पूर्वपक्षानुवाद-प्रामुख्ये
शिष्योऽपि पूर्व-पक्ष-स्थस्
तद् एवात्म-मतं ब्रुवन् ।
नैव दुष्यत्य् असत्येन
स्थिरत्वार्थं हि तद्-वचः ॥“When a student presents an opponent’s argument (Purvapakṣa) as his own [even challenging his Guru], he is not at fault and commits no sin.
In fact, [his words serve a higher purpose, for the stronger the objection raised, the more powerful and comprehensive the refutation must be] thus serving the very purpose of making the Siddhanta exceptionally firm and unshakable”
- Bhāgavatatātparyanirṇaya, Śri Madhvācharya
अवतारत्व-पुरस्कारः
असकृद् माध्वा मध्वस्यावतारत्वं पुरस् कुर्वन्ति, इतरेषां तामसत्वम् आसुरत्वं वाऽपि।
तामसत्वासुरत्वाक्षेपाः
शङ्करः सङ्कर-शब्दोक्तो बहुत्र तैः।
स मणिमान् इत्य् असुर इत्य् अपि वदन्ति ।
परं किञ्चिद् विचित्रं श्रुतम् - केषाञ्चन माध्वानाम् मते रामानुजार्यो वातपिनामासुर इति। तत् क्व केन चोच्यते??
न बहुभिर् माध्वैश् श्रुतम्।
मध्व-विजयाख्ये काव्ये नवमे सर्गे -
एकविंशतिकुभाष्यदूषकं
ब्रह्मसूत्रगणभाष्यमद्भुतम् ।
अप्यदूष्यम् अतनोद् अनन्तधीर्
भूतभाविभवदात्मभिः क्वचित् ॥ १२ ॥
भारतीविजय-संविदानन्द-ब्रह्मघोष- शतानन्द-उद्वर्त-विजय-रुद्रभट्ट- वामन-यादवप्रकाश-रामानुज- भर्तृप्रपञ्च-द्रविड-ब्रह्मदत्त- भास्कर-पिशाच-वृत्तिकार-विजयभट्ट- विष्णुक्रान्त-वादीन्द्र-माध्वदास-सङ्कर- कृतान्य् एकविंशति-कु-भाष्याणि ॥ १२ ॥
माध्वमते २१-कुभाष्येषु रामानुजीयम् अप्य् अन्तर्भावितम् इति नाश्चर्यम् (तत्-पक्षिणो ऽपि माध्वभाष्यम् एवं मन्येरन्)। अथापि, न “एकविंशतिकुभाष्यदूषकं …” इत्येतावता तस्य तामसत्वं सिद्धम् - दूरे ऽसुरत्वम्। ततो हि प्रश्नस् तिष्ठति। न चेह विषये विवादो वादो वाप्य् उचितः - योग्यप्रमाणासम्भवात्। स्रोतो हि जिज्ञासे।
मध्वावतारत्वे कारणाक्षेपः
समन्वयादयोऽपि दुरुपपादा इति सहृदयैर् आकलनीयम् ।
यत्तु चतुर-माठरेत्यादि-सकल-लोकाप्रसिद्ध-वचनानां साक्षितयोपन्यासात्
तत्-प्रयुक्तां स्वानाप्तत्व-शङ्कां परिहर्तुं
हनूमद्–भीम-सेन–क्रमेण वायोः स्वयं तृतीयावतार इति उद्घुष्य
तत्र च साक्षितया -प्रथमो हनूमान्नाम
द्वितीयो भीमसेनकः ।
पूर्णप्रज्ञस् तृतीयस्तु
भगवत्-कार्य-साधकः ।इति स्मृति-वचनम् अस्तीति
स्वयम् एव तद् उदाहरणेन शिष्यान् प्रतार्य
किं बहुना “श्रुतिसिद्धो ऽयम् अर्थ” इति दर्शयितुं
भाष्यान्ते मध्वेन पद्यं निर्मितम् - …इति भट्टोजी-दीक्षितः तत्त्व-कौमुद्याम्।
The reason Madhvācārya described himself as the third incarnation of Vāyu, in succession to Hanumān, Bhīma, and so on, is precisely so that people would not doubt the forgeries he committed in the name of the Śruti-s like Catura, Māṭhara, and other Śruti-s.
- Siddhāntakaumudīkāra Bhaṭṭoji Dīkṣita notes in his Tattvakaumudī