अल्त्

[[सर्वसिद्धान्तसारविवेचनम् Source: EB]]

[

साङ्ख्ययोगमतभङ्गः

%॥ अथ साङ्ख्ययोगमतभङ्गः ॥%

साङ्ख्ययोगमतस्वरूपणभागो मूलकोशेषु नोपलभ्यते अतस्तन्मतस्वरूपं संगृह्यात्र प्रादर्शि ।

प्रथमं साङ्ख्यमतं संगृह्य निरूप्यते ।

तत्र तावत् दार्शनिकेषु स्वतन्त्रप्रकृतिपरिणामवादिनः साङ्ख्यस्त्वतीव विख्याता वर्तन्ते । तेतु द्विविधाः निरीश्वराः सेश्वराश्चेति । तयोर्नि रीश्वराश्चेश्वरमनभ्युपगम्य जीवजडात्मकं तत्त्वद्वयमेवाहुः । तन्मते संक्षेपतस्तत्त्वस्य चतस्त्रो विधाः परिदृश्यन्ते । कश्चिदर्थः प्रकृतिरेव । कश्चिदर्थः विकृतिरेव । कश्चिच्च प्रकृतिर्विकृतिश्च । कश्चिदनुभयरूपः । तत्र सत्त्वरजस्तमसां साम्यावस्था प्रधानं प्रकृतिरेव । प्रकर्षेण करोति कार्यमुत्पादयतीति प्रकृतिः । प्रकृष्टा कृतिरस्या इति वा प्रकृतिः । प्रकर्षश्च तत्त्वान्तरारंभकत्वम् । सा हि सर्वस्य विश्वस्य कार्यस्य मूलम् । न त्वस्या मूलान्तरमस्ति । सत्त्वरजस्तमसां साम्यादेवेदं सत्त्वं, इदं रजः इदं तम इति विशिष्य व्यवहारयोग्यतापि न शक्यते तत्र वक्तुम् । अत एव तदेकमेवेति व्यपदिश्यते । महदाद्युपादानकारणत्वात् संयोगविभागाश्रयत्वाच्च सत्त्वरजस्तमांसि द्रव्यरूपाण्येव । पुरुषशब्दितजीवभोगसाधनत्वेन गुणभूतत्वादेव तेषां गुणत्वेन व्यवहारो वरीवर्ति । सत्वादीनां प्रकृतिरूपत्वेन प्रकृतिधर्मत्वाभावात् प्रकृतेर्गुणा इति व्यवहारस्तु वनस्य वृक्षा इतिवद्बोध्यम् । “सत्त्वंरजस्तम इति गुणाः प्रकृतिसंभवाः” इति गीतावाक्यश्रुतगुणपदेन साम्यावस्थापन्नानां प्रकृतिस्वरूपभूतानां गुणानां न ग्रहणम् । परन्तु मूलप्रकृतिकार्यभूताः वैषम्यावस्थाः महत्तत्त्वादिकारणीभूताश्च ये सत्त्वादयो वर्तन्ते त एव परीकीर्त्यन्ते । वैषम्यं च सत्त्वरजस्तमसां प्रत्येकमनेकव्यक्तीनां मिथः सजातीयसंवलनेन लघुत्वप्रकाशावरणफलोपहितः इदं सत्त्वं इदं रजः इदं तम इति प्रत्येकं विशिष्य व्यवहारयोग्यः परिणामविशेषः । तदिदं वैषम्यावस्थं गुणत्रयत्वेन व्यवह्रियमाणं मूलप्रकृत्यपेक्षया पृथक् तत्त्वत्रयमिति कैश्चित् साङ्ख्यशास्त्राभिज्ञैरष्टाविंशतितत्त्वपक्षः समादृतः संदृश्यते । सत्त्वादीनां त्रयाणां गुणानां लघुत्वादयः स्वभावविशेषाः साङ्ख्यैः परिकीर्तिताः । तदुक्तम्–

“सत्त्वं लघु प्रकाशकमिष्टमुपष्टंभकं चलं च रजः । गुरु वरणकमेव तमः ।” इति (सां.का.13)

तत्र सत्त्वमेव लघु प्रकाशं चेष्टम् । तस्य सत्त्वस्य लघुत्वादेव तत्कार्यभूतेष्विन्द्रियेषु विषयग्रहणाभिमुख्यरूपं पाटवं परिदृश्‌यते । सत्त्वस्य प्रकाशकत्वादेव तत्कार्यभूतानामिन्द्रियाणामपि विषयप्ककाशकत्वमुपपद्यते । रज एवोपष्टम्भकं चलं चेष्टम् । रजश्च यतश्चलं स्वभावतोऽतः सक्रियम् । अत एव रजः सत्त्वस्य तमसश्चोपष्टम्भकं तत्तत्कार्योत्पादे प्रवर्तकमभइमतम् । सत्त्वगुणतमोगुणयोरक्रियत्वेन तयोः स्वाभाविकप्रवृत्त्यभावः प्रसिद्धः । तम एव गुरु आवरकं चेष्टम् । सघुत्वविरौधी स्थितिहेतुभूतो धर्मविशेषः गुरुरिति निगद्यते । तमोगुणप्रकर्षेण सत्त्वस्वभावाः रजस्खभावाश्च प्रतिबध्यन्ते । एतदेवास्यावरकत्वमभिप्रेतम् । एवं सत्त्वस्य सुखप्रसादप्रकाशादयो धर्माः । तमसो मोहावरणस्तम्भनादयो धर्माः । अत एव लोके रजो दुःखात्मकमिति, तमो मोहात्मकमित्यपि प्रसिद्धिर्वर्तते । मूलप्रकृतिरूपं तत्त्वं विभुपरिमाणमिति साङ्ख्या मन्यन्ते । तदेतन्मूलप्रकृतिरूपं तत्त्वमनुमानेन ते साधयन्ति । तथा च प्रयोगः–महदादिकार्यं सुखदुःखमोहात्मकद्रव्यकार्यं–कार्यत्वे सति सुखदुःखमोहात्मकत्वात् । वस्त्रादिकार्यभूतशय्यासनादिवत् । इति । अथवा महदादिकं–सकारणक सजातीयकारणजन्यं वा, सजातीयोपादानकं वा, स्वतन्त्रकारणजन्यं वा कार्यत्वात् ॥ इति ॥

अथवा–विमतं भावजातं–सुखदुःखमोहात्मककारणकं–तदन्वितत्वात् । यद्येनान्वीयते तत्त्कत्कारणकम्–यथा रुचकादिकं सुवर्णान्वितं सुवर्णकारणकं, तथाचेदम् तस्मात्तथेति । एवं सर्वं भावजातं–सुखदुःखमोहात्मकं त्रिगुणप्रधानकारणकमित्येदद्वेदेप्युपगीयते । तथाहि श्वेताश्वतरोपनिषदि श्रूयते । “अजामेकां लोहितशुक्लकृष्णां बह्वीः प्रजाः सृजमानां सरूपाः । अजोह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः” ॥ इति (श्वेतश्व.अ.4 मं.5) अत्र लोहितशुक्लकृष्णशब्दाः रंजकत्वप्रकाशकत्वावरकत्वसाधर्म्यात् रजःसत्त्वतमोगुणत्रयप्रतिपादनपरा बोद्धव्याः । अचेतनस्यैव प्रधानस्य स्वतन्त्रस्य कर्तृत्वेन सर्गाग्युपपत्तेरदृष्टेश्वरकल्पनानुपपत्तेः स्वतन्त्रेश्वरावादोऽनुपपन्न इति सांख्याचार्याः समाचक्षते । लोके तावत् चेतनानधिष्ठमचेतनमपि पुरुषार्थाय प्रवर्तमानं दृष्टम् । यथा जलमचेतनं लोकोपकाराय प्रवर्तते । यथावाज्ञस्य क्षीरस्य वत्सविवृद्ध्यर्थं प्रवृत्तिस्तथा प्रकृतिरचेतनापि पुरुषविमोक्षाय प्रवर्त्स्यति ।

तदुक्तम्–वत्सविवृद्धिनिमितं क्षीरस्य यथा प्रवृत्तिरज्ञस्य ।
पुरुषविमोक्षनिमित्तं तथा प्रवृत्तिः प्रधानस्य ॥

इति (सां.का.57) ॥

इह च कर्तृत्वं नाम स्वत एव प्रवृत्तिमत्वं विवक्षितम् । विकृतयश्च प्रकृतयञ्च महदहङ्कारतन्मात्राणि सप्ततत्त्वानि । तदप्युक्तम् ।

“मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त” इति ॥

तत्रान्तःकरणादिपदवेदनीयं द्वितीयं तत्त्वं बुद्धिः । अस्या एव बुद्धेः महानिति संज्ञा । तच्च महत्तत्वमहङ्कारस्य प्रकृतिः । मूलप्रकृतेस्तु विकृतिः । तदेवाहङ्कारतत्त्वं तामसं सत् पञ्चतन्मात्राणआं सूक्ष्माभिधानानां प्रकृतिः । तदेव सात्विकं सदेकादशेन्द्रियाणां बुद्धीन्द्रियाणआं चक्षुःश्रोत्रघ्राणरसानात्वगाख्यानां तथा कर्मेन्द्रियाणआं वाक्पाणिपादपायूपस्थाख्यानामुभयात्मकस्य मनसश्च प्रकृतिः । रजसस्तूभयत्र क्रियोत्पादनद्वारेण कारणत्वमस्तीति तस्य सार्थक्यमवगन्तव्यम् । पञ्चतन्मात्राणि तत्त्वानि पञ्चमहाभूतानामाकाशादीनां प्रकृतयो विकृतयश्चाहङ्कारस्य । तथाच पञ्चभूतान्येकादशेन्द्रियाणींति षोडशको गणो विकृतिरेव । पुरुषस्त्वनुभयरूपो न प्रकृतिर्नापि विकृतिः । जन्ममरणकरणानां प्रतिनियमादयुगपत्प्रवृत्तेश्च पुरुषबहुत्वमङ्गीकृतम् । तदेवं विस्तरतः पञ्चविंशतितत्त्वानि । सर्वमेतत् सङ्गह्योक्तं यथा–

“मूलप्रकृतिरविकृतिः महदाद्याः प्रकृतिविकृतयः सप्त ।
षोडशकस्तु विकारो न प्रकृतिर्न विकृतिः पुरुषः ॥”

इति (सां.का.3)

प्रकृतेर्महान् ततोऽहङ्कारस्तस्माद्गणश्च षोडशकः ।
तस्मादपि षोडशकात्पञ्चभ्यः पञ्चभूतानि ॥ सां.का.22 इति च ॥

प्रकृत्यादिपञ्चविंशतित्त्वसङ्ख्यायाः प्रतिपादनात्तेषां साङ्ख्यशब्दवाच्यत्वं भारतभागवतमात्स्यपुराणेष्वधिगम्यते । साङ्ख्यशास्त्रप्रशंसा च क्वचिदुपलभ्यते ।

तद्यथा– “सङ्ख्यां प्रकुर्वते यस्मात्प्रकृतिं च प्रचक्षते ।
तत्त्वानि च चतुर्विशत्तेन साङ्ख्यं प्रकीर्तितम् ॥” इति ॥

“सङ्ख्यां प्रकुर्वते चैव प्रकृतिं च प्रचक्षते ।
चतुर्विशतितत्वानि तेन साङ्ख्याः प्रकीर्तिताः ॥” इति ॥

“साङ्ख्यं सङ्ख्यात्मकत्वाच्च कपिलादिभिरुच्यते” इति च ।

नास्ति साङ्ख्यसमं ज्ञानं नास्ति योगसमं बलम् ।
अत्र वः संशयो माभूत् ज्ञानं साङ्ख्यं परं मतम् ॥ इति च ॥

आप्रलयं कार्याणां परस्परविभेदश्च भवेदिति साङ्ख्यैः कथ्यते । साङ्ख्यमते प्रत्यक्षानुमानागमाश्चेति त्रीणि प्रमाणानि । सत्कार्यवादिनस्तु साङ्ख्याः । कार्यं तावत् कारकव्यापारात्प्रागपि सदेवेति ते प्रतिपादयन्ति । नैयायिकाभिमतमसत्कार्यवादं सयुक्तिकं निराकुर्वन्ति । तदुक्तम्–

“असत्त्वान्नास्ति सम्बन्धः कारणैः सत्त्वसङ्गिभिः ।
असम्बद्धस्य चोत्पत्तिमिच्छतो न व्यवस्थितिः ॥” इति ॥

एवं— “असदकरणादुपादानग्रहणात्कर्वसम्भवाभावात् ।
शक्तस्य शक्यकरणात्कारणभावाच्च सत्कार्यम् ॥” इति ॥
(सां.का.9)

पञ्चविंशतितत्वान्य्युगच्छन्तः साङ्ख्याः पुनः प्रथमस्य प्रधानरूपबतत्त्वस्य प्रसाधनायानुमानं केवलं प्रमाणतया यदुदाहरन्ति तच्चानुमानं सतः सज्जायत इत्येवं कार्यकारणभावमुपजीव्य प्रवर्तते । कार्यकारणभावे च मतभेदेन चत्वारः कल्पाः संलक्ष्यन्ते । तत्रासतः कारणादसदेव कार्यं जायत इत्येकः पक्षः । असतः सकाशात् सदित्यपरः पक्षः सतः कारणात्सकाशादसदिति तृतीयः कल्पः । सतः सकाशात्सदिति चतुर्थः पक्षः । तेषु प्रथमः पक्षः सुतरामेवासमीचीनः । असतस्तुच्छस्य कार्यस्य शशविषाणस्येवोत्पस्यसम्भवात् । असतः कारणात् सतः कार्यस्योत्पत्तिरिति बौद्धानां राद्धान्तः । कार्यस्य सत्वंनाम बौद्धसिद्धान्ते क्षणकालमवस्थितिरूपमेव । न तु कालत्रयाबाध्यत्वाधिकम् । सतः सकाशादसतः कार्यस्योत्पत्तिरिति तृतीयः पक्षो मायावादिनां वेदान्तिनामभिमतः । द्रव्यस्य सतोऽवस्थान्तरापत्तिः खलु परिणामः । यथा मृत्पिण्डस्य घटात्मना परिणामः । अपरित्यक्तमूलरूपस्य (प्राक्तनरूपस्य वा) वस्तुनो असता रूपान्तरेण प्रतीतिर्हि ववर्तः । यथा शुक्तिकायाः रजतरूपेण प्रतीतिः । नित्यशुद्धबुद्धमुक्तस्वभावाद्वितीयचैतन्यैकरसब्रह्मस्वरूपवादिनो ह्यैक्यवादिनस्त्वधिष्टानभूते ब्रह्मणि सर्वं जगत् भ्रान्त्या प्रतिभासत इति सञ्चक्षते । विवर्तत्वात्तस्याभासमात्रत्वमिति न ब्रह्मवत् पारमार्थिकत्वम् । व्यावहारिकरूपेण सत्त्वं तु कार्सस्य जगतस्तैरङ्गीकृतत्वात्तदभिप्रायेणैव सतः सकाशात्सत्कार्यमुत्पद्यत इति तुरीयः पक्षोऽपि तन्मते वक्तुं शक्यते । साङ्ख्यास्तु कार्यस्य पारमार्थिकसत्त्वमूरीकुर्वन्ति । उत्पत्तेः पूर्वमसदेव कार्यं सतो मृदादिकारककलापात्सकाशाज्जायत इति नैयायिका वैशेषिकाच्च साङ्गिरन्ते । साङ्ख्यमते तु कारकव्यापारात्प्रागपि कार्यं सदेव । सत एव घटादिकार्यस्य कारकव्यापारात्प्रागनभिव्यक्तस्वरूपस्य कारकव्यापारेण केवलमभिव्यक्तिं तैलदृष्टान्तप्रदर्शनतपुरस्सरमुपपादयन्ति । यथा तिलेषु विद्यमानस्यैव तैलस्य तैलयन्त्रसम्पीडनादभिव्यक्तिः तथा सतः कारणात् कार्यस्य पूर्वमनभिव्यक्तस्याभिव्यक्तिरिति निरूपणात्ते सत्कार्यवादित्वेन दार्शनिकैः परिगण्यन्ते । तेष्वपि मतभेदः संलक्ष्यते । सर्वेऽपि साङ्ख्याः पुरुषस्य कर्तृत्वं नानुमन्यन्ते । तदुक्तम्–

“तस्माच्च विपर्यासात्सिद्धं साक्षित्वमस्य पुरुषस्य ।
कैवल्यं माध्यस्थ्यं द्रष्ट्टत्वमकर्तृभावश्च ॥” इति ॥ (सां.का.19)

तत्रापि केचिच्चेतनस्य भोक्तृतामाहुः । अपरे तामपि नाङ्गीकुर्वते । तद्यथा–

तस्मान्न बध्यतेऽसौ न मुच्यते नापि संसरति कश्चित् ।
संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः ॥ इति ।
(सां.का.62)

सुखदुःखाद्यनुभवितृत्वं हि भोक्तृत्वम् । तच्चात्मनः क्रियावेशमन्तरेण स्वरूपचैतन्येनैवोपपद्यत इति तेऽभिमन्यन्ते । भोक्तृत्वं न पुरुषस्वभावः । अपवर्गाभावप्रसङ्गात् । आत्मनश्चापरिणामित्वादागन्तुकमपि भोक्तृत्वं तस्य वक्तुमशक्यम् । अतः कर्तृत्वमिव भोक्तृत्वमप्यात्मनो न शक्यमङ्गीकर्तुम् । प्रकृतिसंयोगनिमित्तो हि पुरुषस्य भोगः । प्रकृतिसंयोगोऽपि पुरुषस्य न केवलं भोगार्थः । किन्त्वपवर्गार्थश्च । तत्र विवेकाग्रहसचिवो भोगाय भवति । प्रकृतिपुरुषविवेकग्रहे चापवर्गाय । करोतु नाम पौनःपुन्येन शब्दाद्युपभोगं प्रकृतिः । अनया विवेकख्यातिरकृतेति । कृतविवेकख्यातिस्तु न शब्दाद्युपभोजयति । अविवेकख्यातिनिबन्धनो हि उपभोगः निबन्धनाभावे न भवितुमर्हति । अविवेकख्यातिनिबन्नो हि उपभोगः निबन्धनाभावे न भवितुमर्हति । तस्मादचेतनस्यापि चेतनविशेषानधिष्टितस्य प्रधानस्य महदादिरूपेण परिणामः पुरुषार्थप्रयुक्तः प्रधानपुरुषसंयोगनिमित्तश्च । यथा व्यापाररहितस्याप्ययस्कारन्तस्य सन्निधानेन लोहे व्यापारः संदृश्यते तथा निर्व्यापारस्य पुरुषस्य सन्निधानेन प्रधानव्यापारो युज्यत इति तेऽभिप्रयन्ति । एवं प्रकृतिपुरुषसंयोगविषयेऽपि साङ्ख्यास्त्वेवमाहुः । यथा प्रकृतिपुरुषसम्बन्धोऽपि पंग्वन्धवदन्योन्यापेक्षा निबन्धनः । प्रकृतिर्हि भोग्यतया भोक्तारं पुरुषमपेक्षते । पुरुषोऽपि प्रकृतिपरिणामभूताया बुद्धेः सकाशात् भेदस्याग्रहात् स्वात्मानं बुद्धिस्वरूपं मन्यमानो बुद्धिगतं सुखदुःखादिकं सर्वं स्वस्यैवेति जानन् तत्प्रहाणाय कैवल्यमपेक्षते । तच्च कैवल्यं प्रकृतिपुरुषविवेकनिबन्धनं न तदन्तरेण युक्तमिति कैवल्यार्थं पुरुषः प्रधानमपेक्षते । यथा खलु गतिशक्तिविहीनस्य पङ्गोरभीप्सितदेशप्राप्त्यर्थं गतिशक्तिमतोऽपेक्षायामन्धस्य च दृक्शक्तिविहीनत्य दृक्शक्तिमतोऽपेक्षायाञ्च संयोगो भवति । ततश्चान्धेन पङ्गुः स्वस्कन्धमारोपितः । ततः परमन्धः स्वस्कन्धारूढपङ्गुनिर्दिष्टमार्गेण गच्छन्नभीष्टस्थानमाप्नोति । तथा परस्परापेक्षप्रधानपुरुषनिबन्धनः सर्ग इति तद्विषये साङ्ख्याश्चान्धपङ्गुन्यायं निर्दिशन्ति । तदुक्तम्–

“पुरुषस्य दर्शनार्थं कैवल्यार्थं तथा प्रधानस्य ।
पंगवन्धवदुभयोरपि सम्बनधस्तत्कृतः सर्गः ॥ इति ॥
(सां.का.21)

अत्र पुरुषः क्रियारहितत्वात्–पङ्गुसदृशः । प्रधानन्त्वचेतनत्वादन्धतुल्यम् । एवञ्च पूर्वोक्तरीत्या पङ्गुसम्बन्धादन्धो मार्गे यथा प्रवर्तते तथैव पुरुषसम्बनात्प्रधानमचेतनमपि प्रवर्तते । यथा चान्धसम्बन्धात्पङ्गुः स्वयं गमनशक्तिहीनोप्यन्धसाहाय्येनाभीष्टदेशमुपगच्छति तथा प्रधानसम्बनधात्पुरुषो विवेकज्ञानद्वारा कैवल्यमाप्नोतीति तेषां परमाशयः ।

एवमेव यथा खलु स्वैरिणी भर्त्रा दृष्टदोषा भर्तारं पुनर्नापैति यथा वा नर्तकी शृङ्गारादिरसैस्तदनुगुणानुभावैश्च निबद्धगीतवादित्रनृत्यानि प्रेक्षकसहृदयवृन्दस्य प्रदर्श्य कृतकार्या नृत्यान्निवर्तते तथा प्रकृतिरप्यात्मानं बुद्ध्यहङ्कारतन्‌मात्रेन्द्रियमहाभूतभेदेन प्रकाश्य ततो निवर्तते । न च निवृत्तापि पुनः प्रवर्त्स्यतीति शङ्कनीयम् । प्रयोजनाभावात् । तदेतत्सर्वं साङ्ख्याचार्यैः कारिकायां प्रत्यपादि ।

तच्चोक्तम्–

“दृष्टा मयेत्युपेक्षक एको दृष्टाहमित्युपरमत्यन्या ।
सति संयोगेऽपि तयोः प्रयोजनं नास्ति सर्गस्य ॥ (सां.का.66)

इति । तथा

“रङ्गस्य दर्शयित्वा निवर्तते नर्तकी यथा नृत्यात् ।
पुरुषस्य तथात्मानं प्रकाश्य विनिवर्तते प्रकृतिः ॥(सां.का.59)

इति ॥ एवं–

“प्रकृतेः सुकुमारतरं न किञ्चिदस्तीति मे मतिर्भवति ।
या दृष्टास्मीति पुनर्न दर्शनमुपैति पुरुषस्य ॥” (सां.का.61)

इति ॥

तदेतत्साङ्ख्यामतं केवलाचेतनकर्तृत्वचेतनसहिताचेतनकर्तृत्वाभ्यां द्वेधा परिदृश्यते । तत्रापि द्वितीयं साङ्ख्यमतमपि गुणभूतेश्वरानुगृहीतप्रधानकर्तृत्वेन जीवसहितप्रधानकर्तृत्वेन चेति द्विविधम् । अनयोर्मध्ये द्वितीयं निरीश्वरमाद्यन्तु सेश्वरम् । सेश्वरामपि साङ्ख्यमतमीश्वरस्य स्वातन्त्र्याद्यस्वीकारेण फलतो निरीश्वरवाद एवान्तर्भवति । जीवसहितप्रधानस्य कर्तृत्वमपि जीवस्योपसर्जनत्वप्राधानाभ्यां द्वेधा वर्तते । एवं निरीश्वरसाङ्ख्यमतं केनचित् वैलक्षण्येन चतुर्विधमुपावर्णि प्राक्तनैराचार्यैरिति साङ्ख्यमतसङ्ग्रहः ॥

तदेतत्स्वतन्त्रापरिच्छिन्नप्रकृतिकर्तृत्ववादो नितरामप्रामाणिकः । तथाहि ॥

अरा इव रथनाभौ कला यस्मिन् प्रतिष्ठिताः तं वेद्यं पुरुषं वेद यथा मा वो मृत्युः परिव्यथा इति तान्होवाचैतावदेवाहमेतत्परं ब्रह्मा वेद नातः परमस्तीति (षट्र प्रश्न 6 मं.6.7) ते तमर्चयंतस्त्वं हि नः पिता योऽस्माकमविद्यायाः परं पारं तारयसीति ॥ (षट्र प्रश्न 6 मं.8) तस्मै मृदितकषायाय तमसः पारं दर्शयति भगवान् सनत्कुमारः क्षयंतमस्य रजसः पराके इत्यादि श्रुतिभिः तस्याः परिच्छिन्नत्वेनैव सिद्धेः ।

न च मूलप्रकृतिसिद्धर्नागमात् किंत्वनुमानत इति युक्तम् । केवलानुमानेन तदसिद्धेः । अन्यथा धर्मादीनामप्यनुमानेन सिद्ध्याऽऽगमप्रामाण्यांगीकारवैयर्थ्यात् । न हि धर्मादीनामेवागमेन सिद्धिः प्रकृत्यादीनांत्वनुमानत इत्यर्धजरत्याश्रयणं युक्तम् । अलौकिकत्वस्योभयत्र तुल्यत्वात् । न चागमः प्रमाणमेव नेति युक्तम् । अपसिद्धान्तात् ।

“दृष्टमनुमानमाप्तवचनं च सर्वप्रमाणसिद्धत्वात् । त्रिविधं प्रमाणमिष्टं प्रमेयसिद्धिः प्रमाणाद्धि ॥ (सां.कारिका श्लो.4) प्रतिविषयाध्यवसायो दृष्टं त्रिविधमनुमानमाख्यातम् । तल्लिंगलिंगिपूर्वकमाप्तश्रुतिराप्तवचनं तु ॥ (सां. कारिका श्लो.5) इति सप्तत्यां प्रत्यक्षादितुल्यतया शब्दप्रमाणस्याभ्युपगमात् । न च तल्लौकिकवाक्याभिप्रायं तद्विशेषनियमामकाभावात् । तच्च स्वतः प्रमाणमपौरुषेयवेदोपजीवित्वेन सकलदोषाशंकाविनिर्मुक्तं भवतीति सप्ततिव्याख्यानविरोधापत्तेश्च ।

अस्तु वा प्रकृतेरनुमानतः सिद्धिः । तथाऽपि विभुत्वं न सिध्यति । तत्र तस्यासामर्थ्यात् । न चानुमानांतरतस्तत्सिद्धिः । त्वन्मत्ते प्रकृतिव्यतिरिक्तविभ्वंतरस्यानभ्युपगमेन व्याप्तेरेवासिद्धेः । न च व्यतिरेकव्याप्तिः । त्वदनभिमतस्यापि तया सिद्धिप्रसंगात् । उदाहृतश्रुतिविरोधेन तथाविधानुमानप्रवृत्ययोगाच्च । नचोदाहृतश्रुतीनां प्रकृतेः परिच्छिन्नत्वप्रतिपादने तात्पर्यं नेति युक्तम् । मानान्तरविरोधाभावेऽपूर्वत्वेच सति तात्पर्यस्य दुर्वारत्वात् । न च तत्र प्रकृत्वात्मनोर्भेदमात्रं प्रतीयत इति वाच्यम् । बाधकं विना स्वरससिद्धार्थत्यागायोगात् । तस्मात्मूलप्रकृतेर्न विभुत्वमङ्गीकरणीयम् ।

अस्तु वा मूलप्रकृतेर्ब्रह्मवद्व्यापकत्वम् । तथापि तस्या अनाश्रितत्वं स्वातन्त्र्यं च नांगीकरणीयम् । “संयुक्तमेतत्क्षरमक्षरं(1) च व्यक्ताव्यक्तं भरते विश्वमीशः ॥ (श्वेताश्व प्र.अ.मं.8) क्षरं प्रधानममृताक्षरं हरः । क्षरात्मानावीशते देव एकः(2)” (श्वेताश्वतर प्र.अ.मं.10) सूयते पुरुषार्थं च तेनैवाधिष्ठितं जगत् । `गौरनाद्यंतवती(3) (मंत्रिकोपनिषत् मंत्रः 5) `मयाऽध्यक्षेण(4) प्रकृतिः सूयते सचराचरं’ (भगवद्गीता अ.9, श्लो.10) इत्यादिश्रुतिस्मृतिभिस्तस्या अन्याश्रितत्वान्याधीनत्वयोः प्रतिपन्नत्वात् । न चेश्वरस्य मयाऽनम्युपगमात्प्रकृतेरनाश्रितत्वं स्वातंत्र्यं च सिध्यतीति वाच्यम् । अनंगीकारे हेत्वभावात् । प्रमाणसिद्धार्थस्य दुरपह्नवत्वात् । अन्यथाऽतिप्रसंगात् । त्वन्मते महदादिकार्यानुरूपप्रकृतिरूपोपादानसिद्धेरिव तथाविधकार्यकर्तृभूतेश्वर सिद्धेरपि दुरपह्नवत्वात् । न च कार्यस्योपादानापेक्षैव न तु कर्त्रपेक्षेति संकोचे कारणमस्ति । व्याप्तेरुभयत्र तुल्यत्वात् । अचेतनभूतायाः प्रकृतेः स्वतः प्रवृत्त्ययोगाच्च । न च वत्सविवृध्यर्थं कर्तारं विनैव क्षीरादिकार्यं दृष्टमिति वाच्यम् । तत्रापि गवाद्यात्मनामेव कर्तृत्वात् । अन्यथा मृतशरीरादपि क्षीराद्युत्पत्तिः स्यात् । न चायस्कान्तसन्निधिमात्रेण लोहप्रवृत्तिवत् पुरुषसन्निधानमात्रेण प्रकृतेः प्रवृत्तिरिति युक्तम् । “को ह्येवान्यात्कः प्राण्यात्” (तै.2-7) इत्यादिश्रुतिभिः सर्वप्रवृत्तैरीश्वराधीनत्वं वदन्तं प्रति तादृशोदाहरणस्यांसंप्रतिपन्नत्वात् । किंच निरवय

F.N.1. अनीशश्चात्मा बध्यते भोक्तृभावात् ज्ञात्वादेवं मुच्यते सर्वपाशैः इत्युत्तरार्धम् ।
2. तस्याभिध्यानात् योजनात् तत्त्वभावात् भूयश्चान्ते विश्वमाया निवृत्तिः ॥ इत्युत्तरमंत्रभागः ।
3. गौरनाद्यन्तवती सा जनित्री भूतभाविनी ।
सितासिता च रक्ताच सर्वकामदुघा विभोः ॥ 5 ॥
4. हेतुनानेन कौन्तेय जगद्विपरिवर्तते ॥ इत्युत्तरार्धम् ।

वत्वमपि तस्या न युक्तम् । तस्या अनेकावयवसंघातरूपत्वात् । तथाच विष्णुपुराणम्–

महान्तं च समावृत्य प्रधानं समवस्थितम् ।
अनंतस्य न तस्यांतः संख्यानं वापि विद्यते ॥
तदनंतमसंख्यातं संख्यातं सप्रमाणकम्–इति ॥

“अजाभेका” मित्यादिश्रुतिस्तु (श्वे.अ.4,मं.7) समष्ट्यभिप्रायेति न विरोधः । एतच्च “रचनानुपपत्तेश्च नानुमानमित्यादिना” (ब्र.सू.अ.2,पा.2,सू.1) समयपादे विस्तरेणोपपादितम् । तत्रैवानुसन्धेयम् ॥

तस्मादुपक्रमोपसंहारादिषड्विधतात्पर्यलिंगोपेतैः वेदान्तवाक्यैः सर्वज्ञस्य सर्वशक्तेः सर्वजगत्कारणस्य प्रकृतिपुरुषविलक्षणस्येश्वरस्य नापह्नवः कर्तुं शक्य इति स्थितम् ॥

यत्तु यद्यपि पुरुषश्चिन्मात्ररूपः अदासीनस्वभावश्च तथाऽपि बुद्धितत्वे प्रतिबिंबितस्तच्छायापत्त्या बुद्धितत्ववर्तिना ज्ञानसुखकृत्यादिना ज्ञानसुखादिमानिव कर्तेव च भवति । अचेतना बुद्धिरपि चिच्छायापत्या चेतनेव भवतीति तन्न । जीवे ज्ञातृत्वकर्तृत्वादेः स्वाभाविकत्वात् । “एष हि द्रष्टा स्प्रष्टा श्रोता घ्राता रसयिता मन्ता बोद्धा कर्ता विज्ञानाऽऽत्मा पुरुषः” (षट्प्रश्न 4, मं.9) इति श्रुत्या निकृष्टजीवस्यैव ज्ञातृत्वादीनां प्रतिपादनात् । नचेयं श्रुतिः परविषयेति शंक्यम् । `स यो ह वै तदच्छायमशरीरमलोहितं शुभ्रमक्षरं वेदयते । यस्तु सोम्य स सर्वज्ञ (षट्प्रश्न 4, मं, 10) इति वेद्यस्य परस्वरूपस्या व्यवधानेन प्रतिपादनेन पूर्ववाक्येनोपासकजीवस्वरूपस्यैव प्रतिपादनीयत्वात् । “गुणान्वयो यः फलकर्मकर्ता कृतस्य तस्यैव स चोपभोक्ते” ति (श्वे.उ.अ.5,मं.7) जीवविषयश्रुत्यन्तरसत्वाच्च । न च `ध्यायतीव लेलायतीव’ `प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः’ अहंकारविमूढात्मा कर्ताऽहमिति मन्यते (भगवद्गीता अ.3, श्लो.27) इत्यादिश्रुतिस्मृतिभिः कर्तृत्वभोक्तृत्वादेः अध्यासरूपत्वसिद्ध्या पूर्वोदाहृतक्षुत्योरपि तथाविधकर्तृत्वादिपरत्वमेव युक्तमिति वाच्यम् । स्वल्पभोजने भुक्तमिवेतिवदस्वतंत्रकर्तरि जीवे ध्यायतीव लेलायतीवेति निर्देशोपपत्तेः । स्मृत्यापि स्वतन्त्रकर्तृत्वस्यैवाध्यासरूपत्वप्रतिपादनेन कर्तृत्वमात्रस्य तथात्वाप्रतिपादनाच्च `सर्वं ह पश्यः पश्यति’ `जक्षन् क्रीडन् रममाणः’ एतत्सामगायन्नास्ते (तै.उ.भृगुवल्लीदशमाऽनुवाकः) सर्वान् कामान् सह ब्रह्मणा विपश्चितेत्यादिश्रुतिभिः मोक्षेऽपीश्वराधीनज्ञातृत्वकर्तृत्वभोक्तृत्वादेः प्रतिपन्नतया उदाहृतश्रुतिस्मृतीनां जीवे स्वतंत्रकर्तृत्वनिषेधपरत्वस्यैव युक्तत्वाच्च । `सर्वं ह पश्यः पश्यती’त्यादिश्रुतीनां मुक्तविषयत्वमेव नेति वदतः उन्मत्तवदुपेक्षणीयत्वाच्च ।

यदपि पुरुषो न बध्यते न मुच्यते नापि संसरति । किंतु, प्रकृतिरेव बध्यते मुच्यते संसरति चेति । तदपि `तयोरन्यः पिप्पलं स्वाद्वत्ति’ (श्वे.उ.अ.4,मं 6) तस्मिंश्चान्यो मायया संनिरुद्धः, `अजोह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः’ (श्वे.उ.अ.4.मं.4) “अनीशश्चात्मा बध्यते भोक्तृभावात्” `ज्ञात्वा देवं मुच्यते सर्वपाशैः’ (श्वे.उ.अ.4,मं16) “परामृतात्परिमुच्यन्ति सर्वे” `शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनैः संन्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि’ (भ.गी.अ.7, श्लो.28) इत्यादिश्रुतिस्मृतिभिर्जीवात्मत्येव बन्धमोक्षयोः संसारस्य च प्रतिपादनात् बन्धसंसारयोः प्रकृत्यधीनत्वस्यैव प्रतिपादनाच्च ॥ “कार्यकारण(1) कर्तृत्वे हेतुः प्रकृतिरुच्यते” (भ.गी.अ.13, श्लो.20) इति भेदेन प्रतिपादनात् साधारण्यज्ञापनार्थमिति न दोषः ॥

यत्तु भूतानां विकृतित्वमेव न प्रकृतित्वमित्युक्तं तन्न घटादीनां वृक्षादीनां च पृथिव्यादिविकाराणां दर्शनेन पृथिव्यादीनां प्रकृतित्वस्याप्यंगीकर्तव्यत्वात् । न च तत्वांतरोपादानत्वमेवेह प्रकृतित्वं विवक्षितम् । घटादयस्तु न पृथिव्यादिभ्यस्तत्वांतरमिति नोक्तदोषः इति वाच्यम् । त्वन्मते महदादीनामपि प्रकृत्यनन्यत्वात् । “कारणभावाच्च सत्कार्यमित्यत्र” (सां.का.9) कार्यस्यैव कारणरूपत्वादित्यर्थः । “न हि कारणात् भिन्नं कार्यं कारणं च सदिति कथं तदभिन्नं कार्यमसद्भवेदिति”

F.N.1. पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते ॥ इत्युत्तरार्धम् ।

वाचस्पतिना व्याख्यातत्वात् । न च कार्यकारणयोरभिन्नत्वान्नात्यन्ताभिन्नरूपत्वमिति युक्तम् । तस्यैव कार्यसत्वोपपादकत्वात् । भेदस्यापि सत्वे कार्यस्यासत्वापातेन पराभिमतसत्कार्यवादासिद्धिप्रसंगात् । एवं च सांख्यमते कार्यकारणयोरत्यन्ताभेदाभ्युपगमेन, “हेतुमदनित्यमव्यापिसक्रियमनेकमाश्रितं लिंगं सावयवं परतन्त्रं व्यक्तं विपरीतमव्यक्तमिति” (सां.का.10) व्यक्ताव्यक्तवैधर्म्यप्रतिपादनमप्यसंगतम् । न ह्येकस्यैव तद्रूपत्वमतद्रूपत्वं च संभवति ॥

किंच कार्यकारणयोर्भेदोऽप्यंगीकार्यः । न त्वत्यंताभेदः । तथात्वेकार्यकारणभावानुपपत्तेः । अनन्यथासिद्धनियतपूर्वभावित्वस्य कारणत्वात् । तथाभूतपश्चाद्भावित्वस्य कार्यत्वात् । न ह्युपादानोपादेययोरैक्ये तदुभयं स्भवति । प्रत्युत्तैकतरपरिशेषापत्तेः । न चैकत्वेप्यवस्थाभेदमादाय तदुभयं संभवतीति युक्तम् । सांख्यमते तस्या अपि सत्वाभ्युपगमेन तामादाय पश्चाद्भावित्वांगीकारायोगात् ।

“असदकरणादुपादानग्रहणात्सर्वसंभवाभावात् ।
शक्तस्य शक्यकरणात्कारणभावाच्च सत्कार्यम् ॥
(सां.का.श्लो.9)

इति वदतात्वया कार्यमात्रस्य विद्यमानत्वोपगमात् । अवस्थाया असत्याएवोत्पत्यंगीकारेच सर्वत्रासत्कार्यवादापत्तेः ।

किंच सांख्याभिमतसत्कार्यवादो नोपपद्यते । पूर्वमपि कार्यस्य सत्वे कारकव्यापारवैयर्थ्यात् । न चाभिव्यक्त्यर्थमसाविति युक्तम् । कार्यकारणयोरभेदे कारणाभिव्यक्तेरेव कार्याभिव्यक्तिरूपतया तद्वैयर्थ्यात् । किं चाभिव्यक्तिरसती सती वा । नाद्यः । असत्कार्यवादापातात् । तद्वत् घटादीनामसतामेवोत्पत्तिरित्यत्र सुवचत्वाच्च । घटादीनामभिव्यक्तिरभिव्यक्तेस्तूत्पत्तिरित्यत्र नियामकाभावाच्च । न द्वितीयः कारकव्यापारवैयर्थ्यात् । तस्याभिव्यक्त्यभिव्यक्त्यर्थत्वे च तस्या अपि सत्वेन तत्र तत्रैवमित्यनवस्थापातात् । न च बीजांकुरादेरिवासौ न दोषः । तस्य सिद्धविषयत्वात् । अत्र च तदभावात् । अभिव्यक्ताया एवाभिव्यक्तेर्घटो जात इत्यादिवत्प्रतीत्युपपादकत्वेन मूलक्षयकरत्वेन तस्याः प्रकृते दोषत्वात् । उत्पत्तेरुत्पत्तिः स्वयमेवेति नानवस्था । आद्यसमयसम्बन्धस्यौवोत्पत्तिपदार्थत्वात्तस्य च स्ववृत्तित्वात्प्रमेयत्वे प्रमेयत्ववत्सिद्धविषयत्वेनात्माश्रयस्यादोषत्वात् ।

किंच घटाभिव्यंजकसामग्र्यैव मृत्कूटे विद्यमानानां शरावादीनामपि अभिव्यक्तिः स्यात् । घटायोन्मीलितं चक्षुः पटं न हि न बुध्यत इति न्यायात् । घटाभिव्यक्त्यर्थमारोपितेन दीपेन शरावादीनामप्यभिव्यक्तिदर्शनाच्च । न च वर्णोष्विव प्रतिनियतव्यंजकव्यंङ्ग्यत्वमंगीकार्यमिति वाच्यम् । वर्णनित्यत्वस्यानन्यथासिद्धप्रमाणप्रमितत्वेन ताल्वोष्टपुटव्यापारादेः प्रतिनियतध्वनिव्यंजकत्वेनैवोपयोगस्य वक्तव्यत्वेन वैषम्यात् ।

किंच दीपनेव दण्डादिनापि घटादीनामभइव्यक्त्यंगीकारे तद्दण्डादिना घटोऽभिव्यक्त इति प्रतीतिः स्यान्नोत्पन्न इति । न चाभिव्यक्तौ तारतम्यं प्रमाणाभावात् । न च कूपखननानन्तरमभिव्यक्ते जलेप्युत्पन्नत्वव्यवहारदर्शनात् निष्पीडनानंतरं तैलमुत्पन्नमिति व्यवहारदर्शनात् देवदत्तो जात इति व्यवहारदर्शनाच्च नोक्तदोष इति वाच्यम् । जलादिषु निरूपणदशायामभिव्यक्तत्वव्यवहारस्यापि दर्शनेन घटादिषु सर्वथैवोत्वन्नव्वहारसत्वेन वैषम्यात् ।

तस्मात्साङ्ख्यरीत्या सत्कार्यवर्णनमनुपपन्नम् ॥

यत्तु “उभयात्मकमत्र मनः” इति मनसः कर्मज्ञानेन्द्रियोभयात्मकत्वमुक्तम् । तन्न । वागादीनामिवासाधारणक्रियाभावात् । मनोऽधिष्ठितानां वागादीनां क्रियाजनकत्वेन मनसः कर्मेन्द्रियत्वे कालादृष्टेश्वरादीनामपि तथात्वापत्तेः । न च चक्षुरादीन्द्रियेण सम्मुग्धतो गृहीतं वस्त्वेवं विधमेव नानैवंविधमिति मनः सम्यग्विवेचयतीति विवेचनरूपोव्यापारोऽसाधारणोऽस्तीति तस्य कर्मेन्द्रियत्वं युक्तमिति वाच्यम् । विवेचनस्य ज्ञानविशेषरूपत्वेनाक्रियारूपत्वात् । इदमर्थमेवेति ज्ञानस्यैव विवेचनरूपत्वात् । कर्मेन्द्रियं तु पाय्वादि मनोनेत्रादि धीन्द्रियमिति लोकप्रसिद्ध्यनुसारेण मनसः केवलज्ञानेन्द्रियत्वस्यैव युक्तत्वाच्च ।

ननु त्वन्मते कथं तस्य ज्ञानेन्द्रियत्वमसाधारणस्य ज्ञानलज्ञणफलस्याभावात् । न तावत् बाह्यविषयज्ञानं प्रति तस्य करणत्वं तस्य यथायोगं प्रत्यक्षादिप्रमाणफलत्वान्मनसो बहिस्स्वातन्त्र्यानभ्युपगमाच्च । नाप्यान्तरपदार्थविषयज्ञानं प्रति तस्य करणत्वमात्मनः स्वप्रकाशत्वेन तदनपेक्षत्वात् । सुखदुःखज्ञानेच्छादीनां च (1)साक्षिसिद्धत्वात् । न च स्मृतिं प्रति तस्य करणत्वं तस्याः संसकारमात्रजन्यत्वात् । परोक्षज्ञानत्वेनेन्द्रियकरणकत्वायोगाच्चेति । चेन्न । स्मृतेः साक्षात्काररूपत्वोपगमात् । न चैवं स्मृत्यनन्तरं साक्षात्करोमीति प्रतीत्यापत्तिः । नैयायिकादिमते सामान्यलक्षणप्रत्यासत्तिजन्यज्ञानेष्विव तदभावेऽपि साक्षात्कारात्वोपपत्तेः । न च मनसो बहिरस्वातन्त्र्यम् । ज्ञानोपनीतविषये वहिरर्थेऽपि तस्य स्वातन्त्र्योपगमात् । संस्कारस्य सहकारित्वोपगमाच्च ।

किं च मोक्षसाधनीभूतब्रह्मसाक्षात्कारकरणत्वेन मनसः इन्द्रियत्वम् । न च तस्य चक्षुरादि करणकत्वम् । `न चक्षुषा गृह्यते नापि वाचेति’ (मुण्डकोपनिषत् खं.3,मं 8) तद्ग्राह्यत्वनिषेधात् । नापि शब्दकरणकत्वम् । तस्य परोक्षज्ञानैकफलत्वात् । नापि ध्यानकरणकत्वम् । अस्यापरोक्षत्वात् । ज्ञानकरणकस्य परोक्षत्वनियमात् । अपरोक्षज्ञानस्येन्द्रियकरणकत्वावश्यम्भावाच्च । न च ब्रह्मसाक्षात्कारोऽकारणक इति युक्तम् । ज्ञानक्रियायाः सकरणत्वनियमात् । तस्मात्तस्य मनःकरणकत्वम् । न च ब्रह्मसाक्षात्कारस्य मनःकरणकत्वे मानाभावः उक्ते परिशेषस्यैव तत्र प्रमाणत्वात् । मनसैवानुद्रष्टव्य-(बृ.उ.4, अ.ब्रा.4,मं.19) मित्यादिश्रुतीनां सत्वाच्च । न च सा श्रुतिरुपचरितार्था । मुख्यार्थे बाधकाभावात् । न च यन्मनसा न मनुते इति श्रुत्यन्तरमेव बाधकमिति वाच्यम् । दृश्यते त्वटयया बुध्येत्यादिश्रुत्यनुसारेण तस्यानवितमनोगम्यत्वनिषेधपरत्वकल्पनेन विरोधाभावादित्यलं शाखाचंक्रमणेन । तस्मान्मनसः केवलज्ञानेन्द्रियत्वमेव । न तु कर्मेन्द्रियत्वमिति स्थितम् ।

F.N.1. सुखं दुःखं भवो भावो भयं चाभयमेव च ।
साक्षिसिद्धा न कश्चिद्धि तत्र संशयवान् क्वचित् ॥

एतेन अग्निषोमीयादिहिंसायाः क्रत्वङ्गभूतायाः किञ्चित्पापसाधनत्वमप्यस्तीति साङ्ख्योक्तं निरस्तम् । तस्याः पापसाधनत्वे प्रमाणाभावात् । न च न हिंस्यात् सर्वाभूतानीति तस्या निषेधात्पापसाधनत्वमिति वाच्यम् । निषेस्य यदग्नीषोमीयं पशुमालभते इति विशिष्य विहितेतरपरत्वात् । अन्यथा श्रुतिद्वयविरोधापत्तेः । सामान्यशास्त्रस्य विशेषशास्त्रेण बाधस्याङ्गीकर्तव्यत्वाच्च ।

ननु विरोधे हि बलीयसा दुर्बलं बाध्यते । न चेहास्ति विरोधः । भिन्नविषयत्वात् । तथा हि–न हिंस्यादिति निषेधेन हिंसाया अनर्थहेतुभावो ज्ञाप्यते । न क्रत्वनङ्गत्वमपि । अग्नीषोमीयवाक्येन च पशुहिंसायाः क्रत्वङ्गभावो ज्ञाप्यते । न त्वनर्थहेतुत्वाभावोऽपि । न चानर्थहेतुत्वक्रतूपकारत्वयोः कश्चिद्विरोधः । एवं च हिंसा पुरुषस्य दोषमात्रं वक्ष्यति । क्रतोश्चोपकरिष्यतीति युक्तम् । तस्याः सुपरिहरस्वल्पापाहेतुत्वम् । आह च भगवान् पञ्चशिखाचार्यः–“स्वल्पसङ्करः सुपरिहर इतीति” ।

अत्र केचिदाहुः अग्नीषोमीयपश्वालम्भनस्य हिंसारूपत्वे हि न हिंस्यादिति निषेधेन क्रोडीकृतत्वेन पापहेतुत्वम् । न च तस्य हिंसारूपत्वमस्ति । “न वा उवे न भ्रियसे न रिष्यसि देवां इदेषि पथिभिः सुगेभिः । यत्र यन्ति सकेतो नापि दुष्कृतः तत्र त्वादेवः सविता दधातु ॥” इति मन्त्रवर्णेन पशुस्वर्गसिद्धिपर्यवसायितया प्वनुग्रहरूपत्वेनैव सिद्धतयाक्रोधादिकृतस्य शरीरावयवदाहच्छेदादेः निग्रहत्वेऽपि प्राणशान्त्यर्थं कृतस्य तस्यानुग्रहरूपत्वेनानिग्रहत्ववत् पश्वनुग्राहकस्य क्रत्वर्थस्य पशुमारणस्याहिंसात्वोपपत्तेरिति ।

अत्रोच्यते । अग्नीषोमीयहंसायाः पश्वनुग्राहकत्वेऽपि हिंसात्वमस्त्येव । प्राणशान्त्यर्थं कृतस्य शरीरावयवदाहच्छेदादेः तत्पुरुषानुग्रहरूपत्वेऽपि दाहच्छेदादिरूपत्वदर्शनेन पशुमारणस्यापि हिंसारूपत्वोपपत्तेः । प्राणवियोजनानुकूलव्यापारस्यैव हिंसाशब्दार्थत्वात् । “न वा उवे म्रियसे नहिष्यसीति” मरणाद्यभावोक्तेरपि `अपशवो वा अन्ये गोऽश्वेभ्यः’ इत्यादीविव प्रत्यक्षविरोधेन प्रशंसापरत्वेन तदनुसारेणाहिंसारूपत्वासिद्धेश्च । न चैवमग्नीषोमीयपशुमारणस्य हिंसारूपत्वे पापसाधनत्वं स्यादिति युक्तम् । तस्य निषेधाविषयत्वात् । तथा हि हिंसा हि द्विविधा पुरुषार्थरूपा क्रत्वर्थरूपा चेति । तत्र निषेधस्य(1) पुरुषार्थभूता हिंसैव विषयः । न क्रत्वर्थभूताहिंसाऽपि । हिंसात्वाविशेषात्तामपि विषयीत्कियादिति चेन्न । निषेधस्य शीघ्रप्रतीतिकपुरुषार्हिंसार्थव्यावर्तंनेन निवृत्ततया विलम्बितोपस्थितिकक्रत्वर्थहिंसास्पर्शाभावात् । `न हिंस्यादित्यत्र’ पुरुषार्थहिंसाया एव धातुना वेद्यमानत्वेन तस्या एव शीघ्रोपस्थितिकत्वात् । अत्र क्रतूपस्थापकाभावेन क्रत्वर्थहिंसाया अनुपस्थितत्वेन निषेधस्य तदविषयत्वोपपत्तेः । `हिंसात्ववैदिकी या तु तयानर्थो भवेद्ध्रुवम् । वेदोक्तया हिंसया तु नैवानर्थः कथञ्चन ।’ इति भाष्योदाहृतस्मृतिरप्युक्तार्थपरेति न कश्चिद्दोष इति । तस्मादग्नीषोमीयहिंसायाः पापसाधनत्वमिति साङ्ख्योक्तमनुपपन्नम् ।

अनेन योगमतमपि निरस्तं वेदितव्यम् । यद्यपि सकलवेदप्रवर्तनाधिकृतेन सर्वज्ञेन हिरण्यगर्भेण योगमतं प्रवर्तितम् । यद्यपि सत्यभूताः प्रकृतिपुरुषेश्वराः क्लेशकर्माद्यपरामृष्टः प्रणवप्रतिपाद्यः सर्वलोकगुरुः पुरुषः ईश्वरः मुमुक्ष्वपेक्षिताष्टाङ्गोपेतयोगश्च तत्र प्रतिपादिताः । तथापि ईश्वरस्य क्रियाशक्तिरहिततया साङ्ख्यपुरुषवन्निर्व्यापारात्वं सन्निधिमात्रेण जगत्सर्जनोपकारकत्वं प्रकृतिप्राधान्यं वेदान्तानां तादृशप्रकृतिपरत्वमित्यादि वेदान्तविरुद्धार्थान्तरप्रतिपादनेन तन्मतं न प्रेक्षावदुपादेयम् । तथाहि ।

न तावदीश्वरस्य निर्व्यापारत्वम् । `तदैक्षत’ (छां.अ.खं. 2 मं.3) तत्तेजोऽसृजत `तदात्मानं स्वयमकुरुत’ “तत्सृष्ट्वा तदेवानुप्राविशत्” (तै.उ.आनंदवल्लीमंत्रः) सोऽकामयत बहुस्यां प्रजायेये’त्यादि श्रुतिभिरीश्वरव्यापारेणैव जगदुत्पत्तेः प्रतिपादनात् । “स्वाभाविकी ज्ञानबलक्रियाचेति” (श्वे.उ.6 अ.मं.8) ज्ञानक्रियाशक्त्यादीनां स्वाभाविकत्वप्रतिपादनाच्च । न च `न तस्य कार्यं करणं च

F.N.1. पुरुषप्रयोजनकेत्यर्थः ।

विद्यते’ (श्वे.उ.6 अ.मं 8) इति पूर्ववाक्ये क्रियामात्रनिषेधात्, `असंगोह्ययं पुरुषः’ (बृ.उ.अ.4 ब्रा.3 मं 15) इत्यादिश्रुतिभिस्तस्य संगमात्रनिषेधात् । `मयाऽध्यक्षेण प्रकृतिः सूयते सचराचरम् । (भ.गीता अ.9 श्लो.10) इतीश्वरस्य साक्षित्वमात्रेण प्रकृतेर्जगदुत्पत्तिप्रतिपादनाच्च पूर्वोदाहृतहृतश्रुतीनां प्रकृत्या जगत्सृष्टौ कर्तव्यायामीश्वरस्य साक्षित्वमात्रप्रतिपादनपरत्वमेवांगीकर्तव्यमिति वाच्यम् । `न तस्य कार्य’ मित्यादेरीश्वरस्य जगत्सर्जने कर्तव्ये न किंचित्प्रयोजनम् । नापि `स्वापेक्षयाऽति’ शयितं साधनमित्यर्थपरत्वात् । असंगश्रुतेश्च बंधराहित्यपरत्वात् । अध्यक्ष्यत्वस्याप्यधिष्ठातृत्वरूपत्वाच्च । अन्यथा `अस्मान्मायी सृजते विश्वमेतत्’ (श्वे.उ.4 अ.णं 9) इति श्रुतिविरोधप्रसंगात् । एतेन प्रकृतिप्राधान्यमिति निरस्तम् । `तमो वा इदमेकमास तत्परेणेरितं विषमत्वं प्रयाति’ इत्यादिश्रुतिभिरीश्वरस्यैव नियामकत्वप्रतिपादनात् । `अजामेकां (श्वे.उ.अ.4 मं.5) मायां तु प्रकृतिं विद्यादित्यादिषु (श्वे.उ.अ.4 मं.10) प्रकृतेः प्रतिपादनेऽपि सर्वत्र वेदान्तेषु प्राधान्येन सर्वजगत्कारणस्येश्वरस्य प्रतिपादनाच्च ।

न च सांख्ययोगयोः सर्वज्ञकपिलहिरण्यगर्भप्रणीतत्वेनोपादेयत्वम् । तयोरपि क्वचिदंशे भ्रम(1)संभवात् । तयोस्तदसंभवे च विप्रलिप्सया तथाविधशास्त्रप्रवर्तनोपपत्तेश्च सांख्ययोगमतयोर्वादरायणेन निराकृतत्वाच्चेति(2) दिक् ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्याणां श्रीमत्सुरेन्द्रतीर्थपूज्यपादानां शिष्येण सर्वतन्त्रस्वतन्त्रेण विजयीन्द्रभिक्षुणा विरचिते सर्वसिद्धान्तसालासारविवेचने सांख्ययोगमतभङ्गो नाम पंचमः परिच्छेदः ॥

F.N.1. अक्षपादप्रणीते च काणादे साङ्ख्ययोगयोः ।
त्याज्यः श्रुतिविरुद्धोऽशः श्रुत्यैकशरणैः नृभिः ॥
जैमिनीये च वैयासे विरुद्धांशो न कश्चन ।
श्रुत्या वेदार्थविज्ञाने श्रुतिपारं गतौ हि तौ ॥
इति पराशरोपपुराणवाक्यानि ॥

यं न पश्यन्ति योगिन्द्राः साङ्ख्या अपि महेश्वरम् ।
अनादिनिधनं ब्रह्म तमेव शरणं व्रज ॥ इति कूर्मपुराणम् ॥
2. ऊँ रचनानुपपत्तेश्च नानुमानम् ऊँ ॥ ब्र.सू.अ.2 पा. सू.1) अत्रेश्वरनिरपेक्षाचेतनप्रकृतेरेवमहदादिकार्यकरणे प्रवृत्तिरिति यन्निरीश्वरसाङ्ख्यमत तन्निराचकार सूत्रकारः । ऊँ अन्यत्राभावाच्च न तृणादिवत् ऊँ ॥ ब्र.सू.अ. 2 पा.2 सू.5) अत्र प्राधानमेव जगत्कतृ तस्य गुणभूतत्वेनेश्वरोऽस्तीतिवदतः सेश्वरसाङ्ख्यस्य पतञ्जलेर्मतं निराकरोति सूत्रकृत् । निरीश्वरसाङ्ख्यशास्त्रप्रणेता कपिलो न विष्णुः । किन्त्वग्न्यवतारः कपिलान्तरम् । अग्निः सकपिलोनाम साङ्ख्यशास्त्रप्रवर्तकः” इति स्मृतेः ॥

कपिलो वासुदेवाख्यः तन्त्रं साङ्ख्यं जगाद ह ।
ब्रह्मादिभ्यश्च देवेभ्यो भृग्वादिभ्यस्तथैव च ॥
तथैवासुरये सर्ववेदार्थैरुपबृंहितम् ।
सर्ववेदविरुद्धं च कपिलोऽन्यो जगाद ह ॥
साङ्ख्यमासुरयेऽन्यस्मै कुतर्कपरिबृंहितम् ॥


॥ श्रीः ॥
श्रीमद्धनुमद्भीममध्वान्तर्गंतरामकृष्णवेदव्यासात्मकलक्ष्मीहयग्रीवाय नमः ॥

अधुनानन्दतीर्थायप्रक्रिया हृदयङ्गमा । श्रुतिस्मृतिपुराणादिसिद्धा संक्षिप्य वर्ण्यते ॥

तत्रादौ तत्वं निरूप्यते । अनारोपितं तत्वम् । प्रमितिविषय इति यावत् । एवञ्च तस्य भावस्तत्वमित्यादि खण्डनावकाशः । शुक्तिकारजतादिकञ्च न तत्वम् । आरोपितत्वात् । शुक्तिकादौ आरोपितं रजतादिकं अन्यत्र सदिति चेन्न । अत्यन्तासदेव रजतादिकं दोषवशात् शुक्तिकादावारोप्यत इत्यङ्गीकारात् । अन्यथाख्यातिपादेऽपि यदंशे ज्ञानस्य भ्रमत्वं तदंशे तस्यासिद्विषयत्वस्य दुर्वारत्वात् । सदुपरागेणासतोऽपि भानमित्यङ्गीकाराच्च । तस्मादनारोपितं तत्वमित्यङ्गीकर्तव्यम् ।

तच्च द्विविधम् । स्वतन्त्रमस्वतन्त्रं चेति । स्वरूपप्रमितिप्रवृत्तिलक्षणसत्तात्रैविध्ये यत्परं नापेक्षते तत्स्वतन्त्रम् । तत्र यत्परापेक्षं तदस्वतन्त्रम् ।

न च तत्वमेव नास्तीति शंक्यम् । प्रत्यक्षादिविरोधात् । न च प्रत्यक्षादेः भ्रमत्वम् । बाधकाभावात् । निरधिष्ठानभ्रमस्य निरवधिकबाधस्य चादर्शनेन चायोगाच्च । नास्त्येव तत्वमित्यस्यार्थस्य प्रमितत्वाप्रमितत्वाभ्यां व्याहतत्वाच्च । यदि चैकमेव तत्वं तदा भेदोपलम्भविरोधः । यदि च स्वतन्त्रमेव तत्वं तदा पारतन्त्र्यप्रतीतिविरोधः । नित्यसुखादिप्रसङ्गश्च । यदि च परतन्त्रमेव तत्वं भवेत्तदानवस्थितेरसम्भवाच्च न कस्यापि सत्तादिकं स्यात् । आगमविरोधश्च भवेत् । तस्मात् स्वतन्त्रमस्वतन्त्रं चेति तत्वद्वैविध्यं दुर्वारम् ।

ननु प्रथमं भावाभावतया चेतनाचेतनतया नित्यानित्यतया वा तत्वं विभज्यताम् । न तूक्तविधया इति चेत् । न । स्वतन्त्रमस्वतन्त्रं चेति तत्वं द्विविधमिति विभागस्य सप्रयोजनत्वात् । परतन्त्रप्रमेयं स्वतन्त्रप्रमेयायत्ततया विदितं हि निःश्चेयसाय भवति । अन्यथा गङ्गावालुकादिपरिगणनवदिदं तत्वपरिगणनमपार्थकं स्यात् । किञ्च तत्वं द्विविधम् । भावोऽभावश्च । भावोऽपि द्विविधः । नित्योऽनित्यश्च । नित्योऽपि द्विविः । चेतनोऽचेतनश्च । चेतनोऽपि द्विविधः । स्वतन्त्रोऽस्वतन्त्रश्चेत्येवमाकारेण तत्वविभागे भगवतः प्राधान्येन प्रतिपत्तिर्न स्यात् । भगवद्व्यतिरिक्तस्य सर्वस्यास्वातन्त्र्यप्रतिपत्तिश्च न भवेत् । अतः स्वतन्त्रमस्वतन्त्रं चेत्येव तत्वविभागः कार्यः ।

नन्वेवं तत्वविभागे स्वतन्त्रतत्वस्य भावत्वादिकमविदितं स्यादिति चेत् । न । स्वातन्त्र्यज्ञानस्येव भावत्वादिज्ञानस्य पुरुषार्थोपयोगित्वा भावेन दोषाभावादस्वतन्त्रतत्वस्यैव भावत्वचेतनत्वादिकमित्यर्थस्याविवक्षित्वेन विरोधाभावाच्च । तत्पक्षेऽप्यभावादीनां नित्यत्वाद्यनुक्तेस्तुल्यत्वाच्च । अतः स्वतन्त्रमस्वतन्त्रं चेति तत्वविभागे न किञ्चिद्वाधकम् ।

तत्र स्वतन्त्रतत्वं भगवान्विष्णुरेव नान्यः । तथा च श्रुतिः । `न तस्येशे कश्चन’ (महानारायणोपनिषत् खं.1,मं.10) । `न चास्य कश्चित् जनिता न चाधिपः’ (श्वेताश्वतरोपनिषत्–अ.6,मं.9) इत्यादिका ।

ननु जगज्जन्मादिकारणं ब्रह्मैव हि स्वतन्त्रं तत्वम् । तत्कथमुच्यते स्वतन्त्रतत्वं विष्णुरिति । सत्यम् । विष्णोरेव परब्रह्मत्वात् । तथा च श्रुतिस्मृतयः कारणरूपमेकाकारं परं ब्रह्म शोकमोहविनिर्मुक्तं विष्णुं ध्यायन्नासीदिति । `नारायणः परं ब्रह्म’ (महानारायणोपनिषत्–खण्ड 11,मं.4) ब्रह्मशब्दः परे विष्णौ नान्यत्र क्वचिदिष्यते । इति । यथा च विष्णोरेव निखिलजगज्जन्मादिकारणत्वेन परब्रह्मत्वं, न शिवादेः तथोक्तं पाशुपतमतनिराकरणे । अतो विष्णुरेव स्वतन्त्रतत्वम् ।

तद्व्यतिरिक्तं सर्वमस्वतन्त्रम् । तच्च द्विविधम् । भावरूपं अभावरूपं चेति । यद्वस्तु प्रथमप्रतीतौ अस्तीत्युपलभ्यते स भावः । यच्च प्रथमप्रतीतौ नास्तीति प्रतीयते सोऽभावः । भावाभावयोः स्वरूपेण विधिनिषेधरूपत्वात् । रूपांतरेण तु भावाभावयोर्निषेधविधिरूपत्वम् । तत्रापातजायां संविदि स्वरूपमेव भासते । द्वितीयादिप्रतीतौ तु रूपांतरम् । कार्यगम्यत्वात् सामग्रीभेदस्य । तथा च प्रतीतिः । `अस्त्यत्र घटः स न शुक्ल’ इति । एवं `नास्त्यत्र घटोऽस्ति घटाभाव’ इति च । नच अभावस्यैवाभावात् अयं विभागो न युक्त इति वाच्यम् । भावस्येव तस्याप्यबाधितप्रत्यक्षादिप्रमाणसिद्धत्वात् । घटाभावो घटाभाववति भूतले किं सम्बध्यते, किं वा घटवति । नाद्यः । आत्माश्रयादिप्रसंगात् । न द्वितीयः । विरोधादित्याक्षेपस्यापि भावपदार्थमात्रेऽपि संभवेन भावपदार्थमात्रविलोपप्रसंगाच्च । तस्माद्भावाभावात्मकतया अस्वतन्त्रतत्वविभागकरणं युक्तम् । तत्राभावस्त्रिविधः । प्रागभावः प्रध्वंसाभावोऽत्यन्ताभावश्चेति । उत्तरैकावधिरभावः प्रागभावः पूर्वैकावधिरभावः प्रध्वंसाभावः । निरवधिकाभावोऽत्यन्ताभावस्त्रैकालिकोऽभाव इति यावत् । अन्योन्याभावस्तु भेदात्मा । स च तत्तद्वस्तुस्वरूप एव । तदतिरेके प्रमाणाभावात् । तदुक्तम्–भावाभावस्वरूपत्वात् नान्योन्याभावता पृथक् । इति । न चैवं प्रागभावादीनामप्यपलापः स्यादिति शंक्यम् । तेषामनन्यथासिद्धप्रमाणसिद्धत्वेन दुरपह्नवत्वात् । तस्मात् त्रिविध एवाभावः ।

एवं भावोऽपि द्विविधः चेतनोऽचेतनश्चेति । `चेतयते’ इति व्युत्पत्या चेतनशब्देनात्ममात्रमुच्यते । अनेवंविधोऽचेतनो जडवर्गः । तत्र चेतनोऽपि द्विविधः । दुःखस्पृष्टस्तदस्पृष्टश्चेति । कदाचित् दुःखसंबन्धवान् दुःखस्पृष्टः । सर्वदा दुःखसंबन्धरहितो दुःखास्पृष्टः । न च दुःखादीनां कल्पितत्वेन दुःखस्पृष्टमेव नेति वाच्यम् । दुःखादीनां कल्पितत्वेऽपि दुःखसंबन्धतद्राहित्याभ्यां जीवेश्वरविभागस्य सर्वैरप्यभ्युपगन्तव्यत्वात् । त्वयापि व्यावहारिकमर्यादाया अभ्युपगतत्वाच्च । दुःखादीनां साक्ष्यादिसिद्धत्वेन कल्पितत्वोक्तेरयोगाच्च । नचेश्वरव्यतिरेकेण कश्चिदपि सदा दुःखसंबन्थधरहितो नेति शंक्यम् । लक्ष्म्या एव तथाविधायाः सत्त्वात् । न च तस्या अपि कदाचित् दुःखसंबन्धोऽस्तीति शंक्यम् । विष्णोरिव तस्या अपि सर्वदुःखराहित्यस्य श्रुत्यादिप्रमाणसिद्धत्वात् । तथा च श्रुतिः–`अस्यैशाना जगतो विष्णुपत्नी’ति । न हि दुःखसंबन्धे तस्या जगदीशानत्वं संभवति । न चानन्तगरुडविष्वक्सेनादयोऽपि सर्वदा दुःखसंबन्धरहिता इति वाच्यम् । तेषां तथात्वे प्रमाणाभावात् । प्रत्युत तेषु कदाचिद्दुःखसंबन्धस्य पुराणेतिहासादिप्रतिपन्नत्वाच्च । न च नित्यवैकुण्ठलोकमङ्गीकुर्वद्भिर्नारायणपरिवारभूतानामनन्तगरुडादीनां नित्यमुक्तत्वमङ्गीकरणीयम् । अन्यथा नारायणस्य अनंतगरुडादिपरिवारराहित्यमपि कदाचित्स्यादिति वाच्यम् । तेषां प्रवाहानादित्वाभ्युपगमेनोक्तदोषाभावात् । तस्मात् लक्ष्मीरेव ईश्वरवन्नित्यं दुःखास्पृष्टा तद्भिन्नाः सर्वेऽपि चेतना दुःखस्पृष्टा इत्येव तत्वम् ।

ते च द्विविधाः । दुःखाद्विमुक्ता वर्तमानदुःखाश्चेति । तत्र दुःखाद्विमुक्ताः पञ्चविधाः । देवाः ऋषयः पितरश्चक्रवर्तिनो मनुष्योत्तमा इति । गन्धर्वादीनामुक्तेष्वेवांतर्भावेन न प्रमाणांतरविरोधः ।

वर्तमानदुःखा अपि द्विविधाः । मुक्तियोग्यास्तदयोग्याश्च इति । मुक्तियोग्या अपि दुःखविमुक्तवत् पञ्चविधाः । देवाः ऋषयः पितरश्चक्रवर्तिनो मनुष्योत्तमा इति । मुक्त्ययोग्याश्च द्विविधाः । नित्यसंसारिणः तमोयोग्याश्चेति । न च नित्यसंसारिणो न सन्तीति युक्तम् । (तेषां) संसारप्रवाहाविच्छेदस्य श्रुतिस्मृत्यादिसिद्धत्वात् । तथा च श्रुतिस्मृती–`एषोऽश्वत्थः सनातनः’ (कठ.) `अश्वत्थं प्राहुख्यमिति (भ.गी.अ.15,श्लो.1) । न ह्यश्वत्थशब्दितस्य संसारस्य सदातनत्वमव्ययत्वं च प्रवाहतो विच्छेदे संभवति । तमोयोग्याश्च–`मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम्’ इत्यादिभगवद्वचनसिद्धाः दैत्या रक्षांसि पिशाचा मनुष्याधमाश्चेति । तेऽपि चतुर्विधा अपि प्रत्येकं द्विविधाः । प्राप्ततमसः प्राप्तव्यतमसश्चेति । एवं चेतनविभागो विस्तरेणोपपादितः ।

अथ अचेतनविभागस्तु क्रियते । अचेतनं तावत् त्रिविधम् । नित्यं नित्यानित्यं अनित्यं चेति । नच सर्वस्य क्षणिकत्वात् नित्यमेव नारतीति शंक्यम् । क्षणिकत्वस्य प्रवलप्रत्यभिज्ञाविरुद्धत्वेनानङ्गीकर्तव्यत्वात् । नचासौ भ्रांतिः । बाधकाभावात् । नच `यत् सत् तत् क्षणिकमिति व्याप्तिर्बाधिका ।’ तथाविधव्याप्तेरेवाभावात् । न च दीपज्वलालादौ व्याप्तिः सिद्धेति शंक्यम् । तथापि त्वदभिमतक्षणिकत्वस्यासम्प्रतिपत्तेः । `ध्रुवा द्यौः ध्रुवा पृथिवी ध्रुवासः पर्वता इमे । ध्रुवं विश्वमिदं जगत् । ध्रुवो राजा विशामयम्’ इत्यादिश्रुत्या सर्वपदार्थानामक्षणिकत्वावेदनाच्च । क्षणिकत्वं हि तवोत्पत्तिक्षणाव्यवहितोत्तरक्षणवृत्तिध्वंसप्रतियोगित्वमेवाभिमतम् । न चैतादृशं क्षणिकत्वं कस्यापि दृष्टचरम् । उत्पत्त्यनन्तरं स्थित एव ध्वंससामग्रीसंपत्तौ ध्वंसप्रतियोगित्वानुभवात् । ज्वालादौ प्रतिक्षणं परिमाणभेददर्शनेन क्षणिकत्वाभ्युपगमेऽपि घटादौ स्थायित्वस्य सर्वानुभवसिद्धत्वेन तस्यानंगीकार्यत्वाच्च । यत्र तु ज्वालादौ तथाविधपरिमाणभेदो न दृश्यते तत्र स्थायित्वस्यैवाभ्युपगन्तव्यत्वाच्च ।

किञ्च पदार्थमात्रस्य क्षणिकत्वे घटादेः प्रत्यक्षतोऽनुपलम्भप्रसङ्गः । प्रत्यक्षस्यासम्बद्धग्राहित्वेऽतिप्रसंगात् । चक्षुरादिकं हि स्वसम्बद्धमेव घटादिकं स्वजन्यज्ञानद्वारा विषयीकरोतीत्युपेयम् । सम्बनधश्च घटादेः क्रिया कियातो विभागः । विभागात् पूर्वदेशसंयोगनाशः उत्तरदेशसंयोगोत्पत्तिः । इति प्रणाड्या निष्पद्यत इति कृत्वा । किञ्च कृतहानादिप्रसंगेन आत्मादेर्नित्यत्वमंगीकरणीयम् । यथा चात्मादिनित्यत्वं तथोक्तं सौगतमतनिराकरणे । तस्मान्नित्यं वस्त्वंगीकरणीयम् ।

एतेन `सर्वं नित्य’ मिति सांख्यमतमपि निरस्तम् । सृष्टिप्रलयादिप्रतिपादकश्रुतिस्मृतिपुराणविरोधात् । अभिव्यक्त्यनभिव्यक्ती एव सृष्टिप्रलयाविति चेत् । अभिव्यक्तिवादस्य सांख्यमतनिराकरणप्रस्तावे निराकृतत्वात् । त्वत्पक्षे अभिव्यक्तेरपि विद्यमानत्वेन सामग्र्यास्तदर्थत्वायोगाच्चेति । तथा च नित्यमनित्यंचांगीकर्तव्यम् ।

नन्वेवमपि नित्यानित्यं नांगीकार्यम् । नित्यत्वानित्यत्वयोरेकत्रायोगात् । अन्यथा सदसद्विलक्षणमनिर्वचनीयमिति अद्वैतरीत्या सदसद्विलक्षणमनिर्वचनीयं किञ्चित्सिध्येत् । अन्यथा त्वयोच्यमानमस्मन्मतदूषणमसंगतं स्यादिति चेत् । न । स्वरूपप्रयुक्तनित्यत्वस्य तत्तदवस्थाप्रयुक्तानित्यत्वस्य चैकस्य प्रमाणप्रमितत्वेन त्यागायोगात् । सदसद्विलक्षणत्वस्य च प्रमाणाभावेनानंगीकार्यत्वाच्च । न च शुक्तिरूप्यमेव सदसद्विलक्षणतया प्रमाणप्रतिपन्नमिति शंक्यम् । अनिर्वचनीयरजतोत्पत्तेः शंकरमतनिराकरणप्रस्तावे निराकरणात् शुक्तिकादिविषयरजतज्ञानस्य (मतांतररीत्या देशांतरगतरजतादिविषयत्वेन वा) असद्रजतविषयत्वेन उपपन्नतया सदसद्विलक्षणानिर्वचनीयरजतोत्पत्तेरनंगीकार्यत्वाच्चेति । तस्मान्नित्यवत् अनित्यवच्च नित्यानित्यस्याप्यंगीकारे च किञ्चिद्वाधकम् । तत्र नित्यत्वं नाम कूटस्थतया आद्यन्तशून्यत्वम् । तच्च वेदानां पञ्चाशद्वर्णानां अव्याकृताकाशस्य च अंगीकर्तव्यम् । तेषामेव धर्मिग्राहकमानेन तथैव सिद्धत्वात् । यद्यपीश्वरस्य जीवानां च कूटस्थनित्यत्वमंगीकृतम् । थथाप्यत्र वेदादीनामेवेत्यनुक्तेर्न कश्चिद्दोषः । यच्च सर्वात्मना कूटस्थं न भवति नाप्यनित्यं तदुच्यते नित्यानित्यमिति । तच्च त्रेधा संभवति । उत्पत्तिमत्वेसति विनाशाभावेन, एकदेशेनत्पत्तिविनाशौ ।(*)

एकदेशिनस्तदभावः । स्वरूपेणोत्पत्याद्यभावेऽपि अवस्थागमापायवत्वं चेति । तदेतद्विधात्रयं क्रमेण पुराणकालप्रकृतिषु दृश्यत इति । पुराणादिपौरुषेयग्रन्थस्य पुरुषैरुत्पाद्यमानक्रमवत्वेऽपि तस्य क्रमस्येश्वरबुद्धौ वेदक्रमस्येवोत्तरावधिशून्यतया प्रतीयमानत्वेन विनाशाभाव इत्यर्थः । क्षणलवाद्येकदेशैरुत्पत्तिविनाशवत्वेऽप्येकदेशवतोंऽशिनः कालस्य प्रवाहत आद्यन्तशून्यत्वेनोत्पत्तिविनाशयोरभावः । जडोपादानप्रकृतेश्च स्वरूपत उत्पत्तिविनाशयोरभावेऽपि महदाद्यात्मकत्वावस्थाविशेषेण तौ स्त इति

F.N.*. इतःपरं मूलग्रन्थभागो नोपलभ्यते । अतो न्यूनतापरिहाराय तदनुबन्धितत्प्रमेयप्रतिपादकग्रन्थभागं समायोज्य प्ककाश्यते ।

तदेतद्विधात्रयमुक्तवस्तुत्रयेऽस्तीति नित्यानित्यविभागोऽपि प्रामाणिकएव । पुराणानामुत्पत्तिमत्वे “पुराणानि तदर्थानि सर्गे सर्गेऽन्यथैव तु । क्रियन्तेऽतस्त्वनित्यानि तदर्थाः पूर्वसर्गवत्” इत्यागमः प्रमाणम् । “सर्वे निमेषा जज्ञिरे” इत्याद्यागमः कालैकदेशोत्पत्तौ मानम् । प्रकृतेः स्वरूपतो जन्माद्यभावेऽपि “विकारोऽव्यक्तजन्म हि” इति प्रमाणेन महदाद्यात्मना विकार एवाव्यक्तस्य प्रकृतेर्जन्म उच्यते ।

नन्वत्र यस्योत्पत्त्यादिकं तदनित्यमेव । यस्य चोत्पत्तिर्नास्ति तन्नित्यमेव । नित्यानित्यं क्वास्तीति चेन्मैवं स्यादेतदेवं यद्यंशंशिनोर्विकारविकारिणोर्वा अत्यन्तभेदः स्यात् । न चैवम् । यन्न सर्वथा कूटस्थं नाप्यनित्यमेव तदुच्यते नित्यानित्यमिति नित्यानित्यस्वरूपं प्रादर्शि ।

पुराणादेः क्मविशेषविशिष्टवर्णात्मकत्वात् विशिष्टरूपेणोत्पत्तिमत्वेपि विशेष्यभूतवर्णरूपेण तदभावान्नित्यानित्यत्वमिति । कार्यकारणयोर्भेदाभेदस्य प्रसिद्धत्वात् विशिश्टशुद्धयोश्च क्वचिदत्यन्ताभेदस्य क्वचिद्भेदाभेदस्य लाभात् (सत्वात्) पुराणादीनां वर्णादिना खण्डितत्वेन भिन्नाभिन्नतया नित्यानित्यत्वोपपत्तिरित्याशयः । तथा च पुराणादेः विशिष्टरूपेणोत्पत्तिमत्वेऽपि विशेष्यभूतवर्णरूपेण तदभावान्नित्यानित्यत्वं बोध्यम् । अनित्यं असंसृष्टं संसृष्टमिति द्विविधं मतम् । सम्यक् सृष्टं संसृष्टम् । अतथाभूतमसंसृष्टम् । तत्र चतुर्विशतितत्वानि महदादीन्यसंसृष्टानीत्युच्यंते । तानि च महत्तत्वं, अहंकारतत्वं, बुद्धितत्वं, मनस्तत्वं, दशेन्द्रियाणि पञ्चतन्मात्राणि पञ्चभूतानि चेति । महदादीनां सूक्ष्मरूपेण नित्यानां प्रकृत्याद्यंशैरूपचयमात्रं क्रियत इति तान्यसंसृष्टानि । प्रकृतिगुणत्रयांशैः महदादीनां स्थूलरूपनिष्पत्तिरूपोपचयः संभवति । एवञ्च साक्षान्मूलरूपस्य सूक्ष्मशब्दितस्योपादानत्वात्साक्षान्नित्योपादानत्वं महदादीनामस्तीति तान्यसंसृष्टानि । ब्रह्माण्डं सर्वस्यापि साक्षान्नित्योपादानकत्वाभावादनित्यांशैरप्युपचयात्सम्यक् सृष्टत्वमुक्तम् ।

तार्किकास्तु महदादिस्वरूपमेव नाङ्गीकुर्वन्ति । तेषान्त्वागमविरोधोऽपरिहार्यः । तथाहि तत्रागमः–

महाभूतान्यहंकारो बुद्धिरव्यक्तमेव च ।
इन्द्रियाणि दशैकं च पञ्चचेन्द्रिगोचराः ॥
(इति भगवद्गीतासु)

इन्द्रियेभ्यः परा ह्यर्थाः अर्थेभ्यश्च परं मनः ।
मनसस्तु परा बुद्धिः बुद्धेरात्मा महान्परः ॥
महतः परमव्यक्तं अव्यक्तात्पुरुषः परः ।
पुरुषान्न परं किञ्चित्सा काष्ठा सा परा गतिः ॥
(काठकोपनिषत्)

मानाधीना मेयसिद्धिरितिन्यायात् प्रमाणप्रमितत्वाद्भगवतः स्वतन्त्रतत्वस्य हरेः भावत्वं, चेतनत्वं, नित्य्मुक्तत्वं नित्यत्वं तदतिरिक्तचेतनानामस्वतन्त्रकोटिप्रविष्टानामपि नित्यत्वमेवमभावस्याचेतनत्वं तेष्वपि प्रागभावस्यानादित्वे सत्यनित्यत्वं, प्रध्वंसाभावस्य सादित्वे सति नित्यत्वं अत्यन्ताभावस्यानादिनित्यत्वं च बोध्यम् ।

यावद्वस्तुभाविनो गुणाद्याः धर्माः सर्वेऽपि स्वाश्रयद्रव्यस्वरूपभूता एव । गुणादीनां धर्मिणा द्रव्येण घटकलशवन्निर्विशेषाभेदाभावात् यथा प्रमाविषयः प्रमेयं अभिधाविषयोऽभिधेय इति बुद्ध्या विवेकः क्रियते तथा द्रव्यगुणादेरपि निर्विशेषाभेदाभावात् बुद्ध्या विवेकः क्रियते तथा द्रव्यगुणादेरपि निर्विशेषाभेदाभावात् बुद्ध्या विवेकः क्रियते । तच्च गुणादिकं द्रव्यस्वरूपमपि यावद्वस्तुभावि खण्डितं चेति द्विविधम् । यच्च गुणादिकं यावत्कालं द्रव्यं तिष्ठति तावत्कालं तिष्ठतीत्येवमभिप्रेत्य यावद्वस्तुभावीति कथ्यते । तत्र च गुणगुणिनोः सविशेषात्यन्ताभेदः । सत्यपि द्रव्ये यच्च रूपादिकं नश्यति तत्खण्डितमिति गीयते । तत्र यत्खण्डितं गुणादिकं तत्र भेदाभेदौ प्रतिपत्तव्यौ । “खण्डितं रूपमेवात्र विकारोऽपि विकारिणः” इत्याचार्योपदिष्टरीत्या विकारविकारिणोः भेदाभेदौ, कार्यस्योपादेयद्रव्यस्य पटादेः कारणेनोपादानेन तन्त्वादिना भेदः ऐक्यं च विज्ञेयम् । एवं क्रियाक्रियावतोः जातिविशेषयोः, विशिष्टशुद्धयोः अंशांशिनोः यथासम्भवं भेदाभेदौ अत्यन्ताभेदश्च ज्ञातव्यः । गुणगुणिनोरत्यन्तभेद इति तार्किकाः सञ्चक्षते । तन्निर्युक्तिकत्वादश्रद्धेयम् ।

तन्तुपटयोर्भेदाभेदौ । आतानवितानात्मकास्तन्तव एव पट इत्यबाधितप्रामाणिकप्रतीतिबलात्तन्तुपटयोरभेदोऽवश्यमभ्युपगन्तव्यः । तेन सहात्यन्ताभिन्नस्य तस्मिन् सत्यप्यसत्वानुपपत्तेस्तन्तुपटयोर्भेदोऽप्यङ्गीकार्यः । न च भेदाभेदौ विरुद्धौ । प्रमाणेन तयोः सहोपलम्भे सिद्धे वैयधिकरण्यनियमोपलम्भे प्रमाणस्याभावेन विरोधस्यासिद्धेः । घटपटादौ तु घटः पटो नेत्यादिप्रत्यक्षसिद्धतया तयोः शुद्धभेदः । तथाचायावद्द्रव्यभावि गुणगुण्यादौ भेदाभेदौ यथा चूतफलश्यामत्वादेः । यावद्द्रव्यभाविगुणगुण्यादौ सविशेषाभेदः । हस्तकरादौ निर्विशेषाभेदः । क्रियाक्रियावतोर्भेदाभेदावित्युक्तं तद्यथा पटचलनयोः भेदाभेदौ । सत्यपि पटे चलनाभावात् । चेतनक्रिययोरत्यन्ताभेदः । एवं जातिव्यक्त्योरपि भेदाभेदौ । तत्र ब्राह्मणत्वपिण्डयोर्भेदाभेदौ । महापातकेन जातेरपायात् । घटत्वधटयोरत्यन्ताभेद एव । विशिष्टशुद्धयोर्विशिष्टस्य विशेष्यस्वरूपस्य च भेदाभेदौ अभेदश्चेति ज्ञातव्यम् । पर्वतस्याग्निमतश्च भेदाभेदौ पर्वतसद्भावेऽपि कदाचिदग्निमतोऽभावात् । विष्णोः सर्वज्ञस्य चात्यन्ताभेद एव । एवमंशंशिनोरत्यन्ताभेदो भेदाभेदौ च बोद्धव्यौ । तत्रैकांशेन भेदाभेदौ । एकांशापगमेऽपि अंशिनोऽवस्थानात् । सर्वैरंशैस्त्वत्यन्ताभेद एवेति । एते मिलिता वृक्षा वनं, एते गजाश्वदयो मिलिताः सेना, एते मिलितास्तन्तव एव पटः, एते खण्डपटा मिलिता महापटो नान्य इति प्रामाणिकानुभवात् ।

तन्त्वादिकारणातिरिक्तांशो नास्तीति केचन समाचक्षते । तत्प्रमाणविरुद्धम् । प्रत्यक्षत एव पटाद्यंशिनां तन्त्वाद्यतिरिक्तांशप्रतीतेः । हस्तवितस्त्याद्यवच्छेद्यानां ततो न्यूनपरिमाणेभ्यः तन्तुभ्योऽधिकपरिमाणपटाच्चातिरेकप्रतीतेः कारणातिरिक्ता अंशाः अवश्यमेवाभ्युपगन्तव्या इति । तदेतदस्वतन्त्रत्वं भावाभावभेदभिन्नं जगत् परमपुरुषाधीनतयाऽवगतं सदेव पुरुषार्थोपयोगीति मुमुक्षुणा खलु परमात्मा जगदुदयादिनिमित्तत्वेनावश्यमवगन्तव्य इति सकलसच्छास्त्राणामविप्रतिपन्नोऽर्थः ।

तदुक्तम्–

सृष्टिरक्षाहृतिज्ञाननियत्यज्ञानबन्धनान् ।
मोक्षं च विष्णुतश्चैव (तस्त्वेव) ज्ञात्वा मुक्तिर्न चान्यथा ॥ इति ॥
य एतत्परतनत्रन्तु सर्वेमेव हरेः सदा ।
वशमित्येव जानाति संसारान्मुच्यते हि सः ॥ इति च ॥

इत्थमानन्दतीर्थीयप्रक्रिया हृदयङ्गमा ।
संक्षिप्य वर्णिता प्रीत्यै भूयान्माधवमध्वयोः ॥

इति श्रीमदानन्दतीर्थीयप्रक्रियासङ्ग्रहः ।

इत्येकादशपरिच्छेदः समाप्तः ।

॥ इति शम् ॥


आर्हतमतभङ्गः

%॥ अथार्हतमतभङ्गः ॥%

इदानीं आर्हतमतं निराक्रियते । ते खल्वेवमाहुः । सर्वज्ञार्हत(1) प्रणीतत्वादार्हतमतमेव मुमुक्षूणआमुपादेयम् । आर्दतानां(2) सकललोकसंवादिग्रहगतमन्त्राद्युपदेष्ट्टत्वात् तदुपदिष्टमनत्राणां फलवत्वदर्शनाच्च सर्वज्ञत्वसिद्धिः । न च तन्मतस्य रागद्वेषादिमूलत्वं शंक्यम् । प्राधान्येन तत्र वैराग्याहिंसादीनामेव प्रतिपादनेन तन्मतस्य रागद्वेषादिमूलत्वाभावनिश्चयात् ।

तत्र वस्तु द्विविधम् । द्रव्य(3) पर्याय(3A) भेदात् । जीवधर्माधर्मपुद्गल(4)कालाकाशरूपाणि द्रव्याणि । तेषामवस्था पर्याय इत्युच्यते ।

F.N.1. जैनमतप्रवर्तकेनार्हन्मुनिना प्रदर्शितमतमार्गतमतम् ।
अर्हत्स्वरूपं च हेमचन्द्रसूरिभिराप्तनिश्चयाल्कारे निरटङ्कि ।
सर्वज्ञो जितरागादिदोषस्त्रैलोक्यपूजितः ।
यथास्थितार्थवादी च देवोर्हपरमेश्वरः ॥ इति ॥
अर्हन्मुनेः सर्वज्ञऽनुमानमेतदुदाहृतम् ।
तथाहि कश्चिदात्मा (अर्हन्मुनिः) सकलपदार्थसाक्षात्कारी तद्ग्रहणस्वभावत्वे सति प्रक्षीणप्रतिबन्धप्रत्ययत्वात् यत् यद्ग्रहण स्वभावत्वे सति प्रक्षीण प्रतिबन्धप्रत्ययं तत्तत्साक्षात्कारि यथापगततिमिरादिप्रतिबन्धं लोचनविज्ञानं रूपसाक्षात्कारि । तद्ग्रहणस्वभावत्वे सति प्रक्षीणप्रतिबन्धप्रत्ययश्च कश्चिदात्मा । तस्मात्सकलपदार्थसाक्षात्कारीति ।
2. आर्हतानां सकललोकसंवादिग्रहगतमन्त्रोपदेष्ट्टत्वात् (पा.)
3. गुणपर्यायवत् द्रव्यम् (त.5-38)
3A.क्रमभावी द्रव्यस्यावस्थाविशेषः पर्यायः । क्रमभावी अयावद्द्रव्यभावी पर्यायः यथा जीवस्य नरकादिपर्यायाः ।
4. पूरयंति गलंतीति पुद्गलाः । स्पर्शरसगन्धवर्णवन्तः पुद्गलाः । (तत्वार्थाधिगमसूत्र 5-23)

द्रव्यपर्यायातिरिक्तं न तत्त्वान्तरमस्ति । द्रव्यपर्याययोश्च भेदाभेदौ । तथा प्रमाणसिद्धत्वात् । सत्वं, असत्वं, सदसत्वं, सदसद्विलक्षणत्वं, सत्वेसति सद्विलक्षणत्वं, असत्वेसति असद्विलक्षणत्वं, सदसदात्मकत्वेसति सदसद्विलक्षणत्वमिति सप्तभङ्गी ।(5) आत्मा च तत्तद्देह(6) परिमाण इति ॥

F.N.5. स्याच्छब्दोऽयमनेकान्तद्योतकतिडन्तप्रतिरूपकः । कथंचिदित्यर्थकोनिपातः ।

यथोक्तं–वाक्येष्वनेकान्तद्योती गम्यं प्रति विशेषणम् ।
स्यान्निपातोऽर्थयोगित्वात् तिडन्तप्रतिरूपकः ॥ इति ॥
सप्तानां अस्तित्वनास्तित्वादीनामेकत्र वस्तुनि मिथो यो भङ्गो युगपदेकत्र सर्वेषां समुच्चयः सोऽस्मिन्नस्तीति सप्तभङ्गीति कथ्यते । अथवा सप्तानां साङ्ख्याद्युक्तानां अस्तित्वाद्येकान्तानां भङ्गः सप्तभङ्गः । सोऽस्मिन्नस्ति प्रतिपाद्यतया विद्यते इति सप्तभङ्गी ।

स्यादस्ति, स्यान्नास्ति, स्यादस्ति च नास्ति, स्यादवक्तव्यः, स्यादस्ति चा वक्तव्यः, स्यानास्ति चा वक्तव्यः, स्यादस्ति च नास्ति चा वक्तव्य इति ॥ सप्तभङ्गी ॥

जिनदत्तसूरिणा जैनमतमेवं निरूपितम्–

बलभोगोपभोगानामुभयोर्दानलाभयोः ।
अन्तरायस्तथा निद्रा भीरज्ञानं जुगुप्सितम् ॥
हिंसा रत्यरती रागद्वेषावविरतिः स्मरः ।
शोको मिथ्यात्वमेतेऽष्टादशदोषा न यस्य सः ॥
जिनो देवो गुरुः सम्यक्तत्त्वज्ञानोपदेशकः ।
ज्ञानदर्शनचारित्राण्यपवर्गस्य वर्तनी ॥
स्याद्वादस्य प्रमाण्ये द्वे प्रत्यक्षमनुमापि च ।
नित्यानित्यात्मकं सर्वं नव तत्त्वानि सप्त वा ॥
जीवाजीवौ पुण्यपापे चारस्रवः संवरोऽपि च ।
बन्धो निर्जरणंमुक्तिरेषां व्याख्याधुनोच्यते ॥
चेतनालक्षणो जीवः स्यादजीवस्तदन्यकः ।
सत्कर्मपुद्गलाः पुण्यं पापं तस्य विपर्ययः ॥
आस्रवः स्रोतसो द्वारं संवृणोतीति संवरः ।
प्रवेशः कर्मणां बन्धो निर्जरस्तद्वियोजनम् ॥
अष्टकर्मक्षयान्मोक्षोऽथान्तर्भावश्च कैश्चन ।
पुण्यस्य संवरे पापस्यास्रवे क्रियते पुनः ॥
लब्धानन्तचतुष्कस्य लोकागूदस्य चात्मानः ।
क्षीणाष्टकर्मणो मुक्तिर्निर्व्यावृत्तिर्जिनोदिता ॥
सरजोहरणा भैक्षभुजो लुञ्चितमूर्धजाः ।
श्वेतम्बरा क्षमाशीलाः निःसङ्गा जैनसाधवः ॥
लुञ्चिताः पिच्छिकाहस्ता पाणिपात्रा दिगम्बराः ।
ऊर्ध्वाशिनो गृहे दातुर्द्वितीयाः स्युर्जिनर्षयः ॥
भुङ्क्ते न केवली न स्त्री मोक्षमेति दिगम्बरः ।
प्राहुरेषामयं भेदो महान् श्वेताम्बरैः सह ॥

  1. आत्मा चैतन्यमयः, ज्ञानरूपः, जन्मी, भोक्ता, मोक्षाधिकारी, जीवश्चनित्यरूपः । यादृशे शरीरे जीवः प्रविशति तदाकारवान् लघुर्वा दीर्घो वा भवति । अहिंसा परमो धर्मः । अद्वेषसदाचाराचौर्यब्रह्मचर्यदानाग्रहणाख्याः पञ्चनियमाः सर्वैर्जैनैः पालनीयाः । एभिर्मोक्षोऽधिगम्यते । विषयवासनाभ्यो मनसः परावर्तनाय व्रतोपवासानुष्ठानम् । ज्ञानात्केषाञ्चित्कर्मणां क्षयो भवति । केषाञ्चिद्भोगात् । ततः कर्मक्षयात् पक्षिणः पञ्चरादिवत् आत्मनो देहान्मोक्षो भवेत् । देहावस्थानस्य कर्मनिमित्तत्वात् । ततः यथा पंजरान्मुक्तः खग ऊर्ध्वं व्रजत्येवमेवालोकाकाशगोचरो नित्यमूर्ध्वं व्रजत्येव जीव इति तन्मतम् । अयं च सम्प्रदायो देहातिरिक्तदेहपरिमाणात्मवादी ।

न तावदार्हतमतं मुमुक्षूपादेयम् । क्वचित् भ्रान्तपुरुषप्रणीतत्वात् । क्वचित् विप्रलंभादिना प्रवृत्तत्वाच्च । न चात्र मानाभावः । सर्वप्रमाणविरुद्धसप्तभंगीप्रभृत्यर्थप्रतिपादकत्वात् । न च सकललोकसंवादिग्रहगत्याद्युपदेष्ट्टचत्वात् तत्प्रजेतुराप्तत्वमिति वाच्यम् । क्वाचित्कसंवादस्यविप्रलंभद्वारत्वसंभवेन तावन्मात्रेण सर्वत्र तत्प्रणेतुराप्तत्वस्य निश्चेतुमशक्यत्वात् ।

तदुपदिष्टमन्त्राणां फलवत्त्वदर्शनेऽपि न तावन्मात्रेण तन्मतस्योपादेयत्वम् । मन्त्रव्याकरणादिभिः वर्णपदवाक्यादिसामर्थ्यं ज्ञात्वा तेषामपि तत्तद्वर्णपदादिघटितफलवन्मन्त्रोपदेशस्यापि विप्रलम्भद्वारत्वसंभवात् । क्वाचित्कसंवादेन सर्वस्यापि विश्वसनीयत्वे बौद्धागमस्यापि (गमोक्तस्यापि) विश्वसनीयत्वापातात् । “अहं सर्वज्ञः” इत्यार्हतवाक्यस्येव बुद्धवाक्यस्यापि दर्शनेन स्वस्ववचनेन सर्वज्ञत्वासिद्धेश्च । अहिंसाद्युपदेशोऽपि केशोल्लुञ्चनाद्युपदेशेन विरुद्धः । वेदविहिताग्रीषोमीयादिहिंसा पापसाधनं आत्मपीडादिरूपकेशोल्लुञ्चनादिकं धर्म इत्यत्र प्रमाणाभावाच्च । न चाग्रीषोमीयादिहिंसायाः परपीडारूपत्वादधर्मसाधनत्वं केशोल्लुञ्चनादेस्त्वतथाभूतत्वाद्धर्मसाधनत्वमिति वाच्यम् । परपीडारूपकेशोल्लुञ्चनादिकमुपदिशतोऽर्हतः सर्वज्ञस्यापायोपदेष्ट्रत्वापातात् । पशुहिंसादिप्रतिपादकवेदभागो राक्षसप्रक्षिप्तः इति जल्पनं तु स्थावरादिहिंसादिकं धर्म इत्यंगीकुर्वतामत्यन्तविरुद्धम् । तथाविधशंकायाः सर्वत्र सुलभत्वात् । किं च द्वव्यपर्यायातिरेकेण वस्त्वन्तरं नास्तीत्यनुपपन्नम् । द्वव्याश्रितावस्थित्वतिरिक्तधर्माणां नित्यानां सहोत्पन्नानामगन्तुकानां च प्रमाणसिद्धत्वात् । ईश्वरादिद्रव्यान्तरप्रतिक्षेपोऽप्यनुपपन्नः । ईश्वरादेर्नित्यनिर्दोषागमसिद्धत्वात् । यथाचैतत्तथाऽग्रे वक्ष्यते ।

किं च द्रव्यपर्यायवर्गे सप्तभङ्गीति जैनाभ्युपगमो न युक्तः । व्यवस्थितसदसत्प्रकारद्वयातिरिक्तप्रकारस्याप्रामाणिकत्वात् । एकैकप्रकाराभ्युपगमे दोषदर्शनात् तथोपेयत इति चेत्तथासति सप्तभंग्यंगीकारेऽपि दोषदर्शनात्तस्या अपि त्यागप्रसंगात् । जगतः सत्त्वैक प्रकाराभ्युपगमे दोषाभावाच्च । न हि जगतः सत्वैकप्रकाराभ्युपगम एव विरोधः न तु सप्तभंग्यंगीकार इत्यत्र विशिष्य नियामकमस्ति । विरोधस्योभयत्र तुल्यत्वात् ।

न च सिद्धान्तेऽपि एकस्मिन्नेव भिन्नत्वाभइन्नत्वादिविरुद्धधर्मसमावेशाभ्युपगमात्तद्वदेव सप्तभंग्यंगीकारोऽस्त्विति वाच्यम् । सिद्धान्ते उपाधिभेदेन तथाभ्युपगमेन दोषाभावात् । त्वयोपाधिभेदेन जगतस्तथात्वानभ्युपगमाच्च । भिन्नत्वादिसप्तभङ्गीसाधकप्रमाणादर्शनाच्च । तस्माज्जैनाभ्युपगतः सप्तभंगीपक्षो न युक्तः । तदेतत्सर्वमभिसन्धायोक्तं–“ऊँ नैक(1)स्मिन्नसंभवात् ऊँ” (ब्र.सू.अ.2,पा.2,अधि.10,सू.33) इति ॥

F.N.1. ऊँ वैकस्मिन्नसंभवात् ऊँ ॥ (ब्र.सू.2-2-10-33) अत्र क्षपणकमतं निराक्रियते । सत्वं, असत्वं, सदसत्वं, सदसद्विलक्षत्वं, सत्वे सति सद्विलक्षणत्वं, असत्वे सति असद्विलक्षणत्वं, सदसदात्मकत्वे सति सदसद्विलक्षणत्वमित्यनियतसप्त प्रकारा एकस्मिन्वस्तुनि न युक्तः । कुतः । असंभवात् । अप्रमाणिकत्वेनासंभावितत्वादित्यर्थः । यदपि देहपरिमाणत्वं जीवस्योपेतं तत्किं सर्वदेशगतचेष्टोपपत्यर्थमुपेयते अथ देहावच्छेदं विनाऽऽत्मनः परिमाणाभावाद्वा । आद्य आह ।

ऊँ एवं चाऽऽत्माऽकार्त्स्न्यम् ऊँ ॥ (ब्र.सू.2-2-10-34) जैनमतप्रसङ्गसन्निधापितमात्मनो देहपरिमाणत्वमेवमिति परामृश्यते । एवञ्च देहपरिमाणत्वे सत्वात्मनो मशकादिदेहस्थात्मनो गजादिदेहप्राप्तावकार्त्स्न्यमपूर्णत्वं सर्वदेहाव्यापित्वं स्यादित्यर्थः । ततश्च न सर्वदेहचेष्टेतिभावः । यद्वाऽऽत्मनो गजादिदेहाव्यापित्वं स्यादित्यर्थः । ततश्च कायपरिमाणत्वभङ्ग इति भावः । चशब्देनैवैशोऽप्यर्थः संग्राह्यो न वृत्यन्तरेणेत्येके । यद्वा यद्देहमाप्नोति तदा तद्देहपरिमाण इत्यत्त आह ।

ऊँ न च पर्यायादप्यविरोधो विकारादिभ्यः ऊँ ॥ (ब्र.सू.2-2-10-35) पर्यायादपि क्रमादपि । क्रमात्तत्तद्देहपरिमाणत्वांगीकारादपि अविरोधो न भवति । कुतः । विकारादिभ्यः विकारित्वापत्तेः । ततश्चानित्यत्वानिर्मोक्षत्वशास्त्रवैय्यर्थ्यानि तेन्य इत्यर्थः । स्वमते जीवस्य सुखादिभोगकृतोच्चत्वनीचत्वरूपविकारोऽन्ति । तस्य स्वरूपविकाससंकोचरूपत्वात् । तथापि चैतन्यादियावद्द्रव्यभाविधर्मनिवृत्तावेवानित्यत्वोपगमान्नानित्यत्वमित्युक्तं सुधायाम् । उक्तञ्च नयचन्द्रिकायां संकोचविकासादन्यथाऽभावान्नाशो नेति ॥ प्रागुक्तान्त्यपक्षं प्रत्याह ।

ऊँ अंत्यावस्थितेश्चोमयनित्यत्वादविशेषात् ऊँ ॥ (ब्र.सू.2-2-10-36) अन्त्यस्य मुक्तिगतात्मपरिमाणस्यावस्थितेस्तदवच्छेकतया नित्यदेहावश्यंभावेनोभयस्य मुक्तावात्मतद्देहयोर्नित्यत्वादद्यतदेहानामपि नित्यत्वं स्यादविशेषाद्देहत्वाविशेषादित्यर्थः । वृत्यन्तरन्तु अंत्या या अवस्थितिः सततोर्ध्वगतिरूपा मुक्त्याख्या तस्याश्च विकारात्तद्रूपादपि विकारादात्मनोऽनित्यत्वं त्यादिति पूर्वस्मादनुषङ्गः । न केवलं परिमाणपर्यायादिति चार्थः । एवमपि तस्य नित्यत्वे उभयनित्यत्वादात्मप्रपंचयो र्द्वयोरपि नित्यत्वापातात् विकारित्वमात्रस्य त्वया अप्रयोजकीकृतत्वात् विकारविशेषस्य नाशव्याप्तत्वेन त्वयाऽनंगीकारादिति भावः । यच्च स्थास्नूनां परिमाणभेदेनात्मनो विकारापत्या वा देहेन्द्रियापत्तिबाधकेन वा निरात्मकत्वमुपेतम् । तच्च न । आद्ये गजादिदेहस्याविशेषात् । अंत्ये स्थास्नूनां मानुषाद्यविशेषात् । गीतादिश्रवणेन स्थास्नूनामपि विकासदृष्ट्या देहेन्द्रियाद्यनुमानादिति सुधोक्तं ध्येयम् । अत्र प्रपंचस्यापि नित्यत्वादिति वाच्ये उभयेत्युक्तिर्न्यायसाम्यसूचनार्था ॥

किं च देहपरिमाण(1)आत्मेत्यसंगतम् । आत्मनो गजमशकादिदेहपरिग्रहे संकोचविकासप्रसंगेन सावयवत्वापत्याऽनित्यत्वापत्तेः ।

F.N.1. कायपरिमाणात्मनः दृष्टादृष्टसाधनैश्च सत्वं, असत्वं, सदसत्वं, सदसद्विलक्षणत्वं, सत्वेसति सद्विलक्षणत्वं, असत्वेसति असद्विलक्षणत्वं, सदसत्वेसति सदसद्विलक्षणत्वमित्यनियतसप्तभङ्ग्यात्मकस्य जगतो जन्मादिसंभवात् ईशेन कृत्यं नेत्येवं रूपेण जैनोक्तं तु न युज्यते । व्यवस्थितसदसत्वभावाभावत्वादिप्रकारद्वयान्यप्रकारस्याप्रामाणिकत्वेनासम्भावितत्वात् । एकैकपक्षोक्तदोषपरिजिहीर्षया सप्तभङ्ग्यङ्गीकारे सर्वपक्षोक्तदोषानिवारणाच्च । मशकमतङ्गादिसूक्ष्मस्थूलदेहप्राप्त्या आत्मनस्तत्र कार्त्स्न्यातिरेकयोः प्राप्तेः । पर्यायेणतत्तत्कायपरिमाणोक्तौ च विकारित्वेनानित्यताप्राप्तेः । आत्मनः कायपरिमाणत्वप्रक्रियायाः अप्रामाणिकत्वाच्च तन्मतस्य दुष्टत्वमिति सारम् ।

न च गजादिदेहपरिग्रहस्तस्य तस्यात्मनो नियत इति न संकोचविकासप्रसक्तिरिति वाच्यम् । वाल्ययौवनस्थाविरादिवयोभेदेन देहे तत्तत्परिमाणविसेषदर्शनेन तथापि संकोचविकासप्रसक्तेर्दुर्वारत्वात् । एकस्यात्मनो नियतैकजातीयदेहपरिग्रहे प्रमाणाभावाच्च । कर्मणां विचित्रनानादेहपरिग्रहहेतुत्वस्य त्वयाप्यंगीकृतत्वाच्च । नन्वात्मनः संकोचविकासाभ्युपगमे सावयवत्वमिति कोऽर्थः ? यद्वशादनित्यत्वमापाद्यते । न तावदवयवसंयुक्तत्वम् । नित्यद्रव्यमात्रस्य तथात्वेनानैकांत्यात् । नाप्यवयवसमवेतत्वं अवयवसमवेतद्रव्यत्वंवा । अवयवगतरूपघटादिनाऽनैकांत्यात् । समवायानभ्युपगमाच्च । नाप्यवयवारब्धद्रव्यत्वम् । अन्तःकरणादेः सावयवस्य परेणावयवारब्धद्रवयत्वानभ्युपगमेनाव्याप्तेः । अन्तःकरणल्याहंकारपरिणामरूपत्वाभ्युपगमात् । आरंभवादस्य परेण निराकृतत्वाच्च ।

किं च परेण परमाणूनां सावयवत्वमङ्गीक्रियते । न चानित्यत्वमिति व्यभिचारःस्फुटः । एतेन सांशत्वं सावयवत्वमिति निरस्तम् । परमाणूनां सांशत्वेऽपि नित्यत्वोपगमात् । किं चात्मनः संकोचविकासवत्वेन सावयवत्वेऽपि नानित्यत्वम् । सावयवत्वस्य तत्राप्रयोजकत्वात् । विनाशसामग्र्या एव प्रयोजकत्वाच्च । न ह्यात्मनि विनाशसामग्र्यस्ति । न च सावयवत्वेऽपि नाशसामग्र्यपि स्यादिति वाच्यम् । बाधादेव तदप्रसरात् । यदि च संकोचविकासवत्वस्य सावयवत्वे सावयवत्वस्यचानित्यत्वे निरूपाधिसहचार इत्यङ्गीक्रियेत तर्हि त्वन्मते आत्मनोऽणुत्वेन जडत्वापत्तिः । अणुत्वजडत्वयोरपि निरूपाधिक सहचार इति वक्तुं शक्यत्वात् । अत्र सहचारमात्रत्वे च तत्रापि तथाऽस्तु । विशेषनियामकाभालात् । तस्मात्संकोचविकासवत्वेऽपि नात्मनोऽनित्यत्वमिति चेत् उच्यते ॥ आत्मनः संकोचविकासवत्वेऽपि परिमाणभेदेन तदाश्रयभेदो दुर्वार इति कृतहानादिकं स्यादेव । न च बाल्याद्यवस्थासु देहे परिमाणभेददर्शनेऽपि तत्रैकत्वाभ्युपगमात् परिमाणभेदो न तदाश्रयद्रव्यभेदप्रयोजक इति वाच्यम् । तत्रापि परिमाणभेदे देहभेदस्य दुर्वारत्वात् । अन्यथा योऽहं बाल्ये पितरावन्वभूवं स एव स्थाविरे प्रनप्तॄननुभवामीत्याद्यनुसंधानवलाद्देहातिरिक्तात्मसिद्धिप्रसंगात् । तथाविधप्रत्यभिज्ञाया देहैक्यविषयत्वसंभवात् । न च देहातिरिक्तात्मसिद्धिर्मानान्तरेणेति युक्तम् । श्रुत्यतिरिक्तप्रमाणमात्रस्य तदसाधकत्वात् । श्रुतेश्च तत्र त्वया प्रामाण्यानभ्युपगमात् । न चागमात्तत्सिद्धिरिति युक्तम् । तस्य स्वतंत्रप्रमाणावष्ठंभनं(1) विना तत्राप्रवृत्तेः । न चागमस्यैव स्वातन्त्र्येण प्रामाण्यम् । पौरुषेयत्वोपगमात् । न हि पौरुषेयत्वे स्वातन्त्र्यं संभवति । तस्मात्प्रत्यक्षत एव देहातिरिक्तात्मसिद्धिरिति परिमाणभेदेन द्रव्यभेदो दुर्वारः ।

किं चात्मनो देहानुरूपपरिमाणवत्वे प्रमाणाभावः । न च सर्वांगीणसुखाद्यनुसंधानबलात्तस्य तथात्वसिद्धिः । विभुत्वेनापि तदुपपत्तेः । तदणुत्वपक्षे च दीपादेरालोकद्धारा विषयप्रकाशकत्ववत् अंतःकरणादिद्वारा प्रादेशिकात्मनः प्रादेशिकसुखाद्यनु(सन्धातृत्वोपपत्तेः) (पा.) भवितृत्वोपपत्तेः । न चाणुत्वपक्षे कायव्यूहानुपपत्तिः । अंतः करणादिद्वारांऽशतो व्याप्त्या वा सर्वस्य देहस्यात्मसंबन्धसंभवात् । न चातिप्रसंगः । तत्तत्कर्मार्जितत्वस्यापि तत्तदात्मीयत्वप्रयोजकत्वात् ।

ननु जीवस्य नाणुत्वं प्रमाणाभावात् । न च वालाग्रशत(2)

F.N.1. भेनेति (पा.)
2. वालाग्रशतभागस्य शतधा कल्पितस्य च । भागो जीवः स विज्ञेयः स चानन्त्याय कल्पते ॥ (श्वे.उ.अ.5, संत्र.9)

भागस्येत्यादिकमेव प्रमाणमिति वाच्यम् । तस्य सौक्ष्म्याभिप्रायत्वात् । अन्यथा पूर्वत्र “अङ्गुष्ठमात्रो रवितुल्यरूपः संकल्पाहंकारसमन्वितो यः । बुद्धेर्गुणेनात्मगुणेन चैव आराग्रमात्रो ह्यपरोऽपि दृष्टः” ॥ (श्वे.उ.अ.5 मन्त्र 8) इत्यङ्कुष्ठमात्रत्वाराग्रमात्रत्वादिकमपि प्रतिपादितमिति तत्सिद्धिरपि स्यात् । नचेष्टापत्तिः । विरुद्धानेकपरिमाणानामेकत्रासंभवात् । न चाणुपरिमाणात्मनो हठादुपदेष्टुमशक्यतया तदर्थमङ्गुष्ठमात्रत्वाद्युक्तिरिति वाच्यम् । “एषोऽणुरात्मा चेतसा वेदितव्यः” () इत्यादिपरविषयश्रुतेरिव तज्ज्ञानिनोऽपि सोक्ष्म्याभिप्रायत्वोपपत्तेः । “यदेकां शाखां जीवो जहात्यथ सा शुष्यति” (छा.उ.अ.6.खं.11) इत्यादिश्रुत्या जीवस्य तत्तदवयवविशेषप्रतिपादनेनाणुत्वविभुत्वयोरनंगीकार्यत्वाच्च । न च “नित्यः सर्वगतः स्थाणुः” (भ.गी.अ.2 श्लो.24) इति तद्विभुत्वसिद्धिः । `जहाति’ इति श्रुत्यनुसारेण स्मृतेरर्थान्तरपरत्वात् । “अग्निर्यथैको भुवनं प्रविष्टः” (कठ.अ.2 व.2.मन्त्र 9) “वायुर्यथैको भुवनं प्रविष्टः” (कठ.उ.अ.2 व.2 मन्त्र 10) इत्यादाविव समूहाभिप्रायेण सर्वगतत्वोपपत्तेः । तथा च परिशेषादात्मनो देहानुरूपपरिमाणसिद्धिरिति ॥

मैवम् ॥ आत्मनो देहानुरूपपरिमाणत्वे संकोचविकासप्रसंगेन भेदावश्यंभावेन कृतहानादिप्रसंगेनाणुपरिमाणवत्वस्याभ्युपगन्तव्यत्वात् । यथा चात्मनोऽणुत्वं न विभुत्वं तथाऽग्रे प्रतिपादयिष्यामः । तस्मादार्हतमतमनुपपन्नम् । तदिदमुक्तम्–“ऊँ एव(1)ञ्चात्माऽऽकार्त्स्न्यम् ऊँ” इति । (ब्र.सू.अ.2.पा.2, अधि.10,सू.34)

इति श्रीमत्परमहंसपरिव्राजकाचार्याणां श्रीमत्सुरेन्द्रतीर्थपूज्यपादानां शिष्येण सर्वतन्त्रस्वतन्त्रेण विजयीन्द्रभिक्षुणा विरचिते सर्वसिद्धान्तसारासारविवेचने आर्हतमतभंङ्गो नाम तृतीयः परिच्छेदः ॥

F.N.1. व्याख्यानमस्य पूर्वभेव दर्शितम् ।


नैयायिकवैशेषिकमतभङ्गः

%॥ अथ नैयायिकवैशेषिकमतभङ्गः ॥%

इदानीं नैयायिकमतं निराक्रियते ।

नन्विदमनुपपन्नम् । “पुराणन्यायमीमांसा धर्मशास्त्राङ्गमिश्रिताः । वेदास्स्थानानि विद्यानां धर्मस्य च चतुर्दश ॥ (याज्ञवल्क्यस्मृतिः 1/3) अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः । पुराणं धर्मशास्त्रं च विद्याह्येताश्चतुर्दश ॥ विष्णु पु.(1) इति चतुर्दशविद्यास्थानेषु परिगणितस्य न्यायविस्तरस्य धर्मप्रमित्युपयोगित्वेन धर्मशास्त्रादिवत्तस्य वैदिकैरनुसरणीयत्वात् । मन्वादिस्मृतिवत् गौतमस्मृतेरपि सकलवैदिकोपजीव्यत्वेन तत्कृतन्यायविस्तरस्यापि तथात्वावश्यंभावाच्च । गौतमप्रणीतन्याय विस्तरस्य पक्षिलेन(2) महामुनिना भाष्यप्रणयनपूर्वकं प्रवर्तितत्वाच्च । तस्मान्न्यायविस्तरदूषणं वैदिकेन कर्तुमयुक्तमिति चेन्न ।

प्रमाणस्वरूपनिरूपणांशे तस्योपजीव्यत्वेऽपि तत्प्रतिपादितस्य परमाणुकारणत्ववेदपौरुषेयत्वादेः पाषाणकल्पमोक्षादिपदार्थानां च वेदान्त(3) विरुद्धतयाऽवश्यं निरसनीयत्वात् । उद्योतकरवाचस्पतिप्रभृतिव्याख्यात्रभिमतार्थान्तराणां च तथात्वेन तेषामपि निरसनीयत्वाच्च ।

F.N.1. आयुर्वेदो धनुर्वेदो गन्धर्वश्चेति ते त्रयः ।
अर्थशास्त्रं चतुर्थं च विद्याह्यष्टादशैव ताः ॥ विष्णु. पु.)
2. न्यायदर्शनभाष्यकर्तुर्महामुनेर्वास्यायनस्य पक्षिलस्वामीति नामान्तरम् ।
3. पद्मपुराणे ब्रह्मयोगदर्शनातिरिक्तानां दर्शनानां निन्दाप्युपलभ्यते ।
यथा तत्र पार्वतीं प्रतीश्वरवाक्यम्–
श्रुणु देवि प्रवक्ष्यामि तामसानि यथाक्रमम् ।
येषां श्रवणमात्रेण पातित्यं ज्ञानिनामपि ॥
प्रथमं हि मयैवोक्तं शैवं पाशुपतादिकम् ।
मच्छक्यावेशितैर्विप्रैः संप्रोक्तानि ततःपरम् ॥
कणादेन तु संप्रोक्तं शास्त्रं वैशेषिकं महत् ।
गौतमेन तथा न्यायं साङ्ख्यन्तु कपिलेन वै ॥
द्विजन्मना जैमिनिना पूर्वं वेदमयार्थतः ।
निरीश्वरेण वादेन कृतं शास्त्रं महत्तरम् ॥
धिषणेन तथा प्रोक्तं चार्वाकमतिगर्हितम् ।
दैत्यानां नाशनार्थाय विष्णुना बुद्धरूपिणा ॥
बौद्धशास्त्रमसत् प्रोक्तं नग्ननीलपटादिकम् ।
मायावादमसच्छास्त्रं प्रच्छन्नं बौद्धमेव च ।
मयैव कथितं देवि ! कलौ ब्राह्मणरूपिणा ॥
अपार्थं श्रुतिवाक्यानां दर्शयल्लोकगर्हितम् ।
कर्मस्वरूपत्याज्यत्वमत्र च प्रतिपाद्यते ।
सर्वकर्मपरिभ्रंशान्नैष्कर्म्यं तत्र चोच्यते ।
परात्मजीवयोरैक्यं मयात्रप्रतिपाद्यते ।
ब्रह्मणोऽस्य परं रूपं निर्गुणं दर्शितं मया ॥
सर्वस्य जगतोऽप्यस्य नाशानार्थं कलौ युगे ।
वेदार्थवन्महाशास्त्रं मायावादमवैदिकम् ।
मयैव कथितं देवि जगतां नाशकारणात् ॥ इति ॥

वस्तुतस्तु न्यायविस्तराख्यं विद्यास्थानं(1) भगवत् बादरायणकृत ब्रह्मतर्काभिधानं शास्त्रं, न गौतमादिप्रणीतं, तस्य सर्वात्मना वेदविरुद्धत्वात् । तदुक्तमनुव्याख्याने ।

प्रमाणन्यायसच्छिक्षाक्रियते तर्कशास्त्रतः ।
मायान्यायैस्तु तत्सिद्धैर्मिमांसा मेयशोधनम् ॥

F.N.1. सामवेदीयकेनोपनिषदि “सस्मै तपो दमः कर्मेति प्रतिष्ठा । वेदा सर्वाङ्गानि सत्यमायतनम्” । इत्यत्र सत्यमितिपदेन तर्कशास्त्रं च सत्यमित्युच्यते ॥ अत्र तर्कशास्त्रं बादरयणकृतं ब्रह्मतर्काभिधं शास्त्रमेव विवक्षितम् ।

ब्रह्मतर्कं च भगवान् स एव कृतवान् प्रभुः ।
पंचाशत्कोटिविस्तारान्नारायणतनौ कृतात् ।
उद्धृत्य पंचसाहस्त्रं कृतवान् बादरायणः ॥ इति ॥
अतो गौतमानुसारिनैयायिकमतं निरसनीयम् ॥

तत्र प्रमाणादयः षोडशपदार्थाः(1), प्रमाणानि च प्रत्यक्षानुमानोपमानशब्दा(2) इति चतुर्विधानि, आत्मशरीरेन्द्रियादिरूपं(3) प्रमेयं द्वादशविधमित्यादिरूपेण तन्मतप्रक्रिया प्रसिद्धैव । तत्र प्रधानप्रमेयदूषणं प्रथमं क्रियते । परमाणूनां जगदुपादानत्वं तावदयुक्तम् । `यदा तमस्तं च दिवा न रात्रिः’(4) । `तमो वा इदमेकमास’, मायां तु प्रकृतिं विद्यात्’ `अजामेकां’ (श्वे.उ.4.अ.मं.5) `आसीदिदं समोभूतम्’(5) (मनु.स्मृ.अ.1 श्लो.5) –इत्यादिश्रुतिस्मृतिभिस्तमोमायाप्रकृत्यजादि शब्दितस्यान्यस्यैव जगदुपादानत्ववेदनातच् । न च तमोमायादिशब्दानां परमाणुवाचित्वादविरोध इति युक्तम् । लोकवेदयोस्तेषां तद्वाचिताया प्रसिद्ध्यभावात् । न लक्षणया तत्परत्वम् । अर्थान्तरपरत्वेनापि तदुपपत्तेः ॥

F.N.1. प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयतर्कनिर्णयवादजल्पवितण्डाहेत्वाभासच्छलजातिनिग्रहस्थानानां तत्वज्ञानान्निःश्रेयसाधिगमः (गौ.न्या.सू.1)
2. प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि । (गौ.न्या.सू.3)
3. आत्मशरीरेन्द्रियार्थबुद्धिमनः प्रवृत्तिदोषप्रेत्वभावफलदुःखापवर्गास्तु प्रमेयम् । (गौ.न्या.सू.9)
4. न सन्नचासञ्छिव एव केवलः । तदक्षरं तत्सवितुर्वरेण्यं प्रज्ञाच तस्मात्प्रसृता पुराणी ॥ इति शेषः । (श्वे.उ.4 अ.मं.18)
5. असीदिदं तमोभूतमप्रज्ञातमलक्षणम् ।
अप्रतर्क्यमविज्ञेयं प्रसुप्तमिव सर्वतः ॥

ननु `यदा तमः’ (श्वे.उ.अ.4,मं.19) इति मन्त्रे तमःशब्देनान्धकारः उच्यते । न त्वदभिमतं जगदुपादानं प्रमाणाभावात् । प्रसिद्धिविरोधापत्तेश्च । `मायां तु प्रकृतिं विद्यात्’(1) (श्वे.उ.अ.4, मं.10) इत्यत्र च मायाप्रकृतिशब्दाभ्यां जीवादृष्टमुच्यते । तस्य जगत्सृष्टौ सहकारित्वात् । तदुक्तं न्यायकुसुमांजलौ (प्रथमस्तवकेऽन्तिमश्लोकः) “इत्येषा(2) सहकारिशक्तिरसमा माया दुरुन्नितितो मूलत्वात्प्रकृतिः ॥” इति ॥

`अजा’ मन्त्रे च पार्थिवाप्यतैजसपरमाणव एवोच्यन्ते । न त्वदभिमता प्रकृतिः । `लोहितशुक्लकृष्णामनिति विशेषितत्वात् । त्वदभिमतप्रकृतेश्च निरूपत्वात् । न चैवमेकत्वविशेषणानुपपत्तिः । तस्य सङ्घातनिष्ठत्वेनाविरोधात् । त्वयापि मूलप्रकृतेरनेकावयवसङ्घातरूपत्वोपगमाच्च । एवं च कर्यानुरूपमेव जगदुपादानमङ्गीकर्तव्यम् । तच्च परमाणुरूपम् । कार्यानुरूपत्वादिति चेदुच्यते ।

“यदा तम इति मन्त्रेणान्धकारः न प्रतिपाद्यते प्रलये तस्य अनवस्थानात् । प्रलस्यादृष्टाद्यतिरिक्तकार्यनाशरूपत्वादन्धकारस्य च कार्यत्वोपगमात् । विनाशाभ्युपगमाच्च । प्रौढप्रकाशकयावत्तेजःसंसर्गाभावरूपत्वेऽपि तस्योत्पत्तिविनाशाभ्युपगमाच्च । न च प्रलयेऽनधकारातिरिक्तकार्यनाशाभ्युपगमात्तमःशब्दस्यान्धकारवाचित्वे विरोधाभाव इति वाच्यम् ।”

“नाहो न रात्रिर्न नभो न भूमिर्नासीत्तमोज्योतिरभून्न चान्यत्” इति विष्णुपुराणे प्रलयेऽन्धकारासत्वावेदनेन तथा सङ्कोचायोगात् । तथा च यदा तमः तमो वा इदमेकमास, आसीदिदं तमो भूतम्

F.N.1. मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् ।
तस्यावयवभूतैस्तु व्याप्तं सर्वमिदं जगत् ॥
2. मूलत्वात्प्रकृतिः प्रबोधमयतोऽविद्येति यस्योदिता ॥
देवोऽसौ विरतप्रपञ्चरचना कल्लोलकोलाहलः ।
साक्षात्साक्षितयामनस्यभिरतिं बन्धातु शान्तो मम ॥

इत्यादिश्रुतिस्मृतिषु तमःशब्देन मूलप्रकृतिरेवोच्यते । नान्धकारः । तस्य वियदादिप्रपञ्चानात्मकत्वात् । तल्लयानाश्रितत्वाच्च । अत एव न जीवादृष्टमपि तमःशब्दार्थः ।

किं च `मायां तु प्रकृतिं विद्या’ (श्वे.उ.अ.4, मं.10) दित्यत्रापि मायाशब्देन न जीवादृष्टमुच्यते । तथा सति तत्र प्रकृतित्वापरपर्यायोपादानत्वविधानायोगात् । `प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि’ (भ.गी.अ.13,श्लो.19) `प्रकृतेः क्रियामाणानि गुणैः कर्माणि सर्वशः’ (भ्र.गी.अ.3,श्लो.27) । `मयाध्यक्षेण प्रकृतिः सूयते सचराचरम्’(1) (भ्र.गी.अ.9,श्लो.10) इत्यादौ प्रकृतिशब्दस्य प्रधानपरत्वदर्शनेनात्रापि तत्परत्वमेव स्यात् । नोपादानपरत्वमिति चेत् । तथापि मायाया जीवादृष्टरूपत्वासिद्धितादवस्थ्यात् । `जनिकर्तुः प्रकृति’ (व्या.सू.1-4-30)रित्यादौ प्रकृतिशब्दस्योपादानपरत्वदर्शनाच्च ।

किं च `दैवी ह्येषा गुणमयी मम माया दुरत्यया’ (भ.गी.अ.7,श्लो.14) इत्यादिस्मृत्यनुसारेण `मायां तु प्रकृतिं विद्या’ दित्यत्र मायाशब्देन सत्वादिगुणका(2) मूलप्रकृतिरेव ग्राह्या न तु जीवादृष्टम् । `देवात्मशक्तिं स्वगुणैर्निगूढां(3) पञ्चपूर्वा(4)मधीमः’ इति परमोपक्रमे

F.N.1. `हेतुनानेन कौन्तेय जगद्विपरिवर्तते’ति ॥
2. गुणिका–पाठान्तरम् ।
3. ते ध्यानयोगानुगता अपश्यन् देवात्मशक्तिं स्वगुणैगूढाम् ।
यः कारणानि निखिलानि तानि कलात्मयुक्तान्यधितिष्ठत्येकः ॥
(श्वे.उ.प्र.अ.मं.3)
4. पञ्चस्त्रोतोम्बु पञ्चयोन्युग्रवक्रां पञ्चप्राणोर्मि पञ्चबुध्यादिमूलाम् ।
पञ्चावर्तां पञ्चदुःखौघवेगां पञ्चाशद्भेदां पञ्चपूर्वामधीमः ॥
(श्वे.उ.प्र.अ.मं.8)

प्रतिपन्नायाः मूलप्रकृतेरेव मायाशब्दार्थत्वौचित्यात् । न च `मायया(1) सन्निरुद्ध’ (श्वे.उ.अ.4,मं.9) इति जीवनिरोधकत्वेनोक्तमाया जीवकर्मरूपेति वाच्यम् । मूलप्रकृतेरपि बन्धकत्वोपगमात् । बन्धमात्रस्यापि तदधीनत्वाच्च । तथा च श्रुतिः–“अनीशया शोचति मुह्यमानः”(2) (श्वे.उ.अ.4,मं.7) इति ॥

किञ्चाजामंत्रे पार्थिवाप्यतैजसपरमाणूनां प्रतिपादनमित्यनुपपन्नम् । `अजो(3) ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः’ । (श्वे.उ.अ.4,मं.8) इति तस्या एकेन जीवेन जुषमाणत्वस्यान्येन भुक्तभोगायास्तस्यास्त्यज्यमानत्वस्य च प्रतिपादनात्परमाणूनां तथात्वस्यानङ्गीकारात् । तदारब्धस्थूलशरीरस्यैव तथात्वाभ्युपगमाच्च । न चाजामन्त्रस्य तथाविधस्थूलशरीरपरत्वमिति युक्तम् । एकत्वविशेषणबलेन जगदुपादानभूतमूलप्रकृतिपरत्वावश्यम्भावात् । एकशब्दस्य व्यक्त्यैक्यपरत्वे सम्भवति जात्यैक्यसमूहैक्यपरत्वायोगात् । मया प्रकृतेरनेकावयवात्मकत्वाभ्युपगमेऽपि जगतस्तपरिणामत्वाभ्युपगमेन (तदारब्धत्वानभ्युपगमेन) च वैषम्यात् । न च मूलप्रकृतेः नीरूपत्वाभ्युपगमेन `लोहितशुक्लकृष्णा’ मिति रूपविशेषप्रतिपादनमसङ्गतमिति वाच्यम् । गुणत्रयप्रतिपादनपरत्वेन विरोधाभावात् । तत्र रूपाभ्युपगमे विरोधाभावात् । तत्र लोहितादिशब्दस्य च कार्यकारणाभेदाभिप्रायेण

F.N.1. छन्दांसि यज्ञाः क्रतवो व्रतानि भूतं भव्यं यच्च वेदा वदन्ति ।
अस्मान्मायी सृजते विश्वमेतत् तस्मिंश्चान्यो मायया संनिरुद्धः ॥
(श्वे.उ.अ.4,मं.9)
2. समाने वृक्षे पुरुषो निमग्नोऽनीशया शोचसि मुह्यमानः ।
जुष्टं यदा पश्यत्यन्यमीशमस्यमहिमानमिति वीतशोकः ॥
3. अजामेकां लोहितशुक्लकृष्णां बह्वीः प्रजाः सृजमानां सरूपाः ।
अजो ह्येको जुषमाणोऽनुशेते जहात्येकां भुक्तभोगामजोऽन्यः ॥
(श्वे.उ.अ.4,मंः5)

मूलप्रकृतावपि रूपविशेषप्रतिपादने विरोधाभावाच्च । तस्मात्प्रकृतेरेव जगदुपादानत्वं न परमाणूनाम् ।

न च पृथिव्यादिकार्यानुरूपमेव तदुपादानं वाच्यमिति परमाणुसिद्धिरिति वाच्यम् । मूलप्रकृतेरपि जडत्वादिना कार्यानुरूपत्वात् । घटत्वपटत्वादिना परमाणूनामपि कार्याननुरूपत्वाच्च । पृथिवीत्वादिना कारणस्य कार्यानुरूपत्वं विवक्षितमिति चेन्न । घटादिकारणस्य कपालादेर्घटत्वाद्यभावेऽपि घटाद्युपादानत्वाभ्युपगमेनोक्तविवक्षाया अननुसरणीयत्वात् । किंच त्वन्मते चक्षुरादीनामनुद्भूतरूपस्पर्शवत्वेऽपि कथं तदुपादानभूतानामणूनामुद्भूतरूपस्पर्शवत्वमङ्गीक्रियते । तत्तददृष्टरूपसहकारिवशेन तथाभूताणूनामप्यनुद्भूतरूपस्पर्शचक्षुराद्युपादानत्वाङ्गीकारे च मूलप्रकृतौ पृथिवीत्वाद्यभावेऽपि तथाविधादृष्टवशेन पृथिव्याद्युपादानत्वसम्भवाच्चेति यत्किञ्चिदेतत् ।

ननु प्रकृतेरनेकावयवात्मकत्वाभ्युपगमेन रूपवत्वाभ्युपगमेन च परमाणुकारणवाद एवापन्न इति न कश्चिद्विशेष इति चेन्न । मतद्वयेऽपि परिमाणारम्भकत्वरूपविशेषस्य सत्वात् । अणूनां सावयवत्वाभ्युपगमेन क्वचिदपि विश्रान्त्यनभ्युपगमेन च वैषम्यसत्वात् ।

वस्तुतस्तु प्रकृतेर्न रूपस्पर्शादियोगित्वम् । तथा श्रीविष्णुपुराणवचनम् ।

अव्यक्तं कारणं यत्तत् प्रधआनमृषिसत्तमैः ।
प्रोच्यते प्रकृतिः सूक्ष्मा नित्यं सदसदात्मिका ॥
अक्षयं नान्यदाधारममेयमजरं ध्रुवम् ।
शब्दस्पर्शविहीनं तत् रूपादिभिरसंहितम् ॥
त्रिगुणं तज्जगद्योनिरनादिप्रभवाव्ययम् ॥
इति ॥

किं च परमाणुभिर्जगदारभ्यत इत्ययुक्तम् ।
तथाहि–

किं पृथिव्यादिमहाकार्यं युगपदेव परमाणुभिरारभ्यते । किं वा द्व्यणुकादिप्रक्रमेण । नाद्यः । अनभ्युपगमात् । नानादेशस्थितानां परमाणूनां यौगपद्यायोगाच्च । न चेश्वरेच्छावशात्तेषां यौगपद्यं संभवतीति वाच्यम् । अयोग्यार्थविषयेश्वरेच्छाया एवायोगात् । अन्यथेश्वरः कदाचिज्जलादेरप्यौष्ण्यं कुर्यात् । न चैवं तस्येश्वरत्वव्याकोपः । उपपन्नसर्वार्थविषयत्वेनैव तदीश्वरत्वोपपत्तेः । तावतैवास्मदादिवैलक्षण्योपपत्तेश्च । न द्वितीयः । प्रथमं द्वाभ्यां परमाणुभ्यां द्व्यणुकमुत्पद्यते । अनन्तरं त्रिभिर्द्व्यणुकैस्त्र्यणुकमित्येवमाकारेणोत्पत्तौ नियमाभावात् । प्रथमं त्रिभिश्चतुर्भिर्वा परमाणुभिरेकद्रव्योत्पत्तौ विरोधाभावाच्च । न च प्रथमं द्वाभ्यामेव परमाणुभ्यामेकद्व्यणुकारम्भसम्भवे त्रयाणां चतुर्णां वा तदारम्भकल्पने गौरवमिति वाच्यम् । सत्यां सामग्र्यां गौरवस्यापि सह्यत्वात् । न हि सामग्रीगौरवभयात् कार्यं नार्जयतीत्यस्ति ।

किञ्चैवं एकस्या एव प्रकृतेर्जगदुपादानत्वसम्भवे अनेकेषां परमाणूनां तदुपादानत्वकल्पने गौरवमिति वैपरीत्यापत्तिः । किं च त्वदभिमतपरमाणुसद्भावे मानाभावः । पृथिव्यादिकार्यस्यास्मदभिमतप्रकृतिकार्यतया तदसाधकत्वात् ।

ननु यदिदं जालसूर्यमरीचिस्थं सर्वतः सूक्ष्मतममुपलभ्यते तत् स्वल्पपरिमाणद्रव्यारब्धं कार्यत्वात् । घटादिवत् । न चासिद्धिः । चाक्षुषद्रव्यस्य कार्यत्वनियमात् । तदपि द्रव्यं कार्यं महद्रव्यारम्भकस्य कार्यत्वनियमात् । न च जालसूर्यमरीचिषूपलभ्यमानस्य द्रव्यस्य महत्वमसिद्धमिति वाच्यम् । तस्य चाक्षुषत्वेन महत्वस्याङ्गीकार्यत्वात् । महत्वसमानाधिकरणोद्भूतरूपवत एव चाक्षुषत्वात् । एवं च द्व्यणुकारम्भकतया परमाणुसिद्धिः । न च द्व्यणुकारम्भकस्यापि कार्यत्वम् । अनवस्थापातात् । मेरुसर्षपयोरनन्तावयवारब्धत्वाविशेषे तुल्यपरिमाणत्वापाताश्चेति चेत् । न । बीजांकुरादाविवानवस्थाया अदोषत्वात् । घट(1) करीरार्देरनन्तावयवारब्धत्वाविशेषेऽपि त्वया परिमाणकृतवैलक्षण्यस्याभ्युपगमाच्च । तत्रानन्त्ये विशेषसत्वे च प्रकृतेऽपि तथास्तु ।

F.N.1. करीरः, अङ्कुरः । `वंशाङ्कुरे करीरोऽस्त्री तरुभेदे घटे च ना’ (इत्यमरः)

किंचेश्वरस्य त्वन्मते ज्ञानेच्छाकृतिमत्वमित्यङ्गीकारोऽनुपपन्नः । तस्यानन्तगुणकत्वात् । तथा च श्रुतिस्मृतयः–

“अथ कस्मादुच्यते ब्रह्मेति बृहन्तो ह्यस्मिन् गुणाः” (अथर्वशिरः, आग्निवेश्यश्रुतिश्च) मय्यनन्तगुणेऽनन्ते गुणतोऽनन्तविग्रहे–इत्याद्याः ।

न चोदाहृतश्रुतिस्मृतीनां उपचरितार्थत्वमिति युक्तम् । मुख्यार्थपरत्वे बाधकाभावात् । न च कार्तत्वाद्यनुमानेन सिद्धतीति गुणान्तराणि तत्र नाङ्गीकार्याणीति वाच्यम् । ईश्वरस्यानुमानिकत्वस्यैवायोगात् । कार्यत्वाद्यनुमानस्य यथादृष्टोपसंहाररूपत्वेनास्मदादिवैलक्ष्यासिद्धेश्च । “नेन्द्रियाणि नानुमानं वेदाह्येवैनं वेदयन्ति”(1)–इत्यादिश्चुत्या तस्यानुमानगम्यत्वनिषेधपूर्वकं श्रुत्यैकसमधिगम्यत्वप्रतिपादनेन तद्विरोधापत्तेश्च ।

किं च त्वन्मते समवाय्यसमवायिनिमित्तभेदेन कारणत्रैविध्योक्तिरप्यनुपपन्ना । समवायिनिमित्तभेदेन तद्धैविध्यस्यैव युक्तत्वात् । अन्यथा अनिमित्तकारणमित्यपि परिगणनं स्यात् । न चानिमित्तस्य कारणत्वं विरुद्धमिति वाच्यम् । दण्डादेहेव निमित्ततया कुलालादेः कर्तुरनिमित्ततया च तथा विभागकरणेऽपि विरोधाभावात् । यदि च कर्तुः कुलालादेर्निमित्तेऽष्वेवान्तर्भावः तदा तन्तुसंयोगादेरपि तत्रान्तर्भाव इति सुवचम् । पृथक्परिभाषाकरणस्योभयत्रापि समानत्वात् ।

किं च षोडशपदार्थतत्वज्ञानस्य मोक्षसाधनत्वोक्तिरप्यनुपपन्ना । ब्रह्मज्ञानान्मोक्ष इत्यस्य श्रुति(2)स्मृति(3)सिद्धत्वेन तद्विरोधापत्तेः । न च परम्परया मोक्षसाधनत्वाभिप्रायोऽस्येति वाच्यम् । तथा सति भ्रमादेरपि तथात्वेन तत्वज्ञानपर्यन्तानुधआवनायोगात् । न च मिथ्याज्ञानस्य बन्धहेतुत्वात्तस्य च सर्वविषयकत्वेन तन्निवृत्यर्थं सर्वविषयकं

F.N.1. पिप्पलादश्रुतिः ।
2. “तमेवं विदित्वातिमृत्युमेति” इत्याद्याः श्रुतयः ।
3. यस्य ज्ञानं तस्य मोक्ष इति नात्र विचारणा ॥ इत्याग्रेये ॥
ज्ञानाम्नोक्षो भवत्येव ॥ इति ब्रह्माण्डे ॥

तत्वज्ञानमावश्यकं न तु ब्रह्ममात्रविषयकम् । तन्मात्रविषयकतत्वज्ञानेन तदितरविषयकमिथ्याज्ञाननिवृत्त्ययोगादिति वाच्यम् । “भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे(1)” । इत्यादिश्रुत्यनुसारेण भिन्नविषयतत्वज्ञानस्यापि तथाविधमिथ्याज्ञाननिवर्तकत्वस्याङ्गीकार्यत्वात् । “आत्मा(2) वाऽरे द्रष्टव्याः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः ।” इति परमात्मविषयक-श्रवणादीनामेव कर्तव्यत्वविधानेन तद्विरोधापत्तेश्च । न प्राधान्याभिप्रायैव सा श्रुतिः । अन्यथा जीवाद्यर्थान्तरविषयश्रवणादिकं नानुष्ठीयेतेति वाच्यम् । तथाप्यत्यन्तव्यवहितसंशयादिनिवर्तकतत्वज्ञानस्य मोक्षसाधनत्वोक्त्यनुपपत्तेः ।

किंच आत्यन्तिकदुःखध्वंसो मोक्ष इत्यनुपपन्नम् । `सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चितेति(3)’ । `शोकातिगो(4) मोदते स्वर्गलोके तेषां सुखं शाश्वतं(4) नेतरेषाम्’ इत्यादि श्रुतिभिर्मोक्षे आनन्दानुभवस्य प्रतिपन्नत्वात् । न चोदाहृतश्रुतयो दुःखाभावाभिप्राया इति युक्तम् । स्वर्गादिसुखस्यापि असिध्यापत्तेः । न च मोक्षे देहेन्द्रियाभावेनानन्दाभावः । स्वरूपानन्दस्यैव तदानीमनुभूयमानत्वात् । न चमोक्षे जन्यज्ञानानङ्गीकारेण स्वरूपानन्दानुभवः कथमिति शङ्क्यम् । आत्मन एव ज्ञानरूपतया स्वविषयत्वलक्षणस्वप्रकाशत्वोपगात् । न चात्मनो ज्ञानानन्दादिरूपत्वे स्वप्रकाशत्वे च प्रमाणाभावः शङ्क्याः । एष हि द्रष्टा श्रोता घ्राता रसयिता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुष(5) इत्यादि श्रुत्या जीवात्मनो ज्ञानस्वरूपत्वसिद्धेः । सुखमहम

F.N.1. मुण्डकोपनिषत्, (द्वि.ख.मं.8)
2. बृ.उ.(6-5-6)
3. तैत्तिरीय (2-2)
4. कठोपनिषत् (प्र.अ.प्र.वल्ली,मं.12,18)
5. षट्प्रश्न.(स्वं.4,मं,9)

स्वाप्समिति तस्यानन्दरूपत्वसिद्धेश्च । `अत्रायं पुरुषः स्वयंज्योति’(1) रिति श्रुत्या तस्य स्वप्रकाशत्वसिद्धेश्च । न चेयं श्रुतिः परविषयेति शङ्कनीयम् । सुषुप्तिप्रक्रमात् परमात्मनोऽपि स्वप्रकाशत्वाभ्युपगमाच्च । न च स्वस्य स्वविषयत्वं विरुद्धम् । ईश्वरज्ञानस्य सर्वविषयत्वमभ्युयगच्छता त्वया तस्य स्वविषयत्वस्याप्यभ्युपगन्तव्यत्वात् । न चैश्वरज्ञानस्य स्वातिरिक्तसर्वविषयत्वमिति शङ्कनीयम् । तथा सङ्कोचे कारणाभावात् । `यः सर्वज्ञः सर्ववित्’(2) इत्यादिश्रुतिव्याकोपापत्तेश्च । अत्रापि सङ्कोचं वदता उन्मत्तवदुपेक्षणीयत्वाच्च । प्रमेयत्वे प्रमेयत्वं वदता त्वया स्वस्य स्वविषयत्वस्याभ्युपगन्तव्यत्वाश्चेति । एवमस्मन्मतविरुद्धं नैयायिकाभिमतप्रक्रियान्तरमपि निरसनीयम् ।

एतेन वैशेषिकाभिमतप्रक्रियापि निरस्ता वेदितव्या । तन्मतप्रक्रियाया अपि सकलश्रुतिस्मृतिविरुद्धत्वेन अनादरणीयत्वात् ।

तथा च स्मृतिः–

काणादशाक्यपाषण्डैस्त्रयीधर्मो विलोपितः ।
त्रिदण्डधारणापूर्वं विष्णुना रक्षिता त्रयी ॥

इति । तत्र “धर्मं व्याख्यास्यामः”(3) इति धर्मनिरूपणं प्रतिज्ञाय द्रव्यादिषट्रपदार्थनिरूपणं कणादेन कृतम् । तदसङ्गतम् । `आम्रान् पृष्टः कोविदारानाचष्ट’ इतिवत्तथाप्रतिज्ञानिरूपणयोर्व्यधिकरणत्वादत एव धर्मं व्याख्यातुकामस्य षट्रपदार्थनिरूपणं “सागरं गन्तुकामस्य हिमवद्गमनोपम” मिति काणादे प्रतिज्ञानिरूपणे परिहसन्ति सन्तः । न च द्रव्यादीनामपि धर्मत्वेनावैयधिकरण्यमिति शङ्क्यम् । `लोके धर्मिष्टं प्रजा उपसर्पन्ति चोदना(4)लक्षणोऽर्थो धर्म’ इति श्रुतिसूत्राभ्यामलौकिक श्रेयःसाधनस्याग्निहोत्रादेरेव धर्मत्वप्रतिपादनेन द्रव्यादीनामतथात्वात् ।

F.N.1. बृ.6 अ-3 ब्रा.9 मन्त्रः ॥
2. मुण्डकोपनिषत् खण्ड-1, मं.7 ॥
3. धर्मं व्याख्यास्यामः इति सूत्रम् ॥ (कणादसूत्रम्)
4. जै.सू.प्र.अ.पा.अधि.2, सू.2 ॥

यद्यपि गुणादीनां द्रव्यधर्मत्वमभ्युपगतम् । तथापि धझर्मशब्देन तेषामत्रग्रहणं न युक्तम् । प्रतिज्ञाया न्यूनविषयत्वतादवस्थ्यात् । न च धर्मशब्दे लक्षणामङ्गीकृत्य प्रतिज्ञायः सर्वविषयत्वमिति शङ्क्यम् । तथा कल्पनायां प्रमाणाभावात् । अन्यथोन्मत्तवाक्यमपि लक्षणाकल्पनद्वारा प्रमाणं स्यात् । न चास्याप्तवाक्यतयोन्मत्तवाक्यवैलक्षण्यमिति वाच्यम् । “कणादशाक्यपाषण्डैस्त्रयीधर्मो विलोपितः” इत्युदाहृतस्मृत्या कणादस्यानाप्तत्वावेदनादिति यत्किञ्चिदेतत् ।

किं च द्रव्याणि न वेत्यनुपपन्नम् । प्रकृतिमहदहङ्कारादेरन्धकारस्य वर्णात्मकशब्दादेश्च द्रव्यान्तरस्य सत्वात् । न च प्रकृतिमहद्रहङ्कारादयो न सन्तीति युक्तम् । श्रुतिस्मृतिपुराणादिषु तेषामुपलम्भात् । न च तेषां पृथिव्यादिष्वन्तर्भावः । तद्भिन्नतया श्रुतस्मृत्यादिषु प्रतिपाद्यमानत्वात् । अन्यथा पृथिव्याद्यपलापप्रसङ्गात् । न चान्धकारस्य प्रौढप्रकाशकयावत्तेजःसंसर्गाभावरूपत्वेन द्रव्यत्वमेव नेति युक्तम् । पृथिव्यादेरिव रूपवत्वक्रियावत्वपरिमाणवत्वादिना तत्रापि द्रव्यत्वस्य दुर्वारत्वात् । न च तत्र रूपवत्वादिप्रतीतिः भ्रमः । बाधकाभावात् । बाधकाभावेऽपि भ्रमत्वाङ्गीकारे पृथिव्यादावपि रूपवत्वादिप्रतीते र्भ्रमत्वेनाद्रव्यत्वं स्यात् । न चोभयसिद्धालोकाभावेनैवान्धकारप्रतीतिव्यवहारयोरुपपत्तौ न तस्य द्रव्यान्तरत्वंकल्पनीयं गौरवादिति वाच्यम् । अनन्यथासिद्धस्य रूपवत्वादेर्द्रव्यत्वसाधकस्य विद्यमानत्वेन गौरवस्य प्रामाणिकत्वात् । अन्यथा त्वन्मते आकाशादिद्रव्यान्तरं न सिद्ध्येत् । तत्राप्यावरणाभावरूपत्वेनान्यथासिद्धेर्वक्तुं शक्यत्वात् । न च शब्दलक्षणगुणस्यान्यत्रासम्भवेनातिरिक्ताकाशद्रव्यसिद्धिरिति शङ्क्यम् । तथासत्यत्राप्यपाकजनीलरूपस्यान्यत्रासम्भवेनान्धकाराख्यद्रव्यसिद्धेर्दुर्वारत्वात् । वस्तुतस्तु ध्वन्यात्मकशब्दस्य नाकाशमात्रगुणत्वं किं तु पञ्चभूतगुणत्वमिति न भवदभिमतपरिशेषसिद्धिः ।

किं चान्धकारस्यालोकाभावरूपत्वं कथमभ्युपगम्यते । तदभावस्थले एव तत्प्रतीतेरिति चेन्न । आकाशस्याप्यावरणाभावरूपस्यापाततः उक्तत्वात् । आलोकस्याप्यन्धकाराभावस्वरूपत्वापाताच्च । `तमश्छिच्छेद भगवानि’ त्यादिस्मृत्यान्धकारस्य छेद्यत्वादिप्रतिपादनेन द्रव्यत्वस्य दुर्वारत्वाच्च । न च वर्णात्मकशब्दस्याप्याकाशादिगुणत्वेन द्रव्यत्वं नेति युक्तम् । `यावद्ब्रह्म(1) विष्टितं तावती वागि’ति ब्रह्मवत् विभुद्रव्यत्वावेदनात् । `वाचा(2) विरूप नित्यया’ इति तन्नित्यत्वावेदनाच्च । न चोत्पन्नो गकारो विनष्टो गकार इति वर्णात्मकशब्दस्योत्पत्तिविनाशानुभवेन कथं नित्यविभुद्रव्यत्वमितिं युक्तम् । उत्पत्तिविनाशयोर्व्यञ्जकवायुगतत्वेन वर्णगतत्वासिद्धेः । न च विनिगमनाविरहः । तन्नित्यत्वस्य प्रमाणसिद्धत्वात् । `स एवायं गकारः’ इति प्रत्यभिज्ञायाः सार्वजनीनत्वाच्च । न च नित्यत्वं गौणम् । प्रत्यभिज्ञा सदातीयविषयिमीति युक्तम् । बाधके सत्येव नित्यत्वस्य गौणनित्यत्वरूपतायाः प्रत्यभिज्ञायाश्च जातिविषयत्वस्य चाङ्गीकर्तव्यत्वात् । न हि प्रकृते शब्दनित्यत्वस्य मुख्यत्वे प्रत्यभिज्ञाया व्यक्तिविषयत्वे च बाधकमस्ति । उत्पित्तिविनाशप्रतीतिश्च व्यञ्जकविषयिणीति युक्तम् ॥

किं चेन्द्रियाणां भोतिकत्वोक्तिरसङ्गता । तैजसानीन्द्रिया(3)ण्याहुरिति तेषां तैजसाहङ्क्तारकार्यत्वावेदनात् । न च रूपादिषु पञ्चसु मध्ये यदिन्द्रियं यदिन्द्रिगुणं गृह्णाति तदिन्द्रियं तद्गुणयुक्तमिति व्याप्तिबलादिन्द्रियाणां भौतिकत्वं सिद्ध्यतीति युक्तम् । सर्वैष्वपीन्द्रियेषु भौतिकत्वाहङ्कारिकत्वविवादे व्याप्तेरेवाभावेनानुमानप्रवृत्त्ययोगात् । रूपादिषु पञ्चसु मध्ये इत्यादिविशेषणविवक्षायाः कुसृष्टियुक्तत्वेन तत्सिध्यर्थमागमस्यैवानुसरणीयतया धर्मिग्राहकमानेनाऽऽहङ्कारिकत्वस्यैव सिद्ध्येश्च ।

किं च श्रोत्रेन्द्रियस्याकाशात्मत्वमसङ्गतम् । श्रोत्रेन्द्रियस्यापि चक्षुरादेरिवोत्पत्यादेः श्रवणात् । एवं वागादिकर्मेन्द्रियपञ्चक-

F.N.1. ऋ.मं.10,सू.114,मं,8 ॥
2. ऋग्वेदे मं.8,75,मं.6 ॥
3. भागवतम् ॥

मप्यङ्गीकार्यम् । इन्द्रियाणि दशैकं(1) चेत्यादि स्मृत्या वागादीनामपि इन्द्रियत्वसिद्धेः । एवमाकाशस्य मनसश्च नित्यत्वं नाङ्गीकार्यम् । तयोरपि सृष्टिप्रकरणेषूत्पत्तिविनाश(2)योरावेदनात् । न हि श्रुतिविरोधेऽनुमानं मानं भवति । अन्यथा श्रुत्यर्थः सर्वोऽपि दत्तजलाञ्जलिः स्यात् । न च तद्युक्तम् । वैदिकेन श्रुत्यर्थस्य सर्वस्यानुसरणीयत्वात् । न च तत्र श्रुतेरतात्पर्यम् । तत्र हेत्वनुपन्यासात् । निष्कारणमेव तत्र तात्पर्यानभ्युपगमे अतिप्रसङ्ग इति उक्तम् ।

किं च तदभिमताखण्डकालेऽपि न प्रमाणम् । भूतभविष्यद्वर्तमानकालतिरेकेण कालान्तरस्याभावात् । यथा चैतत्तथाऽग्रे वक्ष्यते ।

किं च जीवात्मनो विभुत्वमपि नाङ्गीकार्यम् । तत्र प्रमाणाभावात् । प्रत्युत `बालाग्रशतभागस्ये’(3) त्यादिश्रुत्या तस्याणुत्वेनैव सिद्धेः । न चैषोऽणु(4)रात्मा चेतसा वेदितव्यः अणोरणीयानित्यादिपरविषयाणुत्वश्रुतीनामिव `बालाग्रे’त्यादेरपि सौक्ष्म्याभिप्रायत्वमेव नत्वणुपरिमाणप्रतिपादनपरत्वमिति वाच्यम् । `महतो महीयान्’ `महान्तं(5) विभुमात्मानम्’ इत्यादिश्रुतिभिः परमात्मनः सर्वव्यापकत्वाप्रतिपादनेन तत्राणुत्वप्रतिपादकश्रुतीनां सौक्ष्म्याभिप्रायत्यकल्पनेऽपि जीवात्मनि विशिष्यव्यापकत्वप्रतिपादकश्रुतिस्मृत्याद्यदर्शनेन `बलाग्रे’त्यादेर्यथाश्रुतार्थपरात्वस्यैव न्याय्यत्वात् । न च `नित्यः सर्वगतः(6) स्थाणु’रिति स्मृत्या तस्य सर्वगतत्वसिद्धिः । `अग्नि(7)र्यथैको भुवनं प्रविष्टः’ इत्यादावग्नेः

F.N.1. गी.अ.13,श्लो.8 ॥
2. तै.श्रु.ब्रं.वल्ली ॥
3. श्वेताश्वतरोपनिषदि अध्या.8,मं.9 ॥
4. श्वेताश्व.अ.3,मं.20 ॥
5. कठ अ.1,वल्ली 1, मं.22 ॥
6. गीः अ.2,श्लो.24 ॥
7. कठ अ.2, वल्ली 2,मं.9 ॥

सर्वगतत्ववत् सर्वजीवापेक्षया तत्र सर्वगतत्वोपपत्तेः अन्यत्वप्रतिपादकश्रुत्यनुसारेण सर्वगस्थश्चासावणुश्चेति स्मृत्यर्थस्य वर्णनीयत्वेन विरोधाभावाच्च । न चाग्नेरूर्ध्वज्वलनं वायोस्तिर्यक् पवनमणुमनसश्चाद्यं कर्मादृष्टकारितमित्यभ्युपगन्तव्यम् (वै.सू. ) । अदृष्टं चात्मगुणः एवं सर्वत्रादृष्टस्यावश्यकत्वात् । गुणस्य च गुणिनं विनाऽवस्थानानुपपत्तेर्जीवस्य विभुत्वमङ्गीकरणीयमिति वाच्यम् । व्यतिरेकोगनधवदित्यादिन्यायेनादृष्टस्य गुणस्य(1) गुणिनं विनाऽप्यवस्थानोपपत्तेः । कार्यकारणभावादिसंबन्धान्तरेणाणुपरिमाणजीवनिष्ठादृष्टगुणस्य सर्वदेशसंबन्धोपपत्तेश्च । अदृष्टस्यात्मगुणत्वे प्रमाणाभावाच्चेति यत्किञ्चिदेतत् ।

किं चास्माभिर्द्रव्याणां गुणक्रियादीनां चाभेदाभ्युपगमेन त्वदीयो विभागो न युज्यते ।

किं च त्वदभिमता जातिरपि नाङ्गीकार्या । घटत्वादीनां सकलघटादिव्यक्तिनिष्ठत्वे नित्यत्वे च प्रमाणाभावात् घटत्वादीनां प्रतिव्यक्तिभिन्नत्वादनित्यत्वाच्च । न चैवमनुगतप्रतीत्यनुपपत्तिः । त्वन्मते घटत्वपटत्वादिजातिष्वनुगतप्रतीतिवत् सादृश्यात् घटोऽयं पटोऽयमित्यनुगतप्रतीत्युपपत्तेः ।

किं च नित्यद्रव्यवृत्तयोऽन्त्या विशेषा इत्यङ्गीकारोऽनुपपन्नः । “भेदहीनेत्वपर्यायशब्दान्तरनियामकः । विशेषो नाम कथितः सोऽस्तिवस्तुष्वशेशतः” (अनुव्याख्याने) इत्यस्मदभिमतविशेषातिरेकेण नित्यद्रव्यमात्रवृत्तिविशेषसद्भावे प्रमाणाभावात् । विशेषनियामकाभावेन तादृशविसेषामणामनित्यद्रव्येष्वप्यङ्गीकार्यत्वाच्च । तत्र व्यावर्तकान्तरसत्वेन विशेषानभ्युपगमे च नित्यद्रव्येष्वपि व्यावर्तकान्तरसत्वेन तेषामनङ्गीकर्तव्यत्वात् ।

किं च समवायश्चानभ्युपगन्तव्यः । स्वरूपसम्बन्धेनैव रूपादिवैशिष्ट्यप्रतीतेरुपपादनीयत्वात् । समवायवैशिष्ट्यप्रतीतेस्त्वया स्वरूप

F.N.1. ब्र.सू.अ.2, पा.3,अधि.13,सू.27 ॥

सम्बन्धविवयत्वोपगमात् । न चैवं संयोगस्याष्यसिध्यापातः । अन्यतरकर्मादिजन्यसंयोगस्य प्रत्यक्षसिद्धत्वेन दुरपह्नवत्वात् । न चेह तन्तुषु पटसमवाय इति समवायोऽपि प्रत्यक्षत एवानुभूयत इति न तदपलापः कर्तुं शक्यते इति युक्तम् । तथाविधप्रतीतेरेवाऽसिद्धेः । कल्पितप्रतीतिमात्रेण वस्तुसिध्यङ्गीकारेऽतिप्रसङ्गात् । प्रत्युत तन्तव एव पट इति तन्तुपटादीनामभेदानुभावाच्च । अस्तु वा घटादीनां रूपादीनां च कश्चन सम्बन्धः । तथाऽपि स एको नित्यश्चेत्यत्र प्रमाणाभावः । न च धर्मिग्राहकमानेन सिध्यन् समवायरूपसम्बन्धो लाघवान्नित्य एव सिध्यतीति वाच्यम् । प्रतिव्यक्तिभिन्नभिन्नतया आगन्तुकत्वेन चानुभूयमानस्य तथाविघसम्बन्धस्यानेकत्वविनाशित्वयोरभ्युपगन्तव्यत्वात् । एवं संसर्गाभावस्यातिरिक्तस्य सत्वेऽप्यतिरिक्तान्योन्याभावो नाभ्युपेयः । सर्वत्र त्वदङ्गीकृतस्वरूपभेदेनैव भिन्नत्वव्यवहारोपपत्तेः । अन्यथा वैरूप्याश्नयणापातादित्यन्यत्र विस्तरः ।

तस्मान्नैयायिकमतं वैशेषिकमतं च न प्रेक्षावदुपादेयम् ।

इति श्रीमत्परमहंसपरिब्राजकाचार्याणां श्रीमत्सुरेन्द्रतीर्थपूज्यपादानां शिष्येण सर्वतनत्रस्वतन्त्रेण विजयीन्द्रभिक्षुणा विरचिते सर्वसिद्धान्तसारासारविवेचने नैयायिकवैशेषिकमतभङ्गो नाम षष्ठः परिच्छेदः ॥


शैवसर्वस्वखण्डनम्

%॥ शैवसर्वस्वखण्डनम् ॥%

(न्यायमौक्तिकमालायाम्)

जगद्गुरु-सर्वतन्त्रस्वतन्त्र श्रीमद्विजयीन्द्रतीर्थश्रीपादविरचितम्

परस्परं विवदमानयोर्ब्रह्मनारायणयोर्मध्ये महालिङ्गाकारेण प्रादुर्भूतेन परमशिवेन तद्वलपरीक्षार्थं तल्लिङ्गमूलाग्रदर्शनाय प्रेरितयोर्वराह हंसरूपेण तदर्थं प्रवृत्तयोस्तद्दर्शनाऽलाभेन तदपेक्षया शिव एवोत्कृष्ट इत्यस्य ॥ 1 ॥

विष्णुर्जलनधरवधार्थं सुदर्शनमाकांक्षमाणः प्रतिदिनं पङ्कजानां सहस्रेण शिवमाराधयिता, तत्परीक्षार्थं कदाचिदेकपङ्कजे गोपायिते ततः स्वोद्धृतेन स्वनेत्रकमलेन शिवाराधेन प्रवृत्तः ततः शिवप्रसादात्सुदर्शनं पुण्डरीकाक्षत्वं च प्राप्य तेन सुदर्शनेन जलन्धरमजयदित्यस्य ॥ 2 ॥

अमृतमथनकाले कालकूटविषोद्भवे तन्नियमनाशक्ततया विष्ण्वादिषु पलायनपरेषु सर्वलोकरक्षार्थं शिवस्तादृशविषं पीतवानित्यस्य ॥ 3 ॥

विष्ण्वादीनि युद्धसाधनानि कृत्वा शिवस्तदसाध्यत्रिपुराण्यजयदित्यस्य ॥ 4 ॥

दक्षाध्वरभङ्गे हरिणरूपेण द्रुततरं भीत्या गच्छतो विष्णोः शिवावतारभूतवीरभद्रेण पराजय इत्यस्य ॥ 5 ॥

“सत्यं सत्यं पुनस्सत्यं उद्धृत्य भुजमुच्यते । वेदशास्त्रात्परं नास्ति न दैवं केशवात्परम्” इति सर्वऋषिसभामध्ये वदतो वेदव्यासस्य भुजः स्तब्धोऽभूदित्यस्य ॥ 6 ॥

दारुकावनादौ विष्णुशिवयोस्स्त्री-पुरुषरूपेण सञ्चार इत्यस्य ॥ 7 ॥

हिरण्यासुर (रिरण्यकशिषु) वाधार्थे प्रवृत्तं नृसिंहं रुद्रः शरभरूपेणावधीदित्यस्य ॥ 8 ॥

रामचन्द्रेण रावणवधजनितब्रह्महत्यापनुत्तये सेतौ लिङ्गप्रतिष्ठातत्पूजादिकं कृतमित्यस्य ॥ 9 ॥

कृष्णस्य शिववरप्रदानेन पुत्रप्राप्तिर्जातेत्यादेश्च ॥ 10 ॥

तत्र तत्र पुराणादिषु प्रतिपादनेन शिवस्यैव विष्ण्वपेक्षयोत्कृष्टत्वेन परब्रह्मत्वं परमकारणत्वं चोचितम् । मोक्षप्रदस्य काशीक्षेत्रस्य शिवक्षेत्रत्वादिप्रसिद्धेः शिवस्यैव मोक्षप्रदातृत्वेन मुमुक्षूपास्यत्वं चेति ॥ 11 ॥

तदसत् । उत्कृष्टस्य (हरिसर्वोत्तमत्वादिरूपस्य) सर्वस्याप्यर्थस्य सात्विकपुराणेषु प्रतिपादनेन तदन्येषूक्तविरुद्धार्थप्रतिपादनेन परीक्षकानादरणीयत्वात् । किञ्च विष्णुचतुर्मुखयोर्वराहहंसरूपयोः शिवलिङ्गमूलाग्रादर्शनं कौर्मलैग-शिवरात्रिमाहात्म्यादिषु प्रतिपाद्यते । तेषां तामसपुराणत्वं प्रसिद्धमेव । किञ्च “उद्धृतासि वराहेण कृष्णेन शतबाहुना” । आपो वा इदमग्रे सलिलमासीत् तस्मिन्प्रजापतिर्वायुर्भूत्वाचरत्स इमां अपश्यत् । तां वराहो भूत्वाऽहरत्” इत्यादिश्रुतिविरोधः । तत्र सकलभूतभौतिकाद्याश्रयपृथिव्या उद्धरणं विष्णुना कृतमित्यावेदनात् । तादृशलिङ्गस्यापि पार्थिवत्वात् । तस्या पृथिवीत्वेऽप्राकृतत्वे ऊर्ध्वाधोगेशावच्छेदेनापरिच्छिन्नत्वे च प्रमाणाभावात् । न च विष्णोर्लिङ्गमूलापरिज्ञानेनैव तत्कल्पनमिति वाच्यम् । विष्णोस्सर्वज्ञत्वप्रतिपादकश्रुतेः विरोधात् । “विचित्रशक्तिः पुरुषः पुराणो न चान्येषां शक्तयस्तादृशास्स्युः” इत्यादिविष्णुविचित्रशक्त्याद्यावेदकश्रुतिविरोधात् ॥ 1 ॥

विष्णोः शिवप्रसादेन जलन्धरवधार्थं सुदर्शनप्राप्त्यादिकमसंगतम्, “चरणं पवित्रम्” (प्रहाना 5-10 सु.द.) इत्यादि श्रुतिविरुद्धम् । असङ्गतं पुण्डरीकाक्षत्वप्राप्त्यादिकमपि । “तस्य यथा कप्यासं पुण्डरीकमेवाक्षिणी तस्योदिति नाम स एव सर्वेभ्यः पाप्मभ्य उदितः” इत्यादि (छा.1-6-7) श्रुतिविरुद्धम् । तत्र भगवद्विग्रहमात्रस्याप्राकृतत्वेनानाद्यनन्तत्वसमर्थनात् । यद्यपि लिङ्गपुराणादिष्विव वराहपुराणपूर्वखण्डेऽपि विष्णोर्जलनधरवधार्थं शिवपूजा-सुदर्शन-पुण्डरीकाक्षत्व-प्राप्त्यदिकमावेद्यते । तथापि पाद्मादिषु सात्विक-राजस-तामसत्वादिवत् वाराहेऽपि पूर्वखण्डस्य तामसत्वोपगमान्न दोषः ॥ 2 ॥

अमृतमथनकाले कालकूटविषपानमपि शिवेन न स्वशक्तिमात्रकृतम् । किन्तु विष्णुतन्मन्त्रजपमहिम्नैव । न चात्र प्रमाणाभावः । “तं दृष्ट्वा घोरसङ्काशं प्रादुर्भूतं महाविषम् । ध्यात्वा नारायणं देवं हृदये गरुडध्वजम् ॥” इति ब्रह्माण्डपुराणवचनस्य सत्वात् । “येन जीर्णं च गरलं कण्ठस्थं च कपालिनः । अन्तरात्मधृतं तस्य हृदये गरुडध्वज” मिति पुराणान्तरवचनसय सत्वात् । “अप्रकाशमिदं देवि गुह्याहुह्यतरं पदम् । पुराहमब्धिमथने पतगेन्द्रविषावहम् । अवध्यं गरलं घोरमभुञ्जममृतं यथा ॥” इति गारुडपुराणे पार्वतीं प्रति शिववचनाच्च । “अच्युतानन्तगोविन्दमन्त्रतोऽप्सु शुभं परम् । ऊँ नमस्सम्पुटीकृत्यजपन्विषधरोऽहसरत्” इति मन्त्रशास्त्रेषु प्रतिपादनाच्च । “नामत्रयप्रभावाच्च विष्णोस्सर्वगतस्य वै । विषं तदभवज्जीर्णं लोरसंहारकारण” मिति पुराणान्तरवचनदर्शनाच्च । किं बहुना ? –“वायुरस्मा उपामन्थत्पिनिष्टस्माकुवन्नमा । केशी विषस्य पात्रेण यद्रुद्रेणापिबत्सहे” ति श्रुत्यावायोरेव विषपानकर्तृत्वस्य शिवस्य शिष्टकिञ्चिद्विषपानकर्तृत्वस्यावेदनाच्च । किञ्च, भागवतादिषु अमृतमथनप्रकरणेषु विष्णोः कालकूटविषभीत्या पलायनाद्यनुक्तेश्च ॥ 3 ॥

त्रिपुरविजयोऽपि न रुद्रोत्कर्षप्रतिपादकः । यद्यपि “तेषामसुराणआं तिस्रःपुर आसन् क इमामशिष्यतीति रुद्र इत्यब्रुवन्” इत्यादिश्रुतिष्वेव शिवस्यैव त्रिपुरविजयः विष्णवादीनां तेजनादियुद्धसाधनतया तदुपसर्जनत्वं श्रूयते । तथापि विष्ण्वादीनां शिवोपसर्जनत्वं न स्वाभाविकं, किंतु “अहं वृणे अहमेव पशूनामधिपतिरसानी” तिश्रुत्या शिववरप्रदानलब्धम् । न चात्र प्रमाणाभावः । “ततो मां शरणं गत्वा प्रपेदे निर्भयो भवान् । अहं देवशुको भूत्वा त्रिपुरस्थानघातय” मित्युत्तरत्र कूर्मपुराणे शिवं प्रति विष्णुवचनात् । महाभारते कर्णपर्वणि “विष्णुरात्मा भगवतो रुद्रस्यामिततेजसः । तस्माद्धनुर्जसंस्पर्शं स विषेहे महेश्वरः” इति नारायणस्यैव विशिष्य रुद्रान्तर्यामित्वप्रतिपादनात् । “अद्वितीयं यथामन्त्रं तारकं ब्रह्मनामकम् । जपित्वा सिद्धिमाप्नोति सत्यं सत्यं वदाम्यहम् । इममेव जपन्मन्त्रं त्र्यम्बकस्त्रिपुरान्तकः” इति स्मृतिवचनाच्च । `त्रिपुरं (नाशकः) जग्मुकः पूर्वं ब्रह्मणा विष्णुपञ्जरं । शङ्करस्य कुरुश्रेष्ठ रक्षणाय निरूपित’ मिति मोक्षधर्मवचनाच्च । किञ्च भागवतादिषु वृषभावतारसिद्धरसास्वादनादिना बहुधा त्रिपुरसंहारोपायकारकत्वावेदनाच्च ॥ 4 ॥

किञ्च दक्षाध्वरभङ्गे हरिणरूपे द्रुततरं भीत्या गच्छतो विष्णोः शिवावतारभूतवीरभद्रेण पराजय इत्यनुपपन्नम् । दक्षाध्वरे नारायणागमनस्यैवाभावात् । “उपलभ्य पुरैवैतौ भगवानब्जसम्भवः । नारायणश्च विश्वात्मा न तमध्वरमीयतुः” इति दक्षाध्वरे विष्णुचतुर्मुखयोरनागमनप्रतिपादनात् । तामसपुराणे क्वचिदागमनप्रतिपादनेऽपि तस्य भागवतविरुद्धतया अनादरणीयत्वाच्चेति ॥ 5 ॥

“सत्यं सत्यं पुनस्सत्यं भुजमुद्धृत्य चोच्यते । वेदशास्त्रात्परं नास्ति न दैवं केशवात्पर” मिति सर्वऋषिसभामध्ये वदतः व्यासस्य भुजस्सतब्धोऽभूदित्येतत् स्कान्दपुराणे काशीखण्डे प्रतिपादितम् । तस्य स्कान्दस्य तामसपुराणत्वेन विशिष्यावैदिकत्वज्ञानात् । `अवैदिकत्रयं ज्ञानं वासिष्ठं सूतसंहिता । काशीखण्डं परित्याज्यं वैदिकस्य विरोधतः’ इत्यादिना प्रायेण काशीखण्डस्यावैदिकत्वावेदनेन च उपेक्षणीयत्वम् । किञ्च `सहोवाच व्यासः पाराशर्यः’ (तै.आ.प्र.पा.1, अनु.9) इत्यादिश्रुत्या व्यासवचनानां प्रामाण्यावेदनात् । तत्र नारायणस्य सर्वस्मात्परत्वप्रतिपादकवचनानां श्रुतिमूलकत्वेन तदप्रामाण्यप्रतिपादककाशीखण्डवचनानां श्रुतिविरुद्धत्वेन अप्रमाणत्वाच्चेति ॥ 6 ॥

किञ्च अमृतविभागकाले देवसंरक्षणार्थं असुरव्यामोहनार्थं च पुरुषोत्तमेव मोहिनीवेषः परिगृहीतः । तदनन्तरं मोहिनीवेषमाश्चर्यभूतं रुद्रः ममापि प्रदर्शयेति विष्णुं प्रति प्रार्थितवान् । अनन्तरं विष्णुना प्रदर्शिते तद्रूपे रुद्रः समीपस्थां पार्वतीं त्यक्त्वा मुग्धस्सन् विगलितरेतः- प्रवाहैर्गमनपथमार्द्रीकुर्वन् तामेवाभिससारेति पुराणेष्वावेद्यते । तावता पुरुषोत्तमस्य न निकर्षः । तद्रूपदर्शनेन तस्य मोहोक्तेः । असुरव्यामोहनार्थं देवसंरक्षणार्थं च पुरुषोत्तमस्यापि मोहकस्त्रीवेषपरिग्रहसंभवात् । मत्स्यकूर्मवराहादिरूपपरिग्रहदर्शनाश्चेति ॥ 7 ॥

किञ्च नृसिंहं रुद्रः शरभो भूत्वावधीदित्येतदपि विचारयामः । तत्र “हिरण्यासुररक्तपानेन उन्मत्तेन नृसिंहेन लोकेषु उपद्रुतेषु सत्सुदेवाः तन्नियमनाय शिवं प्रार्थयामासुः । ततः शिवप्रेरितो वीरभद्रश्शरभोभूत्वा नृसिंहपादौ गृहीत्वा भ्रामयामास । ततो नृसिंहस्ताद्रक्तनिर्गमनेन प्रकृतिवशमापन्नः वीरभद्रं तुष्टाव । वीरभद्रोऽपि कदाप्येवंविधं कृत्यं मा कुर्विति विष्णुं नियम्य शिवान्तिकं प्रापेति” स्कान्दपुराणे प्रतिपादितम् । शैवपुराणे तु “रुद्र एव शराभो भूत्वा नृसिंहं जधानेति” प्रतिपादितम् । अत्र विरोधस्स्फुटतरः, स्कान्दशैवपुराणयोस्तामसत्वं च प्रसिद्धम् । किञ्च हिरण्यासुररक्तपानेन नृसिंहस्य मोहप्रतिपादनमप्य सङ्गतम् । `सर्वभूतस्थमेकं नारायणं कारणरूपं शोकमोहविनिर्मुक्तुं विष्णुं ध्यायन् । श्रीर्द्रधति’ (नारा.4) इति विष्णोर्मोहात्यन्ताभावस्यैवावेदनाच्च । किञ्च सर्वेऽपि लोकाः नृसिंहेनोपद्रुता इत्येतदप्यसङ्गतम् । “परित्राणाय साधूनां विनाशाय च दुष्कृताम् । धर्मसंस्थापनार्थाय सम्भवामि युगे युगे” (भ.गी.) इत्यादिस्मृत्या विष्ण्ववताराणआं साधु-परित्राण-दुष्टनिग्रहादिप्रयोजनसत्वावेदनाच्च । किञ्च `नृसिंहश्शरभेण हतः’ इत्यप्यसङ्गतम् । नृसिंहतापनीये–`एष देहान्ते तमसः परमं धाम प्राप्रुयात् । यत्र विरजो नृसिंहो भासते तत्र उपासते । तत्सदृशा मुनयः’ इत्यादिना नृसिंहस्य परमपदावस्थायित्वावेदनात् । तापनीयोषक्रमे नृसिंहस्य `केवलं ज्योतिरेकमनाद्यनन्त’ मित्यादिनाऽनाद्यनन्तत्वावेदनाच्च । किंबहुना बहुपुराणेषु नृसिंह एव शरभहन्तेत्यावेद्यते ॥

तथा हि पाद्मे–`तौ युध्यमानौ च चिरं वेगेन बलवत्तमौ । न समंजग्मतुर्देवौ नृसिंहशरभाकृती ॥ ततः क्रुद्धो महाकायो नृसिंहो भीमविक्रमः । सहस्रकरजानत्र तस्य गात्रे न्यवेशयत् ॥ पतितं भीममत्युग्नं नृसिंहः शरभं रुषा । जघान निशितैस्तीक्ष्णैः नखैर्नखवरायुधः ॥ निहतेशरभे तस्मिन् रौद्रे मधुनिषूदनम् । तुष्टुवुः पुण्डरीकाक्षं देवा देवर्षयस्ते’ति ॥

वामनपुराणे–`निकृत्य बाहुरुशिरा वज्रकल्पमुखैर्नखैः । मेरुपृष्ठेनृसिंहेन शरभश्चाथ सोऽपतत् ।’ इति ॥

कौर्मै–`स चञ्चुपञ्चाननमष्टपादं पक्षद्वयाढ्यं घननीलगात्रम् । स्फुरन्महातीव्रसहस्रहस्तं सहस्रशस्त्रं शरभस्वरूपम् । करादादाय प्रत्येकं मुखं चञ्चुपुटद्वयम् । विदार्य च नृसिंहस्तं हिरण्यकशिषुं यथे’ति ॥

आग्नेयपुराणे चत्वारिंशेऽध्याये `ततः क्षणेन शरभो नादपूरित दिङ्मुखः । अभ्याशमगमद्विष्णोर्व्यनदद्भैरवस्वनम् ॥ स तमभ्यागतं दृष्ट्वा नृसिंहः शरभं रुषा । नखैर्विदारयामास हिरण्यकशिषुं यथे’ति ॥

किञ्च `हरिं हरन्तमनुयन्ति देवाः । विश्वस्येशानं वृषभं मतीना’ (महाना.13-11) मिति श्रुतौ ईशानशब्दितस्य रुद्रस्य नृसिंहहतत्वमावेद्यते । विश्वस्येति प्रथमार्थे षष्ठी । विश्वेदेवाः, ईशानं रुद्रं हरन्तं संहरन्तं हरिं अनुयन्तीति तच्छ्रुत्यर्थविज्ञानात् । न च हरिं हरन्तं ईशानं विश्वेदेवा अनुयन्तीत्यन्वयोऽस्त्विति वाच्यम् । `ब्रह्माणमिन्द्रं रुद्रं च यमं वरुणमेव च । निहत्य हरते यस्मात्तस्माद्धरिरिहोच्यते’ इति स्मृत्याब्रह्मेशानादिहन्तृत्वस्यैव हरिशब्दप्रवृत्तिनिमित्तत्वेन तादृशन्वयाङ्गीकारायोगात् ॥ न चैवं हरन्तमित्यस्य वैयर्थम् । हरिशब्दो न केवलं रुढः किन्तु यौगिकोऽपीत्यर्थज्ञापनेन तदवैय्यर्थ्योपपत्तेः ।

न च किञ्च `तस्येन्द्रो वम्रिरूपेण धनुर्ज्यामच्छिनत्स्वयम्’ इत्युपक्रम्य `एतद्रुद्रस्य धनुः । रुद्रस्यत्वेव धनुरार्त्निः शिर उत्पिपेष । स प्रवर्ग्योऽभवत्’ इति तैत्तिरीयारण्यके विष्णुप्रेरितेनेन्द्रेण रुद्रशिरच्छेदः कृतः इति प्रतिपाद्यते । न चेन्द्रस्य रुद्रशिरःछेदः अनेकप्रमाणवाधित इति धनुस्त्रिशिरसम्बन्धितया निर्दिश्यमानस्य रुद्रशब्दस्य प्रसिद्धरुद्रान्ययक्षपरत्वमेवेति सामगैरधीयमानत्वादिति वाच्यम् । पूर्वोक्तश्रुतिस्मृत्यनुसारेण रुद्रशब्दस्य प्रसिद्धरुद्रपरत्वस्यैव न्याय्यत्वात् । प्रसिद्धेन्द्रस्य रुद्रशिरच्छेदसामर्थ्याभावेऽपि विष्णुचक्रसहकारेण विष्णुसहकारेण चेन्द्रस्य रुद्रशिरच्छेदसामर्थ्यसम्भवात् । न चात्र प्रमाणाभावः `रक्षितुं नैव शक्नोषि स्वात्मानमपि शङ्कर । युद्धे किं जेष्यसि त्वं मां पूर्ववृत्तं मयोच्यते ॥ यद् मद्भक्तशक्रस्य यज्ञध्वंसः कृतस्त्वया । तदाहं ते शिरश्छित्वा तत्क्रतू रक्षितो मया ॥ ततो मां प्रार्थयामास मनोभीष्टाय पार्वती । तदा वै मत्प्रसादेन प्राणान् लेभे भवान् शिवे’ति उत्तरकूर्मपुराणे पार्वतीं प्रति विष्णुप्रशंसारूपेण शिववचनेन उपबृंहणात् ।

अत्रेदं किलोपाख्यानम्–क्वचित्कल्पे क्वचिदिन्द्रो नारायणपरायणः सर्वदेवान् परिभूय नारायणमेवोद्दिश्य यज्ञं कर्तुमुपचक्रमे । तदनन्तरं सर्वे देवाः इन्द्रयज्ञविघ्नकरणाय रुद्रं प्रेषयामासुः । ततो रुद्रे इन्द्रयज्ञविघ्नकरणाय प्रवृत्ते इन्द्रेण स्मारितो नारायणः यज्ञविघ्नकर्तुः रुद्रस्य शिरः चक्रेण चिच्छेद । तदनन्तरं पार्वतीस्तोत्रेण शिवमुज्जीवयामासेति । इदं च मत्स्यपुराणे नारसिंहपुराणे चावलोकनीयमिति नृसमहविजय एव प्रामाणिकः । न तु शरभविजय इति सिद्धम् ॥ 8 ॥

रामचन्द्रेण रावणवधजनितव्रह्यहत्यापनुत्तये सेतौ लिङ्गप्रतिष्टा तत्पूजादिकं कृतमिति यदुक्तं तदपि `न कर्मणा वर्धते नो कनीयान् । स ए सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायणः । `न मां कर्माणि लिम्पिन्ति न मे कर्मफले स्पृहा’ इत्यादिश्रुतिस्मृतिभिर्नारावणस्य पुण्यपापरूपकर्मलेपाभावप्रतिपादनात् तद्विरुद्धम् । न च रामचन्द्रो नारायणो न भवति किन्त्वन्य एवेति वाच्यम् । रामोपनिषदि रामायणादौ च रामचन्द्रस्य नारायणावतारत्वप्रतिपादनात् । वाल्मीकिप्रोक्ते सर्ववैदिकपरिगृहीते रामायणे तादृशार्थस्य प्रतिपादनाच्च । `अत्र पूर्वं म्हादेवः प्रसादमकरोन्ममे’ति वैदेरीं प्रति प्रयाणे रावणवधात्पूर्वमेव महादेवप्रसादप्रतिपादनेन रावणवधजनितब्रह्महत्यापनुत्तये सेतौ लिङ्गप्रतिष्ठा तत्पूजादिकं कृतमित्यस्यार्थस्याप्रामाणिकत्वात् । यद्यपि लिङ्गपुराणे रामायणसंक्षेपे-`स कृत्वा वानरशतै’ रित्यादिना सेतौ प्रतिष्ठा तत्पूजादिकं कृतमित्यावेद्यते । तथापि तस्य तामसत्वेन अनादरणीयत्वम् । न हि परब्रह्मभूतस्य रामचन्द्रस्य लिङ्गप्रतिष्ठा तत्पूजादिनानानवाप्तमवाप्तव्यं किञ्चिदस्ति । पितृवाक्यपरिपालनवद्धर्मसंस्थापनार्थं तदिति चेन्न । `यत्र रुद्रार्चनं भस्मधारणं प्रोच्यते बुधैः । तदब्रह्मण्यविषयं विप्राणां तु न कर्हिचित्’ इति हारीतस्मृत्या शिवलिङ्गार्चनस्य ब्राह्मणान्प्रत्यधर्मत्वावेदनाच्च । `यान्येतानि देवत्राक्षत्राणि इन्द्रो वरुणस्सोमो रुद्रः पर्जन्यो यमो मृत्युरीशान’ इत्यादिश्रुतिभिः रुद्रस्य क्षत्रियत्वावेपनात् । `यो वै स्वां देवतामतियजेते’ त्यादिना सामान्यतः स्वानुरूपदेवतोपासनाविधानाच्च ॥

शिवार्चनं शिवलिङ्गार्चनं च क्षत्रधर्म एवेति चेद्भवेदेषा कल्पना । यद्यत्र प्रमाणान्तरविरोधो न स्यात् । `अहमप्यवतारेषु त्वां च रुद्र महाबल । तामसानां मोहनार्थं पूजयामि युगे युगे’ इति पाद्मपुराणे तारकब्रह्मराजसंहितायां विष्णुना स्वावतारेषु तामसमोहनार्थं हे ! शिव मयापि त्वदर्चनं क्रियते इत्युक्तत्वेन तस्य क्षत्रधर्मत्वावेदनाच्च । `अन्यदेवं वरं देहि प्रसिद्धं सर्वजन्तुषु । मर्त्यो भूत्वा मम साधय केशव ॥ मां भजस्व च देवेश वरं मत्तो गृहाण च । येनाहं सर्वभूतानां पूज्यात्पूज्यतरोऽभवम् ॥ देवकार्यावतारेषु मानुषत्वमुपेयिवान् । त्वामेवाराधयिष्यामि मम त्वं वरदो भव ॥’ इत्यादिना वाराहे रुद्रगीतायां कूर्मपुराणे च शिवस्य विष्ण्वर्च्यनीयतया वरलब्धत्वावेदनेन तस्य च कृष्णावतारादिषु अर्जुनादेस्सारथ्यादिकरणवत् आश्रितसौलभ्य प्रदर्शनार्थत्वेन परत्वाविधातित्वाच्च । ततश्च, `सेतुमध्ये महादेवमीशानं कृत्तिवाससम् । स्थापयामास लिङ्गं तत् पूजयामास राघवः । तस्य देवो महादेवः स्थावरान्वरमुत्तम’मित्यादि कूर्मपुराणप्रतिपन्नलिङ्गप्रतिष्ठातत्पूजादिकं शिववरप्रार्थनानिमित्तमेवेति न तावता शिवापेक्षया विष्णोरपकर्षसिद्धिः । विश्वामित्रभारद्वाजागस्त्यदीनां नमस्कारवत्तेभ्यो वरप्राप्त्यादिवच्च रामावतारे शिवलिङ्गार्चनस्यापि विष्णोः श्रुतिस्मृत्यादिसिद्धपरब्रह्मत्वपरमस्वातन्त्र्याविघातित्वादिति ॥ 9 ॥ श्रीः ॥

एवं कृष्णस्य कैलासयात्रायां शिववरप्रदानेन पुत्रप्राप्त्यादिकमपि समर्थनीयमेवेति न कश्चियमेवेति न कश्चिद्विरोधः । तत्र हि हरिवंशे कैलासयात्रायां पराभिमतशिववचनैः कृष्णस्य सर्वस्मात्परत्वस्य शिवस्य कृष्णोपासकत्वस्य चावेदनेन न कृष्णस्य पुत्रप्राप्त्यादिकमपि शिववरप्रसादेनेति तपश्चर्यादिकं नटनमात्रम् । तत्र हि–“ततो वृषध्वजो देवश्शूली साक्षादुमापतिः । करं करेण संस्पृश्य विष्णोश्चक्रधरस्य हि । प्रोवाच भगवान् रुद्रः केशवं गरुडध्वजम् । शृण्वतां सर्वदेवानां मुनीनां भावितात्मनाम् । किमिदं देवदेवेश चक्रपाणे जनार्दन । तपश्चर्या किमर्थं ते प्रार्थना तव का विभो । स्वयं विष्णुर्भवान्नित्यः तपसा वा त्वया हरे । त्वत्तस्समभवद्विश्वं त्वयि सर्वं प्रलीयते । मद्वत्वं सर्वगो देवत्वमेवाहं जनार्दन । आवयोरनतरं नास्ति शब्दैरर्थैर्जगत्पते । नामानि तव गोविन्द यानि लोके माहन्ति च । तान्येव मम नामानि तात्र कार्या विचारणा । त्वदुपासा जगन्नाथ सेवास्तु मम गोपते । यश्च त्वां द्वेष्टि देवेश स मां द्वेष्टि न संशयः । न तदस्ति विना देव यत्ते विरहितं क्वचित् । यदासीद्यच्च वर्तेत यच्च भावि जगत्पते । सर्वं त्वं देव देवेश विना किञ्चित्वया न हि ॥” इत्थं तानि वचनानि प्रसिद्धान्येव । यद्यपि `आवयोरन्तरं नास्ति शब्देरर्थैर्जगत्पते’ इत्यादिना शिवकेशवयोर्भेदो नास्तीत्यावेद्यते । तथापि–`वसूनामस्मि पावकः; रुद्राणां च भवान्’ इत्यादि पूर्ववाक्यानुसारेण `सर्वं त्वं देवदेवेशे’ त्युत्तरवाक्यानुसारेण च तदभेदवर्णनमिति न कश्चिद्विरोधः । अभेदस्य परैरनभ्युपगमाच्च । `अहं त्व’ मित्यत्र अहंशब्दस्य अहङ्गारतत्वपरत्वाभ्युपगमाच्चेति ॥ 10 ॥ श्रीः ॥

यत्तु मोक्षप्रदस्य काशीक्षेत्रस्य शिवक्षेत्रत्वप्रसिद्धेः शिवस्यैव मोक्षप्रदातृत्वेन मुमुक्षूपास्यत्वमिति । तन्न । तत्र हि `जन्तोः प्राणेषूत्क्रममाणेषु रुद्रस्तारकब्रह्ममन्त्रं व्याचष्टे । येनासावमृतीभूत्वा मोक्षी भवती’ति जाबालिश्रुतौ रामोपनिषदि च शिवस्य तारकब्रह्ममन्त्रोपदेष्टृत्वावेदनेन अविमुक्तस्य काशीक्षेत्रस्य शिवक्षेत्रत्वेऽपि मोक्षसाधनीभूतज्ञानाविषयत्वेन शिवस्य मुमुक्षूपास्यात्वायोगात् । तारकब्रह्ममन्त्रप्रतिपाद्यस्यैव मुमुक्षूपास्यत्वप्रतीतेश्च तत्र हि–`श्रीराममन्त्रं काश्यां वै जजाप वृषभध्वजः । मन्वन्तरसहस्रैस्तु जपहोमार्चनादिभिः । ततः प्रसन्नो भगवान् श्रीरामः प्राह शङ्करम् । वृणीष्व यदभीष्टं ते दास्यामि परमेश्वर ।’ इति । अथ `सत्यानन्तचिदात्मानं प्राह श्रीराममीश्वरः । मणिकर्णे महाक्षेत्रे गङ्गाभुवि तटे पुनः । म्रियन्ते ये प्रभो देहि मुक्तिं नातो वरान्तर’ मिति । `स होवाच श्रीरामचन्द्रः । क्षेत्रे त्वदीये देवेश यत्र कुत्रापि वा मृताः । क्रिमिकीटादयोप्याशु मुक्तास्सन्तु न चान्यथे’ति । `अविमुक्ते तव क्षेत्रे सर्वेषां मुक्तिसिद्धये । अहं सन्निहितस्तत्र शिलादिप्रतिमादिषु । मुमुक्षोर्दक्षिणे कर्णे यस्य कस्यापि वा स्वयम् । उपदेक्ष्यसि मन्मन्त्रं स मुक्तो भविता शिवे’ ति शिवस्यैव तारकब्रह्ममन्त्रोपदेष्ट्टत्वावेदनाच्च ॥

किञ्च, `देवतानां हितार्थाय कुरुष्व वचनं मम । तवाप्युज्जीवनोपायं कथयामि सुरोत्तम ॥ नित्यजप्यमहोरात्रं मम नामसहस्रकम् । हृदये मां सदा ध्यायन् जपेन्मन्तंर सदाव्ययम् ॥ षडक्षरं महामन्त्रं रघूणां कुलवर्धनम् । जपन् सन्निहितं देवि सदानन्दसुधाप्लुतः ॥ शुभमात्यन्तिकं ब्रह्मन् दास्यामि सततं शुभे । एतत्ते सर्वमाख्यातं त्वया पृष्टं शुभानने ॥ किमन्यच्छ्रोतुकामासि त्वत्पतिं परिपृच्छ माम् ॥” इत्याद्युमावचनोपबृंहणानुसाराच्च । `रुद्रस्तारकब्रह्ममन्त्रं व्याचष्ट’ इत्यत्र तारकब्रह्ममन्त्रश्च राममन्त्र एव । न तु प्रणवः । यद्यपि अकारः प्रथमाक्षरो भवति । उकारो द्वितीयाक्षरो भवति । मकारस्तृतीयाक्षरो भवति, मात्रा चतुर्थाक्षरो भवति, विन्दुः पञ्चमाक्षरो भवति, नादः षष्ठाक्षरो भवति, इति प्रणवस्तारको भवति । तथापि राममन्त्रस्यैव तारकब्रह्ममन्त्रत्वं, `तदेषा रामचन्द्रस्याप्यकाराद्यक्षरस्मृतिः । अखण्डैकरसानन्दतारकब्रह्मवाचकः ॥ रामायेति स विज्ञेयः सदानन्दचिदात्मकः । नमः पदं सुविज्ञेयं पूर्णानन्दैकविग्रहम् ॥’ इति स्मृतिः ॥

यद्यपि प्रणवस्यैव तारकब्रह्ममन्त्रत्वं श्रूयते, तथापि तारकरामब्रह्ममन्त्राद्यक्षरवत्वेन प्रणवस्यापि तारकत्वव्यमदेशः । `त्वत्तो वा ब्राह्मणो वापि ये लभन्ते षडक्षरम् । जीवन्तो मन्त्रसिद्धिं च मुक्तिं च प्राप्नुवन्ति ते ॥ मुमुक्षोर्दक्षिणे कर्णे यस्य कस्यापि वा स्वयम् । उपदेक्ष्यसि मन्मन्त्रं स मुक्तो भविता शिवे’ति राममन्त्रस्यैव तारकब्रह्ममन्त्रत्वेन शिवोपदेष्ट्टत्वावेदनाच्च । न च शिवस्य मोक्षसाधनीभूतज्ञानविषयत्वेन मुमुक्षूपास्यत्वाभावे तत्र काशीक्षेत्रे मृतानां शिवसारूप्यप्रतिपादनमसङ्गतं स्यादिति वाच्यम् । तत्र यद्यपि काशीक्षेत्रे मृतानां शिवसारूप्य प्रतिपादनं चतुर्मुखादिलोकप्राप्तिरिव विष्णुसायुज्यप्राप्तेरवान्तरफलत्वे (नासङ्गत्यभावात्) `सायुज्यानां विशिष्टे द्वे मामकं वैष्णवं तथा । मां प्राप्य न निवर्तन्ते विष्णुं वा शुभलोचने’ ति भारतवचनेन विष्णुसारूप्यसायुज्यादिप्राप्तेरिव शिवसारूप्यसायुज्यादिप्राप्तेरप्यपुनरागमनमावेद्यत इति । तथापि `ब्रह्मणस्सायुज्यं सलोकतामाप्नोति । एतासामेव देवतानां सायुज्यं सार्ष्टितां समानलोकतां याति’ इति श्रुतौ परब्रह्मसायुज्यप्राप्तेः पूर्वमपि देवतान्तरादिसायुज्यादिप्राप्तिप्रतिपादनदर्शनेन विष्णुसायुज्यसारूप्यप्राप्तेः पूर्वमपि शिवसारूप्यसायुज्यादिप्राप्तेरपि सम्भवात् ॥

न चात्र प्रमाणाभावः । `तत्र हि जन्तोः प्राणेषु उत्क्रममाणेषु रुद्स्तारकब्रह्ममन्त्रं व्याचष्टे । येनासावमृतीभूत्वा मोक्षी भवति’ इति जाबालिश्रुतेरेवात्र प्रमाणत्वात् । तत्रामृतीभूत्वा इत्यनेन पुनरावृत्तिशून्यं शिवसारूप्यमभिधीयते । मोक्षी भवतीत्यनेन शिवसारूप्यसायुज्यादि लक्षणो मोक्षोऽभिधीयते । अन्यथा अन्यतरवैयर्थ्यापत्तेः । न च शिवसारूप्यसायुज्यादिरूप एव मोक्षः । विष्णुसारूप्यसायुज्यादिप्राप्तिस्तु अवान्तरफलमिति वैपरीत्यं किं न स्यात् ? इति वाच्यम् । “यदा पश्यः पश्यते रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम् । तदा विद्वान्पुण्यपापे विधूय निरञ्जनः पुरुषं साम्यमुपैति” । “इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः । सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ।” इत्यादिश्रुतिस्मृतिभिः विष्णुप्रसादसाध्यस्यैव परमपुरुषार्थत्वावेदनाच्च । मुण्डकादिश्रुतिगतपुरुषशब्दस्य योगरूढिभ्यां च नारायणासाधारणनामत्वाच्चेति दिक् ॥ 11 ॥

किञ्च महाभारते–“ततस्तौ चक्रतुर्थुद्धं वासुदेवमहेश्वरौ । तद्युद्धमभवद्धोरं अचिन्त्यं तौ ततस्साक्षादन्योन्य जयकाङ्क्षिणौ । दिव्यान्यस्त्राणि तौ देवौ क्रुद्धौ मुमुचतुस्तदा । ततः कृष्णो रणं कृत्वा मुहूर्तं शूलपाणिना । विजित्य तं महादेवं ततो युद्धे जनार्दनः । अन्यान् स जित्वा द्वारस्थान् प्रविवेश पुरोत्तम” मिति शिवस्यैव कृष्णपराजितत्ववर्णनेन तदपेक्षया विष्णोरेवोत्कर्षोऽभ्युगन्तव्य इति ॥ 1 ॥

किञ्च रामायणे “जृम्भितं तद्धनुश्शैयं दृष्ट्वा विष्णुपराक्रमैः । अधिकं मेनिरे विष्णुं देवास्सर्षिगणास्तथे"ति ॥ 2 ॥

श्रीमद्भागवते दशमस्कन्धे–“सरस्वत्यास्तटे राजन् ऋषयस्सत्रमासत । वितर्कस्समभूतेषां त्रिष्वधीशेषु को महान् । तस्य जिज्ञासया ते वै भृगुं ब्रह्मसुतं नृप । तज्ज्ञप्तौ प्रेषयामासुः सोऽभ्यगाद्ब्रह्मणस्सभाम्” इत्यादिना “पुनस्स सत्रमासाद्य ऋषीणां ब्रह्मवादिनाम् । स्वानुभूतमशेषेण सर्वं भृगुरवर्णयत् । तन्निशम्याथ मुनयो विस्मिता मुक्तसंशयाः । भूयांसं श्रद्दधुर्विष्णुं यतश्शान्तिर्यतोऽभयम् । धर्मस्साक्षद्यतो ज्ञानं वैराग्यं च चतुर्विधम् । ऐश्वर्यमष्ठधा यस्माद्यतश्चात्ममलापहम्” इत्यनेन च ब्रह्मवादिभिरेव ब्रह्मरुद्रापेक्षया विष्णोरेव परब्रह्मत्वावेदनेन, विष्णओरेव परब्रह्मत्वञ्चोचितम् ॥ 3 ॥

किञ्च वृकासुरादिनिमित्तकापद्भ्यः शिवस्य विष्णुना मोचितत्वा वेदनेन च विष्णोरेवोत्कर्षोऽभ्युपगन्तव्यः । श्रीमद्भागवते दशमस्कन्धे– “स तद्वरपरीक्षार्थं शम्भोश्शीर्ष्णि वृकासुरः । स्वहस्तं दातुमारेभे सोऽबिभेत् स्वकृताच्छिवः । तेनोपदिष्टस्सन्त्रस्तः परिधावन् सवेपथुः । यावदन्तं दिवो भूमेः काष्ठानामधिकं दिवः । अजानानः प्रतिविधिं तूष्णीमास महेश्वरः । ततो वैकुण्ठमगमद्भास्वरं तमसः परम् । यत्र नारायणस्साक्षात् न्यासिनां परमागतिः । शान्तानां न्यस्तदण्डानां यतो नावर्तयेत्तमः । तं तथा व्यसनं दृष्ट्वा भगवान् वै जनार्दनः ।” इत्यादिना, “एवं भगवता पृष्टो वचसामृतवर्षिणा । तत्क्रमादव्रवीत्तस्मै यथापूर्वमनुष्ठितम्” । वृकासुरं प्रति भगवान्–“एवं चोदिततद्वाक्यं न वयं श्रद्दधीमहि । यो दक्षशापात्पैशाच्यं प्राप्तः प्रेतपिशाचराट् । यदि वस्तत्र विश्रम्भो दानवेन्द्रजगद्गुरौ । तर्ह्याङ्गुलैस्स्वशिरसि हस्तन्यासः प्रदीयताम् । यद्यसत्यं वचः शम्भोः कथञ्चिद्दानवर्षम । तदैनं जह्यसद्वाक्यं गतवाक्य ऋते पुनः । इत्थं भगवतश्चित्रैवचोभिश्च सुकौशलैः । तथेति निश्चितश्शीर्ष्णि स्वहस्तं कुमतिर्व्यधात् । अथापि तद्भिन्नशिराः वज्राहत इव क्षणात् । य एनमव्याहतशक्तिदं महापरस्य पुंसः परमात्मनो हरेः । गिरीशमोक्षं कथयेच्छुणोति वा विमुच्यते संसृतिभिस्तथारिभिरित्यन्तेन ॥ 4 ॥

किञ्च, श्रीमद्भागवते गजेन्द्रमोक्षणे, गजेन्द्रेण स्वस्य ग्राहनिमित्तापद्विमोचनार्थम्–`सोऽहं विश्वसृजं विश्वमविश्वं विश्वमविश्वं विश्वमेधसम् । विश्वात्मानमजं ब्रह्म प्रणतोऽस्मि परं पदं’ मित्यादिना गजेन्द्रेण जगत्कारण–सर्वान्तर्यामिपरब्रह्मविषयकप्रणतावनुष्ठितायां, `एवं गजेन्द्रमुपवर्णित निर्विशेषं ब्रह्मादयो विविधलिङ्गभिदाभिमानाः । नैते यदोपससृपुर्निखिलात्मकत्वात् तत्राखिलामरवरो हरिराविसी’ दित्यन्तेन ब्रह्मादीनां तदनागमनेन विष्णोरेव तादृशागमनप्रतिपादनेन, विन्णोरेव पग्ब्रह्मत्वं, परमकारणत्वं चोचितम् ॥ 5 ॥

किञ्च, विष्णुपादोदकसम्बन्धेनैव शिवस्य शिवत्वावेदनेन विष्णोरेव परब्रह्मत्वं परमकारणत्वं चोचितम् । “अथ सर्वेश्वरो विष्णुर्दितीयं पादमुत्तमम् । दिवि प्रसारयामास ब्रह्मलोकान्तमच्युतः । धन्योऽस्मीति वदन् ब्रह्मा गृहीत्वा स्वकमन्डलुम् । भक्त्या प्रक्षालयामास तत्र संस्थित वारिणा । अक्षय्यमभवत्तोयं तस्य विष्णोः प्रसादतः । तत्तीर्थं मेरुशिखरे चतुर्दिक्षु प्रवाहितम् । आत्मनः पावनार्थाय शिरसाहमधारय” मितिपाद्मे । “यच्छोचनिस्सृतसरित्प्रबरोदकेन तीर्थेन मूर्ध्नि विधृतेन शिवः- शिवोऽभूत् इत्यादिना च प्रतिपादनात् ॥ 6 ॥

किञ्च चतुर्मृखपञ्चमशिरोल्लवनप्रयुत्तदोषाभिभूतत्वं शिवस्य विष्णुप्रसादात्ततो मुक्तिश्च प्रतिपाद्यते । उक्तश्चायमर्थो मत्स्यपुराणे–`तदा क्रोधपरीतेन संरक्तनयनेन च । वामाङ्गुष्ठनखाग्रेण शिरश्छिन्नं त्वया मया । तस्माच्छापसमादिष्ठः कषाली त्वं भविष्यसि । महती स्रवती धारा तस्य रक्तस्य निस्सृता । विष्णुप्रसादात् सुश्रोणि कपाली त्वं भविष्यसि । स्फुटितं यहुधायातं स्वप्नलब्धधनं यथा ।’ इत्यनेन । चतुर्मुखपञ्चमशिरोल्लवनं शिवप्रेरितेन भैरवेण कृतम्, न तु शिवेनेति चेन्न । प्रमाणाभावात् । तादृशप्रमाणसत्वेऽपि तस्य, `यं कामये तं तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधाम् । अहं रुद्राय धनुरातनोमि ब्रह्मद्विषे शरवे हन्त वा उ ।’ इत्यादि श्रुतिविरुद्धत्वाच्च । यत्तु चतुर्मुखपञ्चशिरः खिलनेन चतुर्मुखस्य श्रुतिषु प्रतिपादनादिति । `यो ब्राह्मणायापगुरेत्तं शतेन यातयेद्यो निहन्यात् सहस्रेण यातयेद्यो लोहितं कुर्यात् यावतः तत्प्रस्कन्द्य पांसून्संगृह्णात्तावतस्संवत्सरान् पितृलोकं न प्रजानादिति । तस्माद्ब्राह्मणाय नापगुरेन्न निदन्याल्लोहितं कुर्यात्तावताहैनसा भवतीति ॥ 7 ॥

उदाहृतानि धर्मशास्त्राणि पुराणानि च त्रिविधानि । सात्विकानि राजसानि तामसानि चेति । `वासिष्टं चैव हारीतं व्यासं पाराशलं तथा । भारद्वाजं काश्यपं च सात्विका मुक्तिदायिनः ॥ मानवं याज्ञवल्क्यं च आत्रेयं दाक्षमेव च । कात्यायनं वैष्णवं च राजसास्स्वर्गदायिनः ॥ कार्दमं बार्हस्पत्यं च सावृत्तं च यमस्मृतिः । शङ्खमौशीनसं चेति तामसा निरयप्रदाः’ इत्यादिवचनानुसारात् । `वैष्णवं नारदीयं च तथा भागवतं शुभम् । गारुडं च तथा पाद्मं वाराहं शुभदर्शने । षडेतानि पुराणानि सात्विकानि मतानि वै । ब्रह्माण्डं ब्रह्मवैवर्तं मार्कण्डेयं तथैव च । भविष्यद्वामनं ब्राह्मं राजसानि निबोध मे । मात्स्यं कौर्मं तथा लैङ्गं शैवं स्कान्दं तथैव च । आग्नेयं च षडेतानि तामसा निरयप्रदाः ।’ इत्यादिवचनानुसारात्तेषां परस्परविरोधे सात्विकोक्तमेव ग्राह्यम् । अन्यत् वाध्यमर्थान्तरपरं वा । `शास्त्राण्यपि च सर्वाणि सात्विकानि मतानि वै ॥ यानि सत्यवरं विष्णुं वदन्ति परमेश्वरम् । तानि शास्त्राणि सर्वाणि सात्विकानि मतानि वै ॥ प्रजापतिं कृशानुं च तथा दैवीं सरस्वतीम् । परत्वेन वदच्छास्त्रं राजसं परिचक्षते ॥ चच्छास्त्रं लिङ्गपारम्यं वामदेवमुमापतिम् । तमःप्रवर्तकं वक्ति तत्तामसमुदाहृत’ मिति पाद्मपुराणवचनानुसारेण वैपरीत्यशङ्कानवकाशात् विष्णोरेव परब्रह्मत्वं परमकारणत्वं चोचितमिति सिद्धम् ॥

न्यायमौक्तिकमालायां शैवसर्वस्वखण्डनम् ।
विजयीन्द्रयतीन्द्रेण रचितं श्रीशनुष्टये ॥

जगद्गुरुसर्वतन्त्रस्वतन्त्रश्रीमद्विजयीन्द्रभिक्षुविरचितं
शैवसर्वस्वखण्डनं सम्पूर्णम् ॥

॥ श्रीकृष्णार्पणमस्तु ॥


पाशुपतमतभङ्गः

%॥ अत पाशुपतमतभङ्गः ॥%

सर्वतन्त्रस्वतन्त्रश्रीमद्विजयीन्द्रभिक्षुविरचितसर्वसिद्धान्तसारासारविवेचनग्रन्थे सम्प्रत्युपलभ्यमाने पाशुपतमतनिरूपणभागस्यानुपलम्भादन्यत्रोपलभ्यमानं तन्मतस्वरूपनिरूपणं सङ्गृह्यात्र प्रादर्शि ।

सकलगुणाश्रयः स्वतन्त्रः सर्वकर्ता पशूनां पाशबन्धमोक्षप्रदः पशुपतिरिति माहेश्वराः प्रतिपादयन्ति । ते च माहेश्वराः पाशुपताः, शैवाः, कालामुखाः, महाव्रताश्चेति चतुर्विधाः । तेषु केचन माहेश्वराः मोक्षे पशूनां निरतिशयैश्वर्यं महेश्वरवत्कामयमानाः मोक्षावस्थायां पारतन्त्र्यमसहमानाश्च स्वातन्त्र्यादिरमैश्वर्यसम्पन्नमोक्षावस्थाप्रतिपादकं पाशुपतशास्त्रमेवाश्रयन्ते । तच्छास्त्रेतु परमपुरुषार्थसाधनं कार्य, कारण, योग, विधि, दुःखान्तरूपं पदार्थपञ्चकं तत्त्वज्ञानोपयोगितया प्रपञ्चितम् । पशूनां पतिर्महेश्वर एव पशुपतिः । जीवास्तु पशवः परिकीर्तिताः । जीवानां पशुशब्दवाच्यत्वे लिङ्गपुराणवचनं प्रमाणम् । तदुक्तम्–

“ब्रह्मान्ता स्थावरान्ताश्च देवदेवस्य शूलिनः ।
पशवः परिकीर्त्यन्ते समस्ताः पशुवर्तिनः” इति ॥

ज्ञानापकर्षेण पशुतुल्यत्वात् पशुवद्वर्तन्त इति वा पशवो जीवाः । पाशुपतशास्त्रतत्त्वभूताः पूर्वोक्त कार्य, कारण, योग, विधि, दुःखान्ताः पञ्चपदार्थाः पशुपतिना महेश्वरेण जीवपाशविमोक्षणायोपदिष्टाः । यथाक्रमं तन्निरूपणं यथा–सर्वं हि कार्यं परमेश्वराधीनत्वाविशेषादस्वतन्त्रम् । तच्च विद्या, कला, पशुश्चेति त्रिविधम् । एतेषां विज्ञानात्संशयादिनिवृत्तिस्संजायते । एतेषु पशुशब्दितानां जीवानां गुणः विद्या । सापि बोधाबोधस्वभावा द्विविधा । तत्र बोधस्वभावा विवेकाविवेकप्रवृत्तिभेदा द्विविधा चित्तमित्युच्यते । पशुत्वप्राप्तिफलकधर्माधर्मात्मकविद्यातु जीवगुणविशेषत्वादबोधत्वेन व्यपदिश्यते ।

चेतनपरतन्त्रत्वे सत्यचेतना कला । सा च कार्याख्या कारणाख्याचेति द्विविधा । तत्र कार्याख्या विषयरूपा । कारणाख्या इन्द्रियरूपा । इन्द्रियाणान्तु विषयज्ञानकारणत्वादिन्द्रियशब्देन व्यवहारः । सा च कारणाख्या त्रयोदशविधा । ज्ञानेन्द्रियपञ्चकं, कर्मेन्द्रियपञ्चकं, अध्यवसायाभिमान संकल्पाभिधवृत्तिभेदात् बुध्यहंकारमनोलक्षणमन्तःकरणत्रयञ्चेति ।

पशुत्वसम्बन्धात् पशुर्जिवः । स च साञ्जनो निरञ्जनश्चेति द्विविधः । तयोर्मध्ये शरीरेन्द्रियसम्बन्धी साञ्जनः । तद्रहितः निरञ्जनः । समस्तसृष्टिसंहारानुग्रहकारि कारणम् । एतत्तु तत्त्वं महेश्वररूपम् । सोऽसं महेश्वर एव सत्त्वादिगुणभेदेन सृशष्ट्यादिक्रियाभेदेन च विभक्त इव भवति । तादृशगुणकर्मबेदापेक्षयैव पतिरिति साद्य इति च निगद्यते । तत्र निरतिशयदृक्क्रियाशक्तिमत्वमैश्वर्यम् । तेन चैश्वर्येण नित्यसंबन्धित्वमेव पतित्वम् । आद्यत्वन्त्वनागन्तुकैश्वर्यसंबन्धित्वम् ।

चित्तद्वारेणात्मेश्वरसंबन्धकारणं योगः । स च द्विविधः । क्रियालक्षणः, क्रियोपरमलक्षणश्चेति । तत्र जपध्यानादिरूपः क्रियालक्षणो योगः । निष्ठासंविद्ग्रत्यादिसंज्ञितः क्रियोपरमलक्षणः । तत्र महेश्वरे अव्यभिचारिणीभक्तिर्निष्ठेत्युच्यते । तत्त्वज्ञानं संवित् । शरणगमनं गतिः ।

धर्मार्थसाधको व्यापारो विधिः । सोऽपि द्विविधः । प्रधानविधिः गुणविधिश्चेति । तत्र साक्षात् धर्महेतुः प्रधानः । स च प्रधानव्यापारश्चर्याशब्देनोच्यते । सा च चर्या द्विविधा व्रतं द्वाराणि चेति । तत्र भस्मस्नान, भस्मशयनो, पहार, जप, प्रदक्षिणानि व्रतम् । उपहारश्चनियमः स च षडङ्गः हसित, गीत, नृत्य, हुडुक्कार, नमस्कार, जप्यषडङ्गोपहारभेदात् । तत्र हसितं नाम कण्ठोष्ठपुटविस्फूर्जनपूर्वकं “अहह” इत्यट्टहासः । गीतंतु गान्धर्वशास्त्रनियमानुसारेण महेश्वरसंबन्धिगुणधर्मादिनिमित्तानां परिचिन्तनम् । नृत्यमपि नाट्यशास्त्रानुरोधेन हस्तपादादीनामुत्क्षेपणादिकं अङ्गप्रत्यङ्गोपाङ्गसहितं भावभावसमेतं प्रयोक्तव्यम् । हुडुक्कारश्च जिह्वातालुसंयोगात् निष्पाद्यमानः वृषनादसदृशः पुण्यो नादः । हुडुगिति शब्दानुकारः । इयं व्रतचर्याचैकान्तप्रदेशे सम्पादनीया । नमस्कारादिकं तु प्रसिद्धमेव । द्वाराणि च क्राथनस्पन्दनमन्दनशृङ्गारणावितत्करणावितद्भाषणानीति षट् परिक्रीर्तितानि । तत्रासुप्तस्यैव सुप्तलिङ्गप्रदर्शनं क्राथनम् । सुप्तस्य निद्रितस्य लिङ्गं नेत्रनिमीलनादिकमत्र विवक्षितम् । अत्र बोधाभावो दोषः । एकान्ततासंपादनार्थमेव क्राथनादिद्वांरचर्यापेक्ष्यते । वातव्याधिग्रस्तस्येव शरीरावयवानां कम्पनं स्पंदनम् । वस्तुतः सः व्याध्यनभिभूत एव । व्याधिः शरीरदोः । उपहतपादेन्द्रियस्येव गमनं मंदनम् । रूपलावण्यसंपन्नां कामिनीं निरीक्ष्यात्मानं कामुकमिव यैर्विलासैः प्रदर्शयति तच्छृङ्गारणम् । वस्तुतस्त्वकामुक एव सः । अत्रोन्मत्तता मनोदोषः । अवितत्करणन्तु युक्तायुक्तविवेकविकलस्येव लोकनिन्दितकर्मकरणम् । व्याहतापार्थकादिशब्दोच्चारणमवितद्भाषणमिति । गुणभूतस्तुविधिश्चर्यानुग्राहकोऽनुस्नानादिः भैक्ष्योच्छिष्टादिनिर्मितायोग्यताप्रत्यवायनिवृत्यर्थः । पूर्वोक्तपञ्चपदार्थेष्वन्तिमपदार्थो दुःखान्तोऽपि द्विविधः अनात्मकः सात्मकश्चेति । तत्रानात्मकः सर्वदुःखानामत्यन्तोच्छेदरूपः । “अविशिष्टं वस्तु तावदसत्कल्पं निगद्यते” इति न्यायात् केवलदुःखनिवृत्तेः पाषाणस्येवाकिञ्चित्करत्वादैश्वर्यराहित्याच्चायमनात्मकत्वेन व्यवह्रियते । अयमपरो मोक्ष इति च भण्यते । अस्माद्विलक्षणः सात्मको मोक्षः परमोक्षत्वेन व्यपदिश्यते । दृक्क्रियाशक्तिलक्षणैश्वर्यात्मकस्तु मोक्षः सात्मक इत्युच्यते । ऐश्वर्यं तु द्विविधं दृक्शाक्तिरूपं क्रियाशक्तिरूपञ्चेति । दृक्शाक्तिरेव धीशक्तिः ज्ञानशक्तिश्चेति कथ्यते । तत्र धीशक्तिरेकापि विषयभेदात् दर्शनं, श्रवणं, मननं, विज्ञानं सर्वज्ञात्वञ्चेति पञ्चविधा व्यवह्रियते । क्रियाशक्तिरेकापि मनोजवित्वं, कामरूपित्वं, विकरणधर्मित्वञ्चेति त्रिविधा परिगण्यते ।

दर्शनान्तरवैलक्षण्यस्मिन्दर्शने यथा–न्यायशास्त्रे एकविंशतिदुःखध्वंसो मोक्षः । तथाच तत्र दुःखनिवृत्तेरेव दुःखान्तत्वम् । पाशुपतशास्त्रे तु दुःखनिवृत्तिः पारमैश्वर्यप्राप्तिश्चेत्युभयं विवक्षितम् । न्यायदर्शने पूर्वमविद्यमानं पश्चात्कारकव्यापारेण यदुत्पद्यते तत्कार्यमित्युच्यते । पाशुपतमते तु नित्यमपि जीवपरमाण्वादिरूपं कार्यमिति कथ्यते । अन्यत्र तु सापेक्षं कारम् । अत्र तु कर्मादिनिरपेक्षो भगवान् परमेश्वरः जगत्कारणमिति भेदः ।

तदेवमचिन्त्यशक्तिकस्येश्वरस्येच्छानुविधायिन्यव्याहतक्रियाशक्त्या कार्यकारित्वाभ्युपगमात् निरपेक्षो भगवानेव जगत्कारणमिति तत्सिद्धान्तः ।

तदुक्तम्–

कर्मादिनिरपेक्षस्तु स्वेच्छाचारी यतोह्ययम् ।
ततःकरणतः शास्त्रे सर्वकारणकारणम् ॥ इति ॥

तस्मात्पाशुपतागमेन यथावत्तत्त्वनिश्चयोदयात् पुरुषार्थकामैः पुरुषधौरेयैः पञ्चार्थप्रतिपादनपरं पाशुपताशास्त्रमेवादरणीयमिति वदन्ति ।

॥ इति पाशुपतमतभङ्गः ॥

शैवमतभङ्गः

%॥ अथ शैवमतभङ्गः ॥%

जीवीयकर्मनिरपेक्षस्य सर्वतन्त्रस्वतंत्रस्य परमेश्वरस्य कारणत्वपक्षे वैषम्यनैर्घृण्यदोषप्रसञ्जनात् तत्पक्षप्रतिक्षेपपरायणाः केचन माहेश्वराः शैवागमसिद्धान्ततत्त्वं प्रतिपादयन्तः पुरुषकर्मसापेक्ष एव परमेश्वरो जगत्कारणमिति पक्षान्तरमभ्युपगच्छन्ति । तद्यथा–पदार्थास्त्रयः पतिः, पशुः पाशश्चेति । तत्र पतिः स्वतन्त्रः परमशिवः । पशुः पुरुषः कर्तृत्वभोक्तृत्वशक्तिसम्पन्नः परमशिवसाम्यस्वरूपयोग्यः । पाशस्तु मलः, कर्म, माया, महामाया, रोधशक्तिरिति पञ्चप्रकारः । तत्प्रपञ्चनं यथा–मलः पुरुषस्य स्वाभाविकी अनादिरशुद्धिः । कर्म-धर्माधर्मौ । माया-कालनियत्यादित्रिंशत्तत्वात्मिका । महामाया-बिन्दुशिवतत्त्वादिपदवाच्यशुद्धाध्वोपादानभूता । रोधशक्तिः-पुरुशस्य ज्ञानक्रियाशक्त्योराच्छादिका परमशिवसंबन्धिनी शक्तिः । अथैतस्मिन् दर्शने मोक्षसाधनीभूतज्ञानविषयत्वेन हेतुना तत्त्वभूताः पतिपशुषाशरूपास्त्रयः पदार्था निरूप्यन्ते । सर्वज्ञत्वादिकैः सर्वैर्गुणैर्युक्तं सर्वशक्तिसमन्वितं जगद्विचित्ररचनाकर्तारं दोषवर्जितं सदाशिवभेते शैवाः प्रतिपादयन्ति ।

परिदृश्यमानानां तनुभवनादीनां भावानां सन्निवेशविशिष्टत्वेन कार्यत्वमवगम्यते । मुक्तात्मनान्तु विद्येश्वरादीनां शिवत्वे विद्यमानेऽपि परमेश्वरपारतन्त्र्यात् स्वातन्त्र्यं परं नाभ्युपगम्यते । मुक्तात्मानां पारतन्त्र्यमनभ्युपगच्छन्तः केचन माहेश्वराः परमशिवस्य जगन्निर्माणे प्राणिकर्मानपेक्षत्वमुद्धोषयन्ति । शैवदर्शनेतु वैषम्यादिदोषपरिहाराय तत्सापेक्षत्वमित्यनयोदर्शनयोर्वैलक्षण्यं सूक्ष्ममीक्ष्यते । प्राणिकृतकर्मसापेक्षत्वेन परमेश्वरस्य जगत्कर्तृत्वांगीकारेऽपि तदीयस्वातन्त्र्यादेः क्षतिः काचिदपि नास्तीति तेऽभिप्रयन्ति । करणापेक्षया कर्तुः स्वातन्त्र्यप्रच्युतेरदर्शनाद्द्रव्यदानविषये कोशाध्यक्षापेक्षस्य प्रभोः प्रसादादिना दानस्वातन्त्र्यदर्शनाच्च न कश्चिद्दोष इति तेषामभिप्रायः । पारिभाषिकमेव महेश्वरस्य स्वातन्त्र्यभेतैर्विवक्षितम् । प्रयोजकशून्यत्वं हि तत् । प्रयोजकश्च स्वानभीप्सितकार्यप्रवर्तकः स्वापेक्षितकार्यविघातकश्चेति द्विविधश्चेतन एवात्र विवक्षितः । तेन जडस्य कर्मणः प्रयोजकत्वविवक्षायामपि नेश्वरस्य स्वातन्त्र्यहानिः । एवञ्च दर्शितप्रयोजकशून्यत्वे सति करणादिकारकसमुदायप्रयोक्तृत्वरूपमेव स्वातन्त्र्यं न तु कर्माद्यनपेक्षत्वरूपमिति तेषामाशयः ।

अस्मिन्सिद्धान्ते षट्त्रिंशत्तत्वान्यंगीकृतानि । परमशिवस्तु सर्वतत्त्वातीतः । तस्य च मायादिपाशासंभवात् प्राकृतं शरीरं न विद्यते । शाक्तं हि तदीयं शरीरम् ।

ईशानादिभिः पञ्चभिर्मन्त्रैः शक्तिरूपैर्मस्तकादिकल्पनायां “ईशानमस्तकः, तत्पुरुषवक्त्रः अघोरहृदयः, वामदेवगुह्यः, सद्योजातपादः, परमशिवः” इति प्रसिद्धिः दृश्यते । मन्त्रमये च शरीरे शरीरावयवा मन्त्ररूपा एव वक्तव्याः । मन्त्राणान्तु शक्तिरूपत्वं सिद्धम् । तत्रेशान इति मन्त्रो (म.ना.21) मस्तकस्थानीयः । तत्पुरुषाय (म.ना.20) इति मन्त्रो मुखस्थानीयः । अघोरेभ्य (म.ना.20) इति मन्त्रो मुखस्थानीयः । अघोरेभ्य (म.ना.19) इति मन्त्रो हृदयस्थानीयः । वामदेवाय (म.ना.18) इति मन्त्रो गुह्यस्थानीयः । सद्योजातं (म.ना.17) इति मंत्रो पादस्थानीयः ।

अस्मदादिशरीरविलक्षणं अनुग्रह, तिरोभाव, सृष्टि, स्थिति, संहाररूप, कृत्यपञ्चककारणं स्वेच्छानिर्मितं परमशिवस्य शक्तिमयं शरीरम् ।

तदुक्तम्–“मलाद्यसंभवाच्छाक्तं वपुर्नैतादृशंविभोः” इति ।
तद्वपुः पञ्चभिर्मन्त्रैः पञ्चकृत्योपयोगिभिः ॥
ईशतत्पुरुषाघोरवामाद्यैर्मस्तकादिमत् ॥ इति च ॥
सर्वतत्त्वातीतः परमशिवस्त्वनादिमुक्तः । मुक्तात्मानोऽपि शिवा एव । ते तु आदिमुक्ताः ।

महाप्रलये च तत्त्वत्रयमवशिष्यते । तत्तु माया, पुरुषः, शिव इत्यन्योन्यं विभक्तं वर्तते । सृष्टिस्तु शुद्धाध्वा, कृच्छाध्वा चेति द्विविधा । शुद्धाध्वनि महामायाभिधानं बिन्दुपदवाच्यं शिवतत्त्वं शक्तितत्त्व, सदाशिवतत्त्वेश्वरतत्त्व, विद्यातत्त्वभेदेन चतुर्विधतत्वात्मना परिणम्य पञ्चतत्त्वात्मकं भवति । शिवतत्वन्तु तत्रादिकारणं चडात्मक शुद्धाध्वमूलकारणम् । एतच्च व्यापकं निरवयवं नित्यं ज्ञानक्रियास्वभावमुच्यते । एतदेवावरणं मुक्तिभाजां ज्ञानक्रिये प्रकटयति । स एव बिन्दुरित्युच्यते । सैव महामाया । तदेतत्परमशिवस्य परिग्रहशक्तिरिति कथ्यते । शक्तितत्त्वन्तु शिवस्य प्रथमः परिणामः । ज्ञानक्रियाशक्तिं निमित्तीकृत्य शक्तितत्वव्यवहितः परिणामः सदाशिवतत्वम् । अशुद्धाध्वनि सृष्ठ्यादीनां कर्तृभूतानामनन्तादीनामधिष्ठानेन परमशिवस्य क्रियाशक्तिवहुलमीश्वरतत्त्वम् । अत्रैव विद्येशानामनन्तादीनामन्तर्भावः ।

विद्याख्यं तु पञ्चमं तत्त्वं सप्तकोटिमहामन्त्राधिष्ठानेन परमशिवस्य ज्ञानशक्त्या प्रचुरम् । अत्रैव व्योमव्याप्त्यादीनां विद्यानां कामिकादीनामष्ठादशतन्त्रणामन्तर्भावः ।

एतेष्वेव शक्त्यादितत्वेषु विचित्रभुवनादिसन्निवेशाः सन्ति ।

कृच्छ्राध्वनि मायातत्त्वं त्रिंशत्तत्त्वात्मकं, भवति । तानि च यथा–माया, कालो, नियतिः, कला, विद्या राग्चेति षट्तत्त्वानि । तत्रापि कालेन नियत्या च सहकृता कला प्रकृतिमहदहङ्कारैकादशेन्द्रियपञ्चतन्मात्रपञ्चभूतभेदेन चतुर्विशतितत्त्वात्मना परिणमते । आहत्य त्रिंशत्तत्त्वानि । मायाकार्यं सर्वमप्यशुद्धम् । महामायाकार्यं तु शुद्धमेव । तत्र सर्वशक्तिसमाहारात्मिका सर्वकारणावस्था वस्तुभूता मायेत्युच्यते ।

कालश्च क्षणादिनमासात्मकः प्रसिद्धाः । नियतिस्तु नियमनरूपा शक्तिः । कला च पुरुषस्य कर्तृशक्तिव्यञ्जिका काचिच्छक्तिः । विद्या पुरुषस्य विषयप्रकाशननिमित्तभूता इन्द्रियादिकरणस्थानीया ज्ञानशक्तिव्यञ्जिका शक्तिः । रागः आसक्तिः पुरुषप्रवृत्तिहेतुः । पुरुष एव पशुः । स च त्रिविधः । विज्ञानाकलः, प्रलयाकलः, सकलश्चेति । तेषु विज्ञानाकलः मलमात्रयुक्तः अत एव एकबन्ध इत्युच्यते । द्वितीयस्तु प्रलयाकलः मलकर्मयुक्तत्वाद्द्विबन्ध इत्युच्यते । तृतीयः मलकर्ममायायुक्तः सकलः बनधत्रयसहित इति निगद्यते । तत्रापि प्रथमः समाप्तकलुषासमाप्तकलुषभेदात् द्विप्रकारः । तयोः पक्वमलान् परमशिवः बैन्दवशरीरयोगिनः कृत्वा विद्येशत्वं, सर्वज्ञत्वं, शुद्धाध्वाधिष्टातृत्वं, पञ्चकृत्याधिकारं च तेभ्यो ददाति । अन्यान् महामन्त्राधिदेवान् विद्यातत्त्वनिवासिनः करोति । द्वितीयः प्रलयाकलोऽपि पक्वपाशद्वयः तद्विलक्षणश्चेति द्विविधः ।तयोर्मध्ये प्रथमः मोक्षं प्राप्नोति । द्वितीयस्तु कर्मवशात् नानाविधजन्मभाग्भवति । तृतीयः सकलोऽपि द्विविधः । पक्वकलुषः अपक्वकलुषश्चिति । तयोराद्यान् परमेश्वरः तत्परिपाकपरिपाट्या मण्डल्याद्यष्टादशोत्तरशतमन्त्रेश्वरपदं प्रापयति ! अपक्वकलुषान् कर्मवशात् भोगभाजो विधत्ते । इति ॥

प्रत्यभिज्ञादर्शनपरिचयः

निरुपादानसंभारमभित्तावेव तन्वते । जगच्चित्रं नमस्तस्मै कलाश्लाध्यायशूलिने ॥ इति वसुगुप्ताचार्यमार्गमनुसरन्तः केचन माहेश्वराः परमेश्वरस्य कर्मादिनिरपेक्षस्य स्वेच्छयैव चेतनाचेतनात्मकजगन्निर्मापकत्वमाघोषयन्तः प्रत्यभिज्ञामात्रं सर्वसुलभमभिनवं परापरसिध्युपायमभ्युपगच्छन्तः प्रत्यभिज्ञाशास्त्रं परमप्रमाणं मन्वते । अहमिश्वर एव नान्य इत्येवंरूपो यः साक्षात्कारः स प्रत्यभिज्ञेत्युच्यते । तेन प्रत्यभिज्ञामात्रेणैव परशब्दितामुक्तिरपरमुक्तिश्चाभ्युदयो देवलोकप्राप्त्यादिश्च भवति । परमेश्वरस्य जगन्निर्माणे कर्मावलम्बित्वे पूर्णस्वातन्त्र्यभङ्गापत्तेस्तदनपेक्षस्यैव जगत्कारणत्वमभ्युपगन्तव्यम् । अतो निरपेक्षः परमेश्वरः स्वेच्छयैव केवलमाकाशादिभावान्वितं जगन्निमिंमीते । चेतनाचेतनात्मकं सर्वमिदं जगन्न परमेश्वरापेक्षया पृथग्भूतम् । किन्तु तदन्तर्गतमेव । परमेश्वरः स्वेच्छयैवाकाशादीन् भावान् स्वात्मन्येव दर्पणे प्रतिबिम्बमिवावभासयति । नानाविधमानमेयादिभिन्नमिदं जगत्परमेश्वरापेक्षया न किञ्चिद्भिन्नम् । परमेश्वरस्य जीवतादात्म्यमपि स्वसंवेदनेनोपपत्त्या आगमेन च सिध्यतीति सोऽयं परमेश्वरपरिणामवादो भेदाभेदलक्षण इति ॥

तदेतत्पशुपतिपारम्यवादिनां पाशुपतानां मतं श्रुतिस्मृत्यादिविरुद्धत्वादप्रामाणिकमिति तन्निराकृतं भगवता बादराययणेन ब्रह्ममीमांसाशास्त्रे द्वितीयाध्याये द्वितीयपादे (समयपादे) एकादशाधिकरणे “पत्युरसामञ्जस्यात्” इत्यादि ना “अन्तवत्वमसर्वज्ञता वा” इत्यन्तेन सूत्रपञ्चकेन । तद्यथा ऊँ पत्युरसामञ्जस्यात् ऊँ पत्युः पशुपतेर्जगत्कारणत्वं न युक्तम् । कुतः? असामञ्जस्यात् पारतन्त्र्यजननमरणादिदोषित्वादित्यर्थः । तच्च श्रुत्यादिसिद्धमिति भावः । यथा

“यं कामये तं तमुग्रं तं ब्रह्माणं तमृषिं तं सुमेधाम् ।”
(ऋ.10-125-5)
“अहं रुद्राय धनुरातनोमि ब्रह्माद्विषे शरवे हन्त वा उ ।”
(ऋ.10.125.6)

इति यमित्याद्यभ्रंणीवाक्येन शिवादेः पराधीनपदप्राप्तिमत्वावगमेन पारतन्त्र्याख्यदोषोऽवगम्यते । पारतन्त्याज्ञानजननमरणादिषु दोषेषु सत्सु जगत्कारणत्वासम्भवात् । तदर्थो यथा–अहं यं यं अग्रं रुद्रं कर्तुं कामये तं तं योग्यं उग्रं रुद्रं कृणोमि करोमि । तथा तं ब्रह्माणं ऋषिं सुमेधसं च तत्तद्भावयोग्यं करोमि । अहं `शरवे’ हिंसाशीलाय `ब्रह्माद्विषे’ चतुर्मुखपञ्चममुखच्छेत्रे संहारकाले ब्राह्मणादिसर्वप्राणिविद्विषे इति वा ब्रह्मद्विषां दैत्यानां `शरवे’ `हिंसकाये’ति वा दक्षप्रजापतिहिंसकाय इति वा रुद्राय (द्वितीयार्थे चतुर्थीं) उक्तविशेषणकरुद्रं `हन्त वा उ’ हन्तुमेव, न तु भीषणाद्यर्थम्, प्रलये दुर्गारूपेण हननात् । धनुः `आतनोमि’ विस्तारयामि । सज्यं करोमीति वा । अहं `जनाय’ जनस्य `समदं’ सम्मदं हर्षं सन्ततमोदं वा करोमि । अहं `द्यावा पृथिवी’ तदुपलक्षितानूर्ध्वाधोलोकान् धारणाय `आविवेश’ छन्दसि परोक्षे लिट् । अहमस्य जगतः `पितरं’ ब्रह्माणं `मूर्धन्’ सर्वजीवोत्कृष्टत्वे । सुवे जनयामि । न केवलं पदे स्थापयामि । एवं भूतायाः मम `योनिः’ कारणं `समुद्रे अप्सु’ अपामन्तस्तिष्ठति । स्त्रीणां पतिनामग्रहणमनुचितमिति शिक्षणाय नारायण इत्यनुक्त्वा `आपो नारा’ इत्यादिनोक्तं तदर्थमेवाह ।

एवं `अस्य देवस्य मीलहुषो वया विष्णोरेषस्य प्रभृथे हविर्भिः । विदेहि रुद्रो रुद्रियं महित्वं यासिष्टं वर्तिरश्विनाविरावत्’ । (ऋ.7-40-5)

अस्यार्थो यथा–`अस्य’ प्रमितस्य `देवस्य’ द्योतनादिगुणततेः `मिलहुषः’ भक्ताभिलषितवर्षितुः (समर्थस्येति वा) एषस्य–आसमन्तादीशस्य, व्यत्ययेन शकारस्य षकारः । `इषु इच्छायां’ इत्यस्माद्भावे घञिगुणे एषस्य इच्छारूपस्य सत्यकामस्येति वा, विष्णोः `प्रभृथे’ कर्मणा ध्यानेन च प्रवृद्धे भरणे पूजने हविर्भिः कृते सति, तत्प्रसादात् `वयाः’ अहंतत्त्वाभिमानित्वेन जनानां । बन्धको रुद्रः `रुद्रियं महित्वं’ रौद्रं पदं `विदे’ विविदे लेभे हि प्रसिद्धमेतत् । तथा हि `अश्विनौ’ युवामपि विष्णुपूजयैव तत्प्रसादात् `इरावत्’ अन्नवत् `वर्तिः’ वर्तनं समस्तभोगवत्पदं `यासिष्ठं’ अयासिष्ठं प्राप्तवन्तौ स्थ इति । तथा `एको नारायण आसीन्न ब्रह्मा नेशानो नाग्नीषोमौ’ (महोप 1) अस्यार्थो यथा–`महाप्रलये नारायण एक एव प्रधान आसीत् तदा स्वातन्त्र्येण `न ब्रह्मा’ न चतुर्मुख आसीत् `नेशानो’ रुद्रश्च नासीदित्यर्थः । युक्त्यान्तरेण पशुपदेर्जगत्कारणत्वं पराकुर्वत्सूत्रं यथा–

ऊँ सम्बन्धानुपपत्तेश्च ऊँ

पत्युरीश्वरस्याशरीत्वात्तस्य जगता कार्यकर्तृभावसंबन्धानुपपत्तेर्न कर्तृत्वमित्यर्थः ।

ऊँ अधिष्ठानानुपपत्तेश्च ऊँ

महाप्रलये सर्वेषां नष्टत्वात् पुनः सृष्टिकाले पृथिव्याद्याश्रयानुपपत्तेश्च न तस्य जगत्कर्तृत्वमित्यर्थः । पृथिव्याद्यधिष्ठाने स्थितो हि कुलालादिः कार्यं करोति । नास्य महादेवस्य तदा तदस्तीति यावत् । अतश्च न जगत्कर्तृत्वमित्यर्थः ॥

ऊँ करणवच्चेन्न भोगादिभ्यः ऊँ

करणमिति देह उच्यते । जीवस्य कार्यजनने तस्य सहकारित्वात् । अस्मदादिशरीरवदिदं कारकजातं साक्षात्प्रयत्नाधिष्ठेयतया पत्युरीश्वरस्य शरीररूपमधिष्ठानरूपं चेति न संबन्धानुपपत्त्यादिदोष इति चेन्न । भोगादिभ्यः सुखदुःखानुभावरूपभोगोत्पत्तिमरणाख्यदोषेभ्यो न तस्य जगत्कर्तृत्वमिति ।

ऊँ अन्तवत्वमसर्वज्ञाता वा ऊँ

जगत्कारणत्वेनाङ्गीकृतः शिवो देहवान्न वा । आद्ये अन्तवत्वं नाशवत्वं, अन्त्ये असर्वज्ञता च स्यात् । अशरीरिणो ज्ञानस्यैवाभावात् । न हि तादृशस्य चैत्रादिवत्कर्तृत्वं युक्तमिति भावः । एतेन लीलाविग्रहोपादानमस्तीत्यपि प्रत्युक्तम् । तस्यापि देहत्वेन मरणरूपान्तवत्वानिस्तारात् । तथाच यं कामये तं तमग्रं कृणोमीत्यादिश्रुत्यादिभिः शिवस्य पारतन्त्र्याद्यवगमात् तस्याशरीततया प्रलये भूतानां विलीनत्वेन सृष्टिकाले पृथिव्याद्यधिष्ठानाभावेन कर्तृत्वायोगेन कारकजातस्यैव साक्षात्प्रयत्नाधिष्ठेयतया देहादिनिनाशित्वस्य दुःखादिभोगस्य चापत्तेः शिवस्य जगत्कर्तृत्वे मानाभावाच्च पाशुपतमतस्यानेकदोषदुष्टत्वात्प्रेक्षावदनुपादेयत्वमपरिहार्यमेव । तदेवं शाक्तैयसौरस्कान्दगाणपतभेदेन बहुविधेषु वैदिकाभासेषु मध्ये पाशुपतमतस्यापि प्रविष्टत्वातन्निरूपिताश्चान्या अपि प्रक्रियाः सर्वाः श्रुतितदनुसारिस्मृतिविरुद्धत्वान्नोपादेया इति स्थितम् ।

यद्यपि तत्र तत्र पुराणादिषु परमशिवस्य विष्ण्वपेक्षयोत्कृष्टत्वेन परब्रह्मत्वं जगत्कारणत्वं च प्रतिपादितमापाततः प्रतीयते । तथापि तेषां सर्वश्रुतितदनुसारिस्मृतिविरुद्धत्वादप्रामाण्यं व्यवस्थाप्य श्रीमद्विजयीन्द्रश्रीमच्चरणैस्सर्वतन्त्रस्वतन्त्रैर्विष्णोश्चेतनाचेतनात्मकसर्वजगन्निमित्तकारणत्वमनन्तकल्याणगुणपरिपूर्णत्वं सकलदोषविदूरत्वं परब्रह्मत्वं च निरवकाशप्रमाणपुञ्जप्रदर्शनपुरस्सरं न्यायमौक्तिकमालायां शैवसर्वस्वखण्डने निरणायि । अतस्तदीयवचनान्येवास्मिन्संदर्भे पाशुपतनिराकरणावसरे जिज्ञासुजनविचिकित्सानिस्सारणायोदाह्रियन्ते । तथाहि ॥

शङ्करमतभङ्गः

%॥ अथ शङ्करमतभङ्गः ॥%

इदानीं शङ्करमतं निरक्रियते ।

इत्थं हि तन्मतप्रक्रिया । अध्यारोपापवादन्यायेन वियदादिसृष्ट्यादिप्रतिपादकत्वेन वेदान्तानां प्रवृत्तिः । तत्र असर्पभूतरज्जौ सर्वारोपवत् वस्तुन्यवस्त्वारोपोऽध्यारोपः । वस्तु च सच्चिदानन्दरूपमद्वितीयं ब्रह्म, अज्ञानं च सदसद्भ्यामनिर्वचनीयं त्रिगुणात्मकं ज्ञानविरोधिभावरूपम् । `अहमज्ञः’ इत्यनुभवात् “देवात्मशक्तिं स्वगुणैर्निगूढाम्” (श्वे.अ.1,मं.3) इत्यादिश्रुतेश्च । इदमज्ञानं समष्टिव्यष्ट्यभिप्रायेण एकमनेकमिति चोच्यते । अजामेकामित्यादिश्रुतेः (श्वे.अ.4,मं 5), `इन्द्रो मायाभि’रित्यादिश्रुतेश्च । इयं समष्टिरुत्कृष्टोत्कृषअटोपाधितया शुद्धसत्वप्रधाना । तदुपहितं चैतन्यं सर्वज्ञत्वसर्वेश्वरत्वसर्वनियन्तृत्वादिगुणकमव्यक्तमन्तर्यामी जगत्कारणमीश्वर इति व्यपदिश्यते । `यः सर्वज्ञः सर्ववित्’ (मुं.खं,मं.9) इत्यादिश्रुतेः । व्यष्टिस्तु निकृष्टोपाधितया मलिनसत्वप्रधाना । एतदुपहितचैतन्यमल्पज्ञत्वनिरीश्वरत्वादिगुणकः प्राज्ञ इत्युच्यते ।

अस्याज्ञानस्यावरणविक्षेपनामकं शक्तिद्वयमस्ति ॥

आवरणशक्तिस्तावत् यथाल्पेऽपि मेघेऽनेकयोजनमायतमादित्यमण्डवलोयितृनयनपिधायकतयाऽऽच्छादयतीव तथा अज्ञानं परिच्छिन्नमपि स्वीयया शक्त्याऽऽत्मानमपरिच्छिन्नं अवलोकयितृबुद्धिविधायकतयाऽऽच्छादयतीव । तादृशं सामर्थ्यं विक्षेपशक्तिस्तु यथा रज्वज्ञानं स्वावृतरज्जौ स्वशक्त्या सर्वादिकमुद्भावयति । तथाऽज्ञानमपि स्वावृतात्मनि स्वीयया शक्त्या आकाशादिप्रपञ्चमुद्भावयति । तादृशं सामर्थ्यं एवंविधशक्तिद्वयवदज्ञानोपहितचैतन्यं स्वप्रधानतया निमित्तं स्वोपाधिप्रधानतया उपादानं च भवति । यथा लूता तन्तुकार्यं प्रति स्वप्रधानतया निमित्तं स्वशरीरप्रधानतयोपादानं च तद्वत् । तमः प्रधानविक्षेपशक्तिमदज्ञानोपबृंहितचैतन्यादाकाशं आकाशाद्वायुः वायोरग्निः अग्नेरापः अद्भ्यः पृथिवी चोत्पद्यते । `आत्मन आकाशः संभूतः’ (तै.उ.ब्रं.व.अनु.1) इत्यादिश्रुतेः । एतान्येव सूक्ष्मभूतानि चोच्यन्ते । एतेभ्यः सूक्ष्मशरीराणि स्थूलभूतानि चोत्पद्यन्ते । सूक्ष्मशरीराणि सप्तशावयकानि लिङ्गशरीराणि । अवयवास्तु ज्ञानेन्द्रियपञ्चकं बुद्धिमनसी कर्मैन्द्रियपञ्चकं प्राणपञ्चकं चेति । तत्र श्रोत्रत्वक्रचक्षुर्जिह्वाघ्राणाख्यानि ज्ञानेन्द्रियाणि आकाशादीनां सात्विकांशेभ्यो व्यस्तेभ्यः पृथक् पृथक् क्रमेणोत्पद्यन्ते । बुद्धिर्नाम निश्चयात्मकान्तःकरणवृत्तिः । मनस्तु संकल्पविकल्पात्मकान्तःकरणवृत्तिः । अनयोरेव चित्ताहङ्कारयोरन्तर्भावः । एतेषामाकाशादिगतसात्विकांशेभ्यो मिलितेभ्य उत्पत्तिः । वाक्पाणिपादपायुगुह्याख्यानां कर्मेन्द्रियाणामाकाशादिगतरर्जोशेभ्यो व्यस्तेभ्यः पृथक् पृथक् क्रमेणोत्पत्तिः । प्राणापानव्यानोदानसमानाख्याः पञ्चप्राणाः आकाशादिगतरजोंशेभ्यो मिलितेभ्यो उत्पद्यन्ते । एतत्समष्ट्युपहितं चैतन्यं सूत्रातमा हिरण्यगर्भः प्राण इति चोच्यते । एतद्व्यष्ट्युपहितं चैतन्यं तेजसो भवति । तेजोमयान्तःकरणोपहितत्वात् । स्थूलभूतानि तु पञ्चीकृतानि । पञ्चीकरणं तु आकाशादिषु पञ्चसुएकैकं द्विधा समं विभज्य तेषु प्राथमिकात् पञ्चभागात् प्रत्येकं चतुर्धा समं विभज्य तेषां चतुर्णां भागानां स्वस्वद्वितीयभागापरित्यागेन भागान्तरेषु संयोजनम्, त्रिवृत्करणश्रुतेः पच्चीकरणस्याप्युपलक्षणत्वात् पञ्चीकरणानन्तरं आकाशे शब्दोऽभिव्यज्यते । वायौ शब्दस्पर्शौ अग्नौ शब्दस्पर्शरूपाणि अप्सु शब्दस्पर्शरूपरसाः । पृथिव्यां शब्दस्पर्शरूपरसगन्धाः । एवं पञ्चीकृतभूतेभ्यो भूर्भवःस्वर्महर्जनस्तपःसत्यमित्येतन्नामकानां उपरिविद्यमानानां अतलवितलसुतलरसातलतलातलमहातलपातालनामकानामधो विद्यमानानां लोकानां ब्रह्माण्डस्य जरायुजाण्डज स्वेदजोद्भिज्जाख्यचतुर्विधशरीराणामन्नपानादीनां चोत्पत्तिः । एतत्समष्ट्युपहितं चैतन्यं वैश्वानरो विराडिति चोच्यते । व्यष्ट्युपहितं चैतन्यं विश्व इत्युच्यते । एतत्स्थूलशरीरमन्नविकारत्वात् अन्नमयकोशो भवति । कोशवदाच्छादकत्वात् । सूक्ष्मशरीरं तु प्राणमयो मनोमयो विज्ञानमय इति कोशत्रयात्मकं भवति । तत्र प्राणादिपञ्चकं कर्मेंन्द्रियैः सहितं सत्प्राणमयकोशो भवति । क्रियाशक्तिमान् कार्यरूपः प्राणमयः । इच्छाशक्तिमान् कारणरूपो मनोमय विज्ञानमयः इति तेषां भेदः । अज्ञानरूपोपाधिस्तु आनन्दमयकोशः । एवं स्थूलसूक्ष्माविद्यारूपोपाधित्रितयोपितं चैतन्यमविविक्तं सद्वेदान्तगततत्तच्छब्दवाच्यं भवति । विविक्तं सत् लक्ष्यं तुरीयतममिति चोच्यते । `शिवमद्वैतं चतुर्थं मन्यन्ते’ (माण्डूक्ये मं.7) इत्यादिश्रुतेः । एवं रज्जुविवर्तस्य सर्पस्य रज्जुमात्रत्वोपपादनवत् वस्तुभूतब्रह्मविवर्तस्यावस्तुनो ज्ञानादेरारोपितशब्दार्थस्य प्रपञ्चस्य वस्तुभूतब्रह्ममात्रत्वोपपादनमपवादः । अवस्तुनो वस्तुमात्रत्वोपपादनं च मिथ्यात्वोपपादनमेव । एवमध्यारोपापवादाभ्यां ब्रह्मणो निर्विशेषत्वं प्रत्यक्ब्रह्मैक्यं प्रपञ्चमिथ्यात्वं च सिध्यतीति सर्ववेदान्ततात्पर्यरहस्यम् ॥

किञ्च “विमता जीवात्मानः परमात्मनो न भिद्यन्ते । आत्मत्वात् परमात्मवत् ।” इत्यनुमानं जीवब्रह्मैक्ये मानम् । न चाप्रयोजकत्वम् । `तत्त्वमसि’ (छां.6-8-7), `अयमात्मा ब्रह्म’ (बृ.2-5-19) इत्यादि श्रुत्यप्रामाण्यप्रसङ्गस्य विपक्षबाधकस्य सत्वात् । न च `त्वं सिंहोऽसि’ `सिंहोऽयं माणवकः’ इत्यादेरिव एक्यपरत्वाभावेऽपि `तत्त्वमसि’ `अयमात्मा ब्रह्म’ इत्यादेरपि गौणार्थमादाय प्रामाण्यसंभवेन तदप्रामाण्यप्रसंगस्य न विपक्षबाधकतेति वाच्यम् । तत्वमसीति नवकृत्वोऽभ्यस्तवाक्येषु ऐक्यरूपमुख्यार्थमादायैव प्रामाण्यस्य निर्वाह्यत्वात् । न च `नाहमीश्वरः’ `नाहं देवदत्तः’ इत्यादि प्रत्यक्षबाधः । `जीवपरमात्मानौ परस्परं भिद्येते किञ्चित् ज्ञत्व सर्वज्ञत्वादि विरुद्धधर्माधिकरणत्वात् । दहनतुहिनवदिति सत्प्रतिपक्षत्वं चेति वाच्यम् । प्रत्यक्षादेरौपाधिकभेदविषयत्वेन स्वाभाविकगैक्यसाधकानुमानबाधकत्वायोगात् । न च जीवब्रह्ममेदस्यौपाधिकत्वे मानाभावः । “एक एक तु भूतात्मा भूते भूते व्यवस्थितः । एकधा बहुधा चैव दृश्यते जलचन्द्रवत्” (ब्रह्मबिन्दूपनिषदि मं.12) `यथा ह्ययं ज्योतिरात्मा विवस्वान् अपो भिन्ना बहुधैकोऽनुगच्छन्नुपाधिना क्रियते भेदरूपो देवक्षेत्रेष्वेवमजोयमात्मा’ `आकाशमेकं हि यथा घटादिषु पृथग्भवेत् तथैवात्माप्यनेकस्थो जलाधारेष्विवांशुमान् ।’ `विभेदजनके ज्ञाने नाशमात्यन्तिकं गते । आत्मनो ब्रह्मणो भेदं असन्तं कः करिष्यति’ (विष्णु पु.2 अं.13,अ 79 श्लो.) इत्यादिश्रुतिस्मृतीनां सत्वात् । अत एव नान्योऽतोऽस्ति ॥ न ह्यस्ति द्वैतसिद्धिः । आत्मैव सिद्धोऽद्वितीयो मायया ह्यन्यदिव नात्र काचन भिदास्ति नैवात्र काचन भिदास्ति । अत्र भिदामिव मन्वानः शतधा सहस्रधा भिन्नो मृत्योः स मृन्युमाप्नोतीत्यादि श्रुतिषु भेदनिषेधो भेदज्ञाननिन्दा चोपपद्यते । न च `निरञ्जनः परमं साम्यमुपैति’ (मुं.3-1-3) यथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवति । एवं मुनेर्विजानतः आत्मा भवति गौतम (कठ.2-1-15) `इदं ज्ञातमुपाश्रित्य मम साधर्म्यमागताः । सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ॥’ (भ.गी.अ.14,श्लो.2) इत्यादिश्रुतिस्मृतिभिः मुक्तावपि भेदप्रतिपादनेन जीवब्रह्म भेद एव पारमार्थिकः । तदभेदव्यदेशस्तु गौण इति युक्तम् । `ब्रह्म वेद ब्रह्मैव भवति’ (मुं.3-2-9) `मां तु योऽव्यभिचारेण भक्तियोगेन सेवते । स गुणान् समतीत्यैतान् ब्रह्मूयाय कल्पते ॥’ इत्यादिश्रुतिस्मृतिभिः ब्रह्मीभावस्यैव ज्ञानफलत्वप्रतिपादनेन `गगनं गगनाकार’ मित्यादावपि सादृश्यस्याभेदेऽप्युपपन्नतया तावन्मात्रेण मुक्तौ भेदसिद्ध्ययोगात् । सगुणमुक्तौ भेदस्याङ्गीकारेण मुक्तौ भेदप्रतिपादकश्रुतिस्मृत्यादीनां तद्विषयत्वेन विरोधाभावाच्च । न च ब्रह्मभावस्य नित्यसिद्धतया ज्ञानसाध्यत्वायोगेन तदर्थं श्रवणादावप्रवृत्यापात इति वाच्यम् । दुःखप्रागभआवाद्यर्थं प्रायश्चित्तादाविव योगक्षेमसाधारणसाध्यत्वमादाय ब्रह्मीभावोद्देशेन अवणादौ प्रवृत्युपपत्तेः । कण्ठगतचामीकरन्यायेन सिद्धस्याप्यसिद्धत्वभ्रान्त्या श्रवणादौ प्रवृत्युपपत्तेश्च । तस्मात् जीवब्रह्मैक्यमेव पारमार्थिकं तद्भेदस्तु कल्पित इति `श्रौतः पन्थाः’ इति ॥

अत्रोच्यते–

जीवात्मानः परमात्मनो न भिद्यन्ते इत्यत्र जीवात्मशब्देनादमिति प्रतीयमाना विवक्षिताः किंवा तदनुसंवन्धिचैतन्यमात्रं नाद्यः परेणाहमिति प्रतीयमानानां अनात्मत्वाभ्युपगमेन तेषां परमात्माभेदसाधने बाधात् स्वरूपासिद्धेश्च । न द्वितीयः अहमिति प्रतीतेः अहङ्कारविषयत्वे प्रमाणाभावात् । न चात्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः इत्यादिश्रुत्याहमिति प्रतीयमानस्य भोक्तुः चिदचित् संवलनरूपत्वसिद्धिरिति वाच्यम् । तथासत्यन्तःकरणस्येव आत्मशब्दितदेहस्य चक्षुरादिबाह्येन्द्रियाणआं चाहंपदार्थभूतभोक्तृकोटिप्रवेशापातात् । न च देहस्य चक्षुरादीन्द्रियाणआं च जीवभोक्तृत्वे सहकारित्वमात्रं मनःशब्दितान्तः- करणस्य तु भोक्तृकोटिप्रवेश इति वाच्यम् । विशेषनियामकाभावे वैरूप्याश्रयणेन श्रुत्यर्थकथनायोगात् । “इन्द्रियेभ्यः पराह्यर्था अर्थेभ्यश्च परं मनः । मनसस्तु परा बुद्धिः बुद्धेरात्मा महान् परः ॥” (कठ अ.1, वल्ली 3,मं.10) । “आत्मानं रथिनं विद्धि शरीरं रथमेव तु । बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च ॥” (कठ अ.1-3-3) इति ॥ तत्रैवान्तः- करणवहिर्भावेनैव जीवात्मनः प्रतिपादनाच्च । `महाभूतान्यहङ्कारो बुद्धिरव्यक्तमेव च । इन्द्रियाणि दशैकं च पञ्चचेन्द्रियगोचराः ॥ इच्छा द्वेषः सुखं दुःखं संघातश्चेतनाधृतिः । एतत् क्षेत्रं समासेन सविकारमुदाहृतम् ॥’ (भ.गौ.अ.13, श्लो.5,6,7) । `इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते । एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ॥’ (भ.गी.अ.13,श्लो.1) इत्यादिना गीतायां अहङ्कारान्तःकरणवहिर्भावेन क्षेत्रज्ञशब्दितजीवस्य प्रतिपादनाच्च । न च गीतावचनं निष्कृष्टजीवाभिप्रायं अत एवोत्तरत्र क्षेत्रं चापि मां विद्धि इति तस्य स्वाभेदवर्णनमिति वाच्यम् । तस्याद्याप्यसिद्धेः । क्षेत्रज्ञं च `सर्वक्षेत्रेषु मामपि’ `मां च विद्धि’ इत्युपास्योपासकयोरेव तत्र ज्ञेयत्वप्रतिपादनेन क्षेत्रज्ञस्य कृष्णेन स्वाभेदस्याप्रतिपादनाच्च । अन्यथा चशब्दापिशब्दयोः वैयर्थ्यप्रसङ्गात् । नन्वस्तूक्तरीत्या अन्तःकरणाहङ्कारबहिर्भूतो जीवात्मा तस्य पराभेदसाधने को दोषः । जडातिरिक्तोऽहमिति प्रतीयमानो न परस्मात् भिद्यते इत्याद्यनुमाने जडातिरिक्तत्वविशेषणं स्वमते बाधवारणाय सप्रयोजनं परमतेतूपरञ्जकमिति न कश्चिद्दोषः । इति चेत् । किं आत्मत्वं ज्ञातृत्वं वा ज्ञानरूपत्वं वा । नाद्यः । त्वन्मते असिद्धेः कल्पितं तदस्तीति चेन्न । कल्पितेन हेतुना वास्तवसाध्यसिद्योगात् । अन्यथा बाष्पादौ कल्पितधूमादिनापि त्वद्रीत्या व्यावहारिकवह्न्यादिसिद्धिप्रसङ्गात् । न द्वितीयः । वृत्तिरूपज्ञानेष्वनैकान्त्यात् । न चास्मिन् मते वृत्तिज्ञानमेव नेति नोक्तदोषः इति वाच्यम् । जानामीत्यबाधितप्रत्यक्षेण सिद्धज्ञानरूपस्य वृत्तिज्ञानस्य त्वदनभ्युपगममात्रेण ज्ञानरूपत्वासिद्ध्ययोगात् । अन्यथात्मनोऽपि ज्ञानरूपत्वासिद्ध्यापातात् । न चात्मसंबन्धौपाधिकमेव वृत्तेर्ज्ञानरूपत्वं न स्वतः इति वाच्यम् । प्रमाणाभावात् । वैपरीत्यापत्तेश्च । न च सत्यं ज्ञानमनन्तं ब्रह्म । नित्यं विज्ञानमानन्दं ब्रह्मेत्यादिषु ज्ञानत्वविज्ञानत्वयोः ब्रह्मलक्षणत्वोक्तिबलादुक्तार्थसिद्धिरिति वाच्यम् । तत्र विशिष्टस्यैव लक्षणत्वलाभेन ज्ञानत्वमात्रस्य ब्रह्मलक्षणत्वानभ्युपगमात् । ज्ञानशब्दमुख्यार्थत्वसाम्ये वृत्तिः अज्ञप्तिः ब्रह्म तु ज्ञानरूपमित्यत्र विशेषहेत्वभावाच्च । अज्ञानत्वादेः ज्ञानपदाभिधेयत्वेऽपि ज्ञानरूपत्वं नाभ्युपगतमिति तद्वदेव वृत्तेरपि ज्ञानरूपत्वाभाव उपपद्यते इति चेत् । भ्रान्तोऽसि । न हि वयं ज्ञानपदाभिधेयत्वमात्रेण वृत्तेः ज्ञानरूपत्वं ब्रूमः । किन्तु विशेष्यतया तदभिधयत्वेन तथा ब्रूमः । अस्ति च मम घटविषयकं ज्ञानं वृत्तमिति विशेष्यतया तस्यापि ज्ञानपदाभिधेयत्वम् । एवं च वृत्तिरूपज्ञानेषु व्यभिचारो दुष्परिहरः । किञ्च ईदृग्रूपत्वेन जीवब्रह्माभेदसाधने पदार्थत्वादिना जडब्रह्माभेदसाधनमपि किं न स्यात् । जीवब्रह्मैक्यसाधकानुमानस्य `तत्त्वमसि’ `अयमात्मा ब्रह्मा’ (मां.उ.3-1-2 ; बृ.उ.4-5-19) इत्यादिश्रुतिसाहाय्यमस्तीति चेत् । न । जडब्रह्मैक्यसाधकानुमानस्यापि `सर्वं खल्विदं ब्रह्म’ (छां.3-14-1) `इदं सर्वं यदयमात्मा’ (बृ.उ.4-4-6) इत्यादिश्रुतिसाहाय्यमस्तीति साम्यात् `सर्वं खल्विदं ब्रह्मे’त्यादिषु (बाधायां) सामानधिकरण्यं तत्वमसीत्यादौ त्वभेदे सामानाधिकरण्यमिति चेन्न । तथाङ्गीकारे प्रमाणाभावात् । वैपरीत्यापत्तेश्च । ननु जडप्रपञ्चस्य स्वरूपेणोत्पन्नतया विनाशितया चानाद्यनन्तब्रह्माभेदायोग्यतया तत्र बाधायां सामानाधिकरण्यं तत्वमसीत्यादौ त्वभेदे सामानाधिकरण्यं जीवस्य स्वरूपेणोत्पत्ति विनाशयोगित्वे कृतहानाकृताभ्यागमप्रसङ्गेन मोक्षशास्त्राप्रमाण्यप्रसङ्गेन च स्वरूपेणोत्पत्तिविनाशशून्यत्वस्य वक्तव्यतया `अविनाशी वा अरेऽयमात्मा’ (बृ.उ.4-4-6) `अजो नित्यः शाश्वतोऽयं पुराणो’ `न हन्यते हन्यमाने शरीरे’ (कठ अ.1-2-18) ित्यादिश्रुतिसिद्धत्वेन च तस्य ब्रह्माभेदयोग्यत्वात् इति चेन्न । किञ्चित्ज्ञस्य किञ्चिदपि कर्तुमशक्तस्य कर्मवश्यस्य नियम्यस्याधेयस्य सुखदुःखभोक्तुः उपासकस्य जीवस्य, सर्वज्ञेन सर्वशक्त्युपेतेन अकर्मवश्येन सर्वनियन्त्रा सर्वाधारभूतेन सुखदुःखाद्यभोक्त्रोपास्येन ब्रह्माणैक्यासम्भवेन प्रकारान्तरेण सामानाधइकरणस्य उपपादनीयत्वात् । सादृश्यादिकमादायापि लोकेऽग्निर्माणवक इत्यादौ सामानाधिकरण्यस्य बहुलमुपलम्भात् । तत्वंपदमुख्यार्थयोः ऐक्यस्य त्वयाप्यनभ्युपगमाच्च । न च गौण्यपेक्षया लक्षणा (प्र)वृत्तिः अभ्यर्हितेति वाच्यम् । गौण्या वृत्यन्तरत्वानभ्युपगमात् लक्षणारूपत्वोपगमाच्च । न च केवललक्षमापेक्षया गौणस्थलेऽङ्गीकृताया लक्षणाया लक्षितलक्षणात्वात् जघन्यत्वमिति वाच्यम् । तथापि सादऋस्यातिरिक्तसम्बन्धान्तरमादाय लक्षणया सामानाधिकरण्यप्रयोगोपपत्तौ त्वदभिमतार्थपरत्वासिद्धेः । एतेन तत्वमसीत्यादिवाक्याप्रामाण्यप्रसङ्गो विपक्षे बाधक इति निरस्तम् । उक्तरीत्यापि तत्प्रामाण्यस्य उपपादयितुं शक्यत्वात् । न च नवकृत्वोऽभ्यस्ततया तत्वमस्यादौ ऐक्यपरत्वसिद्धिरिति वाच्यम् । त्वं सिंहोऽसि त्वं सिंहोऽसि इति शतकृत्वोऽभ्यासेऽपि तत्रैक्यपरत्वादर्शनात् । `इदं सर्वं यदयमात्मा’ (बृ.उ.4-4-6) इति जडब्रह्मैक्यस्याप्यभ्यस्तत्वेन ततोऽपि जडब्रह्मैक्यसिद्धय्यापाताच्च । किञ्च जीवः परस्मान्न भिद्यते आत्मत्वादित्यात्यनुमानस्य तत्वमस्यादिश्रुतिवाक्यसाहाय्यं अस्तीत्यनुपपन्नम् । प्रत्यक्षादिविरोधेन तत्वमस्यादिश्रुतेरेव अलभ्दात्मकतया `अन्धस्येवान्धलग्नस्य विनिपातः पदे पदे ।’ इति न्यायेन तस्यास्तत्सहायत्वायोगात् प्रत्यक्षादेरौपाधिकभेदविषयत्वं उक्तमिति चेत् जीवब्रह्मैक्यस्य किमिदं औपाधइकत्वं न तावत् मुखादिभेदवत् चन्द्रादिभेदवच्च उपाधिजन्यत्वम् । तस्य स्वरूपतोऽनादित्वाभ्युपगमेनाविद्यान्तःकरणरूपोपाधिजन्यत्वायोगात् । नापि तज्ज्ञाप्यत्वम् । प्रदीपादिज्ञाप्यघटपदादिभेदवत्तस्य स्वाभाविकत्वेऽपि उपपन्नत्वात् । नाप्युपाध्यधीनस्थितिकत्वम् । देशकालेश्वराद्यधीनस्थितिकस्य जीवस्वरूपादेः पारमार्थिकत्ववदविद्याधीनस्थितिकस्यापि जीवब्रह्मभेदस्य पारमार्थिकत्वोपपत्तेः । नाप्युपाधिनिवृत्तिप्रयुक्तनिवृत्तिप्रतियोगित्वम् । तावता जीवब्रह्मभेदस्य विनाशित्वेन मिथ्यात्वानापत्तेः । मोक्षेऽपि जीवब्रह्मभेदस्य वक्ष्यमाणतया निवृत्ययोगाच्च । गोरनाद्यन्तवती (मन्त्रिकोपनिषत् मं.5) महान्तं च समावृत्य प्रधानं समविस्थितम् । अनन्तस्य न तस्यान्तऋः संख्यानं चापि विद्यते । `अचेतना परार्धा च नित्या यततविक्रिया’ इत्यादिश्रुतिस्मृतिभि मायाविद्याज्ञानतमोनीहाराजाप्रधानाक्षराव्यक्तगोशब्दित पराङ्गीकृतजीवेश्वरोपाधेः अविनाशित्वप्रतिपादनेन तद्विरोधापत्तेश्च । नन्वादिश्चान्तवती चेति तथा तत्वाद्यन्तवती न भवतीति `तस्याभिध्यानात् योजनात् तत्वभावात् भूयश्चान्ते विश्वमायानिवृत्तिः’ । `विभेदजनके ज्ञाने नाशमात्यन्तिकं गते’ रित्यादिश्रुतिस्मृतिभि ज्ञानेन तन्निवृत्तेः प्रतिपादनेन तदनुसारेण गौरनाद्यन्तवतीत्यादि श्रुत्यर्थस्य वर्णनीयत्वात् । न च विश्वमायानिवृत्तिरित्यत्र मायाशब्दार्थो अन्य एवेति वाच्यम् । “देवात्मशक्तिं स्वगुणैर्निगूढां पञ्चाशद्भेदां पञ्चपर्वामधीमः” (श्वेताश्वतर अ.1,मं.3) । `क्षरं प्रधानमजाह्येका अस्मात्मायी सृजते विश्वमेतत् । तस्मिंश्चान्यो मायया संनिरुद्धः ।’ मायां तु प्रकृतिं विद्यात् । (श्वेताश्वतरं 4-10) । `यदा तमस्तन्न दिवा न रात्रि’ रित्यादि (श्वेताश्वतर 4-18) पूर्वोत्तरवाक्येषु शक्तिपञ्चपर्वप्रधानाजामायातमःशब्दैः प्रतिपन्नस्यास्मदभिमतमूलाज्ञानस्यैव विश्वमायानिवृत्तिः इत्यत्रापि प्रतिपादनीयत्वात् । न चात्र विश्वशब्दविशेषणात् अन्यत्वं मायानिवृत्तावपि तत्कार्यप्रपञ्चस्यानिवृत्तेः अपुरुषार्थत्वं इत्याशङ्कावारणाव मायानिवृत्या तत्कार्यप्रपञ्चस्यानिवृत्तेः अपुरुषार्थत्वं इत्याशङ्कावारणाय मायानिवृत्या तत्कार्यप्रपञ्चस्यापि निवृत्तिरित्यर्थस्फुटीकरणाय मायावा विश्वात्मत्वप्रतिपादनस्यावश्यकत्वात् । मायानिवृत्तिरित्युक्ते एकदेशेनापि तन्निवृत्तिः उक्ता स्यात् । ग्रामैकदेशे दग्धेऽपि ग्रामो द्वग्ध इति व्यवहारदर्शनात् । तन्माभूदित्येतदर्थं कार्त्स्न्यपरविश्वशब्दस्यावश्योपादेयत्वाच्च । न चाज्ञानस्य निरंशत्वादेकदेशाभावः । वियदादि सांशकार्यान्वयेन तस्यापि सांशत्वोपगमात् । `विकारजननीमज्ञामष्टरूपां अजां ध्रुवाम्’ `अजामेकां लोहितशुक्लकृष्णाम्’ (श्वेताश्वतर 4-5) `भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च । अहङ्गार इतीयं मे भिन्ना मे भिन्ना प्रकृतिरष्टधा ॥’ (भ.गी.अ.7,श्लो.4) इत्यादिश्रुतिस्मृतिभिः जगदुपादानभूतास्मदभिमताविद्यायाः सांशत्वप्रतिपादनाच्च । न `चान्त’ इत्यस्य पौनरुक्त्यम् । तस्य प्रारब्धकर्मसमाप्तिप्रतिपादकतया प्रयोजनवत्वात् । न भूयः पदानर्थक्यम् । निवृत्तस्य निवृत्ययोगात् इति वाच्यम् । निवृत्तस्यैव निवृत्तेरभ्युपगमात् । तथा च श्रुत्यन्तरं `विमुक्तश्च विमुच्यत’ इति पूर्वं आवरणशक्तिविशिष्टतया निवृत्तिः प्रारब्धभोगसमाप्तौ विक्षेपशक्तिविशिष्टतया स्वरूपेण निवृत्तिरिति तत्सार्थक्योपपत्तेश्च । यद्वा भूयश्च भूयोः भूयः तस्य प्रकान्तदेवस्याभिध्यानात् तद्विषयकनिदिध्यासनात् योजनादुपायात्तत्वभावात् तत्वाविर्भावात् ब्रह्मसाक्षात्कारात् विश्वमायानिवृत्तिरिति योजना । यद्वा अभिध्यानं निदिध्यासनं योजनं श्रवणमनने तत्वभावो ब्रह्मसाक्षात्कारः इति श्रवणादिचतुष्टयमुक्तम् । यद्वा तस्य देवस्य अभिध्यानं सङ्कल्पस्तदूपाद्योजनादुपायान्निष्पन्नतत्वभावात् ब्रह्मसाक्षात्कारात् विश्वमायानिवृत्तिरिति । एवं च जीवब्रह्मभेदोपाधिः मायाशब्दितमज्ञानं ब्रह्मसाक्षात्कारेण निवर्तत इति मायारूपोपाधिनिवृत्तिप्रयुक्तनिवृत्तिप्रतियोगित्वं जीवब्रह्मभेदस्येति तस्यौपाधिकत्वं अकामेनापि स्वीकार्यमिति चेदुच्यते । जीवब्रह्मभेदोऽनौपाधिकः किन्तु स्वाभा3विक एव वाच्यः । तस्य मोक्षकालेऽपि सत्वात् । ब्रह्मविदाप्नोति परम्’ `सौऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता’ (तैत्तिरीय 2-1) `रसं ह्येवायं लब्ध्वानन्दी भवति’ `एतमानन्दमयमात्मानं उपसंक्रम्य’ `इमान् लोकान् कामान्नी कामरूप्यनुसंचरन्’ (तै.भृ.वल्ली) `सूर्यद्वारेण ते विरजाः प्रयान्ति ।’ (मुण्डके 1 खं.2,मं.11) । यत्रामृतः स पुरुषो ह्यव्ययात्मा परात्परं पुरुषमुपैति दिव्यम् । `न पश्यो मृत्युं पश्यति न रोगं नोत दुःखताम् । सर्वं ह पश्यः पश्यति सर्वमाप्नोति सर्वशः ॥ स एकधा भवति त्रिद्या भवति पञ्चधा भवति । (छां.अ.7,खं.26,मं.2) परंज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते । `स उत्तमः पुरुषः’ स तत्र पर्येति जक्षन् क्रीडन् रममाणः । स्त्रीभिर्वा यानैर्वेत्यादि’ (छां.अ.8,खं.12,मं.3) श्रुतिभिः मोक्षेऽपि भेदप्रतिपादनात् । न चोदाहृतश्रुतीनां जीवन्मुक्तिपरत्वं सगुणमुक्तिपरत्वं वा तत्रास्माभिः भेदाभ्युपगमादिति वाच्यम् । जीवतो मुक्तिरित्यस्य व्याहतत्वात् । जीवद्दशायाः संसाररूपत्वात् । पराभिमतजीवन्मुक्तेः अन्यत्र निरस्तत्वाच्च । सगुणमुक्तेः परेणोपासनासाध्यत्वोपगमेन ज्ञानफलत्वानभ्युपगमाच्च । ब्रह्मविदाप्नोतीत्याद्युदाहृतश्रुतीनां त्वन्मते ज्ञेयब्रह्यनिष्टतया ज्ञानफलीभूतपरममुक्तेरेव तत्र प्रतिपादनीयत्वाच्च । न च तस्याः ज्ञेयब्रह्मनिष्ठत्वेऽपि फलप्रतिपादनमात्रस्य सगुणब्रह्मोपासनफलप्रतिपादकतयोत्कर्ष इति वाच्यम् । तत्तत्सुगुणब्रह्मविद्याप्रकरणेष्वेव फलस्यापि प्रतिपादनेन तदनपेक्षणात् । `य एषोन्तरादित्ये हिरण्मयः पुरुषो दृश्यते’ (य एषोन्तरक्षिणि पुरुषो दृश्यते) (छां.4-11,15) । इत्यन्तरादित्यविद्यायां अक्षिविद्यायां च उदेति ह वै सर्वेभ्यः पाप्मभ्यः य एवं वेदेति सकलपापनिवृत्तिरूपस्य फलस्य स क्रतुं कुर्वीत मनोमय इत्यादि शाण्डिल्यविद्यायामेतमितः प्रेत्याभिसम्भवितास्मीति ब्रह्मप्राप्तिरूपस्य फलस्य च य एषोऽक्षिणि पुरुषो दृश्यते एष आत्मेति होवाचेत्युपकोसलविद्यायां तत्पुरुषो मानवः स एनान् ब्रह्मगमयतीत्यादिना’ (छां.5-10-2) अर्चिरादिमार्गेण ब्रह्मप्राप्तेः यस्त्तेवदमेवं प्रादेमात्रमभिविमानमात्मानं वैश्वानरमुपास्ते (छां.5-19-1) इति वैश्वानरविद्यायां तद्यथेषीकातूलमग्रनौ प्रोतं प्रदूयेत एवं हास्य सर्वे पाप्मानः प्रदूयन्ते’ (छां.5-24-3) इति सकलपापनिवृत्तेः, तस्मिन्यदंतन्स्तन्वेष्टव्यं तद्वाव विजिज्ञासितव्यम् इति दहरविद्यायाम् (छां.अ.8,खं.1,मं.1) अथ `य इहात्मानमनुविद्य व्रजन्त्येतांश्च सत्यकामांस्तेषां सर्वेषु लोकेषु कामचारो भवतीति’ (छां.अ.8,खं.1,मं.6) सर्वकामावाप्तेः, सोन्वेष्टन्यः स विजिज्ञासितव्य इति प्रजापतिवाक्योक्तेन्द्रविद्यायां अश्व इव रोमाणि विधूय पापं चन्द्र इव राहोर्मुखात् प्रमुच्य धूत्वा शारीरमकृतं कृतात्मा ब्रह्मलोकमभिसंभवामि (छां.अ.8,खं.13,मं.9) इति सकलपापनिवृत्ति पूर्वक ब्रह्माप्राप्तेश्च प्रतिपादनात् । न च अंतरादित्यविद्यायां वैश्वानरविद्यायां च पापनिवृत्तिमात्रप्रतिपादनेन च निर्विशेषब्रह्मप्रकरणे श्रूयमाणस्य ब्रह्मप्राप्तिलक्षणफलस्य तत्रोत्कर्ष इति वाच्यम् । सगुणब्रह्मविद्यान्तरफलभूताया ब्रह्मप्राप्तेरर्थादन्यत्राप्यन्वयसंभवेन तत्र निर्विशेषब्रह्मप्रकरणोक्तफलानपेक्षात् । किं च `ब्रह्मविदाप्नोति परम्’ (तै.उ.ब्रह्मवल्ली प्र. अनुवाक) इत्यादिनोक्तं ब्रह्म सविशेषमेव नि निर्विशेषम् । ब्रह्मशब्दस्य गुणपूर्तिवाचित्वात् । तथा च श्रुतिः `अथ कस्मादुच्यते ब्रह्मेति बृहन्तो ह्यस्मिन् गुणा इति (अथर्वशिरः) । बृहति बृंहयति तस्मादुच्यते परं ब्रह्मेति (आग्निवेश्यश्रुतिः) । ब्रह्मत्वात् बृंहणत्वाच्च तद्ब्रह्मेत्यभिधीयते इति श्रौतस्मार्तनिर्वचनेनापि गुणपूर्तिसिद्धिः । देशकालबृहत्ववत् संकोचाभावेन गुणतो बृहत्वस्यापि तत्र प्रवेशात् सत्यशब्दस्यापि यत्तत्सदमृतं अथयत्तितन्मर्यं अथ यद्यन्तेनोभेयच्छति । तस्माद्यमिति मुक्तामुक्तनियामकपरतया श्रौतनिर्वचनसत्वेन नियमनस्य च संकल्परूपज्ञानविशेषतया सविशेषपरत्वात् । पारमार्थिकत्वरूपसत्यत्वस्य प्रपञ्चसाधारण्ये ब्रह्मसाधारणधर्मप्रतिपादनपरे वाक्ये उदाहृतश्रुत्यन्त रोक्तस्य सत्वस्य ब्रह्मासाधारणत्वेन अत्र ग्राह्यत्वाच्च । ननु ब्रह्मेतरस्य मिथध्यात्वोपगमात् पारमार्थिकत्वरूपसत्यत्वस्य ब्रह्मासाधारण्यमिति चेत् । किं पारमार्थिकत्वरूपसत्यत्वस्य ब्रह्मलक्षणत्वान्यथानुपपत्या ब्रह्मेतरमिथ्यात्वं किं वा मानान्तरेण तन्मिथ्यात्वसिद्ध्या पारमार्थिकत्वस्य ब्रह्मासाधारण्यम् । नाद्यः । श्रुत्यन्तरोक्तसत्यत्वपरत्वेनापि तस्य ब्रह्मलक्षणपरतया ब्रह्मेतरमिथ्यात्वानाक्षेपकत्वात् । द्वितीयेऽपि तत्साधकं मानान्तरं प्रत्यक्षमनुमानं आगमो वा । नाद्यः । जगन्मिथ्यात्वसाधकप्रत्यक्षस्यादर्शनात् । प्रत्युत घटः सन्नित्यादिप्रत्यक्षेण तत्सत्यत्वस्यैव सिद्धेश्च । न द्वितीयः । स्वतन्त्रप्रमाणावष्टभेन विनासहचारमात्रेणार्थसाधनायोगात् । अन्यथातिप्रसङ्गात् । दृश्यत्वाद्यनुमानानां च विस्तरेण अन्यत्र निरस्तत्वाच्च । न तृतीयः । ब्रह्मेतरसर्वमिथ्यात्वपरश्रुतीनामदर्शनात् । `एकमेवाद्वितीयम्’ (छां.अ.6,खं.2,मं.1), `नेह नानेत्यदिकम्’ (कठ अ.2,वल्ली 1, मं.11) वाक्यं श्रूयत इति चेत् सत्यं तथाविधश्रुतीनां पूवोत्तरवाक्यानुरोधेन श्रुत्यन्तरानुरोधेन चार्थस्य वर्णनीयत्वात् । यथा चैतत् तथाग्रे वक्ष्यामः । तस्मात्सत्यशब्दस्य मुक्तामुक्तनियामकपरतया मुमुक्षुज्ञेयं ब्रह्म सविशेषमिति स्थितम् ।

किं च ज्ञानशब्दस्य अन्तोदात्ततया ज्ञानवत्परत्वेन ततोऽपि ज्ञानरूपधर्मसिद्धिः । अत एव ब्रह्मणो विपश्चित्वं उक्तम् । विविधं पश्यति चिद्यस्य स विपश्चित् इति तदर्थप्रतीतेः । न च त्वन्मते ब्रह्मशब्दस्यापि गुणपूर्तिवाचितया सहप्रयोगानुपपत्तिरिति शङ्क्यम् । प्रमाकरणं प्रमाणम् । सास्नादिमती गौरित्यादौ लक्ष्यपरप्रमाणशब्दादेः प्रमाकरणमित्यादाविव विवक्षावत् ब्रह्मशब्दस्यापि अविवक्षितार्थतया सहप्रयोगोपपत्तेः । `रसं हि एवायं लब्ध्वा आनन्दी भवति’ (तैत्तिरीयेब्रह्मवल्ली अनु.8) इत्यत्रापि रसशब्देन सविशेषमेव ग्राह्यम् । पूर्वत्र `सोऽकामयत बहुस्याम् प्रजायेय’ इति । `स तपोऽतप्यत’ (तैत्ति,उ.ब्र.व.षष्ठानुवाकः) इत्यादिना ज्ञानेच्छादेः तत्रैव तदात्मानं स्वयमकुरुत’ इति कृतेः उत्तरत्र च `स एको ब्रह्मण आनन्दः’ (तै.ब्र.अष्टमानुवाकः), `आनन्दं ब्रह्मणो विद्यान्’ (तै.ब्र.4 अनुवाकः) इत्यादिना आनन्दरूपधर्मस्य च प्रतिपादनात् । `एतमानन्दमयमात्मानं’ (तै.उ.भृगु 10 अनुवाकः) इत्यत्रापि सविशेषमेव प्रतिपत्तव्यम् । `विकारशब्दान्नेति चेन्न प्राचुर्यात्’ (ब्र.सू.1 अ.अधि,6.सू.13) इत्यादि सूत्रकृतैव मयटः प्राचुर्यार्थत्वप्रतिपादनेन निरतिशयानन्दरूपधर्मस्यैव प्राप्तेः । सूर्यद्वारेण ते विरजाः प्रयान्ति’ (मुं.खं.2,मं.11) `यत्रामृतः स पुरुषो ह्यव्ययात्मा’, `परात्परं पुरुषमुपैति दिव्यम्’ इत्यत्रापि प्राप्यः पुरुषः सर्वज्ञत्वादिगुणकः । `यः तसर्वज्ञः सर्ववित्’, `यस्य ज्ञानमयं तपः’ (मुं.प्र.खं.मं.9) इत्यादि पूर्ववाक्येन तस्य तथा प्रक्रान्तत्वात् `ब्रह्म वेद ब्रह्मैव भवति’ (मुण्डके द्वि.मं.9) इत्युपसंहारस्य उपक्रमानुसारेण नेयत्वात् । भवतीत्यस्य प्राप्त्यर्थकत्वोपपत्तेः । न च प्राप्त्यर्थत्वे आत्मने पदित्वात् परस्मैपदानुपपत्तिः । `यदा पश्यः पश्यते’ (मुण्डके 3-1-3) इत्यादौ आत्मनेपदवत् छान्तसत्वोपपत्तेः । न च यत्तदद्रेश्यं इत्याद्युपक्रमेण ब्रह्मणो निर्विशेषत्वसिद्धिः । `कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातम्’, `यया तदक्षरमधिगम्यते’ (प्र.मु.प्र.खं.3,5) तस्यैष आत्मा विवृणुते तनूम् स्वाम्’ (कठ प्र.अ.वल्ली 2,मं.23) इत्यादिपूर्वोक्तवाक्यानुसारेण तदर्थस्य वर्णनीयत्वात् । अन्यथा परस्परव्याहतभाषित्वापत्तेः इत्युक्तम् । `न पश्यो मृत्युं पश्यतीति’ (छां.7-26-2) ब्रह्मविद्योक्तं मुमुक्षुप्राप्यं ब्रह्मापि न निर्विशेषम् । उपक्रमे `तरति शोकमात्मवित्’ इति चेतनवाच्यात्मशब्दश्रवणात् । तस्मै मृदितकषायाय तमसः पारं दर्शयति भगवान् सनत्कुमारः इति उपसंहारेऽपि `आदित्यवर्णं तमसः परस्तात्’ इति वाक्यान्तरानुसारेण सविशेषस्यैव अङ्गीकर्तव्यतच्वात् । यत्र नान्यत् पश्यति नान्यत् शृणोति नान्यद्विजानाति स भूमा यो वै भूमा तत्सुखम् (छां.7-23) इत्यादेः ब्रह्मानन्दे अनुभूयमाने मुक्तः स्वर्गादिवैषयिकसुखं न पश्यतीत्यर्थपरत्वेन ततोऽपि निर्विशेषासिद्धेश्च । `परंज्योतिरुपसंपद्य’ (छां.8-3-4 इत्यत्र `सत्यकामः सत्यसङ्कल्पः’ इत्यादिना सत्यकामत्वादिधर्मप्रतिपादनेन सविशेषपरत्वाच्च । न चोदहृतश्रुतिषु तत्तद्धर्माणां प्रतीतावपि श्रुतीनां न तत्र तात्पर्यमिति वाच्यम् । सुगुणे ब्रह्मणि समन्वयानुक्तिप्सङ्गात् । सगुणोपासनाननुष्ठानप्रसङ्गात् । गुणोपसंहारानुपसंहारयोः अकर्तव्यत्वापत्तेश्च । न हि श्रुतीनां गुणेष्वपि तात्पर्याभावे तत्त्रितयं युज्यते । न च गुणेष्ववान्तरतात्पर्यं निर्विशेषे तु महातात्पर्यमिति युक्तम् । तथा सति गुणानामपि ब्रह्मवत्पारमार्थिकत्वस्य हुर्वारत्वात् । अवान्तरतात्पर्यविषयस्य महातात्पर्यविषयसमार्थिकत्वस्य हुर्वारत्वात् । अवान्तरतात्पर्यविषयस्य महातात्पर्यविषयसमसत्ताकत्वात् । प्रयाजादौ तथा दर्शनात् । ननु `तमेवैकं जानथ आत्मानम्’ `अन्या वाचो विमुञ्चथ’ (मुं.उ.2-2-6) इति आत्मस्वरूपमात्रस्य ज्ञेयत्वावगमात् । केवलो निर्गिणश्च’ (श्वेताश्व.अ.6,मं.11) इति गुणानां तत्र निषिद्धत्वाच्च न तत्र श्रुतितात्पर्यम् । न चोपासनार्थं गुणादिसिद्धिरिति वाच्यम् । अन्यपरैः मन्त्रार्थवादैः देवताविग्रहादाविव बाधकाभावेन निर्विशेषपरवेदान्तैः गुणानां असिद्ध्योपासनोपपत्तेः तात्पर्याभावेन विशेषोपपत्तेश्च इति चेन्न । तथात्वे `अन्तस्तद्धर्मोपदेशात्’ (ब्र.सू.अ.1, अधि.6,सू.1) इत्यादिना सविशेषे ब्रह्मणि `य एषोऽन्तः’ इत्यादैः समन्वयानुक्तिप्रसङ्कात् । प्रयाजादावपि अवान्तरतात्पर्यानभ्युपगमप्रसङ्गाच्च । सगुणोपासनानुष्ठानवत् तदनुष्ठानोपपत्तेः । `तमेवैकं जानथ’ इति, अत्रापि प्रकृतपरामर्शिना तच्छब्देन सविशेषस्यैव प्रतिपन्नत्वात् । `निर्गुणः’ इत्यत्रापि `साक्षी चेता’ इति साक्षाद्द्रष्ट्रुत्वादिधर्मप्रतिपादनेन हेयगुणनिषेधपरत्वेन उपादेयगुण (धर्म) विशिष्टे ब्रह्मणि श्रुतितात्पर्याभ्युपगमे बाधकाभावाच्च इत्यास्तां तावत् ॥

तस्मान्मोक्षेऽपि जीवब्रह्मभेदस्य प्रमिततया कथं तस्य औपाधिकत्वमिति ।

किं च जीवब्रह्मभेदस्य अज्ञानोपाधिकतया तन्निवृत्या निवर्तत इत्यनुपपन्नम् । तथात्वे प्रमाणाभावात् । “विभेदजनकेऽज्ञाने नाशमात्यंतिकं गते । आत्मनो ब्रह्मणोऽभेदं असंतं कः करिष्यति । (विष्णु पु.6-7-96) स्मृतिरस्तीति चेन्न । भेदविरोधी विभेद इति यावत् । तज्जनके अज्ञाने तत्वज्ञानविरोधिनि दोषे आत्यंतिकं नाशं गते सति जीवब्रह्मणोरसंतं अभेदं कः करिष्यति इत्यर्थपरतया तस्यास्त्वन्मतप्रतिकूलत्वात् । तस्याः त्वदभिमतार्थपरत्वे च विशब्दवैयर्थ्यात् । जीवब्रह्मभेदे वैविध्याभावात् । विजातीयभेदमादायैव वैविध्यस्योपपादनीयत्वात् । न जडभेदमादाय वैविध्यम् । तद्भेदस्य परेण मिथ्यात्वात्युपगमेऽपि औपाधिकत्वानभ्युपगमात् । अन्यथआ तदेदस्य तात्विकत्वापत्तेः । ननु “एक एव तु भूतात्मा” (ब्रह्मबिन्दूपनिषत् मं.12) “यथा ह्ययं ज्योतिरात्मा विवस्वान्” मायया ह्यन्यदिव ॥ इत्यादि श्रुतिषु साक्षादेव जीवब्रह्मभेदस्य औ्रपाधिकत्वप्रतिपादनातद् “नान्योऽतोऽस्ति द्रष्टा”, “नात्र काचन भिदास्ति” इत्यादि श्रुत्यादिषु भेदनिषेधाच्च उदाहृतस्मृतेः जीवब्रह्मभेदः औपाधिकः तन्निवृत्याच निवर्तते । इति अर्थपरत्वमवश्यं अंगीकर्तव्यमिति चेन्न । “एक एव तु भूतात्मा” (ब्रह्मबिन्दूषनिषत्) इति श्रुतौ जीवात्मनो देवमनुष्यस्त्रीपुरुषादिभेदस्यौपाधिकत्वपरत्वात् भूतात्मशब्दस्य जीवे मुख्यात् । तस्य परमात्मनि मुख्यत्वेऽपि अंतर्यामिभेदौपाधिकत्वपरत्वेन जीवब्रह्मभेदासंस्पर्शात् । तथा च श्रुतिस्मृतयः । “नैव स्त्री न पुमानेष नैव चायं नपुंसकः” । “एकः सन् बहुधा विचारः पुमान्न देवो न नरो न पशुर्न च पादपः” इति । श्वेताश्व.अ.5.मं.10)

किं च “भूते भूते व्यवस्थितः” इति बीप्सया भूतशब्दितसकलजीवावस्थानं परमात्मनि प्रतिपाद्यत इति तदंतर्यामिभेदौपाधिकत्वपरत्वमावश्यकम् । न च भूतशब्दस्य देहमात्रमर्थः । तस्य देहविशिष्टचेतनवाचित्वात् । अन्यथा “न हिंस्यात् सर्वा भूतानि” “यतो वा इमानि भूतानि जायन्ते” इत्यादावपि भूतशब्दस्य तन्मात्रपरत्वं स्यात् । न चात्रे देवः क्षेत्रेष्वेवं अजोऽयं इत्यादि श्रुत्यंतरानुसारेण भूतशब्दस्य शरीरमात्रपरत्वं युक्तम् । तत्र तथात्वेऽपि प्रकृते मुख्यार्थस्यैव ग्राह्यत्वात् । परमात्मनः शरीरेष्वस्थानवत्, “य आत्मनि तिष्ठन्” इत्यादि श्रुत्या जीवात्मांतरवस्थानस्यापि प्रतिपन्नत्वात् । “यथा ह्ययं ज्योतिः” इत्यत्रापि अंतर्यामिभेदस्य रामकृष्णादिभेदस्य च औपाधिकत्वं प्रतिपाद्यते । एतेन `मायया ह्यन्यदिव’ इति वाक्यं व्याख्यातम् । परमात्मा स्वेच्छया रामकृष्णाद्यनेकरूपं प्राप्नोतीत्यर्थपरत्वात् । “नान्योऽतोऽस्ति द्रष्टा” इत्यस्यांतर्यामिणोऽन्यः सर्वज्ञो नास्तीत्येव अर्थः । “नात्र काचन भिदाऽस्ति” इत्यत्र परमात्मनि स्वगतभेद एव निषिध्यत इति अन्यत्र विस्तरः । तस्मान्मुक्तौ भेदो दुर्वारः ।

ननु “यत्रत्वस्य सर्वमात्मैवाभूत् तत्केन कं पश्येत्” (बृ.उ.4-4-14) इति मुक्तौ भेदमात्रनिषेधकश्रुतिविरोध इति चेत् । न । यत्र यदा अस्य ज्ञानिनः सर्वमात्मैवाभूत् स्वाभिन्नमभूत् तदा केन साधनेन कं ज्ञेयं पश्येत् केनापि किमपि न पशअयेत् । अतो मुक्तस्य नाभेदः इति अनिष्टप्रसंजनमुखेन मुक्तिकाले भेदोऽङ्गीकार्य इत्येवं परत्वात् ।

किं च “निरञ्जनः परमं साम्यमुपैति” (मुं.3-1-3) “यथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवति”, “एवं मुनेः विजानतः आत्मा भवति गौतम” (कठ.2-1-15) इति श्रुतिभ्यां मुक्तौ साधर्म्यप्रतिपादनेन भेदो दुर्वारः । न च “गगनं गगनाकारं” इत्यादिवदुपपत्तिः । तत्र गगनैक्यस्य प्रमाणसिद्धत्वेन एकस्यैव उपमानोपमेयभावाभ्युपगमेऽपि जीवब्रह्मैक्ये कदावेन वैपम्यात् । तत्वमस्यादिवाक्यानां मानांतराविरोध्यर्थांतरपत्वमित्युक्तत्वाच्च । न तच सगुणमुक्तौ साधर्म्यम् न परममुक्ताविति वाच्यम् । पराभिमतपरममुक्तौ मानाभावात् । “ब्रह्म वेद ब्रह्मैव भवति” (मुं.3-2-9) इत्यादिवाक्यानां ब्रह्मप्राप्तिरूपमोक्षपरत्वस्य प्रपंचितत्वात् । तद्यो यो देवानां परथमं प्रत्यबुध्यत “स एव तदभवत्” इत्यादीनामपि विष्णुरेव भूत्वेमान् लोकान् अभिजयति इत्यादि वैदिकप्रयोगानुसारेण सादृश्दयगर्भत्वस्यैव वक्तव्यत्वात् ।

किं च परमते मोक्षो नाम कः । किं अविद्यानिवृत्तिः उतानंदावाप्तिः अथोभयम् ।

नाद्यः सुखदुःखाभावेतरत्वात् । कंटकादिनिवृत्तिवत् दुःखहेतूच्छेदरूपतया तस्याः पुरुषार्थत्वमिति चेत् तथापि किं ब्रह्मस्वरूप रूपा किं वा तदतिरिक्ता । नाद्यः । ब्रह्मस्वरूपस्य नित्यसिद्धतया साध्यत्वाभावेन अपुरुषार्थत्वात् । अनादेः दुःखप्रागभावस्य प्रयश्चित्तसाध्यत्वं तांत्रिकैरम्युपगतं इति चेन्न । तत्र प्रागभावस्य उत्तरोत्तर समयसंबन्धस्यैव प्रायश्चित्तसाध्यत्वोपगमात् । तद्वन्मोक्षे ब्रह्मस्वरूपातिरिक्तस्य साध्यस्याभावात् । न द्वितीयः । सत्यत्वे अद्वैतहानेः । मिथ्यात्वे अपुरुषार्थत्वप्रसागात् । मिथ्याभूतस्य ज्ञाननिवर्त्यत्वनियमात् । मोक्षेऽपि अज्ञानांतरस्वीकारप्रसंगाचज्च । न ह्यज्ञानं विना कल्पि तस्य अवस्थानम् । अन्यथा इदानीमपि अज्ञानं न स्यात् । द्वितीयेऽपि आनंदावाप्तिः तत्साक्षात्कारो वा तत् संबन्धो वा तत्स्वरूपमेव वा । नाद्यद्वितीयौ । अनभ्युपगमात् । न तृतीयः । असाध्यत्वात् । एतेन अविद्यानिवृत्तिः आनंदावाप्तिश्च इत्युभयं पुरुषार्थः इति तृतीयविवक्षापि निरस्ता । तस्मात् अद्वैतिमते ब्रह्मनिर्विशेषत्वस्य प्रत्यग्ब्रह्मैक्यस्य जगन्मिथ्यात्वस्य च कसलप्रमाणविरुद्धत्वेन मोक्षस्य च वक्तुमशक्यत्वेन अद्वैतिमतं न प्रेक्षावदुपादेयमिति स्थितम् ।

किं च ब्रह्मीभावोमोक्षः इति अद्वैतमतमनुपपन्नम् । ब्रह्मप्राप्तेरेव मोक्षत्वात् । अर्चिरादिगतिप्रतिपादनस्यापि तदर्थत्वात् । ज्ञानेन अज्ञाननिवृत्तौ ब्रह्मीभावस्य सर्वत्र संभवेन तदर्थं गत्यनपेक्षणात् । न च अज्ञाननिवृत्यर्थं गत्यपेक्षा । अधिष्ठानतत्वसाक्षात्कारस्यैव अज्ञानविरोधित्वोपगमात् । निवृत्ताज्ञानस्यैव गत्युक्तेश्च । अत एव ज्ञानोत्पत्यर्थं देशांतरगत्यपेक्षेति निरस्तम् । इहापि वैदांतेन तत्वज्ञानसंपादनसंभवात् । निष्पन्नतत्वज्ञानस्यैव गत्युक्तेश्च । अन्यथा अत्रेदानीं श्रवणादौ कस्यापि प्रवृत्तिर्न स्यात् । न चेदानींतनश्रवणादिकं कालक्षेपार्थं न ज्ञानार्थमिति युक्तम् । अनुभवविरोधात् । ज्ञानार्थत्वेऽपि कालक्षेपार्थत्वोपपत्तेश्च । तस्मात् अर्चिरादिगतिः ब्रह्मप्राप्त्यर्थैवेऽति मोक्षेऽपि जीवब्रह्मभेदो दुर्वारः ।

ननु ब्रह्मप्राप्त्यर्थं अर्चिरादिगतिप्रतिपादनमित्यसंगतम् । तस्य सर्वगतत्वेन नित्यप्राप्तत्वात् । देशविशेषावच्छेदेन प्राप्यत्वस्य अकल्पनीयत्वात् वैयर्थ्यादिति चेत् । भ्रांतोऽसि । न हि वयं ब्रह्मणो देशविशेषावच्छेदेन प्राप्यत्वं कल्पयामः । येन वैयर्थ्यं स्यात् । किंतुश्रुतिस्मृतिभिः प्रतिपन्नं तत् न त्यागार्हमिति ब्रूमः । तथा च श्रुतिस्मृतयः “स एनान् ब्रह्म गमयति” (छां.5-10-2) “व्यपोह्य शीर्षकपाले भूरित्यग्नौ प्रतितिष्ठति” “तयोर्ध्वमायन् अमृतत्वमेति” (कठ.2-6-16) “सूर्यद्वारेण ते विरजाः प्रयांति” (प्र.मुं.खं.2 मं.12) स एतं देवयानं पंथानमापद्य अग्निलोकमागच्छति स वायुलोकं स वरुणलोकं स आदित्यलोकं स इन्द्रलोकं स प्रजापतिलोकं स ब्रह्मलोकं ब्रह्मालंकारेणालंकृतो ब्रह्म विद्वान् ब्रह्मवाभिप्रैति, (कौषीतकी 1-3-4) ऊर्ध्वमेकस्थितस्तेषां यो हित्वा सूर्यमंडलम् । ब्रह्मलोकमतिक्रम्य तेन याति परां गतिं “अग्निज्योतिरहः शुक्लः षण्मासा उत्तरायणम् । तत्र प्रयाता गच्छंति ब्रह्म ब्रह्मविदो जनाः” (भ.गी.अ.8,श्लो.24,25) इत्यादिकः । न च उदाहृतश्रुतिस्मृतीनां विद्वत्प्रशंसापरत्वमिति युक्तम् । यथाश्रुतार्थपरत्वे बाधकाभावात् । अन्यथा वेदार्थमात्रत्यागापातात् । विशेषहेत्वभावात् । ननु तत्तलोकावच्छिन्नं ब्रह्म प्राप्यमिति ब्रह्मप्राप्तिः नैकाकारा इति चेत् । किं कुर्मः । प्रमाणसिद्धार्थत्यागायोगात् । तथा च पुराणवचनानि ।

“आत्मेत्येव परं देवं उपास्य हरिमव्ययम् ।
केचिदत्रैव मुच्यंते नोत्क्रामंति कदाचन ॥
अत्रैव च स्थितिस्तेषां अंतरिक्षे तु केचन ।
केचित् स्वर्गे महर्लोके जने तपसि चापरे ॥
केचित् सत्ये महाज्ञानाः गच्छंति क्षीरसागरम् ।
तत्रापि क्रमयोगेन ज्ञानाधिक्यात् समीपगाः ॥” गारुडे ॥

सालोक्यं च सरूपत्वं सामीप्यं योग एव च ॥ इति । तत्र सालोक्यं समानलोकत्वं विष्णुलोकनिवासः । सामीप्यं विष्णुसमीपे वर्तमानत्वम् । तत्सरूपत्वं चतुर्भुजादिरूपतत्सादृश्यम् । योगः सायुज्यं तत्तु विष्णुदेहं प्रविश्य वर्तमानत्वमिति विवेकः ।

ननु विष्णुलोकः किं अनित्यो नित्यो वा । नाद्यः । अनित्यलोकस्य मुक्ताप्राप्यत्वायोगात् । मुक्तेः नित्यपुरुषार्थत्वोपगमात् । न द्वितीयः । नित्यलोकसद्भावे प्रमाणाभावात् । इति चेन्न । श्रुतीनामेव तत्र प्रमाणत्वात् । तथाहि–“अश्व इव रोमाणि विधूय पापं चन्द्र इव राहोर्मुखात् प्रमुच्य धूत्वा शरीरं अकृतं कृतात्मा ब्रह्मलोकं अभिसंभवामि” (छां.8-13-1) इति श्रुतिः तावत्तत्र प्रमाणम् । तत्र अकृतमिति ब्रह्मलोकविशेषणम् । तस्य नित्यत्वप्रतिपादनार्थम् । न च शरीरविशेषणं तदिति युक्तम् । तस्य कृतत्वेन ब्रह्मलोकविशेषणत्वस्यैव युक्तत्वात् । न च ब्रह्मैव लोकः ब्रह्मलोकः इत्यर्थाश्रयणेन विवक्षितार्थसिद्धिरिति युक्तम् । प्रजापतेः सभां वेश्म प्रपद्ये इत्यत्रैव उत्तरत्र श्रवणेन ब्रह्मणो लोको ब्रह्मलोक इति षष्टीतत्पुरुषस्य अंगीकर्तव्यत्वात् । न च ब्रह्मणः चतुर्मुखस्य लोकः इति तदर्थः । प्रजापतेः सभां वेश्म इत्यत्रैव विशेषितत्वात् इति वाच्यम् । तस्य जन्यत्वेन अकृतत्वविशेषणायोगात् । प्रजानां पतिः प्रजापतिरिति योगेन प्रजापतिशब्दस्य विष्णुपरत्वसंभवाच्च । एवं “यो ह वा एतामेवं वेद अपहत्य पाप्मानं अनन्ते स्वर्गे लोके ज्येये प्रतितिष्ठति” (केन उ.खं.4,मं.9) इति नित्यलोकः श्रूयते । अत्र स्वर्गलोकशब्दो न प्रसिद्धस्यर्गलोकपरः तस्य अंतवत्वात् । प्राधान्येन तस्य मुक्तप्राप्यत्वायोगाच्च । किंतु वैकुण्ठलोकपरः तथा च अरण्यपर्वणि आर्ष्टिषेणवचनम् ।

“यमाहुः सर्वभूतानां प्रकृतेः प्रकृतिं धृवाम् ।
अनादिनिधनं देवं प्रभुं नारायणं परम् ॥
ब्रह्मणः सदनात्तस्य परं स्थानं प्रकाशते ।
देवा अपि यन्न पश्यंति दिव्यं तेजोमयं शिवम् ।
अत्यर्कानलदीप्तं तत् स्थानं विष्णोर्महात्मनः ॥
स्वयैव प्रभया राजन् दुस्प्रक्ष्यं देवदानवैः ।
यतयस्तत्र गच्छंति देवं नारायणं हरिम् ॥
परेण तपसा युक्ताः भाविताः कर्मभिः शुभैः ।
योगसिद्धा महात्मानः तमोमोहविवर्जिताः ॥
तत्र गत्वा पुनर्नेमं लोकमायांति भारत ।
स्थानमेतन्महाराज धृवमक्षयमव्ययम् ॥
ईश्वरस्य सदस्येतत् प्राणमात्रं युधिष्ठिर ॥” इत्यादि ॥

तथा मोक्षधर्मेः–

“प्राप्य तत् परमं स्थानं मोदन्तेऽक्षरमव्ययम् ॥” इति ॥
“ततोऽव्ययं स्थानमुपेत्य ब्रह्म दुष्प्राप्यमभ्येति तत् शाश्वतं वै ।” इति च ।

तथा मौसले “देवाः–दिव्यं स्थानमजरं चाप्रमेयं दुर्विज्ञेयं चागमैः गम्यमद्य । गच्छ प्रभो रक्ष चास्मान् प्रपन्नान् कल्पे कल्पे जायमानः स्वमूर्त्याः” ॥ इति ॥

तथा विष्णुपुराणे–

योगिनाममृतं स्थानं तद्विष्णोः परमं पदम् ।
एकांतिनः सदा ब्रह्म ध्यायिनो योगिनो हि ये ॥
तेषां तत् परमं स्थानं यत्प्रपश्यंति सूरयः ॥ इति ॥

मुद्गलोपाख्याने च–

“ब्रह्मणः सदनादूर्ध्वं तद्विष्णोः परमं पदम् ।” इति ।

ननु अर्चिरादिगतिप्राप्यो लोकः चतुर्मुखलोकः एवास्तु । तथाहि कौषीतकीनां उपनिषदि (अ.1 मन्त्र 3) “स एतं देवयानं पन्थानमापद्य अग्निलोकमागच्छति स वायुलोकं स आदित्यलोकं स वरुणलोकं स इन्द्रलोकं स प्रजापतिलोकं स ब्रह्मलोकं” इत्युक्तो ब्रह्मलोकः चतुर्मुखलोक एव । विजरानदील्योवृक्षः सालज्यं इत्यादिना नदीवृक्षादीनां अनित्यपदार्थानां प्रतिपादनात् । नित्यलोके तदभावात् । “तस्मिन् ब्रह्मास्ते तमित्थंवित् पादेनैव अग्र आरोहति । तं ब्रह्मा पृच्छति कोऽसीति । तं प्रतिब्रूयात् (कौषी.अ.1 मं.5) “ऋतुरस्म्यार्तवोस्म्याकाशाद्योनेः” इति (अ.1 ख.6) “पुल्लिंगब्रह्मशब्देन तस्य प्रतिपादनात् ।” तेजोभूतस्य भूतस्य भूतस्य भूतस्यात्मा, त्वमात्मासि यस्त्वमसि सोऽहमस्मीकि । सत्यमिति ब्रूयादित्यादिना (कौषी.अ.1 ख.6) तल्लोकंगतस्य ब्रह्मात्मविषयप्रश्नोत्तरयोः दर्शनाच्च । न हि मुक्तौ स्वात्मविषयप्रश्नः तदुत्तरं युज्यते । तस्मात् ब्रह्मलोकः सत्यलोक एव । न चैवं प्रजपतिलोकम् इत्यनेन पुनरुक्तिः इति युक्तम् ।

“नारायणात् ब्रह्मा जायते । नारायणात् रुद्रो जायते । नारायणात् प्रजापतिः प्रजायते । त्वं रुद्रः, त्वं ब्रह्मा, त्वं प्रजापतिः (नारायणोपनिषत्) इत्यादाविव प्रजापतिशब्दस्य अर्थातरपरत्वाभ्युपगमेन पुनरुक्त्यभावात् । एवं “तत्पुरुषो मानवः” “स एनान् ब्रह्मगमयति” (छां.4-15-5,5-10-2) “एष देवयानः पंथाः” तत्पुरुषो मानवः, स एनान् ब्रह्म गमयति एष देवपथो ब्रह्मपथः (छां.4-15-5) एतेन प्रतिपद्यमानाः इमं मानवमावर्तं नावर्तंत इति छांदोग्ये (4-15-5) पञ्चाग्निविद्यायां उपकोसलविद्यायां च प्रतिपाद्यमानं अर्चिरादिप्राप्यकार्यब्रह्मैव न परं ब्रह्म कौषीतकिवाक्यानुसारात् । “पुरुषो मानव एत्य ब्रह्मलोकान् गमयति तेषु ब्रह्मलोकेषु परावंतो वसंति । तेषां न पुनरावृत्तिरिति” बृहदारण्यकोक्तपंचाग्निविद्यायां ब्रह्मणः परमायुः- पर्यंतं स्पष्टमेव ब्रह्मलोकवासः प्रतिपाद्यते । न चैवं पुनरावृत्तिप्रतिपादनायोगः ॥ ब्रह्मणा सह तल्लोकं गतानामुपासकानां मुक्तेरभ्युपगमेनापुनरावृत्युपपत्तेः । तथा च श्रुतिस्मृती ।

`ते ब्रह्मलोके तु परांतकाले परामृतात् परिमुच्यंति सर्वे ।’ ब्रह्मणासह ते सर्वे संप्राप्ते परिसंचरे । परस्यांते कृतात्मानः प्रविशंति परं पदं (स्मृतिः) इति । यदा वै पुरुषोऽस्मात् लोकात् प्रैति वायुमागच्छति । स आदित्यमागच्छति । स चंद्रमसमागच्छति स लोकमागच्छत्यशोकमहिमं तस्मिन् वसति शाश्वतीः समाः ॥ इति बृहदाराण्यकवाक्यमप्येवं परम् । न च शाश्वतीरित्यनुपपन्नम् । बहुकालावस्थायित्वेऽपि तदुपपत्तेः । ब्रह्मलोकेऽपि दुःखाभावेनाशोकमहिममिति विशेषणोपपत्तेश्च । यथा पादोदरस्त्वचा विनिर्मुच्यते । एवं ह वै स पाप्मना विनिर्मुक्तः स सामभिरुन्नीयते ब्रह्मलोकमिति प्रश्नोपनिषदि श्रूयमाणो ब्रह्मलोकोऽपि चतुर्भुखलोक एव । स एतस्मात् जीवघनात् परात्परं पुरिशयं पुरुषमीक्षते इत्यव्यवहितोत्तरवाक्येन जीवघनशब्दितचतुर्मुखोपदेशादुपासकस्य परब्रह्मसाक्षात्कारप्रतिपादनात् । न च ओमित्येतेनैवाक्षरेण परं पुरुषमभिध्यायीतेति ध्यानविषयस्य ब्रह्मलोकमित्यत्र ब्रह्मशब्दार्थत्वं युक्तम् । ध्यानेक्षणप्राप्तीनामेकनिष्ठत्वावश्यंभावादिति वाच्यम् । परब्रह्मणः परमप्राप्यत्वेऽपि सूर्यादीनामिव मध्ये चतुर्मुखस्याप्युपासकप्राप्यत्वाभ्युपगमे विरोधाभावात् । `अकृतं कृतात्मा ब्रह्मलोकमभिसंभवामि’ इति छांदोग्यवाक्यमपि चतुर्मुखलोकपरं प्रजापतेः सभां वेश्म प्रपद्य’ इत्युत्तरत्र ब्रह्मलोकस्य विशेषितत्वात् । प्रजापतिशब्दस्य चतुर्मुखवाचित्वात् । शब्दशक्तिमहिम्नैव सर्वव्यवस्थाया अभ्युपेयत्वात् । अन्यथा विष्णवादिशब्दानामपि अर्थांतरपरत्वापत्या त्वदिष्टार्थासिद्धिः । स खल्वेवं वर्तयन् यावदायुषं ब्रह्मलोकमभिसंबद्यते । न च पुनरावर्तते इत्युत्तरवाक्यमपि चतुर्मुखलोकपरतया नेयम् । न च `आब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन’ इति चतुर्मुखलोकंगतानां पुनरावृत्तिपादनात् तस्यानित्यत्वेनाकृतत्वविशेषणायोगाच्च कथं उदाहृतश्रुतीनां चतुर्मुखलोकपरत्वमिति वाच्यम् । `षड्गुणेन तपोलोकात् सत्यलोके विराजते । अपुनर्मारको यत्र ब्रह्मलोको हि स स्मृतः ।’ `पादगम्यं तु यत्किंचित् वस्त्वस्ति पृथिवीमयम् । स भूलोकः समाख्यातो विस्तरोऽस्य मयोदितः’ । भूमिसूर्यांतरं यच्च सिद्धादिमुनिसेवितम् । भुवर्लोकस्तु सोऽप्युक्तो द्वितीयो मुनिसत्तम । ध्रुवसूर्यांतरं यच्च नियुतानि चतुर्दश । स्वर्लोकः सोऽपि गदितो लोकसंस्थानचिंतकैः । त्रलोक्यमेतत्कृतकं मैत्रेय परिपठ्यते । जनस्तपस्थथासत्यमिति चाकृतकं त्रयम् । कृतकाकृतयोर्मध्ये महर्लोक इति स्मृतः । शून्यो भवति कल्पांते योऽत्यंतं न विनश्यति । एते सप्त मया लोका मैत्रेय कथितास्तव । पातालानि च सप्तैव ब्रह्मांडस्यैष विस्तरः’ ॥ इत्यादिभिः क्षीविष्णुपुराणवचनैः (2 अं.7अ.श्लो.15-21) चतुर्मुखलोकं प्राप्तानामपुनरावृत्तेस्तल्लोकस्याकृतकत्वस्यचोक्तेः । न च गीतावचनविरोधः । तस्य मेरूपरिविद्यमानब्रह्मभवनविषयत्वात् । तस्य च कर्मप्राप्यत्वेन पुनरावृत्युपपत्तेः । तथा च श्रीविष्णुपुराणवचनम् ।

चतुर्दशसहस्राणि योजनानां महापुरी ।
मेरोरुपरि मैत्रेय ब्रह्मणः प्रथिता दिवि ॥ इति ।
(अं.2 अ.2 श्लो.30)

अकृतत्वमपि न नित्यत्वरूपम् । किंत्वाभूतसंप्लवावस्थायित्वरूपम् । `आभूतसंप्लवं स्थानपमृतत्वं हि भाष्यते इत्यादिवचनात् । एवं यो वा एतामेवं वेदापहत्य पाप्मानमनन्ते (तलवकार) स्वर्गे लोके ज्येये प्रतितिष्ठतीति तलवकारश्रुतावपि स्वर्गलोकश्चतुर्मुखलोक एव प्रसिद्धस्वर्गलोको वा । न ह्यत्र ब्रह्मज्ञानफलतया स्वर्गलोकप्राप्तिरुक्ता । किंतु `ब्राह्मीं वाव त उपनिषदमब्रूम’ इत्युपपनिषदमुपक्रम्य `तस्यै तपो दमः कर्मेति प्रतिष्ठा वेदाः सर्वांगानि सत्यमायतनं यो वा एतामेवं वेद’ इत्युपनिषदिति तपः प्रभृतीति प्रतिष्ठात्वौपासनफलतया च न विरोधः । `अस्मात् शरीरभेदादूर्ध्वं उत्क्रम्यामुष्मिन् स्वर्गे लोके सर्वान् कामानाप्त्वाऽऽमृतः समभवत् इत्यैतरेयवाक्यमपि क्रममुक्तिपरम् । एवं मुक्तस्य गतिप्रतिपादकश्रुत्यंतराण्यपि नैयानि । मुक्तस्य गतिनिषेधपूर्वकमत्रैव मुक्त्युक्तेः । तथा च श्रुतिः । `अथाकामयमानो योऽकामो निष्काम आप्तकामः आत्मकामो न तस्य प्राणा उत्क्रामन्ति, ब्रह्मैव सन् ब्रह्माप्येति उदस्मात्प्राण उत्कामन्तीत्याहो नेति नेति होवाचयाज्ञवल्क्यः । अत्रैव समवलीयन्ते यदा सर्वे प्रमुच्यंते कामा येऽस्या हृदि श्रिताः । अथ मृर्त्योऽमृतो भवति अत्र ब्रह्म समश्नुत इत्यादिका बृहदारण्यके प्रसिद्धैव । तथोत्तरतापनीयेऽपि तस्मादात्मानमेवैवं जानीयात् आत्मैव नृसिंहो देवो । परमेव ब्रह्म भवति य एवं वेद । सोऽकामो निष्कामः आप्तकामः आत्मकामो न तस्य प्राणा उत्कामंति, अत्रैव समवनीयंते ब्रह्मैव सन् ब्रह्माप्येति य एवं वेदेतीति ह प्रजापतिरुवाचेति (नृ.उ.ता.उ) गतिनिषेधः प्रतिपादितः । न च प्राणांनामेव गतिनिषेधः श्रुतः । न तु मुक्तात्मन इति युक्तम् । मुक्तात्मगत्यभावप्रतिपत्यर्थतयैव तदुक्तेः । अन्यथा तद्वैयर्थ्यात् ।

किंच `अथातोऽनुप्रश्नाः’ उताविद्वानमुंलोकं प्रेत्य कश्चन गच्छति आहो विद्वानमुं लोकं प्रेत्य कश्चित् समश्नुता उ इति श्रुतौ मुक्तस्य गत्यभावपक्ष एव स्वीकृत इति गम्यते । तस्यैवाव्यवहितत्वात् । प्रथमपक्षस्य व्यवहितत्वेनांगीकारार्थकोकारविषयत्वायोगात् । ऊइति दीर्घस्य अथासपत्नान् गच्छतीत्यादाविव छांदसत्वेन प्रथमप्रश्नस्यापि विद्वद्विषयत्वात् । यदाह्येवैष एतस्मिन्नदृश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभयं प्रतिष्ठां विंदते । अथ सोऽभयं गतो भवतीत्युत्तरत्र द्वितीय प्रश्नविषयस्यैवोपपादनात् । तत्र ज्ञानमोक्षयोरेककालीनत्वप्रतिपादनात् । अथशब्दस्य तदेत्यर्थपरत्वात् । `स एवं विदस्माल्लोकाप्रेत्य’ इत्यादेर्व्यवहितत्वेनोक्तपश्नोत्तरत्वायोगाच्च । त्वयाष्यत्रैव “केचिन्मुच्यन्ते नोत्क्रामन्ति कदाचने” ति वदता अनुत्क्रान्तिपक्षस्याप्यभ्युपगमाच्च । एवं भारतवचनेऽपि मुक्तप्राप्यस्य विष्णुलोकस्य बहुकालावस्थायित्वमेव प्रतिपाद्यत इति न तैरपि मुक्तप्राप्यनित्यलोकसिद्धिरङ्गीकार्येति ।

किं च त्वयाऽपि स एनान् ब्रह्म गमयतीत्यादौ ज्ञानिप्राप्यं ब्रह्महिरण्यगर्भोऽपीत्यङ्गीकारेण सर्वत्रापि चतुर्मुखस्यैवार्चिरादिगतिप्राप्यंत्वमस्तु । अर्धजरत्याश्रयणायोगात् । `कार्यं बादरिरस्य गत्युपपत्तेः’ (ब्र.सू.4-3-7) इति सूत्रे `अप्रतीकालम्बनान्नयतीति बादरायणः उभयथा च दोषात् तत्क्रतुश्च’ (ब्र.सू.4-3-15) इति सूत्रे च चतुर्मुखस्यार्चिरादिगतिप्राप्यत्वसमर्थनात् । तस्मान्मुक्तस्य गतिप्रतिपादकं शास्त्रं सर्वमपीदं मुक्त्यभिप्रायमिति न किञ्चिदनुपपन्नमिति ।

अत्रोच्यते । अर्चिरादिगतिप्राप्यो लोकश्चतुर्मुखलोक इति नाङ्गीकार्यम् । तलवकारसाम्नि सप्तमो ब्रह्मलोक इत्युपक्रम्य प्रवृत्तेः । `इतः परस्मात् पर उत्तरस्मात्, परस्तृतीयादथ वा चतुर्थात् । सहस्रस्थूणेविमिते दृढ अग्रे यत्र देवानामधि देव आस्ते इति चतुर्मुखलोकात् तस्य परत्वश्रवणात् । याज्ञवल्क्यस्मृतौ ॥

ऊर्ध्वं मे कः स्थितस्तेषां यो भित्वा सूर्यमण्डलम् ।
ब्रह्मलोकमतिक्रम्य तेन याति परां गतिम् ॥

इति मुक्तस्य ब्रह्मलोकातिक्रमोक्तेः । ब्रह्मणः सदनात्तस्य परं स्थानं प्रकाशते । देवा अपि यन्न पश्यन्ति दिव्यतेजोमयं शिवम् । अत्यर्कानलदीप्तं तत् स्थानं विष्णोर्महात्मनः ॥ इत्यारण्यपर्वणि ।

ब्रह्मणः सदनादूर्ध्वं तद्विष्णोः परमं पदम् ।
—इति मुद्गलोपाख्याने च ॥

भुक्तप्राप्यविष्णुलोकस्य चतुर्मुखलोकात्परत्वोक्तेश्च ।

`आब्रह्मभुवनाल्लोकाः पुनरावृत्तिनोऽर्जुन ।
मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते ॥’
(भ.गी.अ.8,श्लो 16)

इति चतुर्मुखलोकं प्राप्तानां पुनरावृत्तिप्रतिपादनात् अर्चिरादिप्राप्यलोकस्यापुनरावृत्तिप्रतिपादनेन च भिन्नत्वावश्यम्भावाच्च । आङोऽभिविध्यर्थत्वे अनन्यथासिद्धप्रमाणाभावेन मर्यादार्थत्वस्यैवाङ्गीकर्तव्यत्वाच्च । न च महामेरुस्थितब्रह्मभवनविषयं गीतावचनमिति युक्तम् । तथा सङ्कोचे कारणाभावात् । ननु विष्णुलोकस्य ब्रह्मलोकात्परत्वाङ्गीकारे विष्णुपुराणवचनविरोधः ।

तत्र–

“ऊर्ध्वोत्तरं ऋषिभ्यस्तु ध्रुवो यत्र व्यवस्थितः ।
एतद्विष्णुपदं दिव्यं तृतीयं व्योम्नि भास्वरम् ॥
(निर्धूत) निरुद्धदोषपङ्कानां यतीनां संयतात्मनाम् ।
स्थानं तत्परमं विप्र पुण्यपापरिक्षये ॥
अपुण्यपुण्योपरमे क्षीणाशेषार्तिहेतवः ।
यत्र गत्वा न शोचन्ति तद्विष्णोः परमं पदम् ॥
दिवीव चक्षुराततं योगिनां तन्मयात्मनाम् ।
विवेकज्ञानदृष्टं च तद्विष्णोः परमं पदम् ॥
धर्मध्रुवाद्यास्तिष्ठन्ति यत्र ते लोकसाक्षिणः ।
तत्साष्टर्योत्पन्नयोगेद्धाः तद्विष्णोः परमं पदम् ॥
यत्रोतमेततप्रोतं च यद्भूतं सचराचरम् ।
भाव्यं च विश्वं मैत्रेय तद्विष्णोः परमं पदम् ॥
यस्मिन् प्रतिष्ठितो भास्वान् मेधीभूतस्त्वयं ध्रुवः ॥

इत्यादिना सप्तर्षिमण्डलादूर्ध्वं यत्र ध्रुव उपस्थितस्तत्रैव विष्णुलोकस्योक्तिरिति चेन्न । तस्य लोकस्य ध्रुवप्रीत्यर्थं विष्णुना कल्पितत्वेन अर्चिरादिप्राप्यविष्णुलोकान्यत्वात् । “ब्रह्मणः सदनादूर्ध्वं तद्विष्णोः परमं पदम्” इति भारतवचनस्यैव तथा कल्पकत्वात् । अन्यथा तद्विरोधापत्तेः । न च विष्णुलोकस्यापि कार्यत्वमिति शङ्क्यम् । पूर्वोदाहृतभारतवचनेन तन्नित्यत्वसिद्धेः । न च बहुकालावस्थितत्वरूपमेव तन्नित्यत्वमिति युक्तम् । मुख्यनित्यत्वाङ्गीकारे बाधकाभावात् । अन्यथा आत्मादिनित्यत्वमपि तथा स्यात् । न च कृतहानादिप्रसङ्गेन आत्मादिनित्यत्वं मुख्यं लोकविशेषस्य नित्यत्वानङ्गीकारे च न किमपि बाधकमिति वाच्यम् । विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति’ इत्यादिश्रुत्याऽऽत्मविनाशस्य प्रतिपन्नत्वेन कृतहानादिप्रसङ्गस्य सह्यत्वादविनाशी वा अरेऽयमात्मेत्याद्युत्तरवाक्यानुसारात् `न जीवो म्रियते’ इत्यादिवाक्यान्तरानुसाराच्च विनाशित्वप्रतिपादनमन्याभिप्रायमिति चेत् । भ्रान्तोऽसि । लोकविशेषस्य नित्यत्वप्रतिपादनवत् आत्मनित्यत्व प्रतिपादनस्यापि बहुकालावस्थायित्वरूपगौणनित्यत्वप्रतिपादनपरत्वमस्त्विति वदन्तं प्रति तथोक्त्ययोगात् । प्रत्युत मुक्तप्राप्ये लोके अनित्यत्वसाधकमानाभावेन मुख्यनित्यत्वस्यैवाभ्युपगन्तव्यत्वाच्च । न च लोकत्वादिहेतुना तदनित्यत्वसिद्धिः । तदसिद्धावाश्रयासिद्धेः । तत्सिद्धौ च बाधात् । तस्योदाहृतश्रुतिस्मृतिभिर्नित्यत्वेनैव सिद्धेः । अन्यथा आत्मादेरपि ज्ञेयत्वादिना अनित्यत्वजडत्वादिकमपि स्यादिति यत्किञ्चिदेतत् ।

किं चार्तिरादिगतिप्राप्यो लोकश्चतुर्मुखलोक इति कुतोऽभ्युपगम्यते । किं परब्रह्मणः सर्वगतत्वेन नित्यप्राप्तत्वेन गत्यनपेक्षत्वात् । किं वा मुक्तस्य गतिनिषेधात् । यद्वा ब्रह्मीभावस्यैव मुक्तितया तत्सिद्ध्ये गत्यनपेक्षणात् । अथवोक्तात्सर्वस्मादपि । नाद्यः । परब्रह्मणः सर्वगतत्वेऽपि शास्त्रबलेन देशविशेषावच्छेदेन ततत्प्राप्तेरभ्युपेयत्वात् । अन्यथा तत्प्रतिपादनवैयर्थ्यस्योक्तत्वात् । न द्वितीयः । मुक्तौ साक्षाद्गतिनिवषेधकवाक्यस्यादर्शनात् । “यत्रायं पुरुषो म्रियते उदस्मात् प्राणा उत्क्रामन्ति आहो नेति नेति होवाच याज्ञवल्क्योऽत्रैव समवनीयन्ते इत्यार्तभागप्रश्नोत्तरस्याविद्वद्विषयत्वेन तत्र प्रश्नोत्तरयोः प्राणनिष्क्रमणनिषेधसिद्धजीवावाधिकाभिप्रायत्वात् । जीवस्य प्राणानां च सहोत्क्रमणप्रतिपादनपरत्वाच्च । तथा च श्रुतिः । “तमुत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्ति न तस्य प्राणा उत्क्रामन्ति ब्रह्मैव सन् ब्रह्माप्येति” इति (काण्व ?) जनकयाज्ञवक्ल्यसंवादस्य विद्वद्विषयत्वेऽपि न तस्मात्प्राणा उत्क्रामन्तीति माध्यन्दिनपाठानुसारेण प्राणोत्क्रमणनिषेधपरस्य जीवावधिकत्वविषयत्वकल्पनात् । “नामरूपादिमुक्तः । परात्परं पुरुषमुपैति दिव्यमिति श्रुत्यंतरानुसारेण तथैव कल्पनीयत्वात् । न चैवं यदा सर्वे प्रमुच्यंते कामा येऽस्य हृदि स्थिताः । अथ मर्त्योऽमृतो भवति अत्र ब्रह्म समश्नुते (कण्ठक. 2-3-14) इत्युत्तरवाक्यविरोध इति वाच्यम् । तस्योपासनकालीनगौणांमृतत्वरूपब्रह्मानुभवप्रतिपादनपरत्वेन विरोधाभावात् । त्वयापि कर्तृकर्मविरोधेन तथैवाभ्युपगंतव्यत्वात् । एतेन न तस्य प्राणा उत्क्रामन्तीति उत्तरतापनीय वाक्यमपि व्याख्यातम् । उताविद्वानमुं लोकं प्रेत्येति तैत्तिरीयेऽपि प्रश्नस्य मोक्षे आनंदानुभवतदभावविषयत्वेन गतितदभावाविषयत्वात् । रसं ह्येवायं लब्ध्वानन्दीभवति एषह्येवानन्दयातीत्यानंदानुभवस्य प्रतिपादनात् । तस्मान्नमुक्तस्य क्वापि गतिनिषेधः ।

नापि तृतीयः । जीवस्य ब्रह्मीभावो मोक्ष इत्यस्य पूर्वमेव दूषितत्वात् । अत एव न चतुर्थोऽपि । तस्मादनुपपत्यभावादर्चिरादिगति प्राप्यो लोकोऽनित्याच्चतुर्मुखलोकात् भिन्नो नित्यस्चाभ्युपगंतव्यः । अस्तु वा मुक्तानां गतिनिषेधः । “अत्रैव केचिन्मुच्यन्ते नोत्क्कामंति कदाचनेति” (गरुडपुराणे) तथाविधानां मुक्तानां अस्माभिरंगीकारादिति ।

किं च कौषीतकीनामुपनिषदि `स एष विसुकृतो विदुष्कृतो ब्रह्मविद्वान् ब्रह्मैवाभिप्रेति’ इत्यर्चिरादिगतिप्राप्ये ब्रह्मणि नपुंसकब्रह्मशब्दोऽपि श्रुत इति न तस्य चतुर्मुखरूपत्वम् । विरजां, नदीं, इति ईल्यवृक्षादीनां प्रतिपादनेऽपि न कश्चिद्दोषः । एतेषामत्यंतविलक्षणत्वात् । मानांतरविरोधाभावे शास्त्रसिद्धस्यार्थस्य सर्वस्याप्यंगीकार्यत्वात् ।

कावेरी विरजातोयं वैकुण्ठं रंगमंदिरम् ।
स वासुदेवो रंगेशः प्रत्यक्षं परमं पदम् ॥

इति कावेर्यादेर्विरजातोयत्वादिना निरूपणदर्शनाच्च । अन्यथा चतुर्दशभुवनांडतब्दहिरावरणादीनामप्यनंगीकार्यत्वं स्यात् । एवं छांदोग्यबृहदारण्यकादिगतान्यार्चिरादिगतिप्रतिपादकवाक्यांतराण्यपि नित्यविष्णुलोकप्रतिपादनपराणीति स्थितम् । तस्माच्चतुर्मुखशिवलोकाद्यपेक्षयाप्यूर्ध्वं विद्यमानः शाश्वतो विष्णुलोक एव मुक्तप्राप्य इति स्थितम् ।

ननु शिवधर्मोत्तरादिषु,
ज्ञेयं विष्णुपदादूर्ध्वं दिव्यं शिवपदं महत् ।
भोगसंस्थानमतुलं कर्मयोगरतात्मनाम् ॥

इति विष्णुपदादूर्ध्वं कर्मप्राप्यं शिवलोकमुक्त्वा,

`ऊर्ध्वं शिवपुरात् ज्ञेयं स्थानत्रयमनुत्तमम् ।
नित्यं परमशुद्धं च स्कंदोमाशंकरात्मकम् ॥
ये संप्राप्ताः परं स्थानं ध्यानयोगरता नराः ।
न तेषां पुनरावृत्तिर्घोरे संसारमण्डले ॥

इत्यादिना विष्णुलोकस्य कर्मप्राप्यशिवलोकादधस्तनत्वस्य सर्वोत्तमपरमशिवलोकस्यैव मुक्तप्राप्यत्वस्य च प्रतिपादनात् कथं विष्णुलोकस्य परमत्वमुपपद्यते । तदपेक्षया परस्य शिवलोकस्य मुक्तप्राप्यत्वेऽपि न दोषः । ततः परस्य वैकुंठस्यापि मुक्तप्राप्यत्वोपपत्तेः । न चैवं विरोधः । क्रमेण तदुभयोपपत्तेरिति चेन्न । चतुर्मुखलोके मुक्तप्राप्यत्वस्यापुनरावृत्तिश्चैवमेवाभ्युपगंतव्यत्वात् । न च विष्णुलोकप्राप्त्यनंतरं शिवलोकप्राप्तिरिति वैपरीत्यं शंक्यम् । शिवापेक्षया विष्णोरेवोत्कृष्टत्वस्य पूर्वमेव प्रतिपादितत्वेन तथाविधशंकानुदयात् ।

`सायुज्यानां विशिष्टे द्वे मामकं वैष्णावं तथा ।
मां प्राप्य न निवर्तंते विष्णुं वा शुभलोचने ॥

इति भारतवचनमपि असमादभिमतक्रमप्राप्तिपरम् । तत्र पाठक्रेमानुसारेयण पूर्वं शिवलोकप्राप्तिरनंतरं विष्णुलोकप्राप्तिरिति अर्थस्याश्रयणीयत्वात् । पाठक्रमस्यापि क्रमनियामकत्वात् । सति संभवे त्वागायोगात् । न हि प्रकृते पाठक्रमस्य त्यागे किंचित् बाधकमस्ति । तस्मात् विष्णुलोकस्यैव सर्वोत्तमत्वमर्चिरादिमार्गेण मुक्तप्राप्यत्वं चेति स्थितम् ।

ननु अर्चिरादिमार्गः श्रुतिष्वनेकधा श्रूयत इति तस्य ब्रह्मप्राप्तौ विकल्पस्स्यान्न च स युज्यते तस्याष्टदोषदृष्टत्वात् इति चेन्न । तत्र श्रुत्यर्थपाठाद्यनुसारेण गुणोपसंहारन्यायेन सर्वशाखाप्रत्ययन्यायेन अर्चिरादिमार्गस्य एकरूपत्वोपगमात् । एतावांस्तु भेदः । ज्वलनदिवसज्योत्स्नापक्षोत्तरायणवत्सरान् । पवनतपनप्रालेयांशून्यक्रमादचिरचितिं जलचरपतिं देवाधीशं प्रजापतिं आगतस्तरति विरजारेवाचस्ततः परमाद्भूतमित्येवं रूपः क्रमः परैरुपेयते अस्माभिस्तु “उत्क्रांतस्तुशरीरत्वात् गच्छत्यर्चिषमेवतु । ततो हि वायोः पुत्रं च योऽसौ नाम्नाऽऽतिवाहिकः । ततोऽहः पूर्वपक्षंचाप्युदक्रसंवत्सरं तथा । तटितं वरुणं चैव प्रजापं सूर्यमेव च । सोमं वैश्वानरं चेन्द्रं देवीं दिवं तथा । ततो वायुं परं प्राप्य तेनैति पुरुषोत्तमं” इति ब्रह्मतर्कवचनानुसारेण प्रकारान्तरेण अयमभ्युपगम्यते । युक्तं च तथा अस्मदभिमतक्रमस्य सर्वज्ञभगवद्व्यासप्रणीतब्रह्मतर्कवचनसिद्धत्वात् । अर्वाचीनपुरुषबुद्धिकल्पितमार्गंक्रमस्य त्याज्यत्वात् । तस्मादर्चिरादिमार्गेण ब्रह्मप्राप्तस्य मुक्तस्य स्वानंदानुभवमोक्षः । न तु निर्विशेषब्रह्मभाव इति स्थितम् ।

किं च निर्विशेषस्य ब्रह्मणः कथं जगत्कारणत्वं ज्ञानचिकीर्षाकृतीनां कर्तृत्वप्रयोजकत्वात् । निर्विशेषे तदभावात् ज्ञानचिकीर्षाकृतयः काल्पिताः संतीति चेन्न । कल्पनायास्तु सर्वत्र सुलभत्वेनातिप्रसंगात् । तेषां कल्पितत्वे “स्वाभाविकी ज्ञानबलक्रियाचेति श्रुत्या (श्वेताश्व अ.6 मं.8) धर्मिसमसत्ताकत्वरूपस्वाभाविकत्वोक्तिविरोधापाताच्च । ब्रह्मणः कर्तुत्वमिच्छता स्वसमानस्वभावाज्ञानचिकीर्षाकृत्यादिकं वक्तव्यमिति न तन्निर्विशेषत्वसिद्धिः । निर्विशेषत्वे च न कर्तृत्वसिद्धिः इत्युभयतः पाशारज्जुः । नचेश्वरस्य कर्तृत्वं निर्विशेषस्य तु उपादानत्वमिति वाच्यम् । अभिन्निमित्तोपादानं तद्ब्रह्मेति त्वन्मतहानेः वास्तवाभेदमादाय अभिन्ननिमित्तोपादानत्वव्यवहार इति चेन्न । त्वयैव प्रत्यधिकरणं वास्तवाभेदे विद्यमानेऽपि व्यावहारिकभेदमंगीकृत्यैव तत्तद्विषयवाक्यानां जीवातिरिक्ते ईश्वरं समन्वस्य अंगीकृतत्वेन अत्रापि व्यावहारिकव्यवस्थायाः अभ्युपेतत्वात् । अन्यथा सर्वसंकरापत्तेः । “जीवईशो विशुद्धा चिदिति” चैतन्यत्रैविध्यस्य प्रमाणसिद्धव्यवस्थाया अंगीकृतत्वेन तत्यागायोगात् । न च ईश्वरस्यैव कर्तृत्वं उपादानत्वं चेति वाच्यम् । निर्विशेषमेव ब्रह्म जगदुपादानमिति त्वन्मतहानेः । ईश्वरस्यापि त्वन्मते कल्पितत्वेन उपादानत्वायोगाच्च ।

किं च निर्विकारस्य ईश्वरस्य कथमुपादानत्वम् । तस्य कूटस्थनित्यत्वात् । न च मायाद्वारकं तस्योपादानत्वं न साक्षात्, एवं च न निर्विकारश्रुतिविरोध इति वाच्यम् । तथा सति मायाया एवोपादानत्वमुक्तं न तु तदविच्छिन्नब्रह्मणः । एवं च मायां तु प्रकृतिं विद्यात् इति श्रुतिरपि (श्वेताश्व.अ.4 मं.10) अनुकूलिता भवति ।

ननु शुद्धं ब्रह्मैव उपादानम् । न च निर्विकारश्रुतिविरोधः । वियदादिकार्यप्रपंचस्य मिथ्यात्वोपगमात् । कल्पितविकारस्य वास्तवनिर्विकारत्वाविरोधित्वात् । कल्पिपतस्य स्फटिकलौहित्यस्य (तच्छ्रुभ्रत्वाविरोधित्वदर्शनात्) वास्तवस्फटितस्वरूपविरोधादर्शनात् । एवं च ब्रह्मणो वियदादिकार्यात्मना विवर्तमानत्वेन उपादानत्वं युक्तम् । शुक्त्यादेः रजतात्मना विवर्तमानत्वदर्शनात् । न च परिणामविवर्तयोरभेदः । तात्विको अन्यथाभावः परिणामः अतात्विकः अन्यथाभावः विवर्त इति तयोर्भेदात् । वेदांतिभिः वियदादेः ब्रह्मविवर्तत्वस्यैव उपगमात् । अत एव वेदांतवादस्तु विवर्तवाद इति उद्धोषः । इति । मैवम् । ब्रह्माधीनोत्पत्तिस्थितिनाशस्य वियदादिप्रपंचस्य अतात्विकत्वाभ्युपगमस्य पारिभाषिकत्वात् अनित्यत्वपर्यवसन्नत्वाच्च । अतात्विकत्वे उत्पत्यादेः उत्पन्नत्वे च अतात्विकत्वस्यायोगाच्च । न च अतात्विकस्य शुक्तिरूप्यादेः उत्पत्यादिकमिव तथाभूतवियदादेरप्युत्पत्यादिकं युक्तमिति वाच्यम् । सिद्धमसिद्धेन बोधयतो महानैय्यायिकत्वमिति न्यायापातात् ।

किंच परमते शुक्तिरूप्यादिदृष्टांतेन जगन्मिथ्यात्वसाधनमनुपपन्नम् । उत्पत्तिस्थितिनाशादियुक्तस्य जगतो अत्यंतासतः शुक्तिरूप्यादेश्चात्यंतवैलक्षण्यात् । ननु शुक्तिरूप्यादिकं उत्पद्यते । तथाहि । इदं रजतमिति भ्रमस्थले प्रतीयमानं तावद्रजतं नासत् । असतोऽपरोक्षप्रतीतिविषयत्वस्य क्वाप्यनुपलंभात् । दोषमहिम्ना असतोप्यपरोक्षप्रमिति (प्रतीति) विषयत्वं युक्तमिति चेन्न । असतः कथमपरोक्षप्रमितिविषयत्वमिति वदंतं प्रति प्रमितकार्यकल्प्यदोषेण तदुपपादनायोगात् । न च बाधावतारदशायां नास्ति नासीत् न भविष्यतीति प्रतीत्या त्रिकालसर्वदेशीयनिषेधप्रतियोगित्वरूपासत्वस्य शुक्तिरूप्येऽवगाहनात् असदेव तत् रजतमिति वाच्यम् । तथा प्रतीतेः मिथ्याभूतानिर्वचनीयरजतोत्पत्याद्यबाधकत्वात् । प्रतिपन्नरजतेऽत्यंतासत्वानापादक त्वाच्च । अन्यथा त्वन्मते दर्पणे मुखं नास्ति नासीन्न भविष्यतीति प्रतीत्या तत्र प्रतिपन्नस्य मुखस्यात्यन्तासत्वं स्यात् । उत्पत्तिश्चनांगीकार्या स्यात् । एतावांस्तु विशेषः त्वया दर्पणे मुखमित्यादौ प्रतिबिम्बोत्पत्तिरंगीकृता । प्रतिबिम्बस्य सत्यत्वं चांगीकृतम् । माया तु इदं रजतमित्यत्र अनिर्वचनीयरजतोत्पत्तिरंगीकृता । त्वया दर्पणे मुखमित्यादौ प्रतिबिंबोत्पत्तिः अंगीकृता । रजतावयवादिरूपक्लृप्तरजतोत्पत्तिसाग्र्यभावे कथं रजतोत्पत्तिरिति शंका च प्रतिबिंबोत्पत्तिप्रतिबंद्या निरस्ता । तस्मात्प्रतिपन्नं शुक्तिरूप्यादिकं नासत् । नादि सत् । सतो बाधायोगात् । अस्य च बाधितत्वात् । न च देशांतरस्थमेव प्रतीयते इति युक्तम् । तस्य चक्षुरसन्निकृष्टत्वेन चाक्षुषज्ञानविषयत्वायोगात् । न च तत्र दोषः सन्निकर्षः । अक्लृप्तत्वात् । नापि ज्ञानलक्षणः सन्निकर्षः । अक्लृप्तत्वादेव अन्यथा व्यवहितवह्न्यादेरपि पर्वतादौ चाक्षुषत्वापातात् तदुक्तप्रकारेण प्रत्यक्षसामग्र्याः पुष्कलत्वात् न च तत्र अनुमितिसामग्र्या प्रत्यक्षसामग्र्याः प्रतिबंधः । स्थाणुपुरुषादिसंशयानंतरं करादिविशेषदर्शने सति पुरुषत्वाद्यनुमित्यापत्तेः तत्प्रत्यक्षानापत्तेश्च । न च अलौकिकप्रत्यक्षसामग्र्यपेक्षयैव अनुमितिसामग्री प्रबलेति नोक्तदोष इति वाच्यम् । भ्रमरूपविशेषदर्शनानंतरं शुक्तिरूप्यादिप्रत्यक्षानापत्तेः । तदनुमित्यापत्तेश्च । अलौकिकप्रत्यक्षसामग्र्यपेक्षया प्रमारूपानुमितिसामग्र्येव प्रबलेति चेत् । तर्हि धूलीपटलादौ वह्निव्याप्यधूमभ्रमानंतरं वह्न्यादिप्रत्यक्षमेव स्यात् । न तु तदनुमितिरिति आस्तां तावत् । तस्मात् भ्रमस्थले देशांतररजतापरोक्षसामग्र्यभावेनानिर्वचनीयरजताद्युत्पत्तिः अंगीकर्तव्येति ।

अत्रोच्यते । भ्रमस्थले रजताद्युत्पत्तिः किमनुभवबलात् अभ्युपगम्यते किं वा अन्.था अनुपपत्या । नाद्यः तदुत्पत्तेः अननुभूयमानत्वात् । अनुभवे विवदमानस्य उन्मत्तवत् उपेक्षणीयत्वात् । द्वितीये तदुत्पत्यभावे किमनुपपन्नम् । न तावदपरोक्षप्रतीतिविषयत्वम् । भूतले घटो नास्ति इति प्रतियोगिविशिष्टाभावप्रत्यक्षस्य दर्शनात् । पुरोदेशस्थातया अपरोक्षप्रतीतिविषयत्वमिति चेन्न । सूर्यादीनां उदयादिकाले उत्पत्तिं विनापि पुरोदेशस्थतया अपरोक्षप्रतीतिविषयत्वदर्शनेन तस्य तदकल्पकत्वात् । पूर्वं अविद्यमानस्य तथा परोक्षप्रतीतिविषयत्वमेव तत्कल्पकम् । सूर्यादेस्तु “हिरण्ययेन सविता रथेनादेवो याति भुवनानि पश्यन् ( ) इत्याद्यागमानुसारेण पूर्वं विद्यमानस्यैव अभिव्यक्तिरिति चेत् । कथं शुक्तिरूप्यं पूर्वं अविद्यमानमिति भवता निश्चितम् । योग्यानुपलब्धेरिति चेन्न । तावतापि तदुपत्यसिद्धेः समयविशेषसंसर्ग्यत्यंताभावरूपत्वेनापि पूर्वं तदविद्यमानत्वस्योपपन्नत्वात् । देशांतरस्थं रूप्यं भ्रमकाले पुरोदेशे केनानीयते इति चेन्न । उत्पत्तिपक्षेप्येवं पर्यनुयोगसंभवात् । उत्पत्तिपक्ष इव आनयनपक्षेऽपि अविद्यादिरूपदोषमहिमा न काकभक्षिता । आनयनपक्षे तत् ज्ञानस्य भ्रमत्वं न स्यादिति चेन्न । उत्पत्तिपक्षेऽपि साम्यात् दोषप्रयुक्तभानत्वेन भ्रमत्वं चानयनपक्षेऽपि समानम् । शुक्तिरूप्यं केनचिदानीयमानं न दृश्यते इति चेत् तत्किं उत्पद्यमानं केनचिद्दृश्यते ? कल्पनं चोभयत्र समानम् । न चानयनपक्षे पूर्वं तदुत्पादकसामग्री कल्पनीया । ततो वरं प्रतीतिकाल एव तस्या कल्पनमिति वाच्यम् । पूर्वं लब्धसत्ताकस्यैव उपलंभ इत्यस्य सार्वत्रिकत्वात् । तस्मात् शुक्तिरूप्योत्पत्यनंगीकारे न काप्यनुपपत्तिः । एतेन स्वाप्नपदार्थोत्पत्तिवत् प्रतिबिबोत्पत्तिवच्च शुक्तिरूप्योत्पत्तिरप्यस्तु । अन्यथा तदुत्पत्तिरपि न सिध्येत् इति निरस्तम् । स्वाप्नदृष्टेः अथ रथान् रथयोगान् सृजते (बृ.उ.6-3-10) कामं पुरुषो निर्मिमाण इत्यादि (कठ.अ.2, वल्ली 2,मं.8) श्रुतिसिद्धत्वेन दुरपह्नवत्वात् । स्वाप्नपदार्थानामभावप्रतियोगित्वमात्रेण मिथ्यात्वानापत्तेः । प्रत्युत ईश्वरसृष्टत्वेन तत्सत्यत्वस्यैव दुर्वारत्वाच्च इत्यन्यत्र विस्तरः । प्रमाणमस्तीति चेत् प्रतिबिंबोत्पत्तिः अंगीक्रियताम् । तन्नास्तीति चेत् उत्पत्तिरपि मा भूत् । न तावता अस्माकं किंचिदनिष्टम् । शुक्तिरूप्योत्पत्यनंगीकारे तु जगन्मिथ्यात्वमेव न सिध्येत् इति त्वदनिष्टमापद्येत । तस्मात् शुक्तिरूप्योत्पत्तिसिध्यर्थं परेण यतितव्यम् । सा च न संभवतीत्युक्तम् । वस्तुतस्तु प्रतिबिंबोत्पत्तिः अंगीकार्या । तथाहि । न तावद्दर्पणे प्रतीयमानं मुखं ग्रीवास्थं तस्य सर्वावयवावच्छेदेन चक्षुःसन्निकर्षाभावात् । न च दर्पणाभिहतादृष्टिः परावृत्यस्वमाननं व्याप्नुवन्ती आभिमुख्येन व्यत्यस्तं दर्शयेन्मुखमित्युक्तप्रकारेण तस्य चक्षुःसन्निकर्षोपपत्तिरिति वाच्यम् । स्वच्छजलादौ यत्र मुखादिप्रतिबिंबः तत्र नायनरश्मीनां प्रतिघाताभावात् । अन्यथा कूपाद्यंतर्गततवालुकाद्यग्रहणापातात् न च तत्र केषांचित् नायनरश्मीनां जलांतर्गमनेऽपि केषांचित् प्रतिहतिः अंगीक्रियत इति वाच्यम् । नायनरश्मीनां एकाकारतया तत्र द्विस्वभावत्वकल्पनायोगात् । बिंबप्रतिबिंबत्वाभिमतयोः रूपपरिमाणादिभेदेन देशभेदेन च भेदावश्यंभावेन परावृत्यग्रहणस्य अकल्पनीयत्वाच्च । न च ग्रीवास्थ एव मुखे श्यामिकावक्तृत्वयोः दर्पणस्थत्वस्य च अध्यस्ततया न तदादाय धर्मिभेदसिद्धिः । अन्यथा अंगुल्यवष्टब्धचक्षुषा पुरुषेण प्रतीयमानयोः चन्द्रयोरपि भेदः स्यादिति वाच्यम् । परावृत्यग्रहणस्य दृष्टत्वेन अधिष्ठानज्ञानाभावेन धर्ममात्राध्यासः स्वरूपमात्राध्यासस्य सर्वत्रावाधितत्वायोगेन स्वरूपेणैवाध्यासस्य दुर्वारत्वात् । ननु प्रतिबिबस्वरूपस्याध्यस्तत्वाभ्युपगमेन तदुत्पत्तिः न सिध्येत् । तव असत्ख्यातिवादित्वात् असतश्चोत्पत्यभावादिति चेत् । भ्रान्तोऽसि । न हि तथापादनं सिद्धांतरीत्या किंतु परावृत्यग्रहणमतरीत्येति न किंचिदनुपपन्नम् । वस्तुतस्तु दर्पणे प्रतीयमानं मुखं नाध्यस्तम् । अधिष्टानाभावात् । अधिष्ठानासंभिन्नतया प्रतीयमानस्य अध्यस्तत्वात् । न चेदं संसर्गाध्यासमात्रं तस्य तादात्म्याध्यासपूर्वकत्वात् । न चेदं संसर्गाध्यासमात्रं तस्य तादात्म्याध्यासपूर्वकत्वात् । अन्यथा भूतले घट इत्यादीनामपि अध्यासत्वापातात् । न च निरधिष्ठानोऽयं भ्रमः । तस्य साधिष्ठानत्वनियमात् । एवं च परिशेषात् प्रतिबिबस्य ग्रीवास्थमुस्वरूपत्वायोगात् अनध्यस्तत्वाच्च उत्पत्तिः अंगीकर्तव्येति । न चैवं ममैवेदं मुखं इति प्रतीत्यनुपपत्तिः । प्रतिमादौ मम देह इत्यादिप्रतीतिवत् तस्याः सादृश्यनिबंधनत्वात् । रूपपरिमाणादीनां वैलक्षण्यस्य स्फुटं प्रतिभासाच्च । तह्येवं शुक्तिरूप्याद्युत्पत्तौ किंचित्साधकमस्ति । दोषमहिम्ना असत्वेऽपि अपरोक्षप्रतीतिविषयत्वस्य उपपन्नतया तदुत्पत्याद्यसिद्धेः इति अन्यत्र विस्तरः । तस्मात् परमते जगन्मिथ्यात्वं अनुपपन्नम् ।

किंच जगन्मिथ्यात्वे किं प्रमाणम् । एकमेवाद्वितीयं नेहनानेत्याद्या श्रुतय इति चेन्न । तासां तदैक्षत बहुस्यां प्रजायेयेति तत्तेजोऽसृजत । यस्मिन् द्यौः पृथिवीचांतरिक्षं, आत्मन आकाशः संभूतः इत्यादि वाक्यांतरानुसारेण नेयत्वात् । अन्यथा व्याहतभाषित्वापत्तेः । न च अध्यारोपापवादन्यायेन निष्प्रपंचब्रह्मप्रतिपत्यर्थत्वं सप्रपंचवाक्यानां इति वाच्यम् । प्रक्षालनाद्धि पंकस्य दूरादस्पर्शनं वरं इति न्यायेन मात्रादिवत् परमहितैषिण्या श्रुत्या भ्रममुत्पाद्य तन्निषेधाय प्रवृत्ययोगात् । न हि माता स्वपुत्रादिभ्यो गरं दत्वा तन्निवृत्यर्थं औषधादौ प्रवर्तमाना दृश्यते । न च श्रुतिः जीवस्य स्वयं भ्रमं नोत्पादयति । किंतु तस्य स्वतः सिद्धभ्रमं निषेधाय अनुवदतीति वाच्यम् । तथा सति अध्यारोपापवादन्यायो दत्तजलांजलिः स्यात् । कर्मकाण्डार्थानां सगुणवाक्यार्थानां सृष्टिवाक्यार्थानां अर्चिरादिवाक्यार्थानां च श्रुत्यैकसमधिगम्यतया तदंशे अनुवादायोगाच्च । न कलंजं भक्षयेदित्याविवनिषेध्ये श्रुतितात्पर्याद्यभावेन कर्मसगुणब्रह्मोपासनसृष्ट्यर्चिरादिगत्यादीनां असिद्ध्या तदननुष्ठानापत्तेश्च इति यत्किंचिदेतत् । तदभिमताज्ञानं च अन्यत्र निरस्तम् । एवं जगन्मिथ्यात्पसिध्यधीनं तन्मतसिद्धप्रक्रियान्तरमपि निरसनीयमिति दिक् ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्याणां श्रीमत्सुरेन्द्रतीर्थपूज्यपादानांशिष्येण सर्वतन्त्रस्वतन्त्रेण विजयीद्रभिक्षुणा विरचिते सर्वसिद्धांतसारासारविवेचने शङ्करमतभङ्गो नाम अष्टमः परिच्छेदः ॥


चार्वाकमतभङ्गः

%॥ अथ चार्वाकमतभङ्गः ॥%

तत्र लोकायतमतमादौ निराक्रियते । लौकायतिकाः (चार्वाकाः)(2) खल्वेवमाहुः-

प्रत्यक्षमेव प्रमाणम् । नानुमानादि । तत्र यादृच्छिकसंवादितया प्रामाण्याभिमानमात्रम् । प्रमाणत्वे वा तस्य प्रत्यक्ष एवान्तर्भावः ।

F.N.1. धर्मतोवोभयत्र (पा)
2. चारू रमणीयो वाक उक्तिः यस्य सः चार्वाकः । लोकायतमिति । लोके आयतं प्रसृतमित्यर्थः । नास्तिकशिरोमणिश्चार्वाकः बृहस्पतिशिष्यः । चार्वाकवचनस्य परिणामे क्लेशदायित्वेऽपि श्रवणेलायां श्रोतॄणां मनोरञ्जकत्वाद्रमणीयत्वम् । उपदेशं विनापि प्रायः स्वभावत एव तन्मतानुवर्तिनो लोकाः संदृश्यन्ते । चार्वाकसम्प्रदायस्य प्रवर्तको बार्हस्पत्यसूत्रकारो बृहस्पतिः प्रचारकश्च तच्छिष्यश्चार्वाकः । अयं सम्प्रदायो लोकायत (लौकायतिक) नाम्ना विख्यातो वर्तते । चार्वाकस्य जन्म क्रिस्ताब्दात् पूर्वं 2436 तमे वर्षे वैशाखकृष्णामातिथौ बेटद्वारिकायां बभूवेति वदन्ति । अस्य पितेन्दुकान्तो माता च स्रग्विणी ॥

तस्य पृथक् प्रमाणत्वेऽपि लोकसिद्धवह्न्याद्यनुमानमेव प्रमाणम् । नातीन्द्रियार्थविषयम् । तस्यैवासत्त्वात् । विषनिर्हरणादिमंत्रयंत्रचेष्टादिफलसंवादाश्चौषधयः सूर्यचन्द्रकान्तादिन्यायेन यथादर्शनं व्यवस्थाप्या इति न तद्वशेनातीन्द्रियार्थसिद्धिः । पृथिव्यप्तेजोवायव इति चात्वार्येव तत्त्वानि । आकाशस्य तत्त्वान्तरत्वेऽपि न दोषः । पृथिव्यादेरिव तस्यापि प्रत्यक्षसिद्धत्वात् । अर्थकामावेव पुरुषार्थः । न तु धर्मो मोक्षो वा । धर्मत्वेनाभिमतस्याग्निहोत्रादः कायक्लेशरूपतया दुःखसाधनत्वेनापुरुषार्थत्वात् । अग्निहोत्रादिना देहदेशान्तरभोग्यमतिशयितं स्वर्गादिफलं भविष्यतीति चेन्न । देहातिरिक्तस्य तादृशस्वर्गादिफलभोक्तुः तादृशफलस्य च अप्रामाणिकत्वात् । निरन्तरयथेष्टकामिनीसंभोगाद्यतिरेकेण (रिक्तस्य) स्वर्गशब्दार्थस्याभावात् । तस्य दृष्टोपायान्तरेणैव सम्पादनीयत्वाच्च । एवं च निरन्तरयथेष्टकामिनीगमनादेरधर्मत्वं न युक्तम् । तस्य सुखसाधनत्वात् । सुखसाधनस्यैव धर्मत्वोपगमाच्च । सुखसाधनस्य यथेष्टकामिनीगमनादेः दुःखसाधनत्वं दुःखसाधनस्य वा अग्निहोत्रादेः सुखसाधनत्वमिति वचनस्य स्वस्वहृदयमनारूढस्य बालिशोपच्छन्दनमात्ररूपत्वेन वञ्चनार्थतया विशिष्य परीक्षकहृदयेष्वनारोहाच्च । तस्मादग्निहोत्रादीनां न पारलौकिकश्रेयःसाधनत्वं किंतु ऐहिकजीवनादिहेतुत्वमिति युक्तम् । तथाचाऽऽभाणकः(1) ।

F.N.1. आभाणकः लोकोक्तिविशेषः । अग्निहोत्रमिति । अग्निहोत्रपदेन निखिलान्यग्निसाध्यानि श्रौतस्मर्तकर्माण्यत्र विवक्षितानि । त्रयो वेदाः ऋग्यजुःसामनामानो वेदाः । अथर्ववेदस्तु तदन्तर्गतो ज्ञेयः । तस्य पार्थक्येन चत्वारो वेदा इति लोकप्रसिद्धिः । एते सर्वे वेदाः भण्डधूर्तनिशाचरैः स्वयं विरचिता अपि लौकिकानामज्ञानां विशेषतः श्रद्धाजननायापौरुषेयत्वेन स्वतः प्रमाणत्वेन च प्रसिद्धिं प्रापिता इति चार्वाकाः प्रतिपादयन्ति । त्रिदण्डशब्देन काम्यकर्मत्यागरूपः सन्यासोऽत्र विवक्षितः । भस्मगुण्ठनं शरीरे भस्मलेपः ॥ बुद्धिपौरुषहीनानामिति ॥ बुद्धिमन्तो हि पुरुषाः स्वकीयबुद्धिवैभवेन सामाद्युपायैः द्रव्यं सङ्गृह्य स्वजीविकां सम्पादयन्ति । पौरुषसम्पन्नास्तु स्वपराक्रमेण जीविकां सम्पादयन्ति । तादृशबुद्धिविहीनाः पराक्रमरहिताश्च जना नयेन पौरुषेण वा जीविकां सम्पादयुतुमसमर्था अज्ञलोकवञ्चनातिरिक्तमुपायान्तरमपश्यन्तोऽग्निहोत्राद्यनेककर्मजालं लोके प्रसार्य जनान्कर्मतरङ्गतरङ्गितमानसान्विधाय पश्यतोहराश्चैते वैदिकंमन्या धूर्तबका लोकेम्यो विपुलद्रव्यमुपलभ्य स्वजीविकां सम्पादयन्तीति चार्वाकाभिप्रायः । बृहस्पतिरिति । बृहस्पत्याचार्य इत्यर्थः ॥ देवगुरुर्बृहस्पत्याचार्य एवांस्य मतस्य प्रवर्तक इति प्रसिद्धिर्वर्तते । तदुक्तं पद्मपुराणे पार्वतीं प्रतीश्वरवाक्यम्–

“शृणुदेवि प्रवक्ष्यामि तामसानि यथाक्रमम् ।
येषां श्रवणमात्रेण पातित्यं ज्ञानिनामपि ॥
प्रथमं हि मयैवोक्तं शैवं पाशुपतादिकम् ।
मच्छक्त्यावेशितैर्विप्रैः सम्प्रोक्तानि ततःपरम् ॥
धिषणेन तथा प्रोक्तं चार्वाकमतिगर्हितम्” ॥ इति ॥

दिष्वयोगेन तदाश्रयातिरिक्तात्मसिद्धिरिति युक्तम् । कि(ण्वा)(1)ट्टादौ हरिद्राचूर्णादौ च संसर्गावस्थायामेव मदशक्तिरागाद्युत्पत्तिवद्देहाकारपरिणतेष्वेव पृथिव्यादिषु चैतन्योत्पत्तौ(2) बाधकाभावात् । पार्थिवत्वाविशेषेऽपि कण्टकादावेव तैक्ष्ण्यं नान्यत्रेति व्यवस्थादर्शनाच्च । प्रतिमाजल्पनपक्ष्म(3) संमीलनादिवदभिवदनोच्छ्वासनिःश्वासनिमीलनोन्मीलनादिव्यवहारोपपत्तेश्च । छित्वाऽधिरोपिते शाखादौ उपचयादिदर्शनेन तद्वद्देहोपचयाद्युपपत्तेश्च । अतो “यावज्जीवं सुखं जीवेत्” इत्याद्युपदेशवत् सकलजनहृदयसंवादितया सर्वलोकहिताय प्रवृत्तं लोकायतमतेमेव(4) प्रामाणिकं सर्वोपादेयमिति ॥

F.N.1. तण्डुलादिद्रव्यकृतसुराबीजादौ
2. चैतन्यं ज्ञानम्
3. वर्त्म इति पाठान्तरम्
4. लोकायतमतमेवेति ॥ अङ्गनालिङ्गनादिजन्यं सुखमेव पुरुषार्थः । लोके कण्ठकादिजन्यं दुःखमेव नरकः । रौरवमहारौरववह्निवैतरणीकुम्भीपाकादिः कश्चन नात्स्येव । लोके प्रजानां नियन्तृत्वेन दृष्टो राजैव परमेश्वरः । चेतनाचेतनात्मकजगदुत्पत्यादिकर्तान्य ईश्वरः कश्चिन्नास्ति । जगतः उत्पत्तिस्थित्यादिकं स्वाभाविकमेव । सर्वं स्वभावत एव परिणमति । जन्मान्तरन्तु नात्स्येव । देह एवात्मा । देहविनाशो मरणमेव मोक्षः । ज्ञानान्मुक्तिर्नाभ्युपगम्यते । पृथिवी, जलं, अग्निः, वायुरिति चत्वारि भूतानि । आकाशन्तु नैवाङ्गीक्रियते । मदजनकेभ्यः समेतेभ्यः किण्वादिभ्यो द्रव्येभ्यो मदशक्तिवत् शरीररूपेण परिणतेभ्यः पृथिव्यादिभ्यः चतुर्भ्यों भूतेभ्यश्चैतन्य(ज्ञानं)मुपजायते । अहं स्थूलः, अहं कृशोऽस्मीति सामानाधिकरण्यव्यवहारात् देहेस्थौल्यादिसम्बन्धात् शरीरमेवात्मा । मम शरीरमिति व्यवहारस्तु राहोः शिरोमात्ररूपत्वेऽपि राहुः शिर वक्तव्ये राहोः शिर इतिवदौपचारिकः । प्रत्यक्षमेकमेव प्रमाणम् ।

तदेत्सर्वं समग्राहि–
अङ्गनालिङ्गनाज्जन्यसुखमेव पुमर्थता ।
कण्टकादिव्यथाजन्यं दुःखं निरय उच्यते ॥
लोकसिद्धो भवेद्राजा परेशो नापरः स्मृतः ।
देहस्य नाशो मुक्तिस्तु न ज्ञानान्मुक्तिरिष्यते ॥
अत्र चत्वारि भूतानि भूमिवार्यनलानिलाः ।
चतुर्भ्यः खलु भूतेभ्यश्चैतन्यमुपजायते ॥
किण्वादिभ्यः समेतेभ्यो द्रव्येभ्यो मदशक्तिवत् ।
अहं स्थूलः कृशोऽस्मीति सामानधिकरण्यतः ॥
देहः स्थौल्यादियोगाच्च स एवात्मा न चापरः ।
मम देहोऽयमित्युक्तिः संभवेदौपचारिकी ॥ इति ॥
सर्वं चैतच्चार्वाकमतप्रवर्तकाचार्येण बृहस्पतिनाप्युक्तम्–
न स्वर्गो नापवर्गो वा नैवात्मा पारलौकिकः ।
नैव वर्णाश्रमादीनां क्रियाश्च फलदायिकाः ॥
अग्रिहोत्रं त्रयो वेदास्त्रिदण्डं भस्मगुण्ठनम् ।
बुद्धिपौरुषहीनानां जीविका धातृनिर्मिता ॥
पशुश्चेन्निहतः स्वर्गं ज्योतिष्टोमे गमिष्यति ।
स्वपिता यजमानेन तत्र कस्मान्न हिंस्यते ॥
मृतानामपि जन्तूनां श्राद्धं चेत्तृप्तिकारणम् ।
निर्वाणस्य प्रदीपस्य स्नेहः संवर्धयेच्छिखाम् ॥
गच्छतामिह जन्तूनां व्यर्थं पाथेयकल्पनम् ।
गेहस्थकृतश्चाद्धेन पथि तृप्तिरवारिता ॥
स्वर्गस्थिता यदा तृप्तिं गच्छेयुस्तत्र दानतः ।
प्रासादस्योपरिस्थानामत्र कस्मान्न दीयते ॥
यावज्जीवेत् सुखं जीवेत् ऋणं कृत्वा घृतं पिबेत् ।
भस्मीभूतस्य देहस्य पुनरागमनं कुतः ॥
यदि गच्छेत्परं लोकं देहादेष विनिर्गतः ।
क्समाद्भूयो न चायाति बन्धुस्नेहसमाकुलः ॥
ततश्च जीवनोपायो ब्राह्मणैर्विहितस्त्विह ।
मृतानां प्रेतकार्याणि नत्वन्यद्विद्यते क्वचित् ॥
त्रयो वेदस्य कर्तारो भण्डभूर्तनिशाचराः ।
जर्भरीतुर्फरीत्यादि पण्डितानां वचःस्मृतम् ॥
मांसानां खादनं तद्वन्निशाचरसमीरितम् ॥ इति ॥
तदुक्तं विष्णुपुराणो–
निहतस्य पशोर्यज्ञे स्वर्गप्काप्तिर्यदीष्यते ।
स्वपिता यजमानेन तदा किं न विहन्यते ॥
तृप्तये जायते पुंसो भुक्तमन्येन चेत्ततः ।
दद्याच्छ्राद्धं श्रमायान्नं न वहेयुः प्रवासिनः ॥ इति ॥
वि.पु.3.1.8.15.

एवं तत्रैव यज्ञादिकर्मविषयेऽप्युक्तम्–
नैतद्युक्तिसहं वाक्यं हिंसा धर्माय नेष्यते ।
हवींष्यनलदग्धानि फलायेत्यर्भकोदितम् ॥
यज्ञैरनेकैर्देवत्वमवाप्येन्द्रेण भुज्यते ।
सस्यादि च समित्काष्ठं तद्वरं पत्रभुक्पशुः ॥ इति ॥
वि.पु.3.18.82.83.
तस्मात्सर्वेषां प्राणिनामनुग्रहार्थं चार्वाकमतमाश्रयणीयमिति रमणीयम् ॥

अत्रोच्यते–
न तावत्प्रत्यक्षमेकमेव(1) प्रमाणम् । अनुमानादिनाऽपि ज्ञानोत्पत्तेरनुभवसिद्धत्वात् । तदुत्पन्नज्ञानस्यावधारणरूपत्वात् । बाधक-

F.N.1. चार्वाकस्य न वाक् चार्वी कुर्वीतात्मवधं किल ।
अक्षैकमानता वाक् किं रक्षेदात्मप्रमाणताम् ॥
(युक्तिमल्लिका गुण.सौ.श्लो.132)

प्रत्ययादर्शनाच्च । “विशेषेऽनुगमाभावात्सामान्ये सिद्धसाधनात् । तद्वचोऽनुपपन्नत्वादनुमानकथा(1) कुतः” इत्यादिहेतूनां प्रामाण्याप्रामाण्ययोर्व्याहतत्वाच्च । किंचानुमानादेरप्रामाण्ये प्रत्यक्षस्याप्यप्रमाणत्वं स्यात् । विशेषहेत्वभावात् । अनुमानादाविव प्रत्यक्षेऽपि क्वचित् बाधितत्वदर्शनेन प्रत्यक्षमात्रप्रामाण्याङ्गीकारायोगाच्च । किञ्च प्रत्यक्षस्येवानुमानादेरपि बाधकाभावे प्रामाण्यस्याङ्गीकर्तव्यत्वाच्च । भोजनादो तृप्तिसाधनत्वादिकमनुमायैव प्रवृत्तिदर्शनेनानुमानप्रामाण्यस्य दुर्वारत्वाच्च । प्रत्यक्षाविषयं तं तमर्थमाप्तवाक्यान्निश्चित्य सर्वेषां निश्शङ्कप्रवृत्तिदर्शनेन प्रत्यक्षमेकमेव प्रमाणमित्यंगीकारायोगाच्च । किंच प्रत्यक्षमात्रप्रामाण्याभ्.युपगमे कथं चार्वाकसमयमुपाश्रित्यार्थो निश्चेयः । कथं वा तन्मूला प्रवृत्तिर्निवृत्तिर्वा । अनुमानादेः संभावकत्वे प्रत्यक्षस्यापि तथात्वापातात् । किंचान्वयव्यतिरेकानुविधायिषु दृष्टार्थमन्त्रौषधज्यौतिषनिमित्तशास्त्रेषु संवाददर्शनेन पारलौकिकार्थविषयेष्वपि शास्त्रेषु कालान्तरभाविसंवादमादायैव(2) प्रामाण्यमंगीकरणीयं तत्सामान्यादितरेषु तथात्वमिति न्यायात् । किंचानुमानादेः प्रत्यक्षान्तर्भावो न युक्तः । पर्वतादौ धूमादिकं दृष्ट्वा गृहं गतस्य तत्र व्याप्तिं स्मरतः पुंसो वह्न्याद्यनुमितिदर्शनात् विदग्धादेरपि च स्वरादिना पुत्राद्यनुमितिदर्शनाच्च । अंधादेरपि आप्तवाक्येन तत्र तत्र प्रवृत्तिदर्शनाच्च । न हि तत्र प्रत्यक्षान्तर्भावसंभावनाऽस्ति । न च मानसप्रत्यक्षं तत्रेति युक्तम् । तत्र मानसत्वानभ्युपगमात् । मनसो बहिरस्वातन्त्र्याच्च । व्याप्तिज्ञानाद्यन्वयव्यतिरेकानुविधायिनोऽपि विज्ञानस्य मानसप्रत्यक्षरूपत्वाभ्युपगमे चक्षुराद्यन्वयव्यतिरेकानुविधायिज्ञत्रानस्यापि तथात्वापाताच्च । एवमनुमानागमयोरपि प्रामाण्ये सिद्धे तदधीनानि भूतचतुष्टयातिरिक्तानि तत्त्वान्तराण्यपि अंगीकर्तव्यानि । अनुमानागमसिद्धानामपि तत्त्वांतराणां प्रतिक्षेपायोगात् । अन्यथा प्रत्यक्षसिद्धार्थानामप्यपलापः स्यात् । न चानुपलब्धिमात्रेण भूतचतुष्टयातिरिक्ततत्त्वांतराभावः शंकनीयः ।

F.N.1. अनुमानकथाङ्कुरः (पा)
2. संपदमादायैव (पा)

योग्यानुपलब्धेरेवाभावनिश्चायकत्वात् । अतीन्द्रियविषये योग्यानुपलब्धेरेवाभावात् । योग्यायोग्यविभागं विना अनुपलब्धिमात्रतः तत्त्वान्तराभावोक्तौ गृहात् बहिर्निर्गतस्य चार्वाकस्य गृहे विद्यमानपुत्रदारादीनामप्यभावप्रसंगेन व्याकुलत्वप्रसंगात् । किं च नीतिशास्त्रबलेनार्थकामयोरेव पुरुषार्थत्वमित्यनुपपन्नम् । तस्य धर्माविरुद्धयोरेव तयोः पुरुषार्थत्वप्रतिपादनपरत्वात् । “असाधुभ्योऽर्थमादाय साधुभ्यः संप्रयच्छति” । “धर्माविरुद्धो(1) भूतेषु कामोऽस्मि भरतर्षभ” (भ.गी.अ.7.श्लो.11) । इत्यादि स्मृत्यनुसारात् धर्मविरुद्धयोस्तयोरपुरुषार्थत्वस्य प्रेक्षावत्पुरुषसंमतत्वाच्च ।

न च गोत्वादिजातिवत् ब्राह्मणत्वादिजातीनामनुपलंभेन तन्निमित्तकं शास्त्रमप्रमाणमिति वाच्यम् । अवाधितानादिपरिग्रहपरंपरया आगोपालं प्रसिद्धानां ब्राह्मणत्वादिजातीनां अपह्नवायोगात् । गन्धविशेषादिलिंगसहकृतप्रत्यक्षेण घृतादिजातीनामिव विशिष्टमातापितृजन्यत्वादिलिंगविशेषसहकृतप्रत्यक्षेण ब्राह्मणत्वादिजात्युपलंभोपपत्तेश्च । अश्वगर्दभादिसंसर्गेण खरादिविजातीयोत्पत्तिवत् ब्राह्मणादिविजातीयसंसर्गेणानुलोमप्रतिलोमादिविजातीयोत्पत्तौ बाधकाभावाच्च ।

किं च शरीरमात्मेत्यनुपपन्नम् । “सुखमहमस्वाप्समि” ति सुषुप्तौ “गजादिकमद्राक्षमि” ति स्वप्ने “योऽहं बालः स एवेदानीं स्थविरः” इति जाग्रद्दशायां च देहाद्यतिरिक्तस्यैव आत्मनः परामर्शात् । “मम(2) देहः” इति शरीरात्मनोर्भेदानुभवात् । “अहं देहः” इति

F.N.1. भूतेषु धर्माविरुद्धो यः कामः सोऽस्मीत्यर्थः ।
बलं बलवतां चाहं कामरागविवर्जितं इति पूर्वार्धम् ॥
2. देहादन्योऽनुभवत आत्मा भाति शरीरिणाम् ।
मम देह इति व्यक्तं ममार्थ इतिवत्सदा ॥
(अनु. व्या.अ.2, पा.2)
कस्यचित् कदाचिदपि देहोऽहमिति प्रमाभावात् ।
(न्या.सु.अ.2.,पा.2 अधि.3)

कदापि कस्यापि प्रतीत्यभावात् । “स्थूलोऽहं” “गौरोऽह” मितिप्रतीतेश्च उष्णं जलमित्यादिप्रतीतिवत् परम्परासंबन्धावगाहित्वोपपत्तेः । सर्वशरीरानुसन्धातुरात्मनः तद्भिन्नत्वावश्यंभावाच्च ।

किंचार्कामातिरेकेण धर्मापवर्गावपि पुरुषार्थावभ्युपगन्तव्यौ । अन्यथा त्वत्सिद्धान्तस्य विषयप्रयोजनशून्यतया अनुपादेयत्वमेव स्यात् । न च दृष्टं धनादि तत्प्रयोजनम् । तेन तदसिद्धेः । तस्य लोकबहिष्कारहेतुत्वेनापुरुषार्थत्वात् । न च धर्माद्यभावबोधनद्वारा तत्सिद्धान्तस्य लोकोपकारः प्रयोजनम् । धर्माद्यभावज्ञाने परस्परहिंसादेरेव प्राप्तया तच्छास्त्रस्यापकारिताया एव प्राप्तेः । उपकारस्यापि स्वतः प्रयोजनत्वाभावेन दूरे गत्वा तत्साध्यस्यापि धर्मापवर्गरूपप्रयोजनान्तरस्यावश्यांगीकर्तव्यत्वाच्च । दुर्मार्गेण प्रवर्तमानस्य लोके बहिष्कारदर्शनाच्च । एवं धर्मादेरेव तद्विषयत्वं वाच्यम् । केवलार्थकामयोः शास्त्रप्रतिपाद्यत्वासंभवात् । अतः चार्विकेणापि स्वसिद्धान्तस्य सविषयत्वसप्रयोजनत्वसिध्यर्थं धर्मादिकमवश्यमभ्युपेयमिति । तदेतत्सर्वमभिसन्धायोक्तं भगवता बादरायणेन ऊँ अभ्युपगमेऽप्यर्थाभावात्(2) ऊँ (ब्र.सू.2.2.6)

इति श्रीमत्परमहंसपरिव्राजकाचार्याणां श्रीमत्सुरेन्द्रतीर्थपूज्यपादानां शिष्येण विजयीन्द्रभिक्षुणा विरचिते सर्वसिद्धान्तसारासारविवेचने चार्वाकमतभङ्गः प्रथमः ॥

F.N.1. कृष्यादिजीविकादिनापि
2. अत्र चार्वाकमतं निरस्यते । नेत्यस्ति । अर्थशब्दो विषयप्रयोजनपरः । त्वदीयशास्त्रस्य सिद्धान्तत्वमभ्युपगम्यते न वा । अंत्येऽस्मदिष्टम् । आद्येविषयप्रयोजनवत्त्वं नोपेयते उतोपेयते । नाद्यः । अभ्युपगमेऽपि सिद्धान्तत्वाभ्युपगभेऽपि तद्व्यापकगयोरर्थयोः विषयप्रयोजनयोरभावाभ्युपगमाद्व्याहत्यापातात् । नान्त्यः । दृष्टादृष्टयोः विषयप्रयोजनयोरभावान्न युक्तं तन्मतमिति सूत्रार्थः ॥

सौगतमतभङ्गः

%॥ अथ सौगतमतभङ्गः ॥%

इदानीं सौगतमतं निराक्रियते ॥

तत्र (1)सौगताश्चतुर्विधाः । वैभाषिकाः सौत्रान्तिकाः, यौगाचाराः, माध्यमिकाश्चेति ॥

F.N.1. सौगताः सुशोभनं गतं ज्ञानं अस्य सुगतः । प्रशस्ता बुद्धिर्यस्य सः बुद्धः । तथा-सम्यग्गतं झानमस्येति तथागतः । यथा मुनयो मोक्षं गताः तथा मोक्षं गत इति वा तथागतः । भगवान् बुद्धः एक एव बोधयिता । तं बुद्धाख्यं देवमनुसरन्तः तच्छिष्याः बौद्धाः । तेषां दर्शनं बौद्धदर्शनम् । सुगतोऽपि बुद्ध एव तच्छिष्याः सौगता इत्युच्यन्ते । ते च वैभाषिकाः सौत्रान्तिकाः यौगाचाराः माध्यमिकाश्चेति चतुर्विधाः प्रसिद्धाः । बोधयितुर्बुद्धस्य गुरोरेकत्वेऽपि बोद्धव्यानां बुद्धितारतम्यात् चातुर्विध्यम् । तेषु %वैभाषिकाः% बाह्यार्थप्रत्यक्षत्ववादिनः सर्वास्तित्ववादिनश्चेति कथ्यन्ते । अनुभवानुसारेण बाह्यार्थाः यथा घटपटादयोऽभ्युपगम्यन्ते तथैव प्रत्यक्षबलात्तेषां प्रत्यक्षत्वमप्यभ्युपगन्तव्यम् । एवं बाह्येष्वर्थेष्वान्तरेषु च प्रत्यक्षेषु सत्सुभगवान् गुरुर्यत्कांश्चित्प्रथमं सर्वं शून्यमित्युपदिदेश ततश्च कांश्चिद्विज्ञानमेव सदिति कांश्चिच्चोभयं बाह्यमान्तरं च सदित्यभिप्रेत्यावस्थितान्विज्ञेयमनुमेयं चेति सेयं बुद्धगुरोर्विरुद्धा भाषेति ब्रुवाणा वैभाषिकाख्यया विख्याताः ॥

सौत्रान्तिकाः

सूत्रान्तं पृच्छन्ति ये ते सौत्रान्तिकाः । एते बाह्यार्थानुमेयत्ववादिनः । बाह्यार्थस्य नीलादेरसत्वे विज्ञानमात्रस्यास्तित्वं वक्तुमशक्यम् । तस्माद्भाह्यार्थोऽप्यवश्यमभ्युपगन्तव्य एव । गुरुणा तु भवतु नाम बाह्यार्थः परन्तु स च न प्रत्यक्षः किन्त्वनुमेय इत्युपदिष्टे कियत्पर्यन्तं सूत्रं भवेदिति पृष्टत्वात्ते सौत्रान्तिकसंज्ञया प्रसिद्धाः सौत्रान्तिकाः । %योगाचारास्तु% गुरूक्तं सर्वं क्षणिकं क्षणिकं, सर्वं दुःखं दुखं, सर्वं स्वलक्षणं स्वलक्षणं, सर्वं शून्यं शून्यमिति भावनाचतुष्टयं बाह्यार्थशून्यत्वं चाङ्गीकृत्य, कथं पुनः सर्वस्य शून्यत्वमवगन्तु शक्यम् ? सर्वस्यापि शून्यत्वे विज्ञानस्यापि शून्यत्वापत्या जगदान्ध्यं प्रसज्येत । अतो बाह्यार्थस्य शून्यत्वमस्तु । शिष्येण तु द्वयं करणीयमस्ति योगः आचारश्चेति । तयोर्मध्येऽज्ञातार्थस्य ज्ञानायाक्षेपो योग इत्युच्यते । गुरूक्तस्यार्थस्याङ्गीकरणमाचारश्वेति निगद्यते । एवञ्च यैः शिष्यैर्गुरूक्तं भावनाचतुष्टयं बाह्यार्थशून्यत्वाञ्चाभ्युपगम्य सर्वशून्यत्वविषये आक्षेपः कृतस्ते योगाचारा इति प्रसिद्धिं गताः ॥

माध्यमिकास्तु मध्यमबुद्धित्वादनेन नाम्ना प्रसिद्धिं प्रापुः । गुरुणा बुद्धेन स्वशिष्यभ्यः सर्वं शून्यमित्युपदेशे कृते ये च शिष्याः गुरूक्तं सर्वमेव यथार्थं मन्यमानाः न कस्मिन्नप्यंशे आक्षेपं कृतवन्तस्त एव मध्यमबुद्धित्वान्माध्यमिकाः । भगवता गुरूणा प्रथमं सर्वं क्षणिकं क्षणिकमित्युपदिश्य सर्वस्थायित्वं निराकृतं, एवं सर्वं दुःखं दुःखमित्युपदिश्यानुकूलवेदनीयत्वं प्रत्याख्यातं, सर्वं स्वलक्षणं स्वलक्षणमित्युपदिश्य सर्वानुगतत्वं खण्डितं, ततश्चान्ते सर्वं शून्यं शून्यमित्युपवर्ण्य सर्वसत्यत्वनिराकरणपूर्वकं सर्वशून्यत्वमेवान्ततो बोधिता वयमिति जानन्तो मध्यमिकाः सर्वशून्यत्ववादिनश्च प्रख्याताः ॥

तत्र वैभाषिकाः प्राहुः–

गन्धरसरूपस्पर्शाः सूक्ष्माः क्षणध्वंसिनो निर्बाधाः परमार्थसन्तः । इतरत् स्तम्भमहीरुहादि कृत्स्नं जगत् तत्र कल्पितम् । वेदनं तु स्वप्नज्ञानवत् साकारम् । अर्थार्पितो वेदनाकार एव प्रमाणम् । (1)नान्यत् । तत्र बाह्यपदार्थाः प्रत्यक्षसिद्धाः । वेदनेषु अर्थाकारे समर्पिते तेनाकारेण बाह्यवस्त्वनुमितिरिति सौत्रान्तिकं मतम् । अन्यत्समानम् ॥

योगाचारस्तु बाह्यपदार्थानां ज्ञानोपरागं विना भानायागात् ज्ञानस्यापि अर्थोपरागं विना भानादर्शनात् सहोपलम्भनियमेन सर्वस्यज्ञानात्मकत्वे स्थिते स्तम्भादिभेदबुद्धीनां बाधितविषयत्वात् विज्ञानव्यतिरिक्तं सर्वं मिथ्येत्याह ॥

F.N.1. तत्र नान्यत् (पा.) ।

माध्यमिकास्त्वाहुः । सर्वज्ञबुद्धप्रणीतमेव प्रमाणम् । तत्प्रोक्तं क्षणभङ्गप्रत्यक्षार्थभङ्गबाह्यार्थभङ्गधर्मधर्मिभावभङ्गादिकं भिक्षुपादप्रसारणमात्रम् । सर्वशून्यत्वमेव सुगतमतरहस्यम् । `अहमिदं जानामी’ति ज्ञातृज्ञेयज्ञानरूपेण प्रतीयमानस्यार्थजातस्य प्रबलयुक्तिभिः सदसदुभयकोटिविनिर्मुक्ततया निःस्वभावत्वात् । तदुक्तम्–
न सन्नासन्नसदसन्नचाष्युभयात्मकम् ।
चतुष्कोटिविनिर्मुक्तं तत्त्वं माध्यमिका विदुः ॥
बुद्ध्या विविच्यमानानां स्वभावो नावधार्यते ।
अतो निरभिलाष्यास्ते निःस्वभावाश्च दर्शिताः ॥
(लङ्कावतारः) इति ॥
तत्र(1) वैभाषिकमतं तावदनुपपन्नम् । रूपाद्यतिरेकेण तदाश्रयभूतस्यार्था-

F.N.1. विवेकाविलासे बौद्धमतमेवं निरूपितम्–

बौद्धानां सुगतो देवो विश्वं च क्षणभङ्गुरम् ।
आर्यसत्याख्यया तत्त्वचतुष्टयमिदं क्रमात् ॥
दुःखमायतनं चैव ततः समुदयो मतः ।
मार्गश्चेत्यस्य च व्याख्या क्रमेण श्रूयतामतः ॥
दुःखं संसारिणः स्कन्धास्ते च पञ्च प्रकीर्तिताः ।
विज्ञानं वेदना संज्ञा संस्कारो रूपमेव च ॥
पञ्चेन्द्रियाणि शब्दाद्या विषयाः पञ्च मानसम् ।
धर्मायतनमेतानि द्वादशायतनानि तु ॥
रागादीनां गणो यस्मात्समुदेति नृणां हृदि ।
आत्मात्मीयस्वभावाख्यः स स्यात्समुदयः पुनः ॥
क्षणिकाः सर्वसंस्कारा इति या वासना स्थिरा ।
स मार्ग इति विज्ञेयः स च मोक्षोऽभिधीयते ॥
प्रत्यक्षमनुमानं च प्रमाणद्वितयं तथा ।
चतुष्प्रस्थानिका बौद्धा ख्याता वैभाषिकादयः ॥
अर्थो ज्ञानान्वितो वैभाषिकेण बहुमन्यते ।
सौत्रान्तिकेन प्रत्यक्षग्राह्योऽर्थो न बहिर्गतः ॥
आकारसिता बुद्धिः यौगाचारस्य सम्मता ।
केवलां संविदं स्वस्थां मन्यन्ते मध्यमाः पुनः ॥
रागादिज्ञानसन्तानवासनोच्छेदसम्भवा ।
चतुर्णामपि बौद्धानां मुक्तिरेषा प्रकीर्तिता ॥
कृत्तिर्कमण्डुलुर्मौण्ड्यं चीरं पूर्वाह्नभोजनम् ।
सङ्घो रक्ताम्बरत्वं च शिश्रिये बौद्धभिक्षुभिः ॥
(वि.वि.8-265-275)

न्तरस्याभ्युपेयत्वात् । अन्यथा `दृष्टमेवानुभवामी (स्पृशामी)’ त्यादिप्रत्यभिज्ञानानुपपत्तेः । त्वन्मते दर्शनस्पर्शनविषययोः रूपस्पर्शयोर्भिन्नत्वात् । न च सङ्घातमादाय तदुपपत्तिः । क्षणभङ्गपक्षे तदयोगात् । एतेन पार्थिवाऽऽष्यतैजसवायव्याश्चत्वारः परमाणवः संहताः सन्तः `घटोऽयं’, `पटोऽयं’, `स्तंभोऽयं’ मित्येवं रूपेण प्रतीयन्ते न तु ततोऽन्यद्रूपादिकमिति निरस्तम् । आश्रये विद्यमान एव पाकादिना पूर्वरूपनाशे सति रूपाद्यन्तरोत्पत्तेः सर्वानुभवसिद्धत्वात् । परमाणुव्यतिरेकेण तदारब्धस्यार्थान्तरस्याभ्युपेयत्वाच्च । अन्यथा कारकव्यापारवैयर्थ्यात् । प्रत्यक्षत्वानुपपत्तेश्च । न हि परमाणूनां प्रत्यक्षत्वं सम्भवति । अतीन्द्रियत्वात् । न चेष्टापत्तिः । त्वया बाह्यपदार्थस्य प्रत्यक्षत्वोपगमात् । न च परमाणूनामेव विश्लेषावस्थायामप्रत्यक्षत्वेऽपि संहतत्वावस्थायां प्रत्यक्षत्वं युक्तमिति वाच्यम् । अतीन्द्रियपदार्थानां संहतत्वावस्थायां ऐन्द्रियकत्वस्य क्वाप्यनुपलम्भात् । अन्यथा धर्माधर्मादेरपि तथात्वापत्तेः । न च हिमकेशवालुकादीनां संहतत्वावस्थायां ऐन्द्रियकत्वं दृष्टमिति वाच्यम् । तेषां योग्यत्वेन तदानीमपि ऐन्द्रियकतया दृष्टान्तासंप्रतिपत्तेः । अतः घटपटादीनामपि प्रत्यक्षत्वमभ्युपगच्छता पार्थिवादिपरमाण्वतिरेकेण तदारब्धं द्रव्यान्तरमवश्यमभ्युपेयम् । न च `एकोघटः’ `एकः स्तंभः’ इत्यादि (1)प्रतीतिर्भ्रमः, परमाणुविषयप्रतीतीनामिव तस्या अपि बाधकाभावेन अभ्रमत्वोपपत्तेः । एतेन ज्ञानं साकारमिति प्रत्युक्तम् । तथात्वे प्रमाणाभावात् । ज्ञानस्यार्थविषयीकारित्वस्वाभाव्येन तदतिरेकेण ज्ञानसाकारत्वस्य दुर्वचत्वाच्च । किं च क्षणिकस्वलक्षणविषयं निर्विकल्पकमेव प्रमाणम् । सविकल्पकमनुमानं च कल्पिताकारविषयत्वादप्रमाणमित्युनपपन्नम् । विकल्पप्रमाण्याभावे तत्सिद्ध्यधीननिर्विकल्पकस्याप्रामाण्यापातात् । विसल्पमूलविशिष्टव्यवहारस्य कल्पितविषयत्वे स्वशास्त्रस्ववचनादिविरोधापत्तेश्च ।

“(2)विकल्पो (3)वस्तुनिर्भासादसंवादादुपप्लवः ॥
तस्यां यद्रूपमाभाति वाह्यमेकमिवार्थतः ॥
व्यावृत्तमिव निस्तत्वं परीक्षानंगभावतः ॥”( )

F.N.1. प्रत्ययोभ्रम इति पाठान्तरम्
2. वस्तुनि भासात् (पा.)
3. कल्पनापोढमभ्रान्तं प्रत्यक्षं निर्विकल्पकम् ॥ इति पूर्वार्धम् ॥ अस्यार्थो यथा तन्मते ज्ञानं द्विविधम् । निर्विकल्पकं सविकल्पकञ्चेति । तत्र निर्विकल्पकं ज्ञानं ग्रहणमित्युच्यते ।

सविकल्पकं ज्ञानमध्यवसाय इति कथ्यते । अनयोर्मध्ये ग्रहणं निर्विकल्पकरूपं प्रमाणम् । कल्पनारहितत्वात् । सविकल्पकरूपोऽध्यवसायः कल्पनाज्ञानत्वादप्रमाम् । अर्थश्च द्विविधः ग्राह्योऽध्यवसेयश्चेति । एवं च प्रत्यक्षस्थल इन्द्रियसंप्रयोगानंतरं सद्य एव “इदं किश्चित्” इत्येवं निर्विकल्पकज्ञानमुत्पद्यते । तत्र ज्ञाने विषयीभूतो देवदत्तादिरर्थो ग्राह्य इत्युच्यते । स एव पश्चाज्जात्यादिविशिष्टतया ब्राह्मणोऽयं, श्यामोऽयं, पाचकोऽयमितित्येवं सविकल्पकज्ञाने विषयीभूतोऽध्यवसेय इत्युच्यते । कल्पितत्वमेवासत्यत्वे तन्त्रमिति बौद्धा मन्यन्ते । यथा वस्तुतः शुक्तौ सत्यां तत्र इदं रजतमिति यज्ज्ञानं जायते तत्कल्पितरजतत्वविशिष्टत्वान्न प्रमाणं तथैव जात्यादीनामपि कल्पितत्वात् तद्विशिष्टमपि ज्ञानं न प्रमाणम् ।

कल्पनापोढं कल्पनारहितं, अभ्रातं सत्यं प्रमाणमिति यावत् । तत् निर्विकल्पकं ज्ञानमिति यावत् । विकल्पः सविकल्पकज्ञानम् । संवादः सर्वेषामैकमत्येन ज्ञानम् । कल्पितत्वादेव सविकल्पके सर्वेषामैकमत्यं नास्तीत्यविसंवादः । तस्मादप्रमाणम् । तथा कल्पितेन जात्यादिरूपेण ईदृशं ईदृशमित्येवं वस्तु सविकल्पके निर्भास्यते ।

ग्राह्यं निर्विकल्पकज्ञानविषयीभूतं यत्तद्वस्तु तदेव सत्यम् । ग्राह्यादन्यत् सविकल्पकज्ञानविषयीभूतमध्यवसेयमिति यत्तद्वस्तु न सत्यम् । किन्तु तुच्छम् । ग्रहणसंज्ञकनिर्विकल्पकज्ञानमेव प्रमाणम् । तदन्यत्सविकल्पकमप्रमाणम् । तच्च सविकल्पकं ज्ञानं शब्दजं लिङ्गजं, इन्द्रियादिजन्यं चेति ।

तदेत्संगृह्याह–
ग्राह्यं वस्तु प्रमाणं हि ग्रहणं यदितोऽन्यथा ।
न तद्वस्तु न तन्मानं शब्दलिङ्गेन्द्रियादिजम् ॥ इति ॥

इत्यादिना विकल्पाप्रामाण्यसाधनमप्यनैकान्त्यादिदोषदुष्टत्वादनुपपन्नम् ।
किं च क्षणभंगांगीकारोऽनुपपन्नः । सर्वलोकप्रसिद्धनिर्बाधप्रत्यभिज्ञाविरुद्धत्वात् । न च सेयं दीपकलिकेत्यादिप्रत्यभिज्ञावत् `स एवायं घटः’ इत्यादिप्रत्यभिज्ञाऽपि सादृश्यनिबनधनेति वाच्यम् । अत्र प्रत्यभिज्ञायाः वस्त्वैक्यविषयत्वे बाधकाभावात् । तत्र अनन्यथासिद्धसामग्रीभेदादेरेव बाधकत्वात् ।

किं च क्षणिकपक्षे पुण्यपापादिकर्तुः तत्फलभोक्तुश्च भिन्नत्वेन कृतहानादिप्रसंगः ।

“(1)यस्मिन्नेव हि सन्ताने आहिता कर्मवासना ।
फलं तत्रैव बध्नाति कार्पासे रक्तता यथा” ॥

F.N.1. प्रमाणवत्वादायातः प्रवाहः केन वार्यत इति न्यायेन (अयोग्यमिति भासमानमपि प्रमाणसिद्धं चेदवश्यं स्वीकार्यमेवेति न्यायतात्पर्यम्) यत् सत् तत् क्षणिकमित्याद्यनुमानसिद्धं क्षणिकत्वमनुभवानारूढमपि न त्यक्तं शक्यम् । बौद्धानां दर्शन आत्मा ज्ञानरूपः क्षणिकानामत्मनां सन्तानं च प्रतिव्यक्तिभिन्नमेव । एवञ्च यज्ञदत्तीयसंतानघटकेन पूर्वक्षणिकेन केनाचिदात्मना कृतस्य कर्मणः फलं तत्संतानवर्तिनैव केनचिदुत्तरक्षणिकेनात्मनोपभुज्यते । नन्वेवमन्येन कृतस्य कर्मणः फलमन्योनोपभुज्येत चेत् सन्तानान्तरवर्तिनाप्यात्मनो पभुज्येत । तथा च देवदत्तकृतकर्मफलोपभोगो यज्ञदत्तस्यापि प्राप्नोति । न चैवं दृश्यते । तत्र कार्यकारणभावस्य नियामकत्वात् । एकस्मिन्नेव संताने तत्तत्पूर्वक्षणिकार्थस्य स्वस्वोत्तरक्षणिकार्थं प्रति कारणत्वात् देवदत्तीयसंतानघटकस्यात्मनो यज्ञदत्तीयसंतानघटकेनात्मना सह कार्यकारणभावाभावेनातिप्रसङ्गाभावात् । यथा च मधुररससंस्कृतानामाम्रबीजानां हलादिना विभेदनेन शिथिलीकृतायां भूमावुप्तानामङ्कुरकाण्डस्कन्धशाखापल्लवादिपरम्परया तदीयफले माधुर्यं दृश्यते यथावा लाक्षारसावसिक्तानां कार्पासबीजादीनामङ्कुरादिपारम्पर्येण कार्पासादौ रक्तिमनियमः तद्वत् क्षणिकपक्षे नातिप्रसङ्गः कश्चिदापततीति तेषामभिप्रायः ।

इत्यादिदृष्टान्तोऽप्यनुपपन्नः । वासनाधारस्थिरद्रव्यानुवृत्त्यादिनाजायमानस्य कार्यविशेषस्य क्षणिकसंतानादिना उपपादयितुमशक्यत्वात् ।

एवं बाह्यपदार्थेष्वनुमेयत्वं वदन् सौत्रान्तिकोऽपि निरस्तः । तथाविधप्रक्रियायां मानाभावात् । घटपटादीनां प्रत्यक्षसिद्धत्वेन तदनुमेयत्वोक्त्ययोगाच्च ।

किं च बाह्यार्थानुमानं केनचिल्लिंगेनेति वक्तव्यम् । तत्र घटपटाद्यनुमाने किं लिंगम् । न तावत्तद्विषयं ज्ञानं तस्यैवानिष्पत्तेः । तन्निष्पत्तौ च अनुमानवैयर्थ्यात् । तस्य विषयज्ञप्त्यर्थत्वात् । तदविषयज्ञानेन तदनुमानायोगाच्च । नापि सर्वस्य क्षणिकत्वाद्विषयध्वंसो लिंगम् । त्वन्मते तस्याप्यनुमेयत्वेन तेन प्रतियोग्यनुमानायोगात् । अन्यथा अनवस्थानात् । तस्य प्रत्यक्षवेद्यत्वे च घटादिना किमपराद्धम् ।

ननु घटादिविषयज्ञाने जाते घटादिकं स्वाकारं ज्ञाने समप्यं क्षणिकतया । स्वयं नश्यति । तेन च ज्ञानाकारेणार्थाकारोऽनुमीयत इति चेन्न । घटादिविषयज्ञानस्य पूर्वमेवोत्पत्तावनुमानवैयर्थ्यस्योक्तत्वात् । विषयस्य क्षणिकतया तत् ज्ञानं तत् सत्तानिश्चयरूपं न भवतीति तन्निश्चयार्थमनुमानमावश्यकमिति चेन्न । विषयस्य क्षणिकतया अनुमितेरप्यर्थसत्तानिश्चयरूपत्वायोगेन साम्यात् । विशेषनियामकाभावेन पूर्वोत्पन्नज्ञानस्यैव विषयसत्तानिश्चयरूपत्वेनांगीकर्तव्यत्वाच्च ।

किं च वैभाषिकमते सौत्रान्तिकमते च जगतः परमाणुसमुदायरूपत्वमंगीकृतम् । तदुक्तम् । तथाहि–

न तावदेकपरमाणुहेतुकः समुदायः । अनभ्युपगमात् । एकत्र समुदायबुद्धिव्यवहारयोरदर्शनाच्च । नाप्यनेकपरमाणुहेतुकः । विरलानेकपरमाणुषु समुदायबुद्ध्यदर्शनात् । नापि मिलितानेकहेतुकः । मेलनस्य समुदायानतिरेके आत्माश्रयात् । तदतिरेके च अपसिद्धान्तापातात् । मेलनस्य संयोगरूपत्वे च समुदायस्यापि ताद्रूप्यापातात् । अतिरिक्तस्यानभ्युपगमात् । अप्रत्यक्षत्वापातात् । क्षणिकानां परस्परसंयोगानुपपत्तेश्चेति तदेतत्सर्वमभि (प्रेत्य)संघायोक्तम् ऊँ “(1)समुदायउभयहेतुकेऽपि तदप्राप्तिः ऊँ इति” । (ब्र.सू.2-2-18)

F.N.1. ऊँ समुदाय उभयहेतुकेऽपि तदप्राप्तिः ऊँ पाषण्डिषु परमाणुपुञ्जवादिनोर्वैभाषिकसौत्रांतिकयोर्मतमत्र नये निरस्यते । उभयेत्यनेकोपलक्षणम् । अपिरेकहेतुकत्वपक्षनिराससूचकः । कालकर्मादिनिमित्तेन क्षणिकोऽणुहेतुकः समुदायो भवति । नत्ववयवी कश्चिदस्तीति मते समुदायः किमेकाणुहेतुक उतानेकाणुहेतुकः । एकस्मात्समुदाय त्यस्य व्याहत्यादेराद्योऽयुक्तः । अंत्येऽपि उभयहेतुके मिलितानेकहेतुके समुदायेंऽगीकृते सति तदप्राप्तिः । तस्य समुदायस्याप्राप्तिः अनुपपत्तिरित्यर्थः । विरलानेकहेतुकत्वेतु तादृशाणूनां सदा सत्वात् समुदायोऽपि सदा स्यादिति लयायोगादितिभावः ।

समुदायेऽनेकहेतुकेऽपीति वाच्ये उभयेत्युक्तिः उभौ अवयवौ अस्य मेलनस्य तदुभयमिति समुदितानेकत्वरूपमिलितत्वरूपपक्षलाभाय । “संख्याया अवयवे तयप्”, “द्वित्रिभ्यां तयस्पा यज्वा”, “उभावुदात्तो नित्यमिति” स्मृतेः । यद्वोभशब्दपर्यायोऽत्रोभयशब्दः । सर्वादिसूत्रकैय्यटे उभावुदात्तो नित्यमिति नित्यग्रहणस्य समासादावुभशब्दस्योभयेत्येवरूपमित्येतदर्थज्ञापकत्वोक्तेः । एवञ्चोभयहेतुकः समुदाय इत्यत्रापि मिलितोभयहेतुकः समुदायश्चेदन्योन्याश्रयात्तदप्राप्तिः । विरलोभयहेतुकश्चेत्समुदायः सदा स्यादित्यर्थः । केचित्तु मिलिता विरलाश्चेत्युभये येऽणवस्तदुभयहेतुकेऽपि समुदाये तदप्राप्तिः । तदिति सन्निहितसमुदायो बुद्धिस्थलयश्चोच्यत इति पक्षद्वयस्यापि सूत्र एव निरास इत्याहुः ।

किं च “पार्थिवाप्यतैजसवायवीयाश्चत्वारः परमाणवः परमार्थसंतः” इत्यनुपपन्नम् । अकाशस्यापि तथाभूतस्य सत्त्वात् । पदार्थान्तराणामिवाकाशस्यापि प्रतीयमानत्वात्प्रतीत्या तदनुमानसंभवाच्च । अन्यथार्थांतराणामपि तुच्छत्वं स्यात् । अविशेषात् । तस्माद्वैभाषिकसौत्रान्तिकमततमनुपपन्नम् । एवं योगाचारमतमप्यनुपपन्नम् । चिन्मात्रव्यतिरिक्तस्य मिथ्यात्वे प्रमाणाभावात् । न च सहोपलंभनियमात् नीलतद्धियोरमेदे सर्वस्य विज्ञानात्मकत्वे स्वप्नादिप्रत्यथवत् स्तंभादिप्रत्ययानामपि मिथ्यात्वमिति वाच्यम् । सहोपलंभस्य भेदसाधकतया तेनाभेदसिद्ध्ययोगात् । विज्ञानजगतोरत्यन्तविलक्षणतया अभेदायोगाच्च । सत्यभूतविज्ञानाभिन्नस्य जगतः सत्यत्वावश्यंभावाच्च । मिथ्याभूतप्रपंपचाभिन्नतया विज्ञानस्यापि मिथ्यात्वापत्तेश्च । न च विज्ञानव्यतिरेकेणासत्वमेव विज्ञानाभिन्नत्वं न तु तत्स्वरूपत्वमिति वाच्यम् । तथासति जगदभिन्नत्वं विज्ञानस्यापि तद्व्यतिरेकेणासत्वमिति विज्ञानमिथ्यात्वस्यापि दुर्वारत्वात् । न च न विज्ञानस्य मिथ्यात्वं आरोपाधिष्टानस्य सत्यत्वनियमादिति वाच्यम् । अन्यथाख्यातिवादिरीत्या, आरोप्यस्यापि सत्यत्वनियमेन प्रपंचस्य त्वदभिमतमिथ्यत्वासिद्धइप्रसंगात् । माध्यमिकोक्तरीत्या मिथ्याभूतस्यैवाधिष्टानत्वोपपत्तेश्च । न चाद्वैतिभिरधिष्टानसत्यत्वमभ्युपगतमिति वाच्यम् । तत्प्रक्रियाया अपि अग्रे निरसनीयत्वात् । योगाचारमतस्यैवाद्वैतिभिरंगीकृतत्वेन तेषां पृथक् समया(1) भावाच्च । एतावांस्तु विशेषः । योगाचारेण स्वमतं न वेदमूलं किंत्वागममूलमित्यंगीकृतम् । अद्वैतिभिस्तु योगाचारमतमेव औपनिषदीकृतमिति । यथाचैतत् तथोपपादयिष्यते । तस्माद्योगाचारमतमनुपपन्नम् । तदेतत्सर्वमभिप्रेत्योक्तम् । “ऊँ न (2)भावोऽनुपलब्धेः ऊँ” इति । (ब्र.सू.2-2-30)

एवं सर्वशून्यवादिनो माध्यमिकस्यापि मतमनुपादेयम् । सर्वशून्यत्वस्य सकलप्रमाणविरुद्धत्वात् । युक्तिविरोधस्य शून्येऽपि वक्तु शक्यत्वेन शून्यत्वस्याप्यसिद्ध्यापत्तेश्च । न हि शून्यमेव तत्त्वं अन्यत् सर्वं मिथ्येति विशिष्य किंचित्प्रमाणमस्ति । किं च जगत्सन्नभवति । असदपि न भवति । उभयात्मकमपि न भवति । उभयविलक्षणमपि न भवति । किं तु चतुष्कोटिविनिर्मुक्तं पंचमप्रकारमिति सर्वथानुप-

F.N.1. प्रमाणाभावाच्चेति पाठान्तरम् ।
2. ऊँ न भावोऽनुपलब्धेः ऊँ (2-2-9-30) अत्र नये विज्ञानमतं निराह । जगदिति प्रकृतम् । भवतीति भावः सद्रूपं ज्ञानम् । जगत् भावो ज्ञानात्मकं न ज्ञानमेव जगदाकारेण परिणमत इति नेत्यर्थः । कुतः । अनुपलब्धेः अननुभवात् । प्रमाणाभावादित्यर्थः । उपलब्धिविरोधादित्यप्यर्थ उक्तः । ज्ञानज्ञेययोर्भेदस्य साक्षिसिद्धत्वादिति भावः । ज्ञानमिति वाच्ये भाव इत्युक्तिः “नासत” इत्युक्तदोषो नेति दर्शयितुम् । केचित्तु प्राप्तौ भुव् शुद्धिचिन्तयोरिति कविकल्पद्रुमोक्ते्चिन्तारूपस्य ज्ञानार्थस्य भुवो रूपमिति, भा वः युष्माकं भाः साकारत्वेनाभिमतं, ज्ञानमिति वाऽभिप्रेत्य भावइत्युक्तिरित्वाहुः ॥

पन्नम् । “परस्पर(1)विरोधे हि न प्रकारान्तरस्थितिः” (न्यायकुसुमाञ्जलिः 3-8) इति न्यायेन सदसत्वयोः परस्परविरुद्धतया जगतः सदसत्वयोरन्यतरत्वापत्या माध्यमिकोक्तपंचमप्रकारताऽसिद्धेः । सदसदुभयरूपत्वस्याप्यंगीकारे त्वदुक्तव्यवस्थासिद्ध्यभावापत्तेश्च । नहि सदसदुभयरूपत्वाभ्युपगमे विरोधः । न तु सन्न भवति इत्यादेरभ्युपगम इति वेशेषहेतुरस्ति ।

किं च शून्यात् जगदुत्पत्तिरिति कथमंगीक्रियते । भावरूपकारणादेव कार्योत्पत्तेः सर्वानुभवसिद्धत्वात् । शून्यात् कस्याप्युत्पत्तेरदर्शनाच्च । घटादिप्रागभावस्य घटादिकारणत्वमंगीकृतमिति चेत् भ्रान्तोऽसि । न हि वयं अभावस्य निमित्तत्वं नेति ब्रूमः । किन्तूपादानत्वमिति । किं च सर्वशून्यवादे स्वाभिमतशून्यं कथं सिध्येत् । स्वपक्षसाधकप्रमाणाभावात् । न च परांगीकृतवस्तुखण्डनेनैवास्मदभिमतशून्यसिद्धिः । न तु तत्सिध्यर्थं यत्नान्तरमिति वाच्यम् । वस्तुसिद्धेः प्रमाणपरतन्त्रतया स्वाभिमतयस्तुसाधकप्रमाणस्यानुसरणीयत्वात् । केवलवैतण्डिकस्य कथायामनधिकारेण प्रामाणिकैर्बहिष्करणीयत्वाच्च ।

किं च प्रमाणोपलब्धस्य जगतः कथं शून्यत्वमभ्युपगभ्यते । स्वाप्नपदार्थवदिति चेन्न देशकालविपर्यासादिना बाधकवशेन च स्वाप्नपदार्थस्य तथात्वेऽपि घटादिजाग्रत्पदार्थेषु बाधकाभावेन यथार्थ्यस्यैवाभ्युपगन्तव्यत्वात् । स्वाप्नपार्थानामीश्वरसृष्टतया अबाधितत्वेन च

F.N.1. नैकतापिविरुद्धानामुक्तिमात्रविरोधतः (न्या.कु.3-8) न प्रकारान्तरस्थितिः न नोभयात्मकत्वं, हि यतः परस्परविरोधात्, नैकतापि नभावाभावात्मकत्वमपि, विरुद्धानामिति हेतुगर्भविशेषणं परस्परविरोधिरूपत्वात् । विरोधमेव प्रतिपादयति उक्तिमात्रविरोधतः । नाभाव इत्युक्ते च भावत्वप्रतीतेः कथमभावता, न भाव इत्युक्ते चाभावत्वप्रतीतेर्न भावत्वम् । भावाभावातिरिक्तपदार्थस्याप्रसिद्धत्वादिति यावत् । अपितु भावाभावान्यतरत्वमेवेति परमाभिप्रायः ।

सत्यत्वस्य(1) वक्ष्यमाणत्वाच्च । न हि नेदं रजतमित्यादिबाधकप्रतीतिवत् `नायं गजऋः किंत्वमुक’ इत्येवंरुपो बाधकप्रत्ययोऽस्ति । नास्त्यत्र गज इत्यभावमात्रप्रतीतिस्तु `नात्र घटः’ इत्यादिप्रतीतिवत् सत्यत्वेष्युपपन्नमिति न किंचिदनुपपन्नम् ।

तस्मान्माध्यमिकमतमनुपपन्नम् । तदेतत्सर्वमभिसंधायोक्तं भगवता बादरायणेन `ऊँ नाभाव(2) उपलब्धेः ऊँ’ (ब्र.सू.अ.2,पा.2,-

F.N.1. यदा कर्मसु काम्येषु स्त्रियं स्वप्नेऽभिपश्यति । समृद्धिं तत्र जानीयात्तस्मिन् स्वप्ननिदर्शने ॥ (छांद. 5-2-9) इत्यादिस्मृतितः स्वाप्नार्थानां शुभादिसूचकत्वप्रमाणेन शाकुनवत्सत्यत्वात् । न तत्र रथा न रथयोगा न पन्थानो भवन्त्यथ रथान् रथयोगान् पथः सृजते । न तत्रानन्दा मुदः प्रमुदो भवन्ति । अथानन्दान्मुदः प्रमुदः सृजते । न तत्र वेशान्ताः पुष्करिण्यः स्रवन्त्यो भवन्कत्यथ वेशान्ताः पुष्करिण्यः स्रवन्त्यः सृजते सहि सर्वस्य कर्ता (बृ.6-3-10) इति श्रुत्या प्रागसतामेवार्थानां स्वप्न एव दृष्टेः सृष्टेश्चोक्त्या तदैवोत्पत्तिनिरोधयोः संभवेन, “य एषु सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाणः (कठ.5-7) इति श्रुतौ तथा एतस्माद्धेव पुत्रो जायते एतस्माद्भातैतस्माद्भार्या यदैनं पुरुषमेष स्वप्नेनाभिहन्ति इति (गोपवन) श्रुतौ च स्वप्नार्थानां ईशकर्तृत्वस्योक्त्या कर्त्रभवाचोद्यस्य तथा बाह्यार्थघटादिवत् स्फुटमनभिव्यक्तत्वयुक्त्या, मनोगतांस्तु संरकारान स्वेच्छयापरमेश्वरः । प्रदर्शयति जीवाय स स्वप्न इति गीयते” (ब्रह्माण्डे) इति स्मृत्या च बाह्योपादानविलक्षणमानसवासनोपादानकत्वावगमेन निरूपादानत्वचोद्यस्यानकाशात् स्वप्नायां जाग्रत्पदार्थत्वस्यासत्वेन बाधोपपत्तेश्च साधकसद्भावाच्च स्वप्नार्थाः सत्या एवेति स्वप्नार्थाः सद्धियः तत्तिरोधानं चेति सर्वमीशाधीनमिति सत्यत्वस्येशाधीनत्वस्य च वक्ष्यमाणत्वादित्यर्थः ।

  1. ऊँ नाभाव उपलब्धेः ऊँ (2-2-8-28) भवतीति भावः सन् अभावोऽसन् । भवतेच्चेतिणः । जगत् अभावो न शून्यव्यतिरेकेणतत्वं नास्तीति न । उपलब्धेः । सदित्युपलभ्यमानत्वादित्यर्थः । सुधायां तु तवासतो जनिरिव मम सतोऽपि कार्यजनिर्न दृष्टा जगतस्सत्त्वासम्मतेरित्यतो जगतोऽसत्त्वं नेत्याहेत्यवतार्य व्याख्यातम् । ननु सदित्युपलंभेऽपि स्वप्नादिवदसज्जगत्किं न स्यादित्यत आह ।

ऊँ वैधर्म्याच्च न स्वप्नादिवत् ऊँ (ब्र.सू.2-2-8-29) अभाव इति वर्तते । स्वप्नजाग्रत्वादिवत् रज्जुभुजङ्गादिवच्च जगदभावोऽसन्न । कुतः । वैधर्म्याच्च । स्वप्न एवायं न जाग्रतू रज्जुरियं न सर्प इति बाधविषयत्ववैलक्षण्यादित्यर्थः । चशब्दोऽत्र बाधाभावादित्यर्थसूचनार्थः । सुधायान्तु दृश्यत्वादिमिथ्यात्वहेत्वपाकरणार्थमप्येतदवतार्य “स्वप्नादिवज्जगत् दृश्यत्वादिना न मिथ्या । अर्थक्रियाकारित्वादिवैधर्म्यात्सत्यत्वसिद्धेः । चशब्दोक्तसत्यत्वानुभवबाधात्तत एव मिथ्यात्वे कस्यापि मानस्याभावाच्चेति” सत्प्रतिपक्षबाधमिथ्यात्वमानाभावोक्तिपरमप्युक्तम् । तेन बाधाभावो नासिद्ध इति ध्येयम् । तत्त्वप्रदीपेतु “स्वप्नादिवज्जगन्नदृश्यत्वादिना मिथ्या । स्वप्न एवायं न जागरित इति प्रतीत्या जाग्रत्वाद्येकदेशस्यैव मिथ्यात्वेन सर्वस्य तदभावेन साध्यवैकल्यात् । जाग्रत्वस्य दृष्टान्तत्वे बाधकभावाभावाभ्यां वैधर्म्यादिति” योजितम् । एतेनैवाद्वैतमतं च प्रत्युक्तं बोध्यम् ।

आधि.8, सू.28) `ऊँ वैधर्म्याच्च न स्वप्नादिवत् ऊँ’ इति (ब्र.सू.अ.2,पा.2,अधि.8,सू.29)

इति श्रीमत्परमहंसपरिव्राजकाचार्याणां श्रीमत्सुरेन्द्रतीर्थपूज्यपादानां शिष्येण सर्वतन्त्रस्वतन्त्रेण विजयीन्द्रभिक्षुणा विरचिते सर्वसिद्धान्तसारासारविवेचने सौगतमतभङ्गो नाम द्वितीयः परिच्छेदः ॥


सौमारिलवैयाकरणमतभङ्गः

%॥ अथ सौमारिलवैयाकरणमतभङ्गः ॥%

इदानीं कौमारिलादिमतं निराक्रियते ।

इत्थं कौमारिलप्रक्रिया । वेदस्तावत्प्रमाणम् । स च विध्यर्थ वादमन्त्रनामधेयभेदभिन्नो धर्ममेव प्रतिपादयति । तत्र विधीनां साक्षाद्धर्मप्रतिपादकत्वम् । अर्थवादानामनुष्ठेयार्थस्मारकत्वेनोपयोगः । नामधेयानां धात्वर्थावच्छेदकत्वेनेति विवेकः । एवं च सर्वस्यापि वेदस्य धर्मप्रमाणतया धर्मातिरिक्तमीश्वरादिकं न वेदतात्पर्यविषयः–इति । ईश्वरोऽपि नाङ्गीकार्यः । सृष्टिप्रलयावपि नाङ्गीकार्यौ । देहविशेषविशिष्टाश्चेतनारूपा इंद्रादिदेवा अपि नाङ्गीकार्याः । न च वेदान्तैरीश्वरसिद्धिः सृष्टिप्रलयादिसिद्धिश्चेति वाच्यम् । वेदान्तानामूषरप्रायत्वेन केवलादृष्टार्थत्वोपपत्तेः । यद्वा कर्मकर्ता जीवात्मैव वेदान्तैर्ज्ञातव्य इत्युपदिश्यते । आत्मज्ञानं च कर्तुसंस्कारः । एवं चैतावदरे खल्वमृतत्वमित्यादिफलश्रुतिरर्थवादः । तथा च पारमर्षं सूत्रम् । `द्रव्यसंस्कारकर्मसु परार्थत्वात् फलश्रुतिरर्थवादः स्यादि’ति (जै.सू.अ.4,पा.3-अधि.1,सू.1) । मोक्षश्च निष्कामकृतकर्मभ्य एव भवति । कर्मणां मोक्षसाधनत्वनिषेधश्च सकामकृतकर्मविषयः । न च निष्कामकृतकर्मणां मोक्षसाधनत्वे सकामकृकर्मणां च बन्धहेतुत्वे प्रमाणाभावः । `कर्मणा मृत्युमृषयो निषेदुः । प्रजावन्तो द्रविणमिच्छमानाः’ अथापरे ऋषयो मनीषिणः परं कर्मभ्योऽमृतत्वमानशुः । `न कर्मणा न प्रजया धनेन त्यागेनैकेऽमृतत्वमानशुः’ इत्यादिश्रुतीनां (कैवल्योपनिषत् खं.1,मं.3) सत्वात् । अत्र प्रजावन्तो द्रविणमिच्छमाना ऋषयः कर्मणा मृत्युं निषेदुरिति सकामकृतकर्मणां मृत्युशब्दितवन्धहेतुत्वोक्त्या मनीषिणोऽपरे ऋषयः कर्मभ्यः परममृतत्वमानशुः इत्यमृतत्वसाधनतयोक्तानां कर्मणां निष्कामकृतत्वलाभात् । `त्यागेनेत्यत्रापि फलाभिसान्धित्यागमात्रस्य विवक्षितत्वाच्च । न च श्रुतिद्वयेऽपि कर्मविशेषसाध्यतया प्रतिपाद्यमानममृतत्वं आभूतसंप्लवं स्थानममृतत्वं हि भण्यते” इत्युक्तमोणामृतत्वमिति शङ्क्यम् । त्वन्मतेऽपि एतावदरे खल्वमृतत्वमित्यादौ प्रतिपाद्यमानममृतत्वमपि तथाविधं स्यादिति वक्तुं शक्यत्वात् । परममृतत्वमिति मुख्यत्वरूपपरत्वविशेषणेन तस्य मोक्षरूपत्वावश्यं भावाच्च । तस्माद्वेदान्तानां कर्मकर्तुस्तावकत्वात्, कर्मणामेव मोक्षसाधनत्वात् ईश्वरसृष्टिप्रलयक्रिया नाङ्गीकार्या इति । तत्र ब्रूमः ईश्वरः किमिति नाङ्गीक्रियते । किं साधकाभावात् । किं वा बाधकसत्वात् । नाद्यः । भिन्नप्रकरणस्थानां वेदान्तानामेव तत्साधकत्वात् । न च वेदान्तानामूषरप्रयत्वमिति शङ्क्यम् । वेदमात्रस्य तथात्वापातात् । वैदिकेन सर्ववेदानामर्थवत्वेनैव प्रामाण्यस्याङ्गीकार्यत्वात् । न च वेदांतानां भिन्नप्रकरणस्थत्वेऽपि कर्मकर्तुभूतजीवात्मप्रतिपादकत्वमिति वाच्यम् । `यतो चे’ त्यादीनां जीवात्मप्रतिपादकत्वाभावेन तदतिरिक्तपरमात्मप्रतिपादकत्वस्यावश्यकत्वात् । न च यतो वेत्यादीनां कर्मकर्तृभूतजीवात्मस्तावकत्वमिति शङ्क्यम् । सर्वेष्वपि वेदान्तेषु जीवातिरिक्तस्य परमात्मन एव जगत्कारणत्वादिधर्माणामावेदितत्वादनेन तेषां तत्साधकत्वायोगात् । न ह्यन्यस्य प्रतिपादनमन्यस्य स्तुतिर्भवति । न च `अयमात्मा ब्रह्म’(1) `तत्वमसि’(2) इत्यादिना जीवपरैक्यप्रतिपादनान्नस्तुतेरन्यनिष्ठत्वमिति वाच्यम् । तत्वमस्यादीनामपि त्वद्रीत्या स्तुतिपरत्वेन तस्य जीवपरैक्यसाधकत्वायोगात् । प्रत्यक्षादिप्रमाणान्तरानुसारेण तत्वमस्यादिवाक्यार्थस्यानुसरणीयत्वात् । जडब्रह्मैक्यप्रतिपादनवत् जीवपरैक्यप्रतिपादनस्याप्यर्थान्तरपरत्वावश्यम्भवाच्च । तस्माद्वेदान्तेजीवातिरिक्तपरमात्मसिद्धिर्दुर्वारा । न द्वितीयः । वेदान्तैर्जीवातिरिक्तब्रह्मसिद्धौ बाधकाभावात् ।

किं च वेदान्ते जीवातिरिक्तब्रह्मसिद्धौ किं बाधकम् । न तावद्वेदमात्रस्य क्रियापरत्वं तत् बाधकम् । स्वर्गादीनामप्यसिध्यापातात् । तेषामक्रियारूपत्वात् । न च स्वर्गादीनामक्रियारूपत्वेऽपि क्रियाफलप्रतिपादकत्वेन क्रियार्थत्वम् । क्रियास्वरूपसाधनफलेष्वन्यतमप्रतिपादकस्यापि क्रियाप्रतिपादकत्वात् । ब्रह्मणश्चोक्तेष्वन्यतमत्वाभावादिति

F.N.1. बृ.उ.अ.4,ब्रा.4,मं.8 ॥
2. छां 6-8-7 ॥

वाच्यम् । लोके सिद्धपरवाक्यानामपि बोधकत्वदर्शनेन तन्न्यायेन वेदान्तानां सिद्धब्रह्मप्रतिपादकत्वेऽपि प्रामाण्यस्य दुर्वारत्वात् । कर्मफलप्रदत्वेन सकलकर्मसमाराध्यत्वेन च वेदान्तैर्ब्रह्मसिध्युपपत्तेश्च । न च तस्य तत्र प्रमाणाभावः । `एषह्येव साधु कर्म कारयति’ (कौ.3-8), `तं यमेभ्यो लोकेभ्य उन्निनीषते’, `इष्टापूर्तं बहुधा जातं जायमानं विश्वं बिभर्ति’ `भुवनस्य नाभिः’ `भोक्तारं यज्ञतपलां सर्वलोकमहेश्वरम्’ फलमत उपपत्ते (ब्र.अ.3,पा.2,सू.39) रित्यादि श्रुतिस्मृति सूत्राणां सत्वात् । न च तेषामन्यपरत्वम् । यथाश्रुतार्थपरत्वे बाधकाभावात् । तस्माद्वेदानां क्रियापरत्वेऽपि वेदान्तानां सकलकर्मसमाराधअयब्रह्मप्रतिपादकत्वं दुर्वारमिति न तत् ब्रह्मसिद्धौ बाधकम् ।

नापि सृष्टिप्रलयाद्यभाव एव ईश्वरसिद्धौ बाधकः । सृष्टिप्रलययोः सर्ववेदान्तेषु प्रतिपादनेन तदसिद्धेः । सृष्टिप्रलयोरीश्वरसिध्यधीनत्वेनान्योन्याश्रय इति चेत् । भ्रान्तोऽसि । न हि वयं सृष्टिप्रलयौ ईश्वरं च कल्पयामः । येनान्योन्याश्रयः स्यात् । किन्तु श्रुतिस्मृतिभिस्तदुभयसिद्धिं ब्रूमः इति ॥

किञ्च “किमीश्वरः स्वार्थं जगत्सृजति परार्थं वा” । नाद्यः । तस्य आप्तकामत्वाभ्युपगमात् । न द्वितीयः । वैषम्यनैर्धृण्यप्रसंगादित्यादिकं तु न बाधकम् । लोकवत्तु लीलाकैवल्य (ब्र.सू.2-1-34) मित्यादिनैव सूत्रकृताऽस्या बाधकस्य परिहृतत्वात् । बाधकान्तरं च ब्रह्ममीमांसायामेव द्वितीयाध्याये विस्तरेण प्रतिक्षिप्तमिति नेह प्रपंच्यते । तस्मादीश्वरसिद्धौ न किमपि बाधकम् ॥

किञ्च मोक्षसाधनीभूतज्ञानविषयत्वेन ब्रह्मसिद्धिः । न च ज्ञानान्नमोक्षः । किन्तु कर्मभ्य एव स इति वाच्यम् । `ब्रह्मविदाप्नोति परम्’ (तै.उ.) `तमेवं विद्वानमृत ईह भवति’ (पुरुषसूक्तम्) इत्यादिबहुश्रुतिविरोधापातात् ॥

`न कर्ममा न प्रजया धनेन’ (कैवल्योपनिषत् खं.1,मं.3) इत्यादौ कर्मणां मोक्षसाधनत्वस्य कण्ठत एव निषेधात् । मोक्षसाधनीभूतज्ञानार्थतया कर्मणां मोक्षसाधनत्वोक्त्युपपत्तेश्च । तथा च श्रुतिः । `तमेतं वेदानुवचनेन ब्राह्मणा विविदिषंति यज्ञेन दानेन तपसाऽनाशकेन’ “विद्यां चाविद्यां च यस्तद्वेदोभयं सह । अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते ॥” (ईषावास्योपनिषदि मन्त्र 11) इत्याद्या ॥

न च ब्रह्मज्ञानस्यैव कर्मार्थत्वमिति वैषरीत्यं शङ्क्यम् । मोक्षसाधनत्वेनाभिमतस्य ब्रह्मसाक्षात्कारस्य कर्मार्थत्वे प्रमाणाभावात् । कर्मणां ब्रह्मज्ञानार्थत्वे श्रुत्यादिप्रमाणस्योदाहृतत्वाच्चेति यत्किञ्चिदेतत् ॥

तस्मान्निरीश्वरवादः सर्वात्मना त्याज्यः । जगदनीश्वरमिति वदतामासुरप्रकृतित्वेन तेषामसंभाष्यत्वात् । तथा च भगवद्वचनम् । असत्यमप्रतिष्ठन्ते जगदाहुरनीश्वरम् इति । (गीता अ.16,श्लो.8)

एवं वेदान्तविरुद्धं कौमारिलप्रक्रियान्तरमपि निरसनीयम् ॥

एतेन जगतः शब्दविवर्तत्वमभ्युपगच्छतां वैयाकरणानां मतमपि निरस्तं वेदितव्यम् । शब्दस्य जगत्कारणत्वे प्रमाणाभावात् । सच्चिदानन्दादिरूपं ब्रह्म हि वेदान्तेषु जगत्कारणत्वेनावेद्यते । शब्दस्य तथात्वाभ्युपगमे नाममात्रे विवादपर्यवसानात् । वर्णानां वेदानां च नित्यविभुत्वाभ्युपगमेऽपि जगदुपादानत्वायोगाच्च । वर्णानां वेदानां च नित्यविभुत्वाभ्युपगमेऽपि जगदुपादानत्वायोगाच्च । प्रकृतेरेव जगदुपादानत्वावश्यम्भावाच्च । प्रकृतेश्च प्रत्यक्षसिद्धशब्दभिन्नत्वावश्यम्भावाच्च । न च स्फोटाख्यशब्दविशेषस्यैव जगदुपादानत्वमङ्गीक्रियते इति वाच्यम् । श्रूयमाणशब्दव्यतिरेकेण स्फोटसद्भावे प्रमाणाभावात् श्रूयमाणशब्दानामेव नित्यत्वाभ्युपगमेन तैरेवार्थप्रतीत्युपपत्तौ तदर्थतया स्फोटस्यानङ्गीकार्यत्वाच्च । व्याकरणसूत्रेषु स्फोटाख्यशब्दाङ्गीकारस्य क्वाप्यदर्शनेन व्याख्यातॄणां तदङ्गीकारस्याज्ञानप्रयुक्तत्वावश्यम्भावेन प्रेक्षावदनुपादेयत्वाच्च ।

किञ्च स्फोटसद्भावेऽपि तस्य जगदुपादानत्वे प्रमाणाभावः । न तावत्तस्य प्रत्यक्षेण जगदुपादानत्वसिद्धिः । जगतः शब्दप्रभवत्वेनादर्शनात् । तस्याप्रत्यक्षत्वोपगमाच्च । नाप्यनुमानेन तत्सिद्धिः । स्फोटे जगदुपादानत्वसाधकस्य लिङ्गस्यादर्शनात् । न चागमेन तत्सिद्धिः । `द्यावा भूमी जनयन् देव एकः’ इत्याद्यागमेन परमात्मनो जगत्कर्तृत्वस्य, मायां तु प्रकृतिं विद्यात्’ (श्वेताश्व.4,अ.मं.10) इत्याद्यागमेन मायाशब्दितस्य जगदुपादानत्वस्य च प्रतिपादनात् । त्वभिमतस्फोटाख्यशब्दस्य तथात्वप्रतिपादकागमस्यादर्शनाच्च । न च `माया’ `प्रकृत्या’दिशब्देन स्फोटाख्यशब्द एवोच्यत इति वाच्यम् । प्रमाणाभावात् । वैपरीत्यापत्तेश्च । नाममात्रविवादापत्तेश्च । नाप्यनुपपत्या तत्सिद्धिः । स्फोटस्य जगदुपादानत्वाभावे अनुपपद्यमानार्थस्यादर्शनात् । जगतः प्रकृत्युपादानत्वेनाप्युपपत्तेञ्च । अर्थप्रतीतेश्च नित्यशब्दकार्यत्वोपगमेन तदनुपपत्यभावाच्चेति यत्किञ्चिदेतत् ।

तस्मात् वैयाकरणमतमपि प्रक्षावदनुपादेयमिति सिद्धम् ।

इति श्रीमत्परमहंसपरिव्राजकाचार्याणां श्रीमत्सुरेन्द्रतीर्थपूज्यपादानां शिष्येण सर्वतन्त्रस्वतन्त्रेण विजयीन्द्रभिक्षुणा विरचिते सर्वसिद्धान्तसारासारविवेचने कौमारिलवैयाकरणमतभङ्गो नाम सप्तमः परिच्छेदः ॥


यादवप्रकाशमतभङ्गः

%॥ अथ यादवप्रकाशमतभङ्गः ॥%

इदानीं यादवप्रकाशमतं निराक्रियते ॥

इत्थं हि तन्मतम् । सर्वशक्त्युपेतं स्वप्रकाशं सन्मात्रं ब्रह्म । तच्च सांशम् । केनचिदंशेन ईश्वरात्मना परिणमते । केनचिदंशेन जीवात्मना । केनचित्प्रकृत्यात्मना । तत्र सन्मात्रं ब्रह्म निस्तरंगसमुद्रस्थानीयम् । तरंगस्थानीय ईश्वरः । बुद्बुदस्थानीयः पुरुषः(1) फेनस्थानीया प्रकृतिः । सदेव सोम्येदमग्र आसीत्, एकमेवाद्वितीयं, तदैक्षत, बहुस्यां प्रजायेयेत्यादि (छां.अ.6,खं.2,मं.1,3) श्रुत्या सन्मात्रब्रह्मण एव बहुभवनोक्तेः । ब्रह्मणस्तेषां च भेदोऽभेदश्च स्वाभाविकः । उभयोरपि श्रुतिप्रतिपन्नत्वात् । तत्र ईश्वरस्य मनोमयो वाङ्ग्यः प्राणमय इति त्रर्योशाः । ते च सत्वतमोरजःपरिणामभूताः मनःशब्देन प्राण्रूपेण परिणताः संसारिणां उपकुर्वन्ति । प्रा णमयोंऽतर्यामीभूय स एव तत्वतदधिष्ठातृदेवताभिः सह कर्तृत्वं प्राप्नोति । कर्तृभूतजीवांतर्गतो मनोमयः जीवस्य कारयिता भवति । वाङ्मयस्तु सर्वत्र परिणमयिता । पुरुषस्तु सर्ववस्तुभोक्तृशक्तियुक्तः । तस्यैव ब्यूहभूताः प्रतिशरीरं व्यवस्थिताः अणवोऽनंता जीवनामकाः संचरंति । तेषां ब्रह्मांशतया तत्र केषांचित् ब्रह्मगुणानां आवरणं केषांचिदनावरणं च । ते च जीवाः त्रिविधाः । सिद्धा बद्धा मुक्ताश्चेति । सिद्धाश्च द्विविधाः । आजानसिद्धा योगसिद्धाश्चेति । आजानसिद्धा ईश्वरस्योपकरणभूताः । योगसिद्धाः ईश्वरदत्ताणिमादिगुणाविर्भावाः । संसारिणो बद्धाः । बंधश्च त्रिविधः । प्रकृतिबंधो, वैकारिकबंधो दक्षिणाबंधश्चेति । पृथिव्याद्यष्टप्रकृतिसंपादितो बंधः प्रकृतिबंधः । तद्विकार (रि) शब्दादिसंपादितो बंधो वैकारिकः । कर्मकृतो बंधो दक्षिणाबंधश्चेति । एते च तुषादिवत् जीवमावेष्ट्य ब्रह्मगुणाविर्भावप्रतिबंधका भवन्ति । मुक्तास्तु आविर्भूतचतुर्गुणाः । (सत्त्वगुणाः) (सप्तगुणाः) ते च स्वेच्छया ईश्वराभिन्नाः तद्भिन्नाश्च भवंति ।

F.N.1. जीवः

पुरुषेश्वरयोः स्वतः परिणामाभावेऽपि हेतुवशात् ज्ञानादिपरिणामयोगित्वमस्ति । प्रकृतिस्तु अचेतनभूता । सा च कालपरमाकाशाव्यक्तभेदेन त्रिविधा । कर्मफलदेशविशेषेषु भोक्तॄन् नियमयंती प्रकृतिः नियत्यवस्थापन्ना चतुर्विधा च भवति । परिस्पंदानां विशेषकारणं कालः । प्रलयकाले तप्तायःपिण्डांबुवदीश्वरेण एकतामापन्नायाः शक्त्यवस्थानरूपायाः मूलप्रकृतेः विभागव्यपदेशयोग्या अक्षरशब्दवाच्याद्यवस्था परमाकाशम् । अस्य शब्दपरिणामशक्तियुक्ततया वागक्षरशब्दवाच्यत्वं भवति । इदमीश्वरंप्रति प्रभेति व्यपदिश्यते । अस्यैव देशरूपत्वेन देशांतरानपेक्षत्वम् । परमात्मनोऽपि एतद्देशसंयोगेन ज्ञानप्रभा, आनंदप्रभा, क्रियाप्रभेत्येवं रूपाः प्रभाः संभवंति । ईश्वरानंदप्रभैव पुरुषेषु अभिव्यक्ता विषयसुखव्यपदेशं लभते । क्रियाप्रभातः प्राणरूपा, ज्ञानप्रभातः सत्त्वं, क्रियाप्रभातो रजः । वाक्शक्तितः तमश्च जायते । एतेषां सत्त्वादीनां पूर्वोक्तमनोमयादयोऽधिष्ठातारः । नचैवं विधप्रक्रियायां मानाभावः ॥ “ईश्वराव्याकृतप्राणभूतैः सिंधुरिवोर्मिभिः यत्प्रनृत्यदिवाभाति तस्मै सत् ब्रह्मणे नमः” इति कात्यायनकारिकया अस्य सर्वस्य संगृहीतत्वात् इति । तदनुपपन्नम् । अत्र तावत् ब्रह्मणः सांशत्वं न संभवति । निष्कलं निष्क्रियं शांतं निरवद्यं निरंजनमित्यादि श्रुतेः (श्वेताश्व अ.6,मं.17) । न च तस्याः औपाधिकांशनिषेधपरत्वमिति युक्तम् । तथा संकोचे कारणआभावात् । न च पादोऽस्य विश्वाभूतानि त्रिपादस्यामृतंदिवीत्यादि श्रुत्या (पु.सू.) ब्रह्मणः सांशत्वप्रतिपादनात् तथा संकोचः क्रियत इति वाच्यम् । अस्मिन् ग्रामे मम चतुर्थोऽश इत्यादाविव अत्रापि सर्वभूतानां ब्रह्मांशत्वस्य औपचारिकत्वात् । जडाजडयोः स्वाभाविकांशत्वायोगात् । योगे च सर्वसांकर्यापातात् । न च ब्रह्मणः निरंशत्वे “बहुस्यां प्रजायेयेति”, “तदात्मानं स्वयमकुरुत”, “सच्च त्वच्चाभावत्”, “येनाश्रुतं श्रुतं भवति” “यथा सोम्येकेन मृपिंडेन सर्वं मृण्मयं विज्ञातं स्यात्” (छां.अ.6,मं.3,4) इत्यादि श्रुतिभिः ब्रह्मणो बहुभावस्य एकविज्ञानेन सर्वविज्ञानस्य मृदादिदृष्टांतानां च प्रतिपन्नतया तद्विरोधः स्यात् । सांशत्वेतु तत्सर्वं उपपद्यते इति वाच्यम् । अंतर्यामिरूपेण बहुभवनस्योपपन्नतया ईश्वराव्यक्तरूपेण सांशत्वस्य सिध्यनुपपत्तेः नचांतर्यामिबहुत्वे तस्य सांशत्वमापन्नमिति युक्तम् । अनेकव्यक्त्यात्मकत्वरूपबहुत्वस्यैव सांशत्वप्रयोजकत्वात् । तस्य च परमात्मनि अनभ्युपगमात् । तस्य च एकव्यक्तिरूपत्वात् । न चैवं तत्र बहुत्वं पारिभाषिकं न तु वास्तवमिति युक्तम् । एकस्मिन्नपि ज्ञानस्वरूपत्वानंदस्वरूपत्वादेः विशेषणत्वविशेष्यत्वादेश्च भिन्नभिन्नस्य तत् स्वरूपरूपस्याभ्युपगमेन एकव्यक्तावपि बहुत्वस्य वास्तवस्य अंगीकर्तव्यात् । एकविज्ञानेन सर्वविज्ञानं च सर्वस्य ब्रह्मांशत्वाभावेऽपि संभवति । ब्रह्मज्ञानेन पुण्यपापादिनिवृत्तेः इव । सर्वविषयज्ञानोत्पत्तेरेव तत्र प्रतिपादनात् । न हि धूमादिज्ञानेन वह्नादि ज्ञायते इत्येतावता एकसंबंधिदर्शनेन अपरः संबंधि स्मर्यत इत्येतावता तत्रांशांशिभावो अभेदो वास्ति । तत्र संबंधिविशेषस्य नियामकत्वे प्रकृतेऽपि तथास्तु ।

किं च सन्मात्रं ब्रह्मैवेश्वराव्याकृतपुरुषरूपेण परिणमत इत्ययुक्तम् । ब्रह्मणः कूटस्थनित्यत्वात् । कारणरूपमेकाकारं परं ब्रह्मेति तस्य सत्तर्कैरेकरूपत्वप्रतिपादनात् । निष्क्रियमिति निर्विकारत्व “प्रतिपादनाच्च” । न चास्य कश्चित् जनिता न चाधिपः गौरनाद्यंतवती (मंत्रिकोपनिषत् मं.5) न जायते म्रियते वा विपश्चित्, “अविकाराय शुद्धाय नित्याय परमात्मने । सदैकरूपरूपाय विष्णवे सर्वजिष्णवे ॥” तदनंतरसंख्यातमसंख्यातप्रमाणकम् । नित्यः सर्वगतः स्थाणुः अचलोयं सनातनः (भ.गी.अ.2, श्लोक 24) इत्यादिश्रुतिस्मृतिभिः ईश्वराव्याकृतपुरुषाणां अनाद्यनंतत्वावेदनेन तेषां सन्मात्रब्रह्माविकारत्वायोगाच्च । जीवानां उत्पत्तिविनाशाभ्युपगमे कृतहानाकृताभ्यागमप्रसंगाच्च । न च परिणममानसन्मात्रब्रह्मानुवृत्या न कृतहानादिप्रसंग इति युक्तम् । तावन्मात्रस्य जीवशब्दार्थत्वाभावात् । जीवस्य च प्रलयादौ नष्टत्वात् सन्मात्रब्रह्मणोऽनुवृत्ततया जीवस्य च व्यावृत्ततया तयोरभेदायोगाच्च ।

किं च ईश्वरातिरेकेणानुवृत्तब्र्ह्मसद्भावे मानाभावः । ईश्वरस्यैव सर्वजगत्कारणत्वात् । तस्यैव सर्ववेदान्तप्रतिपाद्यत्वात् । एतेन ईश्वरस्य मनोमयः वाङ्मयः प्राणमय इति त्रयोंशा इति निरस्तम् । मनोवाक्प्राणशब्दार्थानां प्रसिद्धानां ईश्वराभिन्नांशत्वाभावात् । भिन्नांशत्वोपपत्तेश्च । तेषां तदभेदायोग्यार्थांतरत्वे च न काचित् क्षतिः । अस्माभिरपि संकर्षणादीनामीश्वरव्यूहरूपत्वाभ्युपगमात् । मनोमयवाङ्मप्राणमयाः सत्वतमोरजःपरिणामभूता इत्यसंगतम् । तेषां चेतनतया तत्परिणामत्वायोगात् । अचेतनत्वे च ईश्वरव्यूहत्वायोगात् । एवं प्राणमयस्यांतर्यामितया कर्तृत्वं मनोमयस्य कारयितृत्वं वाङ्मयस्य परिणामयितृत्वं इति कल्पनं च प्रमाणाभावेनानादरणीयम् ।

किं च भोक्तृत्वशक्तियुक्तस्य पुरुषस्य व्यूहभूताः प्रतिशरीरं व्यवस्थिताजीवा इत्युयुक्तम् । प्रतिशरीरं जीवानां भइन्नत्वात् । व्यूहशब्देन अभेदविवक्षायां सुखदुःखादिव्यवस्थानुपपत्तेः । विकारविवक्षायां च कृतहानादिप्रसंगात् । जीवत्रैविध्याद्युपपादनं तु नात्यंतविरोधि इत्युक्तम् । जीवाश्च स्वेच्छया ईश्वरभिन्नाः तदभिन्नाश्च भवंतीत्यनुपपन्नम् । प्रमाणाभावात् । न च “ब्रह्म वेद ब्रह्मैव भवति” (मुं.3-2-9) “ब्रह्मविदाप्नोति परं” (तै.ब्र.वल्ली प्रथमानुवाकः) इत्यादिश्रुतिभिः मोक्षे भेदाभेदयोः उभयोरपि प्रतिपादनात् उभयसिद्धिरिति वाच्यम् । तथासति सर्वेषां वेदांतानां यथाश्रुतार्थपरत्वापातेन मीमांसावैयर्थ्यप्रसंगात् । कालपरमाकाशावप्यक्तनियतिरूपेण तमूलप्रकृतिचातुर्विध्यं चायुक्तम् । कालतत्वस्य प्रकृतितो अत्यंतभिन्नत्वात् । कालस्य सामान्यकारणत्वेन परिस्पंदं प्रति विशेषकारणत्वोक्त्ययोगाच्च । मूलप्रकृत्यव्यवहितावस्थारूपपरमाकाशसद्भावे मानाभावाच्च । महत्तत्वस्यैव मूलप्रकृत्यव्यवहितावस्थात्वात् । महत एव परमाकाशशब्दवाच्यत्वाभ्युपगमे न नो हानिः । परमाकाशस्य ईश्वरप्रभात्वपरिभाषायाः न किंचित् प्रयोजनम् । परमात्मनः परमाकाशसंबंधेन ज्ञानप्रभा आनंदप्रभा क्रियाप्रभा इत्येवं रूपाः प्रभाः संभवंतीत्युक्तिश्च अनुपपन्ना । “स्वाभाविकी ज्ञानबलक्रिया चेत्यादि श्रुत्या” (श्वेताश्व अ. 6,मं 8) ईश्वरज्ञानादीनां अन्यन्याधीनत्वरूपस्वाभाविकत्वस्य प्रतिपन्नत्वात् ।

किं च ईश्वरानंदप्रभैव पुरुषेषु वैषयिकसुखरूपेण अभिव्यज्यते इत्यनुपपन्नम् । वैषयिकसुखस्य ततो भिन्नत्वात् । एष ह्येवानंदयातीत्यादिश्रुत्या ईश्वरहेतुकावनंदांतरोक्तेश्च । न च एतस्यैव आनंदस्य अन्यानि भूतानि मात्रामुपजीवंति । `रसंह्येवायं लब्ध्वा आनंदीभवति’ (तै.उ.ब्रं.वल्ली.7 अनुवाकः) इत्यादि श्रुत्यंतरपर्यालोचनया ब्रह्मानंदस्यैव वैषयिकानंदरूपत्वं सिद्तीति युक्तम् । तथासति `परिक्ष्य लोकान्, कर्मचितान् ब्राह्मणो निर्वेदमायान्नास्त्यकृतः (प्र.मुं.मं.12) कृतेन तद्यथेह कर्मचितो लोकः क्षीयते । एवमेवामुत्र पुण्यचितो लोकः क्षीयते ।’ “अंतवत्तु फलं तेषां तद्भवत्यल्पमेधसां” ( ) इत्यादि श्रुतिस्मृतिभिः वैषयिकानंदानित्यत्वप्रतिपादनपूर्वकं तत्र वैराग्यप्रतिपादनानुपपत्तेः । लौकिकवैदिकतत्तत्सामग्र्यधीनानां तरतमभावापन्नानां वैषयिकसुखानां ईश्वरानंदरूपत्वाभ्युपगमायोगाच्च । न च तदभिव्यक्त्यर्थं सामग्रीकल्पनमिति युक्तम् । तथासति घटादावपि सामग्र्याः अभिव्यक्त्यर्थत्वापत्तेः । तथाचोत्पत्तिः क्वातपि न सिध्येत् । वैषायिकदुःखस्य सामग्रीजन्यत्ववत् तथाविधसुखस्यापि सामग्रीजन्यत्वाश्यंभावाच्च ।

एतस्यैव आनंदस्य अन्यानि भूतानि मात्रामुपजीवंति इत्यादि श्रुतिस्तु विषयजन्यानंदेषु ब्रह्मानंदादत्यंतवैलक्षण्यप्रतिपादनपरा । तदेकदेशत्वं च भेदेप्युपपन्नमिति न कश्चिद्दोषः । एतेन ज्ञानप्रभातः सत्वं क्रियाप्रभातो रजः वाक्शक्तितः तमश्च जायते । एतेषां च मनोमयादयोऽधिष्ठातारः इति निरस्तम् । “सत्त्वं रजस्तम इति गुणाः प्रकृतिसंभवाः” (भगी.अ.14,श्लो.5) इति सत्त्वादीनां प्रकृतिजन्यत्वावगमात् । न च ज्ञानप्रभादीनां सत्त्वादिकं प्रति निमित्तत्वं प्रकृतेः तदुपादानत्वमिति वाच्यम् । इष्टापत्तेः । अस्माभिरपि ईश्वरज्ञानादीनां सत्त्वाद्युत्पत्तिनिमित्तत्वोपगमात् । किं च सत्त्वादीनां मनोमयादयोऽधिष्ठातार इत्यनुपपन्नम् । मनोमयादीनां सत्त्वादिगुणकप्रधानकार्यतया तदधिष्ठातृत्वायोगात् । मनोमयादिशब्देन विष्णूरुद्रोब्रह्मा च विवक्षितः इति चेत् तथा विवक्षायां कारणाभावात् । विष्णोः सत्त्वप्रेरकत्वस्य ब्रह्मणिरजःप्रेरकत्वस्य च श्रुतिस्मृतिसिद्धत्वात् तथा विवक्षेति चेत् अस्तु तावदेवम् । तथापि तेषां मनोमयादिशब्दवाच्यत्वे प्रमाणाभावात् । न च सप्तान्नब्राह्मणे अयमात्मा वाङ्मयो मनोमय इति परमात्मनः त्रैविध्यस्योक्तत्वात् ब्रह्मविष्णुरुद्ररूपेणैव तत् त्रैविध्यस्य श्रुत्यंतरसिद्धत्वात् मनोमयादिशब्देन तेषामेव ग्रहणमिति वाच्यम् । एतदर्थस्यापि अस्मन्मताविरुद्धत्वात् । विष्णोः सत्त्वमात्रप्रवर्तकत्वं तवानिष्टमिति चेत् न सत्त्वस्यैव प्रवर्तकः इति सर्वप्रवर्तकेऽपि तस्मिन्नसाधारण्येन सत्त्वप्रवर्तकत्वस्यापि प्रतिपन्नतया अस्मन्मताविरोधात् । यत्तु “ईश्वररोऽव्याकृतप्राणभूतैः सिंधुरिवोर्मिभिः । यत्प्रनृत्यादिवाभाति तस्मै सद्ब्रह्मणे नमः” इति कात्यायनकारिकोक्तं सर्वप्रक्रियामूलमिति तन्न । ईश्वराव्याकृतादीनां ब्रह्मलिंगोपकरणत्वप्रतिपादनेन तद्विकाररूपत्वाप्रतिपादनात् । तत्रत्येश्वरशब्दस्य `तमीश्वराणां परमं महेश्वरं’ इत्यत्रेव संकुचितेश्वरपरत्वाभ्युपगमात् । तस्मात् ब्रह्मण एव वियदादिनानाविधपरिणामभागित्वं स्वभावत एव सुरनरतिर्यक्स्थावरनारकिस्वर्गापवर्गिचेतनात्मकत्वं तद्वैलक्ष्यण्यं चेति यादवप्रकाशमतं न प्रेक्षावदुपादेयमिति स्थितिः ॥

एतेन भास्करमतमपि निरस्तं वेदितव्यम् । इत्थं हि तन्मतप्रक्रियासदादिशब्दवाच्यं ब्रह्म । तच्च सांशद्वयात्मकम् । ईश्वरांशः उपाध्यंशश्चेति । तत्रेश्वरांशः सदा सर्वज्ञः सर्वशक्त्युपेतश्च । उपाध्यंशस्तु प्रकृत्यादिविभागवान् नित्योऽचेतनरूपो तादृशेपाधिपरिणामविशेषावच्छिन्ना ईश्वरांशा जीवनामानः संचरंति । तेषां च `तत्त्वमसि’ (छां.अ.6-8-7) `अयमात्मा ब्रह्मे’ (बृ.उ.4-4-5) त्यादिवेदांतप्रतिपन्नैक्ययोगबलेनोपाधिसंश्वेषापगमे सति “घटध्वंसे घठाकाशो न भिन्नो नभसो यथे” त्यादिमुक्तविषयस्मृत्यनुसारेण तादृशभेदो नावतिष्ठते । एवं च जीवेश्वरयोः ऐक्यं स्वाभाविकं भेदस्त्वौपाधिकः, अंशबूतयोः ईश्वरोपाध्योः उपाध्यंशानां च परस्परं च भेदोऽभेदश्च स्वाभाविक इति । तदसत् । ब्रह्मणो निरंशत्वस्योपपादितत्वात् । जीवेश्वरभेदौपाधिकत्वस्य निरस्तत्वाच्च । एतावांस्तु विशेषः । शंकरमते भेदो मिथ्याभूतोपाधिकृतः । भास्करमते तु सः सत्योपाधिकृत इति ।

किं च ईश्वरांशोपाध्यंशयोः कथमभेदः । एकस्य सर्वज्ञत्वात् । अन्यस्याचेतनत्वात् । न हि चेतनाचेतनयोः ऐक्यमुपपद्यते । भेदोप्यंगीक्रियते इति चेत् । किमिदम् । कर्णए पृष्टः कटीं चालयसि । विरुद्धयोः कथमभेदः इति पृष्टे भेदोप्यंगीकृत इति उत्तरस्य व्यधिकरणत्वात् । तस्मान्मोक्षेऽपि जीवेश्वरभेदस्य प्रतिपन्नत्वात् औपाधिकभेदवादो अनुपपन्न इति ।

इति श्रीमत्परमहंसपरिव्राजकाचार्याणां श्रीमत्सुरेन्द्रतीर्थपूज्यपादानांशिष्येण सर्वतन्त्रस्वतन्त्रेण विजयीन्द्रभिक्षुणा विरचिते सर्वसिद्धांतसारासारविवेचने यादवभास्करमतभङ्गो नाम नवमः परिच्छेदः ॥


॥ श्रीः ॥

॥ श्री लक्ष्मीहयग्रीवाय नमः ॥

प्रास्ताविकम्

अथ विमर्शकविचक्षणानां निर्मत्सराणां तत्त्वनिश्चयपक्षपातिनां सहृदयवरेण्यानां समक्षं किञ्चिदावेदयामः । तत्र तावत्सर्वतन्त्रस्वतन्त्रैश्चतुरधिकशतग्रन्थरत्ननिर्मापकैश्चतुष्पषअटिकलापारङ्गतैः श्रीमन्मध्वसिद्धान्तप्रतिष्ठापनधुरन्धरैरसाधारणप्रतिभापुञ्जरञ्जितैः श्रीमद्भिर्विजयीन्द्रतीर्थश्रीमच्चरणैश्चार्वाकादिदर्शनप्रक्रियाविमर्शनपुरस्सरं तेष्वपरिहार्यदोषोद्धाटनपूर्वकं सर्वसिद्धान्सारासारविवेचननाम्ना विख्यातं माधवाचार्यविरचितसर्वदर्शनसह्ग्रहादप्यतिशयितप्रतिपादनपुरस्कृतं ग्रन्रत्नं निरमायि ।

एकादशपरिच्छेदविलसितेऽस्मिन् ग्रन्थे रामानुजश्रीकण्ठमतनिरासो नाम दशमपरिच्छेदः इतः प्रागेव पृथक् ग्रन्थात्मना सम्मुद्र्य प्रकाशितः सर्वैस्तत्त्वबुभुत्सुभिः साक्षात्कृतश्च ।

सम्प्रत्येतद्रन्थे पञ्चदशदर्शनप्रक्रियाविजृम्भिते ग्रन्थोपोद्धातप्रकरणे ग्रन्थकारैर्गाढतरविमर्शनदृष्ट्या “तत्रसमयास्त्रिविधाः, अवैदिकाः, वैदिकावैदिकाः, केवलवैदिकाश्च” इत्यादिना दर्शितः समयविश्लेषणप्रकारः तत्त्वजिज्ञासुजनचेतांस्याश्चर्यकलितानि कुरुते ।

असाधारणप्रतिभासम्पन्नानां श्रीमद्विजयीन्द्रतीर्थवरेण्यानामनितरसामर्थ्यादिनिरूपणावसरे श्रीराघवेन्द्रविजयमहाकाव्यनिर्मातॄणां वचनजातस्य स्मृतिपथमागतस्यात्रोदाहरणं सन्दर्भोचितं मन्यामहे ।

वाक्ये पदे पादविलोचनोक्तै व्यासीयशास्त्रे च कृतान् प्रबन्धान् ।
आस्तां बुधः श्रोतुमशेषमेषामाख्याः समाख्याद्यदि पण्डितोऽसौ ॥
इति ॥ श्री.रा.विज.2 स.श्लो.22

तन्त्रचतुष्टये श्रीमद्विजयीन्द्रगुरुसार्वभौमविरचितानां ग्रन्थरत्नानामतिबाहुल्यात्पुरुषस्य शतायुष्कत्वात् गुरोः सकाशात् श्रवणं पठनपाठनादिकञ्च कर्तुमशक्यम् । तत्तावत्तिष्ठतुनाम । तत्कृतप्रबन्धानां बहुत्वात्–तन्नामानि यः कोऽपि वा निःशेषं यदि वदेत् तर्हि स एव विद्वानिति श्रीविजयीन्द्रकृतप्रबन्धानां नामान्यपि वक्तुमशक्यान्येवेत्यभिप्रायं विद्वत्कुलावतंसमहाकविश्रीमन्नारायणाचार्याः श्रीराघवेन्द्रिविजयमहाकाव्यकर्तारस्तदसाघारणमहात्म्यमुद्धोषयंति । एतद्भन्थमुद्रणावसरे प्राचीनाचार्यविरचितामुद्रितग्रन्थराशिषु सम्यक्परिशीलितेष्वपीमं ग्रनथमसमग्रमेवोपलभामहे ।

हस्तलिखितपुस्तकेषु सम्प्रत्युपलभ्यमानेषु पाशुपतमतभङ्गः, शैवमतभङ्गः, समग्रसाङ्ख्ययोगमतभङ्गश्चेत्येतानि प्रकरणानि न संलक्ष्यन्ते । श्रीमन्मध्वमतप्रक्रियाप्रतिपादकान्तिमपरिच्छेदेऽपि ग्रन्थपातः संदृश्यते ।

अतोऽत्र न्यूनतापरिजीहीर्षया जिज्ञासुजनोपचिकीर्षया च पाशुपतमतभङ्गः, शैवमतभङ्गः, साङ्ख्ययोगमतप्रक्रियाप्रतिपादकभागः, अवशिष्टमध्वमतप्रक्रियाप्रवर्शकभागश्चेत्येतान् तत्तत्समयप्रतिपादकग्रन्थेभ्यः प्राक्तनेभ्यः संगृह्य वयं ग्रन्थकारसम्मतक्रममनुरुध्यात्र निर्दिशामः । भङ्गान्तरेष्वपि तत्तत्संदर्भोचिताः लघुटिष्पण्यो विलिखिताः । तत्तत्समयप्रतिपादकमूलग्रन्थस्थानि प्रमाणवाक्यान्यपि तत्तत्समयिसम्मतानि टिप्पणीभागे तत्र तत्र प्रदर्शितानि । मूलकोशेषु शैवमतखण्डनभागस्यानुपलम्भात् तत्स्थाने एतद्भन्थकारैरेव विरचितं शैवसर्वस्वखण्डनं नाम ग्रन्थरत्नं समायोजि । एतद्र्न्थप्रतिपाद्यविषयाणामनुक्रमणिकाप्यध्येतॄणामुपकारायादावेव प्रदर्शिता । ग्रनथस्यास्य संशोधनावसरे मुद्रणवेलायाञ्च संभाविताः प्रामादिका दोषाः यद्युपलभ्येरन् तर्हि ते सहृदयैः क्षन्तव्या इत्यभ्यर्थयामः ।

एतत्पुस्तकमुद्रणकार्यं सर्वाङ्गसुन्दरं कृतवतां प्रभामुद्रणालयाधिकारिणामुपकारं सादरमभिनन्दामः ।

एतन्मुद्रणोपयुक्तप्रतिकृतिनिर्माणे संशोधनादिकार्येषु चास्मान्नियोज्यानुगृहीतवतां तत्त्वज्ञानप्रसारणकार्यबद्धादराणां श्रीमद्राघवैन्द्रतीर्थगुरुसार्वभौमदिव्यवेदान्तसाम्राज्यपीठविभ्राजमानानामनवरतं श्रीमत्परिमलव्याख्याविजृम्भितश्रीमन्न्यायसुधाप्रवचनप्रोत्साहनतत्पराणां प्राचीनाचार्यविरचितामुद्रितग्रन्थरत्नमुद्रापणोत्साहसम्पन्नानां श्री 1008 श्री श्री सुजयीन्द्रतीर्थश्रीपादानां चरणनलिनयोः प्रणामसंततिं समर्प्य श्रीमद्राघवेन्द्रगुरुसार्वभौमान्तर्गतश्रीमद्भारतीरमणमुख्यप्राणान्तर्गतश्रीमन्मूलरामचन्द्रं श्रीमन्मूलगोपालकृष्णाभिन्नं भक्तिश्रद्धाद्यतिशयपुरस्सरं नामं नामं विरमामोऽस्मात्प्रसङ्गात् ।

इति
मागडि यस्. रङ्गनाथाचार्यः
प्रधानसंशोधकः

यस्.वि.भीमभट्टः
उपसंशोधकः


॥ श्री ॥

सर्वसिद्धान्तसारासारविवेचनम् ।
सर्वतन्त्रस्वतन्त्रश्रीमद्विजयीन्द्रतीर्थगुरुसार्वभौमविरचितम् ।

श्रीमद्धनुमद्भीममध्वान्तर्गतरामकृष्णवेदव्यासात्मकलक्ष्मीहयग्रीवाय नमः ।
॥ श्रीवेदव्यासाय नमः ॥ ॥ हरिः ऊँ ॥

मह्यं प्रदद्यादनिशं मुकुन्दस्तत्त्वावबोधं सकलार्थदर्सी ॥
सङ्कल्पतो यस्य जगत्यनेके मिथो विरुद्धाः समयाः प्रवृत्ताः ॥ 1 ॥
सर्वतन्त्रस्वतन्त्रेण विजयीन्द्राख्यभिक्षुणा ।
क्रियते सर्वसिद्धान्तसारासारविवेचनम् ॥ 2 ॥
मिथ्याज्ञाननिमित्तोऽयं बन्धस्तत्त्वधियं विना ।
न शाम्यतीति युक्तं तत्सारासारविवेचनम् ॥ 3 ॥
यस्य यस्य मते या या प्रक्रियास्मद्विरोधिनी ।
तस्य तस्य मते सा सा पुष्कलानूद्य दूष्यते ॥ 4 ॥

ननु तत्तत्समयिभिः स्वस्वसमयस्य सारत्वोपगमात् समयान्तराणामसारत्वोपगमाच्च कथं व्यवस्थेति चेन्न । सकललौकिकवैदिकप्रमाणसामञ्जस्यं यत्र तन्मतं सारम् । अतथाभूतं त्वसारमिति निर्णयसंभवेन व्यवस्थोपपत्तेः । ननु सकलप्रमाणसामञ्जस्यं स्वस्वसमयएवेति सर्वेषामपि निर्णयोऽस्तीति कथं व्यवस्थेति चेन्न । तत्त्वदर्शिनां मध्यस्थदृष्टीनां च सर्वेष्वपि मतेषु प्रमाणमूलत्वनिश्चयाभावेन प्रमाणानुसारेण व्यवस्थाया उपेयत्वात् । ब्रह्ममीमांसायां भगवता बादरायणेन न्यायाभासमूलानां समयानां निराकृतत्वात् । मनुना च–

या वेदवाह्याः स्मृतयो याश्च काश्च कृदृष्टयः ।
सर्वास्ता निष्फलाः प्रेत्य तमोनिष्ठा हि ताः स्मृताः ॥

इति वेदविरुद्धा (मतानां) गमानामापातप्रतिपन्नवेदार्थमूलमतान्तराणां च पारलौकिकफलाभावस् (फलशून्यत्वस्य) तामसपुरुषोपादेयत्वस्य प्रतिपादनाच्च । अतस्तत्त्वबुभुत्सुभिः समयेषु सारासारविवेचनं कर्तव्यम् । यथाहुः–

आवापोद्वापतः स्युः कति कति कविधीचित्रवत्तत्तदर्थेष्वानन्त्यादस्तिनास्त्योरनवधिकुहनायुक्तिकान्ताःकृतांताः । तत्त्वालोकस्तु लोप्तुं प्रभवति सहसा निस्समस्तान्समस्तान् पुंस्त्वे तत्त्वेन दृष्टे पुनरपि न खलु प्राणिता स्थाणुतादिः ॥ इति । (तत्त्वमुक्ताकलापे जडद्रव्यसरे श्लो.5) ननु तत्त्वज्ञानजनकत्वेनाभिमतानां श्रुतिस्मृतिपुराणादीनां परस्परविरुद्धत्वेन न तैस्तत्त्वज्ञानं संपादयितुं शक्यम् । न च तर्कापरपर्यायमीमांसासहितैस्तैः तत्त्वज्ञानं संपादियुतं शक्यमिति वाच्यम् । तर्काणामप्रमाणत्वात् । तथा च पारमर्षं सूत्रम्–“तर्काप्रतिष्ठानादपी” ति (ब्र.सू.2-1-12) श्रुतिरपि-नैषा तर्केण मतिरापनेया इति । (कठ. श्रु.1-2-9)

न च श्रुतिसूत्रयोः कुतर्कविषयत्वमिति शंकनीयम् । विशेषहेत्वभावादिति चेन्न । “श्रोतव्यो मन्तव्यः” (बृ.उ.6-5-6) “सोऽन्वेष्टव्यः”, “यस्तर्केणानुसन्धत्ते स धर्मं वेद नेतरः ।” “अथातो धर्मजिज्ञासा”, (जै.सू.अ.1 अ.1.सू.1) अथातो ब्रह्मजिज्ञासा, (ब्र.सू.अ.1.अ.सू.1) इत्यादिश्रुतिस्मृतिसूत्रानुसारेण बुद्धिमत्पुरुषव्युत्पादितानां श्रुतिमूलतर्काणां प्रतिष्टितत्वसिद्ध्या तत्सहितानां श्रुतीनां तत्त्वज्ञानजनकत्वसंभवात् । `नैषा तर्केण मिरापनेया’ (कठ.श्रु.1-2-9) `तर्काप्रतिष्ठानादपी’ति (ब्र.सू.अ.2.अधि.1 सू.12) श्रुतिसूत्रयोः कुतर्कविषयत्वोपपत्तेश्च । अन्यथोदाहृतश्रुतिसूत्राणां व्याहतभाषित्वापत्तेः । अत एव “पुराणन्यायमीमांसाधर्मशास्त्राङ्गमिश्रिताः । वेदाःस्थानानि विद्यानां धर्मस्य च चतुर्दश” इति स्मृत्या मीमांसाया अपि धर्मप्रमितिहेतुत्वमेवोक्तम् । यथाहुः–ख्यातस्तर्कोऽप्रतिष्ठः स्वयमिह मुनिना सूत्रितं चैवमेतत्तस्मान्मीमांसमानैरपि निगमगतिः दुर्निरूपेति चेन्न । तर्कस्य ह्यप्रतिष्ठां क्वचिदभिदधता दर्शितो यस्तु पंथाः तत्संवादेन सर्वं न भवतिशिथिलं शिक्ष्यमाणं सुधीभिः ॥ इति । (मीमांसापादुका श्रीवेदान्ताचार्यविरचिता श्लोः26) न चैवं `शास्त्रज्ञानं बहुक्लेशं बुद्धेश्चलनकारणं’ इत्यादिवचनविरोध इति वाच्यम् । तस्य तत्त्वज्ञानं बहुक्लेशसाध्यं न च शीघ्रं भवतीत्येवंपरत्वात् । उपदेशमात्रेण संशयनिवर्तकज्ञानाजननाच्च । यथाहुः–

`शास्त्रज्ञानं(1) च बुद्धेश्चलनजनकमित्युक्तिरन्याशया स्यात् नोचेद्रोचेत शंकाकबलितमनसे केवलः क्वोपदेशः ॥” इति । तस्मात् तत्त्वज्ञानस्य सत्तर्कैः सुसंपादत्वात् - तर्काभमूलानि मनान्तराणि निरसनीयानीति तत्त्वबुभुत्सुभिः समयेषु सारासारविवेचनमवश्यं कर्तव्यमिति ॥

तत्र समयास्त्रिविधाः । अवैदिकाः, वैदिकावैदिकाः, केवलवैदिकाश्चेति । तत्रावैदिकमतान्यनेकविधानि । (लौ)लोकायतिकबौद्धार्हतपाशुपतादिभेदेन । एतेषां वेदप्रामाण्यानभ्युपगमादवैदिकत्वम् । वैदिकावैदिकानि च मतानि सांख्ययोगनैयायिकवैशेषिककौमारिलवैयाकरणाख्यानि । एतेषामाचारविषयकर्मसु प्रामाण्याभ्युपगमेऽप्य वश्याभ्युपगन्तव्यवेदान्तप्रामाण्यानभ्युपगमात् वेदान्तानां न्यायसिद्धार्थानुवादित्वोपगमाच्च मिश्रत्वम् । वैदिकमतानि च शङ्कर, यादव, (भट्ट) भास्कर, श्रीकण्ठमध्वाचार्यप्रवर्तितानि । एतेषां कर्मब्रह्मकाण्डरूपसर्ववेदप्रामाण्याभ्युपगमात् । यद्यपि शङ्करयादवभास्कररामानुजश्रीकण्ठप्रवर्तितानि मतानि क्वचित्क्वचित् वेदान्तानभिप्रेतार्थमूलतया वैदिकावैदिकेष्वेव निक्षेप्तुमुचितानि । तथापि तेषां कर्मब्रह्मकाण्डरूपसर्ववेदप्रामाणअयाभ्युपगन्तृत्वाभिमानेन वैदिकतया तत्प्रवर्तितमतानामुपादानम् । यद्यपि च मृषावादिना

F.N.1. नास्तिक्यारम्भकत्वं मुनिभिरभिहितं यस्तु मीमांसकानां तत्प्रायो हैतुकेषु प्रविशति यदि वा पूर्वपक्षप्रवृत्तौ । (इति पूर्वार्धं)

श्रीकण्ठेन च योगाचारमतं पाशुपतमतं च औपनिषदीकृतमिति न तयोः पृथक् परिगणनं दूषणं वा युज्यते । तथाप्यौपनिषदत्वनिराकरणार्थं तयोः पृथक् परिगणनं दूषणं च युज्यते । मध्वाचार्यप्रवर्तितं तु मतं श्रुत्यभिप्रेतार्थमूलं सकलप्रमाणाविरुद्धं चेति तदेव तत्त्वबुभुत्सुभिः मुमुक्षुभिश्च परिग्राह्यम् । यथाचैतत्तथाग्रे स्पष्टीकरिष्यते । न चापस्तंबादिसूत्राणामिवोदाहृतसमयानां विकल्पेन प्रामाण्यम् । वस्तुनि विकल्पोयोगात् तदुक्तम्–

कर्तव्यानां विकल्पे मुनिवचनमिते धर्मतैवोभयत्र(1) ।
व्याख्याभेदाद्विकल्पेत्वनवगतिभवे शिष्टमेवैकशेष्यम् ॥ इति ।
(मीमांसापादुका श्लो.28)

]