01 श्रीमन्मध्वसिद्धान्तसारोद्धारः

सत्यस्य जगतः स्रष्टा पाता हर्ता नृकेसरी । लक्ष्मीवान् विजयीन्द्रस्य मंगलानि दिशेत् सदा

॥ श्रीः ॥

॥ श्रीमन्मूलरामो विजयते ॥

॥ श्रीमद्विजयीन्द्रतीर्थ गुरुसार्वभौमो विजयते ॥

पदवाक्य प्रमाणपारावारपारीणचतुःषष्टिकलाप्रवीण सर्वतन्त्र स्वतन्त्र-श्रीमद्विजयीन्द्रतीर्थयतिवरेण्यविरचितः

॥ श्रीमन्मध्वसिद्धान्तसारोद्धारः ॥

सत्यस्य जगतः स्रष्टा पाता हर्ता नृकेसरी ।

लक्ष्मीवान् विजयीन्द्रस्य मंगलानि दिशेत् सदा ॥ १ ॥

**सर्वतन्त्र स्वतन्त्रेण विजयीन्द्राख्यभिक्षुणा । **

क्रियते मध्वसिद्धान्तसारोद्धारः सतां मुदे ॥ २ ॥

ननु कथं जगतः सत्यत्वम् । तत्र मानाभावात् । प्रत्युत नेह नानेत्यादिश्रुत्या ‘तेजोवारिमृदां यथा विनिमयो यत्र त्रिसर्गो मृषा’ इत्यादिस्मृत्या दृश्यत्वाद्यनुमानेन च तस्य मिथ्यात्वसिद्धेरितिचेत् । उच्यते । उत्पत्तिज्ञप्त्योर् ज्ञानप्रामाण्यं स्वत इति तावद् उभयसंप्रतिपन्नम् । बाधके सत्येव तत्त्यागो नान्यथेत्यपि । एवमप्रामाण्यं परत इत्यपि । तत्र ज्ञानस्य प्रामाण्यं नाम यत्र विशेष्ये विशेषणस्य सम्बन्धो विद्यते तत्र विशेष्ये तस्य विशेषणस्य तत्सम्बन्धावगाहित्वरूपम्, नान्यत् । तन्निश्चयादेव निष्कम्पव्यापाराच्च । ज्ञानस्य अप्रामाण्यं नाम यत्र विशेष्ये यस्य विशेषणस्य यस्सम्बन्धो न विद्यते तत्र विशेष्ये तस्य विशेषणस्य तत्सम्बन्धावगाहित्वम् । तच्छरीरप्रविष्टं विशेषणसम्बन्धस्य विद्यमानत्वं प्रामाण्ये योग्यार्थेषु नियमेन सजातीय-विजातीय-संवादाभ्यां सजातीयविजातीयविसंवादाभावाभ्यां च सुज्ञानम् । एवमप्रामाण्ये विशेषणसम्बन्धस्य विशेष्ये अविद्यमानत्वमपि नियमेन सजातीयविजातीय-विसंवादाभावाभ्यां (सजातीयविजातीयसंवादाभावाभ्यां च ) सुज्ञानमिति वेदितव्यम् । ज्ञानेषु संवादिविसंवादिप्रवृत्तिजनकतावच्छेदकत्वेन प्रामाण्याप्रामाण्य-शब्दितावुक्तरूपविशेषावेव अवश्यमुपेयौ । अन्यथा तादृशप्रवृत्त्योर् आकस्मिकतापत्तेः । ज्ञानकारणेषु तु इदं प्रमाणम् इदं तदाभास इति व्यवस्था च न स्यात् । न चैवम् । एतद्द्व्याख्यायाः सर्वसंप्रतिपन्नत्वात् ।

ननु प्रामाण्यशरीरप्रविष्टं विशेषणविशेष्य सम्बन्धस्य विद्यमानत्वापरपर्यायं सर्वमेव दुर्वचमितिचेत् । किं ततः ? द्रव्यत्वपृथिवीत्वघटत्वादे-र्निर्वचनाभावेऽपि अखंडधर्मत्ववद् भावाभावपदार्थमात्रसाधारणस्य अस्तीति प्रतीतिव्यवहारालंबनत्वेन सर्वानुभवसिद्धस्य निर्वचनाभावेऽपि अखंडधर्मत्वोपपत्तेः । इक्षुक्षीरमाधुर्यवत्तस्य निर्वचनाभावेऽपि तस्य सत्यत्वोपपत्तेश्च । निर्वचनाभावस्य पुरुषाशक्तिप्रयुक्तत्वेन विषयमिथ्यात्वानापादकत्वात् । अन्यथा स्वक्रियाव्याघातात् । नहि अर्थमिथ्यात्वं निश्चिन्वन् तत्साध्यतया किंचित् स्वयमेव परिकल्प्य तदर्थितया तत्र निष्कंपं प्रवर्तमानो दृष्टचरः । नहि यन्निर्वक्तुं न शक्यते तन्मिथ्येति वा ( न ? ) सत्यमिति वा नियमोऽस्ति । इक्षुक्षीरमाधुर्यादावेव व्यभिचारात् । नहि तन्माधुर्यादौ निर्वचनाभावापराधेन मिथ्येतिप्रतीतिव्यवहारौ कस्यापि स्तः । अन्यथा निर्वचनाभावेन जगद् ब्रह्म वा निस्स्वरूपं स्यादिति वाचाटवचसोऽवसरप्रसङ्गात् । जगत्कारणत्वादिधर्मखण्डनमुखेन पराभिमतब्रह्मणोऽपि दुर्वचत्वेन मिथ्यात्वापत्तेश्च। धर्मखण्डनमुखेन विना धर्मिस्वरूपमात्रखण्डनस्य दुश्शकत्वेन तत्खण्डनस्यैव धर्मिखरूपखण्डनरूपतया उपगन्तव्यत्वात् । पराभिमतब्रह्मणोऽपि धर्मखण्डनमुखेन खण्डनीयत्वेऽपि सद्रूपत्ववत्, जगतोऽपि सत्यत्वादिधर्मखण्डनमुखेन खण्डनसम्भवेऽपि सद्रूपत्वोपपत्तेश्च । तदनिर्वचनमात्रेण तत्प्रयोज्यव्यवहारेण स्वसाक्षिसिद्धवैचित्र्याक्षतेश्च । यत्र विशेषणसम्बन्धः प्रतिपन्नस् तत्र विद्यमानो योऽत्यन्ताभावः, तदप्रतियोगित्वमेव तस्य विद्यमानत्वमित्यपि सुवचत्वाच्च । शुक्तिरूप्यादेर् बाध्यत्वेन सद्विविक्तत्वरूपमिध्यात्वमङ्गीकुर्वतापि यत्र यद्रूपं प्रतिपन्नं तत्र विद्यमानो योऽत्यन्ताभावस् तत्प्रतियोगित्वमेव तस्य मिथ्यात्वमिति तद्वाध्यत्वस्य तत्रात्यन्ताभावविद्यमानत्वघटितमूर्तित्वेन वक्तव्यतया तत्रात्यन्ताभावस्य विद्यमानत्वमेव किमिति पृच्छन्तं प्रति तदाधारत्वेन प्रतीतत्वमात्रं तदित्युक्तौ तादृशबाध्यत्वस्य तत्स्वरूपे ब्रह्मण्यतिप्रसक्ततया तदाधारत्वेन प्रमितत्वं तस्य तदित्येवोक्तौ प्रमितत्वस्य विशेष्ये विशेषणसम्बन्धस्य विद्यमानत्वघटितमूर्तितया आत्माश्रयप्रसंगेन तदन्यस्यैव अखण्डस्य तस्य प्रवृत्त्यादिव्यवहारवैचित्र्योपपादकत्वेन अवश्यमुपेयत्वाच्च । अन्यथा विद्यमाने एवार्थे जायमानं ज्ञानं प्रमितिः, नत्वन्यथेति ज्ञानगतप्रमितित्वस्य विषयविद्यमानत्वप्रयोज्यत्वं न स्यात् । तस्माद् भावमात्रे भावत्ववत् तद्विशेषे द्रव्यत्वपृथिवीत्वादिवद् अभावमात्रे अभावत्ववत्, तद्विशेषे प्रागभावत्वप्रध्वंसत्वादिवच्च भावाभावरूपपदार्थमात्रे विद्यमानत्वापरनामकं सत्त्वमखण्डोपाधिरूपमेव । नच तत्र मानाभावः । इदं विद्यते इदं च विद्यते, इदमस्ति इदं चास्ति, इदं सद् इदं च सद् इत्याद्यनुगतप्रतीतिव्यवहारयोः सत्त्वात् । नच प्रामाणिकत्वरूपोपाधिनैव तन्निर्वाह इति वाच्यम् । तस्य प्रमाणप्रवृत्तिनियामकत्वे च आत्माश्रयप्रसंगः । तदन्यस्य तथात्वे अन्योन्याश्रयादिप्रसंगश्च । प्रामाणिकत्वस्य प्रमाकरणत्वसाधकतमत्वादिरूपयोग्यायोग्यरूपानेकपदार्थघटितमूर्तित्वेन उपनायकप्रमाणावतारनैयत्याभावेन घटः सन् घटोऽस्ति इत्यादिप्रत्यक्षप्रतीतेर् झटित्यसंभवेन तन्निर्वाहाय पृथिवीत्वघटत्वादिवत् सत्त्वस्य अखण्डधर्मत्वस्यावश्यमुपेयत्वाच्च । धर्मान्तररूपेणैव तत्प्रतीतिव्यवहारनिर्वाहात्, तदतिरिक्ताखण्डधर्मानंगीकारे द्रव्यत्वपृथिवीत्वघटत्वाद्यखण्डधर्माणामनंगीकार-प्रसंगः। द्रव्यत्वादिसमनियतैर्गुणाश्रयत्वोपादानत्वगन्धवत्त्वकंबुग्रीवादिमत्त्वादिधर्मैरेव सखण्डोपाधिरूपैस् तत्र तत्रानतिप्रसक्तप्रतीतिव्यवहारयोरुपपत्तेरिति सुवचत्वाच्च । नचैत्रमपि सत्त्वस्यात्माश्रयेण सत्त्वरहितत्वेनासत्त्वप्रसंगः । तत्रापि सत्त्वान्तराङ्गीकारे तत्राप्येवमिति अनवस्थाप्रसङ्ग इति वाच्यम् । प्रमेयत्वे प्रमेयत्वमितिवद् अभिघेयत्वे अभिधेयत्वमितिवद् दृश्यत्वं दृश्यमितिवच्च, सत्त्वमस्ति सत्त्वं सद् इत्यबाघितप्रतीत्या सत्त्वस्यापि स्वाश्रयत्वोपगमात् । सिद्धविषयत्वेन आत्माश्रयस्य अदोषत्वात् । अत एव बीजांकुरयोः कार्यकारणभावेऽन्योन्याश्रयादिरदोष इति न्यायविदामभ्युपगमः ।

एतेन शुक्तिरूप्यादेर् अन्यत्र सत्त्वे मानाभावात् क्वचित् शुक्त्यादिरूपोपाधौ प्रतिपत्तिसत्वेऽपि विशेषदर्शनानन्तरं बाधदर्शनेन तत्रापि तस्य असत्त्वनिर्णयात्, सार्वत्रिक निषेधप्रतियोगित्वरूपेण असत्त्वस्यैव सिद्धेः, जगतश्च ब्रह्मवत् तथाविधनिषेधाप्रतियोगित्वेन सिद्धतया तदेव सत्प्रतीतिव्यवहारयोर् आलम्बनमस्तु । ब्रह्मणि तस्यैव तथाविधप्रतीतिव्यवहारालम्बनतायां क्लृप्तत्वात् । क्लसेन तेनैव जगत्यपि सत्त्वप्रतीतिव्यवहारोपपत्तौ अखण्डोपाधिरूपसत्त्वांगीकारेण तदुभयोपपादने गौरवात्, लृप्तहानादि- दोषप्रसंगादिति निरस्तम् । अस्यापि प्रतियोगिदिशि योग्यायोग्यानन्तपदार्थप्रवेशेन तत्प्रतीतिविलम्बेन प्रतीतिविलम्बानपायात् । घटादियोग्यपदार्थे इन्द्रियसंप्रयोगसमनन्तरमेव अविलम्बेन घटः सन् घटोऽस्ति इत्यादितत्सत्त्व- प्रतीतेरानुभविकत्वेन तन्निर्वाहाय सत्त्वाखण्डधर्मत्वस्यावश्यमुपेयत्वात् । अन्यथा तदंशे नियमेन सत्त्वप्रतीतिकाले सर्वदापि उपनायकप्रमाणावतारकल्पनाप्रसंगात् ।

नचैवमनुगतप्रतीतिव्यवहारौ यत्र यत्र वर्तेते तत्र सर्वत्रापि तन्निर्वाहाय सत्यपि सखण्डोपाधिरूपधर्मान्तरे अखण्डधर्मस्यापि स्वीकारप्रसंगः । सखण्डोपाधेर् अनेकपदार्थघटितमूर्तित्वेन तदपेक्षया अखण्डोपाधेर् लघुशरीरत्वात् । दूरे गत्वा परंपरासंबधाद् अखंडोपाधेरेव सखंडोपाधित्वात् । साक्षात्संबंधबाधके सत्येत्र परंपरासंबन्धस्योपेयत्वात् । अत एव परंपरासम्बन्धसम्बद्धजातिरेव अखण्डोपाधिरिति वदन्तीति वाच्यम् ।

तथाविधप्रतीतेर् व्यवहारस्य च अविलम्बेन उदये प्रमाणसद्भावेन इष्टापत्तेः । तदभावे च विलम्बितप्रतीतिव्यवहारयोर् विलम्बितोपस्थितिकसखण्डोपाधिनैव उपपादनीयत्वात् । प्रयोजकतथात्वकल्पनयोः प्रयोज्यतथात्वसिद्धयधीनत्वात् ।

एतेन प्रामाण्यवतस्त्वपक्षे घटज्ञानप्रमात्वपटज्ञानप्रमात्वादेर् इदं घटज्ञानं प्रमेत्याद्यनुगताविलम्बितप्रतीतिव्यवहारयोरानुभाविकत्वेऽन्यत्र प्रमात्वस्य घटत्ववति घटत्वप्रकारकत्वादिरूपोपाध्यन्तरस्य सतोऽपि अखण्डस्य भावेन प्रमात्वरूपस्य स्वीकारप्रसङ्ग इति निरस्तम् । इष्टापादनात् । नच प्रमात्वभ्रमत्वयोर् अखण्डधर्मत्वे योग्यव्यक्तिवृत्तित्वेन खतस्त्वपरतस्त्वाभ्यां विवादाभावप्रसङ्गः । सर्वत्र प्रमात्वभ्रमत्वयोर् ज्ञानत्वादिवन् निश्चयसम्भवेन निष्कम्पप्रवृत्ति- निवृत्त्योरविलम्बापत्तेश्चेति वाच्यम् । प्रमात्वादीनामखण्डत्वेन व्यक्तिग्रहणयोग्यतान्तर्भूतयोग्यताकत्वेऽपि रजतत्वादाविव तत्र दोषाद् अज्ञानसंशयविपर्ययसम्भवेन तन्निश्चयस्य असार्वत्रिकत्वेन प्रवृत्तिनिवृत्त्योः क्वचिद् विलम्बोपपत्तेः । तद्वति तत्प्रकारकत्वरूपोपाधीनां तद्द्व्यंजकत्वेन तन्निश्चयविलम्बेन तन्निश्चयविलम्बोपपत्तेश्च । अत एव ब्राह्मणत्वादिजातेर् विशिष्टमातापितृजन्यत्वादिव्यंजकधर्मविलम्बान् निश्चयविलम्बोऽनुभवसिद्धः । स्वतस्त्वपरतस्त्वाभ्यां विवादविषयत्वस्य प्रमात्वादिशद्विताखण्डधर्मव्यंजकत्वेन स्वीकृतेषु तद्वति तत्प्रकारकत्वादिधर्मेषूपगमेन तद्विवादाभावानापत्तेश्च । किंच अत्र न भ्रमत्वादिप्रतिबन्दी युक्ता । प्रमात्वस्य स्वरूपप्रकारविषयमात्रघटितमूर्तित्वेन तदुपनायकस्य व्यवसायस्य अनुव्यवसायकाले नियमेन सत्त्वेन तस्यैव विलम्बेन प्रामाण्योपस्थितिरूपानुव्यवसायनिर्वाहकत्वेन तेनैव निर्व्यूढस्य अनुव्यवसायस्य उक्तसखण्डोपाध्यतिरिक्तघटज्ञानप्रमात्वादिरूपाखण्डोपाध्यनपेक्षत्वेन वैषम्यात् । तस्माद् यत्र यत्रानन्यथासिद्धाविलंबितानुगतप्रतीतिव्यवहारौ अनुभवसिद्धौ स्तस् तत्र सर्वत्रापि तदालम्बनत्वेन अखण्डधर्मोऽकामेनापि स्वीकार्यः । तत्समनियतसखण्डधर्मोऽपि प्रमाणसिद्धत्वाद् दुरपह्नव इति न तेन तस्यान्यथासिद्धिरिति न किंचिदनुपपन्नम् ।

केचित्तु घटोऽस्ति, पटोऽस्ति, घटः सन् पटः सन्, घटो विद्यते पटो विद्यते इति प्रत्यक्षादिप्रमाणसिद्धस्य घटादेर् लट्प्रत्ययान्तशब्देन व्यवहारात्, लटश्च वर्तमाने लट् इति पाणिनिस्मृत्यनुसारेण वर्तमानकालार्थत्वात्, तत्तत्पदार्थाधारकालवृत्तिकालत्वातिरिक्तस्य काले वर्तमानत्वस्य अनिरूपणात्, पदार्थानां तादृशकालसम्बन्धित्वमेव सत्त्वम् । नचैवं सत्यविलम्बेन सत्त्वप्रतीत्युप- पादनासम्भवः कालस्यायोग्यत्वेन उपनायकप्रमाणावतारनियमापाताद् इति वाच्यम् । कालस्य बहिरिन्द्रियविषयत्वोपगमेन अयोग्यत्वासिद्धेः । गुणकर्मादिप्रत्यक्षेषु अनुगतप्रयोजकासंभवात् तत्तद्गुणकर्मत्वादिकं यथा प्रयोजकम् एवं द्रव्यमात्रप्रत्यक्षे अनुगतैकप्रयोजकासंभवात् तत्तद्दव्यत्वमेव प्रयोजकमुपेयम् । अत एवात्मा प्रत्यक्षः, तत्प्रत्यक्षत्वे आत्मत्वस्य प्रयोजकत्वात् । तथाच कालप्रत्यक्षत्वे वर्तमानकालत्वस्य लाघवात्, कालवं चाप्रयोजकमिति न काचिदनुपपत्तिः । न च द्रव्यमात्रप्रत्यक्षे गुणकर्मादिप्रत्यक्षे चानुगतैकप्रयोजकासम्भवात् तत्राननुगतमेव तत्तद्गुणकर्मत्वादिकं प्रयोजकमस्तु, एवमन्तर्बहिर्द्रव्यप्रत्यक्षमात्रेऽनुगतप्रयोजकासंभवाद् अननुगतमात्मत्वादिकमेव प्रयोजकमस्तु, बहिर्द्रव्यप्रत्यक्षमात्रे चानुगतस्य महत्त्वसमानाधिकरणोद्भूतरूपवत्त्वस्य प्रयोजकस्य संभवात्, सति त्यागायोगात् । तस्य बहिर्द्रव्यकालेऽभावाद् घटादिवत् कथं तस्य प्रत्यक्षत्वमितिवाच्यम् । बहिर्द्रव्यप्रत्यक्षत्वस्य नीलघटत्वादिवद् अर्थवशसम्पन्नत्वेन कार्यतानवच्छेदकतया अनुगतकारणानपेक्षणात् । नीलसामग्रीघट सामग्रीभ्यां मिलिताभ्यां जायमानो घटो यथा अर्थवशसंपन्नः, एवं प्रत्यक्षसामग्री बहिर्देशद्रव्योभयसम्बन्धसामग्रीभ्यां मिलिताभ्यां जायमानमपि बहिर्द्रव्यप्रत्यक्षमर्थवशसंपन्नमेव । एवंच कथं तन्निर्वाहाय अनुगतकारणापेक्षा । तस्माद् बहिर्द्रव्यप्रत्यक्षत्वावच्छिन्नं प्रति द्रव्यस्य न महत्त्वसमानाधिकरणोद्भूतरूपवत्त्वेन कारणत्वमुपेयम् । तथाच यथा आत्मप्रत्यक्षे तत्तदात्मत्वं प्रयोजकम् एवं कालप्रत्यक्षे वर्तमानकालवं प्रयोजकमिति न किंचिदनुपपन्नम् । यथाकार्यं सामग्री कल्प्या । कार्यं चेह घटोऽस्तीति घटाद्यस्तिताग्राहकं प्रत्यक्षमविलम्बेन जायमानमनुभवसिद्धम् । तदस्तिता च तस्य स्वाधारकालसम्बन्ध एवेति तन्निर्वाहाय सामग्र्यां कल्प्यायां कालातिरिक्तबहिर्द्रव्यप्रत्यक्षत्वमेव कार्यतावच्छेदकम्, तत्कारणतावच्छेदकं च बहिर्द्रव्यत्वसमानाधिकरणो भूतरूपवत्त्वमित्येव कल्पयितुमुचितम् । सामग्रीकल्पनस्य प्रमाणप्रतिपन्न कार्यनिर्वाहार्थत्वात् । अन्यथा बहिर्द्रव्यप्रत्यक्षमात्रे महत्त्वसमानाधिकरणोद्भूतरूपवत्त्वं ( कारणं स्यात् ) ( तस्मात् ) । सिद्धकार्यानुरोधेनैव सामग्रीकल्पनम् । न तु स्वकल्पितसामग्र्यनुरोधेन कार्यापादनमित्येव त्वदुक्तिपर्यवसानात् । तस्मात् कालस्य घटादिवद् बहिरिंद्रियजन्यप्रत्यक्षविषयत्वम् अप्रत्यूहमिति स्थितम् ।

उक्तप्रयोजकाभावात् कालस्य बहिरिंद्रियायोग्यत्वमितिपक्षेऽपि आकाशवत् तस्य साक्षिसिद्धत्वात्, साक्षिणश्च स्वरूपज्ञानत्वेन सदा सत्त्वेन उपनायकावतारविलम्बाभावात् । साक्ष्युपनीत एव कालो घंटादिप्रत्यक्षेण भासते इति न काचिदनुपपत्तिः । अत एव घटोऽयम् पटोऽयमित्यादिप्रत्यक्षोदये तत्र इदानीं घटोऽस्ति नवेति घटोऽस्ति नास्त्येवेति वा तत्तद्विशेष्यवर्तमानत्वे संशयविपर्ययाभावः सर्वसंप्रतिपन्नः । यद्यपि बहि ( रन्त ) र्गोचरद्रव्यप्रत्यक्षमात्रे लाघवान् महत्त्वसमानाधिकरणोद्भूतरूपवत्त्वमेव प्रयोजकमिति स्वीकर्तुमुचितम् । न चैवं वाय्वाकाशयोर् अप्रत्यक्षत्वप्रसंगः । आत्मनः सुखदुःखादिकमादायेव तयोरपि तथाविधस्पर्शशब्दावादाय तद्वत्त्वानपायादिति वाच्यम् । इष्टापादनात् । अत एव वायौ प्रत्यक्षत्वविवादो मीमांसकैरुक्तप्रयोजक सत्त्वान्निराक्रियते । नच तथाप्याकाशस्य शब्दलिंगानुमेयत्वेन अप्रत्यक्षत्वात् तत्रोक्तं प्रयोजकमतिप्रसक्तमिति वाच्यम् । जातिबधिरस्य शब्दज्ञानाभावेन तदनुमानासम्भवेन आकाशज्ञानासंभवेन हस्तप्रसारानुपपत्तेः । अत एव शब्दादपि न तं प्रत्याकाशसिद्धिः । तथाच तदनुपपत्त्या आकाशस्य प्रत्यक्षत्वम् अकामेनापि स्वीकार्यम् । तद्विषयकं प्रत्यक्षं चक्षुरादिजन्यं न भवतीति चेत् किं ततः ? साक्षिणैव तत्सिध्युपपत्तेः । तत्र प्रत्यक्षप्रयोजकस्योक्तस्य सत्त्वात् । तच्च प्रयोजकं काले नास्तीति कथं तस्य प्रत्यक्षत्वोपगम इति । तथापि जात्यन्धस्य देशकृतपरत्वापरत्वज्ञानाभावात् कालकृतपरत्वापरत्वज्ञानस्याप्यभावेन तल्लिङ्गककालानुमानासंभवाद् व्युत्पत्त्यभावदशायां शब्दादपि तन्निश्चयासम्भवाच्च, तस्य साक्षिणैव कालसिद्धिर्वाच्या । नहि इदानीमत्रेदमस्तीति तदीयं घटादि वर्तमानत्वगोचरं प्रत्यक्षमाकस्मिकम् । नच तदीयत्वगिन्द्रियादिजन्यज्ञानेऽपि वर्तमानकालोऽनुपनीत उत्पत्तुमर्हति । नच मानान्तरेण तदुपनयः संभवति । तथाच परिशेषात् साक्षिणैवोपनीतः स कालस्तत्र भासत इत्यकामेनापि तत्र स्वीकार्यम् । नच उक्तप्रयोजकाभावाद् आकाशवत् कालस्य साक्षिप्रत्यक्षविषयत्वं कथमुपपद्यत इति वाच्यम् । गुणकर्मादौ आत्मनि च अनुगतप्रयोजकाभावेऽपि यथा कार्यबलाद् अननुगतमपि तत्र गुणत्वादिकं प्रत्यक्षत्वप्रयोजकमास्थितम्, तथा कार्यबलेनैव द्रव्यप्रत्यक्षमात्रेऽनुगतप्रयोजकाभावेऽपि वर्तमानकालवं तत्प्रयोजकमास्थेयम् । कार्यानुपपत्तेः सर्वत्र बलवत्त्वात् । अत एवोक्तम्, ‘कार्यानुपपत्तिरपि साक्षिणि प्रमाणम्’ इति वदन्ति इति किमनुपपन्नम् ?

तथा च ब्रह्मजगतोः कालसम्बन्धित्वमेव सत्त्वमिति कथं तयोर् ब्रह्मैव सन् न जगच्च तच्च तद्विलक्षणमिति परांगीकार इति न जानीमः ।

इदं च सत्त्वम् असद्व्यावृत्तमेव, नृशृङ्गं कदापि नास्ति इति असत कालत्रयासम्बन्धित्वस्यैवानुभवात् । नह्येवं जगति कालत्रयासंबन्धित्वं कुतश्चित् प्रमाणादवसीयते । सादौ सांते च घटादौ वर्तमानत्वस्य अबाधितप्रतीतिसिद्धत्वात्। सादावनन्ते ध्वंसेऽपि तथैव कालसंबन्धस्य अनुभवसिद्धत्वात् । प्रागभावस्य प्रतियोगिकालासंबंधित्वेऽपि पूर्वकालसंबन्धित्वस्यानुभवात् । अन्योन्यात्यन्ताभावयोः सदातनत्वस्य सर्वानुभवसिद्धत्वात् । अयोग्याकाशादेरपि ‘आकाशवत् सर्वगतश्च नित्यः’ इत्यादिश्रुत्या सकलदेश सम्बन्धवत् सकलकालसम्बन्धस्यावगमात्। नहि देश इव कालः सर्वशब्दार्थो नेत्यस्ति । अत एव अस्तीत्येवोपलब्धव्यः, असन्नेव स भवति, असद् ब्रह्मेति वेद चेत्, अस्ति ब्रह्मेति चेद्वेद सन्तमेनं ततो विदुरित्यादिश्रुत्या ब्रह्मणोऽपि काल-सम्बधित्वरूपमेव सत्त्वम्, तदन्यस्य नृशृंगादेरसत्त्वं तदसम्बन्धित्वरूपमित्यावेद्यते तदसम्बन्धित्वेन असत्पदार्थानंगीकारे कालासम्बन्धित्वरूपासत्त्वेन ब्रह्म जानतः, तदसम्बधित्वेन नृशृंगादितुल्यतया निन्दनं न स्यात् ।

एतावांस्तु विशेषः । तुयं तत् सर्वदृक् सदा, अहमेकः प्रथममासम्, वर्तामि च भविष्यामि च नान्यः कश्चिन्मत्तो व्यतिरिक्त इत्यादिश्रुत्या ब्रह्मणः सर्वकालसम्बन्धित्वभावेद्यते । तदतिरिक्तत्य वियदादेस्तु सृज्यप्रपंचस्य ’ इदं वा अग्रे नैव किंचनासीत्’ इत्यादिश्रुत्या ‘यत्प्रयन्त्यभिसंविशन्ति’ इति श्रुत्या च उत्पत्तिविनाशौ प्रतिपाद्य ‘तत्सृष्ट्वा तदेवानुप्राविशत्’ इत्यादिश्रुत्या ब्रह्मणस् तत्सम्बन्धकथनाद् अविद्यमाने प्रवेशासम्भवात्, तदन्यथानुपपत्त्या प्रागभाव– ध्वंसकालान्यकाल एव तस्य विद्यमानत्वमवगम्यत इति । ततश्च लाघवात् कालसम्बन्धित्वमेव सत्त्वम्, तदसम्बन्धित्वमसत्वमित्याहुः ।

यत्तु कालसम्बन्धित्वमाधारतया, तदसम्बन्धित्वमसत्त्वमित्यङ्गीकारे आत्माश्रयेण कालस्य स्वाधारतया तदसम्बन्धित्वात् सत्त्व न स्यादिति चेन्न । सर्वत्र देशः सदा काल इत्यबाधितप्रतीत्या देशस्येव कालस्यापि स्वाधारत्वात् सिद्धविषयत्वेन आत्माश्रयस्य अदोषत्वात् । सदेव सोम्येदमग्र आसीत् ’ इत्यादिश्रुत्या कालस्य कालाधारत्वावेदनात् । नहि तत्र अग्रशब्दार्थः कालो नेत्यस्ति । नवा आसीच्छद्वार्थः सन्नेति । अनद्यतनकालो ह्यासीच्छन्दार्थः । अनद्यतने लङ इति पाणिनीयस्मरणात् । अभियुक्तैर् अद्यतनशब्दस्य अतीताया रात्रेः प्रथमयामद्वयाद् अर्वाक्, आगामिन्या रात्रेः प्रथमयामद्वयं यावान् कालः सोऽद्यतन इत्यर्थवर्णनात् । इदशब्दस्य प्रमाणसिद्धवस्तुमात्रार्थत्वेन कालस्यापि तदर्थत्वेन प्रवेशाच्च । एतेन शुक्तिरूप्यादौ ’ इदं रूप्यमत्रास्ति’ इति देशकालसम्बन्धप्रतीतगोविषाणमस्तीति वाक्यादिव विशेषादर्शनदशायां शशविषाणमस्तीतिवाक्यात् शशविषाणादौ काल- सम्बन्धप्रतीतेश्च कालसम्बन्धित्वरूपं सत्त्वं न असद्व्यावृत्तमिति निरस्तम् ।

प्रतीतिमात्रेण अर्थसत्त्वस्य मया अनुपगमात् । अबाधितप्रतीत्यैव तत्सत्त्वोपगमात् । नहि शुक्तिरूप्यादौ शशविषाणादौ च अबाधितप्रतीतिरस्ति । विशेषदर्शनानन्तरम् इयं शुक्तिरेव नतु कदापि रजतम्, शशीयं विषाणं कालत्रयेऽपि न इति बाधस्य सर्वानुभवसिद्धत्वात् । अत एव अग्रे इयं शुक्तिरेव कुतः रजतात्मना अभाद् इति तद्भाने कारणचिन्तानन्तरं रजतसादृश्यादेस् तत्कारणत्वमवसीयते । नहि एवमिदंशब्दार्थे जगति अग्रे कालसम्बन्धित्वेन नित्यनिर्दोषश्रुतिप्रतिपन्ने ततोऽप्यधिकबलत्वेन प्रमाणेषु प्रसिद्धं तद्बाधकं प्रमाणं किमपि उपलभामहे ।

ननु ’ नैवेह किंचनाग्र आसीत्, इदं वा अग्रे नैव किंचनासीद् इति श्रुत्यैव इदंशब्दार्थे जगति कालासम्बन्धित्वावेदनात्, जगतः कालसम्बन्धित्वे बाधकाभावो ऽसिद्ध इति चेन्न । प्राक्कालवाच्यग्रपदसमभिव्याहाराज् जगतः (कालसम्बन्धित्वे बाधकाभावः ) उत्पत्तेः प्राक्कालासम्बधित्वस्यैव तच्छ्रुत्यर्थत्वेन अस्याः श्रुतेर् जगतः सदेवेत्यादिश्रुतिप्रतिपन्नकाल- सम्बन्धित्वे बाधकत्वायोगात् । नच प्रागभावकाले प्रतियोगिनो ऽभावात् सदेवेत्यादिना जगतः प्राक्कालसम्बन्धावेदने विरोध इति वाच्यम् । असद्वा इदमग्र आसीत् तद्धीदं तर्ह्यव्याकृतमासीद् इत्यादि श्रुत्यन्तरानुसारेण अव्याकृतस्य जगतः सदेवेत्यादिश्रुत्या प्राक्कालसम्बन्धावेदनेन अविरोधात् । अत एव जगतः कालसम्बन्धित्वे सत्त्वमङ्गीकृत्य, ’ तद्वैक आहुर् असदेवेदमग्रे ’ इत्यादिश्रुत्या केषांचिद्रीत्या जगतः कारणम् असदेवास्तु इत्याशंक्य तत्रैव ’ कथमसतः सज्जायेत ’ इति तद्रीत्या अनुपपत्तिमुक्त्वा कार्यकारणयोरुभयोरपि तुल्यवत् सत्त्वमुक्तम् । किंच यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति इति श्रुत्या भूकर्तृकजनेस् तत्कर्तृकस्थितेस् तत्कर्तृकलयादेश्च वर्तमानकालसम्बन्धित्वावेदनात् कालसम्बन्धित्वरूपं सत्त्वं दुर्वारम् । नहि निर्दोषश्रुतिप्रतिपन्नं तच्छुष्कानुमानमात्रेण बाधार्हम् । तथा भूतशब्दस्य प्रातिपदिकवेत पातिपदिकार्थमात्रस्य सदर्थत्वमवश्यमुपेयम् । तदनुपगमे भूतानि इति प्रथमाविभक्तिर्नस्यात् । प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमेति पाणिनीयस्मृत्या सन्मात्रादिष्वर्थेषु प्रथमाविभक्त्यनुशासनात् । अत एव प्रातिपदिकार्थः सत्तेति अभियुक्ता व्याचक्षते । नच प्रमाणाबाध्यत्वमेव सत्त्वम् । तस्य कालसम्बन्धित्वसमनियतत्वेऽपि लाघवेन कालसम्बन्धित्वस्यैव सत्पदप्रवृत्तिनिमित्त- त्वात् । नहि घटत्वसमनियतं पृथुबुनोदराकारत्वम् इत्येतावता घटत्ववद् घटपदप्रवृत्तिनिमित्तं भवति । प्रमाणस्य लघुन्येव वस्तुनि पक्षपातात् । नच बाधितस्य निस्खरूपत्वेन कालसम्बन्धित्वायोगात् तदुपपादकतया बाधाभाव आवश्यक इति वाच्यम् । इत्थं तदुपपादनेऽपि गौरवेण बाधकाभावस्य सत्पदप्रवृत्तिनिमित्तत्वायोगात् । तस्मात् कालासम्बन्धित्वमसत्त्वं तत्सम्बन्धित्वमेव सत्त्वमिति जगतः सत्स्वरूपत्वेन सत्त्वसिद्धिः । तत्र चोदाहृतप्रत्यक्षादिकं प्रमाणमिति, तत्र प्रमाणाभावोऽप्यसिद्ध इति सिद्धम् ॥

नन्वस्तु ब्रह्मजगतोः साधारणं कालसम्बन्धित्वरूपम्, अखण्डरूपं वा असद्व्यावृत्तं सत्त्वम् । नहि जगति तन्नेत्यभ्युपगमः, नवा सत्ताजातिवद् अखण्डरूपं तन्नेति, किन्तु अबाध्यत्वरूपमेव सत्त्वं शुक्तिरूप्यादाविव जगति नेत्येवास्मदभ्युपगम इति चेन्न । अप्रातिभासिकत्वेन असद्विलक्षणत्वेन च ब्रह्मणीव जगत्यपि अबाधितत्वस्य सिद्धेः । अबाध्यत्वं हि बाध्यत्वाभावः । बाध्यत्वं च प्रतिपन्नोपाधौ केनचिदस्तीति प्रतिपन्नस्य प्रमाणेन तत्र तेनैव सम्बन्धेन नास्तीति प्रतिपन्नत्वमेव । प्रतिपन्नोपाधौ अस्तीति प्रतिपन्नस्य सतस् तत्रैव तेनैव सम्बन्धेन प्रमाणेन नास्तीति प्रतिपन्नत्वमिति यावत् । नह्येवं जगति सम्भवति । जगद्भा (ज्ज्ञा ) नस्य भ्रमत्वे सत्येव एतत्संभवेन् नहि जगद्भा (ज्ज्ञा) नस्य भ्रमत्वे किमपि मानमस्ति । तथाहि न तावद्योग्ये जगच्छब्दार्थे घटोऽयं, स्तम्भोऽयं, नीलो घटः, शुक्लः पटः, घटश्चलति, पटश्चलति, अयं वह्निर् इदं काष्ठं दहति, वह्निरुष्णः, शीतं जलम्, इदम- त्रास्ति, इदमत्र नास्तीत्यादिप्रात्यक्षिकप्रतीतेर् नियमेन असंदिग्धप्रवृत्ति-जनन्याः, तथैत्र सजातीयसंवादरहिताया वंशे चाक्षुषोरगप्रत्यक्षवत् शंखे- पीतत्वप्रत्यक्षवत् शुक्तिरंगवंगादिषु रजतवंगरंगादिप्रत्यक्षवच्च दोषाजन्यत्वेन भ्रमत्वमङ्गीकारार्हम्, तद्वत् क्लृप्तदोषाजन्यत्वात् तदन्यदोषजन्यत्वकल्पनस्य भ्रमत्वनिश्चयाधीनत्वेन अन्योन्याश्रयात् । नायमुरगः किन्तु वंश एव शङ्खो न पीतः किन्तु श्वेत एव, इदं न रजतं किन्तु शुक्तिरेव, नायमुरग इयं किन्तु वंश एवोरगात्मनाऽभात्, श्वेत एव शङ्खः पीतत्वेन अभात्, शुक्तिरेव रजतात्मना अभाद् इत्यादिप्रतीतिवद् घटादौ, नायं घटः किन्तु अघट एव, अयं घट एव पटात्मनाऽभात्, घटः सन्न किन्तु असन्नेव सदात्मनाऽभाद् इत्यादिप्रात्यक्षिकबाधादर्शनेन तत्र तादृशबाधेन भ्रमत्व- कल्पनाया असंभवेन प्रमाणप्रतिपन्ने भ्रमत्वनिर्वाहाय क्लृप्तदोषासम्भवेऽपि, अक्लृप्त एव कश्चिदोषोऽवश्यं कल्पनीय इत्युक्तेरपि अनवकाशात् ।

एतेन अयं घट एतद्वदभिन्नः घटत्वाज् ज्ञेयत्वाद् घटान्तरवदित्याद्यनुमानेन एतद्घटस्य, एतद्घटभिन्नत्वसिद्धिः । तत्र प्रत्यक्षेण जायमाना घटादिप्रतीतिर् भ्रान्तिरेव तद्भान्तित्वनिर्वाहाय क्लृप्तदोषस्य योग्यानुपलब्ध्या अभावनिश्चयेऽपि दोषान्तरमवश्यं कल्पनीयम् । अप्रामाण्यापरनामक भ्रान्तिस्वस्य परतस्त्वेन दोषप्रयोज्यत्वनियमादिति निरस्तम् ॥

वह्नयौष्ण्यानुमानवद् घटे घटभिन्नत्वानुमानस्यापि क्लृप्तदोषाजन्यपरिक्षितस्वतः प्रमाणभूतघटत्वग्राहिप्रत्यक्ष बाधितत्वेन घटभिन्नत्वासाधकत्वात् । अनुमानस्य स्वतःप्रमाणमूलकत्वं विना स्वातन्त्र्येण असंभवेन स्वविषयानि- श्रायकत्वाच्च । अन्यथा सुरापानममृतत्वसाधनं पानत्वात् सोमपानवद् इत्याद्यनुमानेन सुरापानस्यापि अमृतत्वसाधनत्वसिद्धयापत्तेः । न सुरां पिबेद् इति श्रुतिबाधितत्वात् तस्य तदुपायत्वासिद्धौ च प्रकृतेऽपि उदाहृतप्रत्यक्षविरोधाद् घटत्वाद्यनुमानेन अघटत्वासिद्धिरिति स्यात् ।

एतेनैव साक्षात्कारिभ्रमविषयत्वस्य अधिष्ठानयाथात्म्यगोचरसाक्षात्कारि- विपरीतदर्शनमेव विरोधि । दिङमोहादौ तथा दर्शनात् । तथाच सदाद्याकार-गोचर प्रत्यक्ष भ्रमाविषयस्य घटादियोग्यजगतः नेदानीं बाधो दृश्यते । तदधिष्ठानयाथात्म्यगोचरदर्शनाधीन विपरीतदर्शनस्य इदानीमनुदयात् । तदनुदयश्च अनाद्यविद्यारूपदोषेण प्रतिबन्धाद् इति (तु) प्रत्यूढम् । ( निराकृतम् )एतत्कल्पनायाः सदाद्याकारकजगद्भानभ्रमत्वसिद्ध्यधीनत्वेन अन्योन्याश्रयात् । किञ्च साक्षात्कारिभ्रमविषयशुक्तिरूप्यादेः साक्षात्कारिविपरीतदर्शनेन बाधस् तदैवोपलभ्येत यदा शुक्त्याद्यधिष्ठानगतकालपृष्ठ त्रिकोणत्वादि- विशेषदर्शनेन तद्धमे अप्रामाण्यशङ्का वा तन्निर्णयो वा जायते । तथाच तेनैव न्यायेन सदाद्याकारिप्रत्यक्षादिभ्रमविषयस्य जगतः बाधमिच्छता परेण तदधिष्ठानगतविशेषदर्शनेन तद्गोचरभ्रमे अप्रामाण्यशङ्का वा तन्निश्चयो वा प्रथमं जायते तदनन्तरम् अनुमानेन शब्देन वा तद्बाधकज्ञानोदय इति स्वीकार्यम् । नान्यथा । नचैवं परेण स्वीकर्तुं शक्यते । तेन जगदध्या- साधिष्ठानस्य निर्विशेषत्वेनैव अङ्गीकारात्, मध्ये विशेषदर्शनानङ्गीकाराच्च । नहि अप्रामाण्यशङ्काशून्यसदाद्याकारजगद्गोचरप्रत्यक्षानुमानशब्दजन्यज्ञाने जागरूके अनुमानान्तरेण शब्दान्तरेण वा तद्विरोधिज्ञानान्तरम् उत्पत्तुमर्हति येन तज्जगद्भानबाधकं स्यात् ।

एतेन रजौ प्रत्यक्षतः सर्पभ्रमे सत्यपि नायं सर्प इत्याप्तवाक्यात् तद्बाधकशब्दप्रमा विशेषदर्शनादिकं विनैव जायत इत्यपास्तम् ।

सर्पभ्रमे अप्रामाण्यशङ्कां विना नायं सर्प इति शब्दात् तज्जननासंप्रतिपत्तेः । किञ्च नायं सर्प इति शब्दस्य आप्तोक्तत्व (आप्तोक्तशब्द- विषयत्व) निश्चयं विना सर्पभ्रमवतः न ततो निष्कंपप्रवृत्तिः । नवा तत्प्रयुक्तभयकंपादिनिवृत्तिरिति सर्वसंप्रतिपन्नम् । वक्तुराप्तिश्च प्रकृतवाक्यार्थगोचरयथार्थज्ञानं वा भ्रमप्रमादादिदोषराहित्यं वा नान्यत् । एवञ्च तादृशशब्द- विषयत्वरूपविशेषदर्शनमस्त्येव श्रोतुरिति तेन सर्पज्ञाने अप्रामाण्यशङ्का वा तनिश्चयो वा जायत एव । नायं सर्प इति वाक्याद् असर्पत्वबुद्धया बाधः नान्यथेति किमनपपन्नम । किन अयं सर्प इति अप्रामाण्यशङ्काशून्य-सर्पत्ववैशिष्ट्यावगाहिनिश्चये सति कथं नायं सर्प इति शब्दाद् इयमसर्प- त्वधीः । शाब्दबोधे अयोग्यतानिश्चयस्य प्रतिबंधकत्वात् । किञ्च तस्याप्रतिबंधकत्वेऽपि शब्दादसर्पत्वधीर्जायमाना ग्राह्याभावागाहिनिश्चयकालीनाहार्यरूपैव स्यात्। किमतो यद्येवमिति चेन् नायं सर्प इति ज्ञानापादितभयकंपादिनिवर्तिका न स्यात् । असर्पत्वाज्ञाननिवृत्तिश्च न स्यात् । सर्पहननाद्यनुकूलोद्यमश्च स्यात् । नहि सर्वं रजतमित्याहार्यज्ञानवान् रजतार्थितया सर्वत्र प्रवर्तत इत्यस्ति । तथाच नायं सर्प इति वाक्यादपि असर्पधीर्जायमाना अनाहार्यरूपैव वाच्या । विषयाभावात् प्रमारूपा च । सांच पूर्वोत्पन्नसर्पत्वनिश्चये यावन्नाप्रामाण्यशङ्काऽधीयते तन्निश्चयो वा ( आधीयते) तावत्खात्मानमलभमाना तत्राप्रामाण्यशङ्काकारणं कल्पयतीति अकामेनापि स्वीकार्यम् । किञ्च प्रामाण्यस्वतस्त्वपक्षे निश्चितप्रामाण्यादेवार्थनिश्चयात् सर्वत्र निष्कंपप्रवृत्तिरिति स्थिते शब्दजन्यासर्पत्वज्ञानात् तथाविधादेव प्रवृत्त्यादिकं वाच्यम् । प्रामाण्यनिश्चयश्च तदैव संभवेद् यदा विरोध्युपस्थितितत्सामग्रयोरसमवधानम् । प्रामाण्यमपि तदैव ज्ञानं यत्प्रकारकं तत्प्रकारत्वमर्थस्य । नच रज्जौ सर्पत्ववैशिष्ट्यावगाहिनि समानविषये ज्ञाने जागरूके असर्पत्ववैशिष्ट्याव- गाहिज्ञानं भवितुमर्हति । कथमेवं शब्दाज्जायमानमसर्पत्वज्ञानं निश्चितप्रामाण्यं संभवतीति न जानीमः । भवितव्यं च तेन अवश्यम् । अन्यथा उक्तकार्यानिर्वाहात् । एवञ्च एवंविधस्थले तन्निर्वाहाय अस्मद्रीतिरेवाश्रयणीया । रीत्यंतरासंभवात् ।

केचित्तु प्रामाण्यस्वतस्त्वस्य आवयोर् औत्सर्गिकत्वाद् यज्ज्ञानं यत्र प्रतिबन्धकं तत्सामग्रयपि तत्प्रतिबन्धिकेति न्यायात् प्रामाण्यविरोध्युपस्थिति- तत्सामग्रीसत्त्वदशायां प्रामाण्यग्रहो न संभवतीत्युपेयम् । एवञ्च नायं सर्प इति शब्दोत्थज्ञानेऽपि प्रामाण्यग्रहोऽसंभवीति पूर्वोत्पन्नसर्पज्ञाने अप्रमारूपेऽपि ज्ञानग्राहकसामग्रया प्रामाण्यग्रहस्य निश्चितत्वेन तेन असर्पत्वज्ञानप्रामाण्यविरोध्युपस्थितिसत्त्वात् । नच अप्रमापि प्रमेत्येवं गृह्यते इत्युपगमात्,सर्पज्ञाने विरोधिप्रामाण्यनिश्चयसत्त्वेपि असर्पत्वज्ञाने तदभावात् । तत्र प्रामाण्यनिश्चये किं बाधकम् ? नहि भिन्नविषये बाधकत्वं संभवतीति वाच्यम् । एकस्यामेव रज्जौ सर्पत्ववैशिष्ट्यावगाहिज्ञानवद् असर्पत्ववैशिष्ट्यावगाहिज्ञानस्य स्वीकारात् । समानविषयत्वस्य सत्त्वात् । ज्ञानं यत्प्रकारकं तस्य स्वविषये तद्वत्त्वातिरेकेण प्रामाण्याभावात् । अत एव प्रामाण्यसंशयस् तद्वत्त्वसंशयपर्यवसन्न इति न्यायविदः ।

नच रज्जौ प्रत्यक्षतः सर्प इति ज्ञाने विरोधिनि (निश्चितप्रामाण्ये) जागरूके शध्दाद् असर्प (नायं सर्पः) इति धीरेव न संभवतीति वाच्यम् । अयोग्यता निश्चयस्य शाब्दबाधाप्रतिबन्धकत्वात् । अन्यथा जल्पकथायां वादिप्रतिवादिनोर् विरुद्धार्थप्रतिज्ञावयवात् परस्परविरुद्धार्थनिश्चयवत्त्वेन तदर्थगोचरज्ञानासंभवात् तदीयन्यायवाक्यप्रयोगो बधिरकलहबद्व्यर्थः स्यात् । तस्मात् शब्दाद् असर्पत्वज्ञानेन निश्चितप्रामाण्येन सर्पज्ञानस्य बाधमिच्छता तदपेक्षया प्राबल्यमवश्यमुपेयम् । न्यूनबलेन वा समबलेन वा तद्विषयापहारमुखेन बाधासंभवात् । तस्मान् निर्दोषशब्दत्वादिरूपविशेषदर्शनेन सर्पज्ञा अप्रामाण्यशङ्कायां तन्निश्चये वा सत्येव नायं सर्पइतिशब्दाद् आप्तोक्तत्वेन निश्चितात् पुनः पुनः सूक्ष्मेक्षिकया परामर्शेन रज्जौ असर्पत्वव्यापारान्तरनिश्चयसहकृताद् अधिक बलात् सर्पज्ञानबाधकम् अनाहार्यरूपमेव असर्पत्वज्ञानं जायते । तथापि तदाहार्यकल्पनमकिञ्चित्करम् । अत एव नायं सर्प इति वक्तारं प्रति किमेवमेवोच्यते किं वा सम्यग्विचार्योच्यते इति पृच्छन्तः श्रोतारो लोके बहुलमुपलभ्यन्त इत्याहुः ।

तथाच उक्तरीत्यैव योग्यजगत्प्रत्यक्षे योग्यानुपलब्ध्या क्लृप्तदोषाजन्यत्वेन निश्चिते नियमेन विसंवादरहिते सजातीयविजातीयसंवादवति च तेन तेन रूपेण तत्तदर्थगोचरे प्रामाण्यस्वतस्त्वान् निश्चितप्रामाण्ये जागरूके अ एव अप्रामाण्यशङ्काशून्ये अनादिकालमारभ्याद्यपर्यन्तं विरोधिप्रत्यक्षरहिते सति अनुमानेन शब्देन वा तदन्यथात्वगोचरधियो ऽसम्भवाद् ब्रह्मवद् अबाध्यत्वं किं नोपेयम् ? साधकबाधकप्रमाणभावाभावयोर् अविशेषात् । एतेन विशेषशब्दार्थस्य करचरणवक्रकोटरादिरूपतया अनवगतत्वात् पुरुषस्थाण्वादौ अतथात्वेन भ्रमे साक्षात्कारात्मनि अननुगततत्तद्विशेषदर्शनस्य यथा अप्रामाण्यशङ्काधायकत्वं निश्चयाधायकत्वं वा तथा जगदध्यासाघिष्ठानभूते ब्रह्मणि वस्तुतो निर्विशेषतया अतदात्मनि तदात्मतया ज्ञानगोचरे निर्विशेषत्वरूपविशेषस्य सत्त्वात् तस्य अखण्डब्रह्मणि चिन्मात्रत्वेन तत्सविशेषत्वान।पादकत्वात् । श्रुतिविशेषेण तादृशविशेषस्य दर्शने जाते तेन योग्यायोग्यजगद्वत्तया तदात्मतया च ब्रह्मगोचरे श्रुतिजन्ये ज्ञाने अप्रामाण्यशङ्कायां तन्निश्चये वा ( आहिते) जगदबाध्यत्वं निष्प्रत्यूहम् ।

एतेन - नेति नेति, नेह नानास्ति किञ्चन, एकमेवाद्वितीयम्, अन्यदेव तद्विदितादथोऽविदितादथि, नास्ति द्वैतसिद्धिः, आत्मैव सिद्धोऽद्वितीयो मायया ह्यन्यदिव, नात्र काचन भिदास्ति, नैवात्र काचन भिदास्ति, अत्र- भिदामिव मन्यमानः शतधा भिन्नः, मृत्योः स मृत्युमाप्नोति, यस्मिन् सर्वाणि भूतान्यात्मैवाभूद्विजानत इत्यादिश्रुतिविशेषैर् बाधकज्ञानोदयः संभवतीति निरस्तम् । तथापि श्रुतिजन्यज्ञानाज् जगत्प्रत्यक्षस्य भ्रमत्वासिद्धेः । तदैव हि तस्य भ्रमत्वं संभवति यदि योग्यायोग्यप्रपञ्चस्य प्रत्यक्षतो ब्रह्मणि प्रसक्तिः स्यात् । अयोग्यस्य सर्वथा प्रत्यक्षतोऽप्रसक्तेः । योग्यस्य सतोऽपि ब्रह्मणि अप्रसक्तेश्च । केवलो निर्गुणश्चेत्यादिविशेषनिषेधश्रुतीनामपि नेति नेतीत्यादिश्रुतित्रत् त्वद्रीत्या बाधकश्रुतित्वेन तासां ब्रह्मसप्रपञ्चत्वावेदकश्रुतिभिरिव आसां ब्रह्मनिर्विशेषत्वावेदकश्रुतीनामपि तत्सविशेषत्वावेदकश्रुतिभिः सत्प्रतिपक्षितत्वेन ब्रह्मनिर्विशेषत्वप्रत्यायकत्वासंभवाच्च । ब्रह्मनिष्प्रपञ्चत्वज्ञानेन तत्सप्रपञ्चत्वा वेदक- श्रुतिजन्यज्ञाने ब्रह्मनिर्विशेषत्वज्ञानेनोक्तरीत्या विशेषदर्शनात्मकत्वरहितेन ब्रह्मसविशेषत्वावेदकश्रुतिजन्यज्ञानेऽपि अप्रामाण्यशङ्कायास् तन्निश्चयस्य वा आधाना संभवात् । नहि स्वयमलब्धात्मकेन तेन तदाधानं कर्तुं शक्यम् । नहि सति प्रतिबन्ध इतर कारणसमवधानसत्त्वेऽपि तत्कार्यत्वाभिमतं स्वात्मानं लभमानं दृष्टचरम् । ब्रह्मणि प्रपञ्चविधितन्निषेधयोर् गुणविधितन्निषेधयोर् आकारविघितन्निषेधयोश्च षोडशिग्रहण तन्निषेधवा क्योदितापूर्वतादिरूपतात्पर्यलिंगत्वेन अप्रामाण्यकारणाभावेन च तुल्यबलवत्त्वात् तयोरेकेनापरस्य सर्वात्मना बाधा- योगात् । व्यवस्थितविषयत्वाश्रयेण तुल्यवत्प्रामाण्योपगमस्यैव उचितत्वाच्च । किञ्च निषेधस्य यथाकथञ्चिद् विना प्रसक्तिमयोगेन ब्रह्मणि वियदादिप्रपञ्चस्य गुणानामाकाराणां च मानान्तरेण प्रसक्त्यभावेन श्रुत्यैव प्रसक्तिर्वाच्या । एवञ्च निषेधप्रवृत्तेः प्रसंजक प्रमाणप्रवृत्तिं विना अयोगेन उपजीव्यतया प्रसंजक प्रमाणस्यैव प्राबल्यमापतितमिति तदनुसारेणैव उपजीवकप्रमाणस्य प्रामाण्यमुपपादनीयम् । नतु उपजीवकानुरोधेन उपजीव्यप्रामाण्यमिति कथं निषेधप्रमाणेन विधायकप्रमाणस्य सर्वथा बाधः । शुक्तौ इदं रूप्यमिति ज्ञानस्य उपजीव्यस्य सतोऽपि यद्यपि नेदं रजतमिति ज्ञानेन बाधो दृश्यते तथापि तस्य यदंशे उपजीव्यत्वं तदंशे तस्य न तेन बाधः । यदंशे तस्य च तेन बाधः न तदंशे तस्योपजीव्यत्वमिति अविरोधः । यद्यपि चाधिकरणज्ञानवत् प्रति- - योगिज्ञानस्यापि प्रतियोगिज्ञानत्वादिना कारणतया बाधकज्ञानं प्रत्युपजीव्यत्वमविशिष्टम् । तथापि दोषजन्यत्वविशिष्टमुपजीव्यत्वमिदं रजतमिति ज्ञानस्येद- मंश इव न निपेध्यरजतांश इति विशेषविवक्षया तस्यानुपजीव्यत्वोक्तिरिति, अविरोधः ।

ननु योग्ये जगति घटः सन् पटः सन्, घटः स्फुरति, पटः स्फुरति इदं सुवर्णं प्रियम् इदञ्च प्रियमिति प्रत्यक्षप्रतीतेर्घटादिसत्त्वं स्फुरणत्वं प्रियत्वं च विषय इति सर्वानुभवसिद्धम् । तच्च सत्त्वादिकं ब्रह्मगतमेव न घटादिरूप - जगद्गतम् । सत्यं ज्ञानमनन्तं ब्रह्म, नित्यं विज्ञानमानन्दं ब्रह्मेति श्रुत्या सद्रूपत्वज्ञानरूपत्वादेर् ब्रह्मलक्षणत्ववर्णनात् । ब्रह्म किंलक्षणकमिति प्रश्नो- तरत्वेन प्रवृत्तस्य सत्यं ज्ञानमनन्तं नित्यं विज्ञानमानन्दं ब्रह्मेत्यादेस् तल्लक्षण- प्रतिपादनपरत्वावश्यंभावात् सत्त्वादिकं ब्रह्मलक्षणमवश्यमुपेयम् । तल्लक्षणं भगवदितरव्यावृत्तमेत्र तल्लक्षणत्वमर्हति न त्वन्यथा । न च अतिव्याप्त्य-व्याप्त्यसंभवि वा लक्षणं भवितुमर्हति । न च वाच्यं ब्रह्मलक्षणभूतं सत्त्वादिकं कथं घटादिनिष्ठतया प्रतीयत इति । शुक्तीदंत्वस्य शुक्तिरूप्य इव ब्रह्मसद्रूपत्वादेर् घटादिनिष्ठत्वेन प्रतीतिसंभवेन कथंताऽनवकाशात् ।

ननु शुक्तौ इदं रूप्यमिति ज्ञानानन्तरं नेदं रजतमिति विशेषदर्शनोत्थबाधकज्ञानेन तद्रजतज्ञानस्य भ्रमत्वावधारणेन तत्राध्यस्तरजतगतत्वेन प्रतीतेदत्वस्य बाधानुरोधेन तदध्यासाघिष्ठानशुक्तिनिष्ठत्वाश्रयणं युक्तम् । प्रकृते तु न तथाऽऽश्रयणं युक्तम् । तथाऽऽश्रयणं च तदैव युक्तं भवेद् यदि सन् घट इत्यादिप्रत्यक्षप्रतीतिर् भ्रमो भवेत् । तद्भ्रमत्वं च तदैव सिध्येद् यद्यत्र घटादेः सद्रूपत्वबाधकं भवेत् । अन्यथा अन्योन्याश्रयादिति चेन्न । सत्यत्वादेर् ब्रह्मलक्षणत्वान्यथानुपपत्तेरेव बाधकत्वात् । तदाहुः-

अस्ति भाति प्रियं रूपं नाम चेत्यंशपञ्चकम् ।

आद्यत्रयं ब्रह्मरूपं जगद्रूपं ततो द्वयम् इति ।

तथाच ब्रह्मव्यतिरेकेण सच्चिदानन्दखरूपस्य वस्तुनोऽभावाद् घटाद्यर्थे प्रतीयमानं सत्त्वादिकं ब्रह्ममात्ररूपमेवेत्युपेयम् । तस्य घटादिसम्बन्धमानं च घट । देस्तादृशे ब्रह्मण्याध्यासिकसम्बन्धस्वीकारेणैवोपपादनीयमिति कथं घटादौ सत्त्वादिग्राहिप्रत्यक्षस्य तद्बाधकप्रमाणत्वेनाभिमताया नेह नानेत्यादिश्रुतेर् न समानविषयत्वम् । सति च समानविषयत्वे कथं तत्सत्त्वादिग्राहिप्रत्यक्षस्याभ्रमत्वम् । एवं ’ तत्त्वमसि, नान्योऽतोऽस्ति द्रष्टा’ इत्यादिप्रत्यग्ब्रह्माभेदावेदकतद्भेदनिषेधकश्रुतेर् नाहमीश्वरः नाहं सर्वज्ञः, नाहं चिन्मात्रम् इत्यादि प्रत्यक्षस्य च विरुद्धार्थविषयत्वं समानविषयत्वं च स्फुटम् उक्तरीत्या तद्भेदज्ञानस्य भ्रमत्वम्, तद्भेदस्य अभ्यस्तत्वं च । तथाच अनयोरेकं बाध्यं विरुद्धार्थग्राहित्वादितिन्यायेन श्रुतिप्रत्यक्षयोरन्यतरबाधावश्यंभावे तत्र श्रुतेरपौरुषेयतया नित्यनिर्दोषतया च तत्परत्वेन च अपच्छेदन्यायेन परत्वेन च प्राबल्याद् बाधकत्वम् । प्रत्यक्षस्य तु संभावितदोषत्वेन निषेध्यसमर्पकत्वेन पूर्वतया दुर्बलत्वेन बाध्यत्वमिति मदभ्युपगम इति चेन्न ।

सत्यं ज्ञानमित्यादिश्रुत्या अबाध्यत्वरूपसत्त्वस्य ब्रह्मलक्षणरूपत्ववर्णनात् तस्य ह वा एतस्य ब्रह्मणो नाम सत्यमिति, तानि ह वा एतानि त्रीणि अक्षराणि, सत् ति यमिति । तद्यत्सत् तदमृतम्, अथ यत् ति तन्मर्त्यम्, अथ यद् यं तेनोभे यच्छति, यदनेनोभे यच्छति तस्माद्यमहरहर्वा एवंवित् स्वर्गं लोकमेतीति’ छन्दोगश्रुत्या (छां. अ. ८, खण्डः १, वाक्यं ७) फलरूपतात्पर्यलिङ्गवत्या मुक्तामुक्तनियामकत्वेन यत् सत्यशब्दार्थत्वेनोक्तं तस्यैवेह सत्यशब्दार्थस्य ब्रह्मलक्षणत्वर्णनात्, वेदे वैदिकस्यैवार्थत्य अंतरङ्गबाधकं विना ग्राह्यत्वात् । अत एव पञ्चदश भवन्ति ‘उग्रवचोऽपावधीं त्वेषं वचो अपावधीम्’ (पू मी. अ. २, पा. १, अनुषङ्गाघ १७ ) इत्यादौ यदाजिमीयुस्तदाज्यानामाज्यत्वम्, अशनायापिपासे ह वा उग्रं वच इत्यादिना वेदे तेनोक्तस्यैवार्थस्य ग्रहणम् । न च सत्यनामनिर्वचनस्य उपासनार्थत्वेन प्रवृत्ततया प्रकरणान्तःस्थितत्वेन च निर्णीतस्य कथं ब्रह्मलक्षणं वक्तुं प्रवृत्तवाक्यगतसत्यशब्दार्थनिर्णयहेतुत्वमिति वाच्यम् । तथापि मुक्तामुक्तनियामकत्वस्य सत्यशब्दार्थत्वेन वेदोक्तत्वानपायात् । अथ कस्मादुच्यते परं ब्रह्मेति यस्मादुच्चार्यमाण एव बृहति बृंहयति तस्मादुच्यते परं ब्रह्मेतीति प्रकरणान्तरगतनिरुक्तेरपि ब्रह्मविदाप्नोति परमित्यादौ सर्वैरपि ब्रह्मशब्दार्थनिर्णय हेतुत्वेनाश्रयणाच्च । लोकवेदाधिकरणन्यायस्य कण्ठतो वेदार्थविषयत्वात् । अत एव कश्छन्दसां योगमावेद धीर इति वेदतात्पर्यगोचरार्थस्य दुर्विभाव्यत्वेनोक्तिः सङ्गच्छते । नचैवं यचिकेत सत्यमित्तन्न मोघम् ऐतदात्म्यमिदं सर्वं तत्सत्यमित्यादिवेदगतसत्यशब्दस्यापि वेदे वैदिकार्थस्यैव ग्राह्यत्वादितिन्यायेन मुक्तामुक्तनियामकत्वार्थः किं न स्यादिति वाच्यम् । वेदे वैदिकार्थस्यैव ग्रहणमित्यस्यौत्सर्गिकत्वात् । प्रकृते च सत्यशब्दस्य शुक्तिरूप्यादिव्यावृत्तब्रह्मजगत्साधारणभ्रमविषयत्वाभावप्रतीति विषयत्वपारूबाध्यत्वापरपर्याय सत्यत्वार्थकत्वनिर्वाहाय तन्न मोघम् इति अमोघत्ववर्णनासंभवेन च तत्परत्वस्य त्यागात् । सदेव सोम्येदमग्र आसीत्, कथमसतः सज्जायेत इत्यादिश्रुत्यन्तरेण ब्रह्मणोऽपि अबाध्यत्वरूपसत्त्वसिद्धेश्च ।

एवं तु तत् सर्वदृक् सदा इति ब्रह्मापरोक्षज्ञानस्य सदा प्रामाणिक सर्व विषयकत्वश्रवणात् तदनुसारेण सत्यज्ञानादिवाक्यगतज्ञानपदमपि तादृशज्ञानरूपत्वरूपं ब्रह्मणो लक्षणान्तरमपि नातिप्रसक्तम् । एवम् अनन्तत्वमपि लक्षणान्तरं युक्तम् । नित्यं विज्ञानमानन्दं ब्रह्मेत्यत्रापि नित्यो नित्यानां चेतनचेत नानामिति श्रुत्यनुसारेण अनन्याधीनं नित्यत्वं ब्रह्मणो लक्षणम्, विज्ञान पदमपि उक्तरीत्या ज्ञानविशेषपरमिति तद्रूपत्वमपि तस्यानतिप्रसक्तं लक्षणान्तरम्, एवम् आनन्दपदस्यापि स एको ब्रह्मण आनन्दः, यतो वाचो निवर्तन्ते अप्राप्य मनसा सह, एतस्यैवानन्दस्य अन्यानि भूतानि मात्रामुपजीवन्ति इत्यादिश्रुतिपर्यालोचनया ब्रह्मानन्दस्य अपरिमितत्वलाभात्, तादृशानन्द- परत्वेन तादृशानन्दरूपत्वमपि तस्य लक्षणान्तरमिति सिध्यति । नहि एवंविध- लक्षणत्राक्यार्थसंपत्तौ तदनुरोधेन कथं योग्यायोग्यस्य जगतः भ्रमाविषयत्वेन प्रमितिविषयत्वरूपाबाध्यत्वासिद्धिः । तत्सिद्धौ ( जगतो ऽबाध्यत्वसिद्धौ ) च जगदन्तः पातिनो योग्यस्य घटादेः सच्चिदानन्दरूपब्रह्मण्यध्याससिद्धिस् तदसिद्धौ च प्रत्यक्षतः प्रतीयमानघटादिकं सर्वं ब्रह्मरूपाधिष्ठानगतमेव आरोपित रजते शुक्तीदंत्ववद् घटादिनिष्ठतया भातीति परांगीकारः कथमिति न जानीमः ।

किञ्च घटस्सन् पटस्सन् इत्यादियोग्यजगद्गोचरप्रत्यक्षस्य यावत्प्रबलप्रमाणान्तरेण भ्रमत्वनिश्चयो न तावत् सच्चिदानन्दरूपस्य त्वदभिमत- ब्रह्मणोऽधिष्ठानत्वसिद्धिः । तथा घटादिनिष्ठतया प्रतीयमानसत्त्वादेर् न तथाविधाघिष्ठानगतत्वसिद्धिरिति तदुभयसिद्ध्यर्थम् उक्तप्रत्यक्षस्य केनापि प्रबलप्रमाणान्तरेण भ्रमत्वनिश्चयो भवतीति वाच्यम् । नहि तथा वक्तुं शक्यते । तथाविधप्रमाणान्तराभावात् । एतच्छ्रुत्यैव तत्सिद्ध्यङ्गीकारे अन्यो न्याश्रय इत्युक्तम् । अपि च नेन्द्रियाणि नानुमानं वेदा ह्येवैनं वेदयन्ति तस्मादाहुर्वेदा इति, न संदृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चनैनम्, नावेदविन्मनुते तं बृद्दन्तम् इत्यादिश्रुत्या औपनिषदः पुरुषः, (तत्वा)औपनिषदं पुरुषं पृच्छामि इत्यादिश्रुत्या च इन्द्रियग्राह्यत्वं प्रतिषिध्य ब्रह्मणो वेदैकसमधिगम्यत्ववर्णनात्, चाक्षुषत्त्रप्रयोजकरूपादिराहित्येन चक्षुर योग्यत्ववर्णनाच्च तस्य घटस्सन् इत्याद्यैन्द्रियकप्रत्यक्षप्रतीतिविषयत्वस्वीकारः परकीयः कथमुपपद्यते इति न जानीमः । नहि अयोग्ये यागादिजन्यातिशये योग्यपदार्थाध्यास ऐन्द्रियको भवन् दृष्टचरः । किञ्च त्वदीयजगन्मिथ्यात्वसाधनानुमानं घटादियोग्यजगत्सत्त्वग्राहिप्रत्यक्ष बाघितमिति मयोक्ते, वर्तमानमात्रग्राहिप्रत्यक्षस्य त्रिकालाबाधितत्वरूपसत्त्वग्राहित्वासम्भवेन तद्बाधितत्वोद्भावनं त्वदीयमनुपपन्नमिति वदन्तं मां प्रति वदता त्वयापि ब्रह्मगततादृशसत्त्वस्य तदध्यस्तघटादिगतत्वेन प्रत्यक्षविषयत्वाङ्गीकारे व्याहत्या पत्या तस्य प्रत्यक्षाविषयत्वमेवोपेयमिति किमधिकमाचरितम् ।

ननु चक्षुरयोग्यस्याकाशस्यापि योग्या नक्षत्रसंबन्धितया तज्जन्यप्रत्यक्षविषयत्वं दृश्यते । तथा चक्षुरयोग्यस्य राहोस्तद्योग्यचन्द्रसंबन्धेन चाक्षुपत्वं दृश्यत इति चेत् (न)। साम्रनक्षत्रत्वेन प्रभामण्डलस्यैव चाक्षुषप्रत्यक्षविषयत्वेनाकाशस्य तद्गोचरत्वासिद्धेः । राहोश्च महत्त्वसमानाधिरणोद्भूतनीलरूपवत्त्वेनायोग्यत्वासिद्धेः। चन्द्रोपरागाभावकाले चक्षुषा तदनुपलम्भस्येन्द्रियसम्प्रयोगाभावेन व्यञ्जकाभावेन प्रतिबन्धकसद्भानेवोपपत्तेः । तेषां कार्यैककल्प्यत्वेनाभावावधारणात् । अन्यथा योग्यार्थसंबन्धित्वेन धर्मादेर्योग्यनयन गोलकादिसंबन्धेन च चक्षुरिन्द्रियादेश्च प्रत्यक्षत्वप्रसङ्गः । अत एव सर्वप्रत्ययवेद्ये च ब्रह्मरूपे व्यवस्थित इत्यादिपराङ्गीकारः प्रत्यूढः (निराकृतः ) । तस्माच्छ्रुतिप्रत्यक्षयोः समानविषयत्वाभावाद् अपच्छेदन्यायेन प्रबलया परया श्रुत्या पूर्वस्य दुर्बलस्य प्रत्यक्षस्य बाध इत्युक्तमयुक्तम् । प्रमाणानां समान-विषयत्वे एव प्राबल्यदौर्बल्यप्रयुक्तबाध्यबाधकभावनिर्णयावसरात् ।

यत्तु न्यायामृते उपक्रमाधिकरणन्यायेन श्रुत्यपेक्षया प्रत्यक्षप्राबल्यसमर्थनं गुरुचरणैः कृतं तत्तु समानविषयत्वमभ्युपेत्य कृतमिति न तद्विरोधः । एतेनैव तत्त्वमसि नान्यदतोऽस्ति द्रष्टेत्यादि तत्पदार्थाभेदतद्भेदनिषेधकश्रुतेस्तद्भेदग्राहिप्रत्यक्षापेक्षया परत्वेनापच्छेदन्यायेन प्रबलत्वात् तया तद्भेदग्राहि प्रत्यक्षबाध इति पराङ्गीकारः प्रत्यूढः (निराकृतः) । पररीत्येव तच्छ्रुतिप्रत्यक्षयोः समानविषयत्वाभावात् । तत्त्वंपदलक्षितशोधितचिन्मात्राभेदतद्भेदनिषेधयोरेव तस्य वेदैकसमधिगम्यत्वेन परेण तच्छ्रुतितात्पर्यगोचरार्थत्वोपगमात्, गोचरत्वात् । प्रत्यक्षस्य विशिष्टोपहितविषयत्वेन विशिष्ठोपहितचैतन्ययोर विशिष्टानुपहितचैतन्यादन्यत्वेन भिन्नविषयत्वात् । तद्भेदस्य श्रौतनिषेधाविषयत्वेन पारमार्थिकत्वापत्तेश्चेति दिक् ॥

यद्यपि, त्वंपदार्थजीवे तत्पदार्थाद्ब्रह्मणो, नाहमीश्वर इत्यादिप्रत्यक्षेण मेदो विपयीक्रियते । तत्त्वमसि, नान्योऽतोस्ति द्रष्टेत्यादिश्रुत्या तत्पदार्थेन ब्रह्मणा त्वंपदार्थे जीव एवाभेदो बोध्यते एव । भेदश्च निषेध्य एवेति श्रुतिप्रत्यक्षयोः समानविषयत्वमिति प्रतिभाति । तत्त्वमस्ययमात्मा नान्योऽतोऽस्ति द्रष्टेत्यादिश्रुतिशरीरग्राहिश्रोत्रजन्यप्रत्यक्षस्य प्रमात्वेन विना प्रसिद्धानुपूर्वी रूपश्रुतिशरीरासिद्धेस्तत्प्रामाण्येऽवश्याभ्युपेये यथावच्छ्रुतिसिद्धार्थमङ्गीकृतप्रमाणभावेन श्रौत्रप्रत्यक्षेणोपजीव्यसजातीयतया प्रामाण्यग्राहितयाप्युपजीव्येन प्रबलेनोपक्रमाधि- करणन्यायेनासञ्जातविरोधितया श्रुतिलिङ्गाधिकरणन्यायेन शीघ्रगामितया सामान्यविशेषन्यायेन विशेषविशिष्टतया च प्रबलेन तत्पदार्थाद्ब्रह्मणस् त्वंपदार्थे जीवे नाहमीश्वरो, नाहं सर्वज्ञो, नाहं चिन्मात्रमिति भेदग्राहिणा श्रुत्यपेक्षयापि, अनाद्यनन्तत्वेन दोषाजन्यतया तत एवोत्तर (एवचरम ) वृत्तिवत् स्वतः प्रमारूपेण साक्षिप्रत्यक्षेण विरोधात् । देवदत्त त्वं सिद्धोऽसि अद्वितीयोऽसि भूपतिरिति लौकिकप्रमाणवाक्यस्य परीक्षितप्रत्यक्षविरोधेन गौणार्थत्वाश्रयणवद् गौणार्थत्वाश्रयणस्यैवोचितत्वेन श्रुतिप्रत्यक्षयोः समानविषयत्वासिद्धेरिति दिक् ॥

अपि च यदा ‘न तौ पशौ करोतीत्यत्र पशुयागे इतिकर्तव्यताकांक्षया अनुमितस्यापि पशौ करोतीति चोदकस्य न तेन सर्वात्मना बाधइति आश्रितं, तदा किमु वक्तव्यं विधिनिषेधशास्त्रयोर् द्वयोरपि प्रत्यक्षयोर् निषेधशास्त्रेण विधायकशास्त्रस्य सर्वात्मना बाधो न ह्याश्रयणीय इति । तदाहुः-सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्येति । यद्यपि ब्रह्मसप्रपञ्चत्वाद्यावेदकश्रुतीनां लिङ्लोट्तव्य दिविघिप्रत्ययान्तसमभिव्याहाराभावात् स्वर्गकामो यजेतेत्यादिवन् नाप्रवृत्तप्रवर्तकत्वरूपं विघित्वम्, तथापि अज्ञातज्ञापनलक्षणविधिःवं प्रवर्तका प्रवर्तक साधारणमस्त्येव ।

किञ्च उपक्रमाधिकरणन्यायेन अनुपसंजातविरोधितया श्रुतिलिङ्गाधिकरणन्यायेन शीघ्रगामितया सामान्यविशेषन्यायेन सावकाशनिरवकाशन्यायेन निरत्रकाशतया प्रभूताल्पत्वन्यायेन भूयस्त्वेन च ब्रह्मसप्रपञ्चत्वाद्यावेदकश्रुतीनामेत्र प्राबल्यमस्तीति तदनुसारेणैव निषेधशास्त्रप्रामाण्योपपादनमुचितम् । नतु अनथाभूतदुर्बलतन्निषेधशास्त्रानुसारेण तासां प्रामाण्योपपादनम् ( उचितम्) ।

एतेन ब्रह्मसप्रपञ्चत्वाद्यात्रेदकश्रुतीनां व्यावहारिक प्रपञ्चादिविषयतया सावकाशत्वम्, तन्निषेधकश्रुतीनां पारमार्थिकतन्निषेधविषयतया भिन्नविषयत्वम्, अनन्यविषयतया न सावकाशत्वं चेति तुल्यवत् प्रामाण्यं नानुपपन्नमिति निरस्तम् । व्यावहारिकस्य बाध्यविशेषतया तद्विषयत्वेन प्रामाण्यनिर्वाहस्यैवासंभवात् । नहि सर्वथा बाधरहितार्थकत्वरूपं प्रामाण्यं बाध्यविशेषविषयत्वेन उपपादयितुं शक्यम् । व्यावहारिक शब्देन ब्रह्मवत्पारमार्थिकत्वोक्तौ च विवादपर्यवसानात् ।

ननु अनाद्यनन्ते ब्रह्मणीव प्रमाणेन कालत्रयाबाध्यत्वम् अतथाभूते जगति कथमुपपद्यते । अतो बाधाभावतरतमभावप्रयुक्तं तारतम्यं प्रामाण्येऽप्यवश्यमुपेयम् । तथाच जगद्भाने विषयाबाधो न त्रैकालिक इति तादृशविषयघटिततया तत्र प्रामाण्यं व्यावहारिकमित्युच्यते । तद्विषयभूतं जगदपि तथेत्युच्यत इति चेन्न । एवंविधबाधस्य प्रातिभासिकशुक्तिरूप्यादिसाधारणतया तस्यापि व्यावहारिकत्वापत्तेः । तद्भानस्यापि व्यावहारिकप्रामाण्यापत्तेश्च । किच एतावता ब्रह्मणोऽबाध्यत्वस्य प्रमाणोत्पन्नज्ञानेन केनापि कदापि न निवृत्तिः ।

तदितरस्य जगतस्तु केनापि प्रमाणजन्यज्ञानेन कदाचित् कालविशेषे निवृत्तिरिति तदुक्त्यर्थः पर्यवसितः । तथाच ब्रम्है नित्यम्, तदितरत् सर्वमनित्यमिति भंग्या तात्पर्यगोचरार्थो लभ्यते । एवमपि विवादपर्यवसानमेव । नहि ब्रह्मैव नित्यमितिमयोपेयते । किञ्च ज्ञानस्य प्रामाण्यं नाम तस्याच्चाधि तार्थकत्वमेव नान्यत् । अबाधितार्थकत्वं च बाधितार्थविषयकत्वाभावः । विषयस्य बाधितत्वं नाम भ्रमरूपज्ञानविषयत्वमेव । ज्ञानस्य भ्रमत्वप्रमितिश्च सजातीयविजातीयविसंवादात्, सजातीयविजातीयसंवादाभावाच्च जायते । एतादृशप्रमित्या विषयीकरणाभावेन हि विषयस्य बाधितत्वाभावो भवति सोऽभावः यद्यत्यन्ताभावस् तदा नित्यानित्यपदार्थमात्रसाधारण इति तद्वत्तया ब्रह्मवज्जगदपि स्यादेव बाध्यमिति कथं तस्य पराभिमतव्यावहारिकत्वम् । कथं वा तद्विषयकस्य ज्ञानस्य प्रामाण्यं व्यावहारिकमिति न जानीमः । ज्ञानेन जगतो निवृत्तिर्बाध इति तु निरसिष्यते ॥

एतेन ब्रह्मसप्रपञ्चत्वाद्यावेदकश्रुत्यपेक्षया तन्निष्प्रपञ्चताद्यावेदक श्रुतीनामुपजीवकतया परत्वेन अपच्छेदन्यायेन प्रबलत्वात्, निष्प्रपञ्चत्वाद्यावेदकश्रुतिभिस् तासां बाध इति निरस्तम् । एवं हि ब्रह्मसप्रपञ्चत्वादिश्रुतीनां प्रतियोगिसमर्पकत्वेन तन्निषेधश्रुतिभिर् एकवाक्यता समाश्रिता स्यात् । किमतो यद्येवमिति चेन्न । तथा सति अपच्छेदन्यायाविषयत्वापत्तेः । उपक्रमाधिकरणन्यायविषयत्वापत्तेश्च । अत एव —

पूर्वात्परबलीयस्त्वं तत्र नाम प्रतीयताम् ।

अन्योन्यनिरपेक्षाणां यत्र जन्म धियां भवेत् ॥

इति तंत्रवार्तिके अन्योन्यनिरपेक्षाणामित्युक्तिः ।

ननु सप्रपञ्चत्वाद्यावेदकश्रुतीनां प्रतियोगिसमर्पकत्वेनोपजीव्यतया तन्नि षेधकश्रुतिभिर् एकवाक्यता तदैवाश्रयणीया स्याद् यदि तन्निषेधकश्रुतिष्ठ प्रतियोगिसमर्पकं न स्यात् । अस्ति च नाना किञ्चन द्वितीयपदम् । अत एव

न तौ पशौ करोती ‘त्यत्र ताविति निषेध्याज्यभाग समर्पक शब्दस्य सत्वा तत्कर्तव्यताबोधकचोदकैकवाक्यता । अत एव च नार्षेयं वृणीते इत्यत्र प्रसज्यप्रतिषेध इति पूर्वपक्षे अयमिति निषेध्यसमर्पकस्य सत्त्वान्न चोदकैकवाक्यता । एवञ्च प्रसज्यप्रतिषेधस्थले विकल्पाश्रयणं सङ्गच्छेत । अन्यथा एकवाक्यत्वे अर्थद्वयाभावेन विरोधमूलविकल्पावसर इति चेन्न । नेह नानास्ति किञ्चन एकमेवाद्वितीयमित्यादिश्रुतिभिर् नाना किञ्चनादिपदेन निषेध्यमनूद्य तन्निषेधः क्रियते इत्यङ्गीकुर्वता अनुवादस्य पुरोवादं विनाऽयोगेन पुरोवादतया ब्रह्मसप्रपञ्चत्वाद्यावेदकश्रुतीनामङ्गीकर्तव्यतया निषेधश्रुतीनां तत्सापेक्षत्वेन तथाप्यपच्छेदन्यायाविषयत्वतादवस्थ्यात् ।

किञ्च निषेधश्रुतिगतनाना किञ्चनादिपदानां स्वप्नदृष्टब्रह्मसप्रपञ्चत्वाद्यनु- वादित्वमादाय ब्रह्मसप्रपञ्चत्वनिषेधक श्रुतीनां तादृशप्रपञ्चनिषेधपरत्वेनाप्युपपत्त्या तासामप्रातिभासिकजाग्रत्प्रपञ्चाबाधकत्वप्रसङ्गतादवस्थ्यात् । स्वतुल्यबलब्रह्मसप्रपञ्चत्वादिविधायकश्रुतिविहित सप्रपञ्चत्वादीनां ब्रह्मणि ताभिरप्रसक्ततया निषेधायोगेन निषेधस्य प्रसक्तिपूर्वकत्वनियमनिर्वाहाय उक्तरीत्या स्वप्नस्य तत्प्रसक्तित्वौचित्यादिति किमधिकमाचरितम् ।

किञ्च तन्निषेधश्रुतिषु विद्यमानस्य नञः संसर्गाभाववाचित्वेन तन्मुख्यार्थस्य तस्य प्रागभावत्वप्रध्वंसाभावत्वादिना रूपेण नानात्वेन तद्विशेषात्यन्ताभावापरसम्बन्धं सहते । नृशृङ्गाद्यभावस्तु स्वदेशे सर्वत्र प्रतियोगिसम्बन्धं न सहत इति द्विविधोऽप्यत्यन्ताभावोऽनुभवबलेनैव सिद्धत्वाद् दुरपह्नवः । नचैवं प्रागभावप्रध्वंसयोः समय विशेषसंसर्गात्यन्ताभावेनैव कृतकार्यतया अनभ्युपगमप्रसङ्ग इति वाच्यम् । प्रागभावस्य स्वकाले प्रतियोगिखरूपासहिष्णुत्वस्वभावतया तेन तस्य कृतकार्यत्वासिद्धेः । कपालादौ घटादेः प्रतियोगिनः प्रागुत्पत्तेस् तत्र तत्संसर्गे मानाभावात् । अन्यथा घटादेरुत्पत्तिरेव न सिध्येत् । तत्र तत्संसर्गस्यैव उत्पादविनाशौ इति स्यात् । नचैवं, घटादेरनाद्यनन्तत्वप्रसङ्गात् । एवं ध्वंसोऽपि तदतिरिक्तोऽङ्गीकार्यः । ध्वंसस्य स्वोत्पत्तेः पूर्वं स्वदेशे प्रतियोगिसम्बन्धसहिष्णुत्वेऽपि स्वकाले कदापि तंत्र तदसहिष्णु- त्वात् । ध्वंसस्य मुद्गरप्रहारादिजन्यत्वात् । समस्तविशेषसंसर्गात्यन्ताभावस्य तदजन्यत्वेन तयोर् भेदावश्यंभावाच्च । प्रतियोगिजनकत्वप्रतियोगिजन्यत्वाभ्यां प्रागभावप्रध्वंसाभावयोरन्योन्यविलक्षणयोस् तज्जन्यत्वरहितात् समयविशेषसंसर्गिघटात्यन्ताभावाद् भेदस्य दुर्निरसत्वाच्च । नहि घटाद्यपसारणस्थले प्रतीयमानो घटाद्यभावस् तत्प्रागभावो भवितुमर्हति । उत्पन्नस्य सतो घटस्य प्रागभावासंभवात्। संभवे वा इतर कारणकलापसंपत्तौ प्रागुत्पन्नस्यापि घटादेः पुनरुत्पत्तिप्रसङ्गाच्च । नचैवम्, अनुभवविरोधात् । नच अदृष्टसामग्रीविलम्बात् । दृष्टकारणकलापसंपत्तौ न तद्विलम्बेन कार्यविलम्बो दृष्टः । तस्मादुक्तरीत्या ब्रह्मसप्रपञ्चत्वाद्यावेदकश्रुतीनां तन्निषेधत्वेन त्वदभिमतश्रुतीनां च विरोधेनैव तुल्यवत्प्रामाण्योपपत्तेस्तन्निषेधश्रुतिभिस् तासां न बाध इति सिद्धम् ।

किञ्च ब्रह्मणः कालस्येव जगदाधारताप्रयोजकसंबन्धेन भावाभावात्मक- प्रामाणिकपदार्थाधारत्वमवश्यमुपेयम् । नच ब्रह्मणो जगदाधारत्वे मानाभावः । “य उ त्रिधातु पृथिवीमुतद्यामेको दाधार भुवनानि विश्वा । एष सेतुविधरणः । एषां लोकानामसंभेदाय । यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः “, इत्यादिश्रुतिस्मृतिभिस् तस्य जगदाधारत्वसिद्धेः । नहि जगदाधारताप्रयोजक- संबन्धेन ब्रह्माधारोऽत्यन्ताभावः स्वप्रतियोगिबाध्यत्वापादकः । नहीदानीं काले स्वप्रतियोगिभूतघटसमानाधिकरणत्वेन प्रमाणसिद्धो घटात्यन्ताभावस् तद्धटस्य शुक्तिरूप्यात्यन्ताभावप्रतियोगिनः शुक्तिरूप्यस्येव मिथ्यात्वापादको दृष्टचरः । तथाच ब्रह्मणि श्रुत्या विहितस्य वियदादिप्रपञ्चस्योक्तरीत्या निषेधाभावेन तथा बाधाभावाद् वेदैकसमधिगम्येऽर्थे प्रत्यक्षबाधितत्वस्यादर्शनात्, नित्यनिर्दोषश्रुत्या ब्रह्मणि विहितस्य श्रुत्याद्यवष्टम्भरहित शुष्कानुमानेन बाधासंभवात्, शङ्कानर्हत्वाच्च, विशिष्य बाधसामान्याभावावधारणात् तस्य विद्य मानत्वापरपर्यायम् अबाध्यत्वरूपमपि सत्त्वं दुर्वारम् ।

एतेन विषयविद्यमानत्वे सिद्धे तद्विषयकज्ञानस्य प्रमात्वसिद्धिः । तत्सिद्धौ द्विषयस्य विद्यमानत्वसिद्धिरिति अन्योन्याश्रय इत्यपास्तम् । विषयविद्यमानत्वस्य विषयाविना भूतसंवादिप्रवृत्त्यादिरूपव्यवहारान्यथानुपपत्त्यैव सिद्धया तत्सिद्धेः प्रमितत्वसिद्धिमात्राधीनत्वात् । अन्यथा प्रामाण्यसंदेहात् प्रवृत्तस्य विषयाव्यभिचारि स्वप्रवृत्त्यादिव्यवहारेण तद्विषयविद्यमानत्वनिश्चयाभावप्रस-ङ्गात् । नचैवम्, अनुभवविरोधात् । किञ्च असत्प्रतिभासिकव्यावृत्तनियत- प्रमाणप्रवृत्तिविषयतावच्छेदकम् अवश्यमुपेयम् । अन्यथा तादृशप्रमाणप्रवृत्तेराकस्मिकत्वं स्यात् । अग्न्यादौ औष्णयोर्ध्वज्वलनादेस् तत्स्वभावत्वेऽपि सामग्रीविशेषतेजस्त्त्वादिरूपप्रयोजकप्रयोज्यत्वस्य दर्शनेन दृष्टानुसारिकल्पनाया निर्निबन्धनत्यागायोगेन प्रमाणानां स्वभाव एतादृश इति वाचोयुक्तेर् अनवसरदुःस्थत्वात् । अन्यथा प्रतिकर्मानिरूपणप्रसङ्गाच्च । अन्विष्यमाणं स्वस्वरूपत्वापरनामकम् अर्थगतम् अस्ति, विद्यते, सदिदम् इत्यादिव्यवहारालम्बनं विद्यमानत्वमेव । अत एव पूर्वतन्त्रे शिष्टाकोपाधिकरणे वेदं कृत्वा वेदिं करोतीति वेदकरणानन्तरं वेदिकरणरूपक्रमप्रापकप्रत्यक्षश्रुतेः क्षुत आचामेद् इत्यादि क्षुतादिनिमित्तकाचमनकर्तव्यत्वावेदक स्मृत्यपेक्षया विरोधाघिकरणन्यायेन प्राबल्यमाशङ्कय स्मृतेः श्रुत्यपेक्षया जात्या दौर्बल्येऽपि आचमन पदार्थरूप - धर्मिविषयतया क्रमरूपपदार्थधर्मपरश्रुत्यपेक्षया प्राबल्यमुक्तम् ।

अयमत्र निर्गलितोऽर्थः । स्वयं दुर्बलस्यापि प्रमाणस्य प्रामाण्यनिर्वाहः प्रधानभूतविषयालम्बनकृत इति श्रुतपदार्थानामनुष्ठेयत्वेन प्राप्तौ सत्यमेव केन क्रमेण तेषामनुष्ठानमिति क्रमरूपधर्माकांक्षेति क्रमस्य धर्मिरूपपदार्थ- प्राप्त्यधीनप्राप्तिकत्वेन तदपेक्षया उपसर्जनत्वमिति यावत् । एतेन मानाधीनामेयसिद्धिरितिलोकप्रवादोऽपि व्याख्यातः । तत्र सिद्धिशब्दस्य निश्चयपरत्वात् ।

अत एव अक्षपाद ः ’ प्रमाणादिषोडशपदार्थतत्त्वज्ञानान्निःश्रेयसाधिगम’ इति आदावसूत्रयत् । ’ तेष्वपि प्रमाणाधीना सर्वेषां व्यवस्थितिरिति भाष्यग्रन्थोऽपि व्याख्यातः । इयञ्च व्यवस्था न केवलं मयैवोपेया । किन्तु ब्रह्मैव तत्त्वावेदकप्रमाणगोचर इत्यभ्युपगच्छता परेणापि । अन्यथा तदेव तादृशप्रमाणगोचरः न इतरदित्यङ्गीकारस्य निर्निबन्धनत्वापत्तेः । तथाच तदन्विष्यमाणं विद्यमानत्वमेवापतितम् ।तवांस्तु विशेषः । किञ्चित् कदाचिदेव स्वरूपेण विद्यते । किञ्चित्तु सर्वदेति तत्र विद्यमानत्वमेव लाघवात् प्रमाणप्रवृत्तिविषयतावच्छेदकम् । तु सर्वदा विद्यमानत्वं गौरवात् ।

अपिच शुक्तिरजतयोर्वस्तुगत्या शुक्ताविदं रजतमिति भ्रमविषयत्वाविशेषेऽपि तत्र बाधकप्रमाणं निषेध्यत्वेन रजतमेव विषयीकरोति नतु शुक्तीदमंशमित्यविवादम् । तत्र किं नियामकमिति गवेषणायां वस्तुगत्या ( यत् ) आरोप विशेष्यादन्यत्वे सति आरोपितत्वमेव लभ्यते । आरोपितत्वं च तद्भानस्य सजातीयविजातीयप्रमाणविसंवादात् तादृशप्रमाणसंवाद विरहाच्च अवधार्यते । तत एव तस्य दोषप्रयोज्यत्वमपि निश्चीयते । अप्रामाण्यस्य परत- स्त्वाद् भ्रमस्यैव अप्रमाणरूपत्वात् । भ्रमत्वनिर्वाहाय पुरुषगतस्य रागस्य विषयगतरजतसादृश्यादेर्वा दोषत्वं कल्प्यते । दोषेण विना तदनिर्वाहात् । ज्ञानसामान्यसामग्रयामधिकदोषानुप्रवेशाद् अप्रमेति स्वीकारात् । दोषत्वजात्यभावेन भ्रमत्वप्रयोजकस्यैव दोषशब्दार्थत्वात् । अत एव क्वचित् कश्विदोष इत्यभ्युपगमः । एवं शुक्तीदमंशस्यापि निषेध्यत्वेन बाधकप्रमाणविषयत्वे प्रमितत्वभ्रमाघिष्ठानत्व प्रयोजकत्वे नावश्यमुपादेया विद्यमानत्वमेवान्विष्यमाणं नियामकं लभ्यते । शुक्तीदमंशविषये तस्यैव रजतभ्रमस्य सजातीयविजातीयसंवादादेः सकाशात् प्रमितत्वं निश्चीयते । अधिष्ठानत्वमपि तद्गतविशेषदर्शनाधीनबाधकप्रमाणावताराद् अवसीयते । अत एव भ्रमः सर्वोऽपि प्रकारांशे भ्रमः धर्म्यंशे त्वभ्रम इति तांत्रिकाभ्युपगमः । प्रत्यधिष्ठानं तदेव भवति । स्वयं न क्वाप्यारोपितम् । आरोपितशुक्तिरूप्यादेर् आरोपाधिष्ठानत्वस्य क्वाप्यदर्शनात् । अत एव अनारोपितत्वात् सदेकस्वभावं ब्रह्मचैतन्यमेव भ्रमाधिष्ठानमिति पराभ्युपगमः । यद्यपि अन्यथाख्यातिवादे आरोपितमेवाप्रसिद्धम् । अनिर्वचनीयख्यातिवादेऽपि ब्रह्मेतरस्य सर्वस्यापि आरोपितत्वात् तदितरद् अनारोपितमप्रसिद्धमेव । संसारदशायां चैतन्यस्यापि विशिष्टाकारेणोपहितत्वा- कारेण वा आरोपितत्वात् । जडे चैतन्यमपि अनारोपितमप्रसिद्धमेव । तथापि आत्मानात्मप्रपञ्चयोः साधारणम्, असदन्यत्वे सति आगन्तुकदोषजन्यभ्रमा- जन्यत्वमुभयसंप्रतिपन्नं सुप्रसिद्धम् । तत एव च धर्मोऽधिष्ठानत्वेऽपि प्रयोजक इति तद्धर्मोपासनमावश्यकमिति स्थितम् । तथा च योग्ये जगच्छब्दार्थे घटादौ घटस्सन् पटस्सन् घटोऽस्ति पटोऽस्ति घटो विद्यते पटो विद्यते, भूतले घटाभावोऽस्ति चत्वरे घटाभावोऽस्ति इत्यादिबाधरहित प्रत्यक्षादिना घटादौ सत्त्वसिद्धेस् तत्र प्रमाणाभावो ऽसिद्धः । न च इदं सत्त्वं शुक्तिरूप्येदंत्ववद् अघिष्ठानगतमेव । तथाच शुक्तौ इदं रूप्यम् इति प्रत्यक्षवद् घटस्सन् इत्यादि-प्रत्यक्षमन्यथासिद्धमिति न तेन घटादेः सत्त्वसिद्धिरिति, अनन्यथासिद्धस्यैव प्रमाणस्य स्वविषयसाधकत्वाद् इति वाच्यम् । एतत्कल्पनायास् तद्भानभ्रमत्व- सिद्ध्यधीनत्वेन अन्योन्याश्रयात् । तद्वदत्र बाधकाभावेन वैषम्यात् । योग्यानुप- लब्ध्या बाधकाभावनिर्णयात् । निर्णयेन बाधशङ्कानुदयात् । भ्रमत्वस्य बाधक- प्रमाणैककल्प्यत्वात् । अन्यथा निष्कंपप्रवृत्तिः क्वापि कस्यापि न स्यात् । तत्प्रवृत्तिसंवादादेर् निर्निबन्धनत्वापत्तेश्च । शुक्तिरूप्यादिज्ञाने कचिद्वाघदर्शन- मात्रेण बहुवित्तव्ययायाससाध्ये लौकिके वैदिके वा कर्मणि निष्कंपप्रवृत्ति- प्रयोजकज्ञानेऽपि बाधशङ्काया असंभवात् ॥ नियामकं विना बाधकत्वेनाभिमते ज्ञानेऽपि बाधशङ्कासंभवेन भ्रमत्वशङ्कापत्त्या बाध्यत्वाभिमतापेक्षया विशेषाभावेन इदं बाध्यम् इदं बाधकमिति व्यवस्थाऽनुपपत्तेश्च । विशेष- दर्शनस्यापि ज्ञानत्वेन बाधशङ्काग्रस्ततया भ्रमत्वापत्त्या तज्जन्यत्वस्यापि ज्ञाने बाधकत्वानियामकत्वात् । तस्मात्स्वक्रियाव्याघातादिना मूर्च्छा प्राप्तेन परेण जगद्भाने प्रत्यक्षादिजन्ये योग्यानुपलब्ध्या अनुव्यवसायसामग्रीविरहात् स्वत एव बाधकाभावनिर्णयो दोषजन्यत्वाभावनिर्णयश्चावश्यमुपेयः । अन्यथा स्वक्रियाव्याघातादिना बहुविप्लवापत्तेः । क्वचित्तु वस्तुतः प्रमायामेव कुतश्चिद्धेत्वाभासाद् बाधकशङ्कायां सत्यां वा बाघभविष्यत्त्वशङ्कायां वा सत्यां, तया भ्रमत्वशङ्कायां दोषजन्यत्वशङ्कायां वा सत्यां भ्रमत्वरूपबाधनिश्चये वा सति तेन भ्रमत्वनिश्वये, दोषजन्यत्वनिश्चये वा भ्रमरूपे सति प्रामाण्यविरोध्युपस्था-पकसामग्री समवधानात् प्रतिबन्धात् तद्वति प्रथमं साक्षिणा तत्प्रामाण्यनिश्चया- संभवेऽपि भ्रमत्वसंभवात्, प्रयोजनान्तरमुद्दिश्य कुतश्चित्कारणविशेषादा तत्रैव प्रवृत्तस्य दैवात् परीक्षासहिष्णुफलपर्यन्तप्रवृत्तिसंवादे सति, तेन शङ्का-विधूननस्य (तद्मत्वनिश्चयेऽपि ) भ्रमत्वनिश्चयस्य च सम्भवात् । तदनन्तर मेवाप्रतिबन्धेन साक्षिणा तत्रापि प्रामाण्यनिश्चयो न दुर्लभः । तद्भानविषयस्य परमते चरमवृत्तिविषयस्येवानरोपितं सत्त्वमपि न दुर्लभम् । प्रमात्वस्य स्वाधारज्ञानविषयसत्त्वमन्तरेणानिर्वाहात् । यत्र च ज्ञाने सर्वथा बाधो न वृत्तः फल- व्यतिरेकेण पर्यन्तपरीक्षासहिष्णुस् तत्र तद्विषयासत्त्वं मयाप्युपेयत एव । नहि शुक्तौ रूप्यज्ञाने सति तादृशबाधेन तद्विषयस्यासत्त्वमनङ्गीकुर्वन्नभ्रान्त इत्युच्यते । अपि चान्यथासिद्धत्वमिह भ्रमत्वमेव वाच्यम् । न त्वन्यत् । भ्रमत्वं च क्लृप्तदोषजन्यत्वेन वा प्रबलबाधकेन वा स्वीकार्यम् । नहि घटादिसत्त्वे घटत्वपटत्वादिग्राहिप्रत्यक्षादेस् तथाविधबाधकं किमप्युपलभामहे । क्लृप्तदोषजन्यत्वं वा । नहि कचित्प्रत्यक्षादौ दोषजन्यत्वं वा बाध्यत्वं वा दृष्ट- मित्येतावता सर्वत्र प्रत्यक्षादौ समर्थप्रवृत्तिजनके सजातीयविजातीयसंवादवति योग्यानुपलब्धिबाधितं दोषजन्यत्वं बाध्यत्वं वा स्वीकारार्हम् । सहचारदर्शन- मात्रस्यातत्कल्पकत्वात् । अक्लृप्तदोषकल्पनस्य बौद्धादिरीत्या वेदे तज्जन्यचरम- वृत्तौ च संभवात् । ज्ञानत्वाविशेषेण तद्विषयत्वाविशेषेण च चरमवृत्तितद्विषय- योरभ्रमत्वाबाध्यत्वयोरापत्तेश्च । किञ्चैवं ज्ञानप्रामाण्यं, उत्पत्तिज्ञप्त्योः खत इति परकीयोक्तिः रिक्ता स्यात् । प्रमाणत्वाभिमतजन्यज्ञानमात्रेऽपि प्रमाणाभासजन्यज्ञाने दोषजन्यत्वस्य दृष्टत्वेनैतज्जन्यत्वाखीकारात् ।

इदानीं प्रत्यक्षादिना बाधानुपलम्भेऽपि कालान्तरे बाधो भवितेति स्वीकुर्वता परेणाप्रामाण्यस्य स्वतस्त्वं प्रामाण्यस्य तु न तदिति स्वीकारापत्तेश्च । अन्यत्र । दोषं विना जगद्भानमात्रेऽप्रामाण्यस्य ज्ञानसामान्यसामग्रीमात्रप्रयोज्यत्वास्वीकारात् ।

नहि बहुकालं बाधावतारं विना भ्रमानुवृत्तिमात्रेण तद्विषयस्यानारोपितम् ।सत्त्वमङ्गीकारार्हम् । तथा पराभ्युपगमो वा, तदनङ्गीकारे च अप्रामाण्यं दुष्परिहरम् । तृतीयप्रकाराभावात् । यावद्वाधं प्रामाण्यमित्यङ्गीकारे शुक्त्यादौ रूप्यज्ञानस्यापि प्रामाण्यमित्यङ्गीकारापातात् । शुक्तिरूप्यादिज्ञाने अविलम्बेन बाधावतारः । जगद्भाने विलम्बेन बाधोदय इति वैषम्यमिति चेन्न । तथाप्यर्थ- स्वतस्त्वसत्यत्वनियतप्रामाण्यानिर्वाहात् । बाधितार्थकमथ च प्रमाणमित्यस्य शूद्रोऽयं ब्राह्मण इतिवद् व्याहतत्वात् । एकज्ञानस्य विरुद्धोभयरूपत्वासंभवात् । अत एव प्रत्यक्षादिप्रमाणानां प्रामाण्यं व्यावहारिकमित्यादि- पराङ्गीकारः प्रत्यूढः । जगद्भाने वस्तुतो बाधितार्थ एवं चरमवृत्तिपर्यन्तम् अबाधितार्थत्वप्रयुक्तप्रामाण्यप्रतीतिव्यवहारमात्रमिति तदर्थपर्यवसानात् । एतावतापि ब्रह्मज्ञानपर्यन्तमनुवर्तमानजगद्भानस्य भ्रमत्वावारणात् । अप्रामाण्यस्य लाघवेन दोषमात्रप्रयोज्यतया आगन्तुकदोषजन्यं ज्ञानम् अप्रमाणम्, अनागन्तुकाविद्यारूप दोषजन्यं ज्ञानं न तथेत्यङ्गीकारायोगाच्च ।

ननु जगद्भाने सजातीयप्रमाण संवादनियमात् तादृशप्रमाणविसंवादाभाव- नियमाच्च दोषजन्यत्वाविशेषेऽपि आगन्तुकदोषजन्यभ्रमापेक्षया वैलक्षण्यसत्त्वाद् वैचित्र्यं तावत् सर्वानुभवसिद्धम् । तदेव वैचित्र्यं च अस्माभिर् व्यावहारिकं प्रमाणमित्युच्यते । नतु प्रतीतिमात्राद् व्यावहारमात्राद्वेति चेत्, न । तादृशवैचित्र्यस्य अस्मदुक्तविद्यमानत्वापरनामकपारमार्थिकसत्त्वं विना अयोगेन विवादपर्यवसानात् । तादृशसंवादविसंवादाभावयोर् अबाध्यत्वव्याप्तत्वेन तस्यापि तत एव सिद्धेः । एवंविधसंवाद विसंवादाभावयोः स्वाप्नप्रपञ्च साधारणत्वेन परेण तावन्मात्रेण जगद्भाने प्रातिभासिकप्रपञ्चज्ञानव्यावृत्तव्यावहारिकप्रामाण्यशब्दितवैचित्र्याभ्युपगमायोगाच्च ।

एतेन जगद्भानप्रामाण्योपपादनाय परेषां सत्ताद्वैविध्यतत्त्रैविध्याङ्गीकारौ प्रत्यूढौ ।

संवादविसंवादयोर् ननु तत्रापि स्वाप्नजाग्रत्प्रपञ्चयोर् वैलक्षण्यं न स्यात्, अविशेषाद् इति चेन्न । स्यादेव, जाग्रत्प्रपञ्चवत्तस्यापि मया पारमार्थिकत्वाङ्गी-कारात् । जाग्रत्प्रपञ्चस्य स इदं सर्वमसृजत इति श्रुत्येव स्वामप्रपञ्चस्यापि, (च) अथ रथान् रथयोगान् पथः सृजते इत्यादिना ईश्वरसृष्टत्यवर्णनात् । न चैवं जाग्रत्प्रपञ्चस्य ‘स्वप्नमायासरूपेति सृष्टिरन्यैर्विकल्पिता’ इति श्रुत्या स्वप्नसारूष्यस्य स्वाभिमतपक्षत्वोक्तिः ‘वैधर्म्याच्च न खप्नादिवत् ’ इति ‘सूत्रेण स्वाप्नादिवैलक्षण्योक्तिश्च न स्यादिति वाच्यम् । स्वामजाग्रत्प्रपञ्चया मायिकामायिकप्रपञ्चयोश्च प्रमाव्याप्तशरीरत्वेन पारमार्थिकत्वेन च साम्यस्य श्रुत्या पक्षान्तरत्वोपन्यासेन पारमार्थिकत्वसाम्यस्वीकाराविरोधित्वात्।