अतो वेदेन वेदान्तवचनेन च मानितम्
इदं ते पात्रम् इत्यादिश्रुत्यर्थः
युक्तिमल्लिका
अतो वेदेन वेदान्तवचनेन च मानितम् ।
सर्वैर्मान्यं मतमिदं माननीयो गुरुश्च नः ॥ ६५१ ॥
सुरोत्तमटीका
अतः पूर्वोक्तप्रकारात् । इदं मतं तत्ववादिमतम् ॥ ६५१ ॥
युक्तिमल्लिका
यद्वायोः पवमानस्य पूयमानाभिधस्य च ।
सूक्तस्थर्चामियं चर्चा तद्वायुस्तुतिरेव नः ॥ ६५२ ॥
सुरोत्तमटीका
यद्यस्मात् पवमानस्य पूयमानाभिधस्य च सूक्तस्थर्चामियं चर्चा वायोरेव चर्चा । तत्तस्मादियं चर्चा नः वायुस्तुतिरेवेति सम्बन्धः । वायुस्तुतेरुक्तऋक्चर्चायाश्च एकवाक्यतायाः प्राक् प्रदर्शितत्वादिति भावः ॥ ६५२ ॥
सत्यप्रमोदटीका
इयं वार्योर्गुणस्थापनपरा ॥ ६५२ ॥
युक्तिमल्लिका
स्पष्टं मध्वाभिधानांकाः सप्तर्चोऽत्र विचारिताः ।
अष्टर्चस्तच्चरित्रांकाश्चक्राङ्कैका हरस्य वाक् ॥ ६५३ ॥
सुरोत्तमटीका
सप्तर्चः समध्व आयुवते, उन्मध्व ऊर्मिः, विद्वान्मध्वः, मध्वो अंशुः सिंहन्नसन्तं मध्वो अयासं, प्रधारामध्वः, अस्मभ्यमिन्दविन्द्रयु-र्मध्व इति सप्तर्चः । अष्टर्चः । प्रसेनानीः प्रावीविपत्, सोमः पवते, ब्रह्मा देवानां, येन देवाः पवित्रेण, यत्ते पवित्रमर्चिषि, चमूषच्छ््येन, पवित्रन्त इति प्रधानभूता अष्टर्चः । अपूर्व्य ईक्षेण्यास इति आद्यन्तयोर्मिलित्वा एका ऋक् । अजीतये, अहतये, ऊर्ध्वो गन्धर्वः, प्राजापत्यम्, उभाभ्यां देवसवितः, त्रिभिष्ट्वं देवसवित इति अङ्गभूताष्षडृचः । तथा चाङ्गभूता ऋग्भिस्सह तच्चरित्राङ्का मध्वचरित्रवर्णनपराश् चतुर्दश ऋचः पूर्वोक्तसप्तश्रुतिवत् स्पष्ट-मध्वनामाङ्काभावेऽपि मध्वस्य चरित्रं मध्वप्रथमावतारद्वयचरित्रं मध्वमूलरूप-चरित्रं तप्तमुद्राधारणाख्यमध्वाचारं च वायुस्तुताविव वर्णयतीत्यर्थः । एवं च मिलित्वा पवमाने पूयमाने च मध्वगुणप्रतिपादिका ऋच एकविंशति सङ्ख्याताः । चक्राङ्का चक्रस्य अङ्कश् चिह्नप्रतिपादनमित्यर्थः । यस्याः सा । हरस्य वागित्युपलक्षणम् । काण्वानां शतपथब्राह्मणवचनं च ग्राह्यम् ॥६५३॥
सत्यप्रमोदटीका
अष्ट प्रधाना अङ्गभूताः षट् तथा च मिलित्वा चतुर्दशेति ध्येयम् । हरस्येत्युपलक्षणम् । शतपथब्राह्मणमपि ग्राह्यम् ॥६५३॥
युक्तिमल्लिका
वायुस्तुतौ च मध्वाख्या सकृदेव प्रकाशिता ।
असकृन्मध्वसन्नाम्नी सेयं वायोर्महास्तुतिः ॥ ६५४ ॥
सुरोत्तमटीका
पूर्वं पवमानपूयमानसूक्तयोः प्रसिद्धवायुस्तुतिसाम्य-मुक्तम् । इदानीं ततोऽप्यतिशयमाह ॥ वायुस्तुतौ चेति ॥ सकृन् मध्वाख्यं मन्त्रसिद्धमिति श्लोके एकवारम् । असकृद् उक्तविधया सप्तश्रुतिषु सप्तवारं, मध्वसन्नाम्नी मध्व इति समीचीननामवती । सेयं पवमानपूयमानसूक्ताख्य-ऋङ्मण्डली ॥ ६५४ ॥
सत्यप्रमोदटीका
‘मध्वाख्यं मन्त्रसिद्धमि’ति वायुस्तुतौ प्रतिज्ञातम् अनेकासाम् ऋचां मण्डल्या उदाहरणेन समर्थिता । अतः ‘तां मन्त्रवर्णै-रनुवर्णनीयामि’त्युक्तमपि दिक्प्रदर्शनेन उपपादितमित्याह महास्तुतिरिति ॥ ६५४ ॥
युक्तिमल्लिका
इदं ते पात्रमित्यृक्च मध्वं स्तौत्यष्टमेऽष्टके ॥ ६५५ ॥
शतक्रतो बहुज्ञानपरमैश्वर्य हे हरे ।
इन्द्राख्या ते सने दाने योग्यवित्तानि यस्य तत् ।
सन वित्तं ज्ञानभक्तिविरक्त्यादिगुणोर्जितम् ॥ ६५६ ॥
सुरोत्तमटीका
इदं ते पात्रमित्यनेन इदं ते पात्रं सनवित्तमिन्द्र पिबा सोममेना शतक्रतो । पूर्ण आहावो मदिरस्य मध्वो यं विश्व इदभि हर्यन्ति देवा इति श्रुतिं गृह्णाति । इदं च इन्द्रनामकपरमात्मानं प्रति वेदपुरुषस्य वचनम् । अयमर्थः । हे शतक्रतो अपरिमितज्ञानपरिपूर्ण इन्द्र परमैश्वर्यसंपन्न परमात्मन् । सने स्वभक्तेभ्यो रुद्रादिभ्यो दाने योग्यानि वित्तानि ज्ञानभक्तिवैराग्यादीनि यस्य तत् सनवित्तम् । अलौकिकदिव्यज्ञानभरितमित्यर्थः । इदम् उपरि वक्ष्यमाणं मध्वाचार्याख्यं ते तव पात्रं सन्निधानयोग्यं स्थानं, मुख्यप्राणरूपे लोकगुरौ मध्वाचार्ये त्वं सदा सन्निहितोऽसीत्यर्थः । य एवायं मुख्यप्राणस् तमुद्गीथमुपासांचक्रिर इति श्रुतेः । अन्यथाऽलौकिकमन्येष्वविद्यमानमिदं ज्ञानं तत्रैव कथं स्यादिति सूचनाय सनवित्तमित्युक्तम् ।
एना एनेन सर्वप्राणिषु प्रेरकतया स्थितेनानेन दत्तं सोमं सोमरसं पिब सोमपायिनां मुखे स्थित्वा सीत्कारवायुरूपेणानेन मुखान्तःप्रवेशितं सोमरसं वा पिब । अग्न्यन्तर्यामितया स्थितेनानेन एतेन मुखाख्यपात्रेणेत्यर्थः । पिबेति वा । सर्वं स पूतमश्नाति स्वदितं मातरिश्वनेति श्रुतेः, रसं दासस्य जिह्वायामश्नाति कमलोद्भवेति स्मृतेश्च । इदंपदेन परामृष्टः क इत्यत आह ॥ पूर्ण आहावो मदिरस्य मध्व इति ॥ मदिरस्य मत्त इरम् ईरणं यस्य तस्य वेदोत्पन्नज्ञानस्येत्यर्थः । मन् मथनं वेदशास्त्राणां पर्यालोचनमित्यर्थः । तदुत्पन्नज्ञानस्य वा । पूर्णः संपूर्णः । मदिरेणेति वक्तव्यं मदिरस्येति षष्ठी तस्य ज्ञानस्य पवमानपूयमानरूपमध्वसम्बन्धस्यापि ज्ञापनार्थम् । अनन्तवेदोत्पन्न-ज्ञानेन संपूर्ण इत्यर्थः । आसमंतात् हावस् तस्य ज्ञानस्य हवनं तत्तद्योग्यतानु-सारेण दानं यस्य सः ज्ञानयज्ञे स्थित्वा ज्ञानाख्यरसस्य भूमिस्थऋष्यादि-शिष्यप्रशिष्येषु हवनकर्तेत्यर्थः । यो मध्व इदं ते पात्रमिति पूर्वेण सम्बन्धः ।
न केवलं भूमिस्थशिष्येष्वेव ज्ञानदाता मध्वः किंतु स्वर्गस्थदेवेष्वपीत्याह ॥ यमिति ॥ यं मध्वं विश्वेदेवा इद् इत्थम् ऋष्यादिशिष्यवदेव अभि अभितः हर्यन्ति ज्ञानरससङ्ग्रहाय प्राप्नुवन्ति । यम् अभितः स्वसभासु व्यवहरन्ति वा अभितः वेदशास्त्रादिषु विद्यमानान् यद्गुणानेव समाहरन्ति वा । शिवमुखैरेकतो देववृन्दैः शुकमुखैरन्यतः सन्मुनीन्द्रैरिति वचनात् ॥ ६५५,६५६ ॥
सत्यप्रमोदटीका
‘इदं ते पात्रं सन वित्तमिन्द्र पिबा सोममेना शतक्रतो । पूर्ण आहावो मदिरस्य मध्वो यं विश्व इदभिहर्यन्ति देवाः’ इति मन्त्रं व्याख्याति शतेति । क्रतुशब्दार्थः ज्ञानेति । शतेत्यस्य बह्विति । पूर्णेत्यर्थः बहोर्भावः भूमा पूर्ण इत्युक्तेः । इन्द्रशब्दार्थः परमैश्वर्य इति । सनशब्दस्य वित्तार्थकत्वे निष्पत्तिमाह सने इति । वित्तं चालौकिकमेवात्र विवक्षितमित्याह ज्ञानेत्यादि ॥ इममेवार्थं प्रपञ्चयति ॥ शतक्रतवित्यादिना ॥ परमैश्वर्येति इन्द्राख्येत्यस्योपपादकम् ॥ ६५५–६५७ ॥
युक्तिमल्लिका
इदं मध्वाभिधं पात्रं सन्निधानपदं ध्रुवम् ।
न चेदेतादृशज्ञानपूर्तिरत्र कुतो भवेत् ॥ ६५७ ॥
स त्वं न चेदिति प्रोक्तं देववाक्यमनुस्मर ॥ ६५८ ॥
सुरोत्तमटीका
सत्वं न चेदिति प्रोक्तमित्यनेन,
सत्वं न चेद्धातरिदं निजं भवेद् विज्ञानमज्ञानभिदापमार्जनम् ।
गुणप्रकाशैरनुमीयते भवान् प्रकाशते यस्य च येन वा गुणः ॥
इति भागवतस्थब्रह्मवाक्यं गृह्णाति । उक्तभागवतवचनानुसारेण श्रुतिरपि प्रवृत्तेति भावः । अयं श्लोकार्थः । अज्ञानभिदापमार्जनम् अज्ञानविपरीत-ज्ञाननाशनम् । सत्वं सत्वगुणात्मकम् । इदं ब्रह्मणि मयि विद्यमानं विज्ञानं विशिष्टम् ईश्वरादन्यत्रालोचने सति सर्वविषयं ज्ञानं मनोवृत्तिरूपज्ञानं निजं तव सन्निधानाज्जातम् । न चेद् गुणप्रकाशैर् ब्रह्मादिषु विद्यमानगुणप्रकाशैर् भवान् येन केन पुरुषेणानुमीयते । न केनाप्यनुमीयत इत्यर्थः । यच्छब्दोऽत्र किं-शब्दार्थे । उपरि कथ्यमानं येनेतिपदमत्रापि सम्बध्यते । अन्यथा अन्वयस्या-पूर्णत्वात् ।
इदं ज्ञानं केनचित्पुरुषविशेषेणोपदिष्टम्, अनित्यज्ञानत्वे सत्यतिशयित-ज्ञानत्वात् । व्यतिरेकेण भगवज्ज्ञानवत्, लौकिकघटादिज्ञानवद्वेति ब्रह्मादिषु विद्यमानज्ञानविशेषं दृष्ट्वा यतस्तवानुमानं कुर्वन्ति अतस्तज्ज्ञानं त्वत्सन्निधानोत्पन्नं भवेत् ।
ननु चक्षुरादिनैव भगवज्ज्ञानं भवेत् किमनुमानेनेत्यत उक्तम् ॥ प्रकाशत इत्यादिना ॥ अगुणः सत्वादिगुणरहितो भवान् । यस्य कस्य पुरुषस्य, येन केन साधनेन प्रकाशते । न केनापीत्यर्थः । सत्वादिगुणत्रयात्मकजगत एव सर्वेश्वरत्वभ्रान्त्या वेदस्यापि तद्विषयत्वभ्रमेणान्यथासिद्धत्वात् । अतो ब्रह्मनिष्ठज्ञानविशेषेण भगवदनुमानावश्यम्भावादवश्यं ब्रह्मनिष्ठज्ञानं भगव-त्सन्निधानोत्पन्नं भवेदिति श्लोकार्थः । अतः श्रुतिरपि ज्ञानविशेषभरितत्वा-न्मध्वाचार्यशरीरं भगवत्सन्निधानपात्रत्वेन वर्णयति ॥ ६५८ ॥
सत्यप्रमोदटीका
ध्रुवमिति सन्निधानस्य अव्यभिचरितपूर्णतामाह । तत्र कार्यानुमानम् एतादृशेति । प्रोक्तं भागवते चतुर्मुखेन गर्भस्तुत्यवसरे (१०-३-३५) ।
सत्वं न चेद्धातरिदं निजं भवेत् ।
विज्ञानमज्ञानभिदापमार्जनम् ।
गुणप्रकाशैरनुमीयते भवान्
प्रकाशते यस्य च येन वा गुणः ॥ इति ।
अत्र चतुर्मुखनिष्ठविशेषज्ञानस्य भगवत्सन्निधानपात्रत्वनिमित्तकत्वशंसनेन प्रकृतोपयोगः स्पष्टः ॥ ६५७, ६५८ ॥
युक्तिमल्लिका
एनाऽनेन प्राणतया सर्वत्र व्यापिनाऽर्पितम् ।
सोमं यज्ञरसं सर्वं पिब पूर्णोऽपि तत्प्रियात् ।
मानयज्ञरसं दिव्यज्ञानाख्यं रसमेव वा ॥ ६५९ ॥
सुरोत्तमटीका
तत्प्रियात् तव सोमरसार्पकमुख्यप्राणे प्रियात् ॥६५९॥
सत्यप्रमोदटीका
एना इत्यस्यार्थः व्यापिनेत्यन्तेन । सोमं यज्ञरसं दिव्यज्ञानाख्यं रसं वा । पाने प्रयोजनं मध्वे प्रीत्यतिशय एवेत्याह तत्प्रियादिति ॥ ६५९ ॥
युक्तिमल्लिका
योऽयं मध्वो मध्वनामा मदिरस्य मदीरणात् ।
जातस्य वेदशास्त्रादेर्मथनादुदितस्य वा ॥ ६६० ॥
ज्ञानस्य पूर्णः सम्पूर्णः केवलं करणं न तत् ।
तत्सम्बन्ध्यपि तज्ज्ञानं तद्गुणस्यापि बोधनात् ॥ ६६१ ॥
इति ज्ञापयितुं षष्ठी तच्च योगिषु सर्वतः ।
जुह्वदाहावनामा सन्वर्तते व्याससन्निधौ ॥ ६६२ ॥
सुरोत्तमटीका
तद्गुणस्य मुख्यप्राणगुणस्य बोधनात् पवमानादौ बोधनात् । षष्ठी मदिरस्येति षष्ठी । तज् ज्ञानयज्ञे सोमरसस्थानीयं ज्ञानं जुह्वत् हवनं कुर्वन् । अत एव आहावनामा आसमन्ताद् योगिषु ज्ञानरसं जुहोतीति व्युत्पत्त्याप्याहावनामेति ग्राह्यम् ॥ ६६०–६६२ ॥
सत्यप्रमोदटीका
इदं शब्दार्थः मध्व इति । ज्ञानार्थकत्वे निमित्तद्वयं मदीरणान् मया पवमानादौ प्रतिपादनाद् इति, मथनादुदितस्य इति च । मदिरेणेति वक्तव्ये मदिरस्य पूर्ण इत्युक्तेः प्रयोजनं सम्बन्ध्यपीति ज्ञापयितुम् इति । तज् ज्ञानम् आ सर्वतः । योगिषु जुह्वत् । अत एव आहावनामा ॥ ६६०–६६२ ॥
युक्तिमल्लिका
मुनिमात्रगुरुर्नासाविदित्थं यमभिस्थिताः ।
हर्यन्ति मनसाऽऽकृष्य ध्यायन्ति सकलाः सुराः ॥ ६६३ ॥
सुरोत्तमटीका
आकृष्य स्वहृदयगुहां प्रत्याकृष्य । हर्यन्तीत्यस्यार्थकथनं ध्यायन्तीति । गुणोपसंहारात्मकध्यानस्य हृञ्धात्वर्थत्वसम्भवादिति भावः ॥ ६६३ ॥
सत्यप्रमोदटीका
इद् इत्थम् । अभि अभिस्थिताः । ‘उपसर्गाः क्रियाऽसन्निधाने ससाधनां क्रियामाहुरिति तत्त्वनिर्णयटीकोक्तेः । हर्यन्ति गुणोपसंहारपूर्वकं ध्यायन्ति । व्याहरन्ति । प्राप्नुवन्ति च ॥ ६६३ ॥
युक्तिमल्लिका
अभितो वा व्याहरन्ति तमीदृक्सुगुणं सुराः ।
यद्वाऽभितः प्राप्नुवन्ति चेप्सया शास्त्रसम्पदाम् ॥ ६६४ ॥
सुरोत्तमटीका
हर्यन्तीति छान्दसपदं, व्याहरन्ति अभिलपन्ति । अत्रापि हृञ् धात्वर्थत्वं घटयितुं व्याहरन्तीत्युक्तम् । ईप्सया ज्ञानेच्छया ॥ ६६४ ॥
युक्तिमल्लिका
हर्यन्नुषसमित्यादौ प्राप्त्यर्थोऽस्ति यतो हृञिः ।
अन्यार्थशून्या वागेषा किं न ब्रूते गुरुं मम ॥ ६६५ ॥
सुरोत्तमटीका
हर्यन्नित्यस्य प्राप्त्यर्थत्वे वैदिकप्रयोगं दर्शयति ॥ हर्यन्नुषसमित्यादाविति ॥ अनेन हर्यन्नुषसमर्चयः सूर्यं हर्यन्नरोचयः । विद्वांश्चिकित्वान्हर्यश्ववर्धस इन्द्रविश्वा अभिश्रिय इति श्रुतिं गृह्णाति । अयमर्थः । हे हर्यश्व हरिद्वर्णाश्वसमेत । इन्द्र इन्द्रनामकपरमैश्वर्यसंपन्न परमात्मन् विद्वान् सर्वज्ञश् चिकित्वान् जगत्सृष्ट्यादिकं कुर्वंस्त्वम् उषसम् उषः कालं हर्यन् प्राप्नुवन् । अर्चयः स्नानसन्ध्यावन्दनादिना भगवत्पूजां सज्जनमुखेन अकारयः । सूर्यम् उषः कालोपरि उद्यन्तमादित्यं हर्यन् प्राप्नुवन् तद्बिम्बे सन्निधानं कुर्वन्नित्यर्थः । विश्वाः समस्ता अभि अभितो विद्यमानाः श्रियः नानाश्रीमतस्सप्तद्वीपान् दिशो वा वर्धसे तत्रत्यसज्जनानामभिवृद्धये अरोचयः प्राकाशयः । सूर्ये स्थित्वा स्वमरीचिभिः सकलं जगदभासय इत्यर्थः । यदादित्यगतं तेजो जगद्भासयतेऽखिलम् । यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकमिति स्मृतेः । एवं च एतच्छ्रुतिसमाख्यया हर्यन्तीत्यत्रापि प्राप्नुवन्तीत्यर्थो घटत इति भावः
॥ ६६५ ॥
सत्यप्रमोदटीका
प्राप्त्यर्थकत्वे वैदिकसमाख्यामाह ‘हर्यन्नुषसं’ इति उषःकालं हर्यन् प्राप्नुवन् इति तत्रार्थोक्तेः ॥ ६६५ ॥
युक्तिमल्लिका
मध्वो वा नामेति वाक्च मरुत्सूक्ते तमुज्जगौ ॥ ६६६ ॥
यद्यतो मुख्यमरुतो वैर्युग्रा ये कुमारकाः ।
अयासुर्भूतलं भीमहनूमन्मध्वनामकाः ॥ ६६७ ॥
ये चिदेव जगत्युर्व्यौ रोदस्यौ पृथिवीं दिवम् ।
रेजयन्ति चरित्रेण राजयन्ति युगे युगे ॥ ६६८ ॥
सुरोत्तमटीका
आचार्यविषये अतिस्पष्टं श्रुत्यन्तरं चाह ॥ मध्वो व इति ॥ तं मध्वम् । अनेन मध्वो वो नाम मारुतं यजत्राः प्रयज्ञेषु शवसा सामदन्ति । ये रेजयन्ति रोदसी चिदुर्वी पिन्वन्त्युत्सं यदयासुरुग्रा इति श्रुतिं गृह्णाति । अयमर्थः । यद्यस्माद् उग्रा बाहुयुद्धे वाग्युद्धे चात्युग्रा हे हनूमद्भीम मध्वरूपवायोरवतारा उर्वी उर्वीं भूमिमित्यर्थः । सुपांसुलुगिति सूत्रात् । अयासुर् आजग्मुः । तस्माद् उत्सं स्वचरणकमले उत्सुकं पुरुषं पिन्वन्ति सकलभाग्यसेचनं कृत्वा रक्षन्ति । पिन्वसेचन इति धातोः । स्वसत्यलोकं विहाय भूमिं प्रत्यागमनाद्भूमिस्थसज्जनरक्षकत्वं मुख्यप्राणस्य अवतारास्सुप्रसिद्धा भविष्यन्तीति काण्वोक्तिसत्यकरणात्काण्वरक्षकत्वं च सुप्रसिद्धमभूदिति भावः । ये केचिद् एव । उर्वी उर्व्यौ उत्कृष्टे रोदसी द्यावापृथिव्यौ । रेजयन्ति राजयन्ति स्वचरित्रेण कान्त्या च प्रकाशयन्ती-त्यर्थः । चरित्रेणापि असुरजनमोहनाय स्वबन्धनसर्पबन्धनादिना कदाचि-च्छक्तिगूहनं कान्तेश्च बहुशोऽप्रकाशनं सूचयितुं रेजयन्तीत्यलौकिकपद-प्रयोगः । हे मरुतस् तेष्ववतारेषु मरुद्गणाग्रगण्यत्वाद् वः सम्बन्धी यः मध्वो नाम मध्वाख्यावतारस् तं मारुतं मुख्यप्राणकुमारं मध्वाख्यावतारं यजत्रा याजका यज्ञरक्षका यजमानाद्या ऋत्विजः सभ्याश्च यज्ञेषु क्रियमाणेषु सत्सु शवसा कठिणब्राह्मणखण्डार्थकथनरूपकर्मनिर्णयाख्यग्रन्थश्रवणजनितसुखेन प्रमदन्ति प्रकर्षेण सन्तोषं कुर्वन्तीति । छन्दःखण्डार्थवादी जितकुमतिकुल इत्यणुमध्वविजयवचनात्प्रसिद्धोऽयमर्थः ॥ इममेवार्थमभिप्रेत्याह ॥ यदिति ॥ यदित्यस्यैवार्थकथनं यत इति ॥ ६६६–६६८ ॥
सत्यप्रमोदटीका
मरुत्सूक्तगतं ‘मध्वो वो नाम मारुतं यजत्राः प्रयज्ञेषु शवसा मदन्ति । ये रेजयन्ति रोदसी चिदुर्वीं पिन्वनन्त्युत्सं यदयासुरुग्रा’ इति सुस्पष्टश्रुतिं व्याख्याति यदिति यद् यतः । ये वायोरवतारास् त्रयः । चिद् एव । उर्वीम् उत्कष्टे । रोदसी द्यावापृथिव्यौ । रेजयन्ति भूषयन्ति ‘भूषितभूमिभागः’ इत्युक्तेः।अवनीं पावनतां नयन्तौ इति च॥६६६–६६८ ॥
युक्तिमल्लिका
पिन्वन्ति पालयन्त्युत्समुत्सुकं स्वपदाम्बुजे ।
पिविंमिविञ्चयुद्धातुं सेचनेऽर्थेऽनुशासते ।
पालनञ्चाखिलैरिष्टैः सेचनं यद्विदुर्बुधाः ॥ ६६९ ॥
सुरोत्तमटीका
पिन्वन्तीत्यतः पूर्वं तत इति ग्राह्यम् । यद्यस्मात् ॥ ६६९ ॥
सत्यप्रमोदटीका
उत्सम् उत्सुकं स्वपदाम्बुजे इति योग्यतया सम्बन्धः । पिन्वन्ति उदाहृतानुशासनानुसारेण सिञ्चन्ति इष्टैः पालयन्तीति यावत् ॥ ६६९ ॥
युक्तिमल्लिका
बलज्ञानाख्यकार्येषु तेषु पुत्रेषु हेऽनिलाः ।
मरुतो वः प्रियं मध्वो नाम मारुतमद्भुतम् ॥ ६७० ॥
यजत्रा याजकाः सर्वे यज्ञेषूक्तिविशारदम् ।
सुखेन भरिताः सन्तो दृष्ट्वा श्रुत्वा च तद्वचः ।
प्रमदन्ति प्रहृष्यन्ति कर्मनिर्णयकोविदम् ॥ ६७१ ॥
सुरोत्तमटीका
मध्वोनाम मध्व इति नामवान् यस् तम् ॥६७०,६७१॥
सत्यप्रमोदटीका
हे मरुतः वः युष्माकम् । गणे अग्रगण्यत्वात्प्रियम् । मध्वनामानं मारुतम् । यजत्रा यजमानाद्या ऋत्विजः सभ्याश्च । यज्ञेषु कर्मार्थश्रुतिगहनार्थभावेषु विशारदं कर्मनिर्णयग्रन्थस्य प्रणेतारं दृष्ट्वा शवसा सुखेन भरिताः । प्रमदन्ति प्रहृष्यन्ति ॥ ६७०–६७२ ॥
युक्तिमल्लिका
इति श्रुतिर्यच्चरित्रं वक्त्यत्रैव प्रचारितम् ।
स मध्वो वैदिकाचार्यः सिद्धः सद्विद्वदग्रणीः ॥ ६७२ ॥
सुरोत्तमटीका
अत्र भूलोक एव ॥ ६७२ ॥
युक्तिमल्लिका
तदस्येति श्रुतौ प्रोक्तो विष्णोस्तु परमे पदे ।
उत्स औत्सुक्यवान्मध्वः को वा सिद्धो निगद्यताम् ।
मध्वश्रुतेर्विष्णुभक्तिलिङ्गाच्चासौ गुरुर्हि नः ॥ ६७३ ॥
यतः श्रुत्योरुक्रमस्य स हि बन्धुरितीर्यते ।
ततस्तं सा गुरुं मुख्यप्राणरूपं न्यरूरुपत् ॥ ६७४ ॥
सुरोत्तमटीका
तदस्येति श्रुतावित्यनेन तदस्य प्रियमभिपाथो अश्यां नरो यत्र देवयवो मदन्ति । उरुक्रमस्य सहि बन्धुरित्था विष्णोः पदे परमे मध्व उत्स इति श्रुतिं गृह्णाति । अयमर्थः । प्रियं सकलश्रुतिस्मृतीनां तत्प्रवर्तक-मुनीनां च हर्षकरं, तद् अकाले मृत्युमथनमित्यादौ प्रसिद्धम् । अस्य नारायणस्य अभिपाथो ऽभितः सर्वाङ्गेषु सम्बद्धं पाथ उदकं शिरआदि-सर्वाङ्गेष्वभिषिक्तं तीर्थोदकमित्यर्थः । नरो ऽहम् अश्यां पानं कुर्याम् । अन्तः-शुद्धेरेव मुख्यत्वादश्यामित्युक्तम् । यत्र विष्ण्वङ्गसम्बन्धेनातिपाविततीर्थे । देवयवः ब्रह्मरुद्राद्या देवा वैदिको देवपदपर्यायो देवयुशब्दोऽयम् । देवं नारायणं परिवारतया सदा युञ्जन्तीति व्युत्पत्त्या वा देवयवः । मदन्ति हर्षं कुर्वन्ति । देवानामपि पानादिना हर्षकरे विष्णुपादोदके मनुष्याणां कैमुत्य-द्योतनायेदमुदितम् । एवं च ब्रह्मादिमनुष्यान्तसकलवैष्णवानां विष्णुपादोदक-प्राशनं विहितमिति श्रुतेरभिप्रायः । अत एव अश्यामिति लुङ् । देवानां विष्णुपादोदकसेवनं प्रत्यक्षेण दर्शयितुं सकलदेवोत्तममुख्यप्राणावतारमध्वस्य विष्णुपादोदके प्रीतिं प्रतिपादयितुं श्रुतेरुत्तरार्धं प्रवृत्तम् । परमे उत्तमे विष्णोर् नारायणस्य पदे पादे । उत्स उत्सुकः सः प्रसिद्धः मध्वः मध्वमुनिर् इत्था इत्थं पूर्वोक्तरीत्या विष्णुपादोदकप्राशनेन उरुक्रमस्य उत्कृष्टपादविक्षेपसहितस्य त्रिविक्रमस्य बन्धुर्हि । पुत्रतया शिष्यतया च बन्धुर्जातो हि । हीत्यनेना-स्मिन्नर्थे श्रुतिस्मृतिप्रसिद्धिं दर्शयति । एतदेवाभिप्रेत्याह ॥ विष्णोरित्या-दिना ॥ असौ श्रुतेरुत्तरार्धोक्तः गुरुर्हि वैष्णवाचार्यभूतः पूर्णप्रज्ञाचार्यो हीत्यर्थः । हिशब्देन लिङ्गश्रुत्योस्तत्रैव प्रसिद्धिं सूचयति ॥ निमित्तान्तरं चाह ॥ यत इति ॥ सा श्रुतिः ॥ ६७३,६७४ ॥
सत्यप्रमोदटीका
‘तदस्य प्रियमभिपाथो अश्यां नरो यत्र देवयवो मदन्ति । उरुक्रमस्य स हि बन्धुरित्था विष्णोः पदे परमे मध्व उत्सः’ इति श्रुतिं व्याचष्टे यत इत्यादिभिः । उरुक्रमस्य त्रिविक्रमस्य । बन्धुः प्रेष्ठः कुमारः शिष्यश्च । ईर्यते ‘सतो बन्धुमसति निरविन्दन्’ इति श्रुत्या ॥ ६७३,६७४ ॥
युक्तिमल्लिका
यस्मिन्स्थिते स्थितोऽहं स्यां यद्गतौ च गतोऽस्म्यहम् ।
तं स्रक्ष्यामीति मन्वानः प्राणं सोऽसृजत प्रभुः ॥ ६७५ ॥
इत्याहोपनिषद्यस्मात्तस्मात्प्रियकुमारकः ।
प्राण एव हरेर्बन्धुः स एवात्रापि कीर्त्यते ॥ ६७६ ॥
सुरोत्तमटीका
ननु विष्णुबन्धुत्वोक्तावपि मुख्यप्राणस्यैवात्र कुतः प्राप्तिरित्यत आह ॥ यस्मिन्निति ॥ अनेन कस्मिन्न्वहमुत्क्रान्त उत्क्रान्तो भविष्यामि कस्मिन्स्थिते प्रतिष्ठास्यामीति सप्राणमसृजतेति श्रुतिं गृह्णाति । अत्र उरुक्रमस्य सहि बन्धुरिति श्रुतौ ॥ ६७५,६७६ ॥
सत्यप्रमोदटीका
बन्धुशब्देन मुख्यबन्धुरेवात्र ग्राह्या इत्यत्र श्रौतयुक्तिं दर्शयति यस्मिन्निति । उपनिषद् ‘स प्राणमसृजत्’ इति रूपा । तस्मात् प्रधानाङ्गत्वात् ॥ ६७५, ६७६ ॥
युक्तिमल्लिका
मुख्यस्यैव ग्राह्यतया तथा श्रौतसमाख्यया ।
हिशब्दोदितया विद्वत्प्रसिद्ध्या चापरो न सः ॥ ६७७ ॥
सुरोत्तमटीका
तत्र निमित्तत्रयं सङ्गृह्याह ॥ मुख्यस्येति ॥ अन्येषां बन्धूनां सद्भावेऽपि मुख्यस्य मुख्यबन्धोरेव ग्राह्यतयेत्यर्थः । श्रौतसमाख्यया कस्मिन्न्वहमिति समाख्ययेत्यर्थः । विद्वत्प्रसिद्ध्या पूर्णप्रज्ञस्यैव मध्वत्व-प्रसिद्ध्येत्यर्थः॥६७७ ॥
सत्यप्रमोदटीका
अत्र युक्तित्रयं संगृह्णाति मुख्यस्येति ॥ ६७७ ॥
युक्तिमल्लिका
देवानां प्रायपठितो देवश्रेष्ठो भवेदयम् ।
धर्मनिर्णयभूमित्वाद्बन्धुत्वाच्च महाप्रभोः ॥ ६७८ ॥
सुरोत्तमटीका
निमित्तान्तरं चाह ॥ देवानामिति ॥ ६७८ ॥
सत्यप्रमोदटीका
देवानां देवयुशब्दितानाम् । धर्मः विष्णुपादोदकस्य वैष्णवैः सेवनीयत्वरूपः । निर्णयः स्वयमनुष्ठानेन प्रतिष्ठापनम् ॥ ६७८ ॥
युक्तिमल्लिका
किञ्चेत्थेति पदाद्यत्र देवा देवयुसंज्ञिताः ।
यद्युञ्जन्ति परं देवं परिवारतया सदा ।
मदन्ति तत्र विष्ण्वङ्गाभिषिक्ते तीर्थ पाथसि ॥ ६७९ ॥
सुरोत्तमटीका
यस्मात् तस्माद् देवयुसंज्ञिता इति सम्बन्धः । तत्र विष्णुपादोदके ॥ ६७९ ॥
सत्यप्रमोदटीका
इत्था मध्वस्य आचरणप्रकारमनुसृत्य संज्ञायां योगं चाह यदिति पानेन हृष्यन्ति । अतः कैमुत्येन नरैः सेव्यत्वं सिध्यति । पाथसि विष्णुपादोदके । प्रोक्तः ‘अपिबदलवबोधो विष्णुपादोदकं तत्’ इति ॥ ६७९, ६८० ॥
युक्तिमल्लिका
नित्यं सोऽशनवान्प्रोक्तस्तेन चानन्दतीर्थताम् ।
स्पष्टीकरोति वेदोऽसौ तस्य मध्वाख्ययोगिनः ॥ ६८० ॥
सुरोत्तमटीका
समध्वः नित्यमशनवान्प्रोक्तः । तेन कारणेन । असौ सहि बन्धुरित्थेति वेदः । तस्य मध्वाख्ययोगिन आनन्दतीर्थतां स्पष्टी-करोतीति सम्बन्धः ॥ ६८० ॥
युक्तिमल्लिका
आनन्दरूपस्य हरेस्तीर्थं यस्य स एव हि ।
आनन्दतीर्थनामा स्यात्तस्माच्चास्मद्गुरुर्भवेत् ।
अतः श्रुतिरियं सूते मध्वरूपं गुरुं मम ॥ ६८१ ॥
सुरोत्तमटीका
इत्थेति पदेन विष्णुपादोदकसेवित्वसूचनेऽपि कथं भवदभिमतानन्दतीर्थस्यैव लाभ इत्यत आह ॥ आनन्दरूपस्येति ॥ तस्माद् उक्तरीत्या इत्थं पदसत्त्वाच्च इत्थेति पदेन उत्तरार्धोक्तमध्वस्य विष्णुपादतीर्थ-सेवित्वस्य सूचनात् तच्च आनन्दरूपस्य हरेः साक्षाच्चरणतीर्थं यस्यासाविति व्युत्पत्त्या आनन्दतीर्थपदवाच्ये अस्मद्गुरावेव सम्भवतीति भावः । इयं श्रुतिः श्रुत्यभिमानिमहालक्ष्म्या मत्कुमारमध्वस्यैवात्र प्रतिपादनं भवेदिति बहुविध-निरवकाशयुक्तेः सूचनाय सूत इत्युक्तम् ॥ ६८१ ॥
सत्यप्रमोदटीका
स्पष्टीकरणप्रकारमाह आनन्देति । सूते निर्धारयति । यद्वा श्रुतिः श्रीभूदुर्गारूपा अभिमानिनी । ‘दशप्रमतिं जनयन्त योषणः’ इत्युक्तेः । अत्र सूते इत्यस्य मुख्यार्थलाभः ॥ ६८१ ॥
युक्तिमल्लिका
बत्थिेति श्रुतिर्वायोर्देवस्य प्रथमं वपुः ।
द्वितीयञ्च तृतीयञ्च वक्ति वाक्यत्रये क्रमात् ॥ ६८२ ॥
सुरोत्तमटीका
बत्थिेति वर्गस्थायां यदीमनुप्रदिव इति ऋच्यपि वाय्वाख्यमध्वविषयतापूर्वसङ्गत्यापि प्रसिद्धेत्याह ॥ बत्थिेति श्रुतिरिति ॥ सहसो वेगवतो देवस्येति प्राथमिकवाक्ये वायोः स्पष्टं प्रस्तुतत्वाद् वायो-रित्युक्तम् । यदीमुपह्वरते साधते मतिर्ऋतस्य धेना अनयन्त सस्रुतः । पृक्षोवपुः पितुमान्नित्य आशये द्वितीयमा सप्तशिवासु मातृषु । तृतीयमस्य वृषभस्य दोहसे दशप्रमतिं जनयन्त योषण इति वाक्यत्रये यद्यपि प्रथमवाक्ये प्रथममिति पदं नास्ति तथाप्युत्तरवाक्यद्वये द्वितीयतृतीयपदसद्भावेन तद्बलात्पूर्ववाक्येऽपि प्रथममिति पदम् ऊह्यमिति भावः ॥ ६८२ ॥
सत्यप्रमोदटीका
‘‘यस्य त्रीण्युदितानि वेदवचने रूपाणि दिव्यान्यलं’ इति भगवत्पादोक्तिं समर्थयते बत्थिेति । वायोः ‘सहसो वेगवतः’ इति विशेषणबलान्मूलरूपस्य ॥ ६८२ ॥
युक्तिमल्लिका
तच्च प्रसिद्धसन्त्यागायोगादन्याप्रसिद्धितः ।
तत्त्ववाद्युदितं रूपत्रयमेवेति मे मतिः ॥ ६८३ ॥
सुरोत्तमटीका
तद् वायोरूपत्रयं प्रसिद्धसन्त्यागायोगाद् वायोरवतार-त्रयतया प्रसिद्धस्य हनुमद्भीममध्वाख्यस्य रूपत्रयस्य संत्यागायोगात् ॥६८३॥
सत्यप्रमोदटीका
‘न चाविरोधे प्रसिद्धः परित्यज्यते’ ‘न च प्रसिद्धार्थं विनाऽन्योऽर्थो युज्यते’ इति भाष्योक्तिमनुरुध्याह तच्चेति
॥ ६८३ ॥