जरतीभिः कारुरहमश्वो वोढेति वाक्त्रयम्
सोमसूक्तेन मुक्तिस्वरूपनिर्धारणम्
युक्तिमल्लिका
जरतीभिः कारुरहमश्वो वोढेति वाक्त्रयम् ।
वक्ति वैकुण्ठिमाहात्म्यं तच्च किञ्चिद्विवृण्महे ॥ ९४२ ॥
सुरोत्तमटीका
विष्णुलोकाख्यमुक्तेर् मुक्तनानाजात्याक्रान्तत्वादि-माहात्म्यं तत्प्रापकमुख्यप्राणमाहात्म्यं प्राप्यभगवन्माहात्म्य च विस्तरेण प्रतिपादयतो मुमुक्षूणां देवर्ष्यादीनां प्रार्थनारूपस्य अत एवाद्यापि मुमूर्षूणां कर्णेजप्यमानस्य नानानमित्यादिवर्गचतुष्टयात्मकसोमसूक्तस्यार्थकथनार्थं जरतीभिरित्यादिरुत्तरो ग्रन्थसन्दर्भः । तत्र मन्दानामपि सुबोधाय वर्गस्थ-वाक्यान्युद्धृत्य तदर्थः कथ्यते ॥
नानानं वा उनो धियो विव्रतानि जनानाम् ।
तक्षारिष्टं रुतं भिषग्ब्रह्मासुन्वन्तमिच्छतीन्द्रायेन्दोपरिस्रव ॥ १ ॥
जरतीभिरोषधीभिः पर्णेभिः शकुनानाम् ।
कर्मारो अश्मभिर्द्युभिर्हिरण्यवन्तमिच्छतीन्द्रायेन्दोपरिस्रव ॥ २ ॥
कारुरहन्ततो भिषगुपलप्रक्षिणीनना ।
नानाधियोवसूयवोनुगा इव तस्थिमेन्द्रायेन्दोपरिस्रव ॥ ३ ॥
अश्वो वोह्ला सुखं रथं हसनामुपमन्त्रिणः ।
शेपोरोमण्वन्तौ भेदौ वारिन्मण्डूक इच्छतीन्द्रायेन्दोपरिस्रव ॥ ४-१ ॥
शर्यणावतिसोममिन्द्रःपिबतु वृत्रहा ।
बलं दधान आत्मनि करिष्यन्वीर्यं महदिन्द्रायेन्दोपरिस्रव ॥ ५ ॥
आपवस्व विशांपत आर्जीकात्सोममीढ्वः ।
ऋतवाकेन सत्येन श्रद्धया तपसा सुत इन्द्रायेन्दोपरिस्रव ॥ ६ ॥
पर्जन्यवृद्धं महिषं तं सूर्यस्य दुहिताभरत् ।
तं गन्धर्वाः प्रत्यगृभ्णन्तं सोमे रसमादधुरिन्द्रायेन्दोपरिस्रव ॥ ७ ॥
ऋतं वदन्नृतद्युम्नसत्यं वदन्त्सत्यकर्मन् ।
श्रद्धां वदन्त्सोमराजन्धात्रा सोमपरिष्कृत इन्द्रायेन्दोपरिस्रव ॥ ८ ॥
सत्यमुग्रस्य बृहतः संस्रवन्ति संस्रवाः ।
संयन्ति रसिनो रसाः पुनानो ब्रह्मणा हर इन्द्रायेन्दोपरिस्रव ॥९-२॥
यत्र ब्रह्मा पवमानच्छन्दस्या३वाचं वदन् ।
ग्राव्णा सोमे महीयते सोमेनानन्दं जनयन्निन्द्रायेन्दोपरिस्रव ॥ १० ॥
यत्र ज्योतिरजस्रं यस्मिंल्लोके स्वर्हितम् ।
तस्मिन्मान्धे हि पवमानामृते लोके अक्षित इन्द्रायेन्दोपरिस्रव ॥ ११ ॥
यत्र राजा वैवस्वतो यत्रावरोधनं दिवः ।
यत्रामूर्यह्वतीरापस्तत्र माममृतं कृधीन्द्रायेन्दोपरिस्रव ॥ १२ ॥
यत्रानुकामं चरणं त्रिनाके त्रिदिवे दिवः ।
लोका यत्र ज्योतिष्मन्तस्तत्र माममृतं कृधीन्द्रायेन्दोपरिस्रव ॥ १३ ॥
यत्र कामानि कामाश्च यत्र ब्रध्नस्य विष्टपम् ।
स्वधा च यत्र तृप्तिश्च तत्र माममृतं कृधीन्द्रायेन्दोपरिस्रव ॥ १४ ॥
यत्रानन्दाश्च मोदाश्च मुदः प्रमुद आसते ।
कामस्य यत्राप्ताः कामास्तत्र माममृतं कृधीन्द्रायेन्दोपरिस्रव ॥१५-३॥
य इन्दोःपवमानस्यानुधामान्यक्रमीत् ।
तमाहुः सुप्रजा इति यस्ते सोमाविधन्मन इन्द्रायेन्दोपरिस्रव ॥ १६ ॥
ऋषे मन्त्रकृतां स्तोमैः कश्यपोद्वर्धयन् गिरः ।
सोमं नमस्य राजानं यो जज्ञे वीरुधां पतिरिन्द्रायेन्दोपरिस्रव ॥ १७ ॥
सप्तदिशो नानासूर्याः सप्तहोतार ऋत्विजः ।
देवा आदित्या ये सप्त तेभिः सोमाभिरक्ष न इन्द्रायेन्दोपरिस्रव ॥ १८ ॥
यत्ते राजञ्छृतं हविस्तनसोमाभिरक्षनः ।
अरातीवामानस्तारीन्मोचनः किञ्चनाममदिन्द्रायेन्दोपरिस्रव ॥ १९-४ ॥
यत्र तत्परमं पदं विष्णोर्लोके महीयते ।
देवैः सुकृतकर्मभिस्तत्र माममृतं कृधीन्द्रायेन्दोपरिस्रव ॥ २० ॥
अयं वर्गचतुष्टयार्थः । हे इन्दो इन्दुनामकपवमान यत्र विष्णुलोके नो ऽस्माकं जनानाम् अस्मज्जातीयानां पूर्वमुक्तनानाविधजीवानां धियः बुद्धेर् नानानं नाना नानाविधम् अनम् अननम् । ऋचां त्वः पोषमास्ते स तत्र पर्येतीत्यादि वाक्यानुसारेण ऋक् पाठसामगानपुराणपठनहरिध्यानं परितो गमनादिचेष्टा अस्ति उ एव । वै प्रसिद्धम् । यत्र मुक्तौ नः जनानां वि विविधानि आनन्दोद्रेकेण क्रियमाणत्वाद्विशिष्टानि च व्रतानि यज्ञदीक्षितादि-व्रतानि सन्ति उ सन्त्येव । अस्यार्थस्य श्रुतिपुराणादौ प्रसिद्धि द्योतनार्थम् अत एवावधारणार्थं चेदमव्ययद्वयम् । यत्र मुक्तौ तक्षा मुक्तकारुः रिष्टं मुक्तिस्थानस्थचिन्मयवृक्षपक्षिपक्षादिभ्यो लीलया पतितं वंशशररत्नादिखण्डं गरुडादिखण्डं च मुक्तानां लीलोचितरत्नमयकार्मुकादि करणाय इच्छति । भिषक् मुक्तवैद्यस् तेषामेव खण्डानां स्वस्वस्थाने कदाचित्पुनः सन्धानाय रुतं लीलया क्रियमाणसन्धानकरणमन्त्रस्वरम् इच्छति । अत एव कारुभिष-ग्व्यापारयोः सहैव ग्रहणम् । यत्र ब्रह्मा यज्ञशालास्थितो ब्रह्मा सुन्वन्तं सोमाभिषवणं कुर्वन्तम् ऋत्विजम् इच्छति । अत्रापि पुनर्लतापोषणाय भिषज उपयोगाद्देहलीदीपन्यायेन मध्ये तस्य ग्रहणम् । तत्र इन्द्राय परमैश्वर्यसंपन्नाय । अत एव सकलमुक्तानामीशाय परमात्मने तत्सेवार्थमित्यर्थः । मां परिस्रव परितः प्रापय । तपि भगवान् मुक्तानामिन्द्र एव न तु मुक्ताभिन्न इति सूचनाय इन्द्रपदम् । तत्सेवार्थमेव मम तत्र प्रापणं न तु केवलं भोगार्थमिति सूचनाय चतुर्थी । प्रेरणमात्रेण नाहं गन्तुं शक्तः । किन्तु त्वया सहैव गन्तव्यमिति सूचनाय परिस्रवेति प्रयोगश्चेति द्रष्टव्यम् ॥ १ ॥
अप्रसिद्धत्वादुत्वादुत्तरार्धप्रमेयं पुनरपि विशदयति ॥ जरतीभिरिति ॥ यत्र मुक्तौ जरतीभिर् अनाद्यनन्तकालमारभ्य बहुवर्षजीवित्वाज्जरतीभिर् वृद्धाभिर् ओषधीभिः फलपाकान्तवंशशरादिभिः । शकुनानां पक्षिणां पर्णेभिः पत्रैर् द्युभिः कान्तिमद्भिर् अश्मभिः रत्नैः सह कार्मारः कारुर् हिरण्यवन्तं मध्ये मध्ये पुंखादौ च सुवर्णखचितालङ्कारवन्तं चापं रथं शरादिकं च इच्छति कर्तुमिच्छति । तत्र मां परिस्रवेति तु पूर्ववदेव ॥ २ ॥
ननु मुक्तौ कार्मारादयः कथं सन्तीत्यत आह ॥ कारुरिति ॥ यत्र मुक्तौ अहं मुक्त्यनन्तरमपि कारुः कारुत्वजात्याक्रान्त एवास्मीति त्वष्टुर्वचनमिदम् । भिषक् अश्विन्यादिदेवसमूहो भिषक् वैद्यजात्याक्रान्त एवास्ति । उपलप्रक्षिणी लीलार्थं पट्टणे पट्टणालङ्कारेऽपि युक्तपदार्थानामवश्यमपेक्षितत्वाच्चोपलक्षेपणोप-युक्तयन्त्रविशेषः । नाना चापविशेषदारुतंत्वादिरूपेण नानाप्रकाराऽस्ति । यत्र नानाधियः जीवानां तत्रापि परस्परं भिन्नत्वाद्भिन्नबुद्धियुक्ता जीवेश्वरभेदे बुद्धिमन्तो वा । वसूयवः वसवः । परवस्तु नारायणं सदा युञ्जन्तीति वसूयवो मुक्ता वा वयं सर्वे अनुगा इव हरेरनुगमनशीला इवातस्थिम आवर्तेमहि । मध्ये उपविष्टं नारायणं परिवारतया सेवमानानां सर्वदा अनुगमनाभावाद् भूमा-ववतारसमयेऽपि तस्यानुगमनाभावादनुगा इवेत्युक्तम् । यथा प्रभोरनुगन्तारोऽपि तदाज्ञाधारिणस् तथा वयमपि तदाज्ञाधारिण इत्यत्र तात्पर्यम् । तत्र मामित्यादि पूर्ववत् ॥ ३ ॥
यत्र मुक्तौ अश्वः सुखं यथा भवति तथा रथं वोह्वा वोढा प्रापयिता । स्त्रीभिर्वा यानैर्वेति वचनात् । लसद्विमानावलिभिर्नभस्वतामिति भागवतोक्त्या च मुक्तानां रथस्थतया गमनसद्भावाद् रथस्य चाश्वेनैव नेतव्यत्वान् मुक्तोऽश्वः मुक्तानाम् इन्द्रादीनां रथम् आनन्दोद्रेकेणैव नयति । दुःखलेशमात्रमपि तस्य नास्तीति भावेन सुखमित्युक्तम् । शेपः शेपौ स्थूलाण्डवन्तौ अर्श आदिभ्य इति सूत्रात् । ज्ञानानन्दमयत्वेनातिमण्डलत्वात्फकारस्य पकारः । रोमण्वन्तौ सर्वाङ्गेषु रोमवन्तौ । भेदौ भिन्दत इति व्युत्पत्त्या परस्परं शिरस्ताडनं कुर्वन्तौ मेषौ । उपमन्त्रिणः हरेः समीपे सेवायोग्यप्रधानपुरुषस्य ब्रह्मेन्द्रादेर्मुक्तसमूहस्य हसनां हासं सुखं सुखेनैव वोढारौ प्रापयितारौ । यथा संसारे ब्रह्मसभाया-मिन्द्रसभायां च कदाचित्तयोः परिहासदशायां तत्तल्लोकस्थौ ज्ञानिभूतमेषौ युद्धं कुरुतस् तथा मुक्तावप्यानन्दोद्रेकेणैव युद्धं कृत्वा तयोर्हासं जनयत इति भावः । इद् इत्थं मुक्तावपि कारुभिषगोषध्यश्वमेषादीनां स्वस्वाजात्युचितलीलावन् मण्डूकः वा उदकम् इच्छति, यानस्थानामागमनसमये तीरस्थो मण्डूक उदकं प्रवेष्टुमिच्छतीति भावः । तत्र मामित्यादि पूर्ववत् ॥ ४–१ ॥
यत्र मुक्तौ आत्मनि बलं दधानः महद्वीर्यं करिष्यन् वृत्रहा इन्द्रो ऽस्येन्द्रस्य मुक्तेर्भावित्वात्करिष्यन्निति भाविप्रयोगः । शर्यणावति, शीर्यते सोमरसोऽनयेति व्युत्पत्त्या शर्यणा सोमरससाधकदशापटी । तद्वति पात्रे स्थितं सोमं सोमरसं मुक्तैर्लीलया क्रियमाणयज्ञेपिबतु । पास्यतीति यावत् । व्यत्ययो बहुलमिति वचनात् । तत्र मामित्यादिपूर्ववत् ॥ ५ ॥
दिशांपते हे सोम सोमाभिमानित्वात्सोमपदवाच्य पवमान आर्जीकात् सोमरसार्जकात् । ऋत्विजः रसस्रवणार्थं सोमलतां पेषयत ऋत्विज इत्यर्थः । सुतो ऽभिमन्यमानलताद्वारा अभिस्रवणमभितः स्रवणं प्राप्तः । अत एव मीढ्वः रससेचनशीलस्त्वं मुक्तावपि मन्दवायुरूपेण रससूक्ष्मांशं संगृह्य दिशि दिशि स्थितमुक्तान् प्रति सेचनशीलो वा । अत एव दिशां दिशिदि-शिस्थितमुक्तानां पत इत्युक्तम् । ऋतवाकेन यथार्थज्ञानसूक्तेन सत्येन ज्ञानपूर्वककर्मणा । ऋतं यथार्थविज्ञानं सत्यं तत्पूर्विकाकृतिरिति वचनात् । श्रद्धया तपसा च सह आसमन्तात् पवस्व पवनं कुरु । पवनं करिष्यसीति यावत् । मुक्तिस्थमन्दानिलं प्रेरयन् मुक्तिस्थाने सर्वत्र मुक्तब्रह्मरूपेण सञ्चरिष्यसि । मुक्तावप्यन्तः प्राकाराद्बहिस् तत्रस्थ जीवन्मुक्तान् आनन्दयन् वायुरूपेण यत्र मुक्तौ सञ्चरति स एनान् ब्रह्म गमयतीति श्रुतेः । तत्र मामित्यादिपूर्ववत् ॥ पवमानस्य माहात्म्यकथनमिदम् ॥ ६ ॥
सूर्यस्य दुहिता यमुना । पर्जन्यवृद्धं पर्जन्यः वृद्धो येनेति व्युत्पत्त्या जलदानेन पर्जन्याभिवृद्धिकरं तं संसारे स्वपतित्वेन वृतं वरुणम् । यत्र मुक्तौ महिषं पतिम् । आ सम्यक् अभरद् बिभृतवती । गन्धर्वा अर्वागन्धर्वोऽश्व इत्यभिधानात् । संसारे वरुणाधीनतया स्थिता यागयोग्याश्वास् तं वरुणं यत्र मुक्तौ प्रत्यगृह्णन् स्वामित्वेन गृहीतवन्तः । मुक्तावपि तदधीनतयैव स्थिता इति भावः । तं संसारे सोमरसाभिमानिवरुणम् । यत्र मुक्तौ सोमे मुक्तसोमल-तायाम् । रसं रसस्वामित्वाद्रसशब्दवाच्यम् आदधुः कृतवन्तः । तत्रेत्यादि पूर्ववत् ॥ ७ ॥
हे ऋतद्युम्न ऋतं यथार्थज्ञानमेव द्युम्नं द्रविणं यस्य तत्सम्बुद्धिर् हे ऋतद्युम्न । सत्यकर्मन् सत्यानां यथार्थज्ञानपूर्वकयागादिक्रियाणां कर्म यस्य तत्संबुद्धिः । राजन् मुक्तानामधिपते हे सोम सोमाभिमानित्वात्सोमपदवाच्य वायो त्वं यत्र मुक्तौ । सोम मुक्तौ विद्यमानचिन्मयसोमरसाभिमानित्वात्सोमपदवाच्य । त्वम् ऋतं वदन् सत्यं वदन् श्रद्धां वदन् धात्रा ब्रह्मरूपेण परिष्कृतो ऽलङ्कृत-स्तिष्ठसि । वायोर् मुक्तौ ब्रह्मरूपेणैवावस्थानस्य शास्त्रसिद्धत्वादिदमुक्तम् । तत्रेत्यादि पूर्ववत् ॥ ८ ॥
हे हरे विशेषसन्निधानवत्त्वाद्धरिशब्दवाच्य पवमान उग्रस्य शत्रूणां भयङ्करस्य । बृहतो ऽधिकारिषु सर्वोत्तमस्य यस्य तव आज्ञया संस्रवाः सम्यक् स्रवणशीला नद्यः संस्रवन्ति सम्यग्वहन्ति । रसा मधुरादिरसा रसिनः रसवतः पदार्थान् संयन्ति प्राप्नुवन्ति । स त्वं यत्र मुक्तौ ब्रह्मणा ब्रह्मरूपेण पुनानः पावयंस्तिष्ठसि । सत्यम् इदं वचनमयमर्थार्थं न । तत्रेत्यादिपूर्ववत् ॥ ९ ॥
हे पवमान यत्र मुक्तौ छन्दस्यां छन्दः सम्बन्धिनीं वाचं वदन् ब्रह्मा ग्राव्णा सोमलतापेषणोपयुक्ताश्मना । स्रुतेन सोमेन सोमरसेन आनन्दं सोमरसपातॄणामिन्द्रादीनां स्वरूपानन्दं जनयन् प्रादुर्भावयन् । सोमे सोमलता प्रधानत्वात्सोमशब्दवाच्ये यज्ञे महीयते सर्वैः पूज्यते तत्रेत्यादिपूर्ववत् ॥१०॥
यत्र मुक्तौ अजस्रं सर्वदा ज्योतिस्तिष्ठति । वैकुण्ठलोकप्रकाशस्य लक्ष्मी-स्वरूपत्वेनानाद्यनन्तत्वद्योतनायाजस्रमित्युक्तम् । यस्मिन् लोके वैकुण्ठलोके स्वः सुखं हितं निहितम् । हे पवमान अमृते न विद्यते मृतं मरणं यत्रेत्य-मृतशब्दवाच्ये । अक्षिते अनाद्यनन्तकालेऽपि क्षयरहिते । तत्रत्यजनानां मरणाभावद्योतनायाद्यं विशेषणम् । लोकस्यैव स्वरूपतो नाशाभावद्योतनाय द्वितीयमिति विवेकः । तस्मिन् लोके । यद्यपीदं लोकपदं सामान्यपदं तथापि परिशिष्टे विष्णोर्लोक इति स्पष्टोक्तेस् तत्रापि वैकुण्ठस्यैव वाचकम् । मान्धेहि निक्षिप । त्वं च इन्द्राय इन्द्रमुद्दिश्य । परिस्रव अस्मदादिमुक्तानादाय परितो गच्छ । मान्धेहीति पृथगुक्तेरस्मिन्वाक्ये यथास्थितैव योजना ॥ ११ ॥
यत्र वैकुण्ठलोके वैवस्वतः यमः । राजा प्रजारञ्जक एव न भीषकः । तत्रत्यप्रजानां मृत्युभयरहितत्वादिति भावः । यत्र वैकुण्ठलोके दिवः स्वर्गस्य अवरोधनम् अन्तःपुरस्त्रीजनो ऽस्ति । यत्र यह्वन्तीः परितो गच्छन्त्यः । अमूर् आपो ऽभिमानिदेवताः सन्ति तत्र माम् अमृतं मुक्तं कृधि कुरु । त्वं चेन्द्राय परिस्रव ॥ १२ ॥
त्रिनाके दुःखरहितत्वान्नाकशब्दवाच्यवैकुण्ठानन्तासनश्वेतद्वीपाख्य लोकत्रयवत्त्वात् त्रिनाकशब्दवाच्ये । त्रिदिवे त्रयः दिवः सदा प्रकाशमान-सूर्येन्द्वग्न्याख्या यत्रेति व्युत्पत्त्या त्रिदिवशब्दवाच्ये । यत्र मुक्तौ दिवः ज्योतीरूपमुक्तसमूहस्य अनुकामम् इच्छानुसारेण चरणं सञ्चरणम् अस्ति । यत्र मुक्तौ ज्योतिष्मन्तःलोकास् त्रिनाकपदेन सूचिताः सन्ति । तत्रेत्यादि पूर्ववत् ॥ १३ ॥
यत्र मुक्तौ कामाः स्वयोग्यविषयेच्छाः । निकामा नितरां काम्यन्त इति निकामा विषयाश्च सन्ति । अन्यथा सत्यसङ्कल्पत्वाभावप्रसङ्गात् । यत्र मुक्तौ ब्रध्नस्य सूर्यस्य विष्टपं स्थानम् । यत्र मुक्तौ स्वधा च स्वधाशब्दवाच्यपितृपत्नी चशब्देन स्वाहाशब्दवाच्याग्निपत्नी च । तृप्तिश्चास्ति । तत्रेत्यादि पूर्ववत्
॥ १४ ॥
यत्र मुक्तौ भगवतो मध्यदक्षिणपक्षवामपक्षशिरोरूपास् तत्प्रतिबिम्ब-भूतजीवानां पञ्चावयवरूपाश्च । आनन्दा मोदा मुदः प्रमुदश्च । आप्ता भगवतो निरवधिकसंपूर्णाः । अन्येषां यथायोग्यं संपूर्णा आसते । यत्र कामस्य इच्छायाः कामाः काम्या विषयाश्च आप्ता आसते । पूर्वोक्तविषय-निरपेक्षसुखचतुष्टयात् पञ्चमस्य विषयाभिव्यंग्यप्रियनामक सुखस्य व्यञ्जक-विषयसापेक्षतया विजातीयत्वात्पार्थक्यकथनम् । तत्रेत्यादिपूर्ववत् ॥१५–३॥
हे सोम पवमान यः परमात्मा इन्दोः पवमानस्य ते तव अनुधामानि अनुकूलस्थानानि अक्रमीद् आक्रम्य तस्थौ । देहेऽपि यत्र पवनोऽत्रेत्यादि-नोक्तस्य यत्र यत्र मुख्यप्राणस्तिष्ठति तत्र तत्र हरिरपि तिष्ठतीति नियमस्य प्रामाणिकत्वसूचनायेदमुदितम् । यश्च ते मनो ऽविध्यत् । मनोन्तःसर्वदा तिष्ठतीत्यर्थः । तं सुप्रजा उत्तमजीवा इति मदुक्तप्रकारेण आहुः । न केवलमिदं महिमद्वयं मयैव कथ्यते । किन्तु इममेव महिमानं सर्वेऽपि सज्जना वदन्तीति भावः । तस्मै इन्द्राय मां परिस्रव ॥ १६ ॥
ननु सोमसूक्तेऽस्मिन्कथं मुख्यप्राणस्य प्रार्थनमित्यतः स एव मुख्यतः सोमलताभिमानित्वान्मुख्यः सोमः । चन्द्रस्त्ववान्तराभिमानित्वादमुख्यसोम इति प्रतिपादयन् सोमयागादिनिवृत्तिकर्मसाध्यं मोक्षं मुख्यप्राणं प्रति प्रार्थयते ॥ ऋष इति ॥ मन्त्रकृताम् ऋष्यादीनां स्तोमैर् नमस्य नमसो योग्य नमस्कार्येत्यर्थः । कश्यप कात् परमात्मनः प्राप्यस्य शंपदवाच्यसुखस्य योग्याः कश्या मुक्तियोग्याः । तान्पातीति कश्यपऋषे सर्वज्ञ पवमानप्रायपाठविरोधेन ऋष्यन्तरस्यात्राग्राह्यत्वादुक्त एवार्थः । गिरः वेदपुराणादिवाचः । उद्वर्धयन् अपव्याख्याप्रत्याख्यानेन यथास्थितार्थकथनेन च वर्धयन् वीरुधां सोमलतानां पतिर् मुख्यस्वामी यो भवान् राजानं चन्द्रं सोमं सोमलताया अवान्तराभि-मानित्वात्सोमपदवाच्यम् । जज्ञे जनयामास । मुख्यसोमस्य मुख्यप्राणस्य चन्द्रेप्वष्टरूपेण सहजननमस्तीति सूचनाय जज्ञ इत्युक्तम् । हे इन्दो स त्वम् इन्द्राय मां परिस्रवति योजना ॥ १७ ॥
यत्र मुक्तौ दिशः दिगभिमानिदेवाः सप्त सन्ति । कल्पे कल्पे मुक्ता एकादशसङ्ख्याका नानासूर्याश्च सन्ति । होतारो ऽग्निष्टोमादि प्रधानभूतसप्त-क्रतुषु होतारः सप्त सन्ति । आदित्या इन्द्रस्यैवाज्ञया अदित्या पुत्रत्वेन वृता देवाः सप्त तेषु प्रधानका इति वचनान् मरुद्गणेषु प्रधानभूताः प्रवहाद्या ये सप्त मरुतश्चसन्ति । हे इन्दो सोम न इन्द्राय परिस्रव । तेभिः सह अभिरक्ष । अस्मानपि भगवत्समीपं प्रापयित्वा तेषां पुञ्जे प्रवेश्य रक्षेति भावः ॥ १८ ॥
हे राजन्सोम यद्यस्मात्ते तव त्वामुद्दिश्येत्यर्थः । हविः शृृतं पक्वं कृतम् । तेन कारणेन नो ऽभिरक्ष । अरातिवा अरातिं शत्रुं वायति कंपयतीति अरातिवाः । वोविधूनने इति सूत्राद् वाजनं कंपनम् । रातिं रक्षणं वापयति प्रापयतीति अरातिवा । वा गतिगन्धनयोरिति धातोः । आममद् आमं चक्र-कृततापरहितं पुरुषं मथ्नातीति आममत् । अतप्ततनूर्नतदामो अश्नुत इति श्रुतेः । यः परमात्मा नो ऽस्मान् मातारीद् अतारीत् । अतिक्रम्य गतवान् । यश्च परमात्मा नो ऽस्माकम् । मो मा किं न भवति किम् । भवत्येव अस्माकं स्वामीति यावत् । यश्च परमात्मा नो अस्माकं मते किञ्चन जगन् मो मा न भवति । सकलजगद्भिन्न इति वा । नो इति वन् मो इत्यपि निषेधार्थक-मव्ययमस्ति । अतः श्रुतिरुभयथाप्यवददिति ज्ञातव्यम् । हे इन्दो पवमान तस्मै इन्द्राय नः परिस्रवेति सम्बन्धः ॥ १९–४ ॥
यत्र विष्णोर्लोके तद् विष्ण्वाख्यं परमम् उत्तमं पदं पद्यत इति व्युत्पत्त्या सकलमुक्तगम्यं वस्तु सुकृतकर्मभिः सुष्टुकृतयज्ञादिकर्मभिर् देवैर् महीयते । हे इन्दो तत्र माममृतं कृधि । इन्द्राय परिस्रव ॥ २० ॥
इममेवार्थं ग्रन्थगौरवभयाल्लेशतो दर्शयामीति भावेनोक्तम् ॥ तच्च किञ्चिद्विवृण्मह इति ॥ ९४२ ॥
युक्तिमल्लिका
कार्मारः कारुजातीयो यत्र मुक्तौ हरेः पुरि ।
जरतीभिः प्रवृद्धाभिरोषधीभिश्चिदात्मभिः ॥ ९४३ ॥
वंशादिभिर्ध्वजं चापं बाणवेणुरथादिकम् ।
क्रीडायै रचितं दिव्यं शकुनानां पतत्रिणाम् ॥ ९४४ ॥
पर्णैः पत्रैः शिखण्डाद्यैर्द्युभिर्द्योतनकारिभिः ।
अश्मभिश्चित्ररत्नैश्च चित्रितं पुनरिच्छति ।
हिरण्यवन्तं कर्तुं च तत्र माममृतं कृधि ॥ ९४५ ॥
सत्यप्रमोदटीका
मुक्तिस्वरूपनिरूपणपरं सोमसूक्तं लेशतो व्याख्याति जरतीभिरित्यादिना । ‘जरतीभिरोषधीभिः पर्णेभिः शकुनानाम् । कार्मा-रोऽश्मभिर्द्युभिर्हिरण्यवन्तमिच्छतीन्द्रायेन्दो परिस्रव’ इति वाक्यं व्याचष्टे कार्मार इति । जरतीभिः प्रवृद्धाभिश् चिद्रूपत्वात् शाश्वतीभिः । पुनरिच्छति इति । ‘स्वेच्छया करोति न वा । बन्धप्रत्यवाययोरभावात्’ इति भाष्यात्
॥ ९४१–९४५ ॥
युक्तिमल्लिका
प्रायपाठबलादत्राप्येतद्वाक्यं किलोह्यते ।
परिस्रव स्रावयेन्दो तत्र मामिति वा भवेत् ॥ ९४६ ॥
सुरोत्तमटीका
तद्वाक्यं तत्र माममृतं कृधीति वाक्यम् । यथास्थित-पदयोजनापि घटत इत्याह ॥ परिस्रवेति ॥ ९४६–९५० ॥
सत्यप्रमोदटीका
‘तत्र माममृतं कृधि’ इति मुमुक्षोर्वायुं प्रति प्रार्थनं सर्वत्रोह्यम् इत्याह प्रायपाठादिति । यद्वा ‘इन्द्रायेन्दो परिस्रव’ इति यथास्थितं योजना । इन्दो पवमान, इन्द्राय परमैश्वर्यशालिनः परमात्मनो नित्यसेवार्थं परि तमुद्दिश्य मां स्रव स्रावय प्रापय इत्यर्थोऽग्रे व्यक्तः । (श्लो.९५९) ॥ ९४६ ॥
युक्तिमल्लिका
यत्र कारुरहं त्वष्टा यत्रास्ते जातितो भिषक् ।
यत्रोपलक्षेपणी च न नानानाविधः किल ॥ ९४७ ॥
नानाधियस्तारतम्यबुद्धयो वसवोऽखिलाः ।
विचित्रवसुयुक्ता वा मुक्ताः सर्वेऽनुगा इव ॥ ९४८ ॥
वयं तस्थिमकृष्णस्य तत्र माममृतं कृधि ।
अवतारेऽनुगमनाभावात्सर्वेऽनुगा इव ॥ ९४९ ॥
सत्यप्रमोदटीका
‘कारुरहं ततो भिषगुपलप्रक्षिणीनना । नानाधियो वसूयवोऽनुगा इव तस्थिमेन्द्रायेन्दो परिस्रवे’ति वाक्यं व्याख्याति यत्रेति । मुक्तावपि इदानीमिव कारुकर्मणैव त्वां परिचरिष्यामि इति त्वष्टृप्रार्थनम् । ‘त्वष्टारं रूपाणि विचिन्वन्तं’ इति तत्स्वाभाव्यात् । एवं भिषगहम् इति अश्विनौ । तथा तत्तद्देवाः । उपलक्षेपणी पट्टणालङ्कारोपयुक्तवस्तुविशेषः । वसवः वसुगणा देवाः । अर्थान्तरमाह विचित्रेति । अनुगा इवेति । परिवारतया सर्वदा मध्ये उपविष्टं नारायणं सेवमानानां सर्वदा अवतार-समयेऽपि अनुगमनाभावाद् इवेत्युक्तम् ॥ ९४७–९४९ ॥
युक्तिमल्लिका
यत्र विष्णोः समीपस्थसामन्तस्य प्रधानिनः ।
उपमन्त्रिपदोक्तस्य मुक्तशक्रादिरूपिणः ॥ ९५० ॥
रथं ज्ञानानन्दमयमश्वो मुक्ततुरङ्गमः ।
सुखं सुखेनैव वोढा पर्यक्प्रापयिता किल ॥ ९५१ ॥
सुरोत्तमटीका
ज्ञानानन्दप्रधानं दर्शनाय सुखकरं चेत्यर्थः ॥ ९५१ ॥
सत्यप्रमोदटीका
‘अश्वो वोढा सुखं रथं हसनामुपमन्त्रिणः । शेपो रोमण्वन्तौ भेदो वारिन्मण्डूक इच्छतीन्द्रायेन्दो परिस्रव’ इति वाक्यं विवृणुते यत्रेति । सुखं सुखकरम् ॥ ९५०, ९५१ ॥
युक्तिमल्लिका
रोमण्वन्तौ रोमवन्तौ मेषौ ज्ञानशरीरिणौ ।
तौ भेदौ पुरतस्तस्य मिथस्ताडनकारिणौ ॥ ९५२ ॥
सुरोत्तमटीका
तस्य मेषद्वयस्य ॥ ९५२ ॥
सत्यप्रमोदटीका
भेदौ परस्परं परिहासार्थं शिरस्ताडनं कुर्वन्तौ । न तु विरोधेन । तदुक्तं भाष्ये ‘नानाविधा जीवसङ्घा विमुक्तौ न चैव तेषां ब्रह्मधियां विरोधः । दोषाभावाद्गुरुशिष्यादिभावाल्लोकेऽपि नासौ किमु तेषां विमुक्तेरि’ति ॥ ९५२ ॥
युक्तिमल्लिका
सुखं सुखेनैव दुःखं वैराद्यं तु न किञ्चन ।
मुक्तत्वात्तस्य शेपोऽण्डं महत्सुखमयं सदा ॥ ९५३ ॥
हसनां मन्त्रिणस्तस्य वोढारौ यत्र लीलया ।
यद्भिन्त इति भेदौ च स्यातां भेदनकारिणौ ॥ ९५४ ॥
सुरोत्तमटीका
महच्छ्रेयो ऽखण्डसुखं सुखमयमिति प्राचीनसुख-पदावृत्त्या अर्थान्तरकथनम् । अस्मिन्पक्षे शेषः पदस्य यथास्थितविभक्तिरेवेति गुणः ॥ ९५३,९५४ ॥
युक्तिमल्लिका
यदित्थं यत्र मण्डूका वाः सरोवरवारि च ।
इच्छन्ति चित्सुखाकारास्तत्र माममृतं कृधि ।
जात्येकवचनं चेदमेकभेकं सरः क्व तत् ॥ ९५५ ॥
सुरोत्तमटीका
यद्यस्मात् ॥ ९५५ ॥
सत्यप्रमोदटीका
वारि उदकं प्रवेष्टुमिति शेषः । एतेन मुक्तावपि स्वस्वजातिस्वभावानुवृत्तिः स्वेच्छयेति ज्ञाप्यते ॥ ९५५ ॥
युक्तिमल्लिका
एवं नानाविधा मुक्ता यत्र तत्रामृतं कृधि ।
इत्युक्त्या तद्गजीवानां मुक्तत्वं सुतरामभूत् ॥ ९५६ ॥
सुरोत्तमटीका
तद्गजीवानां लोकस्थमण्डूकादिजीवानाम् ॥ ९५६ ॥
युक्तिमल्लिका
तदुत्तरर्चां चर्चा च किञ्चित्किञ्चिद्विविच्यते ।
अमृते अक्षिते यत्र लोके सुकृतकर्मभिः ।
सुष्ठु चीर्णनिवृत्ताख्यमुक्तिसाधनकर्मभिः ॥ ९५७ ॥
देवैर्महीयते विष्णोः परमं तत्पदं सदा ।
तत्रामृतं मां कृधीन्दो पवमानेष्टदायक ॥ ९५८ ॥
इन्द्राय परमैश्वर्यसम्पन्नाय परिस्रव ।
परितः स्रावयेन्द्रं तमुद्दिश्य प्रापयाशु माम् ॥ ९५९ ॥
णिचोंऽतर्नीतता तस्य सह प्राप्तिविवक्षया ।
इत्यर्थानां मुमुक्षूणां कर्णेऽद्यापि जपन्ति याम् ॥ ९६० ॥
सत्यप्रमोदटीका
अमृते इति लोकस्थानां मरणं नास्तीति भावः । अक्षिते इति लोकस्यैव स्वरूपतो नाशाभाव इत्यर्थः । अतो न पुनरुक्तिः । मन्त्रस्थस्य ‘सत्येन’ इति पदस्यार्थः सुकृतकर्मभिरिति । ‘सत्यं यथार्थविज्ञानं सत्यं तत्पूर्विका कृतिरि’ति वचनात् ॥ ९५७–९६० ॥
युक्तिमल्लिका
यत्रानन्दाश्च मोदाश्च मुदः प्रमुद आसते ।
कामस्य यत्राप्ताः कामास्तत्र माममृतं कृधि ॥ ९६१ ॥
इति श्रुतेः शिरः पाणिद्वयमध्यांघ्रिरूपिणः ।
प्रियमोदप्रमोदानन्दमुदाख्याः सदासते ॥ ९६२ ॥
सत्यप्रमोदटीका
यत्रेति मन्त्रवाक्यम् । प्रिया इत्यपि ग्राह्यम् ॥ ९६१,९६२ ॥
युक्तिमल्लिका
कामाप्तिव्यक्ततत्सौख्यं यतस्तेषां मनःप्रियम् ॥ ९६३ ॥
सुरोत्तमटीका
कामाप्तिव्यक्तं, तत्सौख्यं तेषां मुक्तानां प्रियाख्यं सौख्यं यतस्तेषां मनः प्रियम् अतस्तथोच्यते ॥ ९६३,९६४ ॥
सत्यप्रमोदटीका
तस्य प्रियमेव शिरः मोदो दक्षिणः पक्षः, प्रमोद उत्तरः पक्षः, आनन्द आत्मा, ब्रह्म पुच्छं प्रतिष्ठा’ इति उपनिषदनुसारेण व्याख्याति इतीति । अनुव्याख्याने (४-२-१) उदाहृतोऽयं श्लोकः । अत्र सुधा ‘आनन्दादिशब्दाः सुखविशेषाणां वाचकाः कामस्य कामा इच्छाया विषयाः । आप्ताः पर्याप्ताः । कृधि कुरु इति वायुं प्रति प्रार्थनमि’ति । उपकारजं प्रियम् । प्रकृष्टाप्रकृष्टविषयोत्थौ मोदप्रमोदौ । स्वरूपभूत आनन्दः ॥ ९६३ ॥
युक्तिमल्लिका
आनन्दमयरूपस्य हरेः सारूप्यमीयुषः ।
मुक्तांश्च तादृशाकारान्सर्वान्शंसति सा श्रुतिः ॥ ९६४ ॥
प्रत्येकं बहुतां यस्मादानन्दादेश्च सा जगौ ।
एवं च तत्सरूपाणां मुक्तानामाकृतेर्बलात् ॥ ९६५ ॥
आनन्दमयपादस्य ब्रह्मपुच्छमिति श्रुतिः ।
पूर्णमुद्रूपतामेव प्राह पूर्वसमाख्यया ॥ ९६६ ॥
सुरोत्तमटीका
बहुताम् आनन्दाश्च मोदाश्चेत्यादिना बहुताम् । एवम् आनन्दादीनां बाहुल्योक्तिबलेन मुक्तानामप्यत्र ग्राह्यत्वात् । तत्सरूपाणां तस्य विष्णोः समानरूपाणाम् । आकृतेर् बलाद् युक्तिबलात् । पञ्चानन्दरूपतां जगाविति पूर्वेणान्वयः ॥ पूर्णमुद्रूपतां संपूर्णमुदाख्यानन्दविशेषरूपताम् । पूर्वसमाख्यया यजुर्वेदात् पूर्वं विद्यमानऋग्वेदस्थैतद्वाक्यसमाख्यया । तस्मिन्नेव पूर्वोक्तमोदादि सुखसमाख्यया वा ॥ ९६५,९६६ ॥
सत्यप्रमोदटीका
तादृशेति तेन मुक्तजीवनिष्ठानां प्रियादीनां भगव-न्निष्ठानन्दविशेषप्रतिबिम्बत्वं ज्ञाप्यते । मुद इत्यादिना तद्वन्तो मुक्ता उच्यन्ते । तेन तेषां बहुत्वं ज्ञायते इत्याह बहुतामिति । बलात् तदधीनत्वतत्सादृश्य-हेतोः । पूर्वसमाख्यया ऋग्वेदसमाख्यया ॥ ९६४-९६६ ॥
युक्तिमल्लिका
प्रियादिपूर्णतां तत्तच्छ्रुतिरेतत्समाख्यया ।
शंसतीत्येव सिद्धोऽर्थो नोचेद्व्यर्थाऽत्र तत्कथा ॥ ९६७ ॥
सुरोत्तमटीका
तत्तच्छ्रुतिस् तस्य प्रियमेव शिर इत्यादिश्रुतिः । एत-त्समाख्यया ब्रह्म पुच्छमिति श्रुतिसमाख्यया शिरःपाण्यादीनां सुखरूपत्व-सिद्धिः । पादस्य ब्रह्मपदेन पूर्णत्वकथनात् शिरःपाण्यादीनामपि पूर्णत्वसिद्धिः । अन्यथैकरूपस्थपञ्चावयवानां वैरूप्यप्रसङ्ग इति भावः । अत्र मुक्तप्रकरणे । तत्कथा मुदाख्यसुखकथा ॥ ९६७ ॥
सत्यप्रमोदटीका
एतत्समाख्यया ब्रह्म पुच्छमिति श्रुतिसमाख्यया । शंसति पादस्य ब्रह्मशब्देन पूर्णत्वकथनात् । नो चेद् बिम्बभूतस्य आनन्द-मयस्य शिरः करमध्यदेहचरणानाम् आनन्दपरिपूर्णत्वज्ञापनाभिप्रायाभावे । अत्र मुक्तप्रकरणे । तत्कथा मोदादिसुखविशेषशंसनम् ॥ ९६७ ॥
युक्तिमल्लिका
यत्स्वाकृत्या मुकुन्दस्य मुक्ता निर्णिन्युराकृतिम् ।
तत्तीर्णसरितोऽप्येते तारकं न विसस्मरुः ॥ ९६८ ॥
सुरोत्तमटीका
यद्यस्माद् एते मुक्ताः । तारकं नारायणम् ॥ ९६८–८७१ ॥
सत्यप्रमोदटीका
निर्णिन्युः परमात्मा निरवधिकानन्दाकृतिर् यथा-योग्यं पूर्णानन्दाकृत्युपेतमुक्तान् प्रति बिम्बभूतत्वाद् इति स्वयं हेतूभूय इति भावः । तीर्णसरित इति ‘इमां घोरामशिवां नदीं तीर्त्वा एतं सेतुमाप्य एतेनैव सेतुना मोदते प्रमोदते आनन्दी भवति’ इति भाष्योक्तेः । तारकस्य ‘ज्ञानिनां मोक्षदश्च सः’ इत्युक्तेः । न विसस्मरुर् निरन्तरं स्मरन्ति । स्वभावादेव न तु प्रयोजनापेक्षयेति भावः ॥ ९६८ ॥
युक्तिमल्लिका
यत्र ब्रह्मा च मुक्तोऽस्ति यत्र ब्रध्नस्य विष्टपम् ।
मुक्तसूर्यस्य सदनं यत्र वैवस्वतो यमः ॥ ९६९ ॥
मुक्तः सन्रञ्जनात्तेषां राजा न तु भयङ्करः ।
दिवोऽवरोधनं यत्र स्वर्गान्तःपुरयोषितः ॥ ९७० ॥
मुक्ताः सत्यः स्वर्गिभिस्तैर्मुक्तैः सह किलासते ।
मुक्तब्रह्मादिदेवानामास्थानी किल सा पुरी ॥ ९७१ ॥
सत्यप्रमोदटीका
ब्रह्मा समुदायैकवचनम् । मुक्तब्रह्मगणाः । ब्रध्नस्य विष्टपं सूर्यस्यासनम् । यमः रञ्जकः न तु मृत्युप्रदत्वेन भीषकः । अवरोधनम् अन्तःपुरम् ॥ ९६९–९७१ ॥
युक्तिमल्लिका
नित्यं यत्र किल ज्योतिः किं वाच्या तस्य नित्यता ।
निर्दुःखत्रिपुरीरूपा सापि नाकाभिधा किल ॥ ९७२ ॥
सुरोत्तमटीका
यत्र ज्योतिरजस्रमित्यस्यार्थकथनम् ॥ नित्यं यत्र किलेति ॥ त्रिनाकपदस्यार्थकथनम् ॥निर्दुःखत्रिपुरीरूपेति ॥९७२ ॥
सत्यप्रमोदटीका
नित्यं लक्ष्मीस्वरूपत्वात् । त्रिपुरीति अनन्तासन-श्वेतद्वीपवैकुण्ठरूपेत्यर्थः । नाकाभिधा ‘ते ह नाकं महिमानः सचन्त’ इति प्रसिद्धा । कं सुखं, अकं दुःखं, तेन सर्वात्मना रहितम् इति व्युत्पत्तेः । ‘यन्न दुःखेन संभिन्नम्’ इत्यादितल्लक्षणात् ॥ ९७२ ॥
युक्तिमल्लिका
इतोऽन्या याऽदिमुक्तिः स्यात्सैव प्रार्थ्या मुमुक्षुभिः ।
प्रत्यृचं प्रार्थ्यमानेयं महामुक्तिर्न संशयः ॥ ९७३ ॥
सुरोत्तमटीका
इत एतद्वर्गचतुष्टयोक्तभगवल्लोकात् ॥ ९७३–९७६ ॥
सत्यप्रमोदटीका
अन्या तमसा मुष्टदृष्टिभिर् नानामतसमाश्रयात् कल्प्यमाना निर्विशेषभावादिरूपा ॥ ९७३ ॥
युक्तिमल्लिका
एवं च पवमानस्य गुरुत्वे मुक्तिमीयुषाम् ।
बहुत्वे विष्णुसेवित्वे तल्लोकस्य क्षयोज्झितौ ॥ ९७४ ॥
तत्प्राप्तेर्मुख्यमोक्षत्वे तत्र जात्यपरिक्षये ।
भेदस्य परमार्थत्वे तद्गानां मृतिवर्जने ॥ ९७५ ॥
सत्यप्रमोदटीका
गुरुत्वे इत्यादि सप्तम्यन्तानां निःशङ्को भवेत्युत्तरे-णान्वयः । जात्यपरिक्षये स्वभावजातीनां मेषमण्डूकादीनाम् अवस्थितेः श्रौतत्वात् ॥ ९७४,९७५ ॥
युक्तिमल्लिका
विष्णोः परमदैवत्वे तदन्यब्रह्मवर्जने ।
निःशङ्को भव दुर्मार्गं त्यज भक्त्या भज प्रभुम् ।
यद्वाङ्निरवकाशेयं तद्दोग्ध्यखिलमीप्सितम् ॥ ९७६ ॥
सत्यप्रमोदटीका
इयं सोमसूक्तस्था पञ्चवर्गचतुष्टयात्मिका । ईप्सितं सर्वशास्त्रतात्पर्यार्थं पुरुषार्थचतुष्टयं च ॥ ९७६ ॥
युक्तिमल्लिका
अतः शुभगुणांभोधिः शुद्धः सर्वविलक्षणः ।
सत्यविश्वाश्रयो मुक्तामुक्तेशो जयति प्रभुः ॥ ९७७ ॥
सुरोत्तमटीका
सौरभपञ्चकार्थमनूद्य भगवन्तं स्तुवन् वस्तुनिर्देशाख्य-मङ्गलेन ग्रन्थमुपसंहरति ॥ अत इति ॥ ९७७ ॥
सत्यप्रमोदटीका
सौरभपञ्चकार्थं विशेषणपञ्चकेन क्रमेण सङ्गृह्णन् महातात्पर्यं दर्शयति अत इति । जयति सर्वोत्कृष्टो वर्तते । भक्तानां संसारम् अभिभवति मोक्षदानेन । उभयत्र हेतुः प्रभुः स्वतन्त्र इति ॥ ९७७ ॥