नापि तत्प्रेरको ब्रह्मा नेशो नेन्द्रोऽपरे कृतः
हरिरेवाखण्डाधिपतिः
युक्तिमल्लिका
नापि तत्प्रेरको ब्रह्मा नेशो नेन्द्रोऽपरे कृतः ।
अङ्घ्य्रर्चनेन तत्तीर्थजुष्ट्या तद्दत्तभूत्वतः ॥ ७३१ ॥
सुरोत्तमटीका
सन्तु ब्राह्मशैवादिमतरीत्या ब्रह्मशिवादय एव कर्म-नियामका इत्यत आह ॥ नापीति ॥ तत्प्रेरकः कर्मप्रेरकः । अपरे स्कन्द-सूर्यविनायकादयः । अङ्घ्य्रर्चनेन बाह्यजलधारया अङ्घ्रिप्रक्षालनरूपार्चनेन । तत्प्रेरको ब्रह्मा नेति सम्बन्धः । सा श्रीः स्ववासमरविन्दवनं विहाय यत्पाद-सौभगमलम्भजतेऽनुरक्तेति भागवतवचनात् हर्यङ्घ्रिसेवकशक्त्यात्मकलक्ष्म्या अपि जगत्कर्तृत्वाभावसूचनाय अङ्घ्य्रर्चनेनेत्युक्तम् । अन्यथा क्षालनेनेत्यवक्ष्यत् । तत्तीर्थजुष्ट्या अङ्घ्रितीर्थजुष्ट्या शिवो नेति सम्बन्धः । तद्दत्तभूत्वतस् तेन विष्ण्वङ्घ्रिणा दत्ता भूस् त्रैलोक्यपदवी यस्येन्द्रस्य तस्य भावस् तस्मात् । इन्द्रो नेति सम्बन्धः । इतरदेवानामेतदाज्ञाधारित्वात् कर्मप्रेरकत्वाभावः कैमुत्यसिद्ध इति भावेनोक्तमपरे कुत इति । अङ्घ्रिपदप्रयोगादेव ईश्वरस्याशरीरतां वदन्तस्तार्किकादयोऽपि निरस्ताः । हरेरन्यस्य कस्यचिन्निराकारस्येश्वरस्य सद्भावे सर्वज्ञा ब्रह्मादयस्तमेव पूजयेयुः । न च तदस्ति । तस्माद्धरिरेवेश्वर इति भावः ॥ ७३१ ॥
सत्यप्रमोदटीका
अपार्याप्तशक्त्यादिमत्वरूपहेतुमत्तया श्रीब्रह्मादयोऽपि पक्षसमा एवेत्याह नापि इति । हेतोस्तेष्वसिद्धिं प्रत्याह अङ्घ्रीति ‘अव्यक्तं शुश्रूषुर्नृपसत्तम’ इत्यनेन श्रियः, विरिञ्चोपहृतार्हणाम्भ’ इत्यनेन शिवस्य, ‘वसु स्पार्हमुत जेतोत दाता’ इत्युक्तदिशा वामनरूपेण दत्तत्रैलोक्यैश्वर्यवत इन्द्रस्य एवमितरेषां स्कन्दादीनां स्वातन्त्र्याभावोऽवसेयः ॥ ७३१ ॥
युक्तिमल्लिका
किञ्च सृज्यं वशे स्रष्टुर्हार्यं हर्तुर्वशे परम् ।
पातुर्वशे स्थितं सर्वमतो विष्णोर्वशेऽखिलम् ॥ ७३२ ॥
सुरोत्तमटीका
सृष्टिकर्ता ब्रह्मा स्थितिकर्ता विष्णुः, संहारकर्ता रुद्र इति सार्वजनीनतया प्रतिसिद्धप्रमेयेनापि विष्णोरेव सर्वेश्वरतां साधयति ॥ किं चेत्यादिना श्लोकषट्केन ॥ सृज्यं सृष्टियोग्यं वस्तु तदेव स्रष्टुःब्रह्मणो वशे न तु सृष्टिशून्यं कालाकाशादिकं, सृष्टेरेव तदधीनव्यापारत्वादिति भावः । हार्यं संहारयोग्यम् । तदेव संहर्तुःशिवस्य वशे । संहारस्यैव तदधीनव्यापारत्वात् । यतः स्थितं स्थितिमत् सर्वं कालाकाशादि सकलजगत् पातुः स्थितिकर्तु-र्नारायणस्य वशे अत इति सम्बन्धः । जन्ममरणशून्यानामप्यनादिनित्यानां स्थितिरहितं वस्त्वस्तीत्यस्य व्याहतत्वेन स्थितेरवश्यं वक्तव्यत्वात् तस्याश्च विष्णुव्यापारत्वेन स्थितिमतः सर्वस्यापि विष्णुवशत्वावश्यम्भावाद् विष्णुरेव सर्वेश्वरः । न तु ब्रह्मशिवादय इति भावः ॥ ७३२ ॥
सत्यप्रमोदटीका
किञ्च सादेरेव ब्रह्मणा सृष्टिर् अनित्यस्यैव शिवेन संहारः किन्तु असङ्कोचेन सर्वस्यापि विष्णुना पालनम् इति सर्वस्य जगतो विष्णोरेव वशत्वं सिद्ध्यतीत्याह किञ्चेति ॥ ७३२ ॥
युक्तिमल्लिका
यत्कर्तुश्च स्थितिर्वाच्या हर्तुश्चावश्यकी स्थितिः ।
न ह्यसत्कारणं दृष्टं ब्रह्मेशौ तद्वशौ हरेः ॥ ७३३ ॥
सुरोत्तमटीका
यद् यस्मात् कर्तुः स्रष्टुः । असत् स्थितिरहितम् । अविद्यमानं शशविषाणादिकं वा । अजातनष्टघटादिकं वा । स्थितिरहितत्वा-देव हि तद् अकारणम् । एवं च सृष्टिसंहारकारणतया ब्रह्मशिवयोः स्थिति-
रवश्यं वाच्येति भावः । तत्तस्मात् हर्यधीनस्थितिसापेक्षत्वात् । उपलक्षणं चैतत् । स्थितिरहितवस्तुनः कारणत्वासम्भववत्सृष्टिसंहाररहितवस्तुनः कालादेः कारणत्वासम्भवाभावेन विष्णोरपि नित्यतया तद्वत्कारणत्वसम्भवात् । न विरुद्धव्यापाराधीनत्वम् । अत एव न तद्वशत्वमित्यपि द्रष्टव्यम् ॥ ७३३ ॥
सत्यप्रमोदटीका
ब्रह्मशिवयोः सृष्टिसंहारौ प्रति कारणत्वं तयोः पूर्ववृत्तित्वरूपस्थितिमपेक्षते । अन्यथा कारणत्वलक्षणव्याघातात् । सा च स्थितिर्विष्ण्वधीना । अतस्तयोरपि विष्णुवशत्वसिद्धिरित्याह यदिति । असद् देशकालसम्बन्धरूपस्थितिरहितम् । तत् तस्मात् ॥ ७३३ ॥
युक्तिमल्लिका
यतश्च स्वस्थितिः स्वीयव्यापारत्वात्स्वतो हरेः ।
अतः स्वतन्त्रता तस्य सिद्धा सिद्धार्थपद्धतेः ॥ ७३४ ॥
सुरोत्तमटीका
स्वस्थितिः स्वस्य विष्णोःस्थितिः । यद्यपि स्थिति-र्विष्णोरप्यपेक्षिता । अन्यथा कारणत्वस्यैवायोगात् । तथापि स्थितेर्विष्णु-व्यापारत्वेन विष्ण्वधीनैव सा स्यात् । तेन च विष्णोः स्वाधीनप्रवृत्तिमत्व-रूपस्वातन्त्र्यमेव सिद्ध्येन् न तु ब्रह्मरुद्रयोरिव पराधीनत्वमिति भावः ॥ ७३४ ॥
सत्यप्रमोदटीका
स्वयं सत्तानियामकत्वाद् विष्णोः सत्ता न परापेक्षेति तस्य स्वतन्त्रताऽपि सिद्ध्यतीत्याह यत इति ॥ ७३४ ॥
युक्तिमल्लिका
न ह्यण्डजः सृजेदण्डमहङ्कारं हरो हरेत् ।
महत्तत्वं कुतः सृष्टं कुतो नष्टं विचार्यताम् ॥ ७३५ ॥
सुरोत्तमटीका
सृष्टिसंहारावपि न सर्वौ ब्रह्मरुद्राधीनाविति भावेनोक्तम् ॥ न हीति ॥ अण्डजो ऽण्डान्तरवर्तिपद्मनाभनाभिकमलाज्जातः सत्यलोकाधि-पतिश् चतुर्मुखब्रह्मेत्यर्थः । अस्य स्वोत्पत्तेः पूर्वं विद्यमानाण्डस्रष्टृत्वम् अण्डा-त्पूर्वमेव सृष्टचतुर्विंशतितत्वस्रष्टृत्वम्, अण्डान्तरेऽपि पाद्मकल्पातिरिक्त-दैनन्दिनकल्पेषूत्पन्ननानापदार्थस्रष्टृत्वं च नास्ति । एतदुभयस्याप्यण्डपदमुप-लक्षणम् ।
हरस्य च कालाग्निरुद्रजनको मुसलास्त्रो हलायुध इति वासुदेवसहस्रनामसु पाठात् । केवलं शेषस्यैव ग्रहणे वासुदेवसहस्रनामत्वायोगेन सङ्कर्षणमुखानल इति भागवतोक्त्या च शेषान्तर्गतसङ्कर्षणाख्यभगवतो मुखादभिमानि-भूतकालाग्निरुद्रेण सह प्रलयकाले उत्पन्नस्य जगतो दाहे करणभूतकालाग्नेः सकाशाज् जलावरणान्तर्गतब्रह्माण्डदाहे जायमाने लङ्कादाहकहनुमद्वत् त्रिपुरदाहकशिववच्च जगद्दाहे कर्तृत्वं सङ्कर्षणस्यैव । भगवदाज्ञया शिवेनापि त्रिशूलं सङ्गृह्य दह्यमाने जलान्तर्जगति स्थितानां दाहान्तरेऽपि स्थित्वा स्वस्वाहुतिगृहीतत्वेनादह्यमानानां स्वावरदेवादीनां हननात्तावन्मात्रसंहर्तृत्व-सम्भवेऽपि तदन्तरजीवजडात्मकजगतां दैनंदिनकल्पे संह्रियमाणजगतां च संहर्तृत्वाभावान्न सर्वसंहर्तृत्वम् अहङ्कारात्मकशिवस्य । भगवतैव क्रियमाणे अण्डोपरिस्थितचतुर्विंशतितत्वसंहारे आकाशाभिमानिविनायकान्तस्य बुद्धीन्द्रियाभिमानिपार्वत्यन्ततात्विकदेवतासमूहस्य कथंचिदेवान्तरसंहर्तृत्वम् । सङ्कर्षणमुखानलेनैव दह्यमानजगत्संहर्तृत्वं च न कथञ्चिदपि । अतो न तस्यापि सर्वसंहर्तृत्वम् । महत्तत्वाभिमानिनो ब्रह्मणश्च,
जगृहे पौरुषं रूपं भगवान्महदादिभिः ।
सम्भूतं षोडशकलमादौ लोकसिसृक्षया ॥
इति वचनात् । पुरुषरूपेण भगवता सृज्यमानाहङ्कारादिपिपीलिकान्त सकलजगत्सृष्टावन्यथासिद्धत्वेन पाद्मसृष्टौ च पाद्मब्रह्मणैवान्यथासिद्धत्वेन न जगत्स्रष्टृत्वं महत्तत्वस्याहङ्कारतत्वं प्रत्युपादानकारणतया तदभिमानिनो ब्रह्मणोऽपि कारणत्वमेव न कर्तृत्वम् । कारणे कर्तृत्वोपचारेऽपि स्वशरीर-भूतमहत्तत्वं प्रति नतरां कर्तृत्वम् । अतः सर्वत्र स्वतन्त्रतया मुख्यतः कारणीभूतस्य हरेरेव सर्वस्रष्टृत्वं सर्वसंहर्तृत्वं च । विधिरुद्रयोस्तु कथञ्चि-त्स्वयोग्यकतिपयजगत्स्रष्टृत्वसंहर्तृत्वसम्भवेऽपि सकलजगत्स्रष्टृत्वसंहर्तृत्वे न कथंचिदपि घटेते । अत एव सूत्रे श्रुतौ च परब्रह्मण एव जगत्स्रष्टृत्वादिकं लक्षणतयाऽभिहितम् । ससर्ज भगवानित्यारभ्य तस्मिंस्तु भगवान्भूयो भुवनानि चतुर्दशेत्यन्ताः प्राचां वाचश्चेति भावः ॥ ७३५ ॥
सत्यप्रमोदटीका
‘स्रष्टा पाता तथैवात्ता निखिलस्यैक एव तु । वासुदेवः परः पुंसामितरेऽल्पस्य वा न वा’ इति भाष्यवचनमनुरुध्याह नेति । अण्डं स्वविग्रहम् । ‘ततः कूटस्थमसृजद्ब्रह्माण्डविग्रहम्’ इत्युक्तेः । अहङ्कारं शिवविग्रहं ‘महत्तत्वादहङ्कारं ससर्ज शिवविग्रहं’ इति वचनात् । महत्तत्वस्य ब्रह्मणस्तनुत्वेन न ब्रह्मणा सृष्टिर् आत्माश्रयात् । न रुद्रेण नाशः ब्रह्मण्येव तस्य विलीनत्वेन तदानीमसतस् तन्नाशकारणत्वायोगात् । अतः हरिणैव तत्सृष्टिसंहाराविति भावः । अतो जन्मादिहेतुत्वं तस्यैव स्वलक्षणमिति भावः ॥ ७३५ ॥
युक्तिमल्लिका
अतः स्वयोग्यकार्यस्य कर्तारौ तौ हरीच्छया ।
हरिस्तु कर्ता सर्वस्य भर्ता हर्ता त्रिशक्तिधृत् ॥ ७३६ ॥
सुरोत्तमटीका
त्रिशक्तिधृदित्यनेन सृजामि तन्नियुक्तोऽहं हरो हरति तद्वशः । विश्वं पुरुषरूपेण परिपाति त्रिशक्तिधृदिति भागवतवचनमुक्तार्थे प्रमाणं सूचयति । त्रिशक्तिधृत् सृष्टिस्थितिसंहाराख्यव्यापारत्रयोचितशक्ति-त्रयधारी । इदं च तन्नियुक्तोऽहमित्यत्रोक्तनियोगो बहिस्स्थितराज्ञ इव नाज्ञा-मात्रं शक्तिमदागमनं विना शक्तेरागमनायोगेन बहिस्स्थितभगवच्छक्तेर्ब्रह्मणि शिवे च प्रवेशायोगाद् भगवत्येव त्रिशक्तिधृदित्युक्त्या ब्रह्मशिवयोः पृथक् शक्त्यभावाच्च । अतः स्वाविष्टभूतशक्त्या स्वसाध्यमपि कार्यं कुर्वन् पुरुष इव ब्रह्मा पाद्मे कल्पे स्वाविष्टभगवच्छक्त्या भगवत्सन्निधानोद्भूताल्पस्वशक्त्या च स्वावरदेवादीनां सृष्टिमात्रं करोति । तत्रापि स्थितिसंहारौ भगवानेव करोति । शिवश्च दैनन्दिनसंहारेष्वन्तिमसंहारेष्वाविष्टभगवच्छक्त्या तद्दत्ताल्पस्वशक्त्या च स्वावरदेवादीनां संहारमात्रं करोति । तत्रापि सृष्टिस्थिती भगवानेव करोति । तावपि सृष्टिसंहारौ मुख्यतो भगवानेव कुरुते । तदितरसृष्टिसंहारांस्तु केवलं भगवानेव कुरुत इति सूचनार्थमुक्तं भगवत्पादाचार्यैः
शेषाहिवैरिशिवशक्रमनुप्रधानचित्रोरुकर्मरचनं यदपाङ्गलेशम् ।
आश्रित्य विश्वमखिलं विदधाति धाता श्रीर्यत्कटाक्षबलवत्यजितं नमामि ॥
शक्रोग्रदीधितिहिमाकरसूर्यसूनुपूर्वं निहत्य निखिलं यदपाङ्गलेशम् ।
आश्रित्य नृत्यति शिवः प्रकटोरुशक्तिः श्रीर्यत्कटाक्षबलवत्यजितं नमामीति ॥
नितरां योगो नियोग इति वशता च तदिन्द्रियाणां भगवदिन्द्रियचेष्टयैव चेष्टनमिति उभयत्राप्यन्तःप्रवेश एव लभ्यते । अत एवोक्तं भागवते
प्रसुप्तलोकतन्त्राणां निशाम्य गतिमीश्वरः ।
चतुर्विंशतितत्वानां गणं युगपदाविशत् ।
सोऽनुप्रविष्टो भगवान् चेष्टारूपेण तं गणम् ।
भिन्नं संयोजयामास सुप्तं कर्म प्रबोधयन्निति ॥ ७३६ ॥
सत्यप्रमोदटीका
‘सृजामि तन्नियुक्तोऽहं हरो हरति तद्वशः । विश्वं पुरुषरूपेण परिपाति त्रिशक्तिधृत्’ इति नारदं प्रति चतुर्मुखवचनमपि (भा.२-६-३१) अस्मिन्विषये प्रमाणयति । अत्र ‘त्रिशक्तिधृत्’ इत्यनेन ब्रह्मशिवयोः शक्तिरपि भगवदधीनेति हरेश्च अन्तःस्थित्वा तयोः प्रेरकत्वं चेति ज्ञायते ॥ तदुक्तमनुव्याख्याने (१-२-१३) ‘अन्तःस्थित्वा रमणकृदन्तरः समुदाहृतः’ इति ॥ ७३६ ॥
युक्तिमल्लिका
न पिताऽधिपतिर्नृणां न हर्ता यामिकोऽपि वा ।
किन्तु रक्षक एवातो विष्णुरेव जगत्पतिः ॥ ७३७ ॥
सुरोत्तमटीका
लोकरीत्यापि स्रष्टुर्हर्तुश्च न सर्वाधिपत्यम् । किन्तु रक्षकस्येति स्पष्टीकर्तुमुदितम् ॥ न पितेति ॥ अनेन स्रष्टुर्नाधिपत्यमिति सूचितम् । यामिकपदेन त्रियामा यामत्रयेऽप्युत्थाय पुरं पालयन् पुरुषोऽभि-धीयते । तस्यैवापराधिनां शिरश्छेदेऽप्यधिकाराद्धर्त्तेत्युक्तम् । अनेन च संहर्तुर्नाधिपत्यमिति सूचितम् । रक्षकपदेन धनभूवेतनदानादिना सकलप्रजानां रक्षणापरपर्यायस्थितिकृद्राजोच्यते । अतो लोके स्थितिकर्तुरेव जगत्पतित्व-दर्शनात् स्थितिकर्तुर्विष्णोरेव सकलजगत्पतित्वमिति भावः ॥ ७३७ ॥
सत्यप्रमोदटीका
लोकरीत्यापि रक्षकस्यैवाधिपतित्वमित्याह नेति । पिता केवलं जन्महेतुः । यामिकः रात्रौ प्रबुध्य तिष्ठन् चोराणां संहारे अधिकृतः । अतः हर्ता इत्युक्तः । नृणाम् अधिपतिर् नृपतिशब्दव्यवहारविषयो नेति प्रत्येकं सम्बन्धः । रक्षकः सर्वप्रकारेण योगक्षेमनिर्वाहकः । ‘इन्द्रो वह्निः पितृपति’रित्यादिनोक्ततत्तद्दिङ्मात्रपतित्वेन सन्ध्योपासने इन्द्रादीनां वन्दनं क्रियते तेन ते खण्डाधिपतयः । विष्णुस्तु नैवमित्याह तदभावादिति । दिग्विशेषानिर्देशेन निर्विशेषेण ‘नमोऽस्त्वनन्ताय सहस्रमूर्तये’ इति ‘ब्रह्मण्यो विष्णुरच्युत’ इति ‘नमो विष्णवे महते करोमि’ इति च निर्देशात् ‘मुख्यस्य निर्विशेषेण’ इति न्यायेन स एव ‘जगद्धिताय कृष्णाय गोविन्दाय नमो नमः’ इति वन्दितत्वेन जगत्पतिरित्याह जगत्पतिरिति ॥ ७३७, ७३८ ॥
युक्तिमल्लिका
दशदिक्पतिभावेन देवा ब्रह्मेशपूर्वकाः ।
खण्डाधिपतयो विष्णुस्तदभावाज्जगत्पतिः ॥ ७३८ ॥
सुरोत्तमटीका
संध्यावन्दनमात्रवेदिभिरपि हर्यन्यदेवतानां खण्डाधि-पतित्वं हरेश्च परिशेषादखण्डाधिपतित्वमेव वक्तव्यमित्याह ॥ दशदि-क्पतिभावेनेति ॥ प्राच्यादिदशदिशां पतित्वेनेत्यर्थः । तदभावाद् दशदिक्षु एकदिशोधिपतित्वाभावात् । न हि संध्यावन्दनकारिणोऽपि एकस्यां दिशि इन्द्रादीनिव विष्णुमपि कस्याश्चिद्दिशः पतित्वेन नमन्ति । तस्मादिन्द्रादि-वद्विष्णोरप्येकस्या दिशः पतित्वं न कल्पयितुं शक्यम् । महापुरुषस्य च तस्य सर्वथा आधिपत्याभावोऽपि न वक्तुमुचितः । अतः परिशेषाद्विष्णुः सकल-जगतां पतिरिति भावः ॥ ७३८ ॥
युक्तिमल्लिका
अखिलैर्लोकपालैश्चाप्यदृश्यः सन्नुरुश्च सन् ।
तेषामन्तर्बहिश्च त्वं सदा विचरसीति वाक् ॥ ७३९ ॥
सुरोत्तमटीका
अन्तर्बहिश्चाखिललोकपालकैरदृष्टरूपो विचरस्युरुश्चनः। स ईश्वरस्त्वं य इदं वशेन यन्नात्मा यथा दारुमयीं नरस्स्त्रियम् । यल्लोकपालाः किल मत्सरज्वरान् हित्वा यतन्तोऽपि पृथक् समेत्य च । पातुं न शेकुर्द्विपद-श्चतुष्पदस्सरीसृपस्थास्नु यदत्र दृश्यत इति पञ्चमस्कन्धस्थमनुवचनमर्थ-तस्सङ्गृह्णन् इतरदेवतानां खण्डाधिपत्यं तत्रापि हरिप्रेरणां विना स्वतः सामर्थ्याभावं हरेश्च सर्वेषामन्तर्बहिःप्रेरकतया सर्वेश्वरत्वं तेषां सर्वेषां तद्वशत्वं च न केवलं युक्तिसिद्धं किन्तु प्रमाणमूलमपीत्याह ॥ अखिलैरिति ॥ तेषां लोकपालनाम् इदं च नो ऽस्माकम् उरुरिति मनोर्बहुवचनप्रयोगेण स्वसमान-लोकपालानां ग्रहणाल्लभ्यते ॥ ७३९ ॥
सत्यप्रमोदटीका
‘अन्तर्बहिश्चाखिललोकपालकैरदृष्टरूपो विचरस्युरुश्च नः । स ईश्वरस्त्वं य इदं वशे नयन्नात्मा यथा दारुमयीं नरः स्त्रियम् । यं लोकपालाः किल मत्सरज्वरान् हित्वा यतन्तोऽपि पृथक् समेत्य च । पातुं न शेकुर्द्विपदश्चतुष्पदः सरीसृपस्थास्नु यदत्र दृश्यते’ इति भागवतं (५/१८/१६, २८) उक्तार्थे प्रमाणयति अखिलैर् इति । अदृश्य इति सहैव सन्तं न विजानन्ति देवाः’ इति श्रुत्युक्तेः । अन्त इति अन्तःप्रविष्टं कर्तारमेकं’ इत्युक्तेः । बहिरिति अन्तःसमुद्रे मनसा चरन्तम् इत्युक्तेः । ‘यं हित्वा त्रातुं न शेकुरि’ति वचनात्तेषां लोकैकदेशस्यामुख्यं पालकत्वमपि भगवन्नियतम् इति शंसनेन महायोगवृत्त्या स्वातन्त्र्यं तद्गतत्वं चेत्युभयप्रकारेण विष्णुरेवाखण्ड-लोकाधिपतिः संसिध्यतीत्याह न संशय इति । मनोर् मानवानां पितुः ॥ ७३९–६४१ ॥
युक्तिमल्लिका
यं हित्वा राक्षसावेशान्मत्सरज्वरसंयुताः ।
यतमानाः पृथक्सर्वे लोकपालाः समेत्य च ॥ ६४० ॥
त्रातुं न शेकुरिति वाक्चास्ति भागवते यतः ।
अखण्डाधिपतिस्तस्माद्विष्णुरेव न संशयः ।
मनोर्हि वागियं कैर्वा माननीया न मानवैः ॥ ६४१ ॥
सुरोत्तमटीका
पृथक् प्रत्येकं समेत्य पुञ्जीभूय । मानवैर् मनुसम्बन्धित्वान्मानवशब्दवाच्यैः ॥ ७४०,७४१ ॥
युक्तिमल्लिका
तच्छ्रुत्वा मुनयस्सर्वे विस्मिता मुक्तसंशयाः ।
भूयांसं श्रद्धधुर्विष्णुं यतः शान्तिर्यतो भयम् ।
इति भागवते प्रोक्तं मुनीनां वचनं स्मर ॥ ७४२ ॥
तद्गोत्रजातः पूर्वेषां तेषां वाक्यं न विस्मर ।
यद्गोत्रप्रवरेशास्ते तानुदास्ते कथं भवान् ॥ ७४३ ॥
सुरोत्तमटीका
भागवतवाक्यान्तरेणापि विष्णोरखण्डाधिपतित्वं द्रढयति ॥ तच्छ्रुत्वेति ॥ तद्गोत्रजातस् तेषां कश्यपविश्वामित्रादिमुनीनां गोत्रेजातः । ते मुनयः यस्माद् गोत्रप्रवरेशा गोत्रप्रवरमूलीभूताः ॥ ७४२,७४३ ॥
सत्यप्रमोदटीका
भूयांसमिति अयं भागवतश्लोकः गुणसौरभे व्याख्यातः (७०२-७०३) अधिकविवक्षया अत्र प्रस्तावः । मुनयः गोत्रप्रवरेशाः कश्यपात्रिभरद्वाजादयः ॥ ७४२,७४३ ॥
युक्तिमल्लिका
अस्य देवस्येति वेदे यथा विष्णोर्वशे हरः ।
स्पष्टं श्रुतस्तथा वेदे न क्वापीशवशे हरिः ॥ ७४४ ॥
सुरोत्तमटीका
किञ्च प्रसिद्धश्रुतौ प्रसिद्धविष्णुरुद्रपदाभ्यां विष्णु-रुद्रावुदीर्य यथा विष्णोर्वशता रुद्रस्योच्यते तथा प्रसिद्धविष्णुरुद्रपदाभ्यां विष्णुरुद्रावुदीर्य रुद्रवशता विष्णोर्न क्वापि कथ्यते । यद्यपि सोमः पवत इति श्रुतौ सोमस्य विष्णुजनयितृत्वं कथ्यते तथापि सोमपदस्य पवमानाख्यसोमे चन्द्रे चन्द्राभिमन्यमानसोमलतायां च लोकवेदयोः प्रसिद्धत्वेन रुद्रे प्रसिध्य-भावेन च न सा पराभिलषितार्थसाधिकेत्याह ॥ अस्य देवस्येति ॥ अनेन ‘अस्य देवस्य मीह्लुषो वया विष्णोरेषस्य प्रभृथे हविर्भिः । विदेहि रुद्रो रुद्रियं महित्वं यासिष्टं वर्तिरश्विनाविरावदिति’ श्रुतिं गृह्णाति ॥ ७४४ ॥
सत्यप्रमोदटीका
‘अस्य देवस्य मी•ुषो वया विष्णोरेषस्य प्रभृथे हविर्भिः । विदे हि रुद्रो रुद्रियं महित्वं यासिष्टं वर्तिरश्विनाविरावत्’ इति सुस्पष्टश्रुत्या रुद्रादुत्तमत्वं विष्णोः सुगममिति भावेन श्रुतिर् व्याख्याति ॥ ७४४ ॥
युक्तिमल्लिका
ईषेरिच्छार्थकाद्धातोः पचाद्यचि कृते सति ।
गुणे जाते पालनेच्छा कृपा यस्य स्वसेविषु ।
तस्यैषस्य न चेदेतस्येति स्याच्छब्दविन्मते ॥ ७४५ ॥
सुरोत्तमटीका
श्रौतपदानामर्थमाह ॥ इषेरिति ॥ इषेर् इषु इच्छाया-मित्यत्रोक्तेषुधातोर् गुणे सार्वधातुकार्धधातुकयोरिति सूत्रादिकारस्यैकाराख्यगुणे एष इत्यकारान्तम् इच्छावन्तं वक्ति । योग्यतया च पालनं लभ्यते । एवं च कः पिण्डितार्थ इत्यत आह । स्वसेविषु पालनेच्छा पालनेच्छारूपा कृपा यस्येति । एषस्य एषपदवाच्यस्य । न चेद् उक्तविधया एषपदव्युत्पत्तिर्न चेत् । एतच्छब्दस्येदं रूपं चेदिति यावत् । एतस्येति एतच्छब्दस्य षष्ठ्यामेतस्येति प्रयोगः स्यात् । न तु एषस्येति । अतोऽयं शब्द उक्तविधयैव व्युत्पन्न इति भावः ॥ ७४५ ॥
सत्यप्रमोदटीका
न चेद् एतच्छब्दस्य षष्ठ्या रूपं चेद् इत्यर्थः॥७४५॥
युक्तिमल्लिका
तस्यास्य विष्णोर्देवस्य भक्ताभीष्टस्य सेचनात् ।
मी•ुषो यन्मिहः सेके हविर्भिर्यज्ञसाधनैः ॥ ७४६ ॥
प्रभृथं प्रभृतं शस्तं तृतीयोऽतिशये यतः ।
अचो हलश्च यत्पश्चात्तृतीयोऽसौ ततः किल ।
ततः प्रभरणे पूजात्मके सम्यक्कृते सति ॥ ७४७ ॥
सुरोत्तमटीका
मिह सेचन इति धातोर् भक्ताभीष्टसेचनान् मीह्लुषः मीह्लुट् पदवाच्यस्येत्यर्थः । यद् यस्मान् मिह इति धातुः । हविर्भिरिति पदस्य शेषपूरणायोक्तं यज्ञसाधनैरिति । प्रभृतमिति । प्रकर्षेण भृतं भरणं भावे क्तप्रत्ययः । हविर्दानेन भगवतस्तृप्तिकरणमित्यर्थः । तकारस्य थकारादेशः किं निमित्त इत्यत उक्तम् । तृतीयोऽतिशये यत इति । तृतीयोऽतिशय इति सूत्राद् एकवर्गस्थवर्गेषु तृतीयो वर्णः यतो ऽतिशये वर्तते अतः प्रभृतमिति सम्बन्धः सम्यक् पूरणमिति सूचनाय भृथमित्युक्तम् । हविर्भरणस्य बाहुल्याख्यातिशय-सूचनाय प्राशस्त्यसूचनाय प्रेत्युपसर्गः । मन्त्रभक्तिश्रद्धाद्यतिशयसूचनाय तृतीयो वर्ण इति भावः । अथवा अस्य पूजात्मकभरणत्वेन प्राकृतैरुदरपूरणाय क्रियमाणहविर्भरणादतिशयसूचनाय प्रेत्युपसर्गः । तस्य बाहुल्याख्यातिशय-सूचनाय तृतीयो वर्णः । एतदेवाभिप्रेत्य पूजात्मके सम्यगिति च वक्ष्यति । ननु थकारस्य तकारापेक्षया द्वितीयत्वात्कथं तृतीयत्वमित्यत उक्तम् ॥ अच इति ॥ हलः हल् प्रत्याहारपठितात् द् इति वर्णात् । अचस् तदुपरि विद्यमानाकारात् । हलो ऽचश्च समाहारे हि कादयो वर्णा भवन्ति । अतस् त्वर्णादकाराच्च परतो विद्यमानयकार आपाततो द्वितीयोऽपि विचार्यमाणे तृतीय इति भावः । असौ थकारः ॥ ७४६,७४७ ॥
सत्यप्रमोदटीका
मी•ुषः भक्तानामभीप्सितसकलपुरुषार्थसेचकस्य ॥ प्रभृथे प्रकरणे भरणे सम्पूर्णपूजायामित्यर्थः । तकारात् त्वर्णादकाराच्च परस् थकारस् तृतीयो भवतीति आह तृतीय इति ॥ ७४६,७४७ ॥
युक्तिमल्लिका
वया भूत्यादिदानेन बन्धको वयबन्धने ।
इति धातोर्हि प्रसिद्धो रुद्रस्त्रिभुवनेश्वरः ॥ ७४८ ॥
सुरोत्तमटीका
वयश्शब्दार्थकथनायोक्तम् ॥ भूत्यादिदानेन बन्धक इति ॥ वयबन्धन इति धातोर् वया बन्धक इत्येवशब्दार्थः । तच्च बन्धकत्वं लौकिकैश्वर्यादिदानेन रुद्रस्यैवोचितमिति भावेनोक्तं भूत्यादिदानेनेति । इदं च रुद्रे प्रसिद्धमिति सूचयितुं श्रुतौ हिशब्द इति भावेनोक्तम् । हि प्रसिद्धो रुद्रस्त्रिभुवनेश्वर इति ॥ ७४८ ॥
सत्यप्रमोदटीका
वया अहङ्काररूपेण बन्धकः । तत्प्रकारः भूत्यादि-दानेन । आदिपदेन असुरेभ्योऽवध्यत्वादिकम् ॥ ७४८ ॥
युक्तिमल्लिका
रुद्रियं रुद्रसम्बन्धि महित्वं महिमोच्चयम् ।
घस्येयादेशकरणे समुद्रियपदं यथा ।
यथा बाहुलकात्तस्माद्रौद्रमेव हि रुद्रियम् ॥ ७४९ ॥
सुरोत्तमटीका
रुद्रियपदस्य रुद्रसम्बन्धित्वार्थकत्वे रौद्रमिति स्यात् । रुद्रियमिति तु कथमित्यतो दृष्टान्तेन तदुपपादयति ॥ घस्येति ॥ घस्य घप्रत्ययस्य समुद्राभ्राद्ध इति सूत्रात् समुद्रपदाद् घप्रत्यये कृते समुद्रसम्बन्धी-त्यर्थे समुद्रियपदं यथा भवति तथा तस्य प्रत्ययस्य छन्दसि बहुलमित्यादिना बाहुलकत्वाद्रुद्रियमित्यपि पदं भवतीति भावः ॥ ७४९ ॥
सत्यप्रमोदटीका
महिमोच्चयम् इन्द्राद्युत्तमत्वम् ॥ ७४९ ॥
युक्तिमल्लिका
विदे लेभे तद्वदेव पूर्वाभ्यासमुपैक्षत ।
पूर्वानभ्यस्तपदवीप्राप्तिं सूचयितुं श्रुतिः ॥ ६५० ॥
अनावृत्तिपदप्राप्तिसूचनाय च सूत्रवत् ।
अस्मिन्नर्थे प्रमाणानां प्रसिद्धिं च हिना जगौ ॥ ७५१ ॥
सुरोत्तमटीका
विद इत्यस्यार्थकथनं लेभ इति । विद्लृ लाभ इति धातोरिति भावः । तर्हि लिटि पूर्वाभ्यासस्य विहितत्वाद्विविद इति प्रयोगः स्यादित्यत आह ॥ तद्वदिति ॥ लेभ इति प्रयोगवदित्यर्थः । यथा लिट्त्वेऽपि लेभ इति प्रयोगे पूर्वाभ्यासो नास्ति तथा छन्दसि बहुलमिति वचनादत्रापि नास्तीति भावः । प्रयोजनवशाच्च श्रुतिः पूर्वाभ्यासमुपैक्षतेत्याह ॥ पूर्वा-नभ्यस्तेति ॥ भगवत्पूजनेन प्राप्तरुद्रपदव्या अनेन रुद्रेण पूर्वमननुभूतत्व-सूचनाय प्रयोगेऽपि पूर्वाभ्यासोपेक्षेति भावः । प्रयोजनान्तरमप्याह ॥ अनावृत्तीति ॥ अनावृत्तिपदं पुनरावृत्तिरहितमोक्षपदम् । तस्य प्राप्तिसूचनाय न केवलमिदं भगवत्पूजनमैहिकफलमात्रप्रदं किन्तु पुनरावृत्तिशून्यमोक्षाख्य-फलदमपि भवतीति सूचनाय पदेऽपि पूर्ववर्णावृत्तिरूपपूर्वाभ्यासोपेक्षणमिति भावः । सूत्रवद् बह्वर्थसूचकसूत्रवत् । हिशब्दस्य प्रयोजनान्तरमप्याह ॥ अस्मिन्निति ॥ हिना हिशब्देन ॥ ७५०,७५१ ॥
सत्यप्रमोदटीका
विविदे इत्येवम् अभ्यासानाश्रयणे हेतुर् अनभ्यस्तेति । पूर्वमप्राप्तमित्यर्थः । तत्रैव हेत्वन्तरम् अनावृत्तीति । प्रसिद्धिं ‘दशकल्पं तपश्चीर्णम्’ इत्यादि ॥ ७५०,७५१ ॥
युक्तिमल्लिका
युवामप्यश्विनौ वर्तिर्वर्तनं याज्ञिकान्नवत् ।
इरावद्ब्राह्मणे यस्मादिलेत्यन्नमुदीरितम् ।
डलयोरलयोश्चाभेदेन स्यादीदृशं पदम् ॥ ७५२ ॥
सुरोत्तमटीका
श्रुतौ यासिष्टमिति मध्यमपुरुषद्विवचनप्रयोगबलाद्युवा-मित्युक्तम् । वर्तिरित्यस्यार्थकथनं वर्तनमिति । इरावदित्यस्यार्थकथनं याज्ञिकान्नवदिति । यज्ञे अश्विभ्यां स्वाहेति दीयमानान्नाहुतियुक्तमित्यर्थः । अन्नं वा । ब्राह्मणे इेन्नमेवास्येति ऋग्वेदब्राह्मणे । यद्यपि इडेति पदमन्नमात्रवाचि । तथापि अश्विनोर्यज्ञाहुतावधिकारात्तद्रूपमेवान्नं योग्यतया लभ्यत इति भावेनोक्तं याज्ञिकान्नवदिति । तर्हि इडावदित्येव वक्तव्यम् इरावदिति कथमित्यत आह ॥ डलयोरिति ॥ डलयोर् डकारलकारयोः । रलयोः रेफलकारयोः ॥ ७५२ ॥
सत्यप्रमोदटीका
इरावद् यज्ञाहुतिरूपान्नवत् । ‘हरेत्यन्ननाम’ इति ब्राह्मणवचनात् । वर्तिर् वर्तनम् । सर्पिःपदवन्नपुंसकपदमिदम्
॥ ७५२ ॥
युक्तिमल्लिका
यासिष्टं तस्य कृपयैवायासिष्टं लुङीदृशम् ।
अमाञ्योगेऽपि यद्वेदे पदं शास्ति स पाणिनिः ॥ ७५३ ॥
सुरोत्तमटीका
यासिष्टमित्यस्यार्थस् तस्य विष्णोः कृपयैवायासिष्टमिति । अयासिष्टं युवामपि विष्णोः कृपयैव इरावद्वर्तनं प्राप्तावभूतमित्यर्थः । तर्ह्ययासिष्टमित्येव वक्तव्यम् । अडागमाभावे किं कारणमित्यत आह ॥ लुङीति ॥ ईदृशम् अडागमरहितम् । अमाञ्योगे माञ्योगाभावे । यद् यस्मात् ॥ ७५३ ॥
सत्यप्रमोदटीका
ईदृशम् अडागमरहितम् ॥ ७५३,७५४ ॥
युक्तिमल्लिका
औणादिके सन्तरूपाद्वृतेर्वर्तिर्भविष्यति ।
यथार्चिः सर्पिरित्यादिपदं तद्वदिदं पदम् ॥ ७५४ ॥
सुरोत्तमटीका
वर्तिरिति द्वितीयान्तं पदं कथं स्यादित्यत आह ॥ औणादिकेति ॥ औणादिके सन्तरूपाद् औणादिकोयं सुन्प्रत्ययस् तदन्त-रूपाद्वृतेर् वृतुवर्तन इति धातोरौणादिके सुन् प्रत्यये तकारस्य द्वित्वे ऋकारस्य गुणे च कृते वर्त्तिरिति सकारान्तं पदं सिध्यतीत्यर्थः । नेदमपूर्वमित्याह ॥ यथेति ॥ यथा रुचकाशन इति धातोर् अर्चिःपदं, सृप्लृगताविति धातोः परितः सर्पणशीलघृतवाचकसर्पिःपदं तद्वदिदं पदमिति योजना ॥ ७५४ ॥
युक्तिमल्लिका
अतः स्पष्टार्थवाणीयं रुद्रस्याभीष्टदायकम् ।
विष्णुं शुभगुणाम्भोधिं रुद्रादप्यधिकं जगौ ॥ ७५५ ॥
सुरोत्तमटीका
अतः श्रुत्या विष्णौ रुद्रे च प्रसिद्धविष्णुरुद्रपदयोरेव ग्रहणात् । अयं समुदायार्थः । एषस्य इच्छारूपस्य कृपालोर् देवस्य सत्य-सङ्कल्पस्य विजिगीषावतो वा द्योतमानस्य जगत्सर्जनादिक्रीडावतो वा । मीह्लुषः भक्ताभीष्टसेचनशीलस्य । अस्य प्रसिद्धस्य अकारवाच्यस्य वा विष्णोर्हविर्भिः प्रभृथे प्रभरणे नैवेद्यहोमादिपूजने कृते सति वया लौकि-कैश्वर्यादिदानेन बन्धकः रुद्रः रुद्रियं रुद्रसम्बन्धि महित्वं महिमानं मह उत्सवोऽस्यास्तीति मही तस्य भावं वा । यथा विदेहि लेभे हि । अथवा हि यस्माद् लेभे तस्मात् हे अश्विनौ युवाम् इरावद् अन्नवद् वर्त्तिर्वर्त्तनं हविर्भि-र्विष्णोः प्रभृथे कृते सत्येव यासिष्टमयासिष्टं यस्मादिन्द्रादीनामधीश्वरोऽपि शिवः विष्ण्वर्चनेनैव भाग्यमवाप । तस्मात्ततोऽप्यतिनीचदेवतयोर्युवयोर्विष्णु-कृपयैव भाग्यमभूदिति किमु वक्तव्यमिति भावः । अस्यां श्रुतौ विष्णो-रश्विनोर्भाग्यदायकत्वे दृष्टान्ततया हेतुतया च विष्णोः शिवभाग्यदायकत्व-महिम्नो वर्णनादस्य महिम्नो भगवति निश्चितत्वं नित्यसिद्धत्वं चाभूदित्यपि ज्ञातव्यम् ॥ ७५५ ॥
सत्यप्रमोदटीका
स्पष्टेति रुद्राभीष्टदायकत्वस्य अश्विनोर्विषये दृष्टान्त-तयोक्तेरिति भावः । विष्णुं विष्लृ व्याप्ताविति धातोस् त्रिविधव्याप्तिमन्तम् । तदाह शुभेति ॥ ७५५ ॥
युक्तिमल्लिका
श्रौतोऽखण्डपदः सोमो नेशो वेदविदां मते ।
विश्वाधिकत्वगीः सावकाशेन्द्रादिश्रुताविव ॥ ७५६ ॥
सुरोत्तमटीका
सोमपदेन रुद्रग्रहणे प्रकरणविरोधाप्रसिद्धत्वादिदोषाः कथिताः । इदानीं वैदिकमुद्रया अपरिहार्यदोषं चाह ॥ श्रौत इति ॥ अखण्डपदः सजूरिति । सजूरितिवत् सोम इति स उम इति द्विखण्डरहितं सोमपदं यस्य वाचकं सोऽखण्डपदः । सोमः सोमपदवाच्यः पदार्थः वेदविदां मते ईशो नेति सम्बन्धः । ईशस्य सोमपदवाच्यत्वम् उमया सहित इति व्युत्पत्त्या परेणाशास्यते । तत्तदा स्याद् यदि सोमपदं सजूरिति पदवद् द्विखण्डं स्यात् । न च तद्युक्तम् । वैदिकैर्वेदस्थसोमपदे द्विखण्डतायाः कुत्राप्यनङ्गीकारात् । वेदमर्यादामुल्लङ्घ्य वेदार्थकथने अवैदिकत्वप्रसङ्गात् । अतः पवमानसोमस्य चन्द्रस्य सोमलताया वा श्रौतं सोमपदं वाचकं स्यात् । नान्यस्य । एवं च शिवस्य विष्णुजनकत्वेनेयं श्रुतिः शङ्कितुमपि शक्या विष्णोस्तु शिवपूज्यत्वं शिवाभीष्टदायकत्वं च उभयवादिसम्प्रतिपन्नस्पष्ट-श्रुत्यैवोक्तविधया प्रतिपादितम् । अतो वैदिकैर्बन्दीकृतस्य परस्य नास्म-त्प्रतिबन्दी ।
पवमानसोमस्य विष्णुजनकत्वमुपपादितं चन्द्रस्य च सोमवंशे अवतीर्ण-कृष्णं प्रति लोकमर्यादा मूलकारणत्वाज्जनयितृत्वमुपपन्नम् । सोमलतायाश्च सत्रे ममास भगवान् हयशीर्ष इति वचनाद्यज्ञकुण्डादवतीर्णहयग्रीवं प्रति जनकता घटते । तस्मादखण्डपदापीयं श्रुतिरखण्डपदत्वादेव नास्मदभीष्टखण्डनायालम् । परस्य त्व खण्डपदास्मच्छास्त्रवदनिष्टस्यैव हेतुः । विश्वाधिको रुद्रो महर्षिरिति वाक्च नास्मच्छ्रुतिवत्स्पष्टं न विष्णोर्हरवशतां वक्ति । किंतु विश्वस्मादधिक इत्येव वक्ति । सा च विश्वस्मादिन्द्र उत्तर इतिवत् स्वयोग्यकतिपय-विश्वाधिक्यमेव ब्रूयान् न सर्वाधिक्यम् । अन्यथा इन्द्रश्रुत्या इन्द्रस्यापि सर्वेश्वरत्वप्रसक्त्या पुनस्त्वदभिलषितरुद्रसर्वेश्वरत्वस्यैव हानिप्रसङ्गात् । साव-काशेति वदता विश्वमधिकं यस्मादित्यपि समाससम्भवेन परानिष्टार्थलाभः । रुद्रः विश्वाधिको महर्षिरित्यपि योजनिकासम्भवेन सर्वाधिकः सन्न्यासीत्युक्ते सन्न्यासिष्वेवाधिक्यलाभवद् रुद्रस्य महर्षिष्वेवाधिक्यलाभश्च सूचितः । इन्द्रश्रुतेरीदृशावकाशशून्यत्वेन प्राबल्यं च सूचितम् ॥ ७५६ ॥
सत्यप्रमोदटीका
जनितोत विष्णोरित्यत्रोक्तः सोमः रूढ्या पवमान एव न तु उमासहितत्वरूपयोगेन रुद्रः । वैदिकैः सोमपदे सखण्डत्व-स्यानङ्गीकारात् । पवमानस्य जनितृत्वं विष्णुमहिमाविर्भावहेतुत्वमेवेति च प्राक् प्रसाधितम् । एवं विश्वाधिको रुद्र इत्यत्र विश्वस्मादिति वा महर्षिरिति वाक्यशेषाद् ऋषिभ्य उत्तम इति वाऽर्थान्तरं ध्येयम् । अन्यथा विश्वस्मादिन्द्र उत्तर इति वाक्ये प्रतीतार्थमेवाश्रित्य इन्द्रस्यैवोत्तमत्वप्रसङ्ग इत्याह इन्द्रादीति ॥ ७५६ ॥
युक्तिमल्लिका
सोऽरोदीदिति वेदे हि रोदनाद्रुद्रतोदिता ।
न ते महित्वमिति तु विष्णोरसमतोदिता ॥ ७५७ ॥
सुरोत्तमटीका
वाक्यान्तरैरपि रुद्रस्यावरतां विष्णोः सर्वोत्तमतां च साधयति ॥ सोरोदीदिति ॥ अनेन सोरोदीद्यदरोदीत्तद्रुद्रस्य रुद्रत्वमिति श्रुतिं गृह्णाति । स्वाभीष्टसाधनसामर्थ्याभावाद्धि रुद्रस्य रोदनम् । अतः कथं शिशोरिव रुदतस्तस्य सर्वेश्वरत्वमिति भावः ॥ ७५७ ॥
सत्यप्रमोदटीका
‘सोऽरोदीद्यदरोदीत्तद्रुद्रस्य रुद्रत्वं’ इत्यत्र श्रुतौ रुद्रस्योद्वेगकार्यं रोदनं श्रूयते अतो ऽसामञ्जस्यान्न पशुपतिर् जगत्कारणम् । ते विष्णोर् महित्वं जगज्जन्मादिकारणत्वरूपं स्वलक्षणम् इतरे ब्रह्मादयः न जातु प्राप्नुवन्ति इति श्रुत्यर्थः ॥ ७५७ ॥
युक्तिमल्लिका
या ह्युच्छेषणभागो वै रुद्र इत्याह वेदवाक् ।
जुषेथां यज्ञमित्याद्या सा विष्णुं वक्त्यतः स राट् ॥ ७५८ ॥
इन्द्रा विष्णू युवां यज्ञं जुषेथां द्रविणं च नः ।
धत्तं दत्तं प्रदिशतामरिष्टैर्नाशवर्जितैः ॥ ७५९ ॥
पथिभिर्मोक्षमार्गैर्नः पारयन्तो भवाम्बुधेः ।
परं पारं प्रापयन्ताविति यच्छ्रुतिरञ्जसा ॥ ७६० ॥
ऐहिकामुष्मिकफलप्रदातारं मखस्य च ।
भोक्तारं विष्णुसूक्तस्था विष्णुं स्तौति द्विरूपिणम् ॥ ७६१ ॥
यतश्च रुद्राहुतिदा हस्तमद्यापि याज्ञिकाः ।
प्रक्षालयन्ति तेनासौ यज्ञोच्छिष्टाशनो ध्रुवम् ॥ ७६२ ॥
सुरोत्तमटीका
उच्छेषणभागो वै रुद्र इति या वेदवागिति सम्बन्धः । हिशब्देनास्य वाक्यस्य यजुश्शाखायां प्रसिद्धतां सूचयति । सा वेदवाक् । जुषेथां यज्ञमित्याद्या सा वेदवाक् विष्णुं वक्ति । अतः स विष्णुः राट् राजा सर्वेश्वर इति योजना । वषट् ते विष्णवास आकृणोमि इति जुषेथां यज्ञं द्रविणं च धत्तमरिष्टैर्नः पथिभिः पारयन्तेति श्रुतिः । अस्या अयमर्थः । हे इन्द्राविष्णू इन्द्रान्तर्गतेन्द्रनामकविष्णुनामकौ भगवन्तौ अस्या अपसः संसारसमुद्रजलस्य पारे परतीरे । सर्वथा तदसङ्गसूचनाय विसन्धिकरणम् । स्थितौ वासं समीचीनेन कर्मणा देवयज्ञेन सं समीचीनेन इषा पितृयज्ञान्नेन च हिनोमि हिगतौ वृद्धौ चेति धातोर् विर्दयेन च वर्धयामि सन्तोषेण पूरितं करोमि । ह्यन्ते वा प्राप्नोमि भवदन्तिके वर्धे च । अस्मत्समीपं प्रत्यागमयामि । अरिष्टैः पथिभिर् मोक्षमार्गभूतज्ञानभक्तिवैराग्यादिभिर् अर्चिरादिमार्गैर्वा पारयन्तौ संसारसागरपारं प्रापयन्तौ । इन्द्राविष्णू युवां नः यज्ञं जुषेथां द्रविणं च धत्तम् इदमुभयं मध्यमपुरुषद्विवचनम् इन्द्राविष्टविष्णोः पृथक्स्थितविष्णोश्च यज्ञभोक्तृत्वं वक्ति । विष्णुसूक्तेऽस्मिन् केवलेन्द्रस्य स्वातन्त्र्येण ग्रहणायोगात् । उच्छेषण-भाग इति श्रुतिः रुद्रस्य यज्ञोच्छिष्टभोक्तृतां वक्ति । एवं च वाक्यद्वय-पर्यालोचनया हर्युच्छिष्टभोजी रुद्र इति प्राप्तम् । अतो विष्णुः सर्वोत्तमः रुद्रस्तदवर इति कथं न सिद्ध्येदिति भावः ॥ ७५८–७६२ ॥
सत्यप्रमोदटीका
वेदवाक् ‘उच्छेषणभागो वै रुद्र’ इति वाक् । इदमुपलक्षणम् । ‘एष ते रुद्रभागोऽस्तु यदुच्छिष्टोऽध्वरस्य वै’ इत्यादि भागवतवाक्यमपि ग्राह्यम् (४-६-५३) । ‘जुषेथां यज्ञं द्रविणं च धत्त-मरिष्टैर्नः पथिभिः पारयन्त’ इति श्रुतिं व्याचष्टे इन्द्रेति ॥ द्विरूपिणम् इन्द्रः विष्णुरिति रूपद्वयवन्तम् ॥ ७५८–७६२ ॥
सुरोत्तमटीका
इममेवार्थं विस्तरेणाह ॥ इन्द्राविष्णू इति
॥ ७५९–७६२ ॥
युक्तिमल्लिका
प्रलये वटपत्रेऽप्सु शेते नारायणः किल ।
तदा क्वान्ये सुरास्तस्मात्सर्वेशो विष्णुरेव हि ॥ ७६३ ॥
सुरोत्तमटीका
श्रौतयुक्तिं चाह ॥ प्रलय इति ॥ किलेत्यनेन एको नारायण आसीन्न ब्रह्मा न च शङ्करः, सदेवेदमग्र आसीत्, एकमेवाद्वितीय-मित्यादिवाक्यं सूचयति । तस्मात् सर्वप्रलयेऽप्युर्वरितत्वात् ॥ ७६३ ॥
सत्यप्रमोदटीका
‘एको नारायण आसीन्न ब्रह्मा नेशानो नाग्नीषोमौ’ इत्यादिश्रुतेः पारतन्त्र्येणासमञ्जसत्वान्न पशुपतिरीश्वरो जगत्कर्ता इति पत्युरधिकरणभाष्यानुरोधेणाह प्रलय इति ॥ ७६३ ॥
युक्तिमल्लिका
किञ्च गीतोपनिषदि सर्वं द्विपुरुषाख्यया ।
संगृहीतं हरिस्त्वेकः पुरुषोत्तम ईरितः ॥ ७६४ ॥
सुरोत्तमटीका
गीतावाक्येनापि हरेः सर्वोत्तमतां स्मारयति ॥ किञ्चेति ॥ ७६४ ॥
सत्यप्रमोदटीका
द्विपुरुषाख्यया ‘द्वौ इमौ पुरुषौ लोके क्षरश्चाक्षर एव च’ इति । ईरितः लोके वेदे च प्रथितः ॥ ७६४ ॥
युक्तिमल्लिका
रामः प्रभू रामभृत्या देवाः सर्वेऽपि वानराः ।
कृष्णः प्रभुः कृष्णभृत्या देवा धर्मात्मजादयः ॥ ७६५ ॥
सुरोत्तमटीका
रामायणभागवतयोः कथयाऽपि विष्णोस्सर्वोत्तमतां साधयति । रामः प्रभुरित्यादिना ॥ ७६५ ॥
सत्यप्रमोदटीका
प्रादुर्भावद्वये ह्यस्मिन् सर्वेषां निर्णयः कृत इति म.ता.निर्णयोक्तिमनुरुध्याह प्रभुरिति ॥ ७६५ ॥
युक्तिमल्लिका
अर्हत्तमो ह्यग्रपूजामर्हत्यन्यो न संसदि ।
यथैवेह तथाऽमुत्र तद्विष्णुरखिलप्रभुः ॥ ७६६ ॥
सुरोत्तमटीका
अर्हत्तमः पूज्यतमः । ननु रामकृष्णयोस्सर्वोत्तमत्वे मूलरूपस्य किमागतमित्यत आह ॥ यथैवेति ॥ तत्तस्माद् अवतारस्य सर्वोत्तमत्वे मूलरूपस्य सर्वोत्तमता किं वाच्येति भावः ॥ ७६६ ॥
सत्यप्रमोदटीका
‘अर्हति ह्यच्युतः श्रैष्ठ्यं भगवान्सात्वतां पतिः’ इति भागवतोक्तिं (१०-७४-१९) सङ्गृह्णाति अर्हतीति । तन् मूलावतारयो-रत्यन्ताभेदात् ॥ ७६६ ॥
युक्तिमल्लिका
तस्मात्सर्वेश्वरो विष्णुः सर्वं सर्वत्र सर्वदा ।
प्रवर्तयति सर्वज्ञः सर्वशक्तिः सनातनः ॥ ७६७ ॥
सुरोत्तमटीका
विष्णोः सर्वोत्तमत्वसाधनमुपसंहरति ॥ तस्मादिति ॥ ७६७ ॥
सत्यप्रमोदटीका
ॐ अनेन सर्वगतत्वमायामयशब्दादिभ्य इति सूत्रस्य ‘सर्वदेशकालवस्तुष्वनेनैव सृष्ट्यादिकं प्रवर्तते’ इति भाष्यं हृदि कृत्वाऽऽह तस्मादिति ॥ ७६७, ७६८ ॥
युक्तिमल्लिका
तद्भूतं भूतमेतस्माद्भवच्च भवति प्रभोः ।
भाव्यं भविष्यति ह्यस्य कृपया नान्यतः क्वचित् ॥ ७६८ ॥
सुरोत्तमटीका
तत्तस्मात् ॥ ७६८ ॥
युक्तिमल्लिका
अतः सर्वेष्टलाभाय सर्वानिष्टनिवृत्तये ॥
तमर्च्यमर्चय स्तुत्यं स्तुहि नम्यं नमाच्युतम् ॥ ७६९ ॥
सुरोत्तमटीका
अतः विष्णोरेव भूतभव्यभवत्प्रभुत्वात् ॥ ७६९ ॥
सत्यप्रमोदटीका
अतस् तस्यैव स्वातन्त्र्येण फलदानसमर्थत्वात् । तदुक्तं ॐ फलमत उपपत्तेरिति ॥ ७६९ ॥