लक्ष्मीः
यदि ‘नित्यसूरि’ इत्यनेन नित्यमुक्तत्वं विवक्षितं,
रमा +एव नित्यमुक्ता ।
मुक्तिः
कल्पान्ते हि युगपज् जीवन्-मुक्तानां देव-सहितानां परा मुक्तिः।
तस्मात् प्राग् जीवन्-मुक्तिर् एव, यत्र प्रारब्ध-कर्म-फलं भोक्तव्यम्।
भगवत्-साक्षात्-कारस् सञ्चित-कर्म नाशयति,
आगामि-कर्मालेपं च साधयति।
देवानां तु सृष्टेर् एव भगवत्-साक्षात्कारः।
जीवन्-मुक्तेषु दुःख-स्पर्शः
जीवन्-मुक्तानां दुःख-स्पृष्टत्वं इष्यते
(“अतोऽन्यद् आर्तम्” इति बृहदारण्य-वाक्यं अस्य आधारः)॥
परायाम् मुक्तौ तु स न भवति ।
तथापि परायाम् मुक्ताव् आनन्द-तारतम्यम् - स्वरूपानन्द-भेदतः। आनन्द-तारतम्य-विचारः पृथक्।
चतुर्मुख–मुख्य-प्राणादीनां जीवोत्तमानाम् अपि एवं स्थितिः अङ्गीकृता!
लोकानुग्रहः
जीवन्-मुक्तस् स्व-प्रारब्धांशं कञ्चन लोकहिताय याचकेभ्यो वितरतीति वदन्ति।
राघवेन्द्रम् अपि तादृशम् पन्यन्ते।
आधिकारिक-देवाः
गरुड-शेषादयः, चतुर्मुखब्रह्मवत्, आधिकारिक-देवाः।
प्रतिब्रह्म-कल्पान्ते मुच्यन्ते।
प्रकृत-गरुडः प्रकृत-ब्रह्मकल्पान्ते मोक्षं प्राप्नोति,
आगमत्-ब्रह्मकल्पे अन्यो गरुड-पद-योग्य-जीवः तत्पदवीम् प्राप्य स्वसाधनं करोति;
कृत्वा मोक्षं प्राप्नोति।
एवं सर्वेषां जीवानां। तेषां साधनकाले भेदोऽस्ति।
देवेषु तारतम्यम्
- लक्ष्मीः
- चतुर्मुखः, मुख्य-प्राणः/ वायुः
- तत्-पत्न्यौ - सरस्वती / वाणी, भारती।
एषां तत्त्वे न कदाचिद् अपि भ्रमः।
रुद्रादीनां तु कदाचिद् भवति।
अवतारः
वायोर् अवतारो मध्व इति स्वोक्तं, ऋग्-विशेष-सिद्धं चेति वदन्ति।
प्रथमो हनूमान्नाम
द्वितीयो भीमसेनकः ।
पूर्णप्रज्ञस् तृतीयस्तु
भगवत्-कार्य-साधकः ।
Brahmasūtra Bhāṣya 4.4.23 and Mahābhāratatātparyanirṇaya 2.118/124-25