१७ अखण्डार्थवादनिरासः

स्वाखण्डवादखड्गेन मृतमृत्यै न मे कृतिः

अखण्डार्थवादनिरासः

युक्तिमल्लिका

स्वाखण्डवादखड्गेन मृतमृत्यै न मे कृतिः ।

स्वयूथ्यानां मनस्तृप्त्यै भक्त्यै मुक्त्यै च केवलम् ॥ ४८५ ॥

सामानाधिकरण्याद्वा नानात्वक्षेपतोऽपि वा ।

ऐक्यसिद्धिस्त्वखण्डार्थवादे नाभूत्तवैव हि ॥ ४८६ ॥

सर्वज्ञाल्पज्ञयोरैक्यं नास्त्येवेति तु यो वदेत् ।

ऐक्यस्य ब्रह्मरूपत्वाद्ब्रह्मवागैक्यवागिति ।

कथं तं प्रत्युत्तरं स्यान्निर्मूलोऽस्ति न वै तरुः ॥ ४८७ ॥

अन्यथा शशशृङ्गस्य चिद्रूपत्वाच्चिदुक्तितः ।

शशशृङ्गं च स कथं त्वां प्रत्येव न साधयेत् ॥ ४८८ ॥

ऐक्यस्य ब्रह्मरूपत्वं मायावादी वदेदपि ।

परं प्रत्यैक्यसिद्ध्यर्थं नैवमाह सुधीर्ह्यसौ ॥ ४८९ ॥

सुरोत्तमटीका

किञ्चैक्यनिर्गुणत्वजगन्मिथ्यात्वादिप्रतिपादकतयाऽभि-मतस्वसकलवाक्यानामपि ब्रह्मस्वरूपमात्रपरत्वरूपाखण्डार्थनिष्ठत्वं वदता परेण स्वापेक्षिताशेषार्थप्रतिपादकत्वाभावस्योक्तत्वान्नास्माभिः प्रयतितव्यमित्याह ॥ स्वाखण्डेति ॥ मृतमृत्यै मृतस्य मायावादिनो मारणाय । कृतिर्ग्रन्थरूपाकृतिः। किं तर्हि तस्याः प्रयोजनमित्यतस्तदतिरिक्तप्रयोजनमित्याह ॥ स्वयूथ्या-नामिति ॥ ४८५–४८९ ॥

सत्यप्रमोदटीका

स्वाखण्डवादेति । संसर्गासङ्गिधीजनकत्वं श्रुती-नामिति मायावाद्यभिमतवादेत्यर्थः । मृतेति । ऐक्यादिसंसर्गाबोधकत्वेन स्वानङ्गीकारेणैव पराहतेत्यर्थः । तृप्त्यै चित्ते सिद्धान्तश्रद्धास्थिरीकरणार्थम् ॥ तवैवेति महावाक्यानां बोधजनकत्वमेव नेति वा बोधकत्वेऽपि चिन्मात्र-बोधकत्वमिति वा तव सिद्धान्तत्वेन सर्वथा ऐक्यरूपसंसर्गधीजनकत्वा-नभ्युपगमादेवेति भावः ॥ जीवब्रह्मणोरैक्यमिति तरोर्जीवब्रह्मस्वरूपं मूलम् । त्वया भागत्यागलक्षणाश्रयणेन तयोः स्वरूपलक्षणमुण्डनेन मूलमेव समुत्खातितम् । अत ऐक्यं वार्तामात्रमेवेत्याह सर्वज्ञेति । ब्रह्मरूपत्वाच् चिद्रूपत्वात् । तं भेदवादिनम् अभेदनिषेधकं प्रति । उत्तरमिति । त्वद्वाक्यानां भेदापक्षेपे अभेदोपक्षेपे वाऽक्षमत्वादेवेति भावः । तदुक्तं वादावल्यां ‘निराश्रयस्यैक्यस्यानिर्वाहात् । निर्वाहे वा ब्रह्मैक्यवादस्तुच्छाद्वैते पर्यवस्ये-दि’ति ॥ सश् चिद्रूपमात्रवादी वाक्यतरुः ॥ आहेति । चित्स्वरूपत्वेनैक्यस्य अवेद्यत्वादिति भावः । सुधीरिति विपरीतलक्षणया । अवेद्यत्वं वदन् पुनस्त-त्साधनाय प्रमाणान्युपन्यस्यन् महोन्मत्त एवेत्यर्थः ॥ ४८५–४८९ ॥

युक्तिमल्लिका

अतस्सर्वगुणैर्विष्णुर्मुक्तं कुर्यात्कथं समम् ।

ततोऽपि नैक्यं साम्यं तु किञ्चित्साम्यमितीरितम् ॥४९०॥

सुरोत्तमटीका

अतस्स्वनिष्ठनित्यमुक्तत्वस्य कदाचिन्मुक्ते जीवे प्रयत्न-शतेनापि दानायोगादैक्ये प्रमाणाभावाच्च । सममैक्यसाम्यश्रुत्योर्बलात्सर्व-धर्माणामभावभावत्वाभ्यामविरुद्धं न कुर्यात् । ततो नित्यमुक्तत्वकदा-चिन्मुक्तत्वाभ्यां जीवब्रह्मणोर्मुक्तिदशायामपि विरुद्धत्वादैक्ये प्रमाणाभावाच्चैक्यं नेति योजना । तत्त्यागे मुक्तेरेवाभावप्रसङ्गात्

॥ ४९० ॥

सत्यप्रमोदटीका

‘कथं च यः पूर्वमसौ न पश्चाद्भवेत्स एवेति च युक्तिमेति । यतो न दृष्टं यदभून्न पूर्वं पश्चात्तदासेति कुतश्च किञ्चित्’ इत्यनुव्याख्यानं हृदि कृत्वाऽऽह अत इति ॥ ४९०,४९१ ॥

युक्तिमल्लिका

किलामृतस्यैष सेतुर्मुक्तानां परमा गतिः ।

सोऽमृतस्याभयस्येशः कृष्णो मुक्तैः किलेज्यते ॥ ४९१ ॥

इति श्रुतिपुराणानि सेतिहासानि सर्वतः ।

गर्जन्त्यन्ये महित्वं ते नाश्नुवन्तीति हि श्रुतिः ।

अप्यर्वाग्वृत्तयो यस्य महित्वे स्वभुवादयः ॥ ४९२ ॥

सुरोत्तमटीका

पुनरपि मुक्तौ भेदप्रतिपादकश्रुतिस्मृतीराह ॥ किलामृतस्येत्यादिना ॥ ४९१,४९२ ॥

सत्यप्रमोदटीका

महित्वमिति । ‘परो मात्रया तन्वा वृधान न ते महित्वमन्वश्नुवन्ति’ इति वाक्यं सङ्गृहीतम् । ‘अप्यर्वाग्वृत्तय’ इति भागवतम्

॥ ४९२ ॥

युक्तिमल्लिका

ब्रह्मेशानादिभिर्देवैर्यत्प्राप्तुं नैव शक्यते ।

तद्यत्स्वभावः कैवल्यं स भवान्केवलो हरिः ॥ ४९३ ॥

सुरोत्तमटीका

यत्कैवल्यमनाद्यनन्तकालेषु जडदेहजराद्यमिश्रत्वरूप-नित्यमुक्तत्वम् । यत्स्वभावो यस्य परमात्मनस्स्वभावस्स्वत एव भवति न त्वन्यप्रेरणयेति स्वभावः । केवलः ‘‘केवलो निर्गुणश्चे’’त्यादिश्रुतौ केवल-पदोदितः ॥ ४९३ ॥

युक्तिमल्लिका

इति भागवतोक्त्या च ब्रह्माद्यैर्नैव लभ्यते ।

यस्य स्वभावस्तद्भावं मर्त्यः को गन्तुमर्हति ॥ ४९४ ॥

सुरोत्तमटीका

तद्भावन्तदैक्यम् ॥ ४९४ ॥

सत्यप्रमोदटीका

मर्त्यः मृत्युग्रस्तस् तद्विपरीतस्वभावः ॥ ४९४ ॥

युक्तिमल्लिका

गिरो निरवकाशायास्सावकाशा हि किङ्करी ।

अतस्तदध्वनैवासौ गच्छेन्न तु कदध्वना ॥ ४९५ ॥

सुरोत्तमटीका

सावकाशा एकीभवन्तीत्याद्या ॥ ४९५ ॥

सत्यप्रमोदटीका

सावकाशा, ‘सादृश्ये चैक्यवाक् सावकाशा यथेष्टतः’ इति भगवत्पादोक्तेः ॥ ४९५ ॥

युक्तिमल्लिका

तस्मात्सर्वेश्वरो विष्णुर्भूतभव्यभवत्प्रभुः ।

मुक्तामुक्तजगन्नाथो भक्त्याऽऽराध्य इति स्थितम् ॥ ४९६ ॥

सुरोत्तमटीका

उपसंहारवाक्येऽपि प्रमाणं सूचयितुं ‘‘भूतभव्य-भवत्प्रभुरि’’ति सहस्रनामस्थं नामैवोक्तम् । भव्याः परान्तकाले भविष्यन्तो मुक्ताः ॥ ४९६ ॥

सत्यप्रमोदटीका

ईश्वर ईशनशीलः ॥ ४९६ ॥

युक्तिमल्लिका

या धात्रादिजगद्धात्री ख्याता तैर्वन्दितार्चिता ।

मुक्तामुक्तजगन्माता सा श्रीर्मङ्गलदेवता ॥ ४९७ ॥

सुरोत्तमटीका

ग्रन्थस्य श्रीकरत्वद्योतनाय ग्रन्थान्ते सकलवाङ्मनसदेवतां लक्ष्मीमपि स्तुवन्भगवदैक्यं वदन्मातृगामी स्यादिति युक्तिं च सूचयति ॥ या धात्रिति ॥ ग्रन्थस्य परममङ्गलत्वद्योतनाय मङ्गलदेवतेत्युक्तम् ॥ ४९७ ॥

सत्यप्रमोदटीका

सा अम्भृणी । धात्री ‘अहं धात्री सङ्गमनी’ इत्युक्तेः । माता ‘मम योनिर्महद्ब्रह्म तस्मिन्गर्भं दधाम्यहम् । सम्भवः सर्वभूतानां ततो भवति भारत’ इति गीतोक्तेः । मङ्गलदेवता मङ्गलानां मङ्गलम्’ इत्युक्तस्य विष्णोः प्रिया । मङ्गला च सा देवता इति वा । ब्रह्मादिजगतः मङ्गलप्रदा देवतेति वा । ‘देवी भाग्यात्मिका नृणामि’ति भगवत्पादोक्तेः ॥ ४९७ ॥

युक्तिमल्लिका

जयति श्रीरमाकान्तो जयति श्रीश्च तत्प्रिया ।

श्रीश्रीशभक्तो जयति मध्वो विध्वस्तसाध्वसः ॥ ४९८ ॥

सुरोत्तमटीका

उपरि मध्वकथां प्रस्तावयितुं तं च स्तौति ॥ श्रीश्रीश-भक्त इति ॥ ४९८ ॥

सत्यप्रमोदटीका

जयति सर्वोत्कृष्टो वर्तते । मुक्तिप्रदानेन संसारभयम् अभिभवति । ‘ज्ञानिनां मोक्षदश्च सः’ इति श्रुतेः । तत्प्रिया इति हेतुगर्भं विशेषणम् । श्रीर्यत्कटाक्षबलवती इत्युक्तेः । जयति भगवदितरेभ्य उत्कर्षवती । एवं संसारदुःखाभिभवेन मुक्तिप्रदा । ‘श्रियं वसाना अमृतत्व-मायन्नि’ति श्रुतेः । भक्त इति निरुपपदशब्देन महाभागवतप्रबर्ह इत्युक्तो भवति । अत एव जयति जीवराशिषु उत्कर्षवान् । मोक्षदानेन भवभयाभिभव-हेतुश्च । ‘वायुश्च तदनुज्ञया’ इत्युक्तेः । तदेवाह विध्वस्तसाध्वस इति ॥४९८॥