शैवमतभङ्गः
॥ अथ शैवमतभङ्गः ॥
शैवमतभङ्गः
जीवीय कर्मनिरपेक्षस्य सर्वतन्त्र स्वतंत्रस्य परमेश्वरस्य कारणत्वपक्षे वैषम्य-नैर्घृण्यदोषप्रसञ्जनात् तत्पक्षप्रतिक्षेपपरायणाः केचन माहेश्वराः शैवागमसिद्धान्त-तत्त्वं प्रतिपादयन्तः पुरुषकर्मसापेक्ष एव परमेश्वरो जगत्कारणमिति पक्षान्तरमभ्युपगच्छन्ति । तद्यथापदार्थास्त्रयः पतिः पशुः पाशश्चेति । तत्र पतिः स्वतन्त्रः परमशिवः । पशुः पुरुषः कर्तृत्वभोक्तृत्वशक्तिसम्पन्नः परमशिव-साम्यस्वरूपयोग्यः । पाशस्तु मलः, कर्म, माया, महामाया, रोधशक्तिरिति पञ्चप्रकारः । तत्प्रपञ्चनं यथा-मलः पुरुषस्य स्वाभाविकी अनादिरशुद्धिः । कर्म-धर्माधर्मौ । माया-कालनियत्यादित्रिंशत्तत्वात्मिका । महामाया-बिन्दु-शिवतत्त्वादिपदवाच्य शुद्धाध्वोपादानभूता । रोधशक्ति-पुरुषस्य ज्ञानक्रिया-शक्त्योराच्छादिका परमशिवसंबन्धिनी शक्तिः । अथैतस्मिन् दर्शने मोक्ष-साधनीभूतज्ञानविषयत्वेन हेतुना तत्त्वभूताः पतिपशुपाशरूपास्त्रयः पदार्था निरूप्यन्ते । सर्वज्ञत्यादिकैः सर्वैर्गुणैर्युक्तं सर्वशक्तिसमन्वितं जगद्विचित्ररचनाकर्तारं दोषवर्जितं सदाशिवमेते शैवाः प्रतिपादयन्ति ।
परिदृश्यमानानां तनुभवनादीनां भावानां सन्निवेशविशिष्टत्वेन कार्यत्वमवगम्यते । मुक्तात्मनान्तु विद्येश्वरादीनां शिवत्वे विद्यमानेऽपि परमेश्वर-पारतन्त्र्यात् स्वातन्त्र्यं परं नाभ्युपगम्यते । मुक्तात्मानां पारतन्त्र्यमनभ्युपगच्छन्तः केचन माहेश्वराः परमशिवस्य जगन्निर्माणे प्राणिकर्मानपेक्षत्व-मुद्घोषयन्ति । शैवदर्शनेतु वैषम्यादिदोषपरिहाराय तत्सापेक्षत्वमित्यनयोदर्शनयोर्वैलक्षण्यं सूक्ष्ममीक्ष्यते । प्राणिकृतकर्मसापेक्षत्वेन परमेश्वरस्य जगत्कर्तृवांगीकारेऽपि तदीयस्वातन्त्र्यादेः क्षतिः काचिदपि नास्तीति तेऽभिप्रयन्ति । करणापेक्षया कर्तुः स्वातन्त्र्यप्रच्युतेरदर्शनाद्दव्यदानविषये कोशाध्यक्षापेक्षस्य प्रभोः प्रसादादिना दानस्वातन्त्र्यदर्शनाच्च न कश्चिदोष इति तेषामभिप्रायः । पारिभाषिकमेव महेश्वरस्य स्वातन्त्र्यमेतैर्विवक्षितम् । प्रयोजक-शून्यत्वं हि तत् । प्रयोजकश्च स्वानभीप्सितकार्यप्रवर्तकः स्वापेक्षितकार्यविघासकश्चेति द्विविधश्चेतन एवात्र विवक्षितः । तेन जडस्य कर्मणः प्रयोजकत्वविवक्षायामपि नेश्वरस्य स्वातन्त्र्यहानिः । एवञ्च दर्शितप्रयोजकशून्यत्वे सति करणादिकारकसमुदायप्रयोक्तृत्व रूपमेव स्वातन्त्र्यं न तु कर्माद्यनपेक्षत्वरूपमिति तेषामाशयः ।
अस्मिन्सिद्धान्ते षट्त्रिंशत्तत्वान्यंगीकृतानि । परमशिवस्तु सर्वतत्त्वातीतः । तस्य च मायादिपाशासंभवात् प्राकृतं शरीरं न विद्यते । शाक्तं हि तदीय शरीरम् ।
ईशानादिभिः पञ्चभिर्मन्त्रैः शक्तिरूपैर्मस्तकादिकल्पनायां " ईशानमस्तकः, तत्पुरुषवक्त्रो ऽघोरहृदयः, वामदेवगुह्यः, सद्योजातपादः, परमशिवः " इति प्रसिद्धिर् दृश्यते । मन्त्रमये च शरीरे शरीरावयवा मन्त्ररूपा एव वक्तव्याः । मन्त्राणान्तु शक्तिरूपत्वं सिद्धम् । तत्रेशान इति मन्त्रो ( म. ना. २१) मस्तकस्थानीयः । तत्पुरुषाय ( म. ना. २०) इति मन्त्रो मुखस्थानीयः । अघोरेभ्य ( म. ना. १९) इति मन्त्रो हृदयस्थानीयः । वामदेवाय ( म. ना. १८) इति मन्त्रो गुह्यस्थानीयः । सद्योजातं ( म. ना. १७)
इति मंत्री पादस्थानीयः ।
अस्मदादिशरीरविलक्षणम् अनुग्रह, तिरोभाव, सृष्टि, स्थिति, संहाररूप, कृत्यपञ्चककारणं स्वेच्छानिर्मितं परमशिवस्य शक्तिमयं शरीरम् ।
तदुक्तम् - “मलाद्यसंभवाच्छाक्तं वपुर्नैतादृशंविभोः " इति । तद्वपुः पञ्चभिर्मन्त्रैः पञ्चकृत्योपयोगिभिः ॥
ईशतत्पुरुषा धोरकामाद्यैर्मस्तकादिमत् ॥ इति च ॥ सर्वतत्त्वातीतः परमशिवस्त्वनादिमुक्तः । मुक्तात्मानोऽपि शिवा एव । ते तु आदिमुक्ताः ।
महाप्रलये च तत्त्वत्रयमवशिष्यते । तत्तु माया, पुरुषः, शिव इत्यन्योन्यं विभक्तं वर्तते । सृष्टिस्तु शुद्धाध्या, कृच्छाध्वा चेति द्विविधा ।शुद्धाध्वनि महामायाभिधानं बिन्दुपदवाच्यं शिवतत्त्वं शक्तितत्त्व, सदाशिवतत्त्वेश्वरतत्त्व, विद्यातत्त्वभेदेन चतुर्विधतत्वात्मना परिणम्य पञ्चतत्त्वात्मकं भवति । शिवतत्वन्तु तत्रादिकारणं जडात्मकं शुद्धाध्वमूलकारणम् एतच्च व्यापकं निरवयवं नित्यं ज्ञानक्रियास्वभावमुच्यते । एतदेवावरणं मुक्तिभाजां ज्ञानक्रिये प्रकटयति । स एव बिन्दुरित्युच्यते । सैव महामाया । तदेतत्परमशिवस्य परिग्रहशक्तिरिति कथ्यते । शक्तितत्वन्तु शिवस्य प्रथमः परिणामः । ज्ञानक्रियाशक्ति निमित्तीकृत्य शक्तितत्वव्यवहितः परिणामः सदाशिवतत्वम् । अशुद्धाध्वनि सृष्ठयादीनां कर्तृभूतानामनन्तादीनामधिष्ठानेन परमशिवस्य क्रियाशक्तिबहुलमीश्वरतत्त्वम् । अत्रैव विद्येशानामनन्तादीनामन्तर्भावः ।
विद्याख्यं तु पञ्चम तत्त्वं सप्तकोटिमहामन्त्राधिष्ठानेन परमशिवस्य ज्ञानशक्त्या प्रचुरम् ।अत्रैव व्योमव्याप्यादीनां विद्यानां कामिकादीनामष्टादशतन्त्राणामन्तर्भात्रः ।
एतेष्वेव शक्त्यादिषु विचित्रभुवनादिसन्निवेशाः सन्ति ।
कृच्छ्राध्वनि मायातत्त्व त्रिंशत्तत्त्वात्मकं भवति । तानि च यथा- माया, कालो, नियतिः, कला, विद्या रागश्चेति ष ट्तत्त्वानि । तत्रापि कालेन नियत्या च सहकृता कला प्रकृतिमहदहङ्कारैकादशेन्द्रियपञ्चतन्मात्रपञ्चभूतभेदेन चतुर्विंशतितत्वात्मना परिणमते । आहत्य त्रिंशत्तत्त्वानि । मायाकार्यं सर्वमप्यशुद्धम् । महामायाकार्यं तु शुद्धमेव । तत्र सर्वशक्तिसमाहारात्मिका सर्वकारणावस्था वस्तुभूता मायेत्युच्यते ।
कालश्च क्षणदिनमासात्मकः प्रसिद्धः । नियतिस्तु नियमनरूपा शक्तिः । कला च पुरुषस्य कर्तृशक्तिव्यञ्जिका काचिच्छक्तिः । विद्या पुरुषस्य विषय-प्रकाशननिमित्तभूता इन्द्रियादिकरणस्थानीया ज्ञानशक्तिव्यञ्जिका शक्तिः । राग आसक्तिः पुरुषप्रवृत्तिहेतुः । पुरुष एव पशुः । स च त्रिविधः । विज्ञानाकलः, प्रलयाकलः, सकलश्चेति । तेषु विज्ञानाकलः मलमात्रयुक्तो ऽत एव एकबन्ध इत्युच्यते । द्वितीयस्तु प्रलयाकलः मठकर्मयुक्तत्वाद्विबन्ध इत्युच्यते । तृतीयः मलकर्ममायायुक्तः सकलः बन्धत्रयसहित इति निगद्यते । तत्रापि प्रथमः समाप्तकलुषा समाप्तकलुषभेदाद् द्विप्रकारः । तयोः पक्कमलान् परमशिवः बैन्दवशरीरयोगिनः कृत्वा विद्येशत्वं, सर्वज्ञत्वं शुद्धाध्वाधिष्ठातृत्व, पञ्चकृत्याधिकारं च तेभ्यो ददाति । अन्यान् महामन्त्राधिदेवान् विद्यातत्त्वनिवासिनः करोति । द्वितीयः प्रलयाकोऽपि पक्कपाशद्वयस् तद्विलक्षणचेति द्विविधः । तयोर्मध्ये प्रथमः मोक्षं प्राप्नोति । द्वितीयस्तु कर्मवशान् नानाविधजन्म- भाग्भवति । तृतीयः सकलोऽपि द्विविधः । पक्ककलुषो ऽपक्ककलुषश्चेति । तयोराद्यान् परमेश्वरस् तत्परिपाकपरिपाट्या मण्डल्याद्यष्टादशोत्तरशतमन्त्रेश्वरपदं प्रापयति ! अपक्ककलुषान् कर्मवशाद् भोगभाजो विधत्ते । इति ॥
प्रत्यभिज्ञादर्शनपरिचयः
प्रत्यभिज्ञादर्शनपरिचयः
पत्युरसामञ्जस्यात्
****निरुपादानसंभारमभित्तावेव तन्वते । जगच्चित्रं नमस्तस्मै कलाश्वाध्यायशूलिने ॥ इति वसुगुप्ताचार्यमार्गमनुसरन्तः केचन माहेश्वराः परमेश्वरस्य कर्मादिनिरपेक्षस्य स्वेच्छयैव चेतनाचेतनात्मक जगन्निर्मापकत्वमाघोषयन्तःप्रत्यभिज्ञामात्रं सर्वसुलभमभिनवं परापरसिध्युपायमभ्युपगच्छन्तः प्रत्यभिज्ञाशास्त्र परमप्रमाणं मन्यते । अहमीश्वर एव नान्य इत्येवंरूपो यः साक्षात्कारः स प्रत्यभिज्ञेत्युच्यते । तेन प्रत्यभिज्ञामात्रेणैव परशब्दितामुक्तिरपर मुक्तिश्चाभ्युदयो देवलोकप्रात्यादिश्च भवति । परमेश्वरस्य जगन्निर्माणे कर्मावलम्बित्वे पूर्णस्वातन्त्र्यभङ्गापत्तेस्तदनपेक्षस्यैव जगत्कारणत्वमभ्युपगन्तव्यम् । अतो निरपेक्षः परमेश्वरः स्वेच्छयैव केवलमाकाशादिभावान्वितं जगन्निर्मिमीते । चेतनाचेतनात्मकं सर्वमिदं जगन्न परमेश्वरापेक्षया पृथग्भूतम् । किन्तु तदन्तर्गतमेव । परमेश्वरः स्वेच्छयैवाकाशादीन् भावान् स्वात्मन्येव दर्पणे प्रतिविम्बमिवात्र-भासयति । नानाविधमानमेयादिभिन्नमिदं जगत्परमेश्वरापेक्षया न किञ्चिद्भिन्नम् । परमेश्वरस्य जीवतादात्म्यमपि स्वसंवेदनेनोपपत्त्या आगमेन च सिध्यतीति सोऽयं परमेश्वर परिणामवादो भेदाभेदलक्षण इति ॥
तदेतत्पशुपतिपारम्यवादिनां पाशुपतानां मतं श्रुतिस्मृत्यादिविरुद्धत्वादप्रामाणिकमिति तन्निराकृतं भगवता बादरायणेन ब्रह्ममीमांसाशास्त्रे द्वितीयाध्याये द्वितीयपादे (समयपादे ) एकादशाधिकरणे " पत्युरसामञ्जस्यात्” इत्यादिना " अन्तवत्वमसर्वज्ञता वा इत्यन्तेन सूत्र पञ्चकेन । तद्यथा ॐ पत्युरसामञ्जस्यात् ॐ पत्युः पशुपतेर्जगत्कारणत्वं न युक्तम् । कुतः ? असामञ्जस्यात् पारतन्त्र्यजननमरणादिदोषित्वादित्यर्थः । तच्च श्रुत्यादिसिद्धमिति भावः । यथा-
“ यं कामये तं तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधाम् । (ऋ. १०-१२५-५)
" अहं रुद्राय धनुरातनोमि ब्रह्मद्विषे शरवे हन्त वा उ । (ऋ. १०-१२५-६ )
इति यमित्याद्यभ्रंणीवाक्येन शिवादेः पराधीनपद प्राप्तिमत्वावगमेन पारतन्त्र्याख्यदोषोऽवगम्यते । पारतन्त्र्याज्ञानजननमरणादिषु दोषेषु सत्सु जगत्कारणत्वासम्भवात् । तदर्थों यथा अहं यं यम् उग्रं रुद्रं कर्तुं कामये तं तं योग्यम् उसे रुद्र कृणोमि करोमि । तथा त ब्रह्माण ऋषि सुमेधसं च तत्तद्भावयोग्यं करोमि । अहं ‘शरवे’ हिंसाशीलाय ‘ब्रह्मद्विषे’ चतुर्मुखपञ्चममुखच्छेत्रे संहारकाले ब्राह्मणादिसर्वप्राणिविद्विषे इति वा ब्रह्मद्विषां दैत्यानां ‘शरवे’ ‘हिंसकाये’ ति वा दक्षप्रजापतिहिंसकाय इति वा रुद्राय ( द्वितीयार्थे चतुर्थी) उक्तविशेषणकरुद्रं ‘हृन्त वा उ’ हन्तुमेव, न तु भीषणाद्यर्थम्, प्रलये दुर्गारूपेण हननात् । धनुः ‘आतनोमि’ विस्तारयामि । सज्यं करोमीति वा । अहं ‘जनाय’ जनस्य ‘समदं’ सम्मदं हर्ष सन्ततमोदं वा करोमि । अहं ’ द्यावा पृथिवी ’ तदुपलक्षितानूर्ध्वाधोलोकान् धारणाय ‘आविवेश’ छन्दसि परोक्षे लिट् । अहमस्य जगतः ‘पितरं ’ ब्रह्माणं ‘मूर्धन्’ ’ मूर्धनि’ सर्वजीवोत्कृष्टत्वे । सुवे जनयामि । न केवलं पदे स्थापयामि । एवं भूताया मम ‘योनि’ कारणं ‘समुद्रे अप्सु ’ अपामन्तस्तिष्ठति । स्त्रीणां पतिनामग्रहणमनुचितमिति शिक्षणाय नारायण इत्यनुक्त्वा ‘आपो नारा’ इत्यादिनोक्तं तदर्थमेवाह ।
एवम् अस्य देवस्य मील्हुषो वया विष्णोरेषस्य प्रभृथे हविर्भिः । विदेहि रुद्रो रुद्रियं महित्वं यासिष्ट वर्तिरश्विनाविरावत् । (ऋ. ७-४०-५)
अस्यार्थो यथा ’ अस्य’ प्रमितस्य ‘देवस्य द्योतनादिगुणततेः ‘मिल्हुषः ’ भक्ताभिलपितवर्षितुः ( समर्थस्येति वा ) एषस्य-आसमन्तादीशस्य व्यत्ययेन शकारस्य षकारः ।, ‘इषु इच्छायां ’ इत्यस्माद्भावे घञगुणे एषस्य इच्छारूपस्य सत्यकामस्येति वा विष्णोः ‘प्रभृथे’ कर्मणा ध्यानेन च प्रवृद्धे भरणे पूजने हविर्भिः कृते सति तत्प्रसादात् ‘बयाः ’ अहंसत्त्वाभिमानित्वेन जनानां बन्धको रुद्रः ‘रुद्रियं महित्व’ रौद्रं पद ’ विदे’ विविदे लेभे हि प्रसिद्धमेतत् । तथा हि ‘अश्विनौ’ युवामपि विष्णुपूजयैव तत्प्रसादात् ‘इरावत्’ अन्नवत् ‘वर्तिः’ वर्तनं समस्तभोगवत्पद ‘यासिष्टं’ अयासिष्टं प्राप्तवन्तौ स्थ इति । तथा “एको नारायण आसीन्न ब्रह्मा नेशानो नाग्नीषोमौ’ (महोप१) अस्यार्थों यथा’ महाप्रलये नारायण एक एव प्रधान आसीत् तदा स्वातन्त्र्येण ‘न ब्रह्मा’ न चतुर्मुख आसीत् ‘नेशानो’ रुद्रश्च नासीदित्यर्थः । युक्त्यान्तरेण पशुपतेर्जगत्कारणत्व पराकुर्वत्सूत्रं यथा-
ॐ सम्बन्धानुपपत्तेश्च ॐ
पत्युरीश्वरस्या शरीरत्वात्तस्य जगता कार्यकर्तृभाव संबन्धानुपपत्तेर्न कर्तृत्वमित्यर्थः । ॐ अधिष्ठानानुपपत्तेश्च ॐ
महाप्रलये सर्वेषां नष्टत्वात् पुनः सृष्टिकाले पृथिव्याद्याश्रयानुपपत्तेश्च न तस्य जगत्कर्तृत्वमित्यर्थः । पृथिव्याद्यधिष्टाने स्थितो हि कुलालादिः कार्यं करोति । नास्य महादेवस्य तदा तदस्तीति यावत् । अतश्च न जगत्कर्तृत्वमित्यर्थः ॥
ॐ करणवच्चेन्न भोगादिभ्यः ॐ
करणमिति देह उच्यते । जीवस्य कार्यजनने तस्य सहकारित्वात् । अस्मदादि-शरीरवदिदं कारकजातं साक्षात्प्रयत्नाधिष्ठेयतया पत्युरीश्वरस्य शरीररूपमधिष्ठान-रूपं चेति न संबन्धानुपपत्त्यादिदोष इति चेन्न । भोगादिभ्यः सुखदुःखानुभव-रूपभोगोत्पत्तिमरणाख्यदोषेभ्यो न तस्य जगत्कर्तृत्वमिति ।
ॐ अन्तवत्वमसर्वज्ञाता वा ॐ
जगत्कारणत्वेनाङ्गीकृतः शिवो देवान्न वा । आद्ये अन्तवत्वं नाशवत्वं, अन्त्ये असर्वज्ञता च स्यात् । अशरीरिणो ज्ञानस्यैवाभावात् । न हि तादृशस्य चैत्रादिवत्कर्तृत्वं युक्तमिति भावः । एतेन लीलाविग्रहोपादानमस्तीत्यपि प्रत्युक्तम् । तस्यापि देहत्वेन मरणरूपान्तवत्वानिस्तारात् । तथाच यं कामये तं तमुग्रं कृणोमीत्यादिश्रुत्यादिभिः शिवस्य पारतन्त्र्याद्यवगमात् तस्याशरीरतया प्रलये भूतानां विलीनत्वेन सृष्टिकाले पृथिव्याद्यधिष्ठानाभावेन कर्तृत्वायोगेन कारकजातस्यैव साक्षात्प्रयत्नाधिष्यतया देहादिविनाशित्वस्य दुःखादिभोगस्य चापत्तेः शिवस्य जगत्कर्तृत्वे मानाभावाच्च पाशुपत मतस्यानेकदोष दुष्टत्वात्प्रेक्षा-वदनुपादेयत्वमपरिहार्यमेतव । तदेवं शाक्तेय सौरस्कान्दगाणपतभेदेन बहुविधेषु वैदिकाभासेषु मध्ये पाशुपतमतस्यापि प्रविष्टत्वातन्निरूपिताश्चान्या अपि प्रक्रियाः सर्वाः श्रुतितदनुसारिस्मृतिविरुद्धत्वान्नोपादेया इति स्थितम् ।
यद्यपि तत्र तत्र पुराणादिषु परमशिवस्य विष्ण्यपेक्षयोत्कृष्टत्वेन परब्रह्मत्वं जगत्कारणत्वं च प्रतिपादितमापाततः प्रतीयते । तथापि तेषां सर्वश्रुतितदनुसारिस्मृतिविरुद्धत्वादप्रामाण्यं व्यवस्थाप्य श्रीमद्विजयीन्द्रश्रीमच्चरणैस्सर्वतन्त्र स्वतन्त्र-विष्णोश्चेतनाचेतनात्मक सर्व जगन्निमित्तकारणत्वमनन्तकल्याणगुण परिपूर्णत्वं सकलदोषविदूरत्वं परब्रह्मत्वं च निरवकाशप्रमाणपुञ्ज प्रदर्शनपुरस्सरं न्याय-मौक्तिकमालायां शैव सर्वस्वखण्डने निरणायि । अतस्तदीयवचनान्येवास्मिन्संदर्भे पाशुपतनिराकरणावसरे जिज्ञासुजनविचिकित्सा निस्सारणायोदाह्रियन्ते तथाहि ॥