३४ समर्पणम्

वादिराजाख्ययतिना साधिता युक्तिमल्लिका मुक्तिसौरभसर्वस्वमित्थं सत्सु न्यवेदयत्

समर्पणम्

युक्तिमल्लिका

वादिराजाख्ययतिना साधिता युक्तिमल्लिका ।

**मुक्तिसौरभसर्वस्वमित्थं सत्सु न्यवेदयत् **॥ १००० ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमद्वादिराजतीर्थ श्रीपादविरचितायां

श्रीमद्युक्तिमल्लिकायां फलसौरभसर्वस्वं सम्पूर्णम् ॥

॥ श्रीमद्वादिराजबन्धवे हयवदनाय नमः ॥

सुरोत्तमटीका

मुक्तिसौरभसर्वस्वं मुक्तिसौरभसम्पदम् ॥ १००० ॥

अनिन्द्याय सुरश्रेणीवन्द्याय गुणसिन्धवे ।

हयग्रीवाय महते हयग्रीवाय ते नमः ॥ १ ॥

सुरोत्तमाख्ययतिना कृता भावविलासिनी ।

भूयाच्छ्रीरमणप्रीत्यै मध्वस्य च मुदे सदा ॥ २ ॥

प्रारम्भमात्रं तु मया कृतं प्राग्गुर्वनुज्ञया ।

पूर्तिस्तु वादिराजाख्ययोगीन्द्रेणैव साधिता ॥ ३ ॥

यत्राश्रुतर्चां चर्चास्ति युक्तयश्चाश्रुताः पुरा ।

तन्मूलं सा च टीकेयं किं मानुषकृतिर्भवेत् ॥ ४ ॥

कृतिमेतां स्वयं कृत्वा वादिराजो बुधाग्रणीः ।

ख्यापयामास मन्नाम्ना सन्तो ह्याश्रितवत्सलाः ॥ ५ ॥

इति श्रीमत्कविकुलतिलकवादिराजतीर्थपूज्यचरणविरचितायाः युक्तिमल्लिकायाष् टीकायां सुरोत्तमतीर्थकृतायां भावविलासिन्यां पञ्चमसौरभसर्वस्वम् ॥

नमोऽस्तु वादिराजाय गुरवे परवेदिने ।

यो वाजिवक्त्रदयया श्राव्यं काव्यमचीक्लृपत् ।

सत्यप्रमोदटीका

साधिता प्रसन्नीकृता । युक्तिमल्लिका ग्रन्थाभिमानिनी भारती । ‘सिद्धं साधनं सव्यापारीकरणीयम् । व्यापारश्च प्रसन्नतैव’ इत्युक्तेः ॥ मुक्तीति फलस्वरूपोक्तिः पराभिमतनिर्विशेषभावस्य पराकरणाय । तत्र सौरभासम्भवात् । सर्वस्वं सम्पदम् । इत्थम् उक्तप्रकारेण । तमेव प्रकारं विवृणोति सस्त्विति । सच्छब्दो मुख्यप्राणवाची । ‘सतो बन्धुमसति निरविन्दन्’ इत्यादिश्रुतिषु ‘ततो वयं सत्प्रमुखा यदर्थे बभूविमात्मन्करवाम किं ते’ इत्यादिस्मृतिषु च तत्र प्रयोगात् । सत्सु मुख्यप्राणावतारभूतेषु हनुम-द्भीममध्वेषु । तेषां हृदयाम्बुजमन्दिरेषु सत्सु इत्यावर्तते । नित्यसन्निहितेषु । सत्सु ‘सच्छब्द उत्तमं ब्रूयात्’ ‘सत्त्वं स्वातन्त्र्यमुद्दिष्टं’ ‘सद्भावे साधुभावे च सदित्येतत्प्रयुज्यते’ इत्यादिप्रमाणैः सर्वोत्तमस्वतन्त्रनिर्दोषभगवदवतारभूतेषु लक्ष्मीहयग्रीवात्मकेषु रामकृष्णवेदव्यासात्मकेषु भगवद्रूपेषु । न्यवेदयत् समर्पयां बभूव । तथा समर्पितं सौरभं तत्त्वज्ञानं सत्सु सात्त्विकप्रकृतिषु मुमुक्षुषु ॥ तद्वचनचेतस्सु । न्यवेदयत् सानुग्रहं संस्थापयामास । सकलवचन-चेतोदेवतात्वान् निरूढमकरोत् ॥

श्रीवादिराजतीर्थार्याः श्रद्धाजाड्येन मत्कृतम् ।

क्षाम्यन्तु साहसं नित्यं प्रीताः सन्तु कृपालवः ॥

यत्कृपालेशमालम्ब्य लब्धात्मेयं कृतिर्मम ।

श्रीशे समर्पयन्त्वेनां सत्याभिज्ञगुरूत्तमाः ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमत्सत्याभिज्ञतीर्थश्रीचरणचरणाराधक श्रीसत्यप्रमोदतीर्थविरचिता श्रीमद्युक्तिमल्लिकाविवृतिः सम्पूर्णा ॥