यस्यर्चो मध्वनामाङ्काश्श्लोकानेकादशागृणन्
वायोरवतारवर्णकपुराणवाक्यानि
युक्तिमल्लिका
यस्यर्चो मध्वनामाङ्काश्श्लोकानेकादशागृणन् ।
स मध्वो वैदिकाचार्यो गुरुर्जयति दुर्जनान् ॥ ७१३ ॥
सुरोत्तमटीका
यस्य मध्वस्य ऋचः पूर्वोक्ता मध्वनामाङ्काः, मध्व इति नाम्नो ऽङ्को यासु ताः । एकादश पवमानपूयमानस्थाः सप्त, अन्यत्र विद्यमानाश्चतस्रः । एवमेकादश ॥ ७१३ ॥
सत्यप्रमोदटीका
एकादश ऋचो ऽगृणन् इति सम्बन्धः । वैदिकः वेदप्रतिपाद्य आचार्यस् तदर्थोपदेशकश्च गुरुर् मुख्यः ॥ ७१३ ॥
युक्तिमल्लिका
वायोर्दिव्यानि रूपाणि पद्मत्रययुतानि च ॥ ७१४ ॥
त्रिकोटिमूर्तिसंयुक्तस्त्रेतायां राक्षसान्तकः ।
हनुमानिति विख्यातो रामकार्यधुरन्धरः ॥ ६१५ ॥
स वायुर्भीमसेनोऽभूद् द्वापरान्ते कुरूद्वहः ।
कृष्णं सम्पूजयामास हत्वा दुर्योधनादिकान् ॥ ७१६ ॥
सुरोत्तमटीका
वायोरवतारप्रतिपादकवायुपुराणवचनानि सङ्गृह्णाति ॥ वायोर्दिव्यानि रूपाणीत्यादिना ॥ वायोर् मूलरूपवायोः । पद्मत्रययुतानि दिव्यानि रूपाणि विष्णोः सेवार्थं सन्तीत्यर्थः । पद्मं महापद्ममिति सङ्ख्या-विशेषस्य नाम ॥ ७१४–७१६ ॥
सत्यप्रमोदटीका
वायुपुराणवचनानि तदवतारप्रतिपादकानि सङ्गृह्णाति वायोरित्यादिना । पद्मेति सङ्ख्याविशेषः । चशब्दः पूर्वोक्ता न केवलं त्रय इत्यर्थकः ॥ ७१४–७१६ ॥
युक्तिमल्लिका
द्वैपायनस्य सेवार्थं बदर्यां तु कलौ युगे ।
वायुश्च यतिरूपेण कृत्वा दुःशास्त्रखण्डनम् ॥ ७१७ ॥
सुरोत्तमटीका
व्रतिरूपेण आस्ते इति शेषः । कृत्वा दुश्शास्त्र-खण्डनमित्येतदन्तं वाक्यं भागान्तरस्थम् । ततः कलियुगे प्राप्त इति सार्धस्तु वायुपुराणे मध्वमहिमप्रतिपादकाध्यायस्थ इति विवेको द्रष्टव्यः ॥ ७१७ ॥
सत्यप्रमोदटीका
कृत्वा आस्ते इति शेषः ॥ ७१७ ॥
युक्तिमल्लिका
ततः कलियुगे प्राप्ते तृतीयो मध्वनामकः ।
भूरेखादक्षिणे भागे मणिमद्गर्वशान्तये ।
धिक्कुर्वंस्तत्प्रभां सद्योऽवतीर्णोऽत्र द्विजान्वये ॥ ७१८ ॥
इत्याद्याः सूक्तयो वायुपुराणस्थाः सहस्रशः ।
अवतारत्रयं वायोः कथयन्ति महात्मनः ॥ ७१९ ॥
सुरोत्तमटीका
तत्प्रभां भूमावुत्पन्नमणिमन्नामकदैत्यस्य विद्याख्यप्रभाम् ॥ ७१८,७१९ ॥
सत्यप्रमोदटीका
भागान्तरगतं वाक्यं तत इति । तत्प्रभाम् अप्रांशुनूत्नोपपदाधिवासजस्य अहङ्कारं पादतलोटजरचितदुर्भाष्यं च
॥ ७१८, ७१९ ॥
युक्तिमल्लिका
अतः श्रुतिस्मृतिस्तुत्यचित्रचारित्रविस्तृतेः ।
मध्वस्यैव मतं युक्त्याऽन्वितं परममङ्गलम् ॥ ७२० ॥
सुरोत्तमटीका
अत उक्तयुक्तिश्रुतिस्मृतिमूलत्वात् ॥ ७२० ॥
सत्यप्रमोदटीका
अतः मन्त्रवर्णैर् अनुवर्णनीयत्वात् ॥ ७२० ॥