्वस्य वाऽनुगतधीनियामकत्वस्य वाऽयोगादिति भावः । ननु तत्त्वविदां जातेरेकमात्रवृत्तित्वेन कथं तेन नानाव्यक्तिनिष्ठत्वं साध्यते । कथं च तान्प्रत्यनेकानुगतत्वासिद्ध्या परिहार इति चेत् । उच्यते । तैरप्याकाशत्वादेरजातित्वाय जातेर्नानाव्यक्तिनिष्ठत्वमनेकानुगतत्वं वाच्यम् । परन्तु यत्पदेन यदभिव्याहृत्य नानाव्यक्तिनिष्ठत्वमुच्यते तत्पदवाच्यतावच्छेदकधर्मेण तत्तत्सदृशान्यान्यतत्तद्धर्माधिकरणान्यान्यतत्तद्व्यक्तिमध्यपतितव्यक्तिविशेषनिष्ठत्वमेव नानाव्यक्तिनिष्ठत्वम् । अनेकानुगतत्वमुक्तधर्मेण स्वसदृशानेकतत्तद्धर्माधिकरणानेकतत्तद्व्यक्तिमध्यपतितव्यक्तिविशेषनिष्ठत्वम् । एवञ्चात्मत्वेन धर्मेणैकात्मत्वसदृशानां तत्तदात्मत्वानां खण्डानुगत्याऽप्यभेदलाभान्न कोऽपिदोषः । आत्मत्वपदेनेत्येवोक्तौ साध्यैवकल्यं स्यादिति यत्तदिति सामान्याश्रयणं कृतम् । आकाशत्वस्याकशत्वेन रूपेण सदृशधर्मान्तराभावान्न तस्य नानाव्यक्तिनिष्ठत्वमिति ।
ननु किमिदं सादृश्यम् । तद्भिन्नत्वे सति तद्गतभूयोधर्मवत्त्वमिति चेन्न । अपसिद्धान्तात् । नापि तद्धर्मसदृशधर्मवत्त्वम् । आत्माश्रयात् । नापि तद्धर्मनिरूपितधर्मवत्त्वम् । गौरिव गवय इत्यादौ गोगताकारादेर्गवयगताकारादिनिरूपितत्वादिति वाच्यम् । देवदत्तगतपितृत्वनिरूपिततत्पुत्रत्ववति यज्ञदत्ते देवदत्तसादृश्यापत्तेः । न च पितृत्वादिभिन्नवद्धर्मनिरूपितधर्माधिकरणं यत्तत्तेन सदृशमिति वाच्यम् । आदिपदेन सादृश्यनिरूपकधर्मस्यापि ग्रहणेऽसम्भवापत्तेः । न च सम्बन्धिभिन्नेत्यादि वाच्यम् । पितृत्वादिवत्सादृश्यस्याप्युभयनिरूप्यतया सम्बन्धविशेषत्वात् । पितृत्वादिमात्रे सम्बन्धत्वस्य दुर्वचत्वाच्चेति । उच्यते । विशिष्टप्रतीत्यनियामकनिष्ठधर्मनिरूपितधर्माधिकरणं यत्तत्तेन सदृशम् । पितृत्वादिधर्मस्य पुत्रवानित्यादिविशिष्टप्रतीतिनियामकत्वान्न तत्रातिव्याप्तिः । सादृश्यस्थले तु गौरिव गवय इत्यादावाकारादेर्न विशिष्टप्रतीतिनियामकत्वम् । गवयवान्गौरित्यादिप्रतित्यभावात् । न च सदृशवान्गौरित्यत्रापि विशिष्टप्रतीतिरस्तीति वाच्यम् । तत्र परस्परपदार्थद्वयगतस्वरूपसम्बन्धविशेषस्यैव तन्नियामकत्वेनाकारादेरनियामकत्वादिति । ननु भवतां मते जातेरखण्डानुगत्यभावेन खण्डानुगतेश्च रूपादावपि सत्त्वेन लाघवात्तेनैव घटादावनुगतप्रतीत्युपपत्तौ किं जात्यङ्गीकारेण । नन्वस्त्वनतिप्रसक्तयत्किञ्चिद्धर्म एव जातिपदार्थ इति वाच्यम् । गुणक्रियाजातिपूर्वेत्यादिपृथग्ग्रहण विरोधादिति चेन्न । न हि वयं प्रयोजनवशाज्जातिं कल्पयामः । घटादौ गुणाद्यतिरिक्ता जातिः प्रत्यक्षत एव सिद्धा । अयं घट इत्यत्र घटप्रतीतिविषयभूतं घटत्वं न तावद्रूपादि । पटादावपि सत्त्वेन तत्रापि घटत्वप्रतीत्यापत्तेः । नापि जलाधारत्वम् । एतदननुसन्धानेऽपि तत्प्रतीतेः । ह्रदादावपि तत्प्रतीत्यापत्तेः । छिद्रघटे तदयोगापत्तेश्च । नापि पृथुबुध्नोदराकारत्वम् । चित्रलिखितप्रतिकृतौ पेटिकाविशेषादौ च तत्प्रतीत्यापत्तेः । न च मृज्जन्यत्वे सतीति विशेष
णीयम् । सुवर्णघटादौ तत्प्रतीत्ययोगापत्तेः । एतदननुसन्धानेऽपि तत्प्रतीतिदर्शनाच्च । एतेषामेव घटपदप्रवृत्तिनिमित्तत्वे उक्तशब्दानां घटपदेन पर्यायत्वापत्तेश्च । यद्वा न्यायमतानुसारेणैतदनुमानप्रवृत्तिरित्यदोषः ॥ आत्मेति ॥ न च प्रतिज्ञा व्याहतिरिति वाच्यम् । आत्मनानात्वसन्देहदशायां तदभावात् । असिद्धिं दर्शयति – आत्मन इति ॥ न च तर्हि द्रव्यत्वं नाम समवायिकारणत्वमिति वाच्यम् । अविक्रियस्य निष्क्रियस्यात्मनो गुणं प्रत्येव तस्य वक्तव्यत्वात् । नापि गुणादिषट्कभिन्नत्वं द्रव्यत्वमिति वाच्यम् । भिन्नत्वसम्पादकस्य गुणाश्रयत्वस्याभावेन तद्वचनस्य रिक्तत्वात् । न च तर्हि द्रव्यत्वमेव हेतुरस्त्विति वाच्यम् । आत्मप्रतियोगिकभेदे व्यभिचारात् । स्वस्यैव स्ववृत्तित्वायोगेन साध्याभावसत्त्वात् । पक्षदृष्टान्तानुगतवस्तुत्वस्यानङ्गीकाराच्च ।
॥सुखमिति॥ अस्यात्माश्रितत्वेन पक्षधर्मताबलादात्मनानात्वसिद्धिरिति भावः । नन्वत्रैकात्मसुखपक्षीकारे बाधः । अनेकात्मसुखपक्षीकारे पक्षविशेषणासिद्धिः । सामान्यतः सुखपक्षीकारेऽपि बाध एव । यावद्विशेषवृत्तिनः सामान्येऽप्यभावौचित्यात् । अतः खण्डानुगत्या समाधानसम्भवेऽपि तुष्यत्विति जातेरखण्डानुगतिमभ्युपेत्य प्रकारान्तरेण प्रयुङ्क्ते ॥ सुखत्वमिति ॥ एवञ्चैकैकत्र विद्यमानतत्तत्सुखानुगतसुखत्वस्य नानाव्यक्त्याश्रिताश्रितत्वं सूपपादमिति भावः ॥ शब्दे शब्दत्वेति ॥ यथासङ्ख्यमुक्तहेतुद्वयस्येति शेषः । तदाश्रयस्याकाशस्यैकत्वादिति भावः ॥ द्रव्यत्वादिति ॥ वर्णभागस्येति शेषः । अतः शब्दत्वस्य द्रव्यनिष्ठत्वादित्यपि ग्राह्यम् ॥ अद्रव्यत्वेति ॥ ध्वनिभागस्येति शेषः । द्रव्यत्वादित्येकदेशविवक्षया प्रौढवादः ॥ तदन्यत्वेनेति ॥ शब्दमात्रस्यापि तथात्वाङ्गीकार इत्यपि द्रष्टव्यम् ॥ चैत्रशरीरमिति ॥ यो यद्विरुद्धचेष्टाश्रयः स तत्स्वामिभिन्नस्वामिको यथा चैत्रघटो मैत्रघटस्वामिभिन्नस्वामिक इत्युदाहर्तव्यम् । ननु शरीरवद्घटपटयोरपि तत्स्वामिभिन्नस्वामिकत्वासिद्ध्या साध्यविकलोऽयम् । न च व्यावहारिकभेदोऽस्तीति वाच्यम् । तथात्वे तेनैव सिद्धसाध्यतापत्तेः । न चात्र व्यतिरेकदृष्टान्त एवोदाहर्तव्य इति वाच्यम् । दृष्टान्ताभावादित्युत्तरग्रन्थविरोधादिति चेन्न । सामान्यतो भिन्नस्वामिकत्वस्यैव साध्यत्वेन साध्यवैकल्याभावात् । प्रकृते च शरीरोपहितयोरेव शरीरस्वामित्वे आत्माश्रयादनुपहितभेदस्य स्वाभाविकत्वावश्यम्भावेन पक्ष एव पर्यवसाने पारमार्थिकभेदस्यैव लाभान्न सिद्धसाधनता । न चान्तःकरणोपहितयोरेव शरीरस्वामिकत्वमिति शुद्धात्मभेदालाभ इति वाच्यम् । तत्रापि चैत्रान्तःकरणं मैत्रान्तःकरणस्वामिभिन्नस्वामिकमिति साधनात् । न चान्योपहितयोरेवान्तःकरणस्वामित्वमिति वाच्यम् । तदुपाधेरपि भिन्नोपाधेयकत्वसाधनात् । शरीरपक्षीकारस्तु तस्यैवाद्योपाधित्वाङ्गीकार इति ध्येयम् । उपाध्यानन्त्यकल्पने चानवस्था । शरीरोपलक्षितयोरेव शरीरस्वामित्वान्न शुद्धात्मभेदो नाप्यात्माश्रय इति चेन्न । उपलक्षकस्य तटस्थत्वे उपलक्ष्यैतत्समार्थितयत्किञ्चिद्विशेषो वाच्यः । यथा काकस्य ताटस्थ्येऽपि तत्समार्थितो तृणत्वतत्संयोगध्वंसादिविशिष्टस्यैव गृहस्योपलक्षकम् । एवञ्च तादृशविशेषपक्षीकारेण भिन्नाश्रयत्वसाधने शुद्धात्मभेदसिद्धिः । न च स विशेषोऽप्युपलक्षकत्वान्न शुद्धाश्रय इति वाच्यम् । अनवस्थापत्तेरिति । व्यभिचारं व्यनक्ति – सकलेति ॥ सकला एके भिन्नाः स्वामिनो ययोस्तौ तयोर्ये घटस्वामिनस्ते सकला अपि पटस्य स्वामिन इत्येवमभिन्नस्वामिकयोरित्यर्थः । अवान्तरस्वामिभेदादिनाऽपि रहितयोरिति । एकस्वामिकयोरित्येवोक्ते प्रधानस्वाम्यैक्यैऽप्यवान्तरस्वामिभेदान्न व्यभिचार इत्युच्येतेति सकलेत्युक्तम् ॥ दृष्टान्ताभावादिति ॥ शरीरमात्रस्य पक्षतुल्यत्वमिति भावः ॥ अप्रसिद्धेति ॥ अस्यादूषणत्वेऽपि स्वरीत्याऽभिधानमिति ज्ञेयम् ॥ पारमार्थिकेति ॥ पारमार्थिकत्वविशेषणाघटितभेदमात्रेत्यर्थः ।
(३)भेदचन्द्रिका
॥ आत्मत्वमिति ॥ ननु जातित्वं नाम नित्यैकत्वे सत्यनेकसमवेतत्वम् । तच्च नानाव्यक्तिनिष्ठत्वसन्देहदशायामात्मत्वे सन्दिग्धं निश्चये चानुमनवैफल्यम् । नित्यैकत्वे सतीत्यस्य वैय्यर्थ्याच्चेति चेन्न । जातित्वस्याखण्डोपाधित्वात् । व्यक्त्यभेदादिबाधकषट्करहितधर्मत्वं वा तत् । न चात्रापि व्यक्त्यभेदराहित्यमात्रस्यैव गमकत्वे विशेषवैय्यर्थ्यमिति वाच्यम् । अखण्डाभावघटकतयाऽवैय्यर्थ्यात् । तावन्मात्रस्यैव प्रकृते हेतुत्वाच्च । न च तत्रापि सन्दिग्धासिद्धिः सिद्धसाधनता वेति वाच्यम् । अस्यैवाग्रेऽभिधानात् ॥ धटवदितीति । यद्यपि परो घटेऽप्यात्मप्रतियोगिकभेदाधिकरणत्वं न मन्यत इति दृष्टान्तः साध्यविकलः । तथाऽपि घटो नाहमिति निर्बाधप्रत्यक्षेण घट इव तत्सिद्धिरित्याशयेनेदम् । यद्वा प्रसिद्धेऽरित्यस्य दृष्टान्ते साध्यासिद्धेरित्यप्यर्थमङ्गीकृत्येदमपि दूषणमुत्तरत्र वक्ष्यमाणमेवेति बोध्यम् ॥ आत्मन इति ॥ यद्यपि निर्गुणस्यात्मनो गुणाश्रयत्वरूपद्रव्यत्ववत्तायोगेऽपि जातिरूपं तद्युज्यते । तथाऽपि निर्धर्मके तद्द्रव्यत्वं न सम्भवति । गुणाश्रयत्वस्य तद्व्यापकत्वात् । तन्निवृत्तौ तदपि न सम्भवतीत्याशयेनेदम् । एकस्य नानाव्यक्त्याश्रितत्वं बाधितम् । एवं दृष्टान्ते साध्यवैकल्यमित्यस्वरसादाह – सुखत्वमिति ॥ यद्यप्यत्रैकस्यापि सुखस्य रूपस्य वा जातिपर्याप्त्या नानातृणाग्रप्रसारितपटवदपर्याप्त्या वा न नानाव्यक्त्याश्रितत्वं बाधितम् । एवं रूपस्यापीति दृष्टान्ते साध्यवैकल्यमित्यस्वरसादाह – सुखत्वमिति ॥ यद्यप्यत्रापि कस्यापि सुखस्य रूपस्य वा जातिवत्पर्याप्त्या नानातृणाग्रप्रसारितं पटवदपर्याप्त्या वा न नानाव्यक्त्याश्रितत्वमिति पुनरपि बाधो दृष्टान्ते साध्यवैकल्यं च । तथाऽपि स्वाश्रयद्वारकसम्बन्धेन व्यक्त्याश्रितत्वं सुखत्वे साध्यमिति न कश्चित्क्षुद्रोपद्रवः ॥ गुणनिष्ठेति ॥ तद्रूपत्वे व्यभिचारवारणाय जातित्वादिति । मनस्त्वे व्यभिचारवारणाय गुणनिष्ठेति । शब्द इत्याद्यानुमाने शब्दत्व इत्युत्तरानुमाने तदन्यत्वेनेति । शब्दान्यत्वेनाद्यानुमाने शब्दत्वान्यत्वेन द्वितीये । आद्यानुमाने सुखमन्तःकरणवृत्तिरूपं स्वरूपसुखं वा । द्वितीयेऽन्तःकरणवृत्तिधर्मो वा स्वरूपसुखवृत्तिधर्मो वा पक्षत्वेन विवक्षितमिति विकल्पं मनसि निधायाद्ययोराह – सुखदुःखादीनामिति ॥ दुःखग्रहणं दृष्टान्तार्थम् । दुःखपक्षकानुमानेऽपि एवमेव दूषणं बोध्यमित्याशयेन च । अन्त्ययोराह – स्वरूपेति ॥ द्वितीयानुमाने स्वरूपसुखैक्यवादिनस्तद्वृत्तिधर्मस्य जातित्वाभावेनाप्यसिद्धिर्बोध्या । तद्विरुद्धेत्यत्र तत्पदेन चैत्रशरीरचेष्टा गृह्यते । तच्चेष्टाविरुद्धचेष्टाकत्वादिति पाठः साधुः ॥ सकलैकस्वामिकयोरिति ॥ चेष्टाशब्देन स्पन्दनमात्रं कथ्यत इत्याशयः । अत एव शरीरत्वेन विशेषणेन हेतुशङ्काऽपि युज्यते । अत्र सकलपदं प्रामादिकम् । एकस्वामिकयोरित्यनेन साध्याभावस्य विरुद्धचेष्टादर्शनादित्यनेन हेतुसद्भावस्योपपादनात् । यद्वा ययोर्घटपटयोर्मुख्यः स्वाम्येकोऽवान्तरस्वामिनौ च प्रत्येकं द्वौ तयोर्घटपटयोः साध्यमप्यस्तीति न व्यभिचारः स्यादतः सकलेति । सकलो मुख्योऽवान्तरो वा एक एव स्वामी ययोरिति ॥ दृष्टान्ताभाव इति ॥ आत्मैक्यवादिनो यज्ञदत्तादिशरीरेऽपि मैत्रशरीरस्वामिभिन्नस्वामिकत्वस्यासम्प्रतिपत्तेः । विशेषव्याप्तौ शरीरत्वविशेषितस्य हेतोर्दृष्टान्ताभाव इत्यर्थः । एवं सामान्यव्याप्तावपि शरीरत्वविशेषितहेतोद्द्रष्टान्ताभावो बोद्धव्यः । एवमविशोषितहेतोरपि व्याप्तिद्वयेऽपि दृष्टान्ताभावो बोध्यः । एवञ्च शरीरत्वेन हेतुविशेषणे व्यभिचारवारणेऽपि दृष्टान्ताभावो दुरुद्धर एवेति ग्रन्थार्थः । नत्वविशेषणे दृष्टान्तसत्त्वं विशेषणे दृष्टान्ताभाव इति भ्रमितव्यम् ॥ विरुद्धधर्माधिकरणत्वादिति ॥ अत्र विरोधो वध्यघातुकभावश्चेन् `न जात एकोऽन्यं हन्ति नाप्यन्याधार’ इति न्यायेन समानाश्रययोरपि ज्ञानेच्छयोर्वध्यघातुकभावेनानैकान्त्यम् । प्रतियोग्यनुयोगिभावश्चेत्समानाश्रययोरपि ज्ञानतत्प्रागभावयोस्तत्सम्भवेनानैकान्त्यम् । सहानवस्थाननियमश्चेदेकात्मवादेऽसिद्धिरिति दूषणे सत्येव दूषणान्तरमाह – पारमार्थिकेति ॥
(३)भेदसञ्जीविनी
॥ आत्मत्वमिति ॥ आत्मेतरावृत्तित्वमात्रं पक्षतावच्छेदकं न सकलात्मवृत्तित्वमपि । आत्मबहुत्वस्यासिद्धत्वेन प्रतिवादिन आश्रयासिद्धिप्रसङ्गात् । उक्तपक्षतावच्छेदकानुसारेण तु सामानाधिकरण्येन साध्यसिद्धिमात्रेणात्मनानात्वसिद्ध्या कृतार्थत्वेनावच्छेदकावच्छेदेन साध्यसिद्धेरनपेक्षणाद् आत्मेतरावृत्तित्वरूपोक्तपक्षतावच्छेदकाक्रान्तसुखदुःखादौ हेतुसाध्ययोरभावेऽपि न भागासिद्ध्यंशेबाधौ । निखिलात्मवृत्तित्वं वाऽऽत्मवृत्तिभेदप्रतियोगितावच्छेदकत्वाभाववत्त्वे सति वृत्तिमत्त्वरूपं (वा) पक्षतावच्छेदकमतो न पक्षासिद्धिः । द्रव्यत्वादिकमादाय सिद्धसाधनतावारणायावच्छेदकावच्छेदेन साध्यं साधनीयम् । अवच्छेदकावच्छेदेन साध्यसिद्धेरुद्देश्यत्वेऽप्यंशे सिद्धतादोष इति मताश्रयणे आत्मेतरावृत्तित्वमपि पक्षतावच्छेदककोटौ निवेश्यम् । नन्वेतत्पक्षे सकलात्मवृत्तित्वमात्रस्य पक्षतावच्छेदकत्वपक्षे वा सकलात्मवृत्तिबहुत्वस्यापि पक्षकोटिनिविष्टत्वात्परिष्क्रियमाणजातित्वस्याप्यसम्भवाद् भागासिद्धिः स्यात् । स्वमते तस्य बहुत्वस्य सिद्धत्वाद्विषयतासम्बन्धावच्छिन्नात्मत्ववृत्त्यवच्छेदकताकभेदस्यात्मनि सत्त्वेन तत्सङ्ग्रहाय भेदप्रतियोगितावच्छेदकतायां समवायसम्बन्धावच्छिन्नत्वस्यावश्यकत्वेनोक्तबहुत्वस्यावारणादिति चेन्न । आत्मनिष्ठसमवायसम्बन्धावच्छिन्नप्रतियोगिताकात्यन्ताभावाप्रतियोगित्वस्यैव सकलात्मवृत्तित्वपदार्थत्वेन बहुत्वस्य वारणात् । स्वोत्पत्तिपूर्वक्षणे तदत्यन्ताभावस्याप्यात्मनि सत्त्वाद् ध्वंसप्रागभावयोरत्यन्ताभावविरोधात् ॥ नानाव्यक्तिनिष्ठमिति ॥ स्वप्रतियोगिवृत्तित्वस्वानुयोगिवृत्तित्वोभयसम्बन्धेन भेदविशिष्टमिति वा स्वव्यापकत्वसम्बन्धेन द्वित्वविशिष्टमिति वाऽर्थः । तेन द्वित्वाश्रयवृत्तित्वस्य वा भेदवद्वृत्तित्वस्य वा साध्यत्वे घटात्मद्वित्वादिकं घटादिभेदमात्मनिष्ठं चादायात्मैक्येऽप्यात्मत्वे साध्यसम्भवेन सिद्धसाधनमर्थान्तरता वेति निरस्तम् ॥ जातित्वादिति ॥ अनवच्छिन्नसमवायसम्बन्धावच्छिन्नप्रकारताशालित्वादित्यर्थः । न तु नित्यत्वे सत्यनेकसमवेतत्वादित्यर्थः । अनेकवृत्तित्वस्यैवेदानीं साध्यत्वेन हेतुशरीरेऽधिकप्रवेशेऽपि साध्यावैशिष्ट्यापरिहारात् । न च साध्यावैशिष्ट्यं पक्षे साध्यसन्देहदशायां हेतौ सन्दिग्धासिद्धत्वपर्यवसायि, तद्दोषं च जातित्वासिद्धेरिति स्वयमेव वक्ष्यतीति नेदानीं तदनुसन्धेयमिति वाच्यम् । आदावतिनिरभिप्रायकशङ्काया एवानुत्थानान् निश्चितासिद्धेरेव स्वमतमालम्ब्य उत्तरत्र वक्ष्यमाणतया सन्दिग्धासिद्धेरकथनाच्च । नापि जातित्वेन व्यवहारविषयत्वं तदर्थः । असदुत्तरेऽपि तथा तान्त्रिकाणां व्यवहारेण तत्र व्यभिचारानिस्तारात् । नापि मुख्यतया तथात्वम् । कोशाद्यभावेन जातिपदमत्र मुख्यं तत्रामुख्यमिति निर्णयायोगात् । नापि व्यक्त्यभेदादिबाधकषट्करहितत्वे सति धर्मत्वं तदर्थः । गगने व्यभिचारवारणाय धर्मत्वमितीति, गगनत्वादौ बाधकषट्कस्याप्यभावेन तत्र व्यभिचारात् । नापि बाधकाभावषट्कस्य हेतुत्वमात्मैक्यवादिन एकव्यक्तित्वाभावस्यासिद्ध्या तद्धटितषट्कस्याप्यसिद्ध्यनिस्तारात् ।
अस्मदुक्तार्थेऽन्त्यविशेषेषु स्वांशे तादात्म्येनानवच्छिन्नप्रकारताशालिषु घटरूपनिष्ठतद्व्यक्तित्वादीनामखण्डतया स्वरूपसम्बन्धे(संसर्गेण) स्वरूपतो भानपक्षे तेषु (च) व्यभिचारवारणाय प्रकारतायां समवायसम्बन्धावच्छिन्नत्वस्य निवेशः । उक्तहेतुश्च घट इत्यनुभवबलाद्घट इवात्मेत्यनुभवबलादात्मत्वे(बलादेवात्मत्वे) उक्तसाध्यसन्देहदशायामपि सिद्ध इति शङ्ककाभिमानः । समवायसंसर्गेण तदनुभवापलापेनोत्तरत्रासिद्धिरिति ध्येयम् ॥ आत्मन इति ॥ आत्मनो निर्गुणत्वेनेति पाठः । निर्गुणत्वमात्मनो व्यक्तिभेदस्य बाधितत्वे हेतुत्वेनोक्तम् । निर्गुणे परस्परव्यावर्तकधर्मरूपगुणाभावेन परस्परभेदो न घटते । अन्यथा घटः स्वस्माद्भिद्येतेति भावः । नानाव्यक्तिभेदस्य बाधितत्वेनेत्यत्र नानेति प्रामादिकं जातित्वानङ्गीकारात् । समवेतत्वानङ्गीकारात् । तद्रूपत्वादाविव तस्य समवायावच्छिन्नानवच्छिन्नप्रकारता न सिद्धेति भावः ॥ आत्मप्रतियोगिकेति ॥ व्यासज्यवृत्तिधर्मावच्छिन्नभेदस्तदाश्रये नास्तीति प्रतियोग्यवृत्तित्वं वा भेदे विशेषणं देयम् । अतस्तादृशं घटत्मोभयभेदमादाय न सिद्धसाधनतेति भावः ॥ घटवदिति ॥ आत्मन्यात्मभेदसाधनवेलायां तन्मात्रे विवादो नान्यत्रातो घटवदिति दृष्टान्तसङ्गतिः । अन्यथा सिद्धान्तग्रन्थस्थानामनुमानानां प्रायशो भेदघटितत्वादनुत्थितिरिति भावः । गुणाश्रयत्वरूपद्रव्यत्वस्य तज्ज्ञाप्यद्रव्यत्वस्य चासिद्धिरिति भावः । विकल्पपूर्वकमुभयविधद्रव्यत्वरूपहेतुदूषणपरत्वादेतत्फक्किकास्थलक्षणपदं स्वरूपज्ञापकोभयार्थ(क)त्वेनापि योज्यम् ॥ सुखमिति ॥ अत्र नानाव्यक्तित्वरूपयथाश्रुतसाध्यस्य पूर्वोक्तरीत्या सिद्धसाधनतावारणाय पूर्वोक्तनिष्कर्षकरणे कस्मिंश्चिदपि रूपे सुखे चाभावेन दृष्टान्तासिद्धिर्बाधश्च स्यातामिति न शङ्क्यम् । जगति नीलपीतादय एकैकाः सामग्रीबलात् तत्तद्व्यक्तिषु सम्बध्यन्ते वियुज्यन्ते च, तन्न्यायः सुखादावपीति मतमाश्रित्यैतदनुमानप्रवृत्तिः ।
यद्वाऽत्र नानावृत्तित्वं नाम यत्किञ्चिद्द्वित्वव्यापकतावच्छेदकगुणत्वन्यूनवृत्तिजातिमत्त्वरूपं सुखत्वजातिमादाय सुखे साध्यमुपपादनीयम् । रूपे च रूपत्वमादायेदं चात्मभेदं विना न पर्यवस्यतीत्यात्मभेदसिद्धिः । गुणत्वसत्ते आदाय सिद्धसाधनतावारणाय गुणत्वन्यूनवृत्तीति ।
लाघवमनुसृत्यानुमानान्तरमाह – सुखत्वमिति ॥ स्वसमवायिसमवेतत्वसम्बन्धेन यत्किञ्चिद्द्वित्वव्यापकमित्यर्थः साध्यपदस्यातो न कश्चित्क्षुद्रोपद्रवः । मनस्त्वे व्यभिचारवारणाय गुणनिष्ठेति । जातिपदं समवेतमात्रार्थकम् ॥ तदन्यत्वेनेति ॥ आद्यानुमाने शब्दान्यत्वेन द्वितीयानुमाने शब्दत्वादन्यत्वेनेत्यर्थः । यद्यप्येवमपि कत्वादिनिष्ठव्यभिचारो दुर्वारस्तथाऽपि शब्दवृत्तिभिन्नत्वे तात्पर्यान्न कश्चिद्दोषः । शब्दान्यगुणसमवेतत्वादिति पर्यवसितो हेतुरितरांशस्य वैय्यर्थ्यात् । किमन्तःकरणरूपं सुखं पक्ष उतात्मरूपं सुखमिति स्वमते विकल्पं हृदि कृत्वा क्रमाद्दूषयति – सुखमिति ॥ गुणत्वेनानेनासिद्धेरिति ॥ गुणत्वप्रकारकसिद्ध्यविषयत्वादित्यर्थः । तथा च गुणत्वरूपहेतुस्तत्रासिद्ध इति भावः । तस्यागुणत्वेनासिद्धेरिति पाठः सुगमः ।
॥ चैत्रशरीरमिति ॥ ननु चेतनस्यैव किञ्चित्स्वामित्वेन चैतन्यैक्यवादिनां चैत्रशरीरस्वामिभिन्नस्वामिघटितसाध्याप्रसिद्धिः । न च व्यावहारिकभेदमादाय तत्प्रसिद्धिरिति वाच्यम् । हन्त तर्हि तत एव सिद्धसाधनतापत्तिः । तद्वारणाय भेदे पारमार्थिकत्वविशेषणदाने पुनरप्रसिद्धविशेषणतेति चेन्न । चैत्रमैत्रपिण्डयोर्भेददर्शनेऽप्यन्तर्गतचेतनानां भेदादर्शनेन तत्र पारमार्थिकत्वाविशेषितभेदमात्रे विवादवेलायामुक्तानुमानप्रवृत्तेर्न पारमार्थिकत्वघटनाप्रयुक्तसाध्या(प्र)सिद्धिः । न च तथाप्यप्रसिद्धविशेषणतोक्तेति वाच्यम् । स्वभिन्नस्वामिकत्वसम्बन्धेन मैत्रशरीरस्वामिन एव साध्यत्वात्सम्बन्धकोटौ स्वत्वस्य परिचायकतया भिन्नस्वामिकत्वमात्रस्य घटादिसम्बन्धतया प्रसिद्धत्वात् ॥ तद्विरुद्धचेष्टावत्त्वादिति ॥ तच्चेष्टाविरुद्धचेष्टावत्त्वादिति तदर्थः । नन्वत्र विरुद्धत्वं तदधिकरणावृत्तित्वम् । चैत्रीयबाल्ययौवनकालीनयोः शरीरयोः परस्परं भिन्नत्वेन परस्परविरुद्धचेष्टावत्त्वादुक्तसाध्याभावाद्व्यभिचारः । परिणामवादमवलम्ब्य तयोरभेदाङ्गीकारेऽपि पूर्वापरजन्मीयशरीराण्यादाय व्यभिचारः । चैत्रशरीरत्वरूप सामान्यधर्मपुरस्कारेण हेतुशरीरघटकत्वे चिदैक्यवादिनां चैत्रशरीरस्यापि मैत्रशरीरत्वेन तद्धटितहेत्वसिद्ध्यापत्तेः । तदतिरिक्तं तु प्रकृतोपयोगि न निर्वचनार्हम् । किञ्च तद्देहावृत्तिमत्त्वमात्रं हेतुरस्तु । व्यभिचारस्तु न शङ्कार्हः । चेष्टात्वेन तस्या निवेशेऽपि व्यभिचारस्य वक्ष्यमाणत्वात् तस्येदानीमननुसन्धेयत्वादिति चेन्न । मैत्रशरीरस्य परिदृश्यमानशरीरत्वेनैव निवेशो न तु सामान्यरूपेणातो न प्रतिवाद्यसिद्धिः । परिदृश्यमानशरीरचेष्टाकाल एव तदधिकरणावृत्तिचेष्टावत्त्वं हेतुस्ततो न पूर्वजन्मशरीरबाल्यशरीरयौवनावस्थापन्नशरीरा ण्यादाय व्यभिचारः । अयोगिन एव मैत्रस्य हेतुशरीरनिविष्टत्वाद्योग्यवस्थापन्नतदीयैककालिकशरीरद्वयक्रियोपादानेन न व्यभिचारः ।
चेष्टात्वेनानिवेशे तद्वृत्तिधर्माधिकरणवृत्तिधर्मत्वेन निवेशेऽसिद्धिः । तच्छरीर(वृत्ति)प्रमेयत्वगगनाभावाद्याश्रयत्वस्य चैत्रशरीरे सत्त्वाच्चैत्रशरीरक्रियायास्तत्र सत्त्वात् । तदवृत्तिमात्रस्य हेतुत्वे मैत्रशरीरावृत्तिरूपादिशालिषु बहुषु मैत्रवसनादिषु स्फुटतरव्यभिचारवतो हेतूकरणायोगेन चेष्टात्वेन तन्निवेशः । तथात्वे शरीरद्वारा प्रयत्नसाध्यक्रियास्वेव तादृशचेष्टात्वं वर्तते । ताश्च शरीरातिरिक्तेषु न सन्त्येव । शरीरान्तराणि तु पक्षतुल्यानीति न कुत्रापि व्यभिचार इति अनुमानप्रयोक्तुरभिप्रायः । तदवृत्तिचेष्टावत्त्वमात्रनिवेशे हेतुरप्रयोजकः स्यात् । एतच्छरीरक्रियाया अपि तदात्मना निष्पादयितुं शक्यत्वादित्याशङ्का स्यादतस्तत्काल एव तच्चेष्टाधिकरणावृत्तित्वरूपविरोधस्य हेतुभूतचेष्टायां निवेशः । विरुद्धक्रिययोरेकदैकप्रयत्नेनोत्पादायोगादात्मनि युगपज्जीवनयोनियत्नं विना विशेषगुणद्वयानुत्पादे तत्क्रियानुकूलप्रयत्नाश्रयोऽन्यो जीवात्मा सिध्यति । ईश्वरप्रयत्नस्य साधारण्यान्न तमादाय पर्यवस्यत्यतो न जीवभेदरूपोद्देश्यासिद्धिरित्यनुमानं कर्तुं हृदयम् । भवतु भवदभिमतशरीरक्रियैव तथाऽपि सा केन रूपेण हेतुशरीरे निवेश्यते । वैजात्येन तन्निवेशे मानाभावः । क्रियात्वेन निवेशे च यत्किञ्चित्क्रियाविरुद्धक्रियावत्त्वं यत्र तत्स्वामिभिन्नस्वामिकत्वं तत्रेति सामान्यव्याप्तिः प्रकृतेऽभिमता । अथवा मैत्रशरीरवृत्तिक्रियाविरुद्धक्रियावत्त्वं यत्र तत्र तत्स्वामिभिन्नस्वामिकत्वमिति विशेषव्याप्तिः । नोभयमपि सम्भवति व्यैचारादित्याह ॥ अत्रेति ॥ व्यभिचारमुपपादयति – सकलैकेति ॥ सकलस्य एकस्वामी ययोरिति विग्रहः । एकपदं मुख्यस्वामिपरम् । तथा चेश्वरमात्रस्वामिकतया मतद्वयसिद्धयोरित्यर्थः पर्यवस्यति । न च विशेषव्याप्तौ कथं व्यभिचारस्तत्रेति वाच्यम् । परमते सर्वं प्रत्यप्येकजीवस्यैव स्वामित्वाद् भिन्नस्वामिनः कस्याप्यभावाद् व्यभिचारज्ञानाभावः । नन्वप्रसिद्धविशेषणतावारणाय स्वभिन्न स्वामिकत्वसम्बन्धेन मैत्रशरीरस्वामिनः साध्यत्वाङ्गीकारान्न विशेषव्याप्तौ व्यभिचार ईश्वररूपस्वामिनमादाय साध्योपपादनसम्भवादिति चेन्न । परस्यैकजीववादिनो मते ईश्वरस्यापि स्वप्नदृष्टराजादिवत्स्वरूपत एव कल्पितत्वेन तन्मतरीत्यैव विशेषव्याप्तौ व्यभिचारस्याभिमतत्वात् । दृष्टान्ताभावस्तु परमतरीत्या क्रियात्वेन निवेशात् सामान्यव्याप्तौ विशेषव्याप्तौ वा शरीरवृत्तिक्रियात्वेन निवेशे वा दुरुद्धर एव । स्वमते च यथाकथञ्चिदीश्वररूपस्वामिनमादाय दृष्टान्तः सम्भवतीत्याशयेनैतदनुमानस्य शङ्काविषयता सम्भवति । अन्यथा स्वमतेऽपि कथमपि दृष्टान्तरहितस्य निर्दलतया शङ्काऽनर्हतैव स्यात् । तर्हीश्वररूपस्वामिनमादाय सिद्धसाधनताकवलितत्वात्कथमस्य शङ्कागोचरत्वमिति वाच्यम् । विरुद्धचेष्टा(द्वय)जनकासाधारणप्रयत्नयोर्युगपदेकात्मन्युत्पत्त्यसम्भवरूपात्पूर्वोक्तरीत्येतरबाधरूपपक्षधर्मताबलाज्जीवमादाय पर्यवस्यति । अतो जीवमादाय नोद्देश्यासिद्धिरित्याशयाच्छरीरक्रियात्वेन हेतुत्वेऽपीश्वररूपस्वामिनमादाय वा चैत्रशरीरमात्रस्य पक्षतावेलायां डित्थादिशरीरेषु साध्यं सूपपादमित्याशयेन वाऽनुमानस्य शङ्कापथारोहितत्वम् । वादिना त्वीश्वरानङ्गीकाराच्छरीरान्तरेष्वप्युक्तसाध्यनिश्चये बीजाभावाच्च दृष्टान्ताभावः स्थिर एवेत्याशयेन तस्यैव दृष्टान्ततया कथनमिति न कोऽपि दोषः । न चैवमनुमानशङ्ककस्य साध्यप्रसिद्धावपि स्वरीत्या भ्रमसम्भवेन यथाश्रुतसाध्यनिर्देशसम्भवात्तत्र भवदुक्तसाध्यपरिष्कारोऽकिञ्चित्कर इति वाच्यम् । स्फुटतरप्रतिज्ञादोषं प्रथममेव वक्तव्यं विहाय व्यभिचारादिकथनस्यात्यन्तसन्दर्भविरुद्धत्वेन साध्यस्यास्मदुक्तपर्यवसानपर्यन्तं ग्रन्थकाराभिमतत्वात् । अथवाऽनुमाने ईश्वरे सिद्धसाधनतावारणाय स्वामिपदेन स्वनिष्ठस्वत्वनिरूपकत्वप्रयुक्तसुखदुःखान्यतरवत्त्वरूपस्वामित्वावच्छिन्नमेव साध्ये तत्सम्बन्धे च घटकं दृष्टान्तासिद्धिस्तु शरीरान्तरेषु जीवान्तरं वर्तत इति स्वमतमात्रावलम्बनत्वभ्रमेण । तथात्वे चेश्वरमात्रनियम्यघटादौ स्वमते(ऽपि) विशेषव्याप्तेर्व्यभिचारो द्रष्टव्यः । अथवाऽप्रसिद्धविशेषणतावारणाय चैत्रशरीरे स्वस्वामिकत्वरूपपक्षविशेषणमुपादाय मैत्रशरीरस्वामिनिष्ठस्वामितानिरूपकत्वाभाव एव साध्यः । पक्षे साध्यं च निविष्टं स्वामित्वमीश्वरव्यावृत्तमुक्तरूपं ग्राह्यम् । ईश्वरस्वामिकत्वेन पर्यवसानवारणाय बाधवारणाय च पक्षे तद्विशेषणानुपादाने निःस्वामिकत्वेन पर्यवसानापत्त्याऽर्थान्तरता स्यादतस्तन्निवेशः । ग्रन्थोक्तसाध्यं तूक्तरीत्या पक्षविशेषणज्ञानरूपसामान्यज्ञान सहकृतेतरविशेषबाधग्रहात्मकपरामर्शाधीनानुमितिविषयसाध्यपर्यवसानमादाय । उक्तं चैतत्प्रत्यक्षमणौ `बहुसाध्यकानुमाने वह्निव्याप्यवद्विशेष्यकत्वावच्छिन्नवह्नित्वप्रकारकव्यापकदाहाजनकत्ववद्विशेष्यकत्वावच्छिन्नवह्नित्वप्रकारकत्वस्य बाधग्रहरूपा वह्नित्वाभाववत्पुरोवृत्तिविशेष्यकत्वावच्छिन्नवह्नित्वप्रकारकत्वाभावस्य व्यतिरेकिमुद्रयाऽनुमितिसामग्रीव्यापकत्वावच्छेदकत्वेनागृहीतेनापि वह्नित्ववद्विशेष्यकत्वावच्छिन्नवह्नित्वप्रकारकत्वेन प्रामाण्यं गृह्णाति । एकविशेषबाधग्रहसहितसामान्यानुमितिसामग्र्या अपरविशेषानुमितिजननेन स यथा सिध्यति तद्वत्सामान्यवत्ताज्ञानसहितैकविशेषाभावानुमितिसामग्र्या अपि व्यापकत्वेनागृहीतोऽप्यपरविशेषः सिध्यति । विशेषान्तरसंशयानुत्पादस्योभयस्थलेऽप्यनुभवसिद्धत्वा’दिति । इदं च दीधित्याद्युक्तं सर्वमनूदितं ज्ञेयम् । इत्थं च चैत्रशरीरवच्छरीरान्तरेऽपि विप्रतिपत्तिसम्भवात्तेषां दृष्टान्तत्वायोगेन चेष्टापदेन किं क्रियामात्रं विवक्ष्यते । तथात्वे चारण्यस्थानानां मैत्राद्यस्वामिकानामद्वैतमतेऽपि दृष्टान्तत्वासम्भवात् । किं वा शरीरवृत्तित्वं विशेषणं निवेश्य वेति विकल्पौ हृदि निधायाद्ये सामान्यव्याप्तौ विशेषव्याप्तौ च चैत्रमैत्रादिस्वामिकघटपटादाविव व्यभिचारः स्वमतेनैकजीववादिनोक्तः सकलैकस्वामिकयोरिति । तत्र हेतुगर्भविशेषणमनुमानदूषकेण दत्तमनुमानप्रयोक्तृमतेनापि सामान्यव्याप्तावीश्वरैकस्वामिकघटादौ व्यभिचारस्तन्निरूपितदुःखित्वघटितोक्तसाध्य(शरीर)निविष्टस्वामितावतोऽप्रसिद्धेः । विशेषव्याप्तौ च मैत्रशरीरक्रियाविरुद्धक्रियावति मैत्रस्वामिके घट एव व्यभिचार उक्तवाक्येनोपपादितप्राय एव । द्वितीयकल्पानुसरणे च शरीरवृत्तिक्रियायाः शरीरातिरिक्तेष्वभावादितरशरीराणां पक्षतुल्यत्वान्न व्यभिचारः किन्तु दृष्टान्तासिद्धिः । क्रियामात्रनिवेशे च व्यभिचार एव न दृष्टान्तासिद्धिरिति न पूर्वोत्तरग्रन्थसन्दर्भविरोध इति ॥ शरीरत्वेनेति ॥ शरीरत्वे सतीति हेतुविशेषण इत्यर्थः । विशेष्यांशानुपादाने मैत्रशरीर एव व्यभिचार इति भावः । क्वचित्पुस्तके एकस्वामिकयोरिति पाठो दृश्यते । स च सुगमः ।
॥ विमताविति ॥ ननूभयोर्भेदसिद्धेः प्राक् कथं द्वित्वेन पक्षता ? प्रतिवादिनः पक्षाप्रसिद्ध्यापातादिति चेन्न । (चैत्र)मैत्रशरीरवृत्तिद्वित्वस्य प्रत्यक्षसिद्धत्वेन स्वाश्रयावच्छिन्नभोगवत्त्वसम्बन्धेन पक्षतावच्छेदकत्वानुसरणात् । तस्य चोभयशरीरावच्छेदेनैक एवात्मेति मतेऽपि बाधितत्वाभावात् ॥ विरुद्धेति ॥ विरुद्धत्वं च नैकाधिकरणावृत्तित्वं भेदसिद्धेः प्राक् हेतोरुभयसिद्धत्वानुपपत्तेः । किन्तु परस्पराभावात्मकत्वं परस्पराभावव्याप्यत्वं वा । तच्च सुखविशेषतदभावदुःखादीनां लौकिकप्रतीतिबलात्परेणाप्यङ्गीकृतम् । अन्यथा (सर्व)लौकिकव्यवहारोच्छेदप्रसङ्गात् । तस्य च नासिद्धिर्मतद्वयेऽपीति भावः ॥ अपारमार्थिकेति ॥ पारमार्थिकत्वविशेषणं परित्यज्य भेदत्वसामान्यरूपेण साध्यत्वे व्यावहारिकत्वघटितरूपेण साध्यत्वे चेत्यर्थः । भेदसाधकसकलानुमानसाधारण्यज्ञापनायानुमानदूषणावसान एव (तद्)दूषणोक्तिरिति ध्येयम् । न चैवं सति पूर्वानुमाने साध्यपरिष्कारस्यात्रानुमाने पक्षपरिष्कारस्य भवत्कृतस्य वैय्यर्थ्यमुक्तदूषणा(न)नुसन्धानेनैवापाततस्तदुक्तिसम्भवादिति वाच्यम् । तथा सति पूर्वानुमाने साध्यप्रसिद्धिमात्रेणानुमाने पक्षप्रसिद्धिमात्रेण कृतार्थतयाऽनुमानप्रवृत्तेरेव वैय्यर्थ्यापत्त्योक्तरीत्या परिष्कारस्यावश्यकत्वात् । तदुत्तरं त्वन्तःकरण एव दुःखादिसत्त्वान्निर्धर्मिकात्मनि हेत्वसिद्धि(रिति)दूषणस्यैकजीववादबहुजीववादोभयरीत्या स्फुटत्वात्तदनुक्त्वा बहुजीववादमतेनेदं दूषणम् । चेतनभेदजडभेदसाधकसर्वानुमानसाधारणमुच्यते । कथञ्चिच्चेतनभेदसाधनमात्रेण तन्मात्रविषये एकजीववादनिरासेऽपि न भवदभिमतविश्वभिन्नत्वसिद्धिरिति ज्ञापनायेति सर्वं समञ्जसम् ।
(३)काशीतिम्मण्णाचार्य
यद्यप्याद्यपद्योक्तमीश्वरधर्मिकविश्वप्रतियोगिकभेदसाधकानुमानमेवादौ प्रतिक्षेप्यम् । तथापि सामान्यतश्चेतनभेदसाधकानुमानस्याऽभासत्वे विशेषतस्तत्साधकस्य सुतरामाभासत्वमित्येतत्सूचनाय सामान्यतश्चेतनभेदसाधकानुमानानि तावद्दूषयति – आत्मत्वमिति ॥ आत्मपदप्रवृत्तिनिमित्तमित्यर्थः । तेनात्मत्वस्य जातिरूपस्य पक्षत्वे पक्षाप्रसिद्धिः । तद्व्यक्तित्वरूपस्य तथात्वे च बाध इति शङ्कानवकाशः ॥ नानाव्यक्तिनिष्ठमिति ॥ अनेकसमवेतमित्यर्थः । स्वाश्रयप्रतियोगिकभेदवद्वृत्तीति यावत् । न चैवमात्मत्वस्यात्मघटोभयसमवेतत्वसिद्ध्याऽर्थान्तरमिति वाच्यम् । आत्मत्वे घटादिसमवेतत्वस्य बाधितत्वेनासिद्धेः । सिद्धौ वाऽत्मत्वाश्रयनानात्वसिद्ध्योद्देश्यसिद्धेः । एतच्च तार्किकरीत्या । सिद्धान्ते जातेरननुगतत्वादिति ध्येयम् ।
वस्तुतो निरुक्तभेदवद्वृत्तित्वं तादृशभेदवद्वृत्तिभेदप्रतियोगितायां स्वरूपतोऽनवच्छेदकत्वम् । आत्मत्वस्य च प्रतिव्यक्ति भिन्नत्वेऽप्ययमात्मा नात्मेत्यादिप्रतीत्यभावेन स्वरूपतस्तत्तदात्मवृत्तिभेदप्रतियोगितानवच्छेदकत्वान्न दोषः । स्वरूपत इति विशेषणात्तत्तद्व्यक्तित्वेनात्मत्वस्यात्मान्तरवृत्तिभेदप्रतियोगितावच्छेदकत्वेऽपि न क्षतिः । एवमग्रेऽप्यूह्यम् । हेतूकृतं जातित्वं च न नित्यानेकसमवेतत्वम् । नित्यत्ववैयर्थ्यात् । साध्याविशिष्टत्वाच्च । किं त्वखण्डोपाधिर्जातिपदवाच्यत्वं वेति ध्येयम् ॥ इत्यस्यासिद्धेरिति ॥ इति न्यायप्रतिपाद्यहेतोरसिद्धेरित्यर्थः । व्यक्तिभेदस्य स्वाभाविकात्मभेदस्य । गगनत्वादेर्जातित्ववारणाय स्वाभाविकव्यक्तिभेदस्य जातिनियामकत्वादिति भावः । इदमुपलक्षणम् । साध्यशरीरे पारमार्थिकत्वविशेषितभेदनिवेशे साध्याप्रसिद्धिः । तदविशेषितभेदनिवेशे चापारमार्थिकभेदमादाय सिद्धसाधनमित्यपि बोध्यम् ।
॥आत्मेति॥ अत्र घटादिभेदसिद्ध्याऽर्थान्तरवारणायाऽत्यमप्रतियोगि केति । आत्मत्वव्याप्यरूपावच्छिन्नप्रतियोगिताकेत्यर्थः । तेनात्मघटोभयभेदमादाय नार्थान्तरम् । आत्मप्रतियोगिकप्रतियोग्यवृत्तिभेदः साध्य इत्यप्याहुः । यद्यप्यत्र प्रमेयत्वादेरपि हेतुत्वं सम्भवति । तथापि तद्धेतुकानुमानस्य द्रव्याद्रव्यसाधारणबहुतरभूयोदर्शनाधीनतया न सुकरत्वमित्याशयेन द्रव्यत्वस्यैव हेतुत्वमनुसृतम् । द्रव्यत्वस्य जातित्वे विवादाद् गुणाश्रयत्वलक्षणेत्युक्तम् । गुणाश्रयत्वस्याश्रयत्वापेक्षया गुरुतया हेतुत्वानङ्गीकारे तु आश्रयतया गुणस्यैव हेतुत्वं बोध्यम् । गुणाश्रयत्वं लक्षणमभिञ्जकं यस्येत्यर्थाद्द्रव्यत्वजातेरेव हेतुत्वमित्यपि वदन्ति ॥ अनङ्गीकारादिति ॥ यद्यपि स्वभावतो निर्गुणस्याप्यारोपितगुणाश्रयत्वान्नासिद्धिः । आरोपितधूमवत्त्वस्यैवाग्निसाधकत्वाभ्युपगमात् । तथापि सिद्धसाधनतावारणाय पारमार्थिकभेदस्यैव साध्यतया आरोपितगुणाश्रयत्वस्याप्रयोजकतया तदपि पारमार्थिकमेव वाच्यमित्यसिद्धिरिति भावः ।
॥ सुखं नानाव्यक्त्याश्रितमिति॥ यद्यपि रूपादेः प्रत्येकं नानाव्यक्त्याश्रितत्वाभावाद् दृष्टान्ते साध्यवैकल्यम् । संयोगादेर्दृष्टान्तत्वसम्भवेऽपि रूपादावनैकान्त्यम् । तथापि जात्या नानाव्यक्त्याश्रितत्वस्य स्वाश्रयाश्रयनिष्ठभेदप्रतियोगितावच्छेदकवृत्तिगुणत्वव्याप्यजातिमत्त्वरूपस्य साध्यत्वान्न दोषः । रूपत्वादेः स्वाश्रयनीलघटादिनिष्ठभेदप्रतियोगितावच्छेदकपीतरूपवृत्तेर्दृष्टान्ते सत्त्वात् । पक्षे च सुखत्वमादाय साध्यपर्यवसाने तदाश्रयाश्रयाणामात्मनां भेदसिद्धिः । गुणत्वादिजातिमादायार्थान्तरवारणाय गुणत्वव्याप्येति । न च गुणत्वस्यापि गुणत्वाभाववदवृत्तितया गुणत्वव्याप्यत्वादर्थान्तरतादवस्थ्यमिति वाच्यम् । गुणत्वव्याप्येत्यनेन गुणत्वन्यूनवृत्तित्वस्य गुणनिष्ठभेदप्रतियोगितावच्छेदकत्वपर्यवसितस्य विवक्षितत्वात् । सुखत्वादेर्गन्धादिगुणनिष्ठभेदप्रतियोगितावच्छेदकत्वेन गुणत्वव्याप्यत्वादिति न कश्चिद्दोषः ।
एतत्पक्षे साध्यगौरवादाह – सुखत्वं वेति ॥ नानेत्यादेः स्वाश्रयाश्रयनिष्ठभेदप्रतियोगितावच्छेदकवृत्तीत्यर्थः । तेन नानाव्यक्त्याश्रितं यत्संयोगादिकं तदाश्रितत्वस्य रूपत्वादावभावेऽपि न पूर्ववद्देषः । जातित्वमात्रस्य मनस्त्वादौ व्यभिचारित्वाद्गुणनिष्ठेति । तावन्मात्रस्य तद्रूपत्वादौ व्यभिचारित्वाज्जातीति । गुणसमवेतत्वोक्तौ तु तल्लाभायैवजातिपदमित्यवधेयम् ॥ व्यभिचार इति ॥ शब्दाश्रयीभूतगगनस्यैकत्वेन शब्दे प्रथमसाध्यस्य, शब्दत्वे च द्वितीयसाध्यस्याभावादिति भावः । मीमांसकमतेनाह – तस्येति ॥ शब्दस्येत्यर्थः । तथाच शब्दे शब्दत्वे वा हेत्वभावादेव न व्यभिचार इति भावः । नैयायिकनयेऽप्याह – अद्रव्यत्व
पक्ष इति ॥ तदन्यत्वेनेति ॥ प्रथमे शब्दान्यत्वेन द्वितीये शब्दत्वान्यत्वेन चेत्यर्थः । न च द्वितीये कत्वादिजातौ व्यभिचारः । तत्कल्पे तदन्यत्वपदेन तद्वदवृत्तित्वस्य विवक्षित्वात् । कत्वाद्यन्यत्वेनापि हेतुर्विशेषणीय इत्य
प्याहुः । वस्तुतः कल्पद्वयेऽपि तदन्यत्वेनेत्यस्य शब्दान्यत्वेनेत्येवार्थः । हेतुविशेषणादित्यस्य हेतुघटकगुणविशेषणत्वादित्यर्थकतया शब्दमात्रवृत्तिशब्दत्वादेः शब्दान्यगुणवृत्तित्वाभावान्नोक्तदोष इति भावः ।
अत्र वृत्तिसुखत्वं स्वरूपसुखत्वं वा पक्षतावच्छेदकम् । उभयानुगतसुखत्वजातेर्द्रव्यत्वादिना सङ्करेणासम्भवादिति भावेनाद्यं दूषयति – सुखदुःखादीनामिति ॥ वृत्त्यात्मकेत्यादिः । अत्र सुखस्यैव प्रकृतत्वेऽपि दुःखादिग्रहणं दुःखेच्छादिपक्षकानुमानान्तराणामपि निराससूचनाय ॥ अन्तःकरणाश्रितत्वादिति ॥ तेषामन्तःकरणपरिणामत्वादिति भावः ॥ सिद्धसाधनत्वादिति ॥ यद्यपि सुखदुःखादीनामात्माश्रितत्वपक्षेऽप्यनिर्वचनीयात्मभेदमादाय सिद्धसाधनत्वं सम्भवत्येव । पारमार्थिकत्वेन भेदविशेषणे च साध्याप्रसिद्धेः । अन्तःकरणाश्रितत्वपक्षे सिद्धसाधनानुपपत्तेश्च । तद्भेदस्याप्यपारमार्थिकत्वात् । तथापि वस्तुगतिमनुरुद्ध्यैवान्तःकरणाश्रितत्वमुक्तम् । वस्तुतो वक्ष्यमाणरीत्या धर्मिसत्तासमसत्ताकभेदस्य साध्यशरीरघटकतायामात्माश्रितत्वपक्षे सिद्धसाधनानवकाशादन्तःकरणाश्रितत्वपक्ष एव तदुक्तिः । द्वितीयपक्षं दूषयति – स्वरूपेति ॥ आत्मस्वरूपेत्यर्थः । द्रव्यसमवेतस्यैव गुणत्वेन स्वरूपसुखस्यातथात्वात् स्वरूपासिद्धिरिति भावः । सिद्धान्ते तु तस्य स्वरूपत्वेऽप्यात्मविशेषतया गुणत्वमस्त्येवेति ध्येयम् ।
॥ चैत्रशरीरमिति ॥ अत्र तत्स्वामित्वं न तदवच्छिन्नभोगभोक्तृत्वम् । एकस्वामिकयोर्घटपटयोरित्यग्रिमग्रन्थविरोधात् । घटाद्यवच्छिन्नभोगाप्रसिद्धेः । किन्तु स्वस्वामिभावव्यवहारनियामकस् तत्सत्तानियामकत्वादिलक्षणो धर्मविशेषः ।
यद्यपि तत्स्वामिभिन्नस्वामिकत्वं परमतेऽप्रसिद्धम् । तथापि प्रसिद्धघटादिसाधारणस्य तत्स्वामिभिन्नत्वस्यैव साध्यतावच्छेदकत्वान्न दोषः । साध्यता च स्वस्वामिकत्वसम्बन्धेन । अतः फलतश्चैत्रमैत्रात्मनोर्भेद
सिद्धिः । घटादेस्तादृशसम्बन्धेन सिद्ध्ययोगात् ।
अत्र तद्विरुद्धचेष्टावत्त्वं तदवृत्तिक्रियावत्त्वं, तत्क्रियाविजातीयक्रियावत्त्वं वेति मन्वानो दूषयति – इत्यत्रेति ॥ एकस्वामिकयोरिति ॥ मैत्रस्वामिकयोरित्यर्थः । तथाच मैत्रशरीरविरुद्धचेष्टावति घटादौ तत्स्वामिभिन्नस्वामिकत्वाभावात्, यो यद्विरुद्धचेष्टाश्रयः स तत्स्वामिभिन्नस्वामिक इति सामान्यव्याप्तौ घटविरुद्धचेष्टावति पटादौ तत्स्वामिभिन्नस्वामिकत्वाभावादपि व्यभिचार इति भावः । ननु शरीरत्वे सति तद्विरुद्धचेष्टावत्त्वमेव हेतुः । अतो नोक्तव्यभिचार इत्यत आह – शरीरत्वेनेति ॥ शरीरत्वविशिष्टनिरुक्तचेष्टावत्त्वस्य हेतुत्वेऽपीत्यर्थः । यद्यपि साक्षात्प्रयत्नजन्यक्रियारूपचेष्टापदार्थविवक्षयैवोक्तदोषवारणसम्भवात् तादृशक्रियाश्रयत्वरूपशरीरत्वस्य पृथगुपादानमनुचितम् । न च शरीरत्वस्य जातित्वान्न गौरवमिति वाच्यम् । पृथिवीत्वादिना सङ्करात् । तथापि साङ्कर्यस्य जातिबाधकत्वानङ्गीकारे लाघवसम्भवाच्छरीरत्वं पृथगुपात्तम् ॥ दृष्टान्ताभाव इति ॥ तथाच व्याप्तिग्रहविरोधिव्यभिचारग्रहाभावेऽपि तत्कारणीभूतसहचारग्रहासम्भवेन व्याप्तिग्रहासम्भवान्नानुमानसम्भव इति भावः ।
विप्रतिपन्नाशेषभेदसाधकानुमानप्रकारमाशङ्कते – विमताविति ॥ भिन्नत्वाभिन्नत्वाभ्यां विप्रतिपन्नौ जीवेश्वरावित्यर्थः । अत्र द्वित्वमविव
क्षितम् । विमतत्वमात्रस्य पक्षतावच्छेदकत्वात् ॥ भिन्नाविति ॥ मिथो भिन्नावित्यर्थः । विमतत्वव्याप्यधर्मावच्छिन्नप्रतियोगिताकभेदवन्ताविति यावत् । विरुद्धधर्माधिकरणत्वात् परस्परवृत्त्यभावप्रतियोगिधर्मवत्त्वात् । विमतत्वसमानाधिकरणाभावप्रतियोगिधर्मवत्त्वादिति यावत् । अत्र यो यद्धर्मसमानाधिकरणाभावप्रतियोगिधर्मवान् स तद्धर्मव्याप्यधर्मावच्छिन्न प्रतियोगिताकभेदवानिति सामान्यव्याप्त्या दहनतुहिनोभयत्वाधिकरणदहनादिवृत्त्यभावप्रतियोगिशैत्यादिमत्तुहिनादेस्तदुभयत्वव्याप्यदहनत्वाद्यवच्छिन्नप्रतियोगिताकभेदवत्त्ववत् प्रकृतस्येश्वरादेरुक्तविमतत्वाधिकरणजीवादिवृत्त्यभावप्रतियोगिस्वातन्त्र्यादिमत्त्वेन तादृशविमतत्वव्याप्यजीवत्वाद्यवच्छिन्नप्रतियोगिताकभेदवत्त्वं सिद्ध्यतीत्याशयः ।
यद्वा, अयं तद्भिन्नस्तन्निष्ठाभावप्रतियोगिधर्मवत्त्वात् । स चैतद्भिन्न एतन्निष्ठाभावप्रतियोगिधर्मवत्त्वात् । यो यन्निष्ठाभावप्रतियोगिधर्मवान् स तद्भिन्नो दहननिष्ठाभावप्रतियोगिशैत्याधिकरणतुहिनवदिति समूहालम्बनानुमाने तात्पर्यम् । तेन जीवेश्वरोभयं पक्षीकृत्य भेदमात्रसाधने घटादिभेदमादायार्थान्तरं, परस्परभेदसाधनेऽपि तस्य प्रत्येकं जीवभेदादिरूपत्वादंशे बाधः, एवं जीवविरुद्धधर्मवत्त्वादेः प्रत्येकं भागासिद्धिः, पक्षदृष्टान्तयोः साध्यहेत्वननुगमश्चेत्यादिदोषानवकाशः ।
अत्र पारमार्थिकत्वविशेषितस्तदविशेषितो वा भेदः साध्यः । आद्ये दोषमाह – पारमार्थिकेति ॥ अन्त्ये दोषमाह – अपारमार्थिकेति ॥ पारमार्थिकत्वाविशेषितेत्यर्थः । न त्वपारमार्थिकत्वविशेषितेत्यर्थः । उभयाविशेषितभेदसाधनपक्षाप्रतिक्षेपेण न्यूनतापत्तेः । स चापरमार्थिकत्वविशेषितो न वेत्यन्यदेतत् । आत्मभेदसाधकानुमाननिराकरणमुपसंहरति ॥ तस्मादिति ॥ उक्तरीत्या भेदसाधकानुमानमात्रस्याभासत्वादित्यर्थः । भेदे जीवेश्वरभेदेऽनुमानं न प्रमाणमित्यर्थः ।
(३)शर्कराश्रीनिवासाचार्य
द्वितीयनिराकरणं प्रतिजानीते – नापीति ॥ जीवेश्वरभेद इति वर्तते तत्र तावदात्ममात्रभेदसाधकानुमानद्वयमनूद्य दूषयति – आत्मत्वमित्यादिना ॥ अत्रात्मत्वस्य नानव्याक्तिनिष्ठत्वमात्मनानात्वं विना न सम्भवतीत्यात्मभेदसिद्धिः ॥ असिद्धेरिति ॥ अन्यतरासिद्धेरित्यर्थः । तामेवोपपादयति – आत्मैक्यवादिनामिति ॥ मत इति शेषः । वादिनेति पाठे अनङ्गीकारादित्यन्वयः ॥ व्यक्तिभेदस्येति ॥ आत्माख्यव्यक्तौ भेदस्य नानात्वस्य प्रमाणबाधितत्वेनेत्यर्थः । आत्मनां भेदे ह्यनेकसमवेतत्वेनात्मत्वस्य जातित्वं स्यात् । भेदाभावे च व्यक्त्यभेदाख्यबाधकसद्भावादाकाशत्ववन्नात्मत्वं जातिरिति भावः ॥ निर्गुणस्येति ॥ `साक्षी चेता केवलो निर्गुणश्चे’ति श्रुतेरिति भावः ॥ गुणाश्रत्वलक्षणेति ॥ समवायिकारणत्वरूपं तु निर्विकारत्ववादिना नाङ्गीक्रियत इति भावः । आत्मभेदेऽनुमानद्वयमाशङ्कते – अथेत्यादिना ॥ अनुमानद्वये व्यभिचारमाशङ्क्य निराकरोति ॥ नचेति ॥ आकाशस्यैकत्वेन शब्दस्य नानाव्यक्त्याश्रितत्वं नास्तीति तत्राद्यानुमानस्य व्यभिचारात् । अत एव शब्दत्वस्य नानाव्यक्त्याश्रिताश्रितत्वाभावेन द्वितीयानुमानस्य तत्र व्यभिचार इत्यर्थः । मीमासकमतमवलम्ब्याह – तस्येति ॥ नैयायिकमतमवलम्ब्याह अद्रव्यत्वेति ॥ तदन्यत्वेनेति ॥ गुणत्वहेतौ शब्दभिन्नत्वे सतीति गुणनिष्ठजातित्वे शब्दत्वभिन्नत्वे सतीति विशेषणान्न व्यभिचार इत्यर्थः । किं प्राकृतसुखस्य नानाव्यक्त्याश्रितत्वं साध्यते उत स्वरूपसुखस्य । आद्ये दोषमाह – सुखदुःखादीनामिति ॥ `एतत्सर्वं मन एवे’ति श्रुतेरिति भावः । सुखमात्रपक्षीकारेऽप्यत्र दुःखादिग्रहणमुक्तरीत्या दुःखादिपक्षकानुमाननिरासार्थमिति ध्येयम् । द्वितीयमाशङ्क्य निराकरोति – स्वरूप
सुखेति ॥ स्वरूपसुखस्य गुणत्वे आत्मनस्सगुणत्वापत्त्या निर्गुणश्रुतिव्याकोपादिति भावः ॥ अन्योन्यजीवभेदेऽनुमानमाशङ्क्य दूषयति – चैत्रशरीरमिति ॥ मैत्रशरीरेति ॥ मैत्रशरीरस्वामी मैत्रस् तद्भिन्नो यस्तत्स्वामिकमित्यर्थः । अनेन चैत्रशरीरस्वामिनि चैत्रे मैत्रभेदः सिध्यति ॥ तद्विरुद्धेति ॥ मैत्रशरीरचेष्टाविरुद्धचेष्टेत्यर्थः । अत्र यद् यच्चेष्टाविरुद्धचेष्टाश्रयं तत् तत्स्वामिभिन्नस्वामिकं यथा पटचेष्टाविरुद्धचेष्टाश्रयो घटः पटस्वामिकुविन्दभिन्नकुलालस्वामिक इति सामान्यव्याप्तिर्द्रष्टव्या । व्यभिचारमुपपादयति – एकस्वामिकयोरपीति ॥ शरीरत्वेनेति ॥ भोगायतनत्वेनेत्यर्थः । दृष्टान्तासिद्धिः । दृष्टान्तस्यैवासिद्धिरित्यर्थः । दृष्टान्ताभावादित्यपि पाठः । जीवेश्वरभेदेऽनुमानमाशङ्कते – विमताविति ॥ पक्षे सर्वज्ञत्वाल्पज्ञत्वादिरूपविरुद्धधर्मो दृष्टान्ते तूष्णत्वशीतत्वरूपौ द्रष्टव्यौ । दहनो वह्निस् तुहिनं हिमम् । किमत्र पारमार्थिकभेदः साध्य उत व्यावहारिकः । आद्ये आह – पारमार्थिकेति ॥ साध्यत्वेनाभिमतस्य पारमार्थिकभेदरूपस्य धर्मिविशेषणस्य मन्मतेऽप्रसिद्धत्वादिति भावः । द्वितीय आह – व्यावहारिकेति ॥ व्यावहारिकभेदस्य मयाऽभ्युपगमादिति भावः । अनुमाननिराकरणमुपसंहरति ॥ तस्मादिति ॥ आत्मजीवभेद
इति ॥ परमात्मजीवभेदे जीवानामन्योन्यभेदे चेत्यर्थः ।