ऐक्यं च निर्गुणत्वं च न श्रौतं नापि युक्तिमत्
ऐक्यं निर्गुणत्वं च न मोक्षः
युक्तिमल्लिका
ऐक्यं च निर्गुणत्वं च न श्रौतं नापि युक्तिमत् ॥ ४२७ ॥
सुरोत्तमटीका
एवं सति स्वाघटितघटकशक्त्या स्वस्य जीवैक्यं निर्गुणत्वं च कुतो भगवान्न घटयतीत्यत आह ॥ ऐक्यमिति ॥ शक्तोऽपि भगवांच्छ्रुत्यादिप्रमाणसिद्धमेवार्थं घटयेत् । न त्वप्रामाणिकं शशशृृङ्गमपि घटयेत् । ऐक्यादिकं च शशशृृङ्गवदप्रामाणिकं प्रमाणविरुद्धं चातस्तदपि न घटयतीति भावः ॥ ४२७ ॥
सत्यप्रमोदटीका
अल्पशक्तिना जीवनैक्यम् ऐश्वर्यादिगुणहीनत्वं निर्गुणत्वं च अप्रमिते सर्वशक्तिमत्त्वेश्वरत्वरूपस्वमाहात्म्यविघटके च । अत एतान्न घटयेदेवेत्याह ऐक्यमिति । विवृतमेतद्गुणसौरभे (श्लो.९९६–१००१) ॥ ४२७–४२९ ॥
युक्तिमल्लिका
रुणद्धि यद्धि घटकशक्तीशत्वे महाप्रभोः ।
घटयेन्नेदृशानर्थकरमर्थं स बुद्धिमान् ॥ ४२८ ॥
सुरोत्तमटीका
युक्त्यन्तरं चाह ॥ रुणद्धीति ॥ यदैक्यादिकं घटक-शक्तीशत्वे अघटित घटकशक्तिमीशत्वं रुणद्धीति सम्बन्धः । अर्थं स्वशक्ती-शत्वनाशकमैक्यनिर्गुणत्वादिकं नीचजीवैक्यघटने कृते सति स्वस्यापि नीचत्वापत्त्येशत्वहानेर् निर्धर्मकत्वरूपनिर्गुणत्वघटने चाघटितघटकशक्ति-रूपधर्मस्यैव लोपप्रसङ्गात्तदुभयं न घटयतीति भावः ॥ ४२८ ॥
युक्तिमल्लिका
दुःखं सन्धित्सतो यत्सा शक्तिः प्रच्यवते बहिः ॥ ४२९ ॥
सुरोत्तमटीका
अत एव स्वात्मनि दुःखमपि न घटयेदित्याह ॥ दुःखमिति ॥ यद्यस्माच्छक्तश्च दुःखीचेत्यस्य परस्परं विरुद्धत्वादघटित-घटकोऽपि भगवान् स्वमहिमाऽघातकं किन्तु सुतरां स्वमहिमसम्पादकं च यद्भवति तदेव घटयेत् । न तु स्वानर्थकरमैक्यादिकम् । न हि रिपूदरविदारण-समर्थनखरो नरहरिस्स्वोदरविदारणं कुरुते ॥ ४२९ ॥
युक्तिमल्लिका
यस्सर्वेश्वरतागुप्त्यै सेहे विप्रपदा हतिम् ।
स्वमहिमि्न महांस्तस्य भरः स्तोत्रर्थकारिणः ॥ ४३० ॥
सुरोत्तमटीका
स्वमहिमानं भगवान्कदापि न जहातीत्येतद्भगवच्चरित्रे-णैवानुभावयति ॥ य इति ॥ विप्रपदाहतिं भृगुमुनेः पादघातम् । स्तोत्रर्थ-कारिण इति हेतुगर्भविशेषणम् । स्वमहिमि्न तात्पर्याभावे स्वस्तोतॄणां मोक्षादिपुरुषार्थं कुतो दत्त इति भावः ॥ ४३० ॥
सत्यप्रमोदटीका
गुप्त्यै अज्ञजनेष्वपि प्रख्यापनार्थम् । सेहे तन्निमित्तकविकारवान्नाभूत् । महान् भरः महातात्पर्यम् । ‘न तादृशी प्रीतिरीड्यस्य विष्णोर्गुणोत्कर्षज्ञातरि यादृशी स्यात्’ इत्युक्तेः ॥ ४३० ॥
युक्तिमल्लिका
साऽयोध्याख्या हरिपुरी रत्नगोपुरमण्टपा ।
श्रीरेव नगराकारा सेवते स्वपतिं किल ।
भक्ता परममुक्तास्ते नित्यमुक्तो हरिः प्रभुः ॥ ४३१ ॥
सुरोत्तमटीका
सा या सनकादिभिरगम्या । तेऽपि भगवत्परिचर्यां कुर्वतः ॥ ४३१ ॥
सत्यप्रमोदटीका
सेवते ‘स्वयमिन्दिरैव पतिमानकरी गृहकर्म यत्र कुरुते सुतरामि’त्युक्तेः ॥ ४३१ ॥
युक्तिमल्लिका
तस्माज्जीवेश्वराभेदो जीवाभेदोऽद्वितीयता ।
निराकारत्वमज्ञत्वं निर्गुणब्रह्म यत्तव ॥ ४३२ ॥
अप्रामाणिकमेवेदं सर्वमासीन्न संशयः ।
उक्ते परममोक्षेऽस्मिन्यन्नाभूत्कुत्र तद्भवेत् ॥ ४३३ ॥
अतो दुराशां सन्त्यज्य भज कृष्णपदाम्बुजम् ।
गर्ते वा पत मध्ये ते स्थितिर्लज्जाऽतुरस्य न ॥ ४३४ ॥
सुरोत्तमटीका
तस्मात्परममोक्षस्थल्यामपि हरेर्मुक्तसेव्यत्वमनोहराकार-वत्त्वादिमहिमदर्शनात् । अज्ञत्वमज्ञानावृतत्वम् । यदैक्यादिकम् ॥ गर्तेऽन्धन्त-मसि ॥ ४३२–४३४ ॥
सत्यप्रमोदटीका
तस्मान् मुक्तावपि भेदादेर् गुणानां चानुवृत्तेः ॥ गर्ते पूयासृङ्मूत्रविष्ठाकृमिकुलकलिले तमसि । लज्जाऽऽतुरस्येति । तदुक्तं चन्द्रिकायाम् ‘औतिभिर्व्याक्रियते कथमद्वैतदूषकम् । सूत्रजातं स्वसिद्धान्ततया लज्जां विनैव तु’(१.२,५) इति ॥ ४३२–४३४ ॥
युक्तिमल्लिका
एवं च सुखरूपेण चक्षुषा सुखरूपिणाम् ।
मुक्तं पश्यति मुक्तोऽन्यः सुखरूपेण जिघ्रति ॥ ४३५ ॥
घ्राणेन सुखरूपत्वाद्घ्रेयमेवं सुखात्मना ।
मनसैव विजानीयाद्विज्ञातारं हरिं प्रभुम् ॥ ४३६ ॥
इत्येव यत्र त्वस्येति श्रुतिः स्वार्थमुपाददे ।
यतस्सुखं कमित्याहुश्शब्दतत्वविशारदाः ॥ ४३७ ॥
सत्यप्रमोदटीका
‘केन कं पश्येत्’ इत्यादिश्रुतिं तर्कमुद्रां विनाऽपि मुक्तिस्वरूपसमर्थनपरतया योजयति एवं चेति ॥ आहुः ‘कं ब्रह्म’ इत्यादि श्रौतप्रयोगबाहुल्यात् ॥ ४३५–४३७ ॥
युक्तिमल्लिका
अन्यार्थस्य महामोक्षेऽप्येतस्मिन्वैष्णवे पदे ।
उक्तरीत्या बाधितत्वादयोग्यं तज्जहौ श्रुतिः ॥ ४३८ ॥
विस्तरस्त्वस्य सर्वस्य मूलशास्त्रमहार्णवे ।
द्रष्टव्यश्चित्तशुद्ध्यर्थमेतावच्चर्चितं मया ॥ ४३९ ॥
सुरोत्तमटीका
तत्तस्मात् ॥ ४३८–४३९ ॥
सत्यप्रमोदटीका
अन्यार्थस्य निर्विशेषभावरूपस्य ॥ मूलशास्त्र-महार्णवे ‘अस्वातन्त्र्यादिवेत्युक्तं न द्वैताभावतः क्वचित्’ इत्याद्यनुव्याख्यान-तट्टीकासु (४२१) ॥ ४३८,४३९ ॥
युक्तिमल्लिका
अतो योग्योरुसौभाग्यापेक्षी मुक्तोऽनुमीयते ।
मुक्तत्वान्नित्यमुक्तोऽसौ यथा स्वानन्दनिर्भरः ॥ ४४० ॥
सुरोत्तमटीका
मुक्तस्य स्वयोग्यसकलसौभाग्योपेतत्वेऽनुमानमप्याह ॥ अत इति ॥ असौ भगवान् ॥ ४४० ॥
सत्यप्रमोदटीका
अत इति ‘कामस्य यत्राप्ताः कामास्तत्र माममृतं कृधि’ इति मुमुक्षुप्रार्थनात् । नित्यमुक्ते नित्यप्राप्तस्यैव प्रेप्सा । अन्यस्य कादा-चित्की । इति विवेकः ॥ ४४० ॥
युक्तिमल्लिका
तस्माच्छून्यत्वमोक्षाय नाकाङ्क्षा जायते नृणाम् ।
अनाकाङ्क्षितमोक्षाय न परोक्ता भवेच्छ्रुतिः ॥ ४४१ ॥
तस्माच्छुभजनाकीर्णा दिव्यभोगवती स्थितिः ।
मुक्तिरुक्तश्रुतिशतैरप्याम्नानादिति स्थितम् ॥ ४४२ ॥
सुरोत्तमटीका
तस्माद्युक्तिविरुद्धत्वात् । अनाकाङ्क्षितमोक्षाय अनपेक्षित- मोक्षप्रतिपादनायेत्यर्थः । विरक्तं प्रति वाणिज्योपदेशवदनाकाङ्क्षित बोधकस्य वाक्यस्य परं प्रत्यप्रामाण्यप्रसङ्गात् ॥ ४४१,४४२ ॥
सत्यप्रमोदटीका
नेति । ‘सुखहानौ हि को मोक्षाय यतेत्पुमान्’ इत्यनु-व्याख्यानोक्तेः(४२१) ॥ आम्नानाद् असकृत्प्रतिपादनात् ॥ ४४१,४४२ ॥
युक्तिमल्लिका
यत्र मुक्तौ मुक्तवर्गाद्धरेर्द्वैतमिव प्रभोः ।
द्वैतोपमो विशेषश्च भवति स्वगुणादिना ॥ ४४३ ॥
मुक्तानां च मिथस्सर्वेशाच्च द्वैतमिवाञ्जसा ।
द्वैतोपमो विशेषश्च भवति स्वगुणादिभिः ॥ ४४४ ॥
तत्रैव मोक्षे वैकुण्ठपूर्वके स्वं विजानते ।
परान् जानन्ति भोगांश्च भुञ्जतेऽनुभवन्ति च ॥ ४४५ ॥
स्वानन्दमपि ते बह्वीभवन्त्येकीभवन्ति च ।
यानैश्चरन्ति श्लिष्यन्ति क्रीडन्ति च हसन्ति च ॥४४६॥
यत्र मोक्षे सर्वमात्मैवाभूदन्यन्न किञ्चन ।
न द्वैतं न विशेषो वा तत्र ज्ञातृत्वमेव न ॥ ४४७ ॥
सुरोत्तमटीका
भेदकार्यकारित्वेन भेदोपमो यो विशेषस्तत्समर्थन-परतयापि यत्र त्वस्येति वाक्यं योजयति ॥ यत्रेति ॥ ४४३–४४७ ॥
सत्यप्रमोदटीका
द्वैतमिवेत्यनेन भेदोपमो भेदकार्यकारी विशेष उच्यते । गुणादिभिरित्यत्रादिपदेन इन्द्रियादिकं ग्राह्यम् ॥ स्वं विजानते इत्यनेन कर्तृकर्मभावघटकविशेषोक्तिः ॥ ४४३–४४७ ॥
युक्तिमल्लिका
दूरेऽभूद्भोक्तृता तस्मादविद्यास्तमयो न सः ।
विद्याऽस्तमय एवाभूत्स्वज्ञानं च यतोऽस्य न ॥ ४४८ ॥
सुरोत्तमटीका
दूरे इति । भोग्यवस्तुसामान्याभावात् क्रियासामान्या-भावाच्चेति भावः ॥ स मोक्षो ऽस्य मुक्तस्य ॥ ४४८ ॥
सत्यप्रमोदटीका
विद्याऽस्तमय इति । स्वपरविषयकत्वात् । ‘अविषयत्वे ज्ञानत्वमेव न स्यादि’ति भगवत्पादोक्तेः ॥ ४४८ ॥
युक्तिमल्लिका
नापि दुःखस्य विध्वंसस्सुखस्य ध्वंस एव सः ।
एकाकी रमते नासौ कथं कामांश्च सोऽश्नुते ॥ ४४९ ॥
सुरोत्तमटीका
सुखध्वंसमेवोपपादयति ॥ एकाकीति ॥ अनेन तस्मादेकाकी न रमत इति श्रुतिं सूचयति । सोऽश्नुते सर्वान्कामानिति श्रुतिसूचनाय सोऽश्नुत इत्युक्तम् ॥ ४४९ ॥
सत्यप्रमोदटीका
नापीति । ‘मग्नस्य हि परेऽज्ञाने किं न दुःखतरं भवेदि’ति वचनाद्दुःखस्योद्रेक एवेति भावः । ध्वंस एवेति सुखसाधनस्य द्वितीयस्याभावान् निर्विशेषे ज्ञाने सुखविषयकत्वरूपविशेषाभावाच्चेति भावः ॥ ४४९ ॥
युक्तिमल्लिका
इत्याक्षिपन्ती शून्यत्वमोक्षं सर्वानपेक्षितम् ।
वैकुण्ठाख्यं महामोक्षं यत्र द्वैतमिवेति वाक् ।
निरणीनयदेवेयं यतो नावर्तते यतिः ॥ ४५० ॥
सुरोत्तमटीका
यतो वैकुण्ठलोकात् । यत्र नारायणस्साक्षाद्यतो नावर्तते यतिरिति वाक्यसूचनायेत्थमुक्तम् । किञ्च ‘‘नास्ति विष्णोः परं स्थानं नास्ति विष्णोः परं ध्यानं नास्ति मोक्षो ह्यवैष्णव’’ इति वासुदेवसहस्रनामस्थ-रुद्रवाक्येन विष्णुसम्बन्धरहितमोक्षस्य दूषिततया तत्सम्बन्धे सकलसम्पत्समेत-वैकुण्ठस्यैव परममोक्षत्वाद्यत्रत्वस्येति वाक्यमुक्तविधया विशेषसमर्थनपरतया योजनीयम् ॥ ४५० ॥
सत्यप्रमोदटीका
आक्षिपन्ती प्रामाणिकभोगपरित्यागम् अप्रामाणिक-निर्विशेषशून्यात्मकत्वं चेत्यनिष्टद्वयमापादयन्ती । यत इति ‘यद्गत्वा न निवर्तन्ते तद्धाम परमं मम’ इति गीतावचनात् ॥ ४५० ॥
युक्तिमल्लिका
विशेषवीक्षितात्मेति यतो भागवते रमा ।
विशेषाणां चाधिपतिं गृणीते स्वपतिं स्फुटम् ॥ ४५१ ॥
सुरोत्तमटीका
अपि च ‘‘ओं नमो भगवते हृषीकेशाय सर्वविशेष-वीक्षितात्मन आकूतीनां चित्तानां चेतसां विशेषाणामधिपतय’’ इति भागव-तस्थरमावाक्ये स्पष्टं भगवति विशेषस्य समर्थितत्वात्तत्परैवेयं श्रुतिरित्याह ॥ विशेषेति ॥ विशेषवीक्षितात्मा विशेषबलेनेत्यर्थः । वीक्षितः स्वरूपभूत-वीक्षणकर्ताऽऽत्मा स्वरूपं यस्य स तथोक्तः ॥ ४५१ ॥
सत्यप्रमोदटीका
‘ॐ नमो भगवते हृषीकेशाय सर्वविशेषवीक्षितात्मने आकूतीनां चित्तानां चेतसां विशेषाधिपतये’ इति रमास्तोत्रं (५.१८.१६) विशेषेति । ‘स आत्मानमेवावेदहं ब्रह्मास्मीति’ इति श्रुत्युक्तद्रष्टृदृश्यभाव-रूपभेदव्यवहारापादकविशेषाख्यशक्तीत्यर्थः । विशेषाणां पदार्थशक्तीनाम् ॥ ४५१ ॥
युक्तिमल्लिका
अतो हरौ विशेषोऽस्ति तन्नियम्यश्च देहिषु ।
कथं नाभूद्विशेषोऽयं यो विशिष्यैव गीयते ।
अतो द्वैतमिवेत्युक्तो द्वैतप्रतिनिधिर्हि सः ॥ ४५२ ॥
सुरोत्तमटीका
अतस्स्पष्टस्मृतिसिद्धत्वात् । यो विशेषः ॥ ४५२ ॥
सत्यप्रमोदटीका
गीयते कण्ठोक्त्यैव प्रतिपाद्यते ॥ ४५२ ॥
युक्तिमल्लिका
सारूप्यं चैव सालोक्यं सामीप्यं योग एव च ।
मुक्तिश्चतुर्विधा प्रोक्ता भेदापेक्षा हि साऽखिला ॥ ४५३ ॥
कुचोद्यकृदवद्यार्थी दृश्यमर्थं न पश्यति ।
किं योगार्थकधातूत्थां सायुज्याख्यां विदुः खलाः ॥ ४५४ ॥
युजिर्योगे सहयुजौ सयुजौ शब्दविन्मते ।
तयोर्भावश्च सायुज्यं कथमैक्यमिहोच्यते ॥ ४५५ ॥
सुरोत्तमटीका
अधुना सायुज्यशब्दस्य शब्दशक्त्यैवैक्यपरतां निराकर्तुं सायुज्यस्थाने योगशब्दप्रयोगोपेतस्मृतिवाक्यस्यार्धमेव पूर्वार्द्धं कुर्वं श्चिकीर्षितं प्रतिजानीते ॥ सारूप्यमिति ॥ दृश्यं द्रष्टुं योग्यम् । सायुज्याख्यां सायुज्यशब्दम् ॥ धातुमेव पठन्शब्दनिष्पत्तिं दर्शयति ॥ युजिर्योग इति ॥ इह सम्बन्धार्थकतया सर्वजनप्रसिद्धधातुनिष्पन्नशब्दे ॥४५३–४५५ ॥
सत्यप्रमोदटीका
योगः सायुज्यम् । मुक्तिप्रभेदप्रमाणेनैव मुक्तानां मिथो भेदसिद्धिमाह चतुर्विधेति । ‘सालोक्यं च सरूपत्वं सामीप्यं योगमेव च’ इति भाष्योदाहृतगारुडवचनानुसारेण सिद्धेन सायुज्यशब्दस्य सम्बन्ध-वाचकयोगशब्दपर्यायत्वेनैव सायुज्यभाजां परमात्मनो भेदसिद्धिरित्याह युजिरिति ॥ ४५३–४५५ ॥
युक्तिमल्लिका
उक्तं पुरैव यद्व्याप्तिं वक्त्यैक्यपदमित्यपि ।
मुख्यत्वान्यत्वार्थकं च तत्किलातो हतोऽस्यहो ।
अतस्सयुक्ततैवासीत्सायुज्यं न त्वभिन्नता ॥ ४५६ ॥
सुरोत्तमटीका
तद् ऐक्यपदम् । अतस्सायुज्यपदस्यैक्यपदस्य च भेदार्थकत्वात् ॥ ४५६ ॥
सत्यप्रमोदटीका
पुरैव गुणसौरभे (श्लो.५२४–५७) व्याप्तिं व्याप्त्यैक्यम् ॥ ४५६ ॥
युक्तिमल्लिका
इहाच्युताङ्गगा देवा यन्मुक्तौ च तदङ्गगाः ।
सारूप्यं चैव सामीप्यं सालोक्यं च हरेर्बहिः ।
सदा हर्यङ्गसङ्गस्तु सायुज्यमिति सिद्ध्यति ॥ ४५७ ॥
सुरोत्तमटीका
इह संसारे । अङ्गगा विश्वरूपस्य हरेर्हस्तपादाद्य-वयवाश्रिताः । यद्यस्मात् । यच्छब्दबलादेव तस्मादिति लभ्यते । इदमेव पदद्वयमावर्तयित्वा सारूप्यमित्यादियोजना कर्तव्या ॥ ४५७ ॥
सत्यप्रमोदटीका
देवा अङ्गावबद्धाः । यस्मादङ्गाज्जाता इहापि संसारे यदङ्गे स्थिता मुक्तावपि तदङ्गस्थिता एव भवन्ति इत्याह इहेति ॥ ४५७ ॥
युक्तिमल्लिका
नित्यमुक्ताऽपि तस्य श्रीर्नित्यं वक्षसि लक्ष्यते ।
अनित्यमुक्तः को मुक्तो तदैक्यं प्राप्नुयाद्वद ॥ ४५८ ॥
सुरोत्तमटीका
मुक्तानां भगवदैक्याभावे कैमुत्यं दर्शयति ॥ नित्येति ॥ वक्षसि लक्ष्यते नत्वैक्यं प्राप्तेति भावः ॥ ४५८ ॥
सत्यप्रमोदटीका
वक्षसीति ‘स्वस्याः स्त्रियस्त्रिजगतो जनको जनन्या वक्षो निवासमकरोत्परमं विभूतेः । श्रीः स्वाः प्रजाः सकरुणेन निरीक्षणेन यत्र स्थितैधयत साधिपतींस्त्रिलोकान्’ इत्युक्तेः । अनित्यमुक्तः कादाचित्कमुक्तः ॥ ४५८ ॥
युक्तिमल्लिका
प्रलये न लयो यस्याः प्रोद्भवे चास्ति नोद्भवः ।
प्रकृतिः किल या देवी नित्यमुक्ता कथं न सा ॥ ४५९ ॥
सुरोत्तमटीका
लक्ष्म्या नित्यमुक्तत्वमुपपादयति ॥ प्रलय इति ॥ यस्या लक्ष्म्याः । अस्य जगतः । प्रकृतिः प्रलयेऽप्युर्वरितप्रकृत्यभिमानित्वा-त्प्रकृतिपदवाच्या ॥ ४५९ ॥
सत्यप्रमोदटीका
प्रलय इति यथोक्तं सूत्रभाष्ये (३.३.४२) ‘द्वा-वेतावनादिनित्यौ अनादियुक्तौ नित्यमुक्तौ अनादिकृतौ नित्यकृतौ योऽयं परमो या च प्रकृतिः’ इत्यादि ॥ ४५९ ॥
युक्तिमल्लिका
आद्यः कल्पो यतो ब्राह्मो यद्ब्रह्मप्रलयो लयः ।
अतो रमारमेशौ द्वौ सर्गप्रलयवर्जितौ ॥ ४६० ॥
सुरोत्तमटीका
आद्यसर्गान्तिमप्रलययोः प्रतिपादकशब्दार्थपर्यालोचन-यापि ब्रह्मण एव प्रलयो न तु रमारमेशयोरित्याह ॥ आद्य इति ॥ प्रथमं ब्रह्मण एवोत्पत्तिमत्त्वाद्ब्राह्मसंज्ञः । यद्यस्मात् । ब्रह्मप्रलयो ब्रह्मप्रलयनामको लयो महाप्रलयः । अतो ब्रह्मण एव सर्गप्रलयावधिभूतत्वात् ॥ ४६० ॥
सत्यप्रमोदटीका
सर्गप्रलययोश्चतुर्मुखब्रह्मनामपूर्वकत्वस्यैव प्रमितत्वा-दपि रमारमेशयोरनादिनित्यत्वसिद्धिरित्याह आद्य इति
॥ ४६०–४६२ ॥
युक्तिमल्लिका
यौ हि सर्वलये सन्तौ तयोरन्तो न यौक्तिकः ।
अतः प्रागसतस्सत्तासम्बन्धश्च न यौक्तिकः ॥ ४६१ ॥
ययोः सृष्टिश्च नष्टिश्च न श्रुता नापि यौक्तिकी ।
लक्ष्मीनारायणौ तौ द्वौ नित्यमुक्तौ न संशयः ॥ ४६२ ॥
सुरोत्तमटीका
सन्तौ विद्यमानौ । अन्तो नाशः । अतः प्रलयेऽपि विद्यमानत्वात् ॥ ४६१,४६२ ॥
युक्तिमल्लिका
अतस्त्वां शब्दमर्यादा बाधते बुधसंसदि ।
उक्तरीत्याऽर्थमर्यादाऽप्यनर्थं कुरुते वद (तव) ॥ ४६३ ॥
सुरोत्तमटीका
शब्दमर्यादा सायुज्यादिशब्दमर्यादा । अर्थमर्यादा नित्यमुक्तलक्ष्म्या अप्यैक्याभावरूपार्थमर्यादा ॥ ४६३ ॥
सत्यप्रमोदटीका
त्वाम् ऐक्यवादिनम् । शब्दमर्यादा सायुज्यं सालोक्यम् इत्यादिरूपमुक्त्यभिधायकशब्दनिर्वचनेनैव स्पष्टं प्रतीयमानभेदार्थ-रूपा । अर्थमर्यादा मोक्षस्य परमपुरुषार्थरूपगौरवम् । अन्यथा मोक्षस्य शून्यत्वलक्षणानर्थत्वापत्तेः
॥ ४६३ ॥
युक्तिमल्लिका
प्रागुक्तश्रुतयश्च त्वां निघ्नन्त्यज्ञ पदे पदे ।
अतो मुक्ताश्रयो ब्रह्मरुद्राद्युत्कृष्टचेतनः ॥ ४६४ ॥
सुरोत्तमटीका
प्रागुक्तश्रुतयः ‘‘सह ब्रह्मणे’’त्यादिश्रुतयः । श्रुतय इत्युपलक्षणम् । ‘‘भेजे खगेन्द्रध्वजपादमूलमि’’त्यादिस्मृतयोऽपि ग्राह्याः । उपसंहारव्याजेन द्विप्रकारकसहस्रनामस्थभगवन्नामद्वयं मुक्तावपि भेदे प्रमाण-यति ॥ अत इति ॥ मुक्ताश्रय इत्यनेन मुक्तानां परमागतिरिति नाम सूचितम् । ब्रह्मरुद्राद्युत्कृष्टचेतन इति वासुदेवसहस्रनामस्थनाम
॥ ४६४ ॥
सत्यप्रमोदटीका
श्रुतयः ‘उपसंक्रम्य’ इत्यादयः ‘योगमन्नमयाद्यै-र्यत्फलत्वेनास्य शंसति’ इत्यनुव्याख्यानोक्ताः । ‘मुक्तानां परमा गतिः’ इति सहस्रनामपठितम् अभिधानं च ॥ ४६४ ॥