ननु कथं विष्ण्वाख्यस्य परब्रह्मणः स्वतश्चेतनाचेतनात्मकविश्वभिन्नत्वम्
(२)भेदोज्जीवनम्
(२) ननु कथं विष्ण्वाख्यस्य परब्रह्मणः स्वतश्चेतनाचेतनात्मकविश्वभिन्नत्वम् । भेदे प्रमाणाभावात् । तथा हि । न तावज्जीवेश्वरभेदे प्रत्यक्षं सम्भवति । ईश्वरधर्मिकस्येश्वरप्रतियोगिकस्य वा भेदस्येश्वराप्रत्यक्षत्वेनाप्रत्यक्षत्वात् ।
(२)भावप्रदीपः
यदर्थं विश्वतो विभिन्नत्वं विष्णोर्विशेषणमुक्तं तत्समर्थयितुमाक्षिपति – नन्वित्यादिना ॥ विश्वशब्देन चेतनाचेतनात्मकसर्वजगतो विवक्षितत्वाच्चेतनाचेतनात्मकेत्युक्तम् । एवं विष्णुशब्देन परब्रह्मण एव विवक्षितत्वाद्विष्ण्वाख्यस्य परब्रह्मण इत्युक्तमिति ध्येयम् । कुत एवमाक्षेप इत्यत आह – भेद इति ॥ विष्ण्वाख्यस्य ब्रह्मणो विश्वविभिन्नत्वाङ्गीकारे विश्वस्यापि ततो भेदोऽङ्गीकार्यः । न हि विष्णुर्विश्वभिन्नो विश्वं तु ततोऽभिन्नमिति सम्भवति । एवं चेतनाचेतनात्मकविश्वस्यापि मिथो भेदोऽङ्गीकार्यः । अन्यथा चेतनाचेतनात्मकेति निर्देशस्यैवानुपपत्तेः । एवमेव चेतनानामचेतनानां च परस्परभेदोऽप्यङ्गीकार्यः । अन्यथा समस्तवाचिविश्वशब्दोपादानवैय्यर्थ्यापातात् । तथा च चेतनाचेतनात्मकविश्वप्रतियोगिकविष्णुधर्मिकभेदे वा विश्वधर्मिकविष्णुप्रतियोगिकभेदे वा विश्वस्य परस्परभेदे वा चेतनानामचेतनानामपि परस्परभेदे वा प्रमाणाभावादित्यर्थः । अत एव कथं विश्वविभिन्नत्वमिति विष्णुधर्मिकभेदस्य प्रस्तुतत्वेऽपि सर्वभेदसङ्ग्रहार्थं पुनर्भेदग्रहणम्। अन्यथा तस्य वैय्यर्थ्यापत्तेरिति ध्येयम् । यद्याप्याद्यपद्ये स्वतन्त्रत्वप्रमुखैरित्यनुमानप्रमाणमुक्तम् । तथाऽपि तस्य प्रत्यक्षादिक्रमेणैव दूषणमभिधास्यन् शङ्कोत्थापनार्थमेव मुक्तिः । अभिधास्यति चैतद्दूषणं विमतौ भिन्नावित्यनुमानमाशङ्क्येति । एतदेव क्रमेणोपपादयति – तथा हीत्यादिना ॥ तावच्छब्दः क्रमार्थः । न तावज्जीवेश्वरभेदे न तावत्प्रत्यक्षमित्युभयत्रापि सम्बध्यते – जीवेश्वरभेद इति ॥ जीवादीश्वरस्य भेदे जीवस्येश्वराद्भेदे वेत्यर्थः । प्रत्यक्षं भवति । प्रमाणमिति शेषः । कुतस्तत्र प्रत्यक्षं प्रमाणं नेत्यत आह – ईश्वरधर्मिकस्येति ॥ जीवादीश्वरभेदस्येश्वराज्जीवभेदस्य वेत्यर्थः । भेदप्रत्यक्षे धर्मिप्रतियोगिनोरुभयोरपि प्रत्यक्षत्वं तन्त्रमिति भावः । एतेन विष्णोर्विश्वतो भिन्नत्वं कथमिति विष्णुधर्मिकभेदमात्रस्य शङ्कितत्वेन तत्प्रतियोगिकभेदे प्रमाणाभावकथनमसङ्गतमिति शङ्कानवकाश इति ध्येयम् । केचित्तु जीवेश्वरभेदे इत्येतज्जीवप्रतियोगिक ईश्वरभेदे इति व्याख्याय तर्हीश्वरप्रतियोगिकस्य वेत्यप्रस्तुतकथनं कुत इत्याशङ्क्य दृष्टान्तार्थं तदुक्तिरिति व्याचक्षते । तच्चिन्त्यम् । ईश्वरप्रतियोगिकभेदस्याप्युक्तरीत्या प्रस्तुतत्वसत्त्वात् । किञ्च विश्वविभिन्नत्वं विश्वप्रतियोगिकभेदवत्त्वं वा विश्वनिष्ठभेदप्रतियोगित्वं वा स्यात् । तदुभयमपि न सम्भवति । भेदद्वये प्रमाणाभावादित्याशयेन न तावज्जीवेश्वरभेद इत्वादिग्रन्थो यथाश्रुत एवास्त्विति यदत्र व्याख्यानान्तरं तदपि चिन्त्यम् । विश्वतो विभिन्न इत्युक्ते विश्वप्रतियोगिकभेदस्यैवावभासात् । विश्वनिष्ठभेदप्रतियोगित्वस्यानवभासादिति ।
(२)भेदचिन्तारत्नम्
पूर्वपक्षमुट्टङ्कयति – नन्विति ॥ परेण ब्रह्मण एव विश्वाभेदोक्तेर्विष्णुर्विभिन्न इति व्यधिकरणमित्यतो विष्ण्वाख्यस्येति – कथमिति ॥ किं भेदे प्रमाणादैक्ये प्रामाणाभावाद्वा । आद्ये प्रत्यक्षादनुमानादागमाद्वा । द्वितीये प्रत्यक्षाभावादनुमानाभावादागमाभावाद्वेत्यर्थः । चेतनाचेतनेति विश्वपदव्याख्यानम् । तदवान्तरभेदोपक्षेपसूचनार्थं चेतनाचेतनात्मकेति । अन्यथाऽवान्तरभेदभिन्नमित्येवावक्ष्यत् ॥ भिन्नत्वमिति ॥ भेदं प्रति धर्मित्वं प्रतियोगित्वं चेत्यर्थः । अत्र विप्रतिपत्तिः । ईश्वरत्वोपलक्षिता चिज् जीवत्वोपलक्षितचित्प्रतियोगिकधर्मिसत्तासमानसत्ताकानौपाधिककेवलभेदवती न वेत्यादिरूह्या ॥ ईश्वराप्रत्यक्षत्वेनेति ॥ ससम्वन्धिकपदार्थप्रत्यक्षे सम्बन्धिप्रत्यक्षं तन्त्रम् । अन्यथा वाय्वाकाशसंयोगस्य वा वायुघटसंयोगस्य वा प्रत्यक्षत्वापातः । अत्रापीश्वरेति शुद्धं ब्रह्मैव विवक्षितम् । ननु तत्त्वविद्भिः सगुणस्य साकारस्य भिन्नत्वमुच्यते । पराभिप्रेतं तु ब्रह्म निर्गुणमिति व्यधिकरणो विवाद इति चेन्न । यत्परस्य निर्गुणं तदेव तत्त्वतः सगुणः साकार ईश्वरो न ततोऽतिरिक्तः कश्चिदिति विशेषैक्येन सामानाधि
करण्यात् । एतेन जीवजडानामतीन्द्रियाणामनतीन्द्रियाणां चान्योन्यभेदे प्रत्यक्षं निरस्तम् । न च सर्वत्र योगिप्रत्यक्षं मानम् । तच्च `जुष्टं यदा पश्यति’ इत्यादिप्रसिद्धमिति वाच्यम् । आगमनिरासेनैव निरसिष्यमाणत्वात् ।
(२)भेदचन्द्रिका
विश्वभिन्नत्वनिर्वाहार्थमुत्तरग्रन्थ इति निर्वाहकत्वमेव सङ्गतिरित्याशयेन भगवतो विश्वभिन्नत्वमाक्षिपति – नन्वित्यादिना ॥ आक्षेपो न विष्णोः किन्तु भेदस्येत्याह – भेदे प्रमाणाभावादिति ॥ यद्यपि स्वतन्त्रत्वप्रमुखैर्निखिलैर्गुणैरिति प्रमाणमुक्तं तथाऽपि निर्गुणे ब्रह्मणि पक्षीकृते हेतूनां गुणानामसिद्धिः । सगुणपक्षीकारे औपाधिकभेदेनार्थान्तरतेत्यभिसन्धिनैवमुक्तिः । चेतनाचेतनात्मकविश्वभिन्नत्वे प्रमाणाभावं परिशेषेण साधयिष्यन् चेतनभेदे प्रत्यक्षं तावद्दूषयति – न तावदिति ॥ जीवेश्वरभेदे जीवप्रतियोगिकेश्वरभेदे ॥ ईश्वरधर्मिकस्येति ॥ जीवप्रतियोगिकस्येश्वरधर्मिकस्य भेदस्येश्वररूपधर्मिप्रत्यक्षाभावेनाप्रत्यक्षत्वादित्यन्वयः । ईश्वरप्रतियोगिकस्येति दृष्टान्तार्थो वा । वा इवार्थे । ततश्च जीवधर्मिकस्येश्वरप्रतियोगिकस्य भेदस्येश्वररूपप्रतियोगिप्रत्यक्षाभावेन जीवान्तररूपधर्मिप्रत्यक्षाभावेन च यथाऽप्रत्यक्षत्वं तथेत्यर्थः । अन्यथा तस्याप्रस्तुतत्वेन तत्र प्रमाणनिराकरणानौचित्यात् । यद्वा विश्वभिन्नत्वं विश्वप्रतियोगिकभेदवत्त्वं वा विश्वनिष्ठभेदप्रतियोगित्वं वा स्यात् । तदुभयमपि न सम्भवति । भेदद्वये प्रमाणाभावादित्याशयेन `न तावज्जीवेश्वरभेद’ इत्यादिग्रन्थो यथाश्रुत एव । अत्र वक्तव्यं परिहारावसरे वक्ष्यते ।
(२)भेदसञ्जीविनी
उक्तार्थं पूर्वपक्षनिरासादिना दृढीकर्तुमारभ्यते –नन्वित्यादिना ॥ विष्णोर्ब्रह्मत्वोत्कीर्तनं परैर्मायाशबलस्य कस्यचिद्विष्ण्वाख्यस्यास्मदादाविव निखिलप्रपञ्चतादात्म्यानङ्गीकारात्कथं तदभिप्रायेण पूर्वपक्षोत्थितिरिति शङ्कामपाकर्तुम् । विष्णुपदब्रह्मपदयोस्त्रिविधपरिच्छेदराहित्यरूपव्याप्तिवृद्ध्यर्थयोः (वृद्ध्यर्थकयोः) समानार्थत्वेन तयोरेकत्वात् तदुपरि पूर्वपक्षोत्थितिरिति भावः । उत्तरत्र चेतनाचेतनभेदयोर्विचारयिष्यमाणत्वात्तस्य विश्वपदार्थतया प्रसक्तत्वसूचनाय चेतनाचेतनात्मकमिति विश्वविशेषणम् – ईश्वरप्रतियोगिकस्येति ॥ भेदः संयोगादिवदुभयवृत्तिस्तद्धटकपदार्थ प्रतियोगिकस्तदनुयोगिकश्च भवति । इमौ संयुक्तावयमनेन संयुक्तोऽयमप्यनेन संयुक्त इति प्रतीतीनामिवेमौ भिन्नावयमस्माद्भिन्नोऽयं चास्माद्भिन्न इति प्रतीतीनामबाधितानां सत्त्वात् । एकस्यैव भेदस्य घटप्रतियोगिकत्वं तदनुयोगिकत्वं चाङ्गीक्रियते । घटः स्वस्माद्भिन्न इत्याद्यापत्तिश्च स्वप्रतियोगिकत्वविशिष्टभेदाधिकरणतायास्तादृशप्रतीतौ नियमेन भासमानायाः स्वस्मिन् बाधितत्वादेव न प्रसज्यते । घटः स्वेन संयुक्त इति प्रतीत्यापत्तिवदिति मतेनेदम् । अत एवैतन्मतावष्टम्भेनैव चन्द्रे भेदमाश्रित्य द्वौ चन्द्राविति प्रतीतिमुपपादयिष्यन्दृष्टान्ते साध्यवैकल्यं परिहरिष्यति । तथा चेश्वरप्रतियोगिकत्वेन प्रतीयमानस्य जगद् ईश्वराद्भिन्नमिति प्रतीतौ भासमानस्येश्वरो जीवादिप्रपञ्चाद्भिन्न इति प्रतीतौ भासमानस्य च भेदस्यैकत्वेनेश्वरधर्मिकत्वेनेश्वराप्रत्यक्षत्वेनाप्रत्यक्षत्वमेव । घटगगनसंयोगवत् सम्बन्धप्रत्यक्षे यावदाश्रयप्रत्यक्षस्य कारणत्वादिति भावः । एतेन पूर्वश्लोके जगत्प्रतियोगिकेश्वरभेदस्यैव प्रसक्तत्वेन तत्रैव विचारस्य प्रक्रान्तत्वेनेश्वरप्रतियोगिकभेदस्याप्रत्यक्षत्ववचनमसङ्गतम् । एवं प्रतियोग्यप्रत्यक्षत्वस्य भेदाप्रत्यक्षत्वसम्पादकत्वे स्तम्भः पिशाचो नेति भेदस्य प्रत्यक्षत्वानुपपत्तिरिति परास्तम् । पूर्वोक्तमते ईश्वरप्रतियोगिकस्यापि भेदस्येश्वरधर्मिकत्वाङ्गीकारेणाप्रसक्तविचाररूपत्वाभावादेतन्मते स्तम्भः पिशाचो नेति प्रतीतेरनुमितिशाब्दादिरूपत्वाभ्युपगमेन प्रत्यक्षरूपत्वानभ्युपगमाच्च । वाशब्दः समुच्चये ।
यद्वा, भेदो यत्प्रतियोगिकः नतद्वृत्तिः, किन्त्वनुयोगिमात्रवृत्तिरिति सर्वसिद्धिमतेनेदं वाक्यं प्रवृत्तम् ॥ तर्हीश्वर प्रतियोगिकभेदस्याप्रत्यक्षत्वोपपादनस्य कथमुपयोग इति चेदित्थम् । यथा भास्करमते घटे मृदा सहात्यन्ताभेदो मृदि तु घटस्यात्यन्तभेद एव । एवं कार्यकारणयोर्भेदाभेदौ व्यवस्थितौ । तथा कारणीभूतेश्वरस्य जगता सहात्यन्ताभेदेऽपि जगदीश्वरेणात्यन्ताभिन्नमिति मतमपाकर्तुं विभिन्न इत्युक्तम् । विशेषतो विभिन्नत्वं च स्वात्यन्ताभिन्नजगत्प्रतियोगिकात्यन्तभेदवत्त्वम् । इदं च पूर्वश्लोकप्रसक्तं तदनुसारेण विश्वभिन्नत्वशङ्काग्रन्थस्य भिन्नत्वमित्यस्याप्ययमेवार्थः । तथा च भेदद्वयस्यापि प्रकृतत्वादीदीश्वरप्रतियोगिकभेदस्याप्रत्यक्षत्वोपपादनं युक्तम् । न च प्रतियोग्यप्रत्यक्षत्वेन भेदस्याप्रत्यक्षत्वे स्तम्भपिशाचभेदप्रत्यक्षानुपपत्तिः । इष्टापत्तेः । पूर्वोक्तरीत्या तस्य शाब्दादिरूपत्वोपगमात् । न चात्र बीजाभावः । भेदप्रत्यक्षे प्रतियोगिवृत्तिधर्मविरुद्धधर्मज्ञानस्य कारणत्वानुभवेन प्रतियोगिन एवाप्रत्यक्षत्वे तद्वृत्तिधर्मस्याप्यप्रत्यक्षत्वेन तद्विरुद्धत्वस्यापि धर्मान्तरे ग्रहीतुमशक्यत्वात् । अथवा प्रतियोगितावच्छेदकविशिष्टप्रतियोगिनिर्णयो भेदधीहेतुः ॥ पिशाचादीनां लोकसिद्धव्यवहारादिना निर्णयात्तत्प्रतियोगिकभेदप्रत्यक्षमुपपद्यते । भवदभिमतस्य स्वातन्त्र्यादिविशिष्टेश्वरस्य नानुमानादिगम्यत्वम् । तस्य सत्प्रतिपक्षादिकबलितत्वेनानिर्णायकत्वात् । आगमानां तूपक्रमालिङ्गैश्चिन्मात्रपरत्वादवशिष्टं प्रत्यक्षमेव । तदप्युक्तेश्वरे नास्तीति प्रतियोगिनिर्णयरूपकारणाभावादुक्तेश्वरभेदप्रत्यक्षं न युक्तमित्याशयः ।
नन्वीश्वररूपधर्मिणोऽप्रत्यक्षत्वात्तद्वृत्तिभेदस्याप्रत्यक्षत्वकथनमयुक्तम् । गगनस्याप्रत्यक्षत्वेऽपि तद्वृत्त्युद्भूतरूपाभावस्य प्रत्यक्षविषयतायास्तान्त्रिकैरभ्युपगमात्पुष्पस्य घ्राणाविषयत्वेऽपि तद्वृत्तिचम्पकगन्धाभावस्य घ्राणजप्रत्यक्षविषयत्वाङ्गीकारादिति चेन्न । अत्यन्ताभावस्थले योग्यप्रतियोग्यनुपलब्धेर्हेतुत्वेन तथात्वसम्भवेऽपि भेदप्रत्यक्षेऽधिकरणप्रत्यक्षस्यैवान्वयव्यतिरेकाभ्यां हेतुत्वमित्याशयेनोक्तसङ्गतेः । यद्वा तादात्म्याभावोऽन्योन्याभाव एव । तत्प्रत्यक्षे योग्यतादात्म्यानुपलब्धिः कारणम् । योग्यत्वं च प्रतियोगिसत्त्वप्रसञ्जितप्रतियोगिकत्वम् । तथा च प्रत्यक्षीभूताधिकरणे तन्निष्ठेतरतादात्म्योपलब्धेरापादयितुमशक्यत्वान्न प्रकृते योग्यानुपलब्धिरित्याशय इत्यलम् । केचित्तु वाशब्द उपमायाम् । तथा चेश्वरप्रतियोगिकभेदो दृष्टान्ततयोपात्त इति नाप्रसक्तकथनम् । सोऽपि परजीवानुयोगिकोऽतीन्द्रियजडानुयोगिकश्च ग्राह्यस्तस्य स्वप्रत्यक्षत्वादिति व्याचक्षते । तत्रेश्वरप्रतियोगिकभेदस्येश्वरातिरिक्तसामान्यनिष्ठस्यैकस्यैवाद्वैतवादिभिर्नैय्यायिकैश्चाङ्गीकृतत्वेन स्वस्मिन् घटादौ चेश्वरभेदस्य प्रत्यक्षविषयत्वविवादस्य सत्त्वेन दृष्टान्तासङ्गतिः । धर्मिभेदेन भेदाङ्गीकारेणैवेदमित्युक्तावपि भेदसामान्यस्य ग्रहणासङ्गतिः । स्वानुयोगिकेश्वरभेदप्रत्यक्षनिराकरणं चेत्यादिकं कथं परिहर्तव्यमिति विभावनीयम् । न च तस्याप्रसक्तत्वादेव न तन्निराकरणमपेक्षितमिति वाच्यम् । तथाऽपि स्वकृतद्वितीयव्याख्याने ईश्वरप्रतियोगिकभेदप्रत्यक्षसामान्यस्यापि निराकर्तव्यत्वेन प्रसक्ततया तत्रोक्तदोषापरिहारादिति भेदप्रत्यक्षसामान्ये प्रतियोगिप्रत्यक्षस्यापि कारणत्वमिति शङ्ककस्याभिमानस्थापनेन यथाकथञ्चिद्ग्रन्थसङ्गमनं त्वगतिका गतिः । अथवेति कृतास्मद्व्याख्याने च नैषोऽभिमान इति ।
(२)काशीतिम्मण्णाचार्य
अत्राद्वैतवादी शङ्कते – नन्विति ॥ परब्रह्मण इत्यनेन भेदाङ्गीकारे वस्त्वपरिच्छेदरूपपरब्रह्मत्वानुपपत्तिं सूचयति । चेतनाचेतने जीवजडे । स्वभावत इत्यस्य भेद इत्यनेनापि सम्बन्धः । अत्रेश्वरधर्मिकभेदस्यैव प्रकृतत्वेऽपि विश्वशब्दसूचितजीवजडभेदस्यापि सङ्ग्रहाय भेदमात्रग्रहणम् ॥ प्रमाणाभावादिति ॥ उक्तप्रमाणस्याभासत्वादित्यभिमानः । तदेवोपपादयति तथाहीत्यादिना सङ्क्षेप इत्यन्तेन ॥ न तावदिति ॥
नन्विदमसङ्गतम् । स्वतन्त्र्यादिरूपविरुद्धधर्महेतुकानुमानस्यैवाद्यपद्योक्ततया तत्प्रतिक्षेपस्यैव कर्तव्यत्वात् । मैवम् । तत्र प्रमुखपदेन भेदग्राहिप्रत्यक्षागमविषयत्वस्यापि विवक्षितत्वेन प्रमाणत्रयस्यैव लाभात् । स्वभावतः प्रत्यक्षागमयोः प्राबल्येऽपि प्रकृते प्रत्यक्षस्येश्वरीयस्य साध्यतया सविवादत्वादागमस्य चोपपत्तिसापेक्षत्वादनुमानस्यैव प्राधान्येन परिग्रहात्, स्वभावप्राबल्यमेव पुरस्कृत्य प्रत्यक्षस्य प्रथमं प्रतिक्षेपात् । अत एव सिद्धान्तेऽपि प्रत्यक्षादिप्रमाणत्रयं प्रदर्शयिष्यते ॥ जीवेश्वरभेद इति ॥ आत्मधर्मिकात्मान्तरप्रतियोगिकभेद इत्यर्थः । ईश्वरधर्मिकजीवभेदे जीवधर्मिकेश्वरभेदे मिथो जीवभेदे चेति यावत् । अत एव सामान्यत आत्मनानात्साधकानुमाननिराकरणसङ्गतिः । ईश्वरेत्यात्मान्तरोपलक्षणम् ।
यत्तु विष्णोर्विश्वतो भिन्नत्वं विश्वप्रतियोगिकभेदवत्त्वं विश्वनिष्ठभेदप्रतियोगित्वं वा स्यात् । तदुभयमपि न सम्भवतीत्याशयेन भेदद्वये प्रत्यक्षप्रतिक्षेप इति । तन्न । भिन्नशब्दस्य भेदप्रतियोग्यबोधकत्वेन तादृशविकल्पायोगात् । अन्यथा घटो घटभिन्न इति प्रयोगापत्तेः । व्यासज्यवृत्तिधर्मावच्छिन्नानुयोगिताकतदेकदेशप्रतियोगिताकभेदानुपगमेऽपि घटपटोभयं घटभिन्नमिति प्रयोगापत्तेश्च ॥ अप्रत्यक्षत्वादिति ॥ धर्मिप्रतियोगिप्रत्यक्षयोरभावप्रत्यक्षहेतुत्वादिति भावः ।
(२)शर्कराश्रीनिवासाचार्य
विष्णौस्वभावतश्चेतनात्मकविश्वभिन्नत्वं समर्थयितुमाक्षिपति – नन्विति ॥ चेतनाचेतनात्मकेति ॥ अन्योन्यभिन्नचेतनाचेतनात्मकेत्यर्थः । तेनोत्तरत्र क्रियमाणे जीवानां जठानां चान्योन्यभेदनिराकरणसमर्थनेसङ्गच्छेते । अन्यथा तयोः प्रकृतासङ्गतिः स्यादिति ध्येयम् । भेदे स्वभावतोभेदे । एवमग्रेऽपि । भेदे प्रमाणं प्रत्यक्षमनुमानमागमोवेति विकल्पान्मनसि निधायाद्यं दूषयति – नेति ॥ जडभेदेऽपि प्रत्यक्षं निराकरिष्यामीत्याशयेन तावच्छब्दः । उत्तरपक्षद्वयमपि निराकरिष्यामीत्याशयेन वा ॥ जीवेश्वरभेद इति ॥ जीवानामन्योन्यभेदे जीवेश्वरभेदे चेत्यर्थः । प्रत्यक्षं किमीश्वरो जीवो नेतीश्वरधर्मिकजीवप्रतियोगिकभेदविषयमभिधीयते उत जीव ईश्वरो नेति जीवधर्मिकेश्वरप्रतियिगिकभेदविषयकम् । आद्यं निराचष्टे – ईश्वरधर्मिक
स्येति ॥ ईश्वरधर्मिकस्य ईश्वराधिकरणस्य भेदस्याप्रत्यक्षत्वादित्यन्वयः । तत्र हेतुमाह – ईश्वराप्रत्यक्षत्वेनेति ॥ धर्मिभूतेश्वरस्याप्रत्यक्षत्वेनेत्यर्थः । अभावप्रत्यक्षेऽधिकरणप्रत्यक्षस्य कारणत्वादिति भावः । नन्वभावप्रत्यक्षे नाधिकरणप्रत्यक्षनियमः । अप्रत्यक्षेऽप्याकाशे शब्दाभावस्य प्रत्यक्षत्वात् । वायौ रूपाभावस्य प्रत्यक्षत्वात् । अतोऽधिकरणज्ञानमात्रस्यापेक्षितत्वेन तस्येश्वरविषयकस्यापि परोक्षस्य सत्त्वात्तद्धर्मिकस्य भेदस्य प्रत्यक्षत्वमक्षतमिति चेन्न । अत्यन्ताभावरूपसंसर्गाभावस्य प्रत्यक्षेऽधिकरणप्रत्यक्षनियमाभावेऽपि भेदाख्यान्योन्याभावप्रत्यक्षेऽधिकरणप्रत्यक्षावश्यंभावात् । अत एवोक्तं रुचिदत्तेनोपाध्यायमतानुवादे `रूपवदन्योन्याभावस्तु योग्योऽपि वायावधिकरणे योग्यताविरहान्न गृह्यते । अन्योन्याभावग्रहे तस्याः प्रयोजकत्वादि’ति । उक्तं च तृतीयाध्याये टीकाकारेण । `संसर्गान्योन्याभावग्रहे प्रतियोग्यधिकरणयोग्यता क्रमेण तन्त्रमि’ति । द्वितीयं निराह – ईश्वरप्रतियोगिकस्येति ॥ ईश्वरप्रतियोगिकस्य भेदस्याप्रत्यक्षत्वादित्यन्वयः । तत्र हेतुमाह – ईश्वराप्रत्यक्षत्वेनेति ॥ प्रतियोगिभूतेश्वराप्रत्यक्षत्वेनेत्यर्थः । अभावप्रत्यक्षे प्रतियोगिप्रत्यक्षस्य हेतुत्वादिति भावः । उपलक्षणमेतत् । जीवान्तरप्रतियोगिकस्य जीवान्तरधर्मिकस्य वा भेदस्य जीवान्तराप्रत्यक्षत्वेनाप्रत्यक्षत्वादित्यपि द्रष्टव्यम् । अत एव यज्ञदत्तप्रतियोगिको विष्णुमित्रधर्मिको भेदो विष्णुमित्रस्य प्रत्यक्ष इत्याद्यूह्यमिति सिद्धान्तग्रन्थे जीवानामन्योन्यभेदस्य प्रत्यक्षत्वसमर्थनं क्रियते । अत एव च नाप्यनुमानमित्यादिनाऽऽत्ममात्रभेदेऽनुमानमाशङ्क्य निराकरणं सङ्गच्छते । अन्यथा जीवेश्वरभेदे प्रत्यक्षं निराकृत्य तत्रैवानुमाननिराकरणस्य सङ्गतत्वेनात्ममात्रभेदसाधकानुमाननिराकरणस्यासङ्गतत्वात् । नचात्ममात्रभेदासिद्धौ जीवेशभेदोऽपि सिध्यतीत्याशयेन तदिति वाच्यम् । तथापि चैत्रशरीरमित्यादिनाऽन्योन्यजीवभेदशङ्कानिरासयोरनुपपत्तिरिति ध्येयम् ।