२४ स्वप्ने स्वदृष्टस्तोत्रस्यार्थः

हितं न जानाम्यहितं न जाने नाकर्तुमीशो न च कर्तुमीशः

स्वप्ने स्वदृष्टस्तोत्रस्यार्थः

युक्तिमल्लिका

हितं न जानाम्यहितं न जाने नाकर्तुमीशो न च कर्तुमीशः ।

यथा नटान्नाटकदारुयन्त्रं तथा हरेः प्रेरणयैव वर्ते ॥७२१॥

सुरोत्तमटीका

जीवकर्तृत्वादिनानामतनिराकरणाय ग्रन्थकारेणैव कृतं स्तोत्रमस्मिन्ग्रन्थे प्रवेशयति । स्वप्ने जाते प्रवेशितं किल । तस्यार्थो लेशतः कथ्यते । स्वानिष्टकर्मणः स्वेनैव क्रियमाणत्वादकर्तुमीशो नेत्युक्तम् । दारु-मयनर्तक्यादिप्रतिमां सूत्रेण नर्तयन्नटः । तस्मात् । उत्तमपुरुषप्रयोगबलाद् अहमिति लभ्यते । तेन च जीवकर्तृत्ववादनिरासं सूचयति । अनेन

स्वास्वतन्त्रानुकल्पासीद्योगक्षेमं ममेच्छती ।

ईशस्य हि वशो लोको योषा दारुमयी यथा ॥

इति भागवतश्लोकं सूचयति ॥ ७२१ ॥

सत्यप्रमोदटीका

अयं स्वकृतस्तोत्रान्तर्गतः श्लोकः परमात्मनः स्वातन्त्र्योपादनद्वारा तस्य मोक्षरूपफलदातृत्वसमर्थकतया स्वस्वप्नानुसारेण फलसौरभेऽत्र निवेश्य व्याख्यायते यदभूदित्यादिना ॥ परिशिषेण भगवतः स्वातन्त्र्यं साधयितुं जीवस्य तावत्तन्निकरोति हितमिति । मत्तः स्मृतिर्ज्ञान-मपोहनं च इति गीतोक्तिं हृदि कृत्वाऽऽह न जानामीति । भगवतः प्रेरणां विनेति शेषः । एवं नाकर्तुमीश इत्यादावपि । ‘ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति । भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया’ इति गीतां ‘ईशस्य हि वशे लोको योषा दारुमयी यथा’ इति भागवतं चानुरुध्यास्वातन्त्र्ये दृष्टान्तमाह यथेति ॥ ७२१ ॥

युक्तिमल्लिका

यदभूत्तद्धरेर्यच्च नाभूत्तच्च हरेः परात् ।

जीवो विष्टिगृहीतोऽस्मात्किं भवेत्किं च नो भवेत् ॥७२२॥

सुरोत्तमटीका

यत् सुखसंपदादिकम् । यच्च दुःखमरणादिकम् । स्वहितकरणे शक्त्यभावात् स्वाहितस्यैव करणाच्च स्वानिष्टभाराद्युद्वहनाय राज्ञाविष्टं गृहीतपुरुषवत् स्वानिष्टसंसारे उत्पत्तुं स्थातुं मर्तुं च नियामकः कश्चिदीशोऽप्यपेक्षित इति भावेन विष्टिगृहीत इत्युक्तम् । अनेन इतरव्यपदेशा-द्धिताकरणादिदोषप्रसक्तिरिति ब्रह्मसूत्रोक्तयुक्त्या जीवकर्तृत्ववादो जीवेश्वरा-भेदवादश्च निराकृत इति ज्ञातव्यम् ॥ ७२२ ॥

सत्यप्रमोदटीका

अभूद् इत्युपलक्षणं भवति भविष्यति चेत्यपि ध्येयम् । एवं नाभूदित्यत्रापि । जीवस्य स्वाहितकरणं हिताकरणं चेति दोषौ स्तः । तेन करणाकरणयोस्तस्यास्वातन्त्र्यं निश्चीयते । तथा च प्रत्यक्षेण सिद्धे कर्तृत्वे युक्त्याऽन्याधीनत्वं, तस्य चान्यस्य ‘सृष्टिः स्थितिश्च संहारो नियतिर्ज्ञान-मावृतिः । बन्धमोक्षौ च पुरुषाद्यस्मात्स हरिरेकराट्’ इत्यागमेन हरित्वम् इति जीवस्य हर्यधीनकर्तृत्वं संसिध्यतीति भावः । जीव इति । अयं पुनः विशेषः । विष्टिगृहीतस्य सत्ताऽदिकं न राजाधीनम् । जीवस्य तु हर्यधीनमिति ॥७२२॥