षष्ठेऽष्टकेऽन्तिमाध्यायद्वयमारभ्य सप्तमे
मध्वस्य वायोस्तृतीयावतारत्वे श्रुतयः
युक्तिमल्लिका
षष्ठेऽष्टकेऽन्तिमाध्यायद्वयमारभ्य सप्तमे ।
पवमानः पूयमानस्सोमश्चोक्तः पदे पदे ॥ ४९९ ॥
सुरोत्तमटीका
षष्ठेऽष्टके अष्टाष्टकात्मकऋग्वेदस्य षष्ठाष्टके । अष्टाध्यायात्मक एको भागष्षष्ठाष्टकमित्युच्यते । अन्तिमाध्यायद्वयं पञ्चदश-वर्गेभ्य उपरि स्वादिष्ठयेत्यादिसप्तममध्यायं सम्पूर्णमष्टमञ्चाध्यायमित्यर्थः । सप्तमेऽष्टके पञ्चवर्गो नाध्यायपञ्चके । मिलित्वाऽऽदावन्ते च किञ्चिदूनाध्याय-सप्तक इत्यर्थः । वायोर्गमनं तस्य कर्ता पवमानः । पूयमानः पवित्री-करणसमर्थः । वायुर्वह्निश्शुचिश्श्रेष्ठ इति स्मृतेः । अत एव हि पांसवोऽस्मा-न्पुनंत्विति शुद्धिप्रार्थना । जाग्रत्स्वप्नसुप्त्याख्यावस्थासु देहिनां देहे श्वासरूपेण सत्त्वात्सोमः । निरुक्तत्वादाधिकारिकवर्गेषु वायोरतिशयेनोत्तमत्वज्ञापनार्थं वा कारस्याकाराख्यवर्णविकारः । द्वौ चापरौ वर्णविकारनाशाविति निरुक्तलक्षणे कथनात् । सु प्रसवैश्वर्ययोरिति धातोरौणादिके मप्रत्यये गुणे च कृते सति जगत्प्रसवितृत्वादैश्वर्यवत्त्वाद्वा सोमः । पितरतुलगुरो, पीठे रत्नोपक्लृप्ते रुचिर-रुचिमणिज्योतिषा सन्निषण्णमिति वचनात् ॥ ४९९ ॥
सत्यप्रमोदटीका
मध्वाख्यो मारुतस्य तृतीयावतार इत्येतन्मन्त्र-सिद्धमिति समर्थयते षष्ठे इत्यादिभिः । तात्पर्यावधारणयोपक्रमं तावदाह पवमान इति । पवते इति पवमानः । उत्तरत्र तथैव वर्णनात् । पूयमानः पवित्रीकरणसमर्थः । अत एव ‘हंसाय तस्मै शुचिषद्मने नमः’ इति भागवते वायोः परमात्मसद्मनः शुचिरिति संज्ञा । तं प्रति ‘पांसवोऽस्मान्पुनन्तु’ इति शुद्धिप्रार्थना च । श्वासनियामकत्वाज् जगत्प्रसवितृत्वाद् ऐश्वर्यवत्त्वाद्वा सोमः । सु प्रसवैश्वर्ययोरिति धातुः । ‘मारुतिं प्राणिनां प्राणभूतं, नन्दयामो वयं नन्दतीर्थं,’ ‘पितरतुलगुरो,’ ‘पीठे रत्नोपक्लृप्ते’ इति वर्णितत्वात् ॥ ४९९ ॥
युक्तिमल्लिका
स मध्व इति तत्रैव पवमानस्य मध्वता ।
यत्स्पष्टं श्रूयते तस्मान्मध्वाख्या मारुती तनुः ॥ ५०० ॥
वेविजानः पृथक्कुर्वन्स मध्वः पञ्चधा जगत् ।
पृथग्भावातिशयवाग्विजे रूपमिदं यतः ॥ ५०१ ॥
सुरोत्तमटीका
तत्र पूयमाने । यद्यस्मात् । मारुती मरुत्सम्बन्धिनी । समध्व इत्यनेन ‘‘स पूर्व्यः पवते यं दिवस्परि श्येनो मथायदिषितस्तिरो रजः । समध्व आयुवते वे विजान इत्कृशानोरस्तुर्मनसा ह बिभ्युषा । तेनः पूर्वा स उपरास इन्दवो महे वाजाय धन्वन्तु गोमते । ईक्षेण्यासो अह्यो न चारवो ब्रह्म ब्रह्म ये जुजुषुर्हविर्हविरि’’ति ऋग्द्वयं गृह्णाति । अयमस्यार्थः । सर्वेषां जीवानां पूर्व्यः पूर्वं विद्यमानस्सर्वजीवज्येष्ठ इत्यर्थः । ‘‘वन्द्यं चन्द्रेन्द्ररुद्रद्युमणि-फणिवयो नायकाद्यैरिहाद्ये’’ति वचनात् । स पवमानः पवते श्वासरूपेण पवनं करोति । यं पवनं दिवो द्युनामकवैकुण्ठलोकस्य परि परितो वदन्ति । ‘‘आनन्दान्मन्दमन्दा ददति हि मरुत’’ इति वचनात् । श्येनः शी निरवधिकसुखवान्नारायण आसमन्तादिनः प्रभुर्यस्य स तथोक्तः । त्राता यस्य त्रिधामेति वचनात् । इषितस्सज्जनानामिष्टः । ‘‘भ्रातरिष्टे’’ति वचनात् । यः पवमानो रजो रजोगुणनिर्मितं तदुपलक्षिततमोगुणनिर्मितं च दुश्शास्त्रं तिरस्तिरस्कृत्य ‘‘दुर्भाष्यं व्यस्य दस्योरि’’ति वचनात् । मथायद्वेदशास्त्राख्य-समुद्रस्य विचाराख्यमन्थनं कृतवान् । ‘‘असुकरमकरोर्ब्रह्मसूत्रस्य भाष्यमि’’ति वचनात् । सः दुश्शास्त्रमधःकृत्य सच्छास्त्रं प्रवर्तयन्पवमानो मध्वो मध्वनामा वेविजान ईशजीवजडात्मकप्रपञ्चस्य विशेषेण पृथग्भावं कुर्वन् । सर्वथाऽ-तिरोहितस्य पुनस्समर्थनमपि करणमित्येवोच्यते । पञ्चभेदस्थापनं कुर्वन्नित्यर्थः । विजृ पृथग्भाव इति धातोः ।
आयुवते समंतात्सज्जनेषु सर्वदा मिश्रितो भवति । भेदशास्त्रमुपपादयंस्तेषु कृपां करोतीत्यर्थः । सज्जनान्मोदयन्तमिति वचनात् । दुर्जनेष्वमिश्रितश्च भवति । तदभिमतमद्वैतं खण्डयित्वा तत्रापि भेदस्यैव स्थापनात्तेषामसह्यो भवतीत्यर्थः । ‘‘दैत्यानामार्तिमन्धे तमसि विदधतामि’’ति वचनात् ‘‘प्रमदद-सुधियां मोहकद्वेषभाजामि’’ति वचनाच्च । यु मिश्रणामिश्रणयोरिति धातोर् युत इति वक्तव्ये युवत इति बहुवचनं सकलसज्जनानां हृदिस्थरूपबाहुल्या-पेक्षया तत्रस्थितदुर्जनानां पराभावनाय गृहीतरूपबाहुल्यापेक्षया च व्यत्ययो बहुलमिति वचनाद्वा । वायोर्दिव्यानि रूपाणि पद्मत्रययुतानि चेत्यादिवचनात् । ‘‘स्वामिन्सर्वान्तरात्मन्नित्यादि वचनाच्च । इदित्थं मध्वरूपवदेव । कृशानो-र्ब्रह्मप्रलयकाले जलावरणोपरि तेजोरूपावरणतया स्थिताग्नेर् अस्तुर्निरसन-शीलः । ‘‘असु क्षेपण’’ इति धातोरौणादिके तुन्प्रत्ययः । तेजसो वायौ विलयस्य शास्त्रसिद्धत्वात् । तेजोरूपावरणसंहर्ता वायुरूपावरणस्थो वायो-स्संहारकरूपविशेष इत्यर्थः । बिभ्युषा भयङ्करेण मनसा संहारकमूर्तित्वा-द्भयङ्करचित्तेन सहित इत्यर्थः । आयुवते विष्वगूर्ध्वमधश्च विद्यमाने आवरण-रूपवायौ । तत्र तत्रत्यतेजस्संहाराय बहुमूर्तिभिर्मिश्रितो भवति । अत्रापि रूपबाहुल्यविवक्षया बहुवचनम् । दंष्ट्रोग्रकरालवदनानां तेषां रूपाणामाश्चर्य-करत्वाद्धेत्युक्तम् अहो इत्यर्थः । अभेदि बभ्रे बभूवे । ‘‘येन भ्रूविभ्रमस्त’’ इत्यादिवचनात् । नोऽस्माकं पूर्वास उपदेष्टृतया प्रेरकतया च ज्ञानोदयात्पूर्वं विद्यमानाः । इन्दव इष्टदानशीलास्ते वायोरवतारा उपरासो मोक्षप्रापकतया तदुपयुक्तसंहारकर्तृतया च ज्ञानोदयादुपरि विद्यमानास्ते वायोरवताराश्च । आविष्कर्तुकामम् । ‘‘पितरतुलगुरो । तत्वज्ञान्मुक्तिभाजस्सुखयसि हि गुरवि’’त्यादि वचनात् । गोमते ज्ञानवते महे महते महे पञ्चपर्वाद्युत्सवे वा । वाजाय अन्नाय होतॄणां व्याख्यातॄणां च पोषणोपयुक्तान्नाय यज्ञसाधनाय यज्ञोपयुक्तान्नाय चेत्यर्थः । धन्वन्तुर् धनदा भवन्तु । धन धान्य इति धातोः । ‘‘भूरि मे भूतिहेतुरि’’ति वचनात् । ये उक्ता द्विविधा अपि वायोरवताराः ।
अह्योऽहिसम्बन्धिन्यः रत्नप्रभा न इव ईक्षेण्यास ईक्षणीयाः । वरेण्यपदवदौणादिकण्यप्रत्ययादिपदं द्रष्टव्यम् । रत्नप्रभावद्द्योतनाद्दिव्यदेहा इत्यर्थः । ‘‘निजरुचिनिकरव्याप्तलोकावकाशः । भूमिभूषामणिः । प्रोद्यद्विद्या-नवद्यद्युतिमणिकिरणश्रेणिसम्पूरिताश’’ इत्यादि वचनात् । चारवोऽगण्य-लावण्ययुक्ततया मनोहराश्च सन्तः । ‘‘सन्द्रक्ष्ये सुन्दरमि’’ति वचनात् । ब्रह्म ब्रह्मा देहिनां देहे देहे विद्यमानं परमात्मानं युगे युगे रामकृष्णव्यासादि-रूपेणावतीर्णं परमात्मानं च । जुजुषुस्सिषेविरे । जुषी प्रीतिसेवनयोरिति धातोः । ‘‘जुष्टिं मातरिश्वा जगाम ।’’ ‘‘आसेवोद्यद्दयार्द्रः । याभ्यां शुश्रूषुः । भक्तिमद्यापि राम’’ इति वचनात् । हविर् यज्ञे यज्ञे याज्ञिकैर्वा यवे स्वाहेति दत्तं स्वं हविर् हविर् भोक्तृभिर्वैदिकैः प्राणादिपञ्चकरूपेण दत्तं हविर्हविर् भीमरूपेणैकचक्रानगरे गृहे गृहे बकाय च दत्तं हविर्हविर् मध्वरूपेण भिक्षादातृभिर्दत्तं हविर्हविश्च जुजुषुः प्रीत्या बुभुजिर इति । इममेवार्थं मनसि निधायाह ॥ वेविजान इति ॥ पृथग्भावातिशयकर्तृत्ववाक् । भेदस्य पारमार्थिकत्वाख्यातिशयसूचनार्थमेवं प्रयोगः । अत्यन्तभेदसूचनार्थं वा । विजेर्विजपृथग्भाव इति धातोरिदं वेविजान इति पदम् ॥ ५००,५०१ ॥
सत्यप्रमोदटीका
तत्रैव अध्यायसप्तके पूयमानविषये वा । तस्मान् मध्वरूपश्रुतिसद्भावात् प्रकरणसद्भावाच्च ॥ मध्वः मारुतीतनुरिति भावः ॥ ‘स पूर्वः पवतेयं दिवस्पतिरिश्येनो मथायदिषितस्तिरोरजः । स मध्व आयुवते वेविजान इत्कृशानोरस्तुर्मनसा ह बिभ्युषा । तेनः पूर्वास उपरास इन्दवो महे वाजाय धन्वन्तु गोमते । ईक्षेण्यासो अह्यो ३ न चारवो ब्रह्मब्रह्मये जुजुषुर्हविर्हविः’ इति ऋग्द्वयं मध्वश्रुतिघटितं पूर्वोक्तप्रतिज्ञासाधनाय व्याख्याति । वेविजान इति । विजः विजृ पृथग्भाव इति धातोर् इदं वेविजान इति पदम् । पृथक् कुर्वन् ‘जीवेशयोर्भिदा चैव जीवभेदः परस्परम् । जडेशयोर्जडानां च जडजीवभिदा तथा । पञ्च भेदा इमे नित्याः सर्वावस्थासु सर्वदा’ इति प्रमाणोदाहरणेन समर्थयमानः॥५००,५०१ ॥
युक्तिमल्लिका
मिश्रोऽमिश्रश्च भवति सदा सुजनदुर्जनैः ।
युमिश्रणामिश्रणयोरिति धात्वर्थता द्वयोः ।
सख्यं नावैष्णवैर्यस्य प्रतीपो नैव वैष्णवे ॥ ५०२ ॥
सुरोत्तमटीका
द्वयोर्मिश्रणामिश्रणयोः प्रतीपो विरोधः ॥ ५०२ ॥
सत्यप्रमोदटीका
आयुवते यु मिश्रणामिश्रणयोरिति धातोः सज्जनै-र्मिश्रः दुर्जनैरमिश्रश्च भवति । ‘व्याप्तिर्यस्य निजे निजेन महसे’ति ‘व्यावृत्तिश्च विपक्षत’ इति चोक्तेः । बहुवचनं बहुरूपत्वतः ॥ ५०२ ॥
युक्तिमल्लिका
इत्थं कृशानोरसनशीलोस्तु प्रलये सति ।
मनसा भीषकेणोग्रो वाया वायुवते सह ।
सत्यर्थे बहुतैकस्यैवास्ति यद्व्यत्ययस्ततः ॥ ५०३ ॥
सुरोत्तमटीका
यद्यस्मादर्थे प्रयोजने सत्येकस्यैव रूपस्य बहुताऽस्ति यतश्च व्यत्ययो विभक्तिवचनादीनां व्यत्यासो वेदेऽस्ति ततस्तस्मात्कारणात्स आयुवत इति युक्तमिति हृदयम् ॥ ५०३ ॥
सत्यप्रमोदटीका
कृशानोः प्रलयकालीनस्य ब्रह्माण्डावरणभूताग्नेः । अस्तुरित्यस्यार्थो ऽसनशील इति । व्युत्क्रमेण अग्नेर्वायौ लयात् । ‘हृतरूपं तु तमसा वायौ ज्योतिः प्रलीयते’ इति भागवतोक्तेर् बिभ्युषा भीषकेण मनसा चित्तेन सहितः संहाररूपत्वात् । आयुवते इत्येतदत्रापि सम्बध्यते । संहाराय सर्वतो दिक्षु मिश्रितो भवति । पूर्ववद्बहुरूपत्वाद्बहुवचनम् । व्यत्यय इति ‘व्यत्ययो बहुलं छन्दसि’ इति सूत्रात् ॥ ५०३ ॥
युक्तिमल्लिका
ते वायोरवतारा नः पूर्वासो गुरुतां गताः ।
उपरासोऽपरासश्च प्रलये मुक्तिदायकाः ॥ ५०४ ॥
सुरोत्तमटीका
उपरास इत्यस्य तात्पर्यकथनमपरास इति । पूर्वपद-समभिव्याहारसामर्थ्याद्वर्णव्यत्यासतो वाऽपरास इत्युक्तम्
॥ ५०४ ॥
सत्यप्रमोदटीका
पूर्वासः ज्ञानोदयात्पूर्वम् उपदेष्टृतया प्रेरकतया च विद्यमानाः । सत्ताप्रदवायुनामकचेष्टाप्रदप्राणनामकधारणाप्रदधर्मनामकरूपैर् हृदि स्थिताः । अपरासः ज्ञानोदयानन्तरं मुक्तिप्रदभक्तिनामकरूपेण हृदि स्थिताः ॥ ५०४ ॥
युक्तिमल्लिका
इन्दवश्चेष्टदातृत्वात्परमैश्वर्यतोऽपि वा ।
महेति महते वाजायान्नाय ज्ञानगोमते ।
धन्वन्तु धनदास्सन्तु धनधान्य इतीरणात् ॥ ५०५ ॥
सुरोत्तमटीका
‘‘इदि परमैश्वर्य’’ इति धातोः परमैश्वर्यतो वेन्दव इत्युक्तम् । इन्द्रशब्दवदत्राप्यनुस्वार इति भावः । वाजाय अन्नं वै वाजमिति श्रुतेरन्नपदवाच्याय । ज्ञानगोमते ज्ञानाख्यगोमते ॥ ५०५ ॥
सत्यप्रमोदटीका
इन्दवः भक्तिज्ञानाद्यैश्वर्येण सहभोगसंपदा च समृद्धाः स्वेष्टरमापतेरुपदेष्टारश्च । अन्नाय ज्ञानयज्ञार्थम् अपेक्षिताय गुरुशिष्याणां पोषकान्नाय ॥ ५०५ ॥
युक्तिमल्लिका
प्रसिद्धिं लौकिकीं सौत्रीं चाह रूपद्वयेऽस्य हा ।
इत्यर्थोऽत्र यतस्स्पष्टं दृश्यते पदसंपदा ॥ ५०६ ॥
सुरोत्तमटीका
रूपद्वये उपदेशकरूपे संहारकरूपे च । अहा ओ-त्यव्यय शब्दः । आद्यरूपे पञ्चभेदख्यापकत्वस्यालौकिकीप्रसिद्धिर् द्वितीयरूपे तेजस्संहारकत्वस्य विपर्ययेण तु लय इति सौत्रीप्रसिद्धिरिति भावः । आश्चर्यार्थस्याप्युपलक्षणमेतत् । अस्मदुक्तार्थद्वयार्थस्यापि सूचकमिदम् ॥५०६॥
सत्यप्रमोदटीका
लौकिकी ‘पितरतुलगुरो’ इत्यादिरूपा । सौत्री ॐ इयदामननात् ॐ विपर्ययेण तु क्रम इत्यादिरूपा ॥ ५०६ ॥
युक्तिमल्लिका
पवमानेति सोमेति प्राक्प्रस्ताव्यैव यं श्रुतिः ।
सोमः पवत इत्याह स सोमो मारुतो ध्रुवम् ।
पवते नस्स किं नाभूत्पवमानो विदां मते ॥ ५०७ ॥
सुरोत्तमटीका
पवमानेति सोमेत्यनेन ‘‘अजीतयेऽहतये पवस्व स्वस्तये सर्वतातये बृहते । तदुशन्ति विश्व इमे सखायस्तदहं वद्मि पवमानसोमे’’ति श्रुतिं सङ्गृह्णाति । अयमर्थः । हे सोम सोमनामकपवमानमुख्यवायो । त्वं पवस्व इतस्ततो गमनं कुरु । तव पवनं विश्वे सर्वे इमे सखायो मममित्रभूता वैष्णवाः । अजीतये जीतिरसुरेभ्योऽस्मज्जयस्तदभावाय । अहतये तेभ्य एवा-स्मद्धननाभावाय । स्वस्तयेऽस्माकं क्षेमाय तुभ्यं च क्षेमदेभ्य इति वचनात् । सर्वतातये सर्वत्र विस्तारवते सर्वाभीष्टकराय वा । बृहते सर्वगुणपूर्णाय सर्वोत्त-माय च परमात्मने तत्सेवार्थमित्यर्थः । उशन्तीच्छन्ति च । त्वत्पवन-मुक्ताजीत्यादिफलाय वद्मि वच्मीच्छामि च । तव हनुमदवतारे राममूढ्वा सुग्रीवं प्रति पवनेन सीतान्वेषणार्थं मेरोर्दक्षिणभागे सर्वत्र पवनेन लङ्कायां प्रति पवनेन युद्धे सञ्जीवनार्थं पवनेन रथस्थरावणं प्रति राममूढ्वैवेतस्ततः पवनेन । भीमावतारे च कारागृहाद्युधिष्ठिरादीनूढ्वा गुहायां पवनेन एकचक्रानगरे बकवधार्थं पवनेन, कृष्णेन सह जरासन्धवधार्थं, पवनेन वनवासे सौगन्धिका-नयनार्थं पवनेन, युद्धे गदां गृहीत्वेतस्ततः, पवनेन च साधूनां राक्षसेभ्यो ऽहतिस्वस्तिरूपफलस्य रामकृष्णरूपिणो हरेस्सेवारूपफलस्य च दर्शनात् ।
मध्वावतारे च बाल्ये विमानगिरीन्द्रान्मातृगृहं प्रति पवनेन, गोरक्षणार्थं पवनेन, रामसेवार्थं प्रति पवनेन, ज्ञानदानार्थं देशे देशे पवनेन, द्वारका-पुरादागतकृष्णानयनार्थं, ज्ञानदृष्ट्यैव दृष्ट्वा विप्रैस्सह समुद्रं प्रति पवनेन, च दुर्मतप्रवर्तकेभ्यो दैत्येभ्यस्तवावतारप्रतिपादकसाधूनामज्ञानहत्याख्यफलस्य सत्यत्वस्थापनेन प्रपञ्चस्य सत्त्याख्यफलस्य मोक्षसाधनज्ञानात्परमस्वस्ति-रूपमोक्षाख्य फलस्य सूत्रापव्याख्याप्रत्याख्यानेन यथावस्थितार्थप्रतिपादक-भाष्यकरणेन हरेर्मूलरूपे सर्वावतारेषु च निर्दोषत्वव्याप्तत्वसर्वगुणपूर्णत्व-सर्वोत्तमत्वस्थापनेन च भगवत्सेवारूपफलस्य च दर्शनात् । एतदर्थप्रतिपादक-रामायणभारतवचनात् । ‘‘द्वैपायनस्य सेवार्थं बदर्यान्तु कलौ युगे । वायुश्च यतिरूपेण कृत्वा दुश्शास्त्रखण्डनमि’’त्यादि वायुपुराणवचनात् । ‘‘प्राक्पञ्चा-शत्सहस्रैर्व्यवहितममितं योजनैः पर्वतं त्वम् । मुष्टिरिष्टं प्रदेष्टुं किं नेष्टे । देव्यादेशप्रणोती’’त्यादि वचनात् । ‘‘जघ्ने निघ्नेन विघ्नः । क्ष्वेलाक्षीणाट्टहासं तवरणमरिहन्नुद्गदोद्दामबाहो । गच्छन्सौगन्धिकार्थं पथि । बह्वीः कोटीरटीकः । ब्रह्माहं निर्गुणोऽहं वितथमिदमिति ह्येषपाषण्डवादः । तद्युक्त्याभासजाल-प्रसरविषतरूद्दाहदक्षप्रमाणज्वालामालाधरोऽग्निः ॥ स्वच्छस्स्वच्छन्दमृत्यु-स्सुखय सिसुजनं देव किञ्चित्रमत्र । पारिव्राज्याधिराजः पुनरपि बदरीं प्राप्य कृष्णं च नत्वा कृत्वा भाष्याणी’’त्यादिवचनाच्च । मुख्यप्राणस्य पवन-प्रार्थनमिति भावः । अस्त्वस्यामृचि सोमेति पवमानस्य प्रार्थनम् । तथापि प्रकृते किमायातमित्यत आह ॥ प्राक्प्रस्ताव्येति ॥ यं पवमानम् ॥ ५०७ ॥
सत्यप्रमोदटीका
प्रस्ताव्येति तत्प्रकारः प्राक् प्रदर्शित इति भावः । श्रुतिः ‘अजीतयेऽहतये पवस्व स्वस्तये सर्वतातये बृहते । तदुशन्ति विश्व इमे सखायस्तदहं वद्मि पवमान सोम ।’ इत्येवंरूपा । अत्र खलु वायोः सखिभिः सुरैः स्वस्वामिनं वायुं प्रति बाह्याभ्यन्तरशत्रुनिग्रहाय स्वस्तये च प्रार्थनोच्यते ‘अयि स्वामिन् दुष्टान्दमय दमय व्यक्तमचिराद्गुणान्गूढान्विष्णोः कथय कथय स्वान्प्रमदयन्’ इति । तेन च एतत्प्रकरणोक्तो मध्वः पवमानो वायुरेवेति निश्चीयते इति भावः॥५०७ ॥
युक्तिमल्लिका
प्रसेनानीरिति श्रुत्या यद्भीमहनुमत्कथा ।
स्पष्टं निरूपिताऽत्रैव तत्सोमस्सोमवंशजः ॥ ५०८ ॥
सुरोत्तमटीका
प्रसेनानीरित्यनेन ‘‘प्रसेनानीश्शूरो अग्रे रथानां गव्यं नेति हर्षते अस्य सेना । भद्रान्कृण्वन्निन्द्रहवांत्सखिभ्य आसोमो वस्त्रा रभसानि दत्त’’ इति श्रुतिं संगृह्णाति । अयमर्थः । शूरश्शौर्यवान् । गव्यं रथं विहाय गवि भूमौ पादचारेणैव गच्छन् । इदं च भीमासाधारणधर्मत्वा-द्भीमसेनत्वज्ञापकः । सेनानीः पाण्डवसेनानायको भीमसेन इत्यर्थः । भीमा सेना यस्येति व्युत्पत्त्या भीमसेनपदस्य सेनानीपदस्य च समानार्थकत्वात् । स्कन्दाख्यसेनान्याः पूयमाने प्रस्तावायोगात् । गव्यपदोक्तपदाचारयुद्धायोगाच्च भीमसेन एवायं सेनानीः । रथानां प्रति सेनास्थितरथिकरथानामग्र एति युद्धार्थं गच्छति । तदाऽस्य भीमसेनस्य सेना प्रहर्षते । भीमपराक्रमं दृष्ट्वा प्रकर्षेण हर्षं करोति । इन्द्रहवानिन्द्रेणाहूयन्त इति व्युत्पत्त्या कवीन्द्रस्य वेदव्यासस्य यादवेन्द्रस्य चाप्रतिमोऽयं पराक्रम इत्याह्वानयोग्यान्भद्रान्शोभनपराक्रमा-न्कृण्वन्कुर्वन्सोमस्सोमकुलोत्पन्नो भीमो धर्मराजस्य राज्याभिषेके युवराज-सम्पदमनुभवन्नाऽऽसमन्तादागतेभ्यस्सखिभ्यो वैष्णवेभ्यो रभसानि नोदरादि-सम्भ्रमवंति वस्त्रेषु रचितचित्रप्रतिमादिसम्भ्रमवन्ति च । ‘‘अर्श आदिभ्योऽ-जि’’ति मतुबर्थेऽच्प्रत्ययः । वस्त्रा वस्त्राणि । उपलक्षणमेतत् । धनभूम्या-भरणादीनि च दत्त इत्येकोऽर्थः ।
शूरत्वादिसकलविशेषणवान्सेनानीः कपिनायको हनूमांश्च । रथानां राक्षसरथानामग्र एति तदाऽस्य सेना प्रहर्षते । इन्द्रहवान्सीताप्रतिकृतिस्थित-देवेन्द्रस्य स्तुतिरूपाह्वानयोग्यान्भद्रान्समुद्रलङ्घनवनभङ्गलङ्कादाहादिशोभन-पराक्रमान्कृण्वन्सोमो हनुमदाख्यो वायुरासमंतात्स्थूलस्वपुच्छवेष्टनाय दैत्यजनै-र्दत्तानि रभसानि वस्त्राणि । सखिभ्यो वायोरग्निसखत्वात्पुच्छदत्ताग्निना स्वस्य क्लेशो नास्तीति सूचनाय सखिभ्य इत्युक्तम् । दत्ते स्वपुच्छे प्रक्षिप्ताग्निस्थित-विष्णोराहुतितया दत्तवानित्यर्थः । परकृतानिष्टमपि तस्य हरिसेवाख्यपुण्य-हेतुरेवाभूदिति भावः । इममेवार्थं प्रपञ्चयन्नाह । प्रसेनानीरिति श्रुत्येत्यादिना । यद्यस्मात्तत्तस्मात् ॥ ५०८ ॥
सत्यप्रमोदटीका
‘प्रसेनानीः शूरो अग्रे रथानां गव्यं नेति हर्षते अस्य सेनाः । भद्रान्कृण्वन्निन्द्र ह वांत्सखिभ्य आ सोमो वस्त्रा रभसानि दत्त’ इति श्रुतौ भीमसेनस्य प्रकृष्टसेनानायकत्वं स्वसेनाप्रहर्षकत्वं युवराजपदे स्थित्वा विष्णुभक्तेभ्यो वस्त्रादिदातृत्वं संवर्ण्यते । एवं हनूमतो वानरसेनानायकत्वं तत्प्रहर्षकारणत्वं लङ्कादाहाय पुच्छपिधानाय शत्रूणां वस्त्रसञ्चयमादाय सखिभ्यो मरुत्सुहृद्भ्यो ऽग्निभ्यः प्रदानं चेति महिमा निरूप्यते । एवं मध्वस्य वैष्णवधुरन्धरत्वं मुकुन्दगुणवर्णनेन साधुवृन्दानन्दसन्दायित्वं, मोक्षे सङ्कल्प-मात्रे वस्त्रादिदानं चेत्येवमनुभावातिशयः प्रतिपाद्यते । एतेन विष्णु-भक्ताग्रणीत्वरूपस्य चरित्रसाम्यस्य शंसनेन वायोरेवैतदवतारत्रयमिति सुस्फुट-मित्याशयेन श्रुत्यर्थं विविनक्ति अग्रे इत्यादिभिः ॥ ५०८ ॥
युक्तिमल्लिका
अग्ने रथानां सेनानीश्शूरोऽसौ भुवि यस्तदा ।
एति प्रहर्षते भीमसेनसेना तदा किल ।
भीमसेनो ह्यसौ सेनानीत्वं यत्तस्य शोभते ॥ ५०९ ॥
सुरोत्तमटीका
यद्यस्मादसौ भीमसेनः । हि तस्माद्धेतोस्सेनानीत्वं तस्य शोभत इति सम्बन्धः ॥ ५०९ ॥
सत्यप्रमोदटीका
सेनानीत्वमिति ‘अस्मिन्युद्धे भीमसेन त्वयि भारः समाहित’ इति कृष्णवचनात् ॥ ५०९–५११ ॥
युक्तिमल्लिका
कवीन्द्रयादवेन्द्राद्धानोचितान् सुरराट्स्तुतान् ।
भद्रान्पराक्रमान्कुर्वन्युवराजपदे स्थितः ॥ ५१० ॥
सखिभ्यो विष्णुभक्तेभ्यो वस्त्रावस्त्राणि सम्भ्रमाः ।
युतानि च समन्तात्स दत्ते किल दिने दिने ॥ ५११ ॥
इति भीमं स्तौति सैव हनूमन्तं च शंसति ।
एकप्रकारकार्यत्वादेकरूपत्वतोऽपि वा ॥ ५१२ ॥
भद्रान्कृण्वन्कवीन्द्रस्य राघवेन्द्रस्य वा प्रभोः ।
आह्वानार्हान्निजगुणान्सखिभ्योऽर्थे रिपोः पुरीम् ।
गत्वा वस्त्राणि चादत्ते रभसानि किल द्विषाम् ॥ ५१३ ॥
सुरोत्तमटीका
सुरराड् देवेन्द्रः ॥ ५१०–५१३ ॥
सत्यप्रमोदटीका
एकप्रकारेति । भगवत्कार्यसाधकत्वरूपेत्यर्थः ॥ ‘इन्द्रहवान्’ इति श्रौतपदस्यार्थः ‘यादवेन्द्रः राघवेन्द्रः कवीन्द्र’ इति विष्णो रूपत्रयम् ॥ ५१२–५१३ ॥
युक्तिमल्लिका
स्वबालासक्तवस्त्राणि सखिभ्योऽग्निभ्य एव वा ।
आसमन्ताद्विभुर्दत्ते प्रागादत्ते च तत्कृते ॥ ५१४ ॥
द्विट्पुरीदाहपूर्वांश्च सीतास्थेन्द्रस्य तोषदान् ।
भद्रान्पराक्रमान्कुर्वन्वनभङ्गादिकान्प्रभः ॥ ५१५ ॥
सुरोत्तमटीका
तत्कृतेऽग्न्यर्थम् ॥ ५१४,५१५ ॥
युक्तिमल्लिका
अग्रे रथानामित्यादि योज्यमस्मिंश्च पूर्ववत् ।
स सोमः पवामानोऽस्मद्धनूमान्वा भविष्यति ॥ ५१६ ॥
सुरोत्तमटीका
अस्मिन्पक्षे ॥ ५१६ ॥
युक्तिमल्लिका
मतीनां जनिता विष्णोर्जनिता यः श्रुतौ श्रुतः ।
विप्राणामृषिरित्युक्तः स मध्व इति च श्रुतः ॥ ५१७ ॥
एक एव भवेद्विष्णुर्मतिं विप्रेषु योऽदिशत् ।
विष्णोः प्रमापनाल्लोके स विष्णोर्जनिता श्रुतः ॥ ५१८ ॥
यस्ता विजानात्स पितुः पितेत्यस्ति यतः श्रुतिः ।
देशकालगुणव्याप्तविष्णोर्जन्मेदमेव हि ।
यतः प्रागसतस्सत्ता कालव्याप्ते न शोभते ॥ ५१९ ॥
सुरोत्तमटीका
‘‘सोमः पवते जनिता मतीनां जनिता दिवो जनिता पृथिव्याः । जनिताग्नेर्जनिता सूर्यस्य जनितेन्द्रस्य जनितोत विष्णोः’’ । ‘‘ब्रह्मादेवानां पदवीः कवीनामृषिर्विप्राणां महिषो मृगाणाम् । श्येनो गृध्राणां स्वधितिर्वनानां सोमः पवित्रमत्येति रेभन्नि’’ति श्रुतिद्वयार्थपर्यालोचनयापि मध्वस्यैवात्रोक्तसोमत्वं घटत इत्याह ॥ मतीनां जनितेत्यादिना ॥
अयमर्थः । उपदेशादिना मतीनां बुद्धीनां जनिता । ‘‘अयमिहसुमतिं वायुदेवो विदध्यादि’’ति वचनात् । जीवजडात्मकप्रपञ्चस्य मिथ्यात्व-प्रतिपादनेन नष्टप्रायस्य सत्यत्वस्थापनेन पुनःप्रसवाद्द्युभ्वादीनामिन्द्रपर्यन्तानां जनिता । ‘‘उन्मथ्या तथ्यमिथ्या त्ववचनवचनानुत्पथस्थानि’’ति वचनात् । ‘‘ब्रह्मा देवानामि’’त्यव्यवहितोत्तरस्यामृचि देवानां मध्ये ब्रह्मेति वायोरेव चतुर्मुखब्रह्मत्वकथनाद्भाविपूर्वगत्या वाय्वादीनां जनिता । ब्रह्माणं भाविनं त्वामिति वचनात् । अथवा ‘‘साभ्रोष्णा भीशुशुभ्रप्रभमभयनभ’’ इत्यादि-वचनात् ‘‘वायुना वै गौतमे’’ति श्रुतेश्च महत्तत्वाभिमानिनो वायो-रप्यहङ्कारादितत्वस्रष्टृत्वसद्भावात्स्वमूलरूपापेक्षयैव मध्वेऽपि दिवो जनितेत्यादि योजनीयम् ।
सर्वोत्तमत्वादिमहिम्नो ज्ञापनाद्विष्णोर्जनिता । यस्ता विजानात्सपितुः पितेति श्रुतेः । ‘‘अजस्रसेवानुवृद्धप्राज्ञात्मज्ञानधूते’’त्यादिवचनात् । सोम-स्सोमनामको वायुस्सोमवच्छान्तमूर्तिर्मध्वाख्यो वायोरवतारो वा पवते हंसमन्त्रजपादिमहिम्नो ज्ञापनाद्धरिसेवार्थं पवते । देवानां मध्ये ब्रह्मा । विप्राणां मध्ये ऋषिर्ज्ञानोपदेष्टा गुरुरित्यर्थः । मृगाणां मध्ये महिषो बलदेवतात्वाद् बलदायकतया महिषे स्थितः । गृध्राणां मध्ये श्येनो बलदायकतया श्येने स्थितः । वनानां छेदे स्वधितिर्बलदायकतया परश्वधे स्थितः । द्वयोः कुठारश्श्वधितिः परशुश्च परश्वध इत्यमरः । रेभन्गर्जनं कुर्वन् । भशब्द इति धातोः । सोमश्शैत्यदायकतया सोमे स्थितस्सोमनामको वायुः कवीनां ज्ञानिनां मोक्षं प्रति गन्तॄणां पदवीर्मार्गान्मोक्षमार्गभूतार्चिरादिविद्युदन्त-देवतालोकान् पवित्रं ज्योतिश्चक्रं चात्येत्यतिक्रम्य वर्तते । सर्वस्मादुपरितन-लोकाधिपतिरिति भावः । तत्पुरुषो मानवस्स एनान्ब्रह्मगमयतीति श्रुतेः । ‘‘ज्वलति निजपदे वैदिकाद्या हि विद्या’’ इति वचनात् । इममेवार्थं प्रपञ्चयितुं मतीनां जनितेत्यादि ॥ ५१७–५१९ ॥
सत्यप्रमोदटीका
अत्र सर्वत्र सोमपदोक्तो मध्व एवेत्येतच्छ्रुत्यन्तरेण साधयति मतीनामिति ‘सोमः पवते जनिता मतीनां जनिता दिवो जनिता पृथिव्याः । जनिताऽग्नेर्जनिता सूर्यस्य जनितेन्द्रस्य जनितोत विष्णोः ॥ ब्रह्मा देवानां पदवीः कवीनामृषिर्विप्राणां महिषो मृगाणाम् । श्येनो गृध्राणां स्वधितिर्वनानां सोमः पवित्रमत्येतिरेभन्’ इति श्रुती व्याख्याति । जनितेत्यस्य सर्वत्र यथायोग्योऽर्थः ध्येयः । जनिता उपदेष्टा विष्णोः ‘तस्माद्विष्णुरिति यजमानस्य यज्ञस्य वा नाम । तौ सोमाद्भवत इति सोमो जनितोत विष्णोरित्युच्यते इत्यादि व्याख्येयमिति’ इति सुधानुसारेणार्थो ध्येयः ॥ इति च श्रुत एक एव भवेदित्युत्तरेणान्वयः ॥ विष्णोरित्यस्य परममुख्यार्थत्व-मुपेत्याह विष्णोरिति । अस्मिन्पक्षे जनितेत्यस्यार्थः प्रमापनादिति ॥ प्रमापयितरि जनिता पिता इति शब्दप्रयोगे श्रुतिसंमतिमाह य इति । न शोभते इति । ‘प्रीत्या मोक्षपरस्यास्य तात्पर्यं नैव दूषणे’ इत्यनुव्याख्यानोक्तेः ॥ ५१७–५१९ ॥
युक्तिमल्लिका
द्यावापृथिव्यादिजन्महेतुत्वं ब्रह्मणो गुणम् ।
ऐक्याद्घटयितुं ब्रह्मा देवानामिति तं जगौ ॥ ५२० ॥
सुरोत्तमटीका
यो मध्वस्तम् ॥ ५२० ॥
सत्यप्रमोदटीका
ऐक्यात् ‘एको ब्रह्मा च वायुश्च’ इति श्रुतेः ॥ ५२० ॥
युक्तिमल्लिका
बाधाभावे तु वाक्यानामर्थो वाच्यो यथाश्रुतः ।
बाधितार्थं तु यद्वाक्यं तत्सम्बन्धादिकं वदेत् ॥ ५२१ ॥
सुरोत्तमटीका
तद्वाक्यम् । सम्बन्धस्सन्निधानादिकम् । आदिपदेन सादृश्यं गृह्यते ॥ ४२१ ॥
सत्यप्रमोदटीका
वदेदिति । तद्गुणसारत्वादिति सूत्रोक्तदिशेति भावः ॥ ५२१ ॥
युक्तिमल्लिका
अथवा पवनं नाम मरुतो गमनं किल ।
मतीनां जन्म किं तेन दिवो जन्म भुवश्च किम् ।
विष्णोर्जन्म ततः किं स्यात्तत्र तत्रोपदेशनात् ॥ ५२२ ॥
मध्वाख्यदिव्यरूपेण मतीनां जनकोऽप्यभूत् ।
द्युभ्वादेर्जनकश्चाभून्मिथ्यात्वप्रविमोचनात् ॥ ५२३ ॥
सुरोत्तमटीका
दिवो जनितेत्यादेस्सयुक्तिकमर्थान्तरं वक्तुमाह ॥ अथवेति ॥ तेन पवनेन । ततो वायोर्गमनाच्छ्वासोच्छ्वासादिरूपेण पवनेन जीवन हेतुतैव स्यान्न तु जन्महेतुता । द्युभ्वादिलोकेषु श्वासोच्छ्वासादेरप्य-भावादिति भावः । किं तर्हि जन्मेत्यत आह ॥ तत्र तत्रेति ॥५२२,५२३॥
सत्यप्रमोदटीका
मध्वावतार एव द्यावापृथिव्यादिजनकत्वं घटयितुमाह मिथ्यात्वप्रविमोचनादिति ॥ ५२३ ॥
युक्तिमल्लिका
नीचैक्यनिर्गुणत्वादेर्निराकरणतः प्रभोः ।
विष्णोश्च जनकोऽप्यासीद्भयत्राता पिता किल ॥ ५२४ ॥
सुरोत्तमटीका
किलेत्यनेन ‘‘जनिता चोपनीता च यस्तु विद्यां प्रयच्छति । अन्नदाता भयत्राता पञ्चैते पितरस्स्मृता’’ इति वचनं सूचयति । सर्वोत्तमे सर्वगुणपूर्णे च हरौ नीचैक्यनिर्गुणत्वादेर्भयरूपत्वात्सत्यस्य जगतो मिथ्यात्वस्यापि भयरूपत्वात्तन्मोचको मध्वो हरेर्जगतश्च त्रातृतया पितेति भावः॥ ५२४ ॥
सत्यप्रमोदटीका
विष्णुविषयकमिथ्याज्ञानप्रसक्तदुर्गति भयात्सज्जनानां त्राणमेव उपचारेण विष्णुत्राणमित्यत्र स्मृतिप्रसिद्धिमाह किलेति ॥ ‘भयात्त्राता पञ्चैते पितरः स्मृताः’ इति वचनात् ॥ ५२४ ॥
युक्तिमल्लिका
स्वस्य स्वजगतश्चेत्थं स्थापनात्परितुष्यता ।
सत्यलोकाधिपत्ये च दत्ते ब्रह्माऽपि सोऽभवत् ॥ ५२५ ॥
सुरोत्तमटीका
अस्मिन्पक्षे ‘‘ब्रह्मा देवानामि’’त्युत्तरश्रुतेःका सङ्गति-रित्यत आह ॥ स्वस्येति ॥ स मध्वः ॥ ५२५ ॥
सत्यप्रमोदटीका
पूर्वोक्तं ब्रह्मैक्यमप्यनेनैव विवृतमित्याह स्वस्येति ॥
युक्तिमल्लिका
विप्राणामृषिरप्यासीद्यस्तानित्थमशिक्षयत् ।
स एव बलदेवोऽभूद्यद्बलाद्बलिनां बलम् ॥ ५२६ ॥
सुरोत्तमटीका
तान् विप्रान् । यद्बलाद्यस्य सन्निहितपवनस्य बला-द्बलिनां महिषश्येनकुठारादीनां बलं स एव वायुरेव बलदेवोऽभूदिति योजना ॥ वायोर्बलाधिदेवत्वसमर्थनाय ‘‘श्येनो गृध्राणामि’’त्यादिकमुक्तमिति भावः ॥ ५२६ ॥
सत्यप्रमोदटीका
बलिनां महिषश्येनकुठारादीनाम् ॥ ५२६ ॥
युक्तिमल्लिका
अत्येति मोक्षपदवीर्यन्मोक्षाध्वसु षोडशः ।
कालचक्रं च सोऽत्येति यतस्सर्वोच्चलोकगः ।
स रेभन्मेघगम्भीरनादी यत्प्रतिगर्जति ॥ ५२७ ॥
सुरोत्तमटीका
यद्यस्मात्षोडशः पञ्चदशमोक्षमार्गस्थानेभ्य उपरितन-स्थाने विद्यमान इत्यर्थः । ‘‘उत्क्रान्तस्तु शरीरात्स्वाद्गच्छत्यर्चिषमेव तु । ततोऽतिवायोः पुत्रं च योऽसौ नाम्नातिवाहिकः । ततोहःपूर्वपक्षं चाप्युद-क्संवत्सरं तथा । तटितं वरुणं चैव प्रजापं सूर्यमेव च । सोमं वैश्वानरं चेन्द्रं ध्रुवं देवीं दिवं तथा । ततो वायुं परं प्राप्य तेनैति पुरुषोत्तमिति ब्रह्मतर्कवाक्ये वायुलोकस्य षोडशत्वकथनात्षोडश इत्युक्तम् । कालचक्रं कालप्रवर्तक-ज्योतिश्चक्रम् । स वायुः ॥ ५२७ ॥
सत्यप्रमोदटीका
षोडशः प्राप्येषु मार्गदेवेष्विति भावः ॥ कालचक्रं ज्योतिश्चक्रम् । अत्येतीत्यस्य विवरणं यत इति । रेभन्नित्यस्यार्थः मेघेति ‘वायुर्भीमो भीमनादो महौजा’ इत्युक्तेः ॥ ५२७ ॥
युक्तिमल्लिका
एवं प्रत्युक्तिसद्रत्नमालाऽलङ्कुरुते गुरुम् ।
इति वा वाक्यसन्दर्भस्यार्थो यौक्तो भविष्यति ॥ ५२८ ॥
सुरोत्तमटीका
श्रुत्युक्तसद्रत्नमाला श्रुत्युक्तमहिमाख्यसद्रत्नमाला ॥ ५२८ ॥
युक्तिमल्लिका
पवमानः पूयमानो वायुस्सर्वस्य सम्मतः ।
तत्सूक्ते सहतेनोक्तस्सोमोऽन्यो न पदे पदे ।
समानाधिकृतत्वं यद्वस्त्वैक्यस्य प्रमापकम् ॥ ५२९ ॥
सुरोत्तमटीका
तत्सूक्ते पवमानपूयमानसूक्ते । तेन पवमानादिनाम्नाम् । अन्यो वायोरन्यः । यद्यस्मात् ॥ ५२९ ॥
सत्यप्रमोदटीका
समानाधिकृतत्वं ‘मतीनां जनिता’ इति पूर्वोक्तम् ॥ ५२९ ॥
युक्तिमल्लिका
प्रावीविपदिति श्रुत्याऽप्येषोऽर्थस्स्पष्टमीर्यते ।
गिरः सिन्धुस्स मध्वाख्यो मनीषाश्च मनोरमाः ॥ ५३० ॥
वाचश्चोर्मिं नोर्मिमिव सोमस्सोमाभिमानवान् ।
पवमानो मुख्यवायुरवतीर्णो महीतले ॥ ५३१ ॥
प्रावीविपद्विशेषेण प्रावर्तयदिति स्फुटम् ।
अर्थः प्रतीयते सर्वैः प्रवृत्त्यर्थो यतो विपिः ॥ ५३२ ॥
गोषु विद्यासु सर्वासु यानीमान्यवराणि च ।
जनैस्सर्वैस्स बहुशो वृतत्वाद्वृजनानि च ॥ ५३३ ॥
राजसानि कुशास्त्राणि तामसान्यपि सर्वशः ।
जानंस्तदर्थदोषं च पश्यन्सुजनचेतसाम् ॥ ५३४ ॥
सुरोत्तमटीका
वायोस्तृतीयावतारे वादिविवादपरिहाराय तमेवावतारं पुनरपि श्रुतिस्स्तौतीत्याह ॥ प्रावीविपदिति श्रुत्येति ॥ अनेन ‘‘प्रावी-विपद्वाच ऊर्मिं न सिन्धुर्गिरस्सोमः पवमानो मनीषाः । अन्तःपश्यन्वृजने मा वराण्याऽतिष्ठति वृषभो गोषु जानन्नि’’ति श्रुतिं सङ्गृह्णाति । अयमर्थः । गिरः क्षणे क्षणे स्वमुखान्निस्सरत्तरङ्गोपमवाक्यसमुदायस्य । जात्येकवचनत्वादयमर्थो लभ्यते । अन्यथा सिन्धुत्वस्यासम्बद्धत्वप्रसङ्गात् । सिन्धुस्समुद्र इव विद्यमानः। सद्योरचनपटुमथापाद्यविद्यासमुद्रेति वचनात् । यथा परिसरत्तरङ्गाणां समुद्र आधार एवमनन्तवेदवाक्यानां सकलविद्योपदेष्टृत्वादयमप्याधार इत्यर्थः । सोमस्सोमनामकः पवमानो मध्वरूपी वायु मनीषा मनसामिष्टा वाचो वेदब्रह्मसूत्रादिवाच ऊर्मिनोर्मिमिव प्रावीविपत्सकलसज्जनेषु प्रकर्षेणावर्तयत् । विप प्रवर्तन इति धातोः । मध्वाख्यसमुद्रे वाक्यतरङ्गोद्बोधनाय सोमरस प्रसवितृत्वेन सोमशब्दवाच्यचन्द्रस्यासमर्थत्वात्सकलसच्छास्त्रप्रसवितृत्वा-त्सोमोऽप्ययमिति भावेन सोम इत्युक्तम् । भगवद्दत्तसामर्थ्येनैव गिरामुद्बोधक इति भावः ।
दुश्शास्त्ररूपवाचां व्युदासाय मनीषा इति विशेषणम् । ‘‘त्वद्व्याख्या-सिंहनादे सपदि ददृशिरे मायिगोमायवः’’ । ‘‘वैदिकाद्या हि विद्यास्सेवन्त’’ इत्यादिवचनात् । अस्य च ब्रह्मसूत्रोपनिषदां भाष्यकर्तरि वैष्णवमतप्रवर्तके मध्वरूपे वायावेव सम्भवात्स मध्व इति प्राक्प्रस्तावितो मध्व एवात्रापि स्तूयत इति भावः ।
गोषु विद्यासु । वृजना यादृशतादृशजनैर्वृतानि न तु सज्जनवृतानि । इमानि ‘‘सुपां सुलुगि’’ति सूत्रेणेडादेशो ऽवराण्यनुत्तमानि मध्यमान्यधमानि पुराणशास्त्रादीनि । गोष्विति निर्धारणसप्तमीबलादत्रापि विद्यानामेव सङ्ग्रहः । अवरत्वोक्त्या च दुर्विद्यात्वमपि ज्ञातव्यम् । जानन्मध्यमतया च सङ्ग्राह्याणीति जानन् । अतस्तेषां शास्त्राणामन्तःपश्यन्पूर्वोत्तरविरोधादिदोषं पश्यन् । अन्तः-पश्यन्स्वहृदयकमले परमात्मानं च पश्यन् । वृषभस्सकलाधिकारिवर्गाणां श्रेष्ठो मध्वाख्यः पवमान आतिष्ठति समन्तात्सकलहृदयेषु तत्तच्छुभबुद्धिप्रेरकतया च तिष्ठति । अत एव पूर्वार्धेऽपि मनीषा इत्युत्तमविद्यानामेव सङ्ग्रहार्थं विशेषणम् । पूर्वोत्तराविरुद्धैव हि विद्या विद्वन्मनसामिष्टा न तु विरुद्धा । एवं च मनीषापदं सद्विद्यानामेव प्रापकम् । इममेवार्थमभिप्रेत्याह ॥ गिर इत्यादिना ॥ ऊर्मिं-नेत्यस्यार्थकथनमूर्मिमिवेति । सोमाभिमानवान्सोमलताभिमानवान् । अभिमन्यमानशब्दस्याभिमानिन्येव मुख्यत्वात्सोम इत्युक्तमिति भावः । अनेन कर्ममीमांसात्मकवाचामपि प्रवर्तक इति सूचयति ॥ ५३०–५३४ ॥
सत्यप्रमोदटीका
‘प्रावीविपद्वाच ऊर्मिं न सिन्धुर्गिरः सोमः पवमानो मनीषाः । अन्तः पश्यन्वृजने मावराण्या तिष्ठति वृषभो गोषु जानन्’ इति श्रुतिं व्याख्याति गिरः सिन्धुरिति ‘उत्तुङ्गवाक्तरङ्गाय मध्वदुग्धाब्धये नमः’ इत्युक्तेः ॥ मनीषा वाचः प्रावीविपदिति योजना । मनसामिष्टा वेदसूत्रादि-वाच ऊर्मिमिव सज्जनेषु प्रावर्तयत् ॥ गोषु विद्यासु इमा इमानि । वृजना अव्यवसायिभिर्जनैवृतानि कुशास्त्राणि सदागमविरुद्धानि तदुदासीनानि च । जानन् तत्प्रसक्तदोषं च पश्यन् अन्तः सज्जनानां मनसि आतिष्ठति प्रतिक्षणं बुद्धिशोधकत्वेन सन्निधीयते ॥ ५३०–५३४ ॥
युक्तिमल्लिका
अन्तरातिष्ठति हरिं पश्यंश्च वृषभः किल ।
वागूर्मिता वाक्प्रदत्वं बुद्धिदत्वादयो गुणाः ॥ ५३५ ॥
सुरोत्तमटीका
अन्त आतिष्ठतीति पदच्छेदः ॥ ५३५ ॥
सत्यप्रमोदटीका
अन्त इत्यस्यार्थान्तरम् अन्तरिति हृदयकमले इत्यर्थः ॥ ५३५ ॥
युक्तिमल्लिका
सारासारविवेकश्च यद्गुरुत्वप्रमापकाः ।
अतः प्रागुक्तमध्वाख्यरूपवागेव वागियम् ॥ ५३६ ॥
सुरोत्तमटीका
यद्यस्माद्रूपवाग्रूपप्रतिपादकवाक् ॥ ५३६ ॥
सत्यप्रमोदटीका
फलितमाह अत इति ॥ ५३६ ॥
युक्तिमल्लिका
हृदन्तः प्राणरूपस्य बहिश्च गुरुरूपिणः ।
पवमानस्य चरितं श्रुतिरित्थमबोधयत् ॥ ५३७ ॥
सुरोत्तमटीका
अन्तरातिष्ठतीत्यस्य भावकथनायोक्तम् ॥ हृदन्तरिति ॥ प्राणरूपस्य नियामकरूपस्य ॥ ५३७ ॥
सत्यप्रमोदटीका
प्राणरूपस्य तात्विकदेवताप्रेरकस्य ॥ ५३७ ॥
युक्तिमल्लिका
उन्मध्व इति चान्या वाक्सूक्तेऽस्मिंस्तौति मद्गुरुम् ।
वसानो भूतले मध्वो महिषः सर्वतो महान् ।
ऊर्मिरुत्कृष्टमतिमानूर्मिवद्वासदोन्नदन् ॥ ५३८ ॥
वननाभजनार्हत्वादपो ज्ञानप्रदत्वतः ।
ऋगादिविद्याः सरित इव विद्वान्विगाहते ॥ ५३९ ॥
सुरोत्तमटीका
‘‘उन्मध्व इत्यनेन’’ उन्मध्व ऊर्मिर्वनना अतिष्ठपदपो वसानो महिषो विगाहते । राजा पवित्ररथो वाजमारुहत्सहस्रभृष्टिर्जयति श्रवो बृहदि’’ति श्रुतिं सङ्गृह्णाति । अयमर्थः । वसानस्सत्यलोकादागत्य भूमौ निवासं कुर्वन् । ऊर्मिर् उ उत्कर्षेणोरुरुर्वी मिर्मतिर्यस्य तथोक्तः । निरुक्त-त्वादुकारनाशः । अथवा सर्वेभ्य ऊर्ध्वं मिर्मतिर्यस्य स ऊर्मिः । अप्यदश्च साम्यान्निब्रूयादिति वचनात् । इय इत्यस्योर्ध्वमित्यप्यर्थसम्भवात् । महिष-स्सकलाधिकारिवर्गेषु श्रेष्ठः मध्वः । वनना वननीया भजनीया इत्यर्थः । वन सम्भक्ताविति धातोः । ‘‘कृत्यलुटो बहुलमि’’ति वचनादर्हार्थे ल्युट् । अथवा वन्यते सेव्यते भगवानाभिरिति वननाः । अप आपयन्ति ज्ञापयन्ति परमात्मानमिति व्युत्पत्त्याऽप्पदवाच्या ऋगादिविद्या अप इव विगाहते । सकलविद्यास्वपि स्वमनश्चारयित्वा विचारयतीत्यर्थः । पवित्रनामकसुदर्शन-चक्रमेव रथो रथ इव यस्य स तथोक्तः । चक्रोपरि स्थित इत्यर्थः । चक्रस्थितं चक्रिणमष्टबाहुमिति वचनात् । सहस्रभृष्टिश्चक्रसहस्रदलेषु सहस्रधा व्याप्त-स्वकरचरणशिरोरुहादिज्वालामाल इत्यर्थः । भ्रस्ज् पाक इति धातोर्भृष्टयः परदहनसमर्थकिरणाः । मध्याह्नसूर्यप्रतिमप्रकाशमिति वचनेन सुदर्शनाख्यहरे-रग्निवज्जाज्वल्यमानसर्वावयवत्वादिति भावः ।
यस्य राजा । सर्वेषां स्वामी सुदर्शनरूपी नारायणः । दुष्टसंहारकर्ता भक्तरञ्जकतां दर्शयितुमिदं विशेषणद्वयम् । बृहत्सर्वेभ्य उत्कृष्टं वाजमन्न-वदतिप्रियं श्रवः मध्वाचार्यैस्साक्षाद्भगवन्मुखाच्छ्रुतवेदपञ्चरात्रादिश्रवणमारुहत् सदा विषयतया तत्र संनिहितोऽभवदित्यर्थः ।
जयत्युत्कृष्टो वर्तते परानभिभावयति च । स्वकृतश्रवणपरितुष्टसुदर्शनकृपया मध्वस्य पूर्वार्धोक्तसकलविद्योद्धारणसामर्थ्यं विरोधिभूतसकलदुर्मतनिवारण-सामर्थ्यं च भगवन्मुखादेव श्रुतश्रवणबलाच्छ्रवणपरितुष्टदुष्टसंहारकसुदर्शनात्म-कात्युग्रभगवत्कृपया चेति दर्शयितुमुत्तरार्धं प्रवृत्तम् । दुर्मतप्रवर्तकदैतेयमुख-भङ्गस्य सुदर्शनस्थहरिणैव कर्तव्यत्वात् । अत एवारुहज्जयतीति क्रियाद्वयं चेति भावः । एतत्सर्वमभिप्रेत्याह ॥ वसान इत्यादिना ॥ ५३८,५३९ ॥
सत्यप्रमोदटीका
‘उन्मध्व ऊर्मिर्वनना अतिष्ठदपो वसानो महिषोऽव-गाहते । राजा पवित्रस्थो वाजमारुहत्सहस्रभृष्टिर्जयति श्रवो बृहदि’ति श्रुतिभावं व्यनक्ति वसान इति । अवतीर्ण इति भावः । ऊर्मिवदिति न्यूनोपमा ‘गाम्भीर्यात्स्वनमधरीकरोति सिन्धोरि’ति सुमध्वविजयोक्तेः ॥ ‘बुद्धिशुद्धि-करगोनिकराढ्यं तीर्थजातमुभयं च धरिण्याम् । आत्ममज्जनत एव निकामं पर्यशोधयदमन्दमनीषः’ इति वचनोक्तमाह वननेति ॥ अतिष्ठत् पर्यशोधय-दिति भावः ॥ ५३८–५४० ॥
युक्तिमल्लिका
यस्मादुदस्थापयत्तास्तस्मात्सोऽतिष्ठयत्प्रभुः ।
अन्यार्थे पातनं पातस्स्वस्वार्थे प्राप्तिरुत्थितिः ॥ ५४० ॥
सुरोत्तमटीका
अतिष्ठयदुदतिष्ठयदित्युच्यत इत्यर्थः ॥ ५४० ॥
युक्तिमल्लिका
यस्य राजा पवित्राख्यसुदर्शनरथो हरिः ।
सहस्रारेषु यद्भृष्टिर्ज्वाला चाग्नेस्सहस्रधा ॥ ५४१ ॥
सुरोत्तमटीका
यस्य मध्वस्य सहस्रारेषु यद्भृष्टिर्यस्य हरेर्भृष्टिः । भृष्टि-पदार्थमाह ॥ अग्रेर्ज्वालेति ॥ अग्नेरग्निवज्जाज्वल्यमानतया अग्निशब्दवाच्यस्य ॥ ५४१ ॥
सत्यप्रमोदटीका
रथश् चक्रोपरि स्थितः । ‘चक्रस्थितं चक्रिणमष्ट-बाहुमि’त्युक्तेः । भृष्टिशब्दस्यार्थः ज्वालेति ॥ ५४१ ॥
युक्तिमल्लिका
सहस्रभृष्टिस्स बृहच्छ्रवः श्रवणमात्मनः ।
कृतं वाजं स्वेष्टदत्वादन्नमन्नसमं सदा ॥ ५४२ ॥
आरुहद्विषयीभूय सदा तत्रैव संस्थितः ।
जयत्यखिलदुर्वृत्तांस्तस्यासाध्यं न किञ्चन ॥ ५४३ ॥
सुरोत्तमटीका
तस्य मध्वस्य ॥ ५४२,५४३ ॥
सत्यप्रमोदटीका
सः वेदव्यासः । श्रवणम् ‘अशृणोदनन्तहृद-नन्ततोऽचिरात्परमार्थमप्यगणितागमावलेरि’ति वर्णितम् । जयति उत्कृष्टो वर्तते । अभिभावयति च । तस्य एवं वेदव्यासप्रेष्ठस्य मध्वस्य ॥५४२,५४३॥
युक्तिमल्लिका
यस्य श्रवणसंपत्त्या विष्णुः प्रीतोऽभवत्प्रभुः ।
नापूर्वो निगमोद्धारस्तस्येति हृदयं श्रुतेः ॥ ५४४ ॥
सुरोत्तमटीका
यस्य मध्वस्य ॥ ५४४ ॥
सत्यप्रमोदटीका
ऊद्धारः निर्णायकसूत्रभाष्यरचनम् ॥ ५४४ ॥
युक्तिमल्लिका
सप्तस्वसृरिति श्रुत्या मध्वः प्रस्तूयते स्फुटम् ॥ ५४५ ॥
वावशानोतिशयितकान्तियुक्तस्सुखात्मकम् ।
कं ब्रह्म परमं विद्वान्मध्वो ज्ञानदृशे सताम् ॥ ५४६ ॥
सुरोत्तमटीका
‘‘सप्तस्वसृरित्यनेन’’ सप्तस्वसृररुषीर्वावशानो विद्वा-न्मध्व उज्जभारादृशेकम् । अन्तर्येमे अन्तरिक्षे पुराजा इच्छन्वव्रिम-विदत्पूषणस्ये’’ति श्रुतिं गृह्णाति । अयमर्थः । वावशानोऽतिशयेन दीप्य-मानः । ‘‘वश कान्तावि’’ति धातोर्यङ्लुगन्तस्येदं रूपम् । ‘‘दीप्तांगुष्ठ’’ इत्यणुमध्वविजयवचनात् । कमानन्दरूपं परमात्मानम् । ‘‘कं ब्रह्म खं ब्रह्मे’’ति श्रुतेः । ‘‘श्रुतोपनिषत्कगत्यभिधानादि’’ति सूत्राच्च । विद्वान्साक्षा-त्पश्यन्सकलवेदार्थतया पश्यंश्च मध्वः । अऋषीः रोषविरोधिभूताश्शान्त्यादि-गुणदायका इत्यर्थः । वर्णव्यत्यासेन प्रलये भगवतोऽतिरिक्तऋषिरहिता वा । अकारवाच्यहयग्रीवाख्यऋषिसहिता वा । स्वसृस्स्वत एवार्थोपलब्धिपूर्वककर्तारं विना नित्यत्वात्स्वसामर्थ्यादेव स्वतन्त्रभगवतो मुखात्सॄस्सृता निस्सृता इत्यर्थः । ‘‘नित्या वेदास्समस्ताश्च शाश्वता विष्णुबुद्धिगाः । सर्गे सर्गेऽमुनैवेत उद्गीर्यन्ते तथैव चे’’ति वचनात् । स्वतन्त्रभगवतो मुखात्सृष्टाश्च । ‘‘पञ्चरात्रस्य कृत्स्नस्य वक्ता नारायणस्स्वयम् । अष्टादशपुराणानां कर्ता सत्यवतीसुतः । को ह्यन्यः पुण्डरीकाक्षान्महाभारतकृद्भवेदि’’ति वचनाच्च । सप्त ऋगादिचतुष्टय-
पञ्चरात्रपुराणभारतभेदेन सप्तसङ्ख्याका विद्याः । दृशे ज्ञानायोज्जभारोर्ध्वं जहार । ‘‘हृग्रहोर्भश्छन्दसी’’ति सूत्राद्धकारस्य भकारादेशः । अप्रमाणत्वपौरुषेयत्व-मिथ्यात्वावेदकत्वादिनाऽधःपतिताः प्रमाणत्वादिस्थापनेनोद्धृतवानित्यर्थः । ज्ञानार्थमुद्धृतत्वात् । ‘‘सप्तस्वसारो अभिसंनवन्ते यत्र गवां निहिता सप्त-नामे’’ति श्रुतिसमाख्यया च विद्या एव सप्तस्वसारः ।
अभि अभितः संनवन्ते स्तुवन्ति । यत्र यासु सप्तस्वसृषु गवां विद्यानां सप्तनाम नामानि संज्ञा निहिता निहितानि ‘‘व्यत्ययोबहुलमि’’ति वचनाद् बहुवचनस्थान एकवचनम् । एवं चात्र सप्तस्वसॄणां विद्यात्वेन स्पष्टमुदितत्वा-दत्रापि विद्या एव सप्तस्वसारः ।
केन सामर्थ्येन किमर्थं चोद्धृतवान् उद्धृत्य च किं कृतवानिति शङ्का-परिहारायोत्तरार्धस्य प्रवृत्तिः । पूषणस्य पूपूर्णौ षणौ बलनियमने बलानन्दावा यस्य स तथोक्तः । तस्य परमात्मनो ऽप्यक्षरसाम्यान्नि ब्रूयात् षकारो बलं णकारः प्राण आत्मा णश्च निर्वृतिवाचक इत्यादिवचनात् । ‘‘उणादयो बहुलमि’’ति सूत्रात् पॄपालनपूरणयोरिति धातोर् औणादिक उप्रत्ययान्तो वा पूशब्दः । अस्यां व्युत्पत्तौ खलप्वादितिवत् पौ पूर्णौ षणौ यस्येति विग्रहः । पुष पुष्टाविति धातोः पूषा पूर्ण आनन्दो यस्येति वा ।
वव्रिःवरणमङ्गीकारं प्रसादमित्यर्थः । वृञ् वरण इति युवर्णान्ताद्धातोरा-दृगमहनजनः किकिनौ लिट्चे’’ति सूत्रात् किप्रत्यये लिट् भावे च कृते सति च क्रिमितिवद् वव्रिमिति शब्दो द्रष्टव्यः । इच्छन्मध्वः । ‘‘निखिलमखभुजं तर्पयामासिथासावि’’ति वचनात् । अन्तरिक्षे पुराजा जगत्सृष्टेः पूर्वं जाताः । अपौरुषेयविद्यात्वेन कर्तुरभावादशरीरवाणीवदाकाशजा इत्युक्तम् । आकाशाभिमानिन्यां दुर्गायां वा पूर्वं जाताः । प्रलयावसाने प्राक् दुर्गया वेदैर्भगवतस्स्तोत्रकरणस्य प्रमाणसिद्धत्वात् । अन्त ईक्षते सर्वमिति व्युत्पत्त्या अन्तरिक्षे परमात्मनि वा पूर्वं जाताः । प्रागुक्तवेदादिविद्या अविदत् स्वयं ज्ञातवान् उपक्रमादिलिङ्गबलेन तत्तत्वार्थं सम्यग्ज्ञातवानित्यर्थः । अन्तः साधूनां हृदयान्तःस्थित्वा ता एव विद्या एव येमे न्ययमयत् प्रेरयामासेत्यर्थः । ‘‘स्वामिन्सर्वान्तरात्मन्नि’’ति ‘‘श्रावयास्मांश्च किञ्चिदि’’ति वचनात् । सकलवेदपुराणादीनां तत्वज्ञानवत्त्वाद्विष्णुप्रीत्यर्थं वेदादीन्स्वभाष्यादावुद्धृत्य सकलसज्जनेषु उपदिदेशेति भावः । इममेवार्थमभिप्रेत्याह ॥ वावशान इत्यादिना ॥ ‘‘कं ब्रह्म’’ इति श्रुत्यनुसारेणार्थः सुखात्मकमिति पूर्णसुख-मित्यर्थः । दृशे ज्ञानाय सतामिति योग्यतया सम्बन्धः ॥ ५४५,५४६ ॥
सत्यप्रमोदटीका
‘सप्तस्वसृररुषीर्वावशानो विद्वान्मध्व उज्जभारा-दृशेकम् । अन्तर्येमे अन्तरिक्षेषु राजा इच्छन्वव्रिमविदत्पूषणस्य’ इति श्रुतिं व्याख्याति सप्तेत्यादिभिः ॥ ५४५ ॥
युक्तिमल्लिका
ऋगाद्यास्सप्त सद्विद्यास्स्वतन्त्रेशसृतत्वतः ।
स्वसृस्स्वतः पूर्वजा वा परमात्ममुखाम्बुजात् ॥ ५४७ ॥
सुरोत्तमटीका
स्वतः ब्रह्मणा सह जातात् स्वमूलरूपात् पूर्वं जाताः, पूर्वं जातः ब्रह्मसृष्टितोऽपि वेदसृष्टेः पूर्वकालीनत्वात् । स्वतःपूर्वं सृष्टत्वाद्वा स्वसृशब्दवाच्या इत्यर्थः ॥ ५४७ ॥
सत्यप्रमोदटीका
स्वसृः स्वतन्त्रस्य हरेर्मुखान्निःसृता चतस्रः श्रुतीर् एवं तेन रचिता इतिहासपुराणपञ्चरात्राख्याः श्रुतिसमास् तिस्रः विद्याः ॥ ५४७ ॥
युक्तिमल्लिका
अरुषीस्सर्वभिन्नाख्यहयग्रीवर्षिसंयुताः ।
तदन्यद्रष्टशून्या वा लयेऽप्यच्युतबुद्धिगाः ॥ ५४८ ॥
सुरोत्तमटीका
अऋषीरित्यस्यार्थकथनं सर्वभिन्नाख्यहयग्रीवर्षिसंयुता इति । सर्वभिन्नत्वाद् अः इति आख्या यस्य सर्वभिन्नाख्यः । अ एव ऋषिर्यासां ता अर्षयः । ता अर्षीः ॥ ५४८ ॥
सत्यप्रमोदटीका
अ सर्वभिन्नः हयग्रीव एव ऋषिर् द्रष्टा यासां ताः । ‘यतस्ता हरिणा दृष्टा’ इति वाराहवचनात् । लयेऽपीति ‘‘शाश्वता विष्णुबुद्धिगाः’ इति वचनात् ॥ ५४८ ॥
युक्तिमल्लिका
वर्णव्यत्यासतोऽस्त्वित्थं नोचेदक्रूररूपिणीः ।
उज्जभारोद्दधारात्मभाष्यादिग्रन्थविस्तरे ॥ ५४९ ॥
सुरोत्तमटीका
नो चेद् वर्णव्यत्यासो नो चेत् । अक्रूररूपिणीः ‘‘रुष दाह’’ इति धातोर् न विद्यते रुषिर्दाहो यासां याभ्यो वा ता अर्षय इति व्युत्पत्त्या नित्याः शान्ताश्चेत्यर्थः ॥ ५४९ ॥
सत्यप्रमोदटीका
अर्षीरिति भाव्यम् । अरुषीरिति कथमिति तत्राह वर्णेति । अक्रूरेति सतां दुःखप्रहाणोद्देश्यकेत्यर्थः । उद्दधार असाधु-निबन्धान्धतमसावकुण्ठितान् यथावद्व्याचख्यौ ॥ ५४९ ॥
युक्तिमल्लिका
असदास्यान्धकूपेभ्य उज्जह्रे वा बलात्प्रभुः ।
हभौ निभौ हृञि छन्दो भागे क्वापीति शाब्दिकाः ।
ज्ञानाय यासामुद्धारस्ता विद्या नात्र संशयः ॥ ५५० ॥
सुरोत्तमटीका
असदास्यान्धकूपेभ्यो ऽसतां मायावादिप्रभृतीनाम् आस्याख्यान्धकूपेभ्यः बलाद् युक्तिबलात् । हभौ हकारभकारै निभौ समानौ । हृञि हृञिधातौ ॥ ५५० ॥
सत्यप्रमोदटीका
हृञि धातौ । निभौ सदृशौ । तेन उज्जभारेति साधुः ॥ ५५० ॥
युक्तिमल्लिका
पूषणस्य हरेः पूर्णबलप्रेरणकर्मणः ।
वव्रिं वरणमिच्छन्स प्रसादाभिधमुत्तमम् ॥ ५५१ ॥
सुरोत्तमटीका
वरणं प्रसादाभिधमिति सम्बन्धः ॥ ५५१ ॥
सत्यप्रमोदटीका
उद्धारे सामर्थ्यस्य कारणमाह पूषणस्येति पू इत्यस्य पूर्णमिति षकारस्य बलमिति णकारस्य प्रेरणमिति चार्थमाश्रित्याह पूर्णबल-प्रेरणेति । प्रसादाभिधमिति ‘यमेवैष वृणुते’ ‘वृणीमहे ते परितोषणाय’ इत्यादिप्रयोगादिति भावः । उद्धारे स्वप्रयोजनमुक्तम् ॥ ५५१ ॥
युक्तिमल्लिका
अन्तरिक्षेन्तरिक्षाख्याऽव्याकृताकाशमानिनि ।
दुर्गाननाम्बुजे पूर्वं सर्वस्य जगतः पुरा ।
जाजातास्सप्तविद्यास्ता अन्तस्सुजनचेतसाम् ॥ ५५२ ॥
मध्ये येमे न्ययमयत्स्वयं चाविददञ्जसा ।
आहान्तरिक्षे जातत्वमनादित्वं च सूचयन् ॥ ५५३ ॥
सुरोत्तमटीका
जा इत्यनूद्य जाता इत्यर्थकथनम् । वेदद्रष्टा ऋषिः ॥ ५५२,५५३ ॥
सत्यप्रमोदटीका
अन्तरिक्षो विष्णुः स्वतन्त्रज्ञानवान् । तस्माज्जातास् तद्बुद्धौ सर्वदा प्रतीयमानाः श्रुतीः । अव्याकृताकाशाभिमानिन्या दुर्गाया आस्यात्प्रलये विनिर्गता वा । न्ययमयद् दृढनिरूढानकरोत् । अनेन उद्धारस्य परप्रयोजनमपि फलमुक्तम्
॥ ५५२, ५५३ ॥
युक्तिमल्लिका
इत्यस्तौत्पवमानस्य सूक्तेयं स्पष्टवागियम् ।
स मध्वः पवमानांशस्सिद्धो विद्वच्छिरोमणिः ॥ ५५४ ॥
सुरोत्तमटीका
अस्त्वस्यां श्रुतौ प्रतिपादितो मध्व आनन्दतीर्था-चार्यः । तस्य पवमानत्वं कथमित्यत आह ॥ इतीति ॥ ५५४ ॥
सत्यप्रमोदटीका
सिद्ध इति । न हि अन्यसूक्ते अन्यस्य प्रतिपाद्यत्वं सम्बोभवीति इति भावः ॥ ५५४ ॥
युक्तिमल्लिका
विष्टम्भो दिव इत्यत्राप्युक्तो मध्वो गुरुर्मम ।
विष्टम्भो धारको योऽसौ दिवोधारणशीलवान् ॥ ५५५ ॥
धरुणोऽस्याः पृथिव्याश्च विश्वाश्च क्षितयोऽस्य हि ।
हस्ते हस्तवशा मिथ्यात्वाख्यबाधविमोचनात् ॥ ५५६ ॥
वायो तवांशुरंशाऽसौ मध्वस्तच्छीलशीलवान् ।
नितरां योगयुक्तत्वान्नियुक्तानुत्स उत्सुकः ॥ ५५७ ॥
सुरोत्तमटीका
विष्टम्भो दिव इत्यनेन ‘‘विष्टम्भो दिवो धरुणः पृथिव्या विश्वा उत क्षितयो हस्ते अस्य । असत्त उत्सो गृणते नित्युत्वान्मध्वो अंशुः पवत इन्द्रियाये’’ति श्रुतिं गृह्णाति । अयमर्थः । हे पवमान दिवः स्वर्गलोकस्य विष्टम्भ आधारभूतः । पृथिव्या भूलोकस्य धरुणः धारणशीलः । उभयोरपि मिथ्यात्वाख्यनाशत उद्धाराद् लोकद्वयस्थसाधूनां गुरुत्वेनोद्धारकत्वाद्वा ‘‘श्रीमदानन्दतीर्थत्रैलोक्याचार्ये’’ति वचनात् । उत्सः हरिस्तोत्रकरणे हरिस्तोत्रश्रवणे च उत्सुकः । नियुत्वान् नितरां हरिविषयकयोगवान् । युद् योगस् तद्वानित्यर्थः । हे वायो ते तव अंशुर् अंशः । मूलरूपताच्छीलिकत्व-प्रदर्शनाय उकारः । मध्वः मध्वाचार्यः । असद् दुर्जनाज्ञेयत्वादसच्छब्दवाच्यं परं ब्रह्म । सदिधातोर्गत्यर्थकत्वाद् गत्यर्थानां च ज्ञानार्थकत्वात् । गृणते गृणीते स्वयं स्तौतीत्यर्थः । बहुरूपापेक्षया बहुवचनम् । हरिस्तुतिं कुर्वति च इन्द्रियाय सज्जनवागिन्द्रियाय । हरिस्तुतिं कुर्वत्सज्जनवागिन्द्रियोद्बौधनायेत्यर्थः । पवते देशे देशे पवनं करोति । हरिस्तुतिरूपश्रुतिपुराणपञ्चरात्रादिकमुपदिश्य सज्जनवागिन्द्रियेण हरिं स्तावयितुं सर्वत्र सञ्चरतीत्यर्थः । ‘‘रचनपटुमथा-पाद्यविद्यासमुद्र वाग्देवी सा सुविद्या द्रविणदे’’ति ‘‘केशवानन्दतीर्थ-श्रीमत्पादाब्जभक्तस्स्तुतिमकृत हरेरि’’ति वचनात् । एत एव अस्य मध्वस्य विश्वाः समस्ताः क्षितय उत क्षितयश्च हस्ते तिष्ठन्ति । सकलदेशस्थसज्जन-गुरुत्वात् सर्वापि क्षितिर्हस्तवशैवेत्यर्थः । ‘‘जगदुतवशगमि’’ति वचनात् । इममेवार्थमभिप्रेत्याह ॥ विष्टम्भ इत्यादिना ॥ विष्टम्भ इत्यस्यार्थकथनं धारक इति । आधार इत्यर्थः । पृथिव्या धरुण इत्यस्यार्थकथनं धारणशीलवानिति ॥ ५५५–५५७ ॥
सत्यप्रमोदटीका
‘विष्टम्भो दिवो वरुणः पृथिव्या विश्वा उत क्षितयो हस्ते अस्य । असत्त उत्सो गृणते नियुत्वान् मध्वो अंशुः पवत इन्द्रियाय’ इति श्रुतिं व्याचष्टे विष्टम्भ इति । दिवः स्वर्गलोकस्य । धरुणः धारणशीलः । विमोचनात् पराकरणात् । सत्यत्वसमर्थनादिति यावत् । ते तव । सर्वप्रकारेण मूलरूपशीलवान् । नित्युत्वान् नितराम् अनवरतं योगयुक्त ईश्वरप्रवणकाय-करणवृत्तिः । उत्सुकः ‘प्रवर्धतां भक्तिरलं क्षणे क्षणे’ इति प्रार्थनात्
॥ ५५५–५५७ ॥
युक्तिमल्लिका
हरिस्तुतिश्रोतुकामस्सर्वैश्चादृश्यरूपतः ।
असत्संज्ञं परं ब्रह्म गृणते स्तोत्रसञ्चयैः ॥ ५५८ ॥
सुरोत्तमटीका
गृणते स्तुतिं कुर्वते ॥ ५५८ ॥
सत्यप्रमोदटीका
सर्वैर् असज्जनैः । सदेर् गत्यर्थकत्वाद् असद् अज्ञेयम् । गृणते बहुरूपत्वाद्बहुवचनम् ॥ ५५८ ॥
युक्तिमल्लिका
वागिन्द्रियाख्येन्द्रियाय पवते प्रेरणेच्छया ।
सत्सु वाग्वैखरीरित्सुरेव सञ्चरति क्षितौ ।
इत्यर्थोऽत्र यतस्सम्यग्दृश्यते पदसम्पदा ॥ ५५९ ॥
सुरोत्तमटीका
इन्द्रियाय पवत इत्यस्याभिप्रायमाह ॥ सत्स्विति ॥ एवेत्यनेन विरक्तशिरोमणेर्मध्वस्य प्रयोजनान्तरं नास्तीति सूचयति । यत इत्यस्य अतोऽत्राप्युक्तो मम गुरुरिति पूर्वेण सम्बन्धः ॥ ५५९ ॥
सत्यप्रमोदटीका
इन्द्रियाय वागिन्द्रियवैखरीप्रदानाय । सत्सु पद्मनाभतीर्थप्रभृतिषु । पवते सञ्चरति ‘गोदावरीतटमगादलेशधीः’ इत्याद्युक्तेः॥ ५५९ ॥
युक्तिमल्लिका
सिंहं न सन्तेति वाक्च मध्वस्य चरितं जगौ ॥ ५६० ॥
सिंहं नृसिंहं विवृत नमोऽन्तो यस्य तं सुपः ।
लोपे नसान्तेति पदस्यार्थं दुर्जनसंहृतेः ॥ ५६१ ॥
हरिं भक्तेषु शान्तत्वादरुषं रोषवर्जितम् ।
अयासमागतं स्तम्भात्प्रह्लादार्थं सभान्तरे ।
अस्य सज्जनवर्गस्य दिवो ज्ञानद्युतेः पतिम् ॥ ५६२ ॥
सुरोत्तमटीका
सिंहं न सन्तेत्यनेन ‘‘सिंहं नसन्त मध्वो अयासं हरिमरुषं दिवो अस्य पतिम् । शूरो युत्सु प्रथमः पृच्छते गा अस्य चक्षसा परिपात्युक्षे’’ति श्रुतिं गृह्णाति । अयमर्थः । युत्सु वाग्युद्धेषु शूरः शौर्यवान् प्रथमः नृहरिशिष्येषु आद्य मध्वाचार्यो ऽस्य सज्जनवर्गस्य दिवः ज्ञानस्य पतिं सज्जनवर्गज्ञानदातारमित्यर्थः । अरुषं सज्जनेषु कोपरहितम् । अयासं स्तम्भमध्यादागतम् । अयतेः कसुन्प्रत्ययो ऽत्वसन्तस्य चाधातोरित्युपधाया दीर्घः । हरिं दुर्जनसंहारकत्वाद्धरिनामकम् । नसन्त नसन्तं नसो नासापुटयोर् अन्तो ऽवकाशो यस्य तं विवृतनासाप्रदेशमित्यर्थः । सुपां सुलुगिति सुपो लोपः । सिंहं नृसिंहं गा विद्याः पृच्छते शिष्यो भूत्वा वेदादिसकल-सच्छास्त्राणामर्थं विचारयतीत्यर्थः । ‘‘नरसिंहोऽखिलाज्ञानमतध्वान्त-दिवाकर’’ इति ‘‘जयत्यानन्दतीर्थेष्टदेवता नरकेसरी’’ति वचनात् ‘‘पान्त्व-स्मानि’’ति ‘‘दूरप्रध्वस्तध्वान्तशान्तप्रविततमनसा भाविता भूरिभागैरिति वचनाच्च मध्वस्य नृसिंहशिष्यत्वप्रसिद्धेः । अस्य नृसिंहस्य चक्षसा ज्ञानचक्षुषा नृसिंहोपदिष्टज्ञानेनेत्यर्थः । उक्षा ज्ञानप्रोक्षणं कुर्वन् मध्वः परिपाति परितः सज्जनवर्गं पातीति । इममेवार्थमभिप्रेत्याह ॥ सिंहं नृसिंहमित्यादिना ॥ विवृतनसः विवृतनासापुटस्य अन्तःपरं प्रदेशः । अर्थम् अर्थभूतम् ॥ ५६०–५६२ ॥
सत्यप्रमोदटीका
‘सिंहं न संत मध्वो अयासं हरिमरुषं दिवो अस्य पतिम् । शूरो युत्सु प्रथमः पृच्छते मा अस्य चक्षसा परिपात्युक्षा’ इति श्रुतिं विवृणोति मध्वस्येति ॥ सिंहं नामैकदेशे नामग्रहणम् । नसन्त सुलोपः । दुर्जनसंहाराय विवृतनासापुटम् । ‘अम्भोधयः श्वासहता विचुक्षुभुः’ इत्युक्तेः ॥ भक्तेष्विति ‘दारितारातिदूरप्रध्वस्तध्वान्तशान्तप्रविततमनसा भाविता नाकिवृन्दैः’ इत्युक्तेः । ज्ञानद्युतेः पतिम् अखिलाज्ञानमतध्वान्तदिवाकरम् ॥ ५६०–५६२ ॥
युक्तिमल्लिका
शूरोतिशौर्यवान्युत्सु वाग्युद्धेषु महीतले ।
मध्वो मध्वाभिधो योगी श्रोतृषु प्रथमस्सदा ।
गा गोपदोक्तसद्विद्या व्यक्त्युत्कर्षाय पृच्छते ॥ ५६३ ॥
अस्य प्रसादादाप्तेन चक्षसा ज्ञानचक्षुषा ।
सत्सु बोधोक्षणं कुर्वन्नुक्षा भिक्षुगणाग्रणीः ।
परिपाति सतां वृन्दमित्यर्थोऽत्र स्फुटो यतः ॥ ५६४ ॥
सुरोत्तमटीका
गा इत्यनूद्य गोपदोक्तसद्विद्या इत्यर्थकथनं व्यक्त्युत्कर्षाय ज्ञानाभिव्यक्तेरुत्कर्षाय ऋजुयोगिज्ञानस्यानादित्वादुत्कर्षायेत्युक्तम् ॥ ५६३,५६४ ॥
सत्यप्रमोदटीका
गा विद्याः । बुद्धिशाणत्वसिद्धये किञ्चिद् अप्राप्त-लाभाय च । पृच्छते उत्तरश्रवणेन विशेषज्ञानवांश्च भवति ॥ उक्षा ज्ञानामृत-सेचकः । प्रथमः भिक्षुगणाग्रणीः ‘पारिव्राज्याधिराजः’ इत्युक्तेः ॥ ५६३,५६४ ॥
युक्तिमल्लिका
प्रधारा मध्व इत्यत्राप्युक्तो मध्वस्य विक्रमः ॥ ५६५ ॥
अग्य्रो मध्वो मध्वमुनिः प्रकृष्टज्ञानधारया ।
सहिताः सप्तविद्याख्या महीस्स महतीरपः ॥ ५६६ ॥
सुरोत्तमटीका
प्रधारेत्यनेन ‘‘प्रधारा मध्वो अग्रियो महीरपो विगाहते । हविर्हविष्षुवन्द्य’’ इति गृह्णाति । अयमर्थः । अग्रियः श्रेष्ठः हविर् विष्णोर्हविरिव प्रियः प्रलयकाले हविर्भूतो वा । हविष्षु हविर्भूतेषु देवेषु वन्द्यः स्तुत्यः हविर् ज्ञानयज्ञे विष्णोः परिवारतया ध्यानार्थमाहूयमानः हविष्षुवन्द्यस् तत्रैवाहूयमानदेवेषु स्तुत्यः हविर् यज्ञवेद्यां ‘‘वायवायाही’’ति मन्त्रेणाहूय-मानः । हविष्षुवन्द्यस् तत्रैवाहूयमानदेवेषु स्तुत्यो वा । मध्वः मध्वाचार्यः । प्रधाराः प्रकृष्टज्ञानधारासहिता महीर् महतीः । अपः ज्ञानसाधनीभूता ऋगादि सप्तविद्या विगाहते स्वबुद्ध्या अवगाहते । सूत्रभाष्यकरणार्थं विचारयतीत्यर्थः ।
अथवा बदरिकाश्रमगमनकाले अग्रियः स्वशिष्याणामग्रीभूत्वा गच्छन् अग्रतो गच्छन्नित्यर्थः । हविर् अपारगङ्गापारगततुरुष्कभटैर्माऽऽयाहीत्याहूत आहूतस्वशिष्येषु भयात् स्तुत्यश्च मध्वः प्रधारा प्रकृष्टधारारूपप्रवाहसहिता महीः कूर्मपृष्ठवाहित्वान्महतीर् अपः बहुतरगङ्गाजलानि विगाहते स्वशिष्या-न्स्कन्धभुजादिषु बिभ्रद्बलाद्विगाहते । अथवा प्रधाराः प्रकृष्टसूर्यधारादिसहिता मार्गस्थसपादलक्षपर्वतविषमभूमीर् अपः पर्वते तत्र तत्र गमनप्रतिबन्धकी-भूतनदीप्रवाहांश्च विगाहते । ‘‘वारयत वारयत वैरि सुहृदोऽमून्मारयत मारयत पारगमनात्प्राक् । आपतत आलपत इत्यवददुच्चैः सत्वरकराजपुरुषानुचित-वाचे’’ति मध्वविजयवचनात् ।
सागस्त्वादीशदेवं परवशखननं यो व्यधादप्लवस्स्वै
र्गङ्गातारी स्वनीत्या वशितयवनराड् वर्त्मनि क्वापि चोरान् ।
हन्तुं यातान्मिथोहन्क्वचिदपि निजशिष्येण चाद्रावयद्द्रा
ग्योगेनासीच्छिलाभः क्वचिदपि सगणस्तं महेक्षं दिदृक्षे ॥
इति अणुमध्वविजयवचनाच्च ॥
इममेवार्थं मनसि निधायाह ॥ अग्य्र इत्यादिना ॥ ५६५, ५६६ ॥
सत्यप्रमोदटीका
‘प्रधारा मध्वो अग्रियो महीरपो विगाहते । हवि-र्हविष्षु वन्द्य’ इति श्रुतिभावं व्यनक्ति अग्रय इति । प्रधाराः प्रकृष्टज्ञानधारया सहिताः । महीर् महतीर् अपः सप्तविद्या विगाहते भाष्यादिनिर्माणाय विचारयति ॥ ५६५, ५६६ ॥
युक्तिमल्लिका
हविर्वन्द्यः स्वयं विष्णोर्हविः प्रियतमत्वतः ।
ध्यातृभिर्ज्ञानयज्ञेषु हूयमानत्वतोऽपि वा ॥ ५६७ ॥
सत्यप्रमोदटीका
हविर् हविरिव विष्णोः प्रेयसां प्रेष्ठः । स्वयं प्रलये हविर् विष्णौ हव्यमानो वा । हूयमानत्वतः ‘नमस्ते वायो त्वमेव प्रत्यक्षं ब्रह्मासि’ इत्येवंप्रकारेणेति भावः ॥ ५६७ ॥
युक्तिमल्लिका
हविर्ज्ञानघृतस्रावी तेषु तत्प्रतिमात्वतः ।
स्तुत्यो वा तास्स्फुटीकर्तुं स्वबुद्ध्येत्थं विगाहते ॥ ५६८ ॥
प्रकृष्टसूर्यधारादिधारा विषमभूमयः ।
यासु ताः पर्वतमहीस्सर्वाः पथि पथि प्रभुः ।
प्रकृष्टोग्रप्रवाहाख्यधाराश्च सरितामपः ॥ ५६९ ॥
सुरोत्तमटीका
तेषु ध्यानायाहूयमानदेवेषु । तत्प्रतिमात्वतः देवानां मध्ये ध्येयस्य विष्णोः प्रतिमात्वतः मध्वाचार्यहृत्कमल एव सद्भिर्विष्णो-र्ध्यानादिति भावः । ताः सप्तविद्याः ॥ ५६८,५६९ ॥
सत्यप्रमोदटीका
प्रतिमात्वतः मुख्यसन्निधानपात्रत्वहेतोः । वा ता इति पदच्छेदः । स्तुत्यः ‘श्रीमध्वहृत्कमलवासरमानिवासः प्रीतोऽस्तु’ इत्येवं रीत्या ॥ यद्वा प्रधारा विषमभूमयः ‘व्याश्रयान्तरसुदूरशिलासु’ इति बदरिकाध्वनि दुर्गमप्रदेशान् । यद्वा प्रधारास् तुरङ्गतरङ्गमाला गङ्गायाः प्रवाहधाराः ॥ ५६८,५६९ ॥
युक्तिमल्लिका
अग्य्रो मध्वो मध्वमुनिर्गच्छन्बदरिकाश्रमम् ।
अग्रीभूत्वा व्रजन्वाऽसावग्रियोऽग्रेसरस्तदा ॥ ५७० ॥
नेत्याहूतो म्लेच्छभटैस्तैराहूतस्वसेविषु ।
वन्द्यस्स्तुत्यचरित्रश्च लीलयैव विगाहते ॥ ५७१ ॥
इदं च नाद्भुतं तस्य यो हविर्वायुरूपतः ।
आहूयते यज्ञवेद्यां तत्राहूतसुरेषु च ॥ ५७२ ॥
सुरोत्तमटीका
आहूतस्वसेविषु आहूतेषु स्वशिष्येषु ॥ ५७०–५७२ ॥
सत्यप्रमोदटीका
अग्य्रः ‘इमान् स्वस्वपूर्वाश्रयान्’ इति वाक्याद् अग्रगामी ॥ नेति ‘वारयत वारयत वैरिसुहृदोमून्’ इति वार्यमाणः । सेविषु शिष्येषु ॥ आहूयते ‘वायवायाहि दर्शते’ति मन्त्रेण ॥ ५७०–५७२ ॥
युक्तिमल्लिका
हविष्षु वन्द्यस्तस्येदृङ्माहात्म्यं युक्तमेव हि ।
इति वा सा श्रुतिस्सत्सु प्रसिद्धां तत्कथां जगौ ॥ ५७३ ॥
सुरोत्तमटीका
तस्य मध्वस्य । प्रसिद्धां मध्वविजयादिवाक्येषु प्रसिद्धाम् ॥ ५७३ ॥
सत्यप्रमोदटीका
हविष्षुवन्द्यः ‘वायुना त्रिरपि पूर्वपायिना सर्वदैवत-जिता तरस्विना’ इति हविःपानार्हदेवेषु स्तुत्यः ॥ ५७३ ॥
युक्तिमल्लिका
अस्मभ्यमिन्दवित्यत्राप्यस्मद्गुरुरभिष्टुतः ॥ ५७४ ॥
अभीष्टदानशीलत्वादिन्दो हे पवमान ते ।
योवतारो महैश्वर्यवन्तं नारायणं सदा ।
युनक्तीतीन्द्रयुर्नाम्ना मध्वो मध्व इतीरितः ॥ ५७५ ॥
तेन रूपेण विज्ञानधारया सह सर्वदा ।
अस्मभ्यमस्मानुद्दिश्य पर्जन्य इव वृष्टिमान् ।
पवस्वेति यतस्स्पष्टमर्थोऽत्रापि प्रतीयते ॥ ५७६ ॥
मध्वस्स त्वं पवस्वेति वाऽऽशास्ते मुनिमण्डली ।
इत्यर्थोऽत्र यतस्स्पष्टं दृश्यते पदसम्पदा ॥ ५७७ ॥
सुरोत्तमटीका
अस्मभ्यमिन्दवित्यनेन ‘‘अस्मभ्यमिन्दविन्द्रयुर्मध्वः पवस्व धारया । पर्जन्योवृष्टिमा इवे’’ति श्रुतिं गृह्णाति । अयमर्थः । हे इन्दो इष्टदानशीलत्वादिन्दुनामकपवमान इन्द्रयुः परमैश्वर्यसंपन्नं परमात्मानं सदा युनक्तीति इन्द्रयुशब्दवाच्यः यो मध्वः मध्वाख्यस् तेऽवतारः । तेन वृष्टिमान् पर्जन्य इव अस्मभ्यम् अस्मानुद्दिश्य धारया ज्ञानधारया सह पवस्व पवनं कुरु । त्वं पवस्वेति वा । मध्वरूपेण ज्ञानोपदेशं कुर्वन् अस्मल्लोकं प्रत्यागच्छेत्यर्थः ॥ एतदेवाभिप्रेत्याह ॥ अभीष्टदानशीलत्वादित्यादिना ॥ ५७४–५७७ ॥
सत्यप्रमोदटीका
‘अस्मभ्यमिन्द्रदविन्द्रयुर्मध्वः पवस्व धारया । पर्जन्यो वृष्टिमाम् इव’ इति श्रुतिं विशदयति अभीष्टेति । इन्द्रयुः परमात्मविरहरहितः ‘नैष नाथविरही ततोऽभवदि’त्युक्तेः ॥ पवस्व त्वच्चरित्रश्रावणेन पवित्रीकुरु । ‘इति विविधगोधारावारैर्विशारदवारिदो हरिपदरतः’ इत्याद्युक्तरीत्या स्वभक्तद्वारा भवघर्मपरिहारं कुर्विति भावः॥५७५–५७७॥
युक्तिमल्लिका
येन देवाः पवित्रेण आत्मानं पुनते सदा ।
तेन सहस्रधारेण पावमान्यः पुनन्तु मा ।
इति श्रुतिः प्राक्पवित्रमाम्नाऽऽहूय पुनश्च तत् ।
सहस्रधारं यत्प्राह तत्सहस्रारमेव तत् ॥ ५७८ ॥
सुरोत्तमटीका
इदानीं तप्तसुदर्शनधारणस्यापि श्रुतिमूलतां दर्शयति ॥ येनेति ॥ अनेन ‘‘येन देवाः पवित्रेण आत्मानं पुनते सदा । तेन सहस्रधारेण पावमान्यः पुनन्तु मा । प्राजापत्यं पवित्रं शतोद्यामंहिरण्मयम् । तेन ब्रह्म विदो वयं पूतं ब्रह्मपुनीमह’’ इति श्रुतिद्वयं गृह्णाति । अस्यायमर्थः । देवा ब्रह्मदिदेवाः । पवित्राख्यतप्तसुदर्शनेन । उत्तरार्धे तेनेति पूर्वोक्तसुदर्शनधारणमेव परामृश्य पावमान्यः पुनंत्विति तस्यैव गुरुकरकमलेन प्रार्थितत्वादुभयत्रापि तप्तसुदर्शनधारणमेव गम्यते । गोपीचन्दनादिना स्वकरेण क्रियमाणतप्तचक्र-धारणस्य परहस्तानपेक्षणात् । आत्मानं स्वदेहं मनश्च सदा नियमेन श्रवणद्वादश्यादिपुण्यदिनेषु पुनते पवित्री कुर्वन्ति । गोपीचन्दनादिना प्रतिदिनं क्रियमाणचक्रधारणस्य सूचनायापि सदेत्युक्तम् । तेन सहस्रधारेण सहस्रं धारा अराग्रधारा यस्य तेन । शतधाराख्यवज्रं परितः क्रूरधारावत् षट्कोणाकारचक्रं परितः दलाकारेण स्थितसहस्रारेषु सहस्रसङ्ख्याकक्रूराग्र-धारायास्सत्त्वाद् वज्रस्यैव शतधारत्ववच् चक्रस्यैव सहस्रधारत्वम् । पूर्वोक्त-पवित्रपदस्यान्यार्थत्वशङ्कानिरासायोत्तरार्धे चक्रासाधारणसहस्रपदेन परामर्शः । उपलक्षणं चैतत् । सोमरसशोधकदशापवित्रस्य सदा देवाङ्गपवित्री-करणासम्भवाच्च सुदर्शनमेवेदं पवित्रमित्यपि द्रष्टव्यम् । अतो निरवकाशेयं श्रुतिः । पावमान्यः पवमानसम्बन्धिन्यः युगे युगे अवतारान्मध्वाचार्यस्य तनव इत्यर्थः । मा मां पुनन्तु भुजयोस्तप्तमुद्राधारणं कृत्वा पवित्रीकुर्वंत्वित्यर्थः । उत्तरश्रुत्यां दशापवित्रव्यावृत्त्यर्थं तस्यैव पवित्रस्य महिमोच्यते । प्राजापत्यं प्रजानामधिपतेर्नारायणस्य सम्बन्धि प्राग्विष्णुना स्वकरेणैव ब्रह्मभुजे अङ्कनाद्वा प्राजापत्यम् । शतोद्यामं शतश उद्यामः प्रयोगकाले भ्रमणरूपसन्नाहो यस्य तत् । हिरण्मयं सौवर्णम् । इदं विशेषणत्रयं सुदर्शनस्यैव शोभते न तु दशापवित्रस्य । तेन अस्मद्भुजेंकिततप्तसौवर्णसुदर्शनचक्रेण । सुवर्णेन चक्र-करणस्य आगमिकत्वाद् ब्रह्मविदः ‘‘अतप्ततनूर्नतदामो अश्नुत’’ इत्यकरणे प्रत्यवायप्रतिपादकवेदवाक्यविदः वयं पूतं स्वभावत एव पवित्रं ब्रह्मवेदं पुनीमहे विष्णुचक्राङ्करहितेन विप्रेण पठितवेदस्य शूद्रस्पृष्टब्राह्मणवद् अपवित्रत्वात् तप्तचक्राङ्कनं कृत्वाऽस्मत्पठितवेदं पवित्रीकुर्म इत्यर्थः । इममेवार्थं मनसि निधायाह ॥ इति श्रुतिरिति ॥ यद्यस्मात् । तत्तस्मात् । तत्पूर्वार्धोक्तं पवित्रम् । वज्रस्य शतधारशब्दवत् सहस्रधारस्यैव सहस्रधारत्वौचित्यादिति भावः॥५७८ ॥
सत्यप्रमोदटीका
अत्र ‘प्राजापत्यं पवित्रं शतोद्यामं हिरण्मयम् । तेन ब्रह्मविदो वयं पूतं ब्रह्मपुनीमहे’ इति श्रुतिरपि ग्राह्या । व्याख्याति प्रागित्या-दिभिः । पवित्रनाम्ना पूर्वं सुदर्शनपरत्वेन पवित्ररथ इत्यादौ बहुत्र प्रयुक्तेनैव पवित्रेति नाम्ना । तत् सुदर्शनम् । पवित्रस्य चक्रत्वे युक्त्यन्तरं सहस्रधार-मिति । एवकारेण दशापवित्रादिव्यावृत्तिः ॥ ५७८ ॥
युक्तिमल्लिका
देवाश्च येन चक्रेण लाञ्छितेन भुजे सदा ।
स्वस्वदेहं मनश्चापि पुनते वैष्णवोत्तमाः ॥ ५७९ ॥
सुरोत्तमटीका
पूर्वार्धस्यार्थमाह ॥ देवाश्चेति ॥ आत्मपदस्य मनो-वाचित्वाद्देहवाचित्वाच्च देहं मनश्चापीत्युक्तम् ॥ ५७९ ॥
सत्यप्रमोदटीका
लाञ्छितेन भुजे इति योग्यतया सम्बन्धः । सदेत्यनेन नित्यं गोपीचन्दनादिना प्रतिदिनं धार्यमाणं चक्रधारणमपि सङ्गृह्णाति । आत्मानम् इत्यस्यार्थः देहं मनश्चापीति । देवा इत्यस्यार्थः वैष्णवोत्तमा इति । ब्रह्मादयः ॥ ५७९ ॥
युक्तिमल्लिका
तेन चक्रेण मरुतो मूर्तयो मां पुनन्विति ।
मुनिः प्रार्थयते कश्चिदित्यर्थोऽत्र दृश्यते ।
शब्दाननुपमृद्यैव शब्दशब्दार्थवेदिभिः ॥ ५८० ॥
सुरोत्तमटीका
उत्तरार्धस्यार्थमाह ॥ तेनेति ॥ पावमान्य इत्यस्यार्थ-कथनं मरुतो मूर्तय इति । पवमानस्येमाः पावमान्यः । मुनिर् एतच्छ्रुति-वाक्यद्रष्टा । अत्र श्रुतौ ॥ ५८० ॥
सत्यप्रमोदटीका
उत्तरार्धं मुनिप्रार्थनापरं व्याचष्टे तेनेति । पावमान्यः मरुतो मूर्तयः । मुनिर् एतद्वाक्यद्रष्टा ॥ ५८०,५८१ ॥
युक्तिमल्लिका
एवं च सर्वदेवानां कार्यं चक्रादिधारणम् ।
प्रार्थ्यं महर्षिभिः को वा मानवोऽन्यो न मानयेत् ॥ ५८१ ॥
सुरोत्तमटीका
फलितमाह ॥ एवं चेति ॥ ५८१ ॥
युक्तिमल्लिका
सदेत्युक्त्या च यद्गोपीचन्दनैश्चक्रलाञ्छनम् ।
अद्यापि कुर्वते वृद्धास्तच्च श्रुतिरसूचयत् ॥ ५८२ ॥
सुरोत्तमटीका
वृद्धा अद्यापि गोपीचन्दनैर्यच्चक्रलाञ्छनं कुर्वते तदिति सम्बन्धः । सदा सुदर्शनधारणस्य गोपीचन्दनेनैव सम्भावितत्वादिति भावः ॥ ५८२ ॥
सत्यप्रमोदटीका
वृद्धा इत्यनेन अविगीताशिष्टाचारपरंपरामप्यत्र संवादयति ॥ ५८२ ॥
युक्तिमल्लिका
देवास्तु तप्तचक्राङ्कयोग्ये शुभदिने सदा ।
तप्तेन तेन पुनते मृदा तल्लाञ्छनैस्सदा ॥ ५८३ ॥
सुरोत्तमटीका
तप्तसुदर्शनधारणविषयेऽपि सदापदं योजयति ॥ देवा-स्त्विति ॥ शुभदिने श्रवणद्वादशीप्रथमैकादश्यादिदिने । तेन चक्रेण । मृदा गोपीचन्दनेन । तल्लाञ्छनैश् चक्रलाञ्छनैः । सदा प्रतिदिनम् ॥ ५८३ ॥
सत्यप्रमोदटीका
शुभदिने आषाढशुद्धैकादश्यादिपवित्रदिने । सदा प्रतिसंवत्सरम् । मृदा गोपीचन्दनेन । सदा प्रतिदिनम् ॥ ५८३ ॥
युक्तिमल्लिका
इति पूर्वार्धवाक्यार्थो लभ्यते पदसम्पदा ।
उत्तरप्रार्थनाहेतुरूपया चार्थसम्पदा ॥ ५८४ ॥
सुरोत्तमटीका
सदापदस्योक्तरीत्या तप्तसुदर्शनधारणविषये गोपी-चन्दनेन सुदर्शनधारणविषये च योजनासम्भवात् पदसंपदेत्युक्तम् । ननु तप्तेति पदाभावात् तप्तसुदर्शनधारणस्य कथमिदं वाक्यं प्रापकमित्यत आह ॥ उत्तरेति ॥ उत्तरप्रार्थना उत्तरार्धोक्तप्रार्थना । तस्या हेतुरूपया हेतुत्वरूपया । प्रार्थनायां हेतुत्वं गुरुकरपङ्कजेन क्रियमाणतप्तसुदर्शनधारणस्यैवोचितं न तु गोपीचन्दनादिना स्वकरेण क्रियमाणसुदर्शनधारणस्य । एवं चोत्तरार्धोक्त-प्रार्थनाबलात् पूर्वार्धेऽपि तप्तसुदर्शनधारणस्यैव प्रस्तुतिः । अन्यथा पूर्वोत्तरार्धयोर्वैयधिकरण्यप्रसङ्गादिति भावेनोक्तमर्थसंपदेति ॥ ५८४ ॥
सत्यप्रमोदटीका
उत्तरार्धे मुनिप्रार्थनाऽनुपपत्त्याऽपि पवित्रपदस्य तप्तचक्रपरत्वार्थोऽवधार्यते इत्याह उत्तरेति ॥ ५८४ ॥
युक्तिमल्लिका
अर्थ्यमानं तु मुनिना तप्तचक्रस्य लाञ्छनम् ।
गुरूणां करकञ्जेन धार्यं चक्रं तदेव हि ।
अतः पूर्वार्धवाक्येऽपि तप्ताङ्कप्रस्तुतिर्बलात् ॥ ५८५ ॥
सुरोत्तमटीका
अतः पूर्वोत्तरार्धयोरैकार्थ्यावश्यम्भावात् । बलाद् युक्तिबलात् ॥ ५८५ ॥
सत्यप्रमोदटीका
बलाद् अन्यथाऽनुपपत्तिबलात् ॥ ५८५ ॥
युक्तिमल्लिका
मुनींश्च देवदेहांश्च शुद्धीकुर्वत्सुदर्शनम् ।
परं पवित्रमत्र स्यान्नान्यत्पुंमतिनिर्मितम् ॥ ५८६ ॥
सुरोत्तमटीका
परं केवलं पवित्रं पवित्रपदवाच्यम् । देवऋष्यादिदेहं पावयतोऽस्मदुक्तसुदर्शनस्यैव पवित्रपदयोगार्थसम्भवात् सोमरसमात्रश्रपण-हेतुभूतदशापवित्रस्य सोमरसशोधयितृत्वमात्रसद्भावेऽपि सोमरसपावयितृत्वा-भावात् । देवाद्यङ्गपावयितृत्वस्य सुतरामभावाच्च चक्रमेवात्रोक्तं पवित्रमिति भावः । अत एव ग्रन्थकारः क्षालनाभावे स्पर्शायोग्यतया स्वतोऽपवित्र-पटखण्डरूपदशावस्त्रे पवित्रपदवाच्यसुदर्शनसन्निधानादेव पवित्रन्त इति मन्त्रस्य विनियोग इति वक्ष्यति ॥ ५८६ ॥
सत्यप्रमोदटीका
अन्यत् परपरिकल्पितं दशापवित्रादिकम् ॥ ५८६ ॥
युक्तिमल्लिका
अतोऽप्यन्यार्थकथनं व्यर्थमासीद्दुरात्मनाम् ।
सदेति च पदं कुप्येत्पवित्रान्तरकल्पने ॥ ५८७ ॥
सुरोत्तमटीका
अत उक्तयुक्त्या अस्यां श्रुतौ सुदर्शनस्यैव पवित्र-पदवाच्यत्वात् । अन्यार्थकथनं पवित्रं ते विततमित्यस्याम् ऋचि पवित्रपदस्य दशापवित्ररूपार्थकथनम् । पवमाने प्राक् प्रस्तावितपवित्रस्यैव पूयमाने प्रस्ताव्यत्वादिति भावः । तर्ह्यत्रापि दशापवित्रस्यैव प्रस्तावोऽस्त्विति चेन् न । दूषितत्वात् । दूषणान्तरं चाह ॥ सदेति ॥ यज्ञ एव सम्भावितदशापवित्रस्य सार्वकालीनत्वायोगाद् दिविस्थदेवेषु प्रायशोऽसम्भवाच्चेति ॥ ५८७ ॥
सत्यप्रमोदटीका
कुप्येद् विरुध्येत । दशापवित्रस्य यज्ञ एव सम्भावितत्वादिति भावः ॥ ५८७ ॥
युक्तिमल्लिका
अतः श्रुतिः पवित्रं त इत्यत्रापि सुदर्शनम् ।
प्रभोरायुधमेवाह नियोगस्तस्य सन्निधेः ।
अन्यत्रापि भवेदन्नमन्त्रणे सौरमन्त्रवत् ॥ ५८८ ॥
सुरोत्तमटीका
अतः पूर्वश्रुतिसमाख्यानात् । आयुधं सुदर्शनम् । कथं तर्हि दशापवित्रपरतया अस्य मन्त्रस्य विनियोग इत्यत आह ॥ तस्येति ॥ तस्य सुदर्शनस्य संनिधेर् दशापवित्रे सन्निधानात् । छिद्रे वस्त्रे पवित्रीकरण-शक्त्याधानाय सहस्रछिद्रसहितभगवत्सुदर्शनस्यैवावश्यं सन्निधेयत्वादिति भावः। अन्यत्र दशापवित्रे ॥ अन्यार्थकमन्त्रस्यान्यत्रविनियोगे दृष्टान्तमाह ॥ अन्न-मन्त्रण इति ॥ सौरमन्त्रवद् गायत्रीमन्त्रवत् । सूर्यार्थकत्वसूचनाय सौरेत्युक्तम् ॥ ५८८ ॥
सत्यप्रमोदटीका
अतः समाख्याबलाद् अन्यत्र दशापवित्रे । नियोगः विनियोगः । तस्य सुदर्शनस्य । सौरेति सूर्यार्थकगायत्रीत्यर्थः
॥ ५८८ ॥
युक्तिमल्लिका
पवित्रं चरणं नेमिररिश्चक्रं सुदर्शनम् ।
सहस्रारं प्राकृतघ्नं लोकद्वारं महौजसम् ॥ ५८९ ॥
विष्णुचक्रस्य नामानि पर्यायेण निबोध मे ।
इति पाद्मोक्तगौरीशवाग्धि लिङ्गानुशासनम् ॥ ५९० ॥
सुरोत्तमटीका
व्यासनिघण्टुपर्यालोचनयापि सुदर्शनमेव पवित्रपदवाच्य-मित्याह ॥ पवित्रमिति ॥ गौरीशस्य लिङ्गपदवाच्यत्वाद् लिङ्गानुशासन-मित्युक्तम् । अमरसिंहादिग्रन्थं लिङ्गानुशासनमिति मानयता महालिङ्गानु-शासनमिदं कथं न माननीयमिति सूचनाय लिङ्गानुशासनमित्युक्तम् । अनेन ‘‘चरणं पवित्रं विततं पुराणं लोकस्य द्वारमर्चिमत्पवित्रमिति श्रुतिद्वयं सुदर्शनविषयमेवेति सूचितं भवति । परोदीरितपवित्रेचरणपदाप्रयोगाल्लोक-द्वारत्वायोगाद् अनन्तासनलोकगमनायांधेतमसि द्वारं कृतवतश्चक्रस्यैव तद्योगाच्च ॥ ५८९, ५९० ॥
सत्यप्रमोदटीका
लिङ्गेति । तत्पदवाच्यगौरीशेत्यर्थः ॥ ५८९,५९०॥
युक्तिमल्लिका
पावमानी तनुश्चेयं स्यादाचार्यस्वरूपिणी ।
याऽस्य वैष्णवधर्मस्य सर्वत्रापि प्रवर्तिका ॥ ५९१ ॥
सा च प्रसिद्धेर्बदरीमध्ये मुनिमनःप्रिया ।
व्यासकैङ्कर्यधुर्या च माध्वी भवितुमर्हति ॥ ५९२ ॥
सुरोत्तमटीका
आचार्यस्वरूपिणी जगद्गुरुस्वरूपिणी । मुनिभिस्तत्कर-कृतपवित्रधारणेन स्वशुद्धेः प्रार्थितत्वात् । न तु बलकार्याय प्रवृत्ताहनूमदादि-तनुरित्यर्थः । या तनुः । अस्य तप्तमुद्राद्यारणाख्यस्य । प्रसिद्धेर् लोकवेदयोः ॥ ५९१, ५९२ ॥
सत्यप्रमोदटीका
आचार्यस्वरूपिणी न तु बलकार्यार्थे उपात्तहनुम-द्भीमरूपिणी । या तनुः । अस्य मुद्राधारणादिरूपस्य । प्रसिद्धेः सर्वप्रमाणैः प्रमितेः ॥ ५९१, ५९२ ॥
युक्तिमल्लिका
युगे युगेऽवतीर्णानां बहुत्वमपि युक्तिमत् ।
द्विविधस्यास्य धर्मस्य मौल्यं सा मूर्तिरर्हति ॥ ५९३ ॥
सुरोत्तमटीका
मौल्यं मूलस्य भावं मौल्यं मूलकारणत्वमित्यर्थः ॥ ५९३ ॥
सत्यप्रमोदटीका
युगे युगे प्रवाहतः । अवतीर्णत्वाद् अनन्तावतार-वत्त्वात् । द्विविधस्य तप्तचक्रस्य गोपीचन्दनचक्रस्य च धारणरूपस्य । मौल्यं मूलसम्प्रदायप्रवर्तकत्वम् । सा मध्वी ॥ ५९३ ॥
युक्तिमल्लिका
बलकार्याणि रूपाणि वायोस्सन्तु सहस्रशः ।
ज्ञानकार्यं तु तद्रूपमिदमेव प्रदृश्यते ॥ ५९४ ॥
सुरोत्तमटीका
ज्ञानकार्यं ज्ञानमेव कार्यं यस्य तत्तथोक्तम् ॥ ५९४ ॥
सत्यप्रमोदटीका
ज्ञानकार्यं ज्ञानप्रधानककार्यं हनुमदाद्यवतारेऽपि कदाचिज्ज्ञानकार्यस्यापि दर्शनात् ॥ ५९४ ॥
युक्तिमल्लिका
यत्ते पवित्रमर्चिष्यग्नेविततमन्तरा ।
ब्रह्म तेन पुनीहीति तस्यैव प्रार्थनान्तरम् ॥ ५९५ ॥
सुरोत्तमटीका
पूर्वोक्तपरिशिष्टश्रुतावपि तप्तसुदर्शनधारणस्यैव प्रस्तुति-रिति सूचनाय स्पष्टं तप्तसुदर्शनधारणप्रतिपादकं तस्यैव ऋषेः संहितास्थं वचनमप्याह ॥ यत्त इति ॥ पुनीहीति पुनीहिन इति श्रुत्या । अयमर्थः । हे अग्ने अङ्गभूतरुद्रादिदेवनेतृत्वेनाग्नौ सन्निहितत्वेन च अग्निपदवाच्यपवमान-कुण्डस्थितलक्ष्म्यां नारायणसमागमेन विष्णुकुमारतया जातस्याभिनवाग्नेर् विष्णुं प्रति क्रियमाणहोमयोग्याग्नौ तान्त्रिकैः सन्निधाप्यमानत्वात् पवमान-सूक्तत्वाच्च अग्निस्थपवमानाग्नेरेवात्र ग्रहणम् । ते तव अर्चिषि ज्वालायाम् अन्तरा अन्तः विततं विशेषेण ततम् । तापाय यावत्तापंविस्तारितमित्यर्थः । यत् पवित्रं पावमानत्वात् पविवद् वज्रवत् त्रातृत्वाद्वा पवित्रपदवाच्यं सुदर्शनम् । वस्त्ररूपदशापवित्रस्य अग्निर्ज्वालान्तर्निवेशने दाहेन नाशावश्यंभावाद् अग्नि-ज्वालान्तर्निवेशनेऽप्यनश्यत्पवित्रं चक्रमेव भवेत् । दशापवित्रे अग्निज्वालान्त-र्निवेशनस्य शिष्टैरक्रियमाणत्वाच् चक्रे तप्तमुद्राधारणाय क्रियमाणत्वादपि चक्रमेवेदं भवेत् । तेन अस्मद्भुजेंकितेन वैष्णवाग्नौ संस्कृतसुदर्शनेन । न इत्युक्त्या स्वसम्बन्धस्याप्यावश्यकत्वान् नो ऽस्माकं ब्रह्म वेदम् अस्मात्पठित-वेदमित्यर्थः । पुनीहि पवित्रं कुरु । विष्णुचक्रलांछनाभावे अवैष्णवतया वेदे अनधिकारित्वेन अनधिकारिपठितवेदस्य च शूद्रपठितवेदस्येव शूद्रस्पृष्ट-ब्राह्मणवदपवित्रत्वात्तप्तसुदर्शनधारणेनास्मत्पठितं वेदं पुनीहीत्यर्थः । ‘‘अवैष्णवस्य वेदेऽपि ह्यधिकारो न विद्यत’’ इति वचनात् ॥ ५९५ ॥
सत्यप्रमोदटीका
परिशिष्टश्रुत्योक्तमर्थं द्रढयति यत्त इति । तस्य पूर्वोक्तमन्त्रद्रष्टुर् मुनेः ॥ ५९५ ॥
युक्तिमल्लिका
सख्युरग्रे हृदि गतमग्न्याख्यं तं गुरुं प्रति ।
स्पष्टीकर्तुं महाधर्मं तप्तचक्राङ्कधारणम् ॥ ५९६ ॥
सुरोत्तमटीका
इममेवार्थमभिप्रेत्याह ॥ सख्युरित्यादिना ॥ गुरुं मध्वरूपिणं पवमानम् ॥ ५९६ ॥
सत्यप्रमोदटीका
अग्निशब्दस्य वाय्वर्थकत्वं विशदयति सख्युरिति वायुसखे हुताशने नियामकत्वेन हृदि स्थितत्वादग्न्याख्यम् । तत्पदमुख्य-वाच्यम् । ते अर्चिषि ज्वालायाम् अन्तरा विततं तापनाय स्थापितं यत् पवित्रं चक्रम् । तेन इत्युत्तरार्धेणान्वयः ॥ ५९६ ॥
युक्तिमल्लिका
अग्निश्च दह्यात्त्वां नोचेत्पूर्वा वाक्च प्रधक्ष्यति ।
अन्यथा वाक्यभेदः स्यात्सूक्तं चैतत्प्रकुप्यति ॥ ५९७ ॥
सुरोत्तमटीका
नो चेद् अत्रत्यपवित्रपदवाच्यं चक्रं नो चेद् दशापवित्रमुच्यते चेदित्यर्थः । त्वां त्वदभिमतदशापवित्रं दह्यात् त्वदभिमत-दशापवित्रस्यात्र ग्रहणेऽनुपपत्तिं दर्शयित्वा पराभवजातलज्जया अग्नौ पतं तं त्वां दह्यादिति वा । पूर्वा अस्माभिः पूर्वमुदाहृता । वाक् येन देवा इति वाक् । अन्यथा पूर्ववाक्येऽपि सुदर्शनाग्रहणे वाक्यभेद उद्दिष्टपरिशिष्ट-वाक्ययोरर्थभेदः। सूक्तम् एकार्थप्रतिपादकवाक्यसमुदायात्मकं सूक्तम् ॥ ५९७ ॥
सत्यप्रमोदटीका
नो चेत् पवित्रपदार्थतया दशापवित्रमेव वदसि चेत् । त्वां तव दशापवित्रं पराभवलज्जाभिभूतं त्वां च । प्रधक्ष्यति भस्मीकरोति, तमसि पातयति ‘विद्युद्व्यूढस्फुलिङ्गप्रकरविकिरणोत्क्वाथिते बाधिताङ्गा-नि’त्युक्तेः । वाक् येन देवा इति वाक् । वाक्यभेद उद्दिष्टपरिशिष्ट-वाक्ययोर्विरोधः । सूक्तम् एकार्थप्रतिपादकम् ॥ ५९७ ॥
युक्तिमल्लिका
आग्ने तेऽर्चिषि यच्चक्रमन्तराविततं कृतम् ।
तप्तेन तेन चक्रेण ब्रह्म वेदं पुनीहि नः ॥ ५९८ ॥
सुरोत्तमटीका
यद्यस्मात् ॥ ५९८ ॥
सत्यप्रमोदटीका
‘ब्रह्म वेदस्तपस्तत्वं’ इत्यभिधानाद्वेद इति । पुनीहि अयातयामं सार्थकं कुरु ॥ ५९८ ॥
युक्तिमल्लिका
इति प्रार्थनरूपोऽर्थो यस्स्पष्टोऽत्र प्रतीयते ।
अतश्चक्राङ्कशून्यानां वेदाभ्यासो वृथा भवेत् ॥ ५९९ ॥
सुरोत्तमटीका
अतश् चक्राङ्काभावे पठितवेदापावित्र्यस्य श्रौतत्वात् ॥ ५९९ ॥
सत्यप्रमोदटीका
वृथा अनर्थप्रयोजनकः ॥ ५९९ ॥
युक्तिमल्लिका
यदा चक्राङ्कशून्योक्तवेदस्याप्यपवित्रता ।
तदा तेषां तु मूर्खाणां हीनादपि च हीनता ।
किं वाच्या तेन चण्डालादधमं तं स्मृतिर्जगौ ॥ ६०० ॥
सुरोत्तमटीका
तेन चक्राङ्कशून्यस्याधमाधमत्वेन । स्मृतिः ‘‘अवैष्णवस्तु यो विप्रश्चाण्डालादधमःस्मृत’’ इत्यादिका ॥ ६०० ॥
सत्यप्रमोदटीका
तेन अतिहीनत्वनिमित्तेन । स्मृतिः ‘अवैष्णवस्तु यो विप्रश्चण्डालादधमः स्मृतः’ इत्यादिका ॥ ६०० ॥
युक्तिमल्लिका
प्रतप्तं बिभृयाच्चक्रं शङ्खञ्च भुजमूलयोः ।
श्रौतस्मार्तादिसिद्ध्यर्थं मन्त्रसिद्ध्यर्थमेव च ॥ ६०१ ॥
अचक्रधारिणं विप्रं दूरतः परिवर्जयेत् ।
श्वपाकमिव नेक्षेत लोके विप्रमवैष्णवम् ॥ ६०२ ॥
यस्तु नारायणं देवं ब्रह्मरुद्रादिदैवतैः ।
समत्वेनाभिसमन्येत स पाषण्डो नरः स्मृतः ॥ ६०३ ॥
यो मोहाद्विष्णुमन्येन हीनदेवेन दुर्मतिः ।
साधारणं सकृद्ब्रूते सोऽन्त्यजो नान्त्यजोऽन्त्यजः ॥६०४॥
सुरोत्तमटीका
तामेव स्मृतिमुदाहरति ॥ प्रतप्तमित्यादिना ॥ ६०१–६०४ ॥
सत्यप्रमोदटीका
उक्तार्थे पद्मपुराणं प्रमाणयति प्रतप्तमिति ॥ पाषण्डः भगवद्द्वेषी । समत्वज्ञानस्य ‘साम्याधिक्ये तदन्येषां’ इति नवविधद्वेषेषु परिगणनात् ॥ ६०१–६०४ ॥
युक्तिमल्लिका
अतः श्रुतेः स्मृतेश्चैको मार्गः सद्धर्मरक्षणे ॥ ६०५ ॥
सुरोत्तमटीका
अतः प्रतप्तमित्यादिपद्मपुराणे वासिष्ठस्मृतौ येन देवा इत्यादि श्रुतौ चोक्तरीत्या अचक्रधारिणां निन्दनात्॥ ६०५ ॥
सत्यप्रमोदटीका
सद्धर्मेति चक्रधारणरूपेत्यर्थः ॥ ६०५ ॥
युक्तिमल्लिका
किञ्च श्रुत्यन्तरं प्रोक्तं शतोद्यामं हिरण्मयम् ।
पवित्राख्यं विष्णुचक्रं धारणाय विनिर्मितम् ।
यज्ञरक्षाकरं सोऽग्निः सहते स्वोदरेऽर्पितम् ॥ ६०६ ॥
सुरोत्तमटीका
अग्निश्च दह्यादिति प्रागुक्तमर्थं स्पष्टयति ॥ किं चेति ॥ श्रुत्यन्तरप्रोक्तं प्राजापत्यमिति श्रुतौ प्रोक्तम् । धारणाय भुजयोर्धारणाय । सुदर्शनेन यज्ञघ्नराक्षसवधकरणस्य पुराणादौ श्रवणाद् यज्ञरक्षाकरमित्युक्तम् । सः यज्ञाङ्गभूतः । स्वोदरे स्वज्वालामध्ये ॥ ६०६ ॥
सत्यप्रमोदटीका
शतोद्यामम् अङ्कनाय गुरुणा बहुवारं बाहूद्यमनोपेतम् । यज्ञरक्षाकरं ‘दन्दग्धि दन्दग्ध्यरिसैन्यमाशु’ इति भागवतोक्तेर् विरोधि-संहारकरम् । अर्पितं तापनायेति शेषः ॥ ६०६ ॥
युक्तिमल्लिका
अन्यत्तु कुपितः सर्वं दहेद्वायुसखो ह्यसौ ।
अतोऽर्थान्तरवार्ताऽत्र दग्धैवाभून्न संशयः ॥ ६०७ ॥
सुरोत्तमटीका
अन्यत् । वस्त्ररूपदशापवित्रं दर्भरूपकर्माङ्गपवित्रं तन्तुरूपपञ्चदर्भाङ्गपवित्रम् । धारणाय कृतसौवर्णसुदर्शनमेव हिरण्मयमिति श्रुतिः ‘‘यत्ते पवित्रमर्चिष्यग्ने विततमन्तरे’’ति श्रुतिश्च शंसति । तस्यैव हिरण्मयत्वसम्भवाद् अग्निज्वालान्तःप्रवेशसम्भवाच्च अन्यस्य हिरण्मयत्वा-भावाद् अग्निज्वालान्तःप्रवेशासहत्वाच्च नात्र प्रतिपादनावसर इति भावः । वायुरूपमध्वाचार्येण सुदर्शनधारणस्यैव प्रतिष्ठापितत्वात् तदनुकूल एवाग्निर् नत्वन्यस्येति सूचनाय वायुसख इत्युक्तम् ॥ ६०७ ॥
सत्यप्रमोदटीका
अन्यद् दशापवित्रम् । तस्य हिरण्मयत्वासम्भवात् ॥ ६०७ ॥
युक्तिमल्लिका
चक्रं सुवर्णतः कुर्याच्छङ्खं तु रजतेन च ।
इति पौराणिकी गोष्ठी तत्सर्वं मे मनोरमम् ॥ ६०८ ॥
एवञ्च तप्तचक्रं मे नांहोदाहाय केवलम् ।
विरुद्धपक्षकक्षाणामपि दाहमचीक्लृपत् ॥ ६०९ ॥
सुरोत्तमटीका
धारणयोग्यचक्रस्य हिरण्मयत्वं पद्मपुराणवचनेन दर्शयति ॥ चक्रमिति ॥ तत्तस्मात् श्रुतिस्मृत्यनुकूलत्वात् । मे मम प्रमेयम् ॥ ६०८,६०९ ॥
सत्यप्रमोदटीका
पौराणिकी पद्मपुराणस्था । गोष्ठी वाक् । मे मदुक्तं प्रमेयजातम् ॥ अंहः पापम् ॥ ६०८,६०९ ॥
युक्तिमल्लिका
पवमानपदैः सोमपदेन च य ईर्यते ।
स एवाग्निसवित्रादौ स्थितस्तत्तत्पदोदितः ॥ ६१० ॥
सुरोत्तमटीका
‘‘यत्ते पवित्रमर्चिष्यग्न’’ इत्यत्रोक्ताग्निपदं ‘‘उभाभ्यां देवसवितः’’ इत्यादौ उक्तसवित्रादिपदं च पवमानसूक्तत्वात् पवमानेऽपि योगसम्भवाच्च वायुपरमेवेत्याह ॥ पवमानपदैरित्यादिना ॥ वायुवाचक-मध्वादिपदसङ्ग्रहाय बहुवचनम् ॥ तत्तत्पदोदितो ऽग्निसवित्रादिपदोदितः । स्वातन्त्र्यस्य शब्दवृत्तिकारणत्वात् । योगं च प्रदर्शयति ॥ ६१० ॥
सत्यप्रमोदटीका
उदितः प्रवृत्तिनिमित्तं प्रति स्वातन्त्र्याद् आश्रयत्वा-च्चेति उभयथा योगवृत्त्येति भावः ॥ ६१० ॥
युक्तिमल्लिका
अङ्गीभूताग्निनेतृत्वादङ्गेष्वग्निशिखां नयन् ।
प्राणाग्निरिति यः प्रोक्तः स एवाग्निस्थितामलः ॥ ६११ ॥
सुरोत्तमटीका
अङ्गीभूतेति ॥ अप्रधानभूताग्निनेतृत्वादित्यर्थः । योगान्तरं चाह ॥ ओष्विति ॥ करचरणाद्यङ्गेष्वित्यर्थः । अग्निशिखामिति योग्यतया सम्बन्धः । सन्तापयति स्वं देहमापादतलमस्तकादिति वचनात् । हृदयस्थिताग्नेर् नानानाडीषु व्यानाख्यवायुसहायेनैव गमनाद् ओष्वग्निशिखां नयन्नित्युक्तम् । अनेन अङ्गं नयन्निति ओषु नयन्निति चाग्निपदस्य योगः प्रदर्शितः । निरुक्तत्वादकारलोपो बिन्दुलोपश्च । नीञ् प्रापण इति धातो-रौणादिको डिप्रत्ययः । रूढिं च प्रदर्शयति ॥ प्राणाग्निरिति ॥ ६११ ॥
सत्यप्रमोदटीका
अङ्गीभूताग्निनेतृत्वात्, अप्रधानाग्निनिष्ठप्रवृत्तिनिमित्तं प्रति स्वातन्त्र्यात् । नयन् व्यानरूपेण नाडीषु प्रापयन् । एतेन तद्गतत्वं प्रवृत्तिनिमित्तं दर्शितम् । प्रोक्त इति रूढिदर्शनम् ॥ ६११ ॥
युक्तिमल्लिका
अलम्भावो यतो नास्य पवित्रीकरणे सताम् ।
उपस्थातृषु यः पुण्यराशिं सूते दिने दिने ॥ ६१२ ॥
स एव सविता सोमबिम्बस्थः सोमनामकः ।
समत्वाह्लादकारित्वपूर्वैः शुभगुणैः प्रभुः ॥ ६१३ ॥
सुरोत्तमटीका
अनलपदस्य सवितृपदस्य च योगमाह ॥ अलम्भाव इति ॥ सतां पवित्रीकरणे अस्य अलम्भावः यतो नेति सम्बन्धः । उप-स्थातृषुप्रातः कालादिसन्ध्याकालेषु सूर्योपस्थानं कुर्वत्सु । उभाभ्यां देवसवितः पवित्रेण सवेन च । मां पुनीहि विश्वतः’’ इति श्रुतौ सवितः पुण्यस्रष्टः हे देवपवमान पवित्रेण सन्ध्याङ्गतया बाहुमूले धृतचक्रेण सवेन सवनेन सन्ध्याङ्गभूतप्रातःकालादिकालेनेत्युभाभ्यां मां विश्वतः सर्वतः पुनीहि । अवैष्णवसन्ध्याकरणदोषात् कालातिक्रमदोषाच्च पवित्रीकुर्विति त्रिषुवर्णेषु क्रियमाणमध्वाचार्योक्तचक्रधारणपूर्वकसन्ध्यावन्दनेन स्वपावित्र्यं पवमानं प्रति प्रार्थयमानेन तस्मिन्सवितृपदप्रयोगादुपस्थातृषु यः पुण्यराशिं सूत इत्युक्तम् । अनेन पवित्रनामकसुदर्शनधारणस्यापि उभाभ्यामिति सहैव गृहीतत्वात् काल-त्रयेऽपि क्रियमाणसन्ध्यावन्दनस्य गोपीचन्दनेन क्रियमाणसुदर्शनधारण-पूर्वकत्वनियमोऽपि सूचितो भवति । पुण्यराशिमित्युपलक्षणम् । त्रिभिष्ट्वंदेव-सवितर्वर्षिष्ठैः सोम धामभिः । अग्ने दक्षैः पुनीहिनः’’ इति श्रुतौ सन्ध्यावन्दनाङ्गभूताहोरात्रिसन्ध्याप्रवर्तकसवितृसोमाग्निषु स्थितं पवमानदेवं तत्तत्पदैः सम्बोध्य वर्षिष्ठैर् बहुवर्षस्थायिभिर् अनाद्यनन्तकालीनैरित्यर्थः ।
दक्षैः कामान्नादिसकलाभीष्टदानकुशलैः । त्रिभिर्धामभिस् तदुक्तरीत्या कृतविष्णुप्रीतिकरसन्ध्यावन्दनत्रयीफलभूतैर् वैकुण्ठश्वेतद्वीपानन्ताख्यत्रिसङ्ख्या-कलोकैः । त्वं नः पुनीहि । उक्तलोकत्रयं दत्वा संसाराख्यमलं विनाश्य पवित्रीकुर्विति मोक्षरूपफलस्यापि प्रार्थितत्वान्मौक्तभोगराशिं च सूते सुनोति । अप्रधानभूतमुक्तवर्गेषु तं नयतीति व्युत्पत्त्या च सवित्रादिपदवाच्यत्वं द्रष्टव्यम् । अनेन वायोरपि वायुश्च तदनुज्ञयेति स्मृत्युक्तमोक्षदातृत्वमपि स्पष्टीकृतं भवति । पूर्वैरित्यनेन सु प्रसवैश्वर्ययोरिति धातुनिष्पन्नसोमशब्दार्थो गृह्यते ॥ ६१२,६१३ ॥
सत्यप्रमोदटीका
अनलशब्दं वायौ निर्वक्ति अलम्भाव इति । उपस्थातृषु गोपीचन्दनमुद्रादिधारणपूर्वकं सन्ध्याद्युपस्थानं कुर्वत्सु । जीवोत्तमत्वेनाराधकेषु । पुण्यराशिं मुक्तिप्रयोजकं वायोर्विष्ण्वाज्ञया मोक्ष-दातृत्वात् । सोमेत्यादिना सोमशब्दनिर्वचनम् ॥ ६१२, ६१३ ॥
युक्तिमल्लिका
पवमानस्य यत्सूक्ते पवमानप्रशंसनम् ।
उचितं तेन वायुश्च वायुगो हरिरेव च ।
सूक्तस्थिताखिलर्ग्भिश्च स्तुत्यो नान्यस्य वागियम् ॥ ६१४ ॥
सुरोत्तमटीका
यद्यस्मात् । तेन कारणेन । इयं पवमानपूयमानरूपा ॥ ६१४ ॥
सत्यप्रमोदटीका
इयं पवमानाग्निसवितृसोमादिरूपा ॥ ६१४ ॥