१४ तत्र भोग्यान्नपायसादीनां नित्यत्वम्

पक्वो वातापिदेहोऽपि भिक्षोश्शाकादिरूपतः

तत्र भोग्यान्नपायसादीनां नित्यत्वम्

युक्तिमल्लिका

पक्वो वातापिदेहोऽपि भिक्षोश्शाकादिरूपतः ।

रक्षःशक्त्या यथापूर्वं लक्ष्यते तत्क्षणे किल ॥ ४२४ ॥

सुरोत्तमटीका

वैकुण्ठान्तःपुरस्थमुक्तभोग्यान्नपायसादीनां नित्यत्वमुप-पादयति ॥ पक्व इति ॥ भिक्षोर्भिक्षार्थमागतस्य भोजनार्थे रक्षश्शक्त्या पक्वी-भूतस्य पाचकस्य राक्षसस्य शक्त्या तत्क्षणे वातापे आगच्छेतील्वलोक्तिक्षणे । किलेत्यनेन इल्वलाख्यो ज्येष्ठोऽसुरस्स्वतपस्सामर्थ्येन स्वकर्मनिष्ठस्य वातापेः करचरणाद्यङ्गं सर्वं छित्वा नानाशाकादिरूपपाकं च कृत्वा स्वगृहं प्रत्यागता-नतिथीन्भोजयति । तदनन्तरमरे वातापे आगच्छेत्याह्वाने कृते सति तदुदरं निर्भिद्य तत्तद्भुक्तमांसैरेव पूर्ववत्सम्पन्नाकारस्सन्यथापूर्वं स्वज्येष्ठसमीपे तिष्ठति । पुनस्तेषां सर्वभूतशरीरस्थमांसं स्वयं भक्षयति । अनेन प्रकारेण दिने दिने बहुब्राह्मणवधे कृते सति कुपितोऽगस्त्यमुनिरागत्य पूर्वातिथिवदेव भुक्त्वा पुनराह्वाने जीर्णो वातापिरिति स्वोदरे संस्तभ्य तं तत्रैव मारितवानिति पौराणिकप्रसिद्धिं सूचयति ॥ ४२४ ॥

सत्यप्रमोदटीका

मुक्तैर्निरन्तरं भुज्यमानानामपि पायसादीनां नैव क्षयः किन्तु यथापूर्वमेवावस्थानं भगवतोऽचिन्त्यशक्त्येत्यत्र कैमुत्यन्यायमाह पक्व इति । भगवद्दत्तसामर्थ्येन वातापिरपि राक्षसः भुक्तोऽपि भोक्तृणां शरीरस्थ-मांसादिना पुनः पूर्ववद्देहवान् भूत्वा निष्क्रमणाय क्षमो यदा तदा भगवदनु-ग्रहातिशयभाजनानाम् अत एव सत्यसङ्कल्पानां मुक्तानां तथाविधा शक्तिरिति किं वाच्यमिति भावः । अत्र स्कन्धपुराणोक्ता कथाऽनुसन्धेया ॥ ४२४ ॥

युक्तिमल्लिका

अतो मौक्तं समस्तं च वस्तु भुक्तं च तैः पुनः ।

तथैव तिष्ठेत्तन्नित्यं स्याच्चाजं लिङ्गदेहवत् ॥ ४२५ ॥

सुरोत्तमटीका

अतश्छिन्नभुक्तदेहस्य यथापूर्वमवस्थानदर्शनात् । अजं जननरहितम् ॥ ४२५ ॥

सत्यप्रमोदटीका

जन्मराहित्यमात्रे दृष्टान्तो लिङ्गदेहवदिति ॥४२५॥

युक्तिमल्लिका

सर्वस्सर्वेशशक्त्यैव श्रुत्युक्तार्थः समर्थ्यते ।

अन्यैरघटितं योऽसौ घटयेदणुगो महान् ॥ ४२६ ॥

सुरोत्तमटीका

यः परमात्मा अणुगः परमाणौ स्थितः । महांस्तत्रापि ब्रह्माण्डाधारविग्रहवान् । अल्पकासुरशक्त्या नष्टस्य पुनरुत्थानेऽघटितघटक-भगवच्छक्त्या मौक्तपदार्थानामनाद्यनन्तत्वं भोज्यत्वादिकं च सुतरां घटयितुं शक्यमिति भावः ॥ ४२६ ॥

सत्यप्रमोदटीका

घटयेदिति । तदुक्तं सुधायां ‘नन्वीश्वरशक्तिरपि कथम् । यावत् प्रमाणसिद्धं तावतः सुघटस्य दुर्घटस्य वा घटनायां पटुरिति ब्रूमः’ इति ॥ ४२६ ॥