१९ तप्तमुद्राधारणम्

अतोऽग्नावाहितं चक्रं स्वार्चिषा पुण्यदायिना

तप्तमुद्राधारणम्

युक्तिमल्लिका

अतोऽग्नावाहितं चक्रं स्वार्चिषा पुण्यदायिना ।

स एव तप्तं कुरुते गुरुर्भूत्वा स एव च ॥ ६१५ ॥

सतां भुजे धारयति मुनीनां मध्वरूपधृक् ।

स एव धारयेद्वायुरन्यत्र गुरुषु स्थितः ॥ ६१६ ॥

सुरोत्तमटीका

अतः वायोरेव पवमानसूक्तप्रतिपाद्यत्वात् । स एव वायुरेव । मध्वरूपधृक् गुरुर्भूत्वा सतां मुनीनां भुजे धारयतीति सम्बन्धः । अन्यत्र मध्वरूपादन्यत्र गुरुषु मुद्राधारणकर्तृषु परमहंसेषु स्थितो ऽन्तर्यामी ॥ ६१५,६१६ ॥

सत्यप्रमोदटीका

तापनम् अङ्कनं च मुख्यतो वायोरेवेत्याह अत इत्यादिना । गुरुषु हंसनामकपरमात्मपरंपराप्राप्तेषु पीठाधिपतिषु । न तु तदन्येषु यादृशतादृशविद्योपदेशकेषु ॥ ६१५, ६१६ ॥

युक्तिमल्लिका

मध्वाख्यगुरुरूपेण पूयमानः स पावयन् ।

धारयेत्तानि रूपाणि मध्वस्यैव बहूनि तत् ॥ ६१७ ॥

सुरोत्तमटीका

तानि तत्र तत्राग्निषु स्थित्वा सुदर्शनस्थापकानि दैनन्दिनमध्वरूपैः सत्सु साक्षान्मुद्राङ्कनकर्तॄणि तत्र तत्र मुद्राङ्कनं कुर्वत्सु गुरुषु प्रेरकतया स्थितानि च । तत्तस्मात् । अत एव श्रुतौ पावमान्य इति बहुवचनमिति भावः ॥ ६१७ ॥

सत्यप्रमोदटीका

रूपाणि साक्षाद्रूपाणि पूर्वोक्तगुरुसंस्थितानि च ॥ ६१७ ॥

युक्तिमल्लिका

शिष्टाचाराददृष्टस्य यदा वेदस्य कल्पना ।

स्पष्टदृष्टश्रुतिं सोऽतिबलवान्नैव मुञ्चति ॥ ६१८ ॥

सुरोत्तमटीका

सः शिष्टाचारः ॥ ६१८ ॥

सत्यप्रमोदटीका

अदृष्टस्य अनुमितस्य । बलवान् अनादितः देवादि-सत्सम्प्रदायप्राप्तः ॥ ६१८ ॥

युक्तिमल्लिका

अतः श्रुतिरभूदेषा तप्तचक्राङ्कशासनम् ।

लिङ्गानुशासनं तूक्तं शासनद्वयसम्पदा ।

सहितां वैष्णवग्रामसीमां को वा न मानयेत् ॥ ६१९ ॥

सुरोत्तमटीका

लिङ्गानुशासनं ‘‘पवित्रं चरणं नेमिरि’’त्यादिकम् ॥ ६१९ ॥

सत्यप्रमोदटीका

ग्रामसीमां सिद्धान्तमर्यादाम् । सीमाम् इत्यस्य साधुत्वं ‘निःसीमाः शक्तयोऽस्य हि’ इति प्रयोगानुसारेण ध्येयम्

॥ ६१९ ॥

युक्तिमल्लिका

प्रास्तवं यत्संहिता यत्तदेव परिशिष्टवाक् ।

प्रपञ्चयति तेनाभूत्तच्च शिष्टानुशासनम् ॥ ६२० ॥

सुरोत्तमटीका

तेन परिशिष्टवाक्ययोरेकार्थत्वेन । तत् परिशिष्टवचनम् । न केवलं शिष्टाचारः किन्तु परिशिष्टवचनाख्यशिष्टवचनमप्यस्तीति भावः ॥ ६२० ॥

सत्यप्रमोदटीका

प्रास्तवं प्रस्तुतिप्राप्तम् । प्रपञ्चयति अधिकारिवर्णनेन । तेन ऐकार्थ्येन । तत् परिशिष्टवचनम् । तेन शिष्टेत्यस्य परिशिष्टेत्यर्थान्तर-मप्युक्तम् ॥ ६२० ॥

युक्तिमल्लिका

प्रपञ्चनं च प्रोक्तस्य तेन वाक्यद्वयेन तत् ।

तप्तचक्राङ्कनं वक्ति वाक्यभेदो न चेद्भवेत् ।

यतोऽस्य परिशिष्टत्वं तच्छेषत्वमपेक्षते ॥ ६२१ ॥

सुरोत्तमटीका

तत् संहितापरिशिष्टसूक्तम् । तच्छेषत्वं संहिताशेषत्वम् । संहितोक्ततापाख्यार्थस्य शेषभूतो देहपावित्र्याख्यार्थ एव परिशिष्टे यतः कथ्यते अतः संहितापरिशिष्टाभ्यां तापेन देहपावित्र्यमुक्तमिति शेषः । एवं च यत्ते पवित्रमर्चिषीति संहितायामुक्ततप्तचक्रधारणाख्यार्थस्यैव कैः कैर्धृतमित्या-काङ्क्षायां शेषभूतोऽर्थः परिशिष्टे प्रतिपाद्यते । अत एव तत्परिशिष्टम् । तस्मा-दुभयत्रापि तप्तमुद्राधारणस्यैव प्रस्तुतिरिति भावः । तत् पावित्र्यहेतुभूतम् ॥ ६२१ ॥

सत्यप्रमोदटीका

शेषत्वं धारणकर्तृप्रतिपादनेन तदुपकारकत्वम् ॥ ६२१ ॥

युक्तिमल्लिका

तापेन देहपावित्र्यकृत्पवित्रं जगत्रये ।

नापरं विद्यते विष्णुचक्राद्वैष्णवसंमतात् ॥ ६२२ ॥

सुरोत्तमटीका

तापेन देहपावित्र्यं सुदर्शनेनैव वक्तव्यं नान्येन । दशापवित्रादिना देहतापाभावात् । तापहेतुभूतं पवित्रं च सुदर्शनमेव भवेन् नान्यदिति भावः ॥ ६२२ ॥

सत्यप्रमोदटीका

परिशेषप्रमाणमाह तापेनेति ॥ ६२२ ॥

युक्तिमल्लिका

जडर्चां श्रवणायोगान्न ताः प्रार्थयते मुनिः ।

ऋगर्थीभूतपवनतनूनां प्रार्थनं हि तत् ॥ ६२३ ॥

सुरोत्तमटीका

ननु पावमान्य इत्यत्र पवमानतनूनां कुतो ग्रहणमित्यत आह ॥ जडर्चामित्यादिना ॥ श्रवणायोगात् प्रार्थनावचनश्रवणायोगात् । ताः पवमानप्रतिपादकऋचः । उपलक्षणं चैतत् । ‘इन्द्रः सुनीती सहमा पुनातु सोमः स्वस्त्यावरुणः समीच्येत्यादिवचनात्’ इन्द्रसोमादिपदवाच्यपवमान-तनूनामेव प्रार्थनात् पूर्वश्रुतावपि तासामेव प्रार्थनमिति द्रष्टव्यम् ॥ ६२३ ॥

सत्यप्रमोदटीका

प्रार्थनकर्मत्वाज् जडानामृचां ग्रहणं न सम्भवतीत्याह जडेति ॥ ६२३ ॥

युक्तिमल्लिका

यतस्तत्रैव स मुनिर्देवैर्देवीः समाहिताः ।

इत्याह तेन सर्वर्क्षु देवैः सह समाहिताः ॥ ६२४ ॥

देव्यश्च सन्ति भारत्या मूर्तयो वायुमूर्तयः ।

मानिन्यः प्रतिपाद्याश्च ततस्तत्प्रतिपादिताः ॥ ६२५ ॥

सुरोत्तमटीका

निमित्तान्तरं चाह ॥ यत इति ॥ तत्रैव येन देवा इति श्रुतेः पूर्वं पावमानीर्दिशंतु न इमं लोकमथो अमुम् । कामां त्समर्धयंतु नो देवैर्देवीस्समाहिता इति श्रुतावेव । अयमर्थः । पावमानीः पावमान्यः । पवमानसूक्तसम्बन्धिन्य इत्यर्थः । देवैर् देवशब्दवाच्यपवमानमूर्तिभिः सह समाहिताः सम्यगाहिताः । पवमानसूक्तस्थऋचां प्रतिपाद्यतया अभिमानितया च स्थिता इत्यर्थः । देवीर् देव्यः भारतीमूर्तयः न इमं लोकम् अथो अनन्तरम् अमुं परलोकं च दिशन्तु । नः कामान् काम्यन्त इति कामास् तान् इहामुत्र च काम्यसकलार्थानित्यर्थः । समर्धयन्तु समृद्धान् कुर्वन्त्विति ।

एवं चास्यां श्रुतौ पवमानसूक्तस्थऋक्प्रतिपाद्यतया तदभिमानितया च देवशब्दवाच्यपवमानमूर्तीनां देवीशब्दवाच्यभारतीमूर्तीनां च पावमानीपदेन प्रस्तुतत्वाद्येन देवा इति श्रुतावपि पावमानीपदं गुरुत्वयोग्यपवमानतनूनामेव प्रतिपादकमिति भावः । सः येन देवा इति मन्त्रद्रष्टा । समाहिता इत्यत्र देव्यः पुंलिङ्गतया स्त्रीलिङ्गतया च देवपदसम्बन्धिन्यः । मानिन्यः प्रतिपाद्या भारतीमूर्तयो वायुमूर्तयश्च यतः सन्तीत्याहेति क्रियाध्याहारेण सम्बन्धः ॥ ६२४,६२५ ॥

सत्यप्रमोदटीका

तत्र पूर्वश्रुतौ ‘कामान् समर्धयन्तु नः देवैर्देवीः समाहिता’ इत्यत्र । मानिन्यो ऽभिमानिन्यः । यतः सन्तीत्याह ततस् ताभिः सर्वाभिर् ऋग्भिः प्रतिपादिताः ॥ ६२५ ॥

युक्तिमल्लिका

चक्राङ्कधारणं तेषु कुर्वन्त्यो वायुमूर्तयः ।

प्रधानभूताः प्रार्थ्यन्ते शेषे शेषिणि वाक्चये ॥ ६२६ ॥

सुरोत्तमटीका

चक्राङ्कधारणं कुर्वन्त्यः प्रधानभूता इत्यनेन पूर्वश्रुतौ वायुमूर्तीनामेव ग्रहणे निमित्तं सूचयति । युक्त्यन्तरं चाह ॥ शेष इति ॥ शेषे संहिताशेषात्मकपरिशिष्टरूपे । शेषिणि प्रधानभूतसंहितारूपे । वाक्ये वाक्य-समूहे । अङ्गप्रधानवचनानामैकार्थ्यनियमात् सूक्तप्रतिपाद्यवायोरेव परिशिष्ट-वचनेऽपि प्रतिपाद्यत्वाद् येन देवा इत्यादिश्रुतिरपि वायुप्रतिपादिकैव । अतोऽपि पावमान्य इति पदं वायुमूर्तीनामेव प्रतिपादकमिति भावः ॥ ६२६॥

सत्यप्रमोदटीका

देवैर् इति पूर्वं निर्देशे कारणमाह कुर्वन्त्य इति । वाक्चये वाक्यसमूहे परिशेषसंहितारूपे ॥ ६२६ ॥

युक्तिमल्लिका

न यस्य सर्वमोक्षेऽपि मोक्षः साधर्म्यधर्मिणि ।

तच्चक्रलाञ्छनं मोक्षयोग्यात्को मोचयेद्बुधः ॥ ६२७ ॥

सुरोत्तमटीका

श्रीमुद्राधारणस्य मोक्षयोग्येष्वावश्यकत्वयुक्तिं चाह ॥ न यस्येति ॥ यस्य चक्रादिधारणस्य । साधर्म्यधर्मिणि सारूप्याख्यसादृश्य-धर्मिणि । सर्वमोक्षेऽपि सकलसंसारमोक्षेऽपि । मोक्षो मोचनं नेति सम्बन्धः । मोक्षयोग्यादित्यनेन तमोयोग्यान्मध्यमजीवाच्च चक्रादिमोचनं सम्भावितमिति सूचयति । अत एव तावुभौ स्वगतावपि चक्रादिधारणाभावात् संसारेऽपि चक्रादिधारणनिन्दां कुर्वाते । मोक्षयोग्यास्तु वैष्णवा मोक्षेऽप्यावश्यकस्य संसारे सुतरामपेक्षितत्वाच् चक्रादिधारणं स्तुवन्ति । श्रुतयो वासिष्ठादिस्मृतयश्च उक्तविधया चक्रादिधारणं स्तुवन्तीति भावः । अनेनैव निन्दावचनानां गतिरपि सूचितेति द्रष्टव्यम् ॥ ६२७ ॥

सत्यप्रमोदटीका

सारूप्यमोक्षेऽपि चक्रधारणानुवृत्तेः श्रुतत्वान्मोक्ष-योग्यानां तदावश्यकम् इत्याह नेति । सर्वमोक्षे सकलसंसारान्मुक्तावपि

॥ ६२७ ॥

युक्तिमल्लिका

चमूषत्साधुचम्वां सन्वैष्णवेषु समुज्ज्वलन् ।

सुखी हरिर्हि यस्येनः स श्येनो विष्णुकिङ्करः ॥ ६२८ ॥

नयन्सुखभुवं स्वीयांश्छकुनाख्योऽपि स प्रभुः ।

बिभृत्वा धारणाशीलोद्रप्संश्चित्तद्रवान्वितः ॥ ६२९ ॥

सुरोत्तमटीका

पवमानसूक्तस्थऋग्भिश्चक्रादिधारणं प्रस्तुत्य इदानीं पूयमानसूक्तस्थेन चमूषच्छ््येनश्शकुनो विभृत्वा गोविन्दुर्द्रप्स आयुधानि बिभ्रत् । अपामूर्मिं सचमानः समुद्रं तुरीयं धाम महिषो विवक्तीति वचनेन चक्रादि-चतुरायुधधारणमपि स्तौति । अस्येत्थं निरुक्तमामनन्ति । चमूः कर्मसङ्घाः । श्येनो जीवः । शकुनस्तस्यान्तराविशेषः । विभृत्वेति विशेषेण पोषयित्वा । शकुन इति शुकनामा, सदिति परब्रह्मरूपं भवति, गोविन्दुर्गोविन्दस्येति द्रप्सोऽङ्गसङ्गिचन्दनविन्दनादायुधानि बिभ्रदिति धारयन् अपामूर्मिं सचमानः समुद्रम् अपामूर्मिमिति बुद्बुदायमानं संसृतिकारम्भककर्म सचमानो निराकरण-शीलः समुद्रमिति मुद्राभिः सहितं वपुर्दर्शयन् महिष इति संसार्यपि तुरीयं धामेति महदानन्दं वक्तीति जानीते ऊर्ध्वो गन्धर्वो अधिनाके अस्थादित्यपि निगमो भवतीति ।

तथा चायमर्थः । श्येनः पक्षिषु श्येन इव स्थूलो देवर्ष्यादिजीवः । श्येनो जीव इति वचनात् । शकुनः । शुक इव सूक्ष्ममनुष्यादिजीवः । शकुन-स्तस्यान्तराविशेषः शकुन इति शुकनामेति वचनात् । जीवेषूक्ततारतम्यज्ञानं चापेक्षितमिति सूचनायेत्थमुक्तम् । गोविन्दुर् गोविन्दनामकनारायणस्य । भगवतस्सकलवेदप्रतिपाद्यत्वज्ञानस्याप्यावश्यकत्वसूचनायेत्थमुक्तम् । गा विद्या विन्दत इति व्युत्पत्तेः । गोविन्दुर्गोविन्दस्येति वचनात् । आयुधानि चक्रशङ्खगदापद्माद्यायुधानि । बिभृत्वा श्रुतिस्मृत्यादिभिस्तद्धारणं पोषयित्वा । बिभृत्वा पोषयित्वेति वचनात् । केवलं मुद्राधारणमेव नालम् । किन्तु सदाश्रीमुद्राधारणस्यावश्यकत्वसमर्थनमप्यपेक्षितमिति सूचनायेत्थमुक्तम् ।

द्रप्सः गोपीचन्दनाख्यद्रवद्रव्यात् । सुमनस इतिवत् पञ्चम्यन्तं छान्दसमिदम् । चन्दनविन्दनादिति वचनबलादयमर्थो लभ्यते । चन्दनं गोपीचन्दनं विन्दनं तस्य लाभः । तस्मादिति निरुक्तस्यार्थः । बिभ्रत् सदा धारयन् । समुद्रं तप्तमुद्रासहितं देहं च दर्शयन् । समुद्रमिति मुद्रादिभिः सहितं वपुर्दर्शयन्निति वचनादयमर्थो लभ्यते । गोपीचन्दनेन चक्रादिधारणस्य प्रागुक्तत्वादत्र तप्तमुद्राधारणमेव लभ्यते । अन्यथा पौनरुक्त्यात् । एवं च द्विविधमुद्राधारणस्यापि इयमेव श्रुतिःप्रापिका । अपामूर्मिम् अपामूर्मिमिव विद्यमानं संसारारम्भककर्मबुद्बुदायमानं संसृतिकारम्भकं कर्मेतिवचनात् । सचमानश् चमु अदन इति धातोः संहरन् । सचमानो निराकरणशील इति वचनात् । तुरीयं धाम परमानन्दरूपम् । तुरीयं धामेतिवचनात् । चमूषद् अनादिकालमारभ्य स्वैस्स्वैः क्रियमाण कर्मराशिषु साक्षितया विद्यमानं परम्ब्रह्म । चमूःकर्मसङ्घास्सदिति परब्रह्मरूपं भवतीति वचनात् । महिष-स्संसार्यपि सन् पूर्वोक्तो विष्णुचक्राङ्कितो वैष्णवजीवः विवक्ति विशेषेण जानीते अपरोक्षीकृत्य पश्यतीत्यर्थः । महिषस्संसार्यपिवक्तीति जानीत इति वचनात् ।

ऊर्ध्वो गन्धर्वो अधिनाके अस्थाद्विश्वारूपा प्रतिचक्षाणो अस्य । भानुश्शुक्रेण शोचिषा व्यद्यौत्प्रारूरुचद्रोदसीमातरा शुचिरिति निरुक्तोक्त-समाख्याश्रुतेरप्ययमर्थः । अस्य परमात्मनः गन्धर्वः गच्छत्यवगच्छत्येभिस् तं परमात्मानमिति गानि चक्रशङ्कादीनि तस्यासाधारणचिह्नानि तेषां धर्वो धारणशीलः । गोविन्दुरायुधानि बिभ्रदिति वचनसमाख्यारूपत्वादत्राप्यय-मेवार्थो लभ्यते । अस्य परमात्मनः । विश्वा विश्वानि स्वहृदयगुहायां प्रविष्टानि । विश प्रवेशन इति धातोः । रूपा रूपाणि बिम्बरूपाणीत्यर्थः । प्रतिचक्षाणो ऽपरोक्षीकृत्य पश्यन् । इदं च तुरीयं धाम विवक्तीत्यस्य साक्षात्समाख्यारूपं, बिम्बापरोक्षज्ञानिनां संसारारम्भककर्मनाशावश्यम्भा-वादपामूर्मिं सचमान इत्यस्य परंपरया समाख्येति द्रष्टव्यम् ।

ऊर्ध्वः मनुष्यादिजीवेभ्य उत्कृष्टः । भानुः सूर्यः । इदं च श्येन-पदोक्तसकलोत्तमजीवानामुपलक्षणम् । अतस्तस्यैव समाख्यारूपं च । देवेष्वेव चक्रादिलाञ्छनमप्रसिद्धत्वात्तेष्वेव तदनुशास्ति समाख्यावाक्यम् । मनुष्येषु तु कैमुत्येन तत्सिद्ध्यतीति हृदयम् । साक्षान्मेरुं परितोऽन्तरिक्षचारितया श्येनोपमा सूर्यस्यैव सम्भवतीत्यतस्तस्यैव ग्रहणम् । नाके स्वर्गे अधिकतया अस्थात् स्थितिमकरोत् । आधिपत्यमन्वभूदित्यर्थः । अनेन देवानां स्वलिङ्ग-विधारणेनात्मकृतानामिति भागवतोक्तचक्रादिभगवदायुधांकधारणं न हि देवपदप्राप्ता ब्रह्मदर्शनवर्जिता इति स्मृत्युक्तमपरोक्षज्ञानं च सङ्गृहीतम् । एवं च एतच्छ्रुतिद्वयसमाख्ययापि येन देवा इत्यस्यास्मदुक्त एवार्थ इति ज्ञातव्यम् । शुक्रेण शोकघ्नेन । रीङ्क्षय इति धातोः । शोचिषा कान्त्या व्यद्यौद् विशेषेण द्युतिमानभूत् । न केवलं भानुः स्वयमेव द्युतिमानभूत् किन्तु तमेव भान्त-मनुभाति सर्वमिति श्रुत्युक्तरीत्या परप्रकाशव्याप्यप्यभूदिति प्रदर्शनाय चरम-चरणप्रवृत्तिः । शुचिः शुद्धः । इदं च भूम्यन्तरिक्षस्थाशुचिपदार्थस्पर्शेऽपि लेपाभावसूचनार्थम् । मातरा मातरौ । जगन्मातृस्थानीयौ जगन्मातृभूत-श्रीभूम्याख्यश्रीरूपद्वयसन्निधियुक्ते वा । रोदसी द्यावापृथिव्यौ । प्रारूरुचत् प्रकर्षेण शोभयामास । रुचि दीप्ताविति धातोः । इदं च ऊर्ध्वो गन्धर्व इत्यत्र स्वोक्तोर्ध्वत्वसमर्थनार्थम् । ग्रन्थकारस्तु पूयमाने पवमानस्यैव प्रतिपाद्यत्वान् निरुक्तकारोपात्तसमाख्याश्रुत्यनुसारान् मध्वविषयत्वे स्वेन वक्ष्यमाणरीत्या सकलश्रौतपदानां स्वारसिकार्थलाभाच्च सूर्यस्थवाय्ववतारभूतमध्वविषयतयैव चमूषदिति श्रुतिं योजयति ॥ चमूष इत्यादिना ॥ साधुचम्वां सन्निति चमूषदिति पदस्यार्थः । तस्य तात्पर्यकथनं वैष्णवेषु समुज्ज्वलन्निति । सुखी हरिरिति श्येनपदस्यार्थकथनम् ॥ शस्य सुखस्य कुःभूमिस् तां नयतीति शकुन इत्यर्थः । बिभृत्वेत्यस्यार्थ कथनं धारणाशील इति । बिभृत्वन् शब्द इति ज्ञातव्यम् ॥ ६२८,६२९ ॥

सत्यप्रमोदटीका

इदानीं पूयमानसूक्तस्थं ‘चमूषच्छ्येनः शकुनो बिभृत्वा गोविन्दुर्द्रप्स आयुधानि बिभ्रत् । अपामूर्मिं सचमानः समुद्रं तुरीयं धाम महिषो विवक्ति’ इति मन्त्रं व्याख्याति चमूषदिति । वैष्णवसेनानायक इत्यर्थः श्येनः शी परमसुखः हरिर् आसमन्ताद् इनः स्वामी यस्य सः । शस्य सुखस्य कुं भूमिं मोक्षं नयतीति शकुनः ‘स एनान् ब्रह्म गमयती’ति श्रुतेः । बिभृत्वा बिभृत्वन् इति शब्दस्य प्रथमान्तं रूपम् । शास्त्रार्थ-धारणशीलः । तत्पोषकः । जगद्धारको वा सूत्रनामकः । द्रवान्वितः परम-दयालुः ॥ ६२८, ६२९ ॥

युक्तिमल्लिका

आयुधानि सदा बिभ्रद्भुजकण्ठोदरादिषु ।

चक्रशङ्खगदापद्मपूर्वाण्यखिलवाक्पतेः ॥ ६३० ॥

गोविन्दुर्गोपतेर्वा स्वस्वामिनः सेविनां प्रभुः ।

अपां ज्ञानप्रवाहाणामूर्मिमौन्नत्यसम्पदम् ॥ ६३१ ॥

समुद्रं वेदशास्त्राख्यं सचमानः स्वचेतसा ।

सम्बन्धं प्रापयन्मध्वो मरुदंशो भवाद्बहिः ॥ ६३२ ॥

स्थितेस्तुर्यं मुक्तलोकाधारत्वाद्धामसंज्ञितम् ।

परं ब्रह्म विशेषेण वक्तीत्याह श्रुतिः परा ।

समवाये सचिद्धातुं यतो व्याख्यान्ति शाब्दिकाः ॥ ६३३ ॥

सुरोत्तमटीका

गोविन्दुरित्यस्यार्थकथनम् अखिलवाक्पतेरिति ॥ गोपतेर् गोपालस्य वेति तस्यैव पदस्यार्थान्तरकथनम् । महिष इत्यस्यार्थकथनं स्वस्वामिनस्सेविनां प्रभुरिति । सचमान इत्यस्यार्थकथनं स्वचेतसा सम्बन्धं प्रापयन्निति । तुर्यन्तुरीयनामकम् । सचमान इत्यस्य मूलीभूतं धातुमाह ॥ समवाय इति ॥ अनेन सच समवाय इति धातुं सूचयति ॥ ६३०–६३३ ॥

सत्यप्रमोदटीका

गोविन्दुर् वाक्पतेर् गोपालकृष्णस्य वा आयुधानि बिभ्रत् । महिषस् तत्वदेवानां प्रभुः ॥ ६३०–६३३ ॥

युक्तिमल्लिका

पूयमानस्य सूक्तस्था तन्माध्वीयं कथा ध्रुवम् ।

यतः प्रवचनं कुर्वद्वायोरूपं श्रुतिर्जगौ ॥ ६३४ ॥

सुरोत्तमटीका

यतः प्रवचनं कुर्वद्वायोरूपं श्रुतिर्जगौ तत्तस्मादिति पूर्वेणान्वयः ॥ ६३४ ॥

सत्यप्रमोदटीका

यतस् तत् तस्मादिति पूर्वेणान्वयः ॥ ६३४ ॥

युक्तिमल्लिका

तच्चमूषु सतां सेयं कथा भक्तिमतां सताम् ।

सेनास्तुतौ च सेनानीस्तुतिरेव यतो भवेत् ॥ ६३५ ॥

सुरोत्तमटीका

चमूषु मध्वसेनासु सन्निति जात्येकवचनाभिप्रायेण सकलवैष्णवैः क्रियमाणचक्रादिधारणस्य श्रौतत्वसिद्ध्यर्थं वैष्णवमात्रविषयतया वा इयं श्रुतिर्योज्येत्याह ॥ तच्चमूष्विति ॥ तच्चमूषु मध्वचमूषु । । पूयमानसूक्ते कथमन्यस्तुतिरित्यत आह ॥ सेनेति ॥ ततश्चायं समुदायार्थः । चमूषद् वैष्णवसेनामध्ये गुरुतया तिष्ठन्, शी आनन्दरूपी परमात्मा आसम्यक् इनो यस्य सः श्येनः । महालक्ष्म्या अवान्तरस्वामित्वेऽपि मुख्यस्वामित्वं विष्णोरेवेति दर्शनायेत्थमुक्तम् । शकुं मोक्षाख्यसुखभूमिं नयतीति शकुनः । कुःपृथ्वीत्यभिधानम् । बिभृत्वा वेदशास्त्राद्यर्थानां सदा धारणशीलः सत्तर्कैस्तेषां पोषको वा । श्वासरूपेण जगद्धारणशीलो वा । गोविन्दुः कृष्णस्य आयुधानि सहस्रारचक्रं शतावर्तशङ्खं सहस्रदलपद्मं षोडशारगदां चेति चतुरायुधानि भुजद्वये उरोभागद्वये च । चतुर्भुजत्वे तु स्वबाह्यभुजद्वये च बिभ्रत् । द्रप्सः भक्तेषु सर्वदा चित्तद्रववान् । द्रवणमेव द्रप्सा अर्श आदिभ्योऽजिति वचनात् तद्वान्द्रप्सः । अपां ज्ञानरसानाम् ऊर्मिम् उत्तुङ्ग-तरङ्गस्थानीयोत्कर्षवन्तम् । समुद्रं वेदशास्त्राख्यसमुद्रं सचमानः स्वमनसा सम्बन्धं प्रापयन् । अन्तर्णीतणित्वादयमर्थो लभ्यते । स्वमनसा सदा तं समुद्रं सम्बध्नन्वा । अथवा अपां ज्ञानरसानाम् ऊर्मिम् उत्कर्षवन्तं समुद्रं ज्ञानमुद्रया सहितं वेदव्यासं हयग्रीवं च सचमानः मनसा सम्बध्नन् सदा ध्यायन्नित्यर्थः । पुत्रतया शिष्यतया च सम्बध्नन्वा । जननमरणादिप्रवाहानाम् ऊर्मिम् उत्कर्षवन्तं समुद्रं संसारसमुद्रं सचमानो निराकुर्वन्वा । महिषः सकलजीवानां श्रेष्ठः वायोरवताररूपो मध्वस् तुरीयं सर्वेषामवसाने विद्यमानम् । धाम सकलाधारभूतं विष्ण्वाख्यं परं ब्रह्म विवक्ति विशेषण वक्ति अपरोक्षीकृत्य जानीते च । वैष्णवमात्रविषयेषु चमूषद् वैष्णवसङ्घे स्थितः शी सुखी परमात्मा आसमंताज् जन्मजन्मनि इनो यस्य स तथोक्तः । शकुं निरवधिकसुखभूमिं परमात्मानं नयति यथायोग्यं स्वशिष्यादिषु उपदिशतीति शकुनः । गोविन्दुरायुधानि बिभ्रद् द्रप्सः यथायोग्यं चित्तद्रववान् । अपामूर्मिं समुद्रं ज्ञानरसोर्मिमन्तं वेदशास्त्राख्यसमुद्रं सचमानः श्रवणमननादिना यथायोग्यं सम्बध्नन् । महिषो ऽधममध्यमजीवेभ्यः श्रेष्ठस् तुरीयं धाम विवक्ति अपरोक्षीकृत्य जानीत इति योजना । निरुक्तोक्तरीत्या वा योजना ।

जीवेष्वपि पक्षिपश्वादियोनिसद्भावदर्शनाय श्येनशकुनमहिषपदानि । अपां जलानामूर्मिम् ऊर्मिमन्तं समुद्रं प्रसिद्धसमुद्रं सचमानः पानेन संहरन् अगस्त्यो ऽभिमानितया सम्बध्नन् वरुणो वा नदीरूपेण सम्बध्नन् गङ्गादिनद्यभिमानि-देवतासमूहो वा । वेदशास्त्राख्यसमुद्रम् अभिमानितया सम्बध्नन् सरस्वती-भारत्यादिदेवस्त्रीसमूहो वा । गङ्गाया अपामूर्मिं हरिचरणप्रक्षालनेन पवित्री-कृत्य समुद्रं बहिर्जटाभस्माद्यवैदिकमुद्रयासहितं स्वपुत्रं शिवं पावयितुं सचमानः प्रापयन् ब्रह्मा वा तव श्रिये मरुतो मर्जयन्त इति श्रुतेः स्वजटामध्यपतितमपां प्रवाहं भगीरथप्रार्थनया समुद्रं प्रापयन्,

एवमात्मभुवादिष्टः परिक्रम्य गिरां पतिम् ।

बाढमित्यभ्युपामन्त्र्य विवेश तपसे वनम् ॥

इति तपोहेतोर्घनोदकसमुद्रं सचमानः । अन्तर्गोविन्दस्यायुधानि बिभ्रच्छिवो वा । अराख्यं ण्याख्यं वा मुक्तिस्थानस्थं महासमुद्रं सचमानः मुक्तगणो वात्र प्रतिपाद्यत इति सर्वेषामपि भगवच्चक्राद्यायुधांकधारणे अधिकारं सूचयितुं विशिष्य विशेष्यमनिर्दिशन्तीति श्रुतिर् उक्तविधया सर्वत्र सम्भवद्विशेषण-गणैरेव यतः प्रवृत्ता तस्मादुक्तः सर्वोऽप्यर्थः श्रुतेरभिप्रेत एवेति ज्ञातव्यम् ॥ ६३५ ॥

युक्तिमल्लिका

स्वरेण प्रणवाख्येन मन्त्रेण हृदिगं सदा ।

परतश्च परं देवं महतश्च महत्तरम् ॥ ६३६ ॥

धृतोर्ध्वपुण्ड्रः श्रुतसच्चक्रधारीह यः पुमान् ।

विष्णुं ध्यायति सर्वत्र स महात्मेति सांप्रतम् ॥ ६३७ ॥

प्रसिद्धोपनिषच्चाह शृपाक इति धातुतः ।

तप्तचक्राङ्कोर्ध्वपुण्ड्रधृतिस्तुतिपरा स्फुटम् ॥ ६३८ ॥

सुरोत्तमटीका

इदानीं धृतोर्ध्वपुण्ड्रः श्रुतचक्रधारी विष्णुं परं ध्यायति यो माहात्मा । स्वरेण मन्त्रेण सदा हृदिस्थं परात्परं यन्महतो महान्तमिति स्पष्टं तप्तचक्रोर्ध्वपुण्ड्रधारणप्रतिपादकं सृगालोपनिषद्वाक्यमर्थतो गृह्णाति ॥ स्वरेणेति ॥ शृृपाक इति धातोः श्रुतचक्रधारी तप्तचक्रधारीत्यर्थः । इह लोके । इहेति सदिति च पदं छन्दोभङ्गपरिहारार्थम् । सांप्रतं प्रसिद्धा । अद्यापि सौराष्ट्रदेशादौ वैदिकैः पठ्यमानेत्यर्थः ॥ ६३६–६३८ ॥

सत्यप्रमोदटीका

स्पष्टं सृगालोपनिषद्वाक्यं ‘धृतोर्ध्वपुण्ड्रः (शृ)श्रुत-चक्रधारी विष्णुं परं ध्यायति यो महात्मा । स्वरेण मन्त्रेण सदा हृदिस्थं परात्परं यन्महतो महान्तं’ इत्येतद्वाख्याति स्वरेणेति ॥ श्रुतेति तप्तेत्यर्थः ॥ ६३५–६३८ ॥

युक्तिमल्लिका

द्विरेखमूर्ध्वपुण्ड्रं च भवति द्विभुजे सदा ।

तप्तचक्रं धाययतीत्याह काचन वेदवाक् ॥ ६३९ ॥

काण्वानां सा शतपथब्राह्मणे किल वर्तते ।

यद्वेदस्य शिरो वक्ति तदेव हि वपुर्मतम् ॥ ६४० ॥

तस्मादियं च वाक्स्तौति तप्तचक्रायुधाङ्कनम् ।

अचक्रधारिव्याख्यादिप्रत्याख्यानचिकीर्षया ॥ ६४१ ॥

सुरोत्तमटीका

द्विरेखमूर्ध्वपुण्ड्रं चेत्यनेन द्विरेखमूर्ध्वपुण्ड्रं भवति तप्तं चक्रं द्विभुजे धाययतीति काण्वानां शतपथाख्यब्राह्मणे अद्यापि वैदिकैः पठ्यमानम् ऊर्ध्वपुण्ड्रतप्तचक्रधारणे तात्पर्यद्योतनाय एकप्रकारेणैवासकृदभ्यस्तं वाक्यं गृह्णाति ॥ धाययतीति ॥ धारयतीत्यर्थः । द्विभुज इत्यनेन विदो विदुरिति स्मृतावाह । उभयालाभे चक्रलाञ्छनस्यैव मुख्यत्वात् तद्धारणमेव विहितमिति सूचितम् । अत एव पूर्वाप्युपनिषत् श्रुतचक्रधारीत्येवाह । संहितावाक्यान्यपि पवित्रपदवाच्यसुदर्शनधारणमेव स्तुवन्ति । गोविन्दु-रायुधानि बिभ्रदिति वचनाच्चतुरायुधधारणमपि न्याय्यम् ।

दक्षिणे तु भुजे विप्रो बिभृयाद्वै सुदर्शनम् ।

सव्ये तु शङ्खं बिभृयादिति ब्रह्मविदो विदुः ॥

इति स्मृत्यनुसारेणायुधद्वयधारणमपि विहितम् । अतः श्रुतिस्मृतीनां तप्तचक्राङ्करहितपुरुषनिन्दन एव महान् भरः । धारणं तु यथारुचि कर्तव्यमिति भावः । साहित्यमुद्रया संहितोपनिषदोरैकार्थ्यं सम्पादयति ॥ यदिति ॥ वेदस्य शिर उपनिषत् । वपुर्मतं वपुषः वपुःस्थानीयायाः संहिताया मतमभिमतम् । लोके हि शिरसा यद्वक्ति तदेवं हस्तपादादिकमनुकरोति । अतो वेदेऽपि मुख्यतया शिरःस्थानीयोपनिषदा स्पष्टं यत्तप्तचक्रधारणं विहितं तदेव गोविन्दु-रायुधानि बिभ्रदिति संहितावाक्येनापि विधातव्यं नान्यत् । अतोऽत्रापि मुख्यतस्तप्तायुधानां धारणमेवाभिप्रेतमिति भावः । इयं वाक् गोविन्दुर्द्रप्स आयुधानीति वाक् । अचक्रधारिव्याख्यादिप्रत्याख्यानचिकीर्षया तप्तचक्राङ्क-मकुर्वतः पुरुषस्य कपोलकल्पितं यत्किञ्चिद्व्याख्यादि । आदिपदेन तप्तचक्राङ्क-धारणाख्यानाचारोऽपि गृह्यते । तस्य प्रत्याख्यानचिकीर्षया ॥ ६३९–६४१ ॥

सत्यप्रमोदटीका

‘द्विरेखमूर्ध्वपुण्ड्रं भवति तप्तं चक्रं द्विभुजे धाययती’ति शतपथवाक्यमप्यत्र प्रमाणयति द्वीति । धाययति धारयति ॥ उपनिषदः संहितावाक्यस्य चैकार्थत्वं साहित्यमुद्रयाऽऽह यदिति शिर उपनिषद् । वपुः संहिता । लोकेऽपि उत्तमाङ्गानुकारित्वं हस्तपादादिवपुषः प्रसिद्धमिति भावः ॥ ६३९,६४१ ॥

युक्तिमल्लिका

अत्रापि च पवित्रं त इति वाग्वायुगं हरिम् ।

स्तुवन्ती तप्तचक्राङ्कधारणं वक्ति सुस्फुटम् ॥ ६४२ ॥

सुरोत्तमटीका

अत्रापि पूयमानेऽपि । पवित्रन्त इति वागित्यनेन ‘पवित्रन्ते विततं ब्रह्मणस्पते प्रभुर्गात्राणि पर्येषि विश्वतः । अतप्ततनूर्नतदामो अश्नुते शृृतास इद्वहन्तस्तत्समाशतेति’ श्रुतिं गृह्णाति । अयमर्थः । हे ब्रह्मण-स्पते वेदानां पते चतुर्मुखब्रह्मणस्पते वा । नारायण ते पवित्रं सुदर्शनं विततं जगति विशेषेण व्याप्तं सूर्यमण्डलवत् प्रभया व्याप्तिर्न किन्तु स्वरूपेण व्याप्तिरिति सूचनाय वीत्युपसर्गः । तत्र निमित्तं प्रभुरित्यादि । प्रभुस्त्वं विश्वतः गात्राणि प्राणिनां शरीराणि पर्येषि परितः प्राप्नोषि व्याप्नोषीत्यर्थः । सुदर्शनधारिणस्तव सर्वशरीरेषु अन्तर्यामितया व्याप्तत्वात्तव करस्थं सुदर्शनमपि सर्वत्र व्याप्तमिति भावः ।

अस्तु भगवतो भगवत्सुदर्शनस्य च व्याप्तत्वं तथापि प्रकृते किमायातमित्यत उक्तम् ॥ अतप्ततनूरित्यादि ॥ तेन चक्रेणातप्ता बाहुमूले तापरहिता तनुर्यस्य सोऽतप्ततनुः । तापे करणं किंचिद्वक्तव्यं, तच्च प्राक् सुदर्शनस्य प्रस्तुतत्वेन शिष्टाचारबलेन च तस्यैव करणतया सम्बन्धो युक्तो न त्वन्यस्येति भावः । अत एवाऽऽमस् तापाख्यसंस्काररहितः पुरुषस् तन् मोक्षसुखं नाश्नुते । विष्णु-चक्राङ्करहितस्य वैकुण्ठसुखानुभवेन सह सर्वथा सन्धानाभावदर्शनाय विसन्धि-करणम् । सुदर्शनधारणस्य मोक्षसुखाशनं प्रति कारणत्वनिर्णयाय व्यतिरेक-व्याप्तिमुक्त्वा अन्वयमप्याह ॥ श्रितास इत्यादिना । श्रितासश् चक्रेण पक्वभुजाः । भुजे तप्तसुदर्शनाङ्कसहिता इत्यर्थः । इद् इत्थं तप्तसुदर्शनाङ्कवदेव वहन्तः गोपीचन्दनादिना धारयन्तश्च वैष्णवजनास् तन्मोक्षसुखं समाशत सम्यगभक्षयन्त । अशूभक्षण इति धातोः । आसतेति बहुवचनांतपदवदिदं द्रष्टव्यम् । सम्यगन्वभूवन्नित्यर्थः । अश्नुवतेति वक्तव्ये आशतेत्यलौकिक-पदप्रयोगः, सांसारिकसुखाशनवन् नेदं भेदघटितमशनं किन्तु स्वरूपभूत-सुखस्यैव विशेषशक्त्याऽशनमिति लोकवैलक्षण्यप्रदर्शनाय अविकृतसुखाशन-द्योतनाय वा यथास्थितधातुजमेव पदं युक्तम् । चक्राङ्कधारणे सति मौक्त-सुखावश्यम्भावात् तदभावे तदभावाच्च मोक्षसुखाशनं प्रत्यादौ तदेवासाधारण-कारणमिति भावः । जीवानां स्वरूपभूतदेहेष्वपि सुदर्शनधारिणस्तव बिम्ब-रूपतया व्याप्तत्वाद् बिम्बसारूप्याख्यमोक्षमभीप्सतां स्वरूपभूतदेहे चक्राङ्क-स्यावश्यकत्वात् तदनुसारेणैव बाह्यदेहस्यापि सत्त्वौचित्यात् तदनुमापकतया बाह्यदेहेऽपि तप्तसुदर्शनाङ्ककरणमावश्यकमिति सूचनाय प्रभुर्गात्राणि पर्येषी-त्युक्तम् ॥ ६४२ ॥

सत्यप्रमोदटीका

‘पवित्रं ते विततं ब्रह्मणस्पते प्रभुर्गात्राणि पर्येषि विश्वतः । अतप्ततनूर्न तदामो अश्रुते (शृ) श्रुतास इद्बहन्तस्तत्समासत’ इति श्रुत्यर्थं शंसति अत्रापीति । पूयमानेऽपीत्यर्थः । सुस्फुटम् अन्वयव्यतिरेक-प्रदर्शनपूर्वकम् ॥ ६४२ ॥

युक्तिमल्लिका

ब्रह्मणो वेदराशीनां पते लक्ष्मीपते तव ।

पवित्रहस्तगं चक्रं व्याप्तं सर्वत्र सर्वदा ॥ ६४३ ॥

सुरोत्तमटीका

एतदेवाभिप्रेत्याह ॥ ब्रह्मण इत्यादिना ॥ ६४३ ॥

सत्यप्रमोदटीका

हस्तगम् इति हेतुगर्भं विशेषणम् । हस्तस्य व्याप्तत्वात् तेन धृतस्य चक्रस्यापि तथात्वमिति ॥ ६४३ ॥

युक्तिमल्लिका

प्रभुस्त्वं देहिगात्राणि यतः पर्येषि विश्वतः ।

चक्रव्याप्तौ हेतुभूता चक्रिव्याप्तिरितीरिता ।

नान्यत्पवित्रं प्राण्यङ्गव्यापि नापि जगत्रये ॥ ६४४ ॥

तेनातप्ततनूरामः पाकहीनो श्रुतेन तत् ।

आमुष्मिकफलं यद्धि प्रसिद्धं भोक्षसंज्ञितम् ॥ ६४५ ॥

सुरोत्तमटीका

इति हेतोर् ईरिता श्रुतौ कथिता । अन्यद् दशा-पवित्रादिकम् । प्राण्यङ्गव्यापि न जगत्रये व्याप्यपि नेति सम्बन्धः ॥ तेन पूतेन पूर्वार्धोक्तसुदर्शनेन । अतप्ततनूर् अत एव आमः । यन् मोक्षसंज्ञित-मामुष्मिकफलं लोके प्रसिद्धं तदिति सम्बन्धः । तदिति सामान्येनोक्तावपि मोक्षसुखस्यैव प्राप्तिसूचनाय प्रसिद्धमित्युक्तम् । प्रसिद्धत्वात्तस्यैव तत्पदेन ग्रहणमिति भावः ॥ ६४४,६४५ ॥

सत्यप्रमोदटीका

विश्वतस् तन्वा एव न केवलं कान्त्या कीर्त्या वा । ‘परो मात्रया तन्वा वृधान’ इत्युक्तेः । अन्यत् पराभिमतं दशापवित्रादिकम् । व्यापि न इति पदच्छेदः । आम इत्यस्यार्थः पाकहीन इति । नेति व्यतिरेक-प्रदर्शनम् । तदित्यनूद्य अर्थमाह आमुष्मिकमित्यादिना ॥ ६४४, ६४५ ॥

युक्तिमल्लिका

शृतासस्तेन पक्वाङ्गा वहन्तश्च दिने दिने ।

गोपीचन्दनतो भक्तास्तत्समेत्य समाशत ।

इत्यर्थं वागियं स्पष्टमाचष्ट किल वैष्णवी ॥ ६४६ ॥

सुरोत्तमटीका

गोपीचन्दनतो वहन्त इति सम्बन्धः । तन् मोक्षसुखं समेत्य समाशत सम्यगश्नुत मोक्षसुखाशनं कुर्वतः वैकुण्ठादिलोकेषु तिष्ठन्तीति भावः ॥ ६४६ ॥

सत्यप्रमोदटीका

वहन्त इत्यस्य गोपीचन्दनत इत्यनेनान्वयः । तेन दिने दिन इत्युपपन्नम् । तदित्यन्वयप्रदर्शनम् । समाशत सम्यक् अन्वभूवन् ॥ ६४६ ॥

युक्तिमल्लिका

तदेषा पूयमानस्य सूक्तस्था वायुगं हरिम् ।

स्तौति वायुमतस्थानां धर्मस्तवनतत्परा ॥ ६४७ ॥

वायोः सूक्तं वदेद्वायुं वायुगं वा हरिं वदेत् ।

वदेद्वा वातरस(श)नमुनिधर्मं सुनिर्मलम् ॥ ६४८ ॥

सुरोत्तमटीका

तत् तस्मात् । एषा पवित्रन्त इति वाक् । वायुगं हरिमिति पूयमानप्रकरणविरोधपरिहारार्थम् । मुमुक्षुमात्रकथनेऽपि पूयमान-प्रकरणविरोधपरिहाराय वायुमतस्थानामित्युक्तम् । उपलक्षणं चैतत् । श्रुतौ श्रुतास इति बहुवचनप्रयोगाद् वायोरप्यत्र प्रतिपाद्यत्वसम्भवान्न प्रकरणविरोध इत्यपि द्रष्टव्यम् । अत एवातप्ततनूरिति प्रागेकवचनान्तपदेन प्रस्तावेऽपि तदुल्लङ्घ्य बहुवचनान्तपदेन प्रस्तुतिः । किमर्थं तर्हि पूर्वमप्येकवचनान्तपदेन प्रस्तुतिरिति चेत् सत्यं तदुक्तैकजीववादस्याप्यनुवादायेति ब्रूमः । सर्वेषा-मनुवादानर्हतया वा तेष्वेकस्य ग्रहणम् । दशापवित्रपरतया व्याख्याने तु विशेषेण व्याप्तत्वानुपपत्तिः । सोमरससङ्ग्राहकमृण्मयपात्रे गात्रपदप्रयोगायोगः । सोमरसे प्रभुत्वायोगः । अतप्ततनुरित्यस्य प्रकृतानुपयोगः । तत्र तनूपदेन शरीरग्रहणे गात्रपदेनापि तस्यैव ग्रहणम् । अन्यथा प्रायपाठविरोध इति दूषणानि द्रष्टव्यानि । दशापवित्रे मन्त्रनियोगस्य तु गतिरुक्तैव ॥५४७,६४८॥

सत्यप्रमोदटीका

पूयमानस्य वायोः । तेन वायोः स्तुतिर् ज्ञापिता ॥ ६४७ ॥

युक्तिमल्लिका

ब्रह्मास्त्ररूपगायत्री शत्रोः संहारकर्मणि ।

नियुक्तेत्येव किं वक्ति रिपुसेनाप्रणाशनम् ॥ ६४९ ॥

सुरोत्तमटीका

यत्र मन्त्रस्य विनियोगः स एव मन्त्रस्यार्थ इति न्यायस्यान्यत्रापि व्यभिचारमाह ॥ ब्रह्मास्त्रेति ॥ ब्रह्मास्त्ररूपगायत्री ब्रह्मास्त्र-मन्त्ररूपगायत्रीत्यर्थः । ब्रह्मास्त्रमुखेन रिपुसेनासंहारे विनियुक्ताया गायत्र्या रिपुसेनाप्रतिपादकत्वाभावाद्यत्र विनियोगः स एव मन्त्रार्थ इति न्यायोऽत्रापि व्यभिचरित इति भावः ॥ ६४९ ॥

सत्यप्रमोदटीका

अस्य मन्त्रस्य दशापवित्रे विनियोगेऽपि तदर्थकत्वे बाधसद्भावाद् उक्तत्रितयस्तुतिपरत्वं योग्यतावशात् श्लिष्टतरमित्यत्र दृष्टान्तमाह ब्रह्मास्त्रेति ॥ ६४९ ॥

युक्तिमल्लिका

सुदर्शनस्य मीमांसा द्रष्टव्या विस्तरार्थिभिः ।

उपकर्तुः प्रतिकृतेरशक्त्येहापि तत्कथा ।

अतोऽस्मदुक्त एवार्थ इति सर्वं मनोरमम् ॥ ६५० ॥

सुरोत्तमटीका

पवित्रं ब्रह्मणस्पत्यं लोकव्याप्तं सुदर्शनम् । तेनातप्ता तनूर्येषां ते न यान्ति हरेः पदमिति एतच्छ्रुतिव्याख्यानरूपपद्मपुराणवचनानु-कूल्यादपि स्वोक्त एव श्रुत्यर्थो न त्वन्य इति युक्तेरपि सूचनाय स्वकृत-सुदर्शनमीमांसातिदेशः । सुदर्शनमीमांसायाः पृथक्कृतत्वे किमत्रापि तन्मीमांस-येत्यत आह ॥ उपकर्तुरिति ॥ उपकर्तुः स्वस्योपकर्तुः सुदर्शनदेवस्य सुदर्शन-मन्त्रोपास्त्या स्वस्य सकलाभीष्टसिद्धेर्जातत्वादुपकर्तुरित्युक्तम् । प्रतिकृतेः स्तुतिव्यतिरिक्तप्रत्युपकारस्य अशक्त्या कर्तुं शक्त्यभावेन इहापि युक्तिमल्लिकायामपि । तत्कथा सुदर्शनकथा । स्वोपकारकसुदर्शनदेवस्य तदुपकारसदृशप्रत्युपकारकरणे शक्त्यभावाद् वारं वारं स्तुतिर्वा कर्तव्येत्या-शयेनात्रापि तत्कथेति भावः॥६५० ॥

सत्यप्रमोदटीका

सुदर्शनस्य मीमांसेति ग्रन्थकारेण विरचितं प्रबन्धान्तरम् । पुनरपि अत्र तन्मीमांसायां प्रयोजनं सुदर्शनदेवस्य स्तुति-रेवेत्याह उपकर्तुरिति । तदुक्तं सुधायां ‘‘आर्थिकपुनरुक्तेः स्तुतित्वमेव समाधानमवधातव्यमि’’ति । प्रतिक्रियायाः सर्वथाऽशक्यत्वेऽपि स्वकीय-कर्तव्यतामात्रेण वारं वारं स्तुतिरित्याशयः । अनेन सुदर्शनदेवोपासनेनैव ग्रन्थकृत एवमीदृशलोकविलक्षणप्रतिभादिसकलाभीष्टसिद्धिरिति ज्ञायते ॥ ६५०, ५६१ ॥