तत्त्व-सङ्ख्यानम्

तत्त्व-तारतम्य-सूची

मूल-टीका-सम्मत-तारतम्यानुसारेण सामान्य-तत्त्व-परिचयः

  • I. स्वतन्त्र-तत्त्वम्—भगवान् विष्णुः
  • II. अन्यत् सर्वम् अस्वतन्त्रम्
    • अस्वतन्त्र-भावेषु चेतनाचेतनात्मकेषु चेतनं प्रधानम्।

चेतनं द्विविधम्—

  1. दुःखास्पृष्टं चेतनं—रमा
  2. दुःख-स्पृष्ट-चेतनानि

दुःख-स्पृष्ट-चेतनेषु—

  • (a) विमुक्ताः पञ्च-विधाः— देवाः, ऋषयः, पितरः, पाः, नराः।
  • (b) दुःख-संस्थाः (त्रिविधाः)—
    1. मुक्ति-योग्याः पञ्च-विधाः—देवाः, ऋषयः, पितरः, पाः +++(=चक्रवर्तिनः)+++, नराः।
    2. नित्य-संसारिणः
    3. तमो-योग्याः द्विविधाः
    • प्राप्तान्धतमसः
    • सृति-संस्थिताः
      • ते च चतुर्विधाः
        • दैत्याः
        • रक्षांसि
        • पिशाचकाः
        • मर्त्याधमाः

अचेतनं त्रिविधम्

अचेतन-विभागः

  1. नित्याः—वेदाः
  2. नित्यानित्यम्—पुराणानि, कालः, प्रकृतिः इति त्रिविधम्।
  3. अनित्यम्—द्विविधम्
  4. असंसृष्टम्
    • महत्-तत्त्वम् एकम्
    • अहङ्कार-तत्त्वम् एकम्
    • बुद्धि-तत्त्वम् एकम्
    • मनस्-तत्त्वम् एकम्
    • ज्ञानेन्द्रियाणि पञ्च
    • कर्मेन्द्रियाणि पञ्च
    • तन्मात्राः पञ्च
    • भूतानि पञ्च

    • आहत्य चतुर्विंशति-तत्त्वानि
  5. संसृष्टम्
    • ब्रह्माण्डं, तद्-अन्तस्थं समस्तम्।

अभावः

अस्वतन्त्रेषु अभावस् त्रिविधः

  1. प्रागभावः
  2. प्रध्वंसाभावः
  3. सदाभावः (अत्यन्ताभावः)