यतो मध्वो मातरिश्वा गुहासन्तं मथायति
बलित्थासूक्तार्थः
युक्तिमल्लिका
यतो मध्वो मातरिश्वा गुहासन्तं मथायति ।
इति वक्ष्यति यं मध्वं मातरिश्वाभिधं स्फुटम् ।
दशप्रमतिनामाऽत्र स एवातो न संशयः ॥ ७०२ ॥
सुरोत्तमटीका
युक्त्यन्तरं चाह ॥ यत इति ॥ अत एकप्रकरणस्थ-शब्दद्वयस्य भिन्नार्थकत्वायोगात् ॥ ७०२ ॥
सत्यप्रमोदटीका
मातारिश्वेति । अयं च शब्दः ‘तस्मिन्नपो मातरिश्वा दधाति’ इति वायुपरः प्रसिद्ध इति भावः ॥ ७०२ ॥
युक्तिमल्लिका
वृषभस्यास्य देवस्य तृतीयं च वपुर्हरेः ।
योषितो वेदमानिन्यः श्रीभृदुर्गाभिधाः किल ॥ ७०३ ॥
दोहसे ज्ञानदोहाय दशप्रमतिसंज्ञितम् ।
जनयन्त निजाम्नायरक्षणार्थमजीजनन् ॥ ७०४ ॥
सुरोत्तमटीका
वाक्यार्थपर्यालोचनयापि तृतीयवाक्यं मध्वपरमिति दर्शयितुं वाक्यार्थं वक्ति ॥ वृषभस्येति ॥ वृषभस्य श्रेष्ठस्य अस्य पूर्वोक्तवायु-देवस्य तृतीयपदस्य विशेषणपदत्वेन साकाङ्क्षात् तत्पूरणाय पूर्ववाक्याद्वपुः पदमावर्तनीयमिति भावेन तृतीयं वपुरित्युक्तम् । कस्य योषण इत्याकाङ्क्षा-पूरणाय योग्यतया हरेरित्युक्तम् । देवेषु बहुभार्यत्वस्य श्रीभूदुर्गापतौ हरावेव युक्तत्वादिति भावः । पूषन्शब्दवद् योषन्शब्दोऽपि नकारान्तस्त्रीलिङ्गो वैदिकोऽस्ति । अत एव योषण इत्यस्य योषित इत्यर्थ उक्तः । दोहस इत्यत्रापि हरेरिति पदमावर्तनीयम् । तासामेतज्जननीत्वे किं कारणमित्यत उक्तं निजेति । मानुषस्त्रीणां देवजननीत्वासम्भवाद् भगवत्पुत्रस्य मुख्यप्राणस्य लक्ष्मीपुत्रत्वात्सहजमातरस्ता एव मनुष्यपत्न््नयामाविष्टास्तं जनयामासुरिति भावः ॥ ७०३,७०४ ॥
सत्यप्रमोदटीका
वृषभस्य अधिकारिषु श्रेष्ठस्य वायोः । वपुर् इति पूर्वोक्तस्यात्राप्यावृत्तिः । हरेर् योषित इति सम्बन्धः । योषण इति छान्दसम् । किलेति । श्रुतय इति भागवते श्रुतिगीतिकोपक्रमे बहुवचनप्रयोगात्प्रसिद्धिमिति भावः ॥ निजस्य नित्यसम्बन्धिनः पत्युर्विष्णोः सर्वोत्तमत्वप्रतिपादकानाम् आम्नायानां रक्षणार्थं दुर्वाददूरीकरणेन स्वपत्युक्तसूत्रार्थस्थापनार्थम् इत्यनेन पतिशुश्रूषाङ्गतयैव कुमारस्य मध्वस्य जननम् इत्याह दोहस इति ॥७०३,७०४॥
युक्तिमल्लिका
अमाञ्योगेऽपि लङ्रूपं यतः स्याच्छन्दसीदृशम् ।
छन्दस्यसन्प्रत्ययोऽपि तुमर्थेऽस्तीति शाब्दिकाः ॥ ७०५ ॥
सुरोत्तमटीका
ननु लडागमस्यावश्यकत्वादजनयन्तेति वक्तव्यं जनयन्तेति कथमित्यत आह ॥ अमाञ्योगेऽपीति ॥ अमाञ्योगे निषेधार्थक-माञ्योगाभावेऽपि । माञ्योगे अडागमाभावो लोकसिद्धः । अमाञ्योगेऽपि छन्दसि अडागमो वैकल्पिकः । तस्माज्जनयन्तेत्यपि पदं छन्दसीति भावः । अनेन बहुलं छन्दस्यमाञ्योगेऽपीति सूत्रं सूचयति । तुमर्थे तुमुन्प्रत्ययार्थे । दोग्धुमित्याद्यर्थे दोहस इत्यादि पदमपि भवतीति भावः । एवं च हरिविषयक-ज्ञानदोहाय वेदाभिमानिदेवताभिर्जनितः पुत्रो मध्व एव भवतीति भावः ॥ ७०५ ॥
सत्यप्रमोदटीका
लङ्रूपम् अडागमरहितं जनयन्तेतिरूपम् । ‘बहुलं छन्दस्यमाङ्योगेऽपि’ इति सूत्रात् । तुमर्थे इति । तेन दोहसे इति साध्विति भावः ॥ ७०५ ॥
युक्तिमल्लिका
यतो मध्वो मातरिश्वा जन्मनोऽनु सुराननु ।
प्रकृष्टविजिगीषादिशक्तिमान्प्रदिवः सुधीः ॥ ७०६ ॥
प्रकृष्टा द्यौर्येषु ते वा प्रदिवो देवताजनाः ।
ताननूद्दिश्येति वार्थो वक्तव्योऽत्र विचक्षणैः ॥ ७०७ ॥
सुरोत्तमटीका
यदीमनुप्रदिव इति वाक्यस्यार्थमाह ॥ यत इति ॥ यदित्यस्यार्थकथनं यत इति । यस्मात् कारणादित्यर्थः । अन्वित्यस्य साकाङ्क्षत्वाच्छेषपूरणं जन्मनोऽनु जन्मानन्तरमिति । सुराननु सुरानुद्दिश्येति ॥ प्रदिव इत्यस्यार्थान्तरमाह ॥ प्रकृष्टा द्यौरिति ॥ ७०६,७०७ ॥
सत्यप्रमोदटीका
‘यदीमनु प्रदिव’ इति खण्डं व्याख्याति यत इति । यस्मादित्यस्य तस्मादित्यनेन (श्लो.७११) अन्वयः । अनु इति शब्दस्य द्वेधाऽन्वयमुपेत्याह जन्मन इति सुरानिति च । शैशव एव घृतवल्यां शिव-पदस्य कुवादिनो निग्रहाज्जन्मनो ऽनु इति युक्तम् । ‘प्रचुरान्तरप्रवचनं फणिराडुपशुश्रुवान्’ इत्युक्तेः सुरानुद्दिश्य इति च । प्रदिव इत्यस्य प्रथमात्व-मुपेत्याह प्रकृष्टेत्यादि । दिवुधातोर्विजिगीषाद्यर्थकत्वात् । द्वितीयान्तत्व-मप्युपेत्याह देवता इति ॥ ७०६, ७०७ ॥
युक्तिमल्लिका
आधवे सर्वतः श्रेष्ठ्ये यद्धवः पतिरुच्यते ।
भावप्रधानो निर्देशोऽप्यस्ति तेनोचितं हि तत् ॥ ७०८ ॥
गुहासन्तं हृद्गुहायां वसन्तं पुरुषोत्तमम् ।
ईमित्थं हृद्गुहास्थत्वाद्याकारेण मथायति ।
वेदशास्त्रादिमथनं कृत्वा दर्शयति प्रभुः ॥ ७०९ ॥
सुरोत्तमटीका
तत् सर्वतः श्रैष्ठ्यरूपार्थकथनम् ॥ ७०८,७०९ ॥
सत्यप्रमोदटीका
आ सर्वतः धवे धवत्वस्य श्रैष्ठ्यस्य स्थापनार्थम् ॥ गुहासन्तमिति इदं च मथनम् अन्तर्याम्यन्तराद्यधिकरणभाष्येषु स्पष्टम् ॥ ७०८,७०९ ॥
युक्तिमल्लिका
दीर्घेण मथनस्यातिदीर्घतां श्रौततां च सा ।
असूचयत्तेन नानादुर्भाष्याण्यप्यमोचयत् ॥ ७१० ॥
सुरोत्तमटीका
सा श्रुतिः । तेन मथनस्य दीर्घत्वापरपर्यायबहुकाल-स्थायित्वसूचनेन । दुर्भाष्यकृतमतानि पूर्वोत्तरविरुद्धत्वादस्थिराणीति भावः ॥
सत्यप्रमोदटीका
अतिदीर्घतां प्रमाणमूलत्वेन भूतभाविभवदात्मभिः क्वचिदप्यदूष्यताम् । दुर्भाष्याणि कुकल्पनामात्रमूलत्वादस्थिराणि ॥ ७१० ॥
युक्तिमल्लिका
तस्मादीशानादयोऽपि सूरयस्तत्प्रसादतः ।
बभूवुरिति सम्बन्धो यतोऽत्रैको बहुः कृतः ।
आद्यर्थैव विभक्तिस्तदिति सर्वं च मङ्गलम् ॥ ७११ ॥
सुरोत्तमटीका
तस्मात् कारणात् । तत्प्रसादतः मध्वप्रसादतः । बभूवुर् ज्ञानिनो बभूवुः । अनेन बुध्नाज् ज्ञानरूपाद् यद् यस्मान् मध्वात् । ईशानास ईशानाद्याः । महिषस्य नारायणस्य वर्पसः वरणीयत्वात् पालकत्वाद् वर्पःसंज्ञान् गुणान् निरक्रन्त निरजानन्तेति श्रुतेरर्थोऽपि सूचितो भवति । सम्बन्धः यदीमन्विति वाक्यस्य च सम्बन्धः । उपलक्षणं चैतत् । यच्छब्द-स्तच्छब्दापेक्षत्वात् तत्तृतीयं वपुर्जनयन्तेति अस्यापि वाक्यस्य स्वपूर्ववाक्येन सम्बन्धश्चेति द्रष्टव्यम् । यस्मादित्यस्य तत्तृतीयं वपुरिति पूर्वेणान्वयः । अत्र श्रुतौ । एक एकशिवप्रतिपादकेशानशब्दः । बहुवचनान्तविभक्तिर् बहुवचन-रूपविभक्तिः । तत्तस्माद् ईशानपदवाच्यशिवस्यैकत्वेन बहुवचनस्य आद्यर्थं विनाऽर्थान्तरायोगात् ॥ ७११ ॥
सत्यप्रमोदटीका
ईशानासः बहुवचनमाद्यर्थे । रुद्रादयः । शवसा सुखेन । तत्र हेतुस् तत्प्रसादत इति । सूरयः बभूवुरित्यन्वयः । एक ईशान आदिपदोपात्तेन्द्रादिभिः साहित्येन बहुः कृतः ॥ ७११ ॥
युक्तिमल्लिका
वर्गार्थस्तूदितः पूर्वैर्मद्गीस्तद्युक्तिमल्लिका ॥ ७१२ ॥
सुरोत्तमटीका
मद्गीर् मम ग्रन्थरूपा वाक् तद्युक्तिमल्लिका पूर्वा-चार्योक्तार्थे युक्तिसंग्रहरूपत्वाद्युक्तिमल्लिकाख्या । नन्वन्नसूक्तमध्यस्थेऽस्मिन्वर्गे कुतो मुख्यप्राणस्य प्रसङ्ग इति चेन् न । अन्नमात्रस्य प्राणाद्याहुतिपञ्चकभरित-त्वेनान्नसूक्त एव प्राणस्तुतेरेवावश्यकत्वात् । तथा चायं वर्गार्थः । सहसः वेगवत्त्वाद् ब्रह्माण्डान्तर्गतघनोदकमध्यस्थवायुकूर्मरूपेण जगद्धारकशेषाधारतया बहुतरसहनशीलत्वाद्वा सहश्शब्दवाच्यस्य देवस्य मुख्यप्राणस्य, प्राणादभूद्यस्य चराचराणां प्राणः सहो बलमोजश्च वायुरिति भागवतवचने सहोबलादि-शब्दानां मुख्यप्राणे प्रयोगाच्च । अत एव अनुशासनबलाज्जगद्धारणाख्य-कार्यबलाच्च भर्गश्शब्दवाच्यं तन्मूलरूपं यतो भगवतः स्वयमजनि तदाज्ञयेति च ग्राह्यम् । आज्ञामन्यैरधार्यामिति वचनात् ।
इत्था इत्थं वक्ष्यमाणप्रकारेण । भारतरामायणादौ वक्ष्यमाणप्रकारो ऽतिदीर्घ इति ज्ञापयितुमित्थेत्युक्तम् । इत्थं मूलरूपवदेव वा । वपुषे हनुमदाद्यवताराय धायि अधायि । यतो हनुमदाद्यवतारत्रयाद् भर्गः भार-रूपत्वाद्रतिरूपत्वाद् गतिरूपत्वाच्च भर्गश्शब्दवाच्यं भगवतो रूपम् । अजनि मूलरामायणपञ्चरात्रब्रह्मसूत्रव्याख्यानादिना प्रादुर्भूतमभूत् । तस्मै वपुषे धायीति वा यतो यस्मात्कारणाद् भर्गश्शब्दवाच्यं भगवतो रामरूपं कृष्णरूपं व्यासरूपं चाजनि भूमाववतीर्णमभूत् । तस्मात्कारणात्तत्सेवार्थं वपुषे धायीति वा । रूपत्रयस्याप्यभेदसूचनाय वपुष इत्येकवचनम् ।
अथवा भर्ग इत्यकारान्तं पदं शिववाचकम् । हरस्स्मरहरो भर्गः कृत्तिवासा वृषाङ्गग इत्यभिधानात् । यतः सहसो वायोर् भर्गः शिवोऽजनि तस्य सहसो देवस्य बट् दर्शतं तन् मूलरूपम् इत्थं वपुषे धायीति योजना । वाय्ववतारं विहाय सहःपदेन मुख्यप्राणस्यैव ग्रहणायेदं व्याख्यानम् । शिवजनकत्व-स्यान्यत्रायोगात् किंकराश्शङ्कराद्या इति मुख्यप्राण एव सम्भवाच्च एकैक-रोम्णः कोटिलिङ्गजनकत्वस्य सुप्रसिद्धत्वेन युक्तियुक्तत्वाच्चायमप्यर्थोऽत्यन्त-श्लाघ्यः । वबयोरभेदेन बलात्मकत्वादयपयगताविति धातोर्ज्ञानशीलत्वाच्च वायुशब्दवाच्यस्य प्राणस्य मुख्यतो नामभूतवायुशब्दार्थसूचनाय चेदं विशेषण-द्वयमुपात्तम् । मातरिश्वा मथायतीति उपरि स्पष्टं वायोः कथनादत्रापि देवस्येति पदं वायुदेवस्यैव वाचकं मातरि भगवज्ज्ञानसाधनीभूते वेदशास्त्रादौ श्वा गतिरवगतिर्यस्येति व्युत्पत्त्या वायुवाचकमातरिश्वपदार्थसूचनाय च दर्शत-मित्युक्तम् । टु ओश्विगतिवृद्ध्योरिति धातोः । वायवायाहि दर्शतेत्यत्र स्पष्टं दर्शतपदस्य वायुविशेषणत्वश्रवणादस्यापि वायुप्रकरणत्वद्योतनाय च तदेव पदमुपात्तम् । आद्यरूपद्वयेन बलकार्यकरणे तृतीयरूपेण ज्ञानकार्यकरणे च वायोश्शक्तिसद्भावसूचनाय च क्रमेण बट् दर्शतमिति विशेषणद्वयमुपात्तम् । तदुभयं च हृदि भगवतो निरन्तरध्यानादुत्पन्नमिति सूचयितुं ध्यानरूप-प्रकृष्टचेष्टाकर्तृत्वाख्यप्राणशब्दार्थसूचनाय च भर्ग इति तृतीयं विशेषणम् । भगवत्परतायान्तु भगवतो जननाभावसूचनार्थं गायत्री प्रतिपाद्यत्वसूचनार्थं च भर्ग इति विशेषणम् ।
यद्वा दर्शतपदं वायोर् वेदपुराणपञ्चरात्रभारतादिसच्छास्त्रव्याप्तज्ञानरूप-शास्त्राभ्यासाख्योपासनाकौशलदर्शनार्थम् । ईश्वरादन्यत्रालोचने सकलपदार्थ-व्याप्तज्ञानसूचनार्थं च । भर्गःपदं तु ध्यानरूपोपासनादिकौशलदर्शनार्थं पुनर्दर्शतपदं दृश्लृप्रेक्षण इति धातोर्दर्शपदस्य प्रायशोऽपरोक्षज्ञानवाचकत्वात् तत्तत्पदस्य तन्नियमवाचकत्वेन वायोर्द्विविधोपासनाफलीभूतनित्यापरोक्षप्रतीति-प्रतिपादनार्थम् । एवं च ज्ञानस्य मोक्षं प्रत्यन्तरङ्गसाधनत्वात् तद्विस्तर-प्रदर्शनायेदं विशेषणद्वयम् । बलस्य तु ज्ञानसाधनदुष्टसंहाराख्यभगवत्सेवोप-योगिनो ज्ञानादमुख्यत्वात्तत्प्रतिपादनाय एकं विशेषणं ज्ञानसाधन-प्रतिपादकत्वादादावेवोपात्तम् । यद्वा दर्शो दर्शनं वैष्णवदर्शनम् । तं ततं स्वतृतीयावतारेण भूमौ व्याप्तं यस्मात् तद्दर्शतम् । भर्गस् तद्रूपेणैव भर्ज्यन्ते नानादुर्दर्शनान्यनेनेति भर्गश्शब्दवाच्यम् । भ्रश्च पाक इति धातोःप्रसिद्धोऽय-मर्थः । तदुभयोपयुक्तयुक्तिज्ञानबलवत्त्वाद्बट्च । अत एव वपुषे धायीति विशेषणत्रयमपि ज्ञानकार्योपयोगितयैव प्रयोजनीयम् । उक्तरीत्या तस्यैवाति-प्रबलत्वाज् जगद्गुरुतया ज्ञानदायकतृतीयरूपस्य साक्षान्मोक्षोपयोगितया भगवतः सर्वोत्तमत्वादिमहामहिमस्थापकतया स्वप्रामाण्यस्थापकतया स्वार्थक-मीमांसकतया श्रुतेरत्यन्तप्रियतया तत्रैव भराद्वपुष इत्येकवचनम् । अत एव मूलरूपे अवतारद्वयेऽपि च अर्धार्धऋक्, तृतीयरूपविषये तु सार्धऋक्त्रयम् । सर्वज्ञमन्यमनवेक्ष्य सकार्य(वीर्यं)दक्षं स्मेराननो भुवनजीवनमाबभाषे । तद्युक्त्या भासजालप्रसरविषतरूद्दाहदक्ष प्रमाणज्वालामालाधरोऽग्निः पवन विजयते तेऽवतारस्तृतीय इत्यादि वचनात् स एव युक्तिज्ञानबलवान् दुर्दर्शनभर्जनश्च ।
यदी य एव मतिर् अतिशयितमतित्वेन मतिरेव रूपवतीति कविभिर्वर्णित-त्वान् मतिशब्दवाच्यो हनुमान् । उप रामस्य समीपे ह्वरते विहरते क्रीडत इत्यर्थः । वकारश्छान्दसः । ह्वरक्रीडायामित्येव वा धातुः । इदं च हनहिंसागत्योरिति धातोर्गत्यर्थानां च ज्ञानार्थत्वाद्धनं हननं मुखस्यानुभवो यस्येति व्युत्पत्त्या हनुमच्छब्दार्थसूचनार्थम् ।
अथवा उप रामस्य समीपे एकान्तवचनश्रवणार्थं रामसमीपागमने सतीत्यर्थः । ह्वरते ह्वर कौटिल्य इति धातोर् भक्त्या नम्राङ्गीभूय तिष्ठतीत्यर्थः । प्रीत्याऽवनम्राकृतिं वक्त्राम्भोरुहसक्तहस्तकमलं भक्तं भटाग्रेसरम् इति वचनात् । इदमपि साक्षात्परदेवतया सह एकान्तगोष्ठीयोग्यविलक्षणहनुप्रदेशवत्त्वाद-जहत्स्वार्थलक्षणया हनुशब्दबोध्यं मुखकमलमस्येति व्युत्पत्त्या हनुमच्छब्दार्थ- स्यैव दर्शनार्थम् ।
यद्वा यद्वपुः पूर्वोक्तविधया मतिशब्दवाच्यं यच्च इत्थं नारायणादौ उक्तप्रकारेण ई इत्थं हरेर्मूलरूपे लक्ष्मीमूलरूपे च स्वरूपमूलरूपवद् ई सीता-रूपलक्ष्मीम् उपसमीपे लङ्कास्थितसीताख्यलक्ष्म्याः समीप इत्यर्थः । ईकारे श्रीवाचकत्वस्य निघंट्वादौ प्रसिद्धत्वात् । ऋतस्य यथार्थज्ञानस्य रामस्य च समीपे ह्वरते क्रीडते । एकान्तोक्तिसमये नम्रीभवति च । साधते दुष्टराक्षस-हिंसनादिरामकार्याणि साधयते । स्वामिभक्तिकरणसमये अङ्गकौटिल्य-सद्भावेऽपि स्वामिकार्यकरणसमये मनःकौटिल्याभावसूचनाय साधयत इति प्रसिद्धप्रयोगं विहाय यथास्थितधातुप्रकृतेरेव प्रयोगः कृतः । इदमपि हनहिंसा-गत्योरिति धातोः शत्रूणां हनं हननमस्यास्तीति हनुमानिति हनुमच्छब्दार्थ-सूचनार्थमुक्तम् । ताच्छील्यप्रदर्शनाय उकारः । ऋतस्य रामस्य सस्रुतो ऽमृतस्रवणसहिता धेना धिनुपुष्टाविति धातोः कामधेनुवत् सतां धारण-पोषणशीलत्वाद्धेनाशब्दवाच्या वाच ई लङ्कास्थितसीतारूपलक्ष्मीं प्रति अनयन्त अनयत आनीतवानित्यर्थः। व्यत्ययो बहुलमिति वचनाद् बहुवचनमेकवचनार्थे ।
अथवा तत एव कर्तृकर्मव्यत्यासाद् येन वपुषा ऋतस्य धेना अनयन्त सीतां प्रत्यनीयन्त । तथा यद्वपुर् ऋतस्य ऋगताविति धातोः रावणबलेन लङ्कां प्रति नीतस्य सीताप्रतिबिम्बस्य सस्रुतो ऽमृतस्रवणसहिताश् चित्तद्रव-सहिता वा ऋतस्य सत्यस्य धेनाः सत्यसम्बन्धिनीर्वाचः यथार्थवाच इत्यर्थः । मनसा रावणमङ्गीकृत्य वचसा रामप्रदर्शनपरा नेति यावत् । ऋतस्य रामस्य उप समीपं प्रति अनयन्त अनयत । येन वपुषा अनीयन्त वा ।
यद्वा ऋतस्य रामस्य सस्रुत उपक्रमोपसंहारादियुक्तिस्रवणसहिता धेना वेदपञ्चरात्रादिब्रह्ममीमांसादिव्याख्यानरूपवाचः मुख्यश्रोतृतया पुरतस्स्थितस्य स्वस्य मनसि अनयन्त हनुमाननयन्तेत्यर्थः । हनुमतः स्वान्तर्यामिणो हरेर् वाङ्मनसदेवताया लक्ष्म्याश्चेति त्रयाणां कर्तृत्वसूचनाय अनयन्तेति बहुवचनम् । अनीयन्त वा ।
अथवा रामस्य प्रतिपादिका मूलरामायणादिवाचः देवगन्धर्वादिश्रोतृष्वन-यन्त व्याख्याय तन्मनसि अनयद् अनीयन्त वा । अत्रापि बहुवचनस्य उक्तमेव कृत्यम् । सीतारामयोरुभयोरपि देशतस्समव्याप्ततया दूतेन तद्वचनप्रणयन-रूपार्थस्य परमतत्वरहस्यापेक्षया व्यत्यस्तत्वसूचनाय शब्दस्यापि व्यत्यासः । इदमपि हनं हननं वचसामितस्ततः प्रापणम् अस्य वर्तत इति व्युत्पत्त्या हनुमच्छब्दार्थप्रतिपादनपरम् । तद्वपुः प्रथममिति वाक्यशेषेण सम्बन्धः ।
यद्वा रामसेवार्थं भूमिं प्राप्तस्य हनुमतः सस्रुतः निरुपाधिकभक्तिस्रवण-सहिताः समुद्रोल्लङ्घनवनभञ्जनाक्षशिक्षणसेतुबन्धनसञ्जीवनानयनादिमहाकार्यं कृत्वाऽपि
प्रवर्धतां भक्तिरलं क्षणे क्षणे त्वयीश मे ह्रासविवर्जिता सदा ।
अनुग्रहस्ते मयि चैवमेव निरूपधौ तौ मम सर्वकाम ॥
इत्यादिरूपा धेना एकान्तभक्तानां पोषणहेतुभूता वाचः सस्रुत आनन्दाश्रुकणस्रवणसहिता धेनाः पट्धात् परसकलतत्वपोषणशीला वाचश्च तथा ऋतस्य भूभारहरणार्थं भूमिं प्राप्तस्य रामस्य सस्रुतः महाप्रसादविपुल-कृपारसस्रवणसहिता धेनाः स्वभक्ताग्रेसरहनुमत्पोषणशीला हनुमंस्त्व-म्भविष्यति कल्पे मम नाभिकमलाद् उद्भूय चतुर्मुखो भूत्वा सत्यलोक-पदवीश्रियं भोक्ष्यसि । ततः परं परान्तकाले वैकुण्ठादिलोके स्थितस्य मम सर्वेभ्योऽप्यत्यधिकां सायुज्यसंपदमनुभविष्यसीत्यादिरूपा वाचश्च स्वसमीपे सदा विहरन्तं स्वकार्याणि च साधयन्तं मतिमन्तं यं हनुमन्तम्,
ईकारोऽब्जदले लक्ष्म्यां वाण्यां कमलकेसरे ।
रचनायां शक्रचापे बाणे फणिनिकंदरे ॥
इति नानार्थरत्नमालोक्तेः, ऋतस्य ज्ञानरूपस्य पद्मनाभस्य र्इं नाभिकमल-केसरम् अनयन्त अनयन् । ऋतस्य सत्यस्य सत्यलोकस्येत्यर्थः । र्इं श्रियम् अनयन्त प्रापयन्त । तथा ऋतस्य प्रद्युम्नस्य भूकुमारीभूतां र्इं वाणीम् अनयन्त सरस्वतीपतिं चक्रुरित्यर्थः । तथा ऋतस्य सत्यस्य जगतः र्इं रचनां पाद्मे कल्पे प्राप्ते जगद्रचनामित्यर्थः । अनयन्त जगत्सृष्टिव्यापारनिरतमकुर्वन्नित्यर्थः ।
यद्यपि मूलरूपवायोरेव ब्रह्मपदवी । तथापि हनुमदवतारे सेवया परितुष्टेन रामेण दत्तत्वात् हनुमत्कथात्वेन श्रुतिरवर्णयत् । तथा ब्रह्मशतवर्षानन्तरमुक्तौ प्राप्तायां सस्रुतः सदा ज्ञानरसस्रवणसहितस्य ऋतस्य सत्यवचनशीलस्य ऋतस्य यथार्थज्ञानरूपस्य वैकुण्ठस्थनारायणमुखकमलस्य उप समीपे तद्वक्ष-स्स्थल इत्यर्थः । या ईर्लक्ष्मीस् तामुप तत्समीपम् अनयन्त । वक्षःस्थलो-ल्लसितश्रीसमीपमुक्तामालाश्रितमणिगणमध्ये एकमकुर्वन्नित्यर्थः । दुष्प्रापे पारमेष्ठ्ये करतलमतुलं मूधर्ि्न विन्यस्य धन्यं तन्वन्भूयः प्रभूतप्रणय-विकसिताब्जेक्षणस्त्वेक्षमाण इति वचनात् । मुक्तामालाविमुक्तद्रुहिणगणतनु-र्नित्यमुक्तस्य कण्ठे भक्त्या सक्त्या विमुक्त्यै भवतु भवभयाद्भूयसो भावितान्न इति वचनाच्च । यद्यपि प्राणश्चूडामणिरित्यप्यस्ति तथापि अमुक्तगम्यस्थान-स्थितमूर्तिविषयत्वात्तदत्र नोक्तम् । परमुक्त्याख्यमहाफलदायकमूर्तौ तूक्तैव गतिः । तस्य हनुमतो वपुः प्रथममिति सम्बन्धः । अस्यां योजनिकायां नार्थव्यत्यासोऽस्ति । उक्तार्थस्य परमतत्वानुकूलत्वात् । अत एव न शब्द-व्यत्यासोऽपि ।
अस्य वायोर् द्वितीयं वपुः पृक्षः पृत् पृतना क्षीयते अस्मादिति व्युत्पत्त्या वैरिपृतनाक्षयकारित्वात्पृक्षश्शब्दवाच्यं, तकारलोपश्छान्दसः । तेन च महाबलस्यास्य सेना सर्वापि न प्रतिसेनेति ज्ञापयति । क्षी क्षय इति धातोर् औणादिके डस् प्रत्यये कृते पृक्ष इति सकारान्तं पदम् । इदं च वैरिणां भयं मिमीते निर्मिमीत इति व्युत्पत्त्या भीमशब्दार्थज्ञापनार्थम् । सोऽयं भीमः पितुमान्बह्वन्नभोक्तृत्वात् पितुमच्छब्दवाच्यश्च । इदमपि बकाय दत्तसहस्र-प्रस्थान्नभोजनं कृत्वा स्वाश्रितैकचक्रस्थसज्जनानां भीर् मीयते समीयते नश्यत्यस्मादिति व्युत्पत्त्या भीमशब्दसूचनार्थम् ।
नित्यः प्रलयेऽप्यविलुप्तज्ञानत्वान्नित्यशब्दवाच्यः सोऽयं भीमः सप्त सप्तसु वेदचतुष्टयमूलरामायणपुराणपञ्चरात्रभेदेन सप्तसङ्ख्यातासु । सुपांसुलुगिति विभक्तिलोपः । शिवासु शोभनासु मातृषु मीयन्ते ज्ञायन्ते अर्था आभ्य इति व्युत्पत्त्या मातृशब्दवाच्यासु विद्यासु आसमन्तात् शये शेते सर्वत्र विमर्शं कृत्वा तिष्ठतीत्यर्थः । शेत इति वक्तव्ये शय इति वचनं लौकिकानां निद्रावन् निद्राभावसूचनार्थम् । अत एव प्राक् नित्य इति विशेषणं चोक्तम् । सप्त परतत्वापरतत्वे । तयोः पञ्चभेदाश्चेति सप्तार्था यथा भवन्ति तथा शेत इति वा । इदमपि भियोभृता मा येन स इति व्युत्पत्त्याभीमशब्दार्थज्ञापनार्थम् । भृञ्भरण इति धातोः कर्मण्यौणादिकडीप्रत्यये कृते भीति रूपं सिद्ध्यति ।
वृषभस्य श्रेष्ठस्य अस्य च वायोस् तृतीयं वपुर् योषणः योषितः वेदाभि-मानिन्यः श्रीभूदुर्गात्मिकाः श्रीनारायणपत्न््नयः दोहसे ज्ञानदोहाय दशप्रमतिं पूर्णप्रज्ञनामकं जनयन्त अजनयन्त । अथवा अस्य वायोर् दशप्रमतिसंज्ञितं द्वितीयं वपुर् वृषभस्य वृषं धर्मं बिभर्तीति वृषभः सकलवैष्णवधर्माधारभूतो नारायणः । तस्य दोहसे उपदेशादिना सकलसज्जनमनस्सु प्रकर्षेण पूरणाय वैष्णवधर्मं विष्णुं च लोके सम्यक् प्रतिपादयितुमित्यर्थः । दुह प्रपूरण इति धातोः । योषितः जनयन्तेति योजना । अनेनापि आनन्दस्य भगवतः ज्ञानप्रदं तीर्थं शास्त्रं यस्येति पूर्णा प्रज्ञा यस्येति च व्युत्पत्त्या आनन्दतीर्थपूर्णप्रज्ञाख्य-नामद्वयार्थः सूचितो भवति । तृतीयमित्यनेन प्रागुक्तरीत्या आश्रमद्वयप्रवर्तक-रूपद्वयात् तृतीयतया यतीश्वरनामार्थोऽपि सूचितो भवति । बुध्नाज् ज्ञान-रूपात् । मूलं बुध्नोऽङ्घ्रिनामक इत्यभिधानात् सकलवैष्णवानां मूलाधारभूताद्वा यद् यस्मान्मध्वाभिधात्तृतीयरूपाद् ईम् इत्थं जगति प्रवर्तमानमध्वसिद्धान्त-रीत्या ईशानास ईशानाद्याः सूरयः विद्वांसः महिषस्य सर्वोत्तमस्य नारायणस्य वर्पसः वरणीयत्वात् पालकत्वाद्वर्पस्संज्ञान् गुणान् अवतारान्वा निरक्रन्त क्रंदिर्गतिशोषणयोरिति धातोर् गत्यर्थानां च ज्ञानार्थत्वान्निरजा-नन्तेत्यर्थः ।
अथवा महिषस्य श्रेष्ठस्य वायोर् वर्पसः गुरुतया वरणीयान् मानदानेन पालकाच्च बुध्नाद् यस्मात् तृतीयरूपाद् ईशानासः सूरयः यथापूर्वं प्राजायन्त इति स्मृतेर् यत्र पूर्वे साध्याः सन्ति देवा इति श्रुतेश्च ईम् इत्थं पूर्वमुक्तदेववन् निरक्रन्त संसारान्निष्क्रान्ता अभूवन्निति योजना । श्रुतिद्वयेनापि ज्ञानदातेति नामार्थः सूचितो भवति ।
यद् यस्मात् कारणात् प्रदिवः प्रकृष्टा द्यौर्यस्येति व्युत्पत्त्या प्रकृष्टज्ञान-प्रकाशवान् । दिवु क्रीडायामिति धातोर् भावार्थे कप्रत्यये दिव इति रूपं सिद्ध्यति । मध्वो मातरिश्वा मध्वाख्यो वायुर् अनु जन्मानन्तरमेव प्रदिवः प्रकृष्टप्रकाशान् ईशानादिदेवान् अनुसृत्य वा श्रुतिब्रह्ममीमांसादीननुसृत्य वा गुहासन्तं हृदयगुहायां विद्यमानं नारायणम् आधवे आसमन्तात्पतित्वे मथायति मथयति । वेदशास्त्रविचाराख्यमथनं कृत्वा प्रकाशयतीत्यर्थः । तस्मात्कारणाद् यस्मान्मध्वाद् ईशानासः सूरयः वर्पसो निरक्रन्त । तद्वपुस् तृतीयमित्यादि वाक्येन सम्बन्धः । अस्यां तु श्रुतौ स्पष्टं मध्वेति नाम्नः मातरिश्वनाम्ना सामानाधिकरण्योक्तेस् तृतीयरूपस्य मध्व इत्याख्या वायुरूपता च स्पष्टीकृता ।
यद् यस्माद् अयं मध्वः पितुः स्वमूलरूपजनकात् सर्वोत्तमान् नारायणात् पितुर् गुरुतया वा स्वपितृभूतात्परमात् परा अतिशयिता मा विद्या यस्येति व्युत्पत्त्या परमाद्व्यासाद्वा परि परितः प्रणीयते प्रकर्षेण प्रेरयित्वा नीयते इदं कार्यं कर्तुम् अत्र गच्छेति नियम्यते । भगवत्संकल्पानुसारेण तत्प्रेरणयैव सर्वत्र गच्छति । न तु दुर्दर्शनाचार्यवत् स्वेच्छाचारी स्वपापचारी चेत्यर्थः । तत्तस्मा-त्कारणाद् विरुद्धः विर् विशेषेण रुहतीति व्युत्पत्त्या वीरुच्छब्दवाच्यलतावद् वारं वारमुत्पद्यमानतया तद्वद् वेदाख्यपादपविलम्बितया च लताशब्दोप-लक्षिताः पृक्षुधः प्रच्छ ज्ञीप्सायामित्यत्रोक्तपृच्छधातोश् छकारस्य वर्णान्तरा-देशेन प्रश्नशब्दवत् क्षुदाख्यवर्णविकारे सति पृक्षुच्छब्दवाच्यान् प्रतिवादिकृत-प्रश्नान् । प्रश्नानां प्रामाणिकत्वाभावसूचनाय ऋकारस्य गुणाभावश्छान्दसः । दंसु दन्तेषु आरोहति आरोपयति । यथा लता दन्तैश् चूर्णीकुर्वन्ति तथा प्रतिवादिकृतप्रश्नान् दन्तान्तर्वर्तिवाग्गुम्भैश्चूर्णीकरोतीत्यर्थः । अत एव मुख्यतो दन्तत्वाभावसूचनाय दत्स्विति वक्तव्ये पुंस्वितिवद् दंस्वित्युक्तम् । पुमानितिवद् दो अवखण्डन इति धातोर् दंशदंशन इति वा धातोर् दानिति सकारान्तो वा शब्दो द्रष्टव्यः । लृतुलसानां दन्ता इति वचनात्तन्नेति दान्ताभ्यां वर्णाभ्यामेव प्रश्नपरिहारस्य प्रागारम्भनियमाद्दंस्वित्युक्तम् । अप्रामाणिकशङ्कायाः सत्यमिति परिहारो नास्त्येव । क्वचित्प्रामाणिकाप्रामाणिकशङ्कायाः सत्यमिति परिहारा-रम्भेऽपि दान्ताक्षरबाहुल्येनैव तत्रापि परिहारारम्भाद् यकारादेरप्राधान्याद्दंस्वि-त्येवोक्तम् ।
अथवा वीरुधः विर् भगवद्विरोधितया उत्पन्नस्य पृक्षुधः स्वपृतनाक्षोभ-कारिणः कल्यादिदैत्यसमूहस्य दंसु दन्तेषु आरोहति स्वचरणेनारोहति आरोहणं करोति । तान् पराभूय तेषां दन्तभङ्गं करोतीत्यर्थः । पराजयस्य दन्तभङ्ग इति लोके रूढेः । भीमसेनेन दुश्शासनादेः साक्षाद्दन्तभङ्गस्यापि कृतत्वाद्दंस्वित्युक्तम् । तथा च श्रुतिर् अधः सपत्ना मे पदोरिमे सर्वे अभिष्ठिता इति, त्वयाभिगुप्ता विचरन्ति निर्भया विनायकानीकपमूर्धसु प्रभो इति देवानां स्तुतिरूपस्मृतिश्च ।
यद् यस्माद् उभौ लक्ष्मीनारायणौ अस्य मध्वस्य स्वामित्वेन सम्बन्धिनौ । यद्यस्माज् जनुषञ्जन्म इन्वतः प्रेरयतः । इण्गतावितिधातोर् इन्वतीति वैदिक-रूपम् । आद् अस्मात् कारणाद् अकारवाच्यप्रेरकपरमात्मबलाद्वा । यविष्ठः सूक्ष्मरूपो मध्वः घृणा घृणावान् यतिरूपधारित्वाद् दययैव भीमादिवत् शत्रुषु हिंसादिकमकुर्वन्नित्यर्थः । लोकमर्यादारक्षणार्थमेव सा घृणा । न तु स्वस्य सहजेति सूचनाय घृणीति नोक्तम् । शुचिः पारमहंस्यधर्माचरणात् परम-पावनश्चाभवत् । आद् अकारवाच्यपरमात्मप्रेरणादेव । इद् इत्थं कल्पे कल्पे मातॄर् जननीर् आविशत् । आविशदित्यनेन मातुरुदरस्थशुक्लशोणितात्मकदेह-परिणामकाले स्वयमाविशत् । न तु पूर्वमारभ्य गर्भवासदुःखमन्वभूदिति सूचयति । अत एव यासु मातृषु आशुचिर् आसमन्तात् शुचिः पापादिकर्मले-परहित इत्यर्थः । अहिंस्यमानः गर्भे वा गर्भाज्जन्मानन्तरं वा कल्यादिभि-रहिंस्यमानः । उर्विया उर्व्या उरुतरस्वशक्त्या विवावृधे विशेषेण ववृधे । तद्वर्धनं, देवानां तु शरच्छतमिति वायुपुराणवचनाद् देववर्षशतपर्यन्तमिति सूचनाय दीर्घः ।
यद् यस्माद् अयं मध्वः सनाजुवः सनात् सदातनत्वेन सनात्पुरुषसंज्ञितं नारायणं जुषन्ते गुणस्तवनेन सेवन्त इति सनाजुष इत्यर्थः । जुष इत्यस्मिन्नर्थे जुव इति वैदिकपदम् । पूर्वाःसप्तविद्यासु प्रथमं विद्यमाना ऋग्यजुः-सामाथर्वाख्या विद्या अनु तदुपक्रमोपसंहारादीननुसृत्य अरुहन् मनसा आरुह्य अभिमानितया आरुह्य वा तिष्ठति । यथा अश्वारूढपुरुषस् तमश्वं हन्तुं न मुञ्चति तथा वेदाभिमानित्वादयमपि वेदमन्यथीकर्तुं न मुञ्चतीति सूचनाय अरुहदित्युक्तम् । तस्मात् कारणान् निनव्यसीषु नितरां नव्यासु मूलरूपा-द्व्यासादिरूपाच्च भगवत उत्पन्नास्वित्यर्थः ।
वेदानामपि सृष्टिकाल एव प्रादुर्भूतत्वेन नवसमत्वसद्भावेऽपि कृतत्वेन साक्षान्नव्यत्वसूचनायानीत्युपसर्गः । भगवदुत्प्रेक्षितनूतनयुक्त्युपेतासु वा अवरासु वेदविद्यातो ऽनन्तरं विद्यमानासु पुराणपञ्चरात्रेषु वा पुराणपञ्चरात्र-मूलरामायणेषु वा धावते अनुकूलवरबलात् साक्षाद्भगवदुपदेशबलाच्च त्वरया अवगाहते । क्रममात्रव्यत्याससद्भावेऽपि शब्दतोऽर्थतश्चानादिष्वेषु पुराणादिषु स्वकपोलकल्पिततया कालिदासकृतमेघसन्देशादिष्विव शब्दतोऽर्थतश्च नव्यत्वाभावसूचनाय नव्यसीष्विति विलक्षणप्रयोगः । अन्यथा नवीयसीष्वित्येव श्रुतिरवक्ष्यत् । अपि च प्रथमं वपुरित्यनेन हनुमतः वायुपुत्रनाम, ऋतस्य उपह्वरत इत्यनेन रामेष्टनाम, साधत इत्यनेन महाबलः दशग्रीवस्य दर्पहेति नाम, धेना अनयन्तेत्यनेन अमितविक्रम उदधिक्रमणः सीताशोकविनाशन इति नाम, च हनूमच्छ्रुत्या सूचितम् । हनुमन्नाम तु सर्वत्र सूचितमित्युक्तम् । भीमश्रुत्या च द्वितीयं वपुरित्यनेन मारुतिरिति नाम, पृक्ष इत्यनेन महाबलः गदापाणिर् दुःशासनविनाशनः जरासन्धान्तकृद् वीर इति नाम, पितुमानित्यनेन वृको नाम महावह्निः कायेन दशयोजन इति वचनाद् वृकाख्याग्निसन्निहितोदरत्वेन वृकोदरनाम, मातृषु आविशदित्यनेन कृष्णदयित इति नाम सूचितम् । भीमनाम तु सर्वत्र सूचितमित्युक्तम् । मध्वश्रुत्या तृतीयमस्येति वाक्ये आनन्दतीर्थः पूर्णप्रज्ञः यतीश्वर इति नाम सूचितम् । निर्यदीमिति श्रुत्या ज्ञानदाता वैष्णवाचार्य इति नाम । यदीमन्विति श्रुत्या मध्वनाम तत्वज्ञनाम च, प्रयत्पितुरिति श्रुत्या व्यासशिष्यः ध्वस्तदुरागमः जितवादीति नाम । उभा यदस्येति श्रुतौ शुचिपदेन जितेन्द्रियनाम च सूचितम् । अतो हनुमदादिप्रतिपादकत्वमस्य वर्गस्य लोकप्रवादतोऽपि सिद्धमित्यपि द्रष्टव्यम् । वर्गार्थः समाप्तः
॥ ७१२ ॥
सत्यप्रमोदटीका
तद्युक्तिमल्लिका पूर्वाचार्योक्तार्थविषये युक्तिसङ्ग्राहिका ॥ ७१२ ॥