अमुक्तागम्यभूर्या हि सा साक्षान्मुक्तिरेव हि
तत्रामुक्तप्रवेशो नास्ति
युक्तिमल्लिका
अमुक्तागम्यभूर्या हि सा साक्षान्मुक्तिरेव हि ।
तत्रापि भगवद्भाग्यमुक्तं भागवते बहु ।
यदाऽगात्सनकादीन्स्वान्मुनीननुनिनीषया ॥ ४११ ॥
सुरोत्तमटीका
मायातिदूरवैकुण्ठपतौ श्रूयमाणमायामाहात्म्यादिकमेव नाविद्येत्याह ॥ अमुक्तेति ॥ अनुनिनीषया अनुनेतुं विनयोक्त्या रञ्जयितु-मिच्छया ॥ ४११ ॥
सत्यप्रमोदटीका
साक्षात् परमा । भाग्यमिति । तेन न तस्या निर्विशेषब्रह्मभावता । अनुनिनीषा क्रोधशमनेच्छा ॥ ४११ ॥
युक्तिमल्लिका
विनतातनयांसस्थः श्रिया देव्या समन्वितः ॥ ४१२ ॥
चार्वङ्घ्रिजङ्घाजानूरुकटिकुक्षिवलित्रयः ।
निम्ननाभिस्फुरन्मध्यविशालोरस्स्थलोज्ज्वलः ॥ ४१३ ॥
कम्बुग्रीवो वृत्तपीनदीर्घबाहुचतुष्टयः ।
अमन्दसान्द्रसौन्दर्यमन्दिरास्येन्दुमण्डलः ॥ ४१४ ॥
चार्वक्षिफालनासास्यकर्णगण्डारुणाधरः ।
मन्दस्मितप्रभामिश्रसुन्दरोष्ठारुणद्युतिः ॥ ४१५ ॥
किरीटहारग्रैवेयरत्नकुण्डलकौस्तुभः ।
काञ्चीकिङ्किणिमञ्जीरनूपुराद्यैर्विराजितः ॥ ४१६ ॥
करस्थकमलं धुन्वन्करुणालोललोचनः ।
छत्रचामरवादित्रगीतनृत्ताक्षताङ्कुरैः ॥ ४१७ ॥
व्यजनैर्धूपदीपैश्च पुष्पैर्नीराजनैः स्तवैः ।
अर्च्यमानः प्रतिपदं मुक्तसंसारबन्धनैः ॥ ४१८ ॥
सुरैरसङ्ख्यैः परितो मुक्तक्लेशैः कृतोत्सवः ।
तत्रायात्किल सर्वेशो यत्र ते सनकादयः ॥ ४१९ ॥
जीवन्मुक्तैश्च मुनिभिरगम्या सा हरेः पुरी ।
आसीत्परममुक्तानामास्थान्येव विवेकिनाम् ॥ ४२० ॥
सुरोत्तमटीका
भगवत आकरणमपि मायातिदूरत्वं समर्थयितुं वैकुण्ठ-पुरस्थभगवद्रूपं वर्णयति ॥ विनतातनयांसस्थ इत्यादिना ॥ मुनिभि-स्सनकादिभिः ॥ ४१२–४२० ॥
सत्यप्रमोदटीका
‘एवं तदैव’ इत्यारभ्य ‘कन्धरगतेन च कौस्तुभेन’ इत्यन्तैर् भागवतश्लोकैः (३,१५/३७–४१) वर्णितं महिमानमाह ‘विनता-तनयेत्यारभ्य यत्र ते सनकादय’ इत्यन्तैः ॥ फालः ललाटः ॥ मुनिभिर् अपरोक्षज्ञानिभिः सनकादिभिः । आस्थानी निवासभूमिः ॥ ४१२–४२० ॥
युक्तिमल्लिका
न चेदन्तःपुरं सर्वान्प्रवेश्यानन्दयेद्धि तान् ।
कृपालुर्भक्तिभरितांस्ततो नामुक्तभूरसौ ॥ ४२१ ॥
तत्राप्युक्तप्रमाणेन प्रभुस्साकार एव सः ।
श्रीश्च दिव्यमनोज्ञाङ्गी भृत्यास्ते दिव्यमूर्तयः ।
अनन्तास्ते च सेवन्ते सेव्यस्तैः सर्वदा प्रभुः ॥ ४२२ ॥
हर्म्याणि रत्नभवनान्युद्यानोपवनानि च ।
वापीकूपतटाकानि सन्ति तत्र गृहे गृहे ॥ ४२३ ॥
सुरोत्तमटीका
तान्सनकादीन् । असौ वैकुण्ठपुरी ॥ ४२१–४२३ ॥
सत्यप्रमोदटीका
न चेत् प्रमाणानुसारेण अमुक्तैः सर्वथा प्रवेष्टुम् अयोग्या न चेत् । ‘स्वतन्त्रेच्छोऽपि भगवान्मानेऽसौ मानवान् किल’ इत्युक्तेरिति भावः ॥ ४२१–४२३ ॥