०१ (१) भेदोज्जीवनम्

स्वभावतः स्वतन्त्रत्वप्रमुखैर्निखिलैर्गुणैः

॥ श्रीमद्धनुमद्भीममध्वान्तर्गतरामकृष्णवेदव्यासात्मकलक्ष्मीहयग्रीवाय नमः ॥

श्रीव्यासतीर्थविरचितं भेदोज्जीवनम्

(१)भेदोज्जीवनम्

(१) स्वभावतः स्वतन्त्रत्वप्रमुखैर्निखिलैर्गुणैः ।

विभिन्नो विश्वतो विष्णुर्जयताज्जगदीश्वरः ॥

(१) भगवन्तरायकृतभेदोज्जीवनभावप्रदीपः –

(१)भावप्रदीपः

स्वतः स्वातन्त्र्येणासमसुखमुखैः सर्वसुगुणैः

सुपूर्णं निर्दोषं निखिलचिदचिद्भिन्नमनिशम् ।

भजे श्रीमत्पूर्णप्रमतिगुरुराट्स्वान्तकमल

स्थिरावासं व्यासं चिदभयकराम्भोजयुगलम् ॥१ ॥

प्रणम्य श्रीमदानन्दतीर्थसच्चरणाम्बुजम् ।

जयराजमुनीन्व्यासमुनीनस्मद्गुरूनपि ॥२ ॥

तदनुग्रहतो भेदोज्जीवनं व्याकरोम्यहम् ।

उपजीव्य महद्वाचं यथामति हरेर्मुदे ॥३ ॥

श्रीमद्व्यासतीर्थपूज्यचरणो मायिमतनिकृन्तनं भेदोज्जीवनं वितन्वन् विघ्नविघाताद्यर्थं वर्तिष्यमाणग्रन्थोपक्षेपाय तदुपयोगिविशेषणवत्तया विष्णुं स्तुवंस्तदुत्कर्षज्ञानं प्रार्थयते – स्वभावत इति ॥ जगदीश्वरो विष्णु

र्जयतात् । उत्कृष्टो वर्ततामिति योजना । जिधातोः सकर्मकत्वेऽप्यत्रोत्कर्षप्राप्त्यर्थकत्वादकर्मकः प्रयोगः । यथोक्तम् –

‘जयेर्जयाभिभवयोराद्येऽर्थेऽसावकर्मकः ।

उत्कर्षप्राप्तिराद्योऽर्थो द्वितीयार्थे सकर्मक’ इति ।

अत्र नित्योत्कर्षवतोऽपि भगवत उत्कर्षप्राप्तिप्रार्थना `जय जय जह्यजामजिते’त्यादाविव तज्ज्ञापकाभिप्रायत्वादुपपन्ना । यथोक्तम् –

`सर्वदा जयतो विष्णोर्जयस्तस्य प्रकाशनम् ।

श्रवणं दृष्टिरित्यादिप्रार्थ्यं तज्ज्ञापनं स्मृतम् ।

शृणोति पश्यति ह्येष जयतीत्यादिकं स्वतः ।

जय पश्य शृणुष्वेति तत्तज्ज्ञापनमेव त्वि’ति ।

एके तु भगवदुत्कर्षस्य नित्यसिद्धत्वेऽपि भाविकालसम्बन्धित्वेन तदिच्छाया भगवत्प्रीतिहेतुत्वेन जयतादिति भाविकालसम्बन्धित्वेनोत्कर्षेच्छार्थकलोट् उपपन्नः। राज्ञ एवमेवोत्कर्ष उत्तरत्रापि स्यादितीच्छावत्सु राज्ञः प्रीतिदर्शनादित्याहुः। तच्चिन्त्यम् । भगवदुत्कर्षस्य नित्यसिद्धत्ववद्राजादीनां भाविकालसम्बन्ध्युत्कर्षस्यानिश्चितत्वात्तदिच्छावत्सु राजप्रीतेर्युक्तत्वेऽपि नित्यसिद्धभगवदुत्कर्षविषये तादृशेच्छायाः प्रीतिहेतुत्वायोगेन तस्या अकर्तव्यत्वात् । अत एव महाभारततात्पर्यनिर्णये श्रीकृष्णसत्यभामाभ्यामदितिदत्ताशीर्वचनस्यासुरावेशादज्ञानमूलकत्वमुक्तम् –

`तमासुरावेशवशादजानती सत्यां च सर्वप्रभवौ जगत्प्रभू। निर्दोषसौख्यैकतनू शुभाशिषस्ताभ्यां ददौ सोऽदितिरात्मपुत्रवदि’ति ।

अन्यथाऽदित्याशीर्वचनस्याप्युक्तरीत्या भगवत्प्रीतिहेतुत्वापातात्तेन तस्यासुरावेशादिमूलकत्वोक्त्ययोगादिति ॥ केचित्तु विष्णुर्जगद् दुष्टकृतविघ्नादिकं विश्वं जयतादभिभवत्वित्यर्थ इति व्याचक्षते । अपरे तु जगत् श्रुतितात्पर्यानभिज्ञमद्वैतिवादिजातं जयतान्मत्कृतभेदोज्जीवनेन परा

भावयेत् । अन्तर्णीतणिजर्थोऽयमिति व्याचक्रुः ।

ननु कथं विष्णोर्जगदीश्वरत्वं नियम्यनियामकभावस्य भेदव्याप्तत्वात् । तस्य च विलक्षणधर्मयोगनिबन्धनत्वादित्यतो जगद्विलक्षणधर्मवत्त्वेन विष्णोस्ततो भेदं साधयति । स्वतन्त्रत्वप्रमुखैरित्यादिना । निखिला निश्शेषाः खिला अपूर्णा न भवन्तीति निखिलाः प्रत्येकं निरवधिकाश्च । तैर्गुणैर्ज्ञानानन्दबलादिभिर्निमित्तैर्विन्श्वतश्चेतनाचेतनात्मकाज्जगतो विभिन्न इति । भेदाभेदमतनिरासाय वीत्युपसर्गः । अत्यन्तभिन्न इत्यर्थः । भेदस्याविद्याद्युपाधिकृतत्वमतनिरासायोक्तं स्वभावत इति । विभिन्न इति सम्बन्धः । वीत्युपसर्गलब्धार्थकथनमेवैतत् । अत्यन्तभेदस्यानौपाधिकत्वनियमात् । ननु न विष्णुर्निखिलपूर्णगुणश्चेतनत्वाद्देवदत्तवदिति चेन्न । अस्यानुमानस्यास्वतन्त्रत्वरूपोपाधिदुष्टत्वादिति भावेनोक्तं स्वतन्त्रत्वप्रमुखैरिति । स्वतन्त्रत्वस्य निखिलपूर्णगुणत्वोपपादकत्वात्प्रमुखत्वोक्तिः । यथोक्तं न्यायविवरणे –`स्वतन्त्रस्य पूर्णगुणत्वनियमादि’ति ।

`यदधीना गुणाश्चैव दोषा अपि हि सर्वशः ।

कथं तस्य गुणा न स्युः स्युर्दोषाश्च कथं पुनः’ इत्यनुव्याख्याने च ।

स्वतन्त्रत्वं च स्वसत्तादौ परानपेक्षत्वं विवक्षितम् । स्वेच्छामात्राधीनप्रवृत्तिमत्त्वं वा । केचित्त्वनधीनत्वमेव स्वतन्त्रत्वं विवक्षितमित्याहुः । तच्चिन्त्यम् । तस्य स्वतन्त्रशब्देनालाभात् । स्वस्य तन्त्रोऽधीनो हि

स्वतन्त्रः । भगवति स्वाधीनत्वस्य सत्त्वेनानधीनत्वाभावादसम्भवापत्त्या पराधीनत्वस्यावश्यं विवक्षणीयत्वाच्च । अत एवोक्तमनुव्याख्याने `स्वेच्छानुसारितामेव स्वातन्त्र्यं हि विदो विदुः’ इति । `स्वतन्त्रः स्वेच्छाधीनप्रवृत्तिः’ इति तत्त्वोद्योतटीकायां च । एतेन नियम्यनियामकभावस्य भेदव्याप्तत्वेनैकस्मिन्भगवति कथं स्वाधीनत्वरूपस्वतन्त्रत्वोपपत्तिरिति निरस्तम् । स्वेच्छानुसारिप्रवृत्तेरेव स्क्तन्त्रशब्दार्थत्वात् । इच्छाप्रवृत्योश्च भेदाभावेऽपि तत्प्रतिनिधेर्विशेषस्य सद्भावात्तद्बलेन नियन्तृनिरम्यतोपपत्तेरिति ॥ अत्र केचित् । ईशितव्येन जगता सम्बन्धाभावे तदीश्वरत्वं न सम्भवतीत्यत उक्तं विश्वतो विष्णुरिति । विश्वस्मिन्व्याप्त इत्यर्थ इति व्याचक्षते । तदपि चिन्त्यम् । जगत्यस्थितस्यापीश्वरस्य तन्नियमनोपपत्तेः । परं केवललीलयैव जगति स्थितिरीश्वरस्य । यथोक्तमनुव्याख्याने –

`तत्र तत्र स्थितो विष्णुस्तत्तच्छक्तिप्रबोधकः ।

दूरतोऽप्यतिशक्तः स लीलया केवलं प्रभुः’ इति ।

(१) मुद्गलार्यतनूजानन्दतीर्थाचार्यविरचितभेदचिन्तारत्नम्

(१)भेदचिन्तारत्नं

निसर्गस्वातन्त्र्यप्रमितिसुखसौन्दर्यकरुणा

मुखैर्लोकव्रातात्स्वगुणनिचयैर्गाढमितरः ।

हरिः श्रीमानस्मात्स्थिरतरभिदा भिन्नजगत

स्सदा साक्षादीशो जयति जगति श्रीपरिवृढः ॥१ ॥

पूर्णबोधाञ्जयार्यांश्च व्यासराजगुरूनपि ।

नत्वा तत्कृपया कुर्वे भेदोज्जीवनविस्तृतिम् ॥२॥

प्राचीनप्रपञ्चितमपि पञ्चविधं भेदप्रपञ्चं विक्षिप्तं सङ्क्षेपादिना स्फुटीकरिष्यन् जिज्ञासाजननाय तमेवोपक्षिपन् प्रारिप्सितपरिसमाप्तये स्वेष्टदेवताशिषमाशास्ते ॥ स्वभावत इति ॥ अत्र स्वतन्त्रत्वस्य प्रमुखत्वं नाम स्वेतरसकलगुणसाधकत्वम् । यथाऽऽहुराचार्याः `स्वतन्त्रत्वात् सुखसज्ज्ञानशक्तिपूर्वैर्गुणैः पूर्ण’ इति । विश्वतो विभिन्न इति सम्बन्धः । वीत्युपसर्गो भेदाभेदनिषेधाय । विश्वत इत्युक्त्या तत्राप्यवान्तरभेद उप

क्षिप्तः । एकस्य विश्वत्वायोगात् । मिथ्यागुणैः सत्यत्वालाभात्खभावत

इति ॥ प्राप्तेरिति शेषः । स्वभावतो विभिन्न इति वा सम्बन्धः । तदपि भेदस्योपाध्यायत्तत्त्वनिषेधाय । प्रयोगश्च विष्णुर्विश्वप्रतियोगिकपारमार्थिकभेदाधिकरणं विश्वावृत्तिपारमार्थिकगुणाधिकरणत्वात् । यो यदवृत्तियत्सत्ताकगुणाधिकरणं स तत्प्रतियोगिकतत्सत्तासमानसत्ताकभेदाधिकरणम् । यथा घटः पटभिदाधिकरणमिति । गुणपारमार्थ्यं च `सत्यस्सो अस्य महिमा’ इत्यादि प्रमाणसिद्धमिति भावः । अप्रसिद्धविशेषणता च न दोष इति वक्ष्यति । जगदीश्वर इति भेदे युक्त्यन्तरोक्तिः । शत्रूनित्यध्याहरेणाभिभावयतादिति वाऽर्थः । त्वमित्यध्याहारेण मध्यमपुरुषो वा । `आशिषि लिङ्लोटाविति ’ स्मरणादाशिषि लोट् । विष्णोर्जय एव स्वस्याशासितेति स्वस्यासीस्त्वं स्वापेक्षया न तु विष्ण्वपेक्षयेति ज्ञातव्यम् ।तेन पूर्णकामे कथमाशीर्वचनमिति निरस्तम् ।

(१) कुम्भारिवासुदेवाचार्यकृतभेदचन्द्रिका

(**१)भेदचन्द्रिका **

प्रमितासहवासिधर्मवासं मयि सम्भावयतेति भावनाय ।

नरसिंहशरीरमादधानो मयि मूढेऽस्तु सरस्वतीं दधानः ॥१॥

ब्रह्मण्यतीर्थचरणश्रीपाण्यरणिसम्भवः ।

मध्वोक्तिमारुतेतोऽस्तु व्यासाग्निर्मत्तमश्छिदे ॥२॥

मायिमत्तेभकुम्भारिवासुदेवो हदेर्मुदे ।

हर्यालम्बो वितनुते भेदोज्जीवनटिप्पणीम् ॥३॥

श्रीमद्व्यासतीर्थपरमहंसो विष्णुविश्वक्षीरनीरभेदोज्जीवनं करिष्यन्विघ्नविघातादिप्रयोजनाय वर्तिष्यमाणग्रन्थसङ्गत्युपयोगिविशेषणविशिष्टत्वेन विष्णुं स्तुवन्नाशास्ते ॥ स्वभावत इत्यादिना ॥ जगदीश्वरो जयताद् उत्कृष्टो वर्तताम् । उत्कर्षप्राप्तावयमकर्मकः । कर्मणो धात्वन्तर्गतेः । `धातोरर्थान्तरे वृत्तेर्धात्वर्थेनोप्रसङ्ग्रहात् । प्रसिद्धेरविवक्षातः कर्मणोऽकर्मिका

क्रिया । जयेर्जयाभिभवयोराद्येऽर्थेऽसावकर्मकः । उत्कर्षप्राप्तिराद्योऽर्थो द्वितीयेऽर्थे सकर्मक’ इत्युक्तेः । यद्यपि भगवत उत्कर्षेण वर्तनस्य नित्यसिद्धत्वाद् असिद्धेष्टप्रार्थनारूपाशीरर्थको लोट् न युज्यते । तथाऽपि दुर्वादिभिर्भगवतो विश्वाभेदस्य साधितत्वेन साधूनां तस्य विश्वोत्कर्षप्राप्तिबुद्धेरसिद्धत्वेन लोकदर्शनभाषया `जय जय जह्यजा’मित्यादविव लोट् युज्यते। अभीष्टार्थकोऽयं वा लोट् । यद्वेश्वरो जगद्गच्छति श्रुतिमार्गादिति श्रुतितात्पर्यानभिज्ञमद्वैतवादिजातं जयतात् । अन्तर्भूतणिजर्थोऽयं जिधातुरभिभावयेन् मत्कृतभेदोज्जीवनेन तत्पराभावयेदिति

भावः । एवञ्च लोडपि यथाश्रुत एव सम्बध्यते । ईशितव्येन जगता सम्बन्धाभावे तदीश्वरत्वं न सम्भवतीत्यत उक्तं विश्वतो विष्णुरिति । सप्तम्यन्तात्तसिः । विश्वस्मिन्व्याप्त इत्यर्थः । यद्वा विष्णुर्जयतादिति सम्बन्धः । जगदीश्वरपदं तत्सद्भावे प्रमाणसूचनपरम् । विष्णुविश्वयोः सति भेदे तत्र व्याप्तिस्तदीश्वरत्वं वा स्यादित्यत उक्तं स्वभावतो न तूपाधितो विभिन्न इति। पञ्चम्यास्तसिः। विश्वत इति देहलीप्रदीपवदुभयत्राप्यन्वेति। तत्र किं मानमत उक्तं स्वभावतः स्वतन्त्रत्वप्रमुखैर्निखिलैर्गुणैरिति । ज्ञप्तिसाधनत्वेन तृतीयाप्रातिपदिकानां ज्ञानेषु लक्षणा वा। तृतीयार्थे तसिः। स्वभावतः स्वरूपभूतैर्न त्वविद्याद्युपाधिप्रयुक्तैः स्वतन्त्रत्वं प्रमुखं मुख्यमेषां सर्वज्ञत्वसर्वशक्तित्वपूर्णानन्दत्वादीनां तैस्तद्गुणसं ज्ञानश्चायम् । तेन स्वतन्त्रत्वस्यापि समासार्थेऽन्तर्भावः । व्यतिरेकिणश्चैते विश्वभेदे हेतवः । चेतनभेदाचेतनभेदयोः प्रत्येकं प्रसिद्ध्योर्विष्णौ साधनान्नासिद्धिः । न चासाधारण्यम् । द्वित्वरूपसाध्यतावच्छेदकावच्छिन्नवत्त्वेन निश्चिताद्धेतोरव्यावृत्तेः । एकाधिकरणान्तर्भावेन साध्यतावच्छेदकावच्छिन्नसाध्याप्रसिद्धावप्यधिकरणद्वयान्तर्भावेन तत्प्रसिद्धेश्च । अन्यथा पृथिव्यां त्रयोदशभेदानां साध्यत्वपक्षः परेषामप्यनुपपन्नः स्यात् । अथवा वक्ष्यमाणरीत्या विश्वतादात्म्याभावस्य साध्यत्वादभावसाध्यके व्यतिरेकिणि साध्याप्रसिद्धेरदूषणत्वात् । साध्यविशेष्यकाया एवानुमितेः प्रथमं सम्भवान्नानुपपत्तिः । अवशिष्टमग्रे वक्ष्यते ।

ननु किमिदं स्वतन्त्रत्वम् ? स्वाधीनत्वमिति चेन्न । स्वस्यानुगतस्यैकस्याभावेन भगवदधीनत्वस्य पर्यवसाने नियम्यनियामकभावस्य भेदव्याप्यस्य भेदाभावे एकस्मिन्नयोगेनासिद्धेर्विरोधाच्च । विशेषणानुपादाने च विश्वस्मिन्नपि सत्त्वेन व्यभिचारः। न च स्वतन्त्रत्वं `स्वयं दासास्तपस्विन’ इत्यत्र स्वयं दासत्वं स्वातिरिक्तदासशून्यत्वमिव स्वातिरिक्तनियामकशून्यत्वं तच्च भगवत्यस्तीति नासिद्धिर्न वा विरोधः। नास्ति च विश्वस्मिन्निति न व्यभिचार इति वाच्यम् । अब्भक्षो वायुभक्ष इत्यादाविवासाधारण्येन व्यपदेशमाश्रित्य स्वमात्रतन्त्रत्वं स्वमात्राधीनत्वम् । स्वाधीनत्वे सति स्वान्यानधीनत्वमिति स्वशब्दादुपस्थितिसम्भवेन तत्र भावांशस्य वैय्यर्थ्यादविवक्षणेन स्वान्यानधीनत्वस्य शब्दादुपस्थितिसम्भवेऽपि स्वातिरिक्तनियामकशून्यत्वस्य स्वतन्त्रशब्दादुपस्थितेः । न च स्वान्यानधीनत्वमपि तत्तुल्यसत्ताकमितीदमेव स्वतन्त्रत्वमिति वाच्यम् । भगवदन्यानधीनत्वस्यापि भगवतीव विश्वास्मिन्नपि सत्त्वेन व्यभिचारानिरासात् । न च भगवदन्यस्वोत्तमाधीनत्वस्य विश्वास्मिन्नसत्त्वेन व्यभिचार इति वाच्यम् । तथाऽपि लक्ष्म्यां तदपरिहारदिति चेत् । उच्यते । स्वाधीनत्वांशस्येव भगवदन्यानधीनत्वांशस्यापि वैय्यर्थ्येनाविवक्षितत्वात् । अनधीनत्वमेव स्वतन्त्रत्वम् । तच्चास्ति भगवति । नास्ति च विश्वस्मिन्निति न कश्चित्क्षुद्रोपद्रवः । अनेनैव पद्येन विषयादिकं सूचितं भवति । विश्वभिन्नो विष्णुर्विषयः । तज्ज्ञानमवान्तरप्रयोजनम् । मोक्षः परमप्रयोजनम् । तत्कामोऽधिकारी । यथा योग्यं सम्बन्धः ।

(१) हुलगीश्रीनाथाचार्यकृता भेदसञ्जीविनी

(१)भेदसञ्जीविनी

हरिर् ओं

नुमः सत्यवतीसूनुं यत्प्रसादाच्छ्रियं धियम् ।

कीटोऽपि निश्चलां प्राप लोककौतुककारिणीम् ॥१॥

नत्वा नन्दजयव्यासमुनिप्रभृतिसद्गुरून् ।

श्रीनाथनामा तनुते भेदसञ्जीवनीं शुभाम् ॥२॥

बह्व्यः सन्त्यत्र टिप्पण्यस्तथाऽप्येषा कृतिर्मम ।

नोपेक्ष्या तदनुक्तार्थलेशस्याप्यत्र शंसनात् ॥ ३॥

ग्रन्थादौ मङ्गलं कृत्वा निबध्नाति ॥ स्वभावत इति ॥ जयतादित्याशीर्लोटो भाविकालसम्बन्धित्वेनेच्छार्थः । भाविकालस्येदानीमसत्वात् तत्सम्बन्धित्वेनेच्छायुक्तैव । उक्तेच्छायास्तदकारणत्वेऽपि तादृशेच्छावत्सु भगवत्प्रीतिर्भवत्येवेति तादृशेच्छा कर्तव्यैव । `राज्ञ एवमेवोत्कर्षोऽस्तूत्तरत्रापी’तीच्छावत्सु राज्ञः (राज्ञां) प्रीतिदर्शनात्। अतो भगवदुत्कर्षस्य सर्वदा सिद्धत्वात्कथमत्रेच्छेति शङ्काऽनवकाशः। विभिन्न इत्यत्र वीत्युपसर्गेण भेदे सत्यत्वमनौपाधिकत्वं तत एव मुक्तावप्यनिवर्त्यत्वमभेदासामानाधिकरण्यं च लभ्यते । तदुपपादनाय स्वभावत इत्यादिकमुपात्तम् । स्वभावत एव विरुद्धधर्मवत्त्वे कदाचिदप्यभेदसत्त्वे तत्स्वरूपस्यैव निवृत्त्यापत्त्या कदाऽपि कथमप्यभेदो नास्तीति लभ्यते । स्वतन्त्रस्य सर्वनियामकस्य सर्वज्ञस्योपाध्यधीनभेदादिप्रयुक्तदुःखानुभवोऽत्यन्तासम्भवदुक्तक इति स्फोरणाय स्वातन्त्र्यस्यैव प्रथमतो ग्रहणं कृतम् ।

काशीतिम्मण्णाचार्यकृतटिप्पणी

(१**)काशीतिम्मण्णाचार्य **

जन्माद्यस्य यतः शास्त्रगम्यमन्वयतः पृथक् ।

परमं ब्रह्म विष्ण्वाख्यमधिकं तदुपास्महे ॥

अखिलापेक्षितमोक्षप्रयोजकपरदेवतोत्कर्षप्रतिपत्तिप्रतिबन्धकभेदविप्रतिपत्तिप्रतिषेधपूर्वकविभेदव्यवस्थापनाय प्रकरणमारभमाणः श्रीमद्व्यासतीर्थमुनिर्निरन्तरायपरिसमाप्तये प्रचयाय च परमेश्वरं प्रार्थयते ॥ स्वभावत

इति ॥ यद्यपि भगवत्पादैरेव सपरिकरं भेदो व्यवस्थापितः । तथापि तदेवात्र सङ्गृह्य सङ्क्षेपेणोपपाद्यत इत्यवैयर्थ्यम् । विष्णुर्जयताद् विश्वोत्कर्षेण विज्ञातो वर्तताम् । नातो नित्यसिद्धविष्णोर् उत्कर्षप्रार्थनानुपपत्तिः । नन्वस्य विश्वोत्कर्ष एव कथमत आह – जगदीश्वर इति ॥ नन्वनीश्वरजीवाद्यभिन्नस्य जगदीश्वरत्वमपि कथमत आह – विश्वतो विभिन्न इति ॥ विश्वशब्दो जीवजडार्थः । तद्भेदस्यौपाधिकस्याप्रयोजकत्वात् स्वाभाविकत्वलाभाय विशब्दः । तादृशभेदवत्त्वे हेतुर्गुणैरित्यन्तम् । गुणैरसाधारणप्रमापकैः । इत्थंभूतलक्षणे तृतीया । तादृशगुणज्ञाप्यविश्वविभेदवानित्यर्थः । कानि तानि प्रमापकाणीत्यतः – स्वतन्त्रत्वप्रमुखैरिति ॥ परानपेक्षसत्ताकत्वादिरूपस्वातन्त्र्यादेः कल्पितस्य स्वाभाविकभेदसाधकत्वायोगादाह – स्वभावत इति ॥ स्वाभाविकैरित्यर्थः । अनेन श्रोतृप्रवृत्त्यङ्गभूतविषयादिकमपि सूचितम् । विश्वविभेदवद्विष्णुरेव विषयः । तस्य विश्वोत्कर्षज्ञानं प्रयोजनम् । तदिच्छुरधिकारी । यथायोगं सम्बन्ध इति ॥

(१) शर्कराश्रीनिवासाचार्यविरचितटिप्पणी

(१)शर्कराश्रीनिवासाचार्य

हरिर् ओम् ।

रामं रमापतिं नत्वा श्रीमध्वं जययोगिनम् ।

व्यासतीर्थगुरुं भेदोज्जीवनं व्याकरोम्यहम् ॥

इह खलु सुखमेव मे स्याद्दुःखं मनागपि मा भूदिति निखिलापेक्षितमोक्षस्य –

`पञ्चभेदांश्च विज्ञाय विष्णोः स्वाभेदमेव च ॥

निर्दोषत्वं गुणोद्रेकं ज्ञात्वा मुक्तिर्नचान्यथे’ति

पञ्चभेदज्ञानसाध्यत्वस्मरणात्तदर्थं प्रवृत्तमपि चिरन्तनशास्त्रमतिविततगम्भीरतया न मन्दानां सुखेन भेदज्ञापकमिति तदुक्तभेदप्रमाणान्येव सङ्गृह्य सङ्क्षिप्य च भेदोज्जीवनाख्यप्रकरणनिर्माणेन भेदज्ञानं जनयित्वा मन्दानुद्दिधीर्षुर्व्यासतीर्थमुनिः प्रारिप्सितपरिसमाप्त्यादिफलकशिष्टाचारादिप्रमाणकेष्टदेवतास्तवनप्रार्थनरूपं मङ्गलं कृत्वा शिष्यान्ग्राहयितुं प्रकरणादौ निबध्नाति – स्वभावत इति ॥ ननु देवदत्तः शत्रून्जयतीत्यादौ जिधातोः सकर्मकत्वदर्शनात्कथमत्र कर्माभाव इति चेन्न । जिधातोरभिभवार्थे सकर्मकत्वेऽप्युत्कर्षार्थे सकर्मकत्वाभावात् । यथोक्तं जयेरित्यादिना । प्रकृते चोत्कर्ष एव विवक्षितः । तथाच विष्णुर्जयताद् उत्कृष्टो भवतादित्यर्थः । यद्यपिभगवान्नित्योत्कृष्टस् तथापि व्यक्तिविशेषाभिप्रायेणोत्कर्षप्रार्थनाया अत्र क्रियमाणत्वादाशीरर्थकलोट्प्रयोगोपपत्तिः । यद्वा, विवक्षाभेदेन जगत्पदं व्यस्तं समस्तं च तन्त्रन्यायेन पूर्वोत्तराभ्यां सम्बध्यते । तथाच विष्णुर्जगद् दुष्टविघ्नादिकं विश्वं जयतादभिभवत्वित्यर्थः । नन्वनिर्धारितस्वरूपस्य स्तुत्यादिकरणमनुपपन्नं, नच लक्षणेन विना स्वरूपनिर्धारणं भवतीत्यतो विष्णोर्लक्षणमाह – जगदीश्वर इति ॥ अत्र जगच्छब्देन जमुत्पत्तिं गच्छतीति व्युत्पत्त्या चेतनाचेतनात्मकप्रपञ्च उच्यते । पराधीनविशेषावाप्त्यादिरूपोत्पत्तेः सर्वसाधारण्यान्नात्र कश्चित्क्षुद्रोपद्रवः । अनेन जगन्नियामकत्वं लक्षणमुक्तं भवति । ननु नियम्यनियामकभावस्य भेदव्याप्तत्वात्प्रपञ्चेश्वरयोश्चभेदाभावादिदं लक्षणं न सम्भवतीत्यत आह – विभिन्न इति ॥ अत्र विश्वपदं चेतनात्मकविश्वपरम् । अत एव चेतनाचेतनात्मकविश्वभिन्नत्वमित्यनुपदमेव वक्ष्यति । तथाच चेतनाचेतनात्मकप्रञ्चचादत्यन्तभिन्नमित्यर्थः । अत्र वीत्युपसर्गेणात्यन्तभेदोक्त्या भेदाभेदवादियादवप्रकाशो निराकृतः । ननु भेदस्यौपाधिकत्वेन मुक्तावभावान्मुक्तचेतननियामकत्वं भगवतो न स्यादित्यत आह – स्वभावत इति ॥ स्वरूपत इत्यर्थः। विभिन्न इत्यनेनास्य सम्बन्धः । भेदस्य भेदकधर्मनियत्वात्तानाह – गुणैरिति ॥ तेषां प्रपञ्चसाधारण्येन कथं भेदकत्वमित्यतोगुणान्विशिनष्टि – स्वतन्त्रत्वप्रमुखैरिति ॥ सत्तात्रैविध्ये परानधीनत्वं स्वतन्त्रत्वम् । तदेव प्रमुखं प्रधानं येषु ते स्वतन्त्रत्वप्रमुखास् तैरित्यर्थः । नन्वेषां गुणानामौपाधिकत्वेन मुक्तावभावान्न स्वरूपभेदनियामकत्वमित्यतोप्याह(तोवाह) – स्वभावत

इति ॥ आद्यादिभ्य उपसङ्ख्यानात्तृतीयार्थे तसिः । स्वरूपभूतैरित्यर्थः । निखिलैरिति स्वरूपसङ्कीर्तनम् ॥१॥