द्योतयन्तं दश दिशो भासा सूर्यसमानया । बुद्धिमन्तं हनूमन्तं दयावन्तमुपास्महे
श्रीविघ्नेश्वरान्तर्गतश्रीभारतीरमणमुख्यप्राणान्तर्गत श्रीविश्वम्भराय नमः । श्री वेदव्यासाय नमः
ओङ्कारवादः श्रीविद्याधीशतीर्थविरचितः
मङ्गलाचरणं
द्योतयन्तं दश दिशो भासा सूर्यसमानया ।
बुद्धिमन्तं हनूमन्तं दयावन्तमुपास्महे ॥ १ ॥
तात्पर्यचन्द्रिकायुक्तं न्यायामृतकलानिधिम् ।
तर्कोडुताण्डवकृतं व्यासतीर्थ विधुं भजे ॥ २ ॥
“ओम् अथातो ब्रह्मजिज्ञासा” इति न्यायग्रथनात्मकब्रह्ममीमांसाशास्त्रस्यादिमसूत्रस्थोङ्कारो एतत्सूत्रावयवो न वेति विप्रतिपत्तिः। नेत्यन्ये । भवत्येवेति व्यासमतानुयायिनः ।
ओङ्कारः न सूत्रावयव इति वदतां मतोपन्यासस्
तत्रान्येषामयमभिसन्धिः । मेयसिद्धेर्मानाधीनत्वाद् ओङ्कारस्यैत-सूत्रावयवत्वे मानं वक्तव्यम् । तच्च न तावत्प्रत्यक्षम् । असम्भवात् । नाऽपि विमत ओङ्कार एतत्सूत्रावयवः शिष्टैस्तदादौ नियमेन पठ्यमानत्वात् । प्रथमसूत्रस्थाथशब्दवद् इत्यनुमानम् । जन्मादि-सूत्रोक्त ओङ्कारे व्यभिचारात् । तत्रादौ ओङ्कारस्यापि अदृष्टार्थं नियमेन शिष्टैः पठ्यमानत्वेन एतत्सूत्रावयवत्वाभावात् ।
किञ्चाध्ययनोपक्रमकाले अध्यापकैरुच्चार्यमाण ओङ्कारे व्यभिचारः । तत्र साध्याभावात् । किञ्च ग्रन्थारम्भे माङ्गलिकशब्दोच्चारणवद् ओङ्कारस्याद्यसूत्रानवयवत्वेपि उक्तहेतोरुपपन्नत्वेन अप्रयोजकत्वम् ।
ओङ्कारस्य सूत्राघटकत्वे अनुमानोपन्यासो
ऽपि च विमत ओङ्कार नाद्यसूत्रावयवः लक्षणान्तराभावे सति असंहिततया सम्पाठे अखिलैः पठ्यमानत्वात् । वेदोपक्रमेऽध्यापकैरुच्चार्यमाणोङ्कारवदिति सत्प्रतिपक्षः । ‘सुध्युपास्य’ इति वाक्यावयवे सुधीति पदे अखिलैः पठ्यमानेऽव्यभिचारपरिहाराय असंहिततयेति । तत्र संहिततया पठ्यमानत्वस्य सत्वात् । ‘कृष्णा एहि’ इति वाक्यावयवे अव्यभिचाराय लक्षणान्तराभावे सतीति । असंहितता-प्रापकसूत्रान्तराभावे सतीत्यर्थः । तत्र ‘प्लुतप्रगृह्या अचि इति सूत्रमेवास्तीति न व्यभिचारः । पदपाठकालेऽखिलैर् असंहिततया पठ्यमानेषु पदेषु व्यभिचारपरिहाराय सम्पाठेति । संहितापाठकाल इत्यर्थः । तत्पाठकालेऽपि प्रामादिकेष्वसंहिततया पठ्यमानेषु पदेषु व्यभिचारपरिहाराय अखिलैरिति । न हि सर्वेषां प्रमाद इति भवति तन्निरासः ।
न चाप्रयोजकता । तथात्वे अथशब्दवत् संहिततया निर्देशापत्तेः । न च दृष्टान्तः साध्यविकलः । ‘ओमिति ब्रह्म’ इतिवन् नियतस्थानतया पाठप्रसङ्गात् ।
स्मृतेरर्थान्तरोपन्यासः
किञ्च “ओङ्कारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा ।
कण्ठं भित्वा विनिर्यातौ तस्मान् माङ्गलिकावुभौ । (ब.भा. 1.1. 1.) " इत्यादिना ओङ्कारस्य शङ्खवीणावेणुध्वनिवत् श्रुतितो माङ्गलिकत्वेन समस्त शास्त्राङ्गतया अन्यार्थमुद्दिष्टस्य तस्य कथं सूत्रावयवत्वम् ।
ओङ्कारस्य सूत्रानवयवत्वे सन्यायरत्नावली सम्मतिकथनं
किञ्च ओङ्कारस्य सूत्रावयवत्वे “ओङ्कारस्तु पृथगुञ्चरितो वेदितव्यः । नाऽथशब्दवत् सूत्रोपनिबद्धः” (१.१.१) इति सन्यायरत्नावलीविरोधः कथं परिहरणीयः । “सर्वत्रानुगतत्वेन पृथगोङ्क्रियतेऽखिलैः” (ब्र.अ. 1.1. 1.) इत्यनुव्याख्यान विरोधश्च । तत्र उभयत्राऽपि पृथगित्यनेन’ सूत्रानवयवत्वोक्तेः ।
ओङ्कारस्य सूत्रघटकत्वेऽपि विवक्षितासिद्ध्योङ्कारवैयर्थ्यशङ्का
किञ्च ओङ्कारस्य सूत्रावयत्वे असौ क्वान्वित इति वक्तव्यम् । न तावत्तदर्थस्य ब्रह्मणा सहान्वयः । ब्रह्मणः शब्दत उपसर्जनत्वेन तेन सहान्वयानुपपत्तेः पदान्तरोपात्तत्वादोतत्वस्य ।
किञ्च आद्यसूत्रे ओङ्कार एव कुतः ? प्रयोजनाभावाद् विषयसूचनार्थमिति चेन्न । ब्रह्मशब्देन तत्सम्भवात् ।
ननु ‘बृह जाति जीव कमलासन शब्दराशिषु’ इति रूढ्या जीवेऽपि ब्रह्मशब्दवाच्यत्वसम्भवेन न ब्रह्मशब्दमात्रेण ईश्वररूपविषयसिद्धिः । किन्तु जीवासम्भावितानन्तकल्याणगुणपूर्त्यभिधायकोङ्कारोऽपेक्षित इति चेन्न । ‘अथ कस्मादुच्यते ब्रह्मेति ? बृहन्तो ह्यस्मिन् गुणाः’ (ब्र. न्या. 1.1.1.) इति न्यायविवरणोदाहृत विद्वद्योगेन, ‘तदेवर्तं तदु सत्यमाहुस् तदेव ब्रह्म परमं कवीनाम्’ (भाग. 1.2.11.) इति विद्वद्रूढ्या च ‘ब्रह्मशब्दः परे विष्णौ नान्यत्र क्वचिदिष्यते । 3 असम्पूर्णाः परे यस्माद् उपचारेण वा भवेत् । ‘ब्रह्मेति परमात्मेति भगवानिति शब्दद्यते इत्यादिस्मृत्या (ब्र.भा.1.1. 12.) ‘ब्रह्मशब्दश्च विष्णावेव’ इति सावधारणभाष्येण मुख्यया वृत्त्या विष्णोरेव’ ब्रह्मशब्दवाच्यत्वेन जीवादिग्रहणासम्भवात् ।
न च “स्रवत्यनोङ्कृतं ब्रह्म परस्ताच्च विशीर्यते” इति श्रौतार्थवादबललब्धश्रवणविशरणाभावरूपादृष्टमेव प्रयोजनमितिनोङ्कारस्य र्वेयर्थ्यमिति वाच्यम् । अदृष्टार्थत्वेऽपि जन्मादिसूत्रोच्चार्यमाणोङ्कारवत्आद्यसूत्रानवयवत्वप्राप्तेः ।
ननु “तत्र ताराथमूलत्वं सर्वशास्त्रस्य चेष्यते” इत्यनुव्याख्याने सूत्रादित्वमुक्त्वा असौ व्याख्यातः । तदन्यथाऽनुपपत्त्या सूत्रावयवत्वं ज्ञायत इति चेन्न । तर्हि भर्गादिपदानामपि सूत्रावयत्वं स्यात् । ‘स एव भर्गशब्दार्थः’ इति तदर्थस्यापि कथनात् । तद्व्याख्यानं च सर्ववेदव्याख्येयोङ्कारार्थवाचकनारायणपदवाच्यस्य सर्ववेदार्थतया तस्य शास्त्रविषयत्वमित्यभिप्रेत्यैव ।
सूत्रावयवत्वनिर्वचननिराकरणं
किञ्च ओङ्कारस्य किमिदं सूत्रावयत्वं नाम ? न तावदाद्यसूत्रार्थान्वयप्रतियोग्यर्थोपस्थापकपदत्वम् । कर्तव्येति पदे अध्याहृते अतिव्याप्तेः । नाप्यदृष्टार्थत्वे सति तत् । वाक्यप्रत्ययरूपदृष्टफलत्वेनासम्भवात् । नापि दृष्टादृष्टोभयफलकत्वे सति पूर्वोक्तमिति वाच्यम् । तथात्वे अयमोङ्कारो ऽनवयवोङ्कारादिभ्यो भिद्यते दृष्टादृष्टोभयफलकत्वे सति आद्यसूत्रार्थान्वयप्रतियोग्यर्थोपस्थापकपदत्वाद् इत्यनुमानेन इतरभेदसाधने व्यर्थविशेषणत्वात् । असाधारण्यात् । व्याप्तिरहितत्वाच्च । तस्मादोङ्कारस्य सूत्रावयवत्वं निष्प्रमाणकम् ।
मतान्तरमवलम्ब्य ओङ्कारस्य सूत्रावयवत्वोपपादननिरासौ
अत्र केचित् “स्रवत्यनोङ्कृतं ब्रह्म परस्ताच्च विशीर्यते” इति श्रवणविशरणाभावरूपादृष्टार्थं प्रतिसूत्रं ब्रह्मविद्यात्वात् ‘सर्वसूत्रेषु आद्यन्तयोरोङ्कारः सर्वत्राध्याहार्य इत्येतदविवादम् । आद्यसूत्रोञ्चार्यमाणोङ्कारो आद्यसूत्रार्थान्वित इति तदवयव इति मन्महे ।
न च ब्रह्मशब्देनान्वयानुपपत्तिः । अर्थवादार्थस्य प्राशस्त्यस्य ‘यजेत’ इत्यत्र यागविशेषणत्ववद् उपसर्जनीभूतेन ब्रह्मणा सहोतत्वादेरन्वयोपपत्तेः । न च ब्रह्मशब्देन विषयसूचनाद् ओङ्कारवैयर्थ्यम् । न केवलं “तद् विजिज्ञासस्व तद् ब्रह्म” इति श्रुतौ जिज्ञास्ये ब्रह्मपदश्रवणाज् जीवभिन्नत्वेन जिज्ञास्यता किन्तु “ओमित्येतदक्षरमुद्गीथमुपासीत” इति श्रुतौ (छा. अ. 1.) जीवेष्व सम्भावितानन्तानवद्यकल्याणगुणपूर्तिवाचकोङ्कारश्रवणाच्चेति युक्त्यन्तरसूचकत्वेन सार्थक्योपपत्तेः । न च युक्त्यार्थान्तरसूचनं व्यर्थम्। दाढ्र्यार्थत्वात् ।
अन च पौनरुक्त्यम् । ‘विशिष्टवाचकपदानां विशेषणसमवधाने विशेष्यमात्रपरत्वम्’ इति न्यायेन सौत्रब्रह्मशब्दस्य रूढ्या केवलविष्णुरूपार्थकत्वस्वीकारेणोङ्कारस्य तु गुणपूर्त्यभिधायकत्वेन अपौनरुक्त्यात् । यथा “स कीचकैर्मारुतपूर्णरन्ध्रेः” इत्यादौ ।
प्रमाणं त्वनुमानम् । विमत ओङ्कार आद्यसूत्रावयवः प्रथमसूत्रार्थान्वितत्वात् प्रथमसूत्रस्थाथशब्दवद् इति । किंञ्च “ओङ्कारश्चाथशब्दश्च तस्मात् प्राथमिकौ क्रमात्” इत्यादिस्मृत्या (ब्र.भा.1.1.1.) “तत्र ताराथमूलत्वं सर्वशास्त्रस्य चेष्यत” इत्यनुव्याख्यानेन च अथातःशब्दतुल्यतया आद्यसूत्रावयवताया उक्तत्वेनोङ्कारस्याद्यसूत्रावयवत्वमिति आहुः ।
तदुपेक्षणीयम् । तथाहि यत्तावदुक्तम् आद्यसूत्रावयवत्वेऽनुमानं प्रमाणमिति । तच्चिन्त्यम् । “ओङ्कारः पृथगुञ्चरितो वेदितव्यः । नाथशब्दवत् सूत्रोपनिबद्धः ।” इति सन्यायरत्नावलीविरोधात् । “सर्वत्रानुगतत्वेन पृथगोङ्क्रियतेऽखिलैः” इत्यनुव्याख्यानविरोधश्च स्यात् । साध्यसमत्वाच्च ।
किमिदम् आद्यसूत्रावयवत्वम् ? आद्यसूत्रार्थान्वितप्रतियोग्यर्थोपस्थापकपदत्वं चेत् हेतुरपि स एव । तथा च साध्यसमः कथं न स्यात् ।
ओङ्कारो न आद्यसूत्रावयवः लक्षणान्तराभावे सत्यसंहिततया सम्पाठेऽखिलैः पठ्यमानत्वाद् इति’ सत्प्रतिपक्षश्च ‘आनन्तर्यप्रतिपादकत्वरूपोपाधेश्च ।माङ्गलिकत्वरूपपक्षधर्मावच्छिन्नसाध्यव्यापकत्वान् नाथशब्दे साध्याव्यापकता ।
किञ्च जन्मादिसूत्र उच्चार्यमाण ओङ्कारस् तदवयवः सप्रयोजनत्वात् सम्मतवदित्याभाससाम्यम् । अध्ययनोपक्रमकाले उच्चार्यमाण ओङ्कारः पक्षतुल्य एवेति न तत्र व्यभिचारः शङ्कनीयः । कर्तव्येतिपदस्य जिज्ञासान्वितत्वेपि आद्यसूत्रानवयवत्ववद् ओङ्कारस्यापि सूत्रान्वितत्वेपि अनवयवत्वोपपत्त्या अप्रयोजकत्वं च । कर्तव्येतिपदे सूत्रार्थान्विते व्यभिचाश्च । अदृष्टार्थत्वे सतीति विशेषणे आनन्तर्यप्रतिपादकत्वरूपदृष्टार्थकेऽथेतिशब्दे उक्तहेतोरभावेन पक्षमात्रव्यावृत्या असाधारण्यम् । असिद्धेश्च । ‘उपसर्जनीभूतब्रह्मणा सह पदान्तरोपात्तोतत्वादेरन्वयानुपपत्तेः ।
न चार्थवादस्य प्रशस्तस्य उपसर्जनीभूतयागविशेषणत्वस्येव ब्रह्मणि ओतत्वादेः ‘अन्वयः सम्भवतीति शङ्क्यम् । यागविशेषणत्वे बाधकाभावात् । प्रकृते वैयर्थ्यलक्षणबाधकस्योक्तत्वात् । एवं च असिद्धिः, व्यभिचारः, अप्रयोजकत्वम्, आभाससाम्यम्, उपाधिः, संत्प्रतिपक्षत्वं साध्यसाम्यापादनं विरोधद्वयं चेति उक्तनवदूषणभूषितत्वादनुमानं न मानम् ।
यदपि सूत्रावयत्वे भाष्योदाहृतस्मृतिर्मानमस्तीति । तदप्यसत् । अतश्च पूर्वमुच्चार्या इत्यनेन ओङ्कारस्यादावुच्चार्यमाणत्वस्यैव विधीयमानत्वेन “सूत्रावयवत्वानुक्तेः ।
न चाथातःशब्दतुल्यतयोच्यमानत्वान्यथानुपपत्त्या ओङ्कारस्याद्यसूत्रावयवत्वं ज्ञायत इति वाच्यम् । तर्हि तस्याद्यसूत्रावयंवत्वेऽन्यथानुपपत्तिः प्रमाणमित्युक्तं स्यात् । तस्या अनुमानरूपतया प्रागेव दूषितत्वाद्
यञ्चोक्तं दाढयर्थं हेतुद्वयसूचनमिति । तदपि मन्दम् । सौत्रब्रह्मशब्दार्थप्रतिपादकश्रुतिस्मृतिवाक्यार्थपर्यालोचनया ब्रह्मशब्देनैवातिदाढयपपत्तेः । सूत्रत्वहानेश्च तेषां निर्णायकत्वात् ।
यदपि पौनरुक्त्यपरिहाराय ‘विशिष्टवाचकानाम्’ इत्यादिवाणिरभाणि । तन्न । तर्हि सर्वत्राप्येवं वक्तुं शक्यत्वेन पुनरुक्तेः क्वापि दोषत्वं न स्यात् । ब्रह्मशब्दस्यापि स एव ब्रह्मशब्दार्थ इति सुधायां गुणपूर्णार्थत्वस्य प्रतिपादितत्वात् तद्विरोधापत्तेश्च । तस्मादोङ्कारो न सूत्रावयव इति पूर्वपक्षः ।
ओङ्कारस्य सूत्रावयवत्वोपपादकसुधाशयोपवर्णनम्
अत्र टीकाकाराः -“स्रवत्यनोङ्कृतं ब्रह्म परस्ताच्च विशीर्यते इत्यर्थवादबलेन प्रतिसूत्रं ब्रह्मविद्यात्वाद् आद्यन्तयोरोङ्कारस्योहः कर्तव्यः । न चोह्यमानं वाक्यात् पृथगिति शक्यते वक्तुम्। तथात्वे मन्त्रेष्वप्यूह्यमानस्यमन्त्रानवयवत्वप्रसङ्गात् । ओङ्कारार्थस्योतत्वादेर् आद्यसूत्रार्थे समन्वयेनावयवत्वनिश्चयाच्च । असंहिततया निर्देशस्तु सर्व सूत्रेष्वनुगतिसूचनार्थः” इति ओङ्कारस्याद्यसूत्रावयवत्वं सुधायामाहुः ।
अत्रेदं शङ्कयते एवं सति “अग्नये’ जुष्टं निर्वपामि’ इत्यत्राग्निपदस्थाने सूर्यपदस्योहः सम्भवति, तत्र स्थानिनोऽग्निपदस्य सत्वात् । नेह चोहः सम्भवति । स्थानिनोऽभावेन ऊहलक्षणाभावात् पूर्वमीमांसाविरोधः स्यात् । यथोक्तं-”अप्राकृतस्थानपतितपदार्थान्तरकार्यतः । ऊहः प्रयोगो विकृत ऊह्यमानतयोदितः " (न्या. प.) इति । न च सुधास्थोहशब्देनाध्याहारो लक्ष्यत इति वाच्यम् । साकाङ्क्षत्वाभावात् । किञ्च मन्त्रेष्वप्यूह्यमानस्य मन्त्रानवयवत्वमिष्टमेव मीमांसकानाम् । तैरूहप्रवरनामधेयानाममन्त्रत्वस्य द्वितीये सिद्धान्तितत्वात् ।
किञ्च ओङ्कारार्थस्योतत्वादेर् न वाक्यार्थे समन्वयः । ब्रह्मणः शब्दत उपसर्जनत्वेन पदान्तरोपात्तोतत्वादेरन्वयानुपपत्तेः । अपि च यथाकथञ्चिदन्वयसम्भवेऽपि आदावेव प्रयोगेण चरितार्थत्वादन्ते प्रयोगवैयर्थ्यम् ।
किञ्च ‘ङ्याप् प्रातिपदिकात्’ इत्यधिकारसूत्रे विद्यमानस्य “यन्तादाबन्ताच्च प्रातिपदिकात् परे स्वादिप्रत्ययाः स्युः” इति अनुषक्तस्यापि ङ्यन्त अन्वयदर्शनात् प्रकृतेप्योङ्कारार्थस्यापि जन्मादिसूत्रेष्वन्वयो वाच्यः । स चाशक्यः । किञ्च “ओङ्कारः पृथगुच्चरितो वेदितव्यः नाथशब्दवत् सूत्रोपनिबद्ध इति सन्यायरत्नावलीविरोधः सुधाया इति ।
तात्पर्यचन्द्रिकोक्तसमाधानविवरणम्
अत्र व्यासतीर्थश्रीमच्चरणा आहुः
“नात्रोहशब्दो मीमांसकाभिमतोहपरः” । किन्तु “अध्याहारस्तर्क ऊह” इति प्रसिद्ध अध्याहारो ऊहशब्देन विवक्षितः ।
न च साकाङ्क्षत्वाभावः । दृष्टार्थाभावेऽपि श्रवणविशरणाभावरूपादृष्टार्थसद्भावात् । अत एव च नान्ते प्रयोगवैयर्थ्यम् । नाप्युत्तरसूत्रे अनन्वयदोषः । अदृष्टार्थत्वस्य सत्वात् ।
यच्चोक्तं-मन्त्रेषूह्यमानस्य मन्त्रानवयवत्वमिष्टमिति । तदपि न । मन्त्रानवयवत्वपदेन मन्त्रेण सहैककार्यकारित्वाभावस्य विवक्षितत्वेनेष्टापत्तेर्वक्तुमशक्यत्वात् ।
यदपि ओङ्कारार्थस्य ओतत्वादेर्ब्रह्मणि समन्वयो न सम्भवतीति। तदप्यसत् । “सप्तदशारत्निर्वाजपेयस्य यूपो भवति " इत्यत्र सप्तदशारत्नित्वस्य प्रधानभूतवाजपेयभ्यागेनानन्वयेऽपि
(1. “अग्नये जुष्टं” इत्यादौ “सूर्याय जुष्टं” इत्यादिर् मन्त्रोहः । “यद्योन्यां तदुत्तरयोर्गायति” इति कवतीषु रथन्तरं गायति “इत्यादिषु प्रकृतिग्रन्थे योनावाम्नातानां साम्नामुत्तरादिषु तत्तदानुगुण्येनान्यथागानं सामोहः । व्रीहिषु श्रुतानामवहननादीनां वैकृते नीवारादिषु औचित्येनानुष्ठानं संस्कारोहः, इत्येतेषां निर्देशके “मन्त्रसामसंस्कारोहः” इत्यादौ मीमांसकव्यवहारे ऊह्यत इति व्युत्पत्या यथा प्रयोगविकारपर ऊहशब्दः न तथा प्रकृते, “ऊह वितर्के” इत्यस्माद् धातोर्भावे घञ लघूपधत्वाभावेन गुणाभावे चोह इति सिद्धेरध्याहारपर इत्यर्थः । व्यक्तमेतच् चन्द्रिकाप्रकाशे । )
अप्रधानभूतयूपान्वयवद् अङ्गावतारन्यायेन ओतत्वस्य प्रधानभूतजिज्ञासानन्वितत्वेऽपि उपसर्जनीभूतब्रह्मण्यन्वये बाधकाभावात् । अर्थवादार्थस्य प्राशस्त्यस्य “यजेत” इत्यत्रोपसर्जनीभूतयागविशेषणत्वदर्शनाच्च । “दण्डिनं पश्य” इत्यादौ दण्डस्योपसर्जनस्य अविध्यन्वयदर्शनाच्च ।
न च ब्रह्मशब्देन विषयसूचनादोङ्कारवैयर्थ्यम् । न केवलं जिज्ञास्ये ब्रह्मणि “तद् विजिज्ञासस्व” इत्यादौ ब्रह्मशब्दश्रवणाज् जीवभिन्नत्वेन जिज्ञास्यता अपि तु “ओमित्येतदक्षरमुद्गीमुपासीत” इत्यादौ जीवेष्वसम्भावितगुणपूर्त्यभिधायकोङ्कारश्रवणाञ्चेति युक्त्यन्तरसूचकत्वेन सार्थक्यात् । अदृष्टार्थमवश्यं प्रयोक्तव्यत्वाच्च न वैयर्थ्यम् ।
न च पौनरुक्त्यम् । ओङ्कारार्थस्योतत्वादेर्गुणस्य ब्रह्मशब्देन साक्षादप्रतिपादनाद् आर्थिकपौनरुक्तेरदोषत्वात् । नापि सन्न्यायरत्नावलीविरोधः शङ्क्यः ।” मास्तु “स्रवत्यनोङ्कृतं” इत्यनेन श्रौतार्थवादेनोक्तसाधारणोङ्कारस्याद्यसूत्रावयवता । तथापि” “ओङ्कारश्चाथशब्दश्च तस्मात् प्राथमिकौ क्रमात्” तद्धेतुत्वं वदंश्चापि तृतीयोऽत उदाहृतः । “अतश्च पूर्वमुच्चार्याः सर्व एते सतां मताः” (ब्र.सू. भा. 1.1.1.) इति भाष्योदाहृतस्मृत्या अथातश्शब्दतुल्यतया ‘उक्तासाधारणोङ्कारस्य आद्यसूत्रावयवत्वे बाधकाभावात् । “तत्र ताराथमूलत्वं सर्वशास्त्रस्य चेष्यते” इत्यनुव्याख्यानेऽपि अथशब्दतुल्यतयोङ्कारस्योक्तत्वाच्च ।
एवं च सन्यायरत्नावली “स्रवति” इत्यादि श्रौतार्थवादलब्धसाधारणोङ्कारपरा इति’ न तद्विरोधः । सुधा तु “ओङ्कारश्चाथशब्दश्च” इत्यादिस्मृतिप्रापिताऽसाधारणोङ्काराविषयेति बोध्यम् इति ।
न च “स्रवत्यनोतं ब्रह्म परस्ताच्च विशीर्यते” इति श्रौतार्थवादबलेन प्रतिसूत्रं ब्रह्मविद्यात्वाद् आद्यन्तयोरोङ्कारस्योहः कार्य इत्यध्याहारापरपर्यायत्वोक्तिस्तस्य न स्यादिति वाच्यम् । तस्याः श्रौतार्थवादबललब्धसाधारणोङ्कारविषयत्वात् । अत एव प्राचीनकोशेषु’ओम ओम् अथातो ब्रह्मजिज्ञासा” इति पाठः दृश्यते ।
एवं च “विमत ओङ्कार आद्यसूत्रावयवः माङ्गलिकत्वे सति अदृष्टार्थत्वे सति सूत्रार्थान्वितत्वात् सौत्राथशब्दवत् । आद्यसूत्रानुसंहितत्वाच्चेत्यनुमानाद् ओङ्कारस्य सूत्रावयवत्वसिद्धिः । न चाप्रयोजको हेतुः । भाष्योदाहृतस्मृतिविरोधस्यैव विपक्षे बाधकत्वात्। प्रथमसूत्रवाक्यार्थे ओतत्वादेरन्वयेन अवयवत्वनिश्चयाञ्चेति सुधाविरोधाच्च नाप्रयोजकता ।” अत एव नोपाधिः । समव्यात्यभावाच्च ।
न चोङ्कारस्य संहिततया निर्देशे, “असंहिततया निर्देशस्तु सर्वसूत्रेष्वनुगतिसूचनार्थः” इति सुधाविरोध इति वाच्यम् । तस्यापि साधारणोङ्कारविषयत्वात् ।
न च विमत ओङ्कारः न आद्यसूत्रावयवः लक्षणान्तराभावे सत्यसंहिततया सम्पाठे अखिलैः पठ्यमानत्वाद् वेदोपक्रमोच्चार्यमाणोङ्कारवदिति सत्प्रतिपक्ष इति वाच्यम् । असंहिततया निर्दिष्टत्वस्योपाधित्वात् । आद्यसूत्रानन्वितत्वस्योपाधित्वाच्च उक्तरीत्या ओङ्कारस्य संहिततया निर्देशेन विशेषणासिद्धेश्च । माङ्गलिकत्वावच्छिन्नसाध्यव्यापकत्वस्य द्वितीयोपाधौ विवक्षिततया न कर्तव्येति पदे साध्याव्यापकता शङ्कया । कर्तव्येतिपदेऽध्याहृते व्यभिचारपरिहाराय माङ्गलिकत्वे सतीति । अदृष्टार्थत्वे सतीति । नतु स्वरूपकथनार्थमिति द्रष्टव्यम् । तस्मादोङ्कारः सूत्रावयव इति स्थितम् ।
। इति श्रीविद्याधीशतीर्थविरचित ओङ्कारवादः समाप्तः श्रीमध्वेशार्पणमस्तु । शुभम् ।