११ वैकुण्ठलोकस्य लक्ष्मीमयत्वम्

न यत्र माया किमुतापर इत्यखिलेशितुः

वैकुण्ठलोकस्य लक्ष्मीमयत्वम्

युक्तिमल्लिका

न यत्र माया किमुतापर इत्यखिलेशितुः ।

पुरे कामक्रोधपूर्वकार्यस्याभावमञ्जसा ॥ ३४९ ॥

किमुतेति वदन्योगी मायाऽभावाख्यहेतुना ।

कारणाभावरूपेण साधयामास यौक्तिकः ॥ ३५० ॥

सुरोत्तमटीका

इदानीं वैकुण्ठलोकस्य लक्ष्मीमयत्वं भागवतवाक्येन पञ्चरात्रवाक्येन च साधयति ॥ न यत्रेत्यादिना ॥ किमुतेति वदन् अपरे मायाजन्यकामक्रोधादयो नेति किमुतेति वदन्नित्यर्थः । योगी शुकः । मायाभावाख्यहेतुना यत्र वैकुण्ठे माया नेति पूर्ववाक्योक्तमायाभावाख्यहेतुना ॥ ३४९,३५० ॥

सत्यप्रमोदटीका

इतोऽपि नैषा जीवन्मुक्तिः । तत्र मायायाः कार्त्स्न्येन निषेधादित्याह नेति । पुरे वैकुण्ठे । अपरे मायाकार्या अयोग्य-कामक्रोधादयः । यौक्तिकः । मुक्ताः कामाद्यशेषदोषहीनास् तत्कारण-मायारूपप्रकृतिगुणातीतत्वात् । ‘गुणानेतानतीत्य त्रीन् देही देहसमुद्भवान् । जन्ममृत्युजराव्याधिविमुक्तोऽमृतमश्नुते’ इति स्मृतेः । इति युक्त्यनुसन्धाता शुकमुनिः

॥ ३४९,३५० ॥

युक्तिमल्लिका

ईषन्मायावशेषं च दोषं स मनुते मुनिः ।

सिद्धेश्वरस्य किं स्वोक्तहेत्वसिद्धिर्मनःप्रिया ।

चण्डालाङ्गुलिसङ्गेऽपि चण्डालस्पर्श एव हि ॥ ३५१ ॥

सुरोत्तमटीका

सः मायाख्यकारणाभावेन तत्कार्यकामक्रोधाद्यभावे कैमुत्यं वदन्मुनिश्शुकः । ईषन्मायास्पर्शेऽपि मायास्पर्श एवेत्यत्र दृष्टान्तमाह ॥ चण्डालेति ॥ हि यस्मात्तस्मादीषन्मायास्पर्शोऽपि मायास्पर्श एव । अतो मायालेशासद्भावेऽपि मायाराहित्याख्यहेतोरसिद्धिस्स्यादिति योजना ॥३५१॥

सत्यप्रमोदटीका

जीवन्मुक्तिपरत्वे तत्र मायालेशसद्भावेन हेतोः स्वरूपासिद्धिप्रसङ्गादित्याह हेत्विति । मायालेशसद्भावेऽपि मायास्पर्शा-वश्यम्भावेन मायाऽतीतत्वहेतोरसिद्धिर्दुष्परिहरैवेत्यत्र लोकदृष्टान्तमाह चण्डालेति ॥ ३५१ ॥

युक्तिमल्लिका

कार्याभावस्य चाञ्जस्यं सर्वथाऽभाव एव यत् ।

अतोऽसौ कारणस्यापि सर्वथाऽभावमाक्षिपेत् ॥ ३५२ ॥

सुरोत्तमटीका

असौ नेति किमुतेत्युक्तस्सर्वथाकार्याभावः ॥ ३५२ ॥

सत्यप्रमोदटीका

सर्वथाऽभावः कार्यत्वावच्छिन्नाभावः । सर्वथाऽभावं कारणत्वावच्छिन्नाभावम् । आक्षिपेत् साधयेत् । विमतः मायात्वावच्छिन्ना-भाववान् तत्कार्यरागद्वेषादित्वावच्छिन्नाभाववत्वाद् इति प्रयोगात् ॥ ३५२ ॥

युक्तिमल्लिका

एवं च मायात्यन्ताभावस्थानं नित्यमुक्तताम् ।

चिद्रूपत्वं न किं लेभे जडं मायामयं हि ते ॥ ३५३ ॥

सुरोत्तमटीका

मायात्यन्ताभावस्थानी मायात्यन्ताभावाधारभूतो वैकुण्ठलोको नित्यमुक्ततां चिद्रूपत्वं च न लेभे किं लेभ एव । ननु मायाया-स्सर्वथाऽभावाद् अस्तु नित्यमुक्तता चिद्रूपत्वं तु कुत इत्यत आह ॥ जडमिति ॥ ते मते ॥ ३५३ ॥

सत्यप्रमोदटीका

एतेनैव अनन्तासनश्वेतद्वीपवैकुण्ठाख्यलोकत्रयस्य ‘त्रिपादस्यामृतं दिवि’ इति श्रुत्युक्तं चित्प्रकृत्यात्मकत्वं द्योतमानत्वनिमित्तेन सिद्धमित्याह एवं चेति । मायात्यन्ताभावस्थानं कर्तृ, हेतुगर्भं विशेषणम् । तथा च वैकुण्ठादित्रयं स्थानं, नित्यमुक्तचित्प्रकृत्यात्मकम्, अत एव प्रलयेऽप्यलीनं मायात्यन्ताभाववत्त्वाद् व्यतिरेकेण पृथिव्यादिलोकवत् । इति अनुमानं ‘चित्प्रकृत्यात्मनि ततो दिवीति कथितं श्रुतौ’ इति छान्दोग्य-भाष्योदाहृतप्रमाणानुगृहीतमत्रानुसन्धेयम्

॥ ३५३–३५५ ॥

युक्तिमल्लिका

तल्लक्ष्म्यात्मकलोकोऽपि सोऽभूद्यन्नित्यमुक्तचित् ।

लयेऽप्यलीना सैवैका तत्पतिर्यत्पुरःपतिः ॥ ३५४ ॥

सुरोत्तमटीका

तत्तस्मात् । स वैकुण्ठलोकः । यद्यस्मात् । लये प्रलये । सा लक्ष्मीः । ब्रह्मलयेऽप्यलीनाया लक्ष्म्या एव नित्यमुक्तचैतन्यत्वसम्भवा-न्नित्यमुक्तचैतन्यात्मको लोको लक्ष्म्यात्मक एव भवेदिति भावः । तत्पति-र्लक्ष्म्याः पतिः । पुरो वैकुण्ठपुर्याः । यद्यपि नित्यमुक्तचेतनत्वं हरेरप्यस्ति । तथापि तस्य वैकुण्ठपतिरित्येव श्रवणान्न वैकुण्ठरूपत्वम् । किन्तु वैकुण्ठ-पतेस्तस्य पत्न््नया लक्ष्म्या एव तद्रूपत्वमुचितमिति भावः ॥ ३५४ ॥

युक्तिमल्लिका

एवं च युक्तितो वैकुण्ठादिलोकाश्चिदात्मकाः ।

लक्ष्म्यात्मकाः सत्यरूपा नित्याश्चासन्नसंशयः ॥ ३५५ ॥

वैकुण्ठं नाम लोकं तद्दिव्यं षड्गुणसंयुतम् ।

अवैष्णवानामप्राप्यं गुणत्रयविवर्जितम् ॥ ३५३ ॥

नित्यसिद्धैः समाकीर्णं त्व(चि)न्मयैः पाञ्चकालिकैः ।

सभाप्रासादसंयुक्तं वनैश्चोपवनैः शुभम् ॥ ३५७ ॥

वापीकूपतटाकैश्च वृक्षषण्डैश्च मण्डितम् ।

अप्राकृतं सुरैर्वन्द्यमयुतार्कसमप्रभम् ॥ ३५८ ॥

प्रकृष्टसत्त्वराशित्वात्कदा द्रक्ष्यामि चक्षुषा ।

इत्थं वैकुण्ठनगरीमस्तौषीच्चतुराननः ॥ ३५९ ॥

सुरोत्तमटीका

युक्तितस्स्मृतिमूलयुक्तितः । अत्रैते प्रयोगाः । विमतो वैकुण्ठलोकश्चिदात्मको भवितुमर्हति । मायामायामययोरन्यतरत्वरहितत्वा-द्ब्रह्मवत् । विमतो वैकुण्ठलोकस्सत्यो नित्यश्च भवितुमर्हति । मायामायामय-योरन्यतरत्वरहितत्वाद्ब्रह्मवत् । विमतो वैकुण्ठलोकस्सत्यो नित्यश्च भवितुमर्हति चिद्रूपत्वाद्ब्रह्मचैतन्यवज्जीवचैतन्यवद्वा । विमतो वैकुण्ठलोको लक्ष्म्यात्मको भवितुमर्हति भगवद्भिन्नत्वे सति नित्यमुक्तचैतन्यात्मकत्वाद्व्यतिरेकेण जीव-वद्घटवद्वा ॥ ३५५–३५९ ॥

सत्यप्रमोदटीका

गुणत्रयविवर्जितमिति । ‘न वर्तते यत्र रजस्तम-स्तयोः सत्त्वं न मिश्रं’ इति अनुव्याख्यानव्याख्यानसुधायां ‘रजःप्रभृतीनाम-वृत्तिर्नाम बन्धकतया व्यापाराभावः’ इति निरूपितमत्र विभावनीयम् ॥ एवं तत्र वाक्यार्थचन्द्रिका ‘ननु ब्रह्माण्डान्तः सर्वत्र परिणामभूतानां रजः-प्रभृतिगुणानां व्याप्तत्वाद्ब्रह्माण्डान्तःस्थत्वाद्भगवल्लोकस्य कथं तेषामवृत्ति-रित्यतः स्वरूपेण सतामपि तेषां केनचिद्विशेषेणावृत्त्यनुपपत्तेर्नानुपपत्ति-रित्यभिप्रेत्य तथाऽवृत्तिमाह रज आदीनामिति’ इति ॥ त्वन्मयैस् त्वमेव मयः प्रकृष्टो येषां तैः । ‘मायेत्युक्ता प्रकृष्टत्वात् प्रकृष्टं हि मयाऽभिधं’ इति तत्त्वनिर्णयोक्तेः ॥ प्रकृष्टेति प्रकृष्टानां संसारान्मुक्तानां सत्त्वानां पशु-पक्ष्यादीनां प्राणिनां राशिः समूहः यत्र तथाभूतत्वात् ॥ ३५५–३५९ ॥

युक्तिमल्लिका

पञ्चरात्रे चतुर्वक्त्रस्तोत्रेष्वाद्यमिदं किल ॥ ३६० ॥

सुरोत्तमटीका

चतुर्वक्त्रस्तोत्रेषु चतुर्वक्त्रैः कृतस्तोत्रचतुष्टयेषु ॥३६०॥

सत्यप्रमोदटीका

चतुर्वक्त्रस्तोत्रेषु चतुर्भिर्मुखैः कृतेषु चतुर्षु स्तोत्रेषु ॥ ३६० ॥

युक्तिमल्लिका

ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः ।

ज्ञानविज्ञानयोश्चैव षण्णां भग इतीरणा ।

इत्युक्ते षड्गुणः पूर्णज्ञानविज्ञानशक्तिमान् ॥ ३६१ ॥

संयुतत्वोक्तितश्चाभूत्सम्यग्युक्तो हि तैर्गुणैः ।

अप्राकृतः सुरैर्वन्द्यो लोकोऽसौ न ह्यचेतनः ॥ ३६२ ॥

सुरोत्तमटीका

षड्गुणो वैकुण्ठलोकः शक्तिमान् अभूदिति सम्बन्धः ॥ ३६१,३६२ ॥

सत्यप्रमोदटीका

विशेषणानि यथायथं श्रीपतौ तदधिष्ठिते लक्ष्म्यात्मक- लोके च अनुयन्ति ॥ ३६१–३६३ ॥

युक्तिमल्लिका

विशेषणत्रयं ह्येतच्छ्रियः श्रीशस्य चोचितम् ।

अतोऽपि श्रीपतेर्लोकः श्रीरूपोऽयं भवेद्ध्रुवम् ॥ ३६३ ॥

सुरोत्तमटीका

एतद्विशेषणत्रयं षड्गुणसंयुतत्वाप्राकृतत्वसुरवन्द्य-त्वाख्यम् ॥ ३६३ ॥

युक्तिमल्लिका

पठन्सहस्रनामानि शम्भुब्रह्मोर्ध्वधामगः ।

इति यं धूर्जटिः स्तौति किं तद्धाम विचार्यताम् ॥३६४॥

सुरोत्तमटीका

पठन्धूर्जटिरिति सम्बन्धः । यं लोकं स्तौति शम्भु-ब्रह्मणोरूर्ध्वत्वेन स्तौति ॥ ३६४ ॥

सत्यप्रमोदटीका

ऊर्ध्वेति ब्रह्मरुद्रापेक्षया गुणैरुत्कृष्टलक्ष्म्यात्मकेत्यर्थः ॥ ३६४ ॥

युक्तिमल्लिका

शम्भुब्रह्मोर्ध्वता धाम्नस्ताभ्यामुत्तमतैव हि ।

अहङ्कारात्मकाच्छंभोर्ब्रह्मणो महदात्मकात् ।

न हि वैकुण्ठपूरुर्ध्वं तद्गुणैरेव सोपरि ॥ ३६५ ॥

सुरोत्तमटीका

ताभ्यां शम्भुब्रह्मभ्याम् । ननु शम्भुब्रह्मभ्यामूर्ध्वभागे स्थितत्वादेवोर्ध्वत्वमस्तु । उत्तमत्वं कुत इत्यत आह ॥ अहंकारात्मका-दिति ॥ तत्तस्मात् ॥ ३६५ ॥

सत्यप्रमोदटीका

सा पूः ॥ ३६४,३६५ ॥

युक्तिमल्लिका

ब्रह्मादयो बहुतिथमिति भागवतोक्तितः ।

ब्रह्मादिभ्यो गुणैरुच्चा यच्छ्रीरेव हरेः प्रिया ।

एवञ्च लक्ष्मीरूपत्वं लोकस्य न कथं वद ॥ ३६६ ॥

सुरोत्तमटीका

ब्रह्मादयो बहुतिथमित्यनेन

ब्रह्मादयो बहुतिथं यदपाङ्गमोक्ष

कामा यथोक्तविधिना भगवन्प्रपन्नाः ।

सा श्रीस्स्ववासमरविन्दवनं विहाय

यत्पादसौभगमलं भजतेऽनुरक्ता ॥

इति भागवतवाक्यं सङ्गृह्णाति । भगवन्निति धर्मं प्रति धरायास्सम्बुद्धिः । अस्मिन्हि श्लोके ब्रह्मादिभ्यो लक्ष्म्या उत्तमत्वं प्रतिपाद्यते । तस्याश्च नारायणस्य । अतश्शम्भुब्रह्मोर्ध्वत्वेनोच्यमानं वैकुण्ठाख्यं धाम लक्ष्म्यात्मक-मेवेति भावः ॥ ३६६ ॥

सत्यप्रमोदटीका

उक्तोत्कृष्टत्वे भागवतं प्रमाणयति ब्रह्मादय इति । ‘यदपाङ्गमोक्षकामा यथोक्तविधिना भगवत्प्रपन्नाः सा श्रीः’ इत्यादिवाक्यशेषः ॥ ३६६ ॥

युक्तिमल्लिका

हरेरनुव्रता एव मुक्तास्तत्रापि ते किल ।

सर्वे चतुर्बाहवश्च श्यामकोमलमूर्तयः ॥ ३६७ ॥

मणिप्रवेकाभरणा निष्ककण्ठाः सुवर्चसः ॥ ३६८ ॥

श्रीवत्सकौस्तुभाभावात्पूर्णशक्त्याद्यभावतः ।

विलक्षणाः परं सर्वेऽप्याकारे सदृशाः किल ॥ ३६९ ॥

जगद्व्यापारवर्जं च विना श्रीवत्सकौस्तुभौ ।

इति सूत्रे भागवते चोक्त्या विष्णोर्विलक्षणाः ॥ ३७० ॥

सुरोत्तमटीका

अस्तु वैकुण्ठस्य मायातिदूरत्वं लक्ष्म्यात्मकत्वं च । तथापि प्रकृते किमायातमित्यत आह ॥ हरेरिति ॥ अनेन

न वर्तते यत्र रजस्तमस्तयोस्सत्वं च मिश्रं न च कालविक्रमः ।

‘‘न यत्र माया किमुता परे हरेरनुव्रता यत्र सुरासुरार्चिताः ।

श्यामावदाताश्शतपत्रलोचनाः पिशङ्गवस्त्रास्सुरुचस्सुपेशसः ।

सर्वे चतुर्बाहव उन्मिषन्मणिप्रवेकनिष्काभरणास्सुवर्चसः ।

प्रवालवैडूर्यमृणालवर्चसां परिस्फुरत्कुण्डलमौलिमालिनाम् ।

भ्राजिष्णुभिर्यत्परितो विराजते लसद्विमानावलिभिर्महात्मनाम् ।

विद्योतमानप्रमदोत्तमाभिस्सुविद्युदभ्रावलिभिर्यथा नभः ।

श्रीर्यत्र रूपिण्युरुगायपादयोः करोति मानं बहुधा विभूतिभिः ॥’’

इति भागवतश्लोकानर्थतस्सङ्गृह्णाति ॥ ३६७–३७० ॥

सत्यप्रमोदटीका

मुक्तस्थानवर्णनपरान् अनुव्याख्यानोदाहृतान् भागवतश्लोकानर्थतः सङ्गृह्णाति हरेरित्यादिना ।

न यत्र माया किमुतापरे हरेरनुव्रता यत्र सुरासुरार्चिताः ।

श्यामावदाताः शतपत्रलोचनाः पिशङ्गवस्त्राः सुरुचः सुपेशसः ।

सर्वे चतुर्बाहव उन्मिषन्मणिप्रवेकनिष्काभरणाः सुवर्चसः ।

प्रवालवैदूर्यमृणालवर्चसां परिस्फुरत्कुण्डलमौलिमालिनाम् ।

भ्राजिष्णुभिर्यः परितो विराजते लसद्विमानावलिभिर्महात्मनाम् ।

विद्योतमानप्रमदोत्तमाभिः सविद्युदभ्रावलिभिर्यथा नभः ।

श्रीर्यत्र रूपिण्युरुगायपादयोः करोति मानं बहुधा विभूतिभिः ॥

असुराः साधवः सन्ति । अवदाता निर्मलाः । उन्मिषदिति । रश्मिमद्रत्नप्रवरहाराभरणा इत्यर्थः ॥ सारूप्यं न सर्वात्मनेत्याह श्रीवत्सेति । ‘श्रीवत्सलक्ष्मं गलशोभिकौस्तुभं’ इति तद्धारकत्वस्य परमात्मनः स्वरूप-लक्षणत्वोक्तेः ॥ विलक्षणाः ‘सर्वत्राखिलसच्छक्तिः स्वतन्त्रोऽशेषदर्शनः’ इति । इत्युक्तभगवद्धर्मविलक्षणधर्माः । नित्यम् अतादृशा इत्यर्थः ॥ ३६७–३७० ॥

युक्तिमल्लिका

इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः ।

सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ।

इति गीतासु ये प्रोक्तास्त एते योगिनः किल ॥ ३७१ ॥

सुरोत्तमटीका

एवं च भागवतोक्तं संसारदशायाम् । श्रीवत्सकौस्तुभौ विना विद्यमानैष्षोडशकलाभिर्विमानिभिर्मुक्तदेवैरुपासीनमित्युक्त्या मुक्तस्वरूप-निरूपकसूत्रे मुक्तानां जगत्सृष्ठ्यादिव्यापारशून्यत्वोक्तया चानुभूयमानत्वाज् ज्ञानैकसाध्यं शुकवामदेवादीनां जीवन्मुक्तिदशायां च न साधारणान्य-स्वयोग्यबहुतरभगवद्धर्माकारसादृश्याख्यसारूप्यमेव गीतोक्तं साधर्म्यमपि । न तु सर्वधर्मसाधर्म्यमिति भावेनाह ॥ इदं ज्ञानमिति ॥ एते भागवतोक्ताः । अत एव गीतायामपि सर्वसादृश्यं नेति सूचनाय स्वयोग्यभगवद्धर्मसदृश-धर्मान्तरोपलक्षणतया सर्गप्रलयाभावयोरेव निरूपणम् ॥ ३७१ ॥

सत्यप्रमोदटीका

किञ्चित्साधर्म्यमेवेत्यत्र गीतां संवादयति इदमिति ॥ ३७१,३७२ ॥

युक्तिमल्लिका

एवं च जननाभावान्मरणाभावतस्तथा ।

जडदेहाद्यभावाच्च दुःखाभावाच्च सर्वदा ॥ ३७२ ॥

ज्ञानानन्दमयाकारा नित्यं च सुखभुक्त्वतः ।

मुक्तिर्विलक्षणा बन्धाज्जीवाः सर्वे द्वयोः समाः ।

त्रिविधाः सन्ति संसारे शुद्धा एव विमुक्तिगाः ॥ ३७३ ॥

सुरोत्तमटीका

एतदेव दर्शयति ॥ एवं चेति ॥ इदं च चतुर्बाहुत्वा-द्याकाराभरणादिसादृश्यस्याप्युपलक्षणम् । द्वयोर्बन्धमोक्षयोः । इयांस्तु विशेष इत्याह ॥ त्रिविधा इति ॥ त्रिविधा मुक्तियोग्यास्तमोयोग्या नित्यसंसारिण-श्चेति । शुद्धाश्शुभजीवाः ॥ ३७२,३७३ ॥

सत्यप्रमोदटीका

योगिन इत्यनेन ज्ञानानन्दमयाकारा इत्येतत्सम्ब-न्ध्यते । स्वरूपानन्दस्याभिव्यक्तिर्मुक्तौ । तदभावो बन्धे इति हेतोर्मुक्ते-र्बन्धाद्वैलक्षण्यमित्याह नित्यमिति । जीवा मुक्तियोग्या देवर्षिप्रितृपनरा इति तत्त्वसङ्ख्यानोक्ताः । ‘इति मुक्तास्तु पञ्चधा । एवं विमुक्तियोग्याश्च’ इति कथनेन लब्धमर्थमाह समा इति । उभयेऽपि पञ्चधैवेत्यर्थः । त्रिविधा इति ‘त्रिविधा जीवसङ्घास्तु देवमानुषदानवा’ इति भगवत्पादोदाहृतभविष्य-त्पर्ववचनात् ॥ ३७३ ॥

युक्तिमल्लिका

अश्वो मान्यो गजो मान्यो धेनुर्मान्या दिवौकसाम् ।

वृक्षः कल्पतरुर्मान्यः सर्पो मान्यो हरेः प्रियः ॥ ३७४ ॥

सुरोत्तमटीका

पशुपक्ष्यादियोनीनां हीनयोनित्वं स्वर्गस्थजगत्पूज्यपशु-पक्ष्यादिनिदर्शनेन परिहरन् वैकुण्ठपुरेपि पुरोचिताप्राकृतज्ञानानन्दात्मकनाना-जीवसद्भावमनुभवारूढं करोति ॥ अश्व इत्यादिना ॥ अश्व उच्चैश्श्रवाः । गज ऐरावतः । धेनुः कामधेनुः । सर्पश्शेषः ॥ ३७४ ॥

सत्यप्रमोदटीका

अत्र रामानुजीया आहुः । ‘स्वरूपतः श्वसूकरत्वं श्लाघ्यमित्यत्र नियामकाभावादि’त्यादि । तत्खण्डयति अश्व इत्यादिभिः । नियामकाभावोऽसिद्धः । ‘पारावतान्यभृतसारसचक्रवाकदात्यूहहंसशुकतित्तिरि-बर्हिणां यः’ इत्यादिना नानाजातीयानां वैकुण्ठे सद्भावस्य भागवते वर्णितत्वात् ‘ज्योतिर्मयेषु देहेषु स्वेच्छया विश्वमोक्षिणः । भुञ्जते सुसुखान्येव’ इति ब्रह्मवैवर्ते, कल्याणतरं रूपं कुरुते इत्यादिश्रुतिषु च तेषां श्लाघ्यत्वस्य वर्णितत्वादित्यभिप्रेत्याह मान्य इति । दिवौकसामित्येतत्प्रत्येकम् अश्व इत्यादिना सम्बन्ध्यते । स्वर्गे विद्यमानाः प्राकृतदेहसम्बन्धवन्तोऽपि यदा श्लाघ्याः किमु तदा अप्राकृतविष्णुलोकस्था इत्याह पूज्यतेति ॥ ३७४–३७७ ॥

युक्तिमल्लिका

पक्षी विष्णुरथो मान्यो लोको मान्यो हि योऽर्थ्यते ।

स्त्रियश्चाप्सरसो मान्याः श्वानावपि च नाकिनाम् ॥३७५॥

सुरोत्तमटीका

लोको ऽमरावत्याख्यो लोकः । अर्थ्यते यज्ञादिभिः प्रार्थ्यते ॥ ३७५ ॥

युक्तिमल्लिका

मान्यौ किल श्यामनामा शबलाख्यश्च यः श्रुतः ।

भूलोके स्थितपश्वादेः स्वर्गलोके स्थिते यदा ॥ ३७६ ॥

सुरोत्तमटीका

श्रुतः यौतेश्वानौ यमरक्षितारौ चतुरक्षौ पथि रक्षीनृ-चक्षसावित्यादिश्रुतिप्रतिपादितः । स्वर्गलोकस्थिते पश्वादौ॥३७६ ॥

युक्तिमल्लिका

पूज्यता प्राकृतेऽप्यर्थे तदा विष्णोस्त्रिधामसु ।

स्थितानां शुद्धसत्त्वानां ज्ञानानन्दस्वरूपिणाम् ।

श्रुतिस्मृतीतिहासाद्यैः स्तुतानां किं न पूज्यता ॥ ३७७ ॥

उत्तरोत्तरवस्तूनामुत्तमोत्तमतोचिता ।

मुकुन्दनगरीस्थानां मुक्ततैव गुणोचिता ॥ ३७८ ॥

सुरोत्तमटीका

यदा श्यामशबलाख्यौ श्वानावपि वैश्वदैविके कर्मण्य-द्यापि गृहस्थैर्देवता पङ्क्तावेव पूज्येते तदा किमु वक्तव्यं स्वर्गस्थयोन्यंतरपूज्यतेति भावेनोक्तं पूज्यता प्राकृतेऽप्यर्थ इति । प्राकृते हीनप्रकृत्यंशनिर्मिते । अर्थे श्वानाख्यार्थे

॥ ३७७,३७८ ॥

युक्तिमल्लिका

दिव्या दिव्यतटाकेषु दिव्या दिव्यवनेषु च ।

दिव्या दिव्यनगर्यां च दिव्यज्ञानसुखात्मकाः ॥ ३७९ ॥

मत्स्याद्या मृगपक्ष्याद्या हस्त्यश्वरथपूर्वकाः ।

अर्थास्तत्तदलङ्कारमत्स्यकूर्मादिरूपिणः ।

विष्णोराकृतिवत्स्वस्थाः सन्ति चेत्सन्तु किं तव ॥३८०॥

सुरोत्तमटीका

तत्तदलङ्कारास्तत्तद्वनसरोवराद्यलङ्काराः । मत्स्य-कूर्मादिरूपिणो मत्स्यकूर्माद्यवतारवतः ॥ ३७९,३८० ॥

सत्यप्रमोदटीका

विष्णोराकृतिवत् । मत्स्यादिरूपवत् । तत्र हेतुर् दिव्यज्ञानसुखात्मका इति । अप्राकृतत्वमात्रे दृष्टान्तः ॥ ३८० ॥

युक्तिमल्लिका

श्रुत्या स्मृत्या च या वर्ण्या सा शून्या पूर्न वैष्णवी ॥ ३८१ ॥

सुरोत्तमटीका

पूः पुरी । वनोपवनसरोवरगृहगोपुराद्याक्रान्तवैकुण्ठ-नगरीति श्रुतिपुराणादौ प्रसिद्धम् । एतादृशी च नगरी तत्तदुचितसकलवस्तुभिः परिपूर्णैव भवेत् । अन्यथा शून्यनगरीत्वप्रसङ्गात् । तानि च वस्तूनि । मत्स्य-कूर्मवराहशिंशुमारादिरूपिणो हरेस्सकलजगत्पूज्यचिदानन्दमयदिव्याकार-वज्ज्ञानानन्दमयदिव्यरूपाणि चेति का हानिरिति भावः ॥ ३८१ ॥

सत्यप्रमोदटीका

श्रुत्या ॐ सङ्कल्पादेव तु तच्छ्रुतेर् इति सूत्रोपात्तया स्मृत्या ‘अमृतं क्षेममभयं त्रिमूर्ध्नोऽधायि मूर्धसु’ ‘तद्धाम परमं मम’ इत्यादि-कया ॥ ३८१ ॥

युक्तिमल्लिका

पूर्णा पुरोचितैः सत्त्वैः सुपुरत्वाद्धरेः पुरी ।

यथा संप्रतिपन्नेति किं न स्यादनुमा मम ॥ ३८२ ॥

सुरोत्तमटीका

उक्तार्थेऽनुमानानि रचयति ॥ पूर्णेत्यादिना ॥ सम्प्रति-पन्ना अमरावती । शून्यपुरव्यवच्छेदाय सुपुरत्वादित्युक्तम् ॥ दिव्यपुर्यां परमशोभनवस्तुलाभाय पुरोचितैरित्युक्तम् ॥ ३८२ ॥

सत्यप्रमोदटीका

हरेः पुरी वैकुण्ठस्था अयोध्या । पूर्णा गन्धमाल्या-दिभिः सङ्कल्पमात्रोपस्थितैः । सत्त्वैर् मुक्तपशुपक्ष्यादिभिः । संप्रतिपन्ना रामचन्द्रेण परिपाल्यमाना अयोध्या । सुपुरत्वात् प्रत्यक्षेण परमात्म-नाऽधिष्ठितत्वात् । न च दृष्टान्तः साध्यविकलः । अयोध्यास्थानां गर्दभ-पिपीलिकादीनामपि सन्निहितनिश्चितमुक्तिपदत्वाद् इति तात्पर्यनिर्णयोक्तेः

॥ ३८२ ॥

युक्तिमल्लिका

स सत्त्वराशिर्मुक्तत्वव्याकोपस्य न कारकः ।

प्रकृष्टत्वाद्यथा विष्णोर्मत्स्याद्या व्यक्तिराशयः ॥ ३८३ ॥

सुरोत्तमटीका

सः वैकुण्ठपुर्यां विद्यमानः । सत्वराशिः प्राणिसमूहः ॥ ३८३ ॥

सत्यप्रमोदटीका

सः मुक्तौ विद्यमानः । सत्त्वराशिः पिपीलि-काऽऽदिः । मुक्तत्वव्याकोपस्य न कारकः । प्रकृतिबन्धरहिता एवेति यावत् । तदुक्तं तत्रैव ‘ते जरामृतिहीनाश्च सर्वदुःखविवर्जिताः । संसारमुक्ता न्यवसंस्तत्र नित्यसुखाधिकाः’ । यथा विष्णोरिति । सर्वत्र अधिकदृष्टान्त इति । निर्दुःखत्वादिनैव साम्यम् ॥ ३८३ ॥

युक्तिमल्लिका

प्रकृष्टश्च स संसारदूरत्वात्तद्वदेव हि ।

दुःखमेव हि संसारे ततः क्वानुपपन्नता ।

तच्च मायात्ययस्थानस्थत्वात्तद्वत्प्रसिद्ध्यति ॥ ३८४ ॥

सुरोत्तमटीका

सः सत्वसमूहः । तद्वद् भगवदवतारराशिवत् । ततो दुःखरूपसंसाराभावात् । तद्दुःखाख्यसंसारदूरत्वम् । मायात्ययस्थानस्थत्वा-न्मायात्यन्ताभावस्थाने वैकुण्ठे स्थितत्वात् । विरजानद्यां जीवबन्धकलिङ्ग-शरीरादिसंसारध्वंसनियमेन मायाध्वंसोचितस्थानस्थितत्वाद्वा । तद्वद्वैकुण्ठस्थ-भगवद्रूपवत् ॥ ३८४ ॥

सत्यप्रमोदटीका

साम्यमेव विशदयति संसारदूरत्वादिति । अविवक्षितविशेषसंसारसंसर्गाभाववत्त्वात् । अभावश्च दृष्टान्ते अत्यन्ताभावः । पक्षे ध्वंसः । तच्च संसारदूरत्वम् । स्थानस्थत्वादिति । अत्रापि पूर्ववद्वि-वेक्तव्यम् । परमात्मनः नित्यं स्थितिः । मुक्तानां तु मुक्त्यनन्तरमिति ॥३८४॥

युक्तिमल्लिका

भिन्ना मिथः परेशाच्च मुक्ता विसदृशत्वतः ।

सत्त्वराशिर्यथाऽत्रत्यो यथा वा राजतद्भटौ ॥ ३८५ ॥

सुरोत्तमटीका

विसदृशत्वहेतुना वैकुण्ठस्थपशुपक्ष्यादिजीवानां परस्पर-भेदसाधनेऽत्रत्यस्सत्वराशिर्दृष्टान्तः । तेनैव हेतुना तत्रापि जीवपरयोर्भेदसाधने राजतद्भटौ दृष्टान्ताविति विवेकः । वैकुण्ठस्थानामेकजातीयानां मृगमीन-मनुष्यादीनामन्योन्यसमानाकाराणां बाह्यवैसादृश्याभावेऽपि स्वस्वरूपानन्दस्य स्वेन स्वेनैवानुभूयमानत्वलक्षणान्तरवैसादृश्यात्तेषामपि परस्परं भेदोऽनुमातव्यः ॥ ३८५ ॥

सत्यप्रमोदटीका

यथाऽत्रत्यः श्रीरामाधिष्ठितायोध्यास्थः । ‘गुणैश्च सर्वैरुदिताश्च सर्वे यथा यथा योग्यतयोच्चनीचाः’ इति निर्णयोक्तेः ॥ ३८५ ॥

युक्तिमल्लिका

प्रकृष्टसत्त्वराशित्वादित्याह स्मृतिरेव यत् ।

प्रकृष्टः सत्वराशिश्च यस्यासौ हि तथाऽभिधः ॥ ३८६ ॥

तत्कुतर्ककुवाक्येभ्यो न बिभ्यत्यनुमा इमाः ।

अतोऽनुमानमालेयं तामलङ्कुरुते पुरीम् ॥ ३८७ ॥

सुरोत्तमटीका

तद्वैकुण्ठस्थसत्वराशीनां प्रकृष्टत्वस्योक्तपञ्चरात्रवाक्येनैव सिद्धत्वात् । विमतस्सत्वराशिः प्राकृतो भवितुमर्हति सत्वराशित्वात्सांसारिक-सत्वराशिवदित्यादिकुतर्केभ्यो ब्रह्मातिरिक्तं किमपि नास्तीत्यादिकुत्सितवादि वाक्येभ्यश्च । ‘‘पञ्चरात्रस्य कृत्स्नस्य वक्ता नारायणस्स्वयम् । ज्ञानेष्वेतेषु राजेन्द्र सर्वेष्वेतद्विशिष्यत’’ इति भारतोक्त्या पञ्चरात्रस्य सर्वप्रमाणज्येष्ठत्वेन तदुक्तार्थस्य त्यागायोगादिति भावः ॥ ३८६,३८७ ॥

सत्यप्रमोदटीका

स्मृतिः पञ्चरात्रम् ॥ माला आगमानुग्रहसौरभसमृद्धा ॥ ३८६,३८७ ॥

युक्तिमल्लिका

श्रीरेव लोकरूपेण विष्णोस्तिष्ठति सर्वदा ।

अतो हि वैष्णवा लोका नित्यास्ते चेतना अपि ॥ ३८८ ॥

सुरोत्तमटीका

उक्तेऽर्थे स्पष्टं प्रमाणान्तरवचनद्वयमप्याह ॥ श्रीरेवेति ॥ अतश्श्रीरूपत्वात् । वैष्णवलोका विष्णुसम्बन्धित्वेन प्रसिद्धा वैकुण्ठानन्तासन-श्वेतद्वीपाख्यलोकाः । त्रिधामेति हि भगवतः पुण्यनाम ॥ ३८८ ॥

सत्यप्रमोदटीका

व्यत्ययः कर्मवेगेन अन्यथारूपम् । मुक्ताविति । ‘मुक्तिर्हित्वाऽन्यथारूपं स्वरूपेण व्यवस्थितिरि’ति लक्षणवत्यामित्यर्थः ॥ ३८८,३८९ ॥