०८ मुक्तानां बहुत्वे साकारत्वे तारतम्ये श्रुतयः

यज्ञेन यज्ञमयजन्तेति वेदवचस्यपि

मुक्तानां बहुत्वे साकारत्वे तारतम्ये श्रुतयः

युक्तिमल्लिका

यज्ञेन यज्ञमयजन्तेति वेदवचस्यपि ।

उक्तोऽयमर्थो विस्पष्टं ततो मुक्ताः सहस्रशः ।

सन्ति नैकत्वमेतेषां यतोऽत्रानेकतोच्यते ॥ २३६ ॥

तेषु पूर्वे पूर्वमुक्ताः पश्चान्मुक्तास्तथापरे ।

ज्ञातयोऽज्ञातयश्चेति ते मुक्ताः क्वचिदीरिताः ॥ २३७ ॥

सुरोत्तमटीका

इदानीं मुक्तानां बहुत्वे साकारत्वे तारतम्ये च श्रुतीराह ॥ यज्ञेनेत्यादिना ॥ यत्र नाकपदोदितमोक्षे पूर्वे साध्यादेवास्सन्ति । तत्र ते यज्ञनामकभगवत्पूजका देवाश्च सचन्तेत्युक्त्या मुक्तौ पूर्वापरत्वाक्रान्त-बहुदेवतासिद्धिरिति भावः ॥ क्वचित्परंज्योतिरुपसम्पद्येति श्रुतौ । सहमुक्ता ज्ञातयः । अन्ये मुक्ता अज्ञातयः ॥ २३६,२३७ ॥

सत्यप्रमोदटीका

‘यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमा-न्यासन् । ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ।’ इति वाक्येन मुक्तबहुत्वसिद्धिः, बद्धमुक्तव्यवस्था इत्यादिकं सिध्यतीत्याह तत इति । नाकशब्दस्य दुःखराहित्यविशिष्टसुखवाचित्वं च ‘अप्रियं वृजिनं दुःखमकं तोद इतीरितमि’त्यनुव्याख्यानेन बोध्यम् । ‘ज्ञातिभिर्वाऽज्ञातिभिर्वा’ इति श्रुत्या मुक्तेष्वेव विभेद उक्त इत्याह ज्ञातय इति । सहमुक्ता इत्यर्थः ॥ पूर्वं मुक्ता अज्ञातयः ॥ २३६,२३७ ॥

युक्तिमल्लिका

सखायः किल ते सर्वे मुक्तावपि मनोजवे ।

असमाः स्वच्छरूपत्वाद् ह्रदा इव मनोहराः ॥ २३८ ॥

सुरोत्तमटीका

अक्षण्वन्तःकर्णवन्तस्सखायो मनोजवेष्वसमा बभूवुः ॥ आदघ्नास उपकक्षास उत्वे ह्रदा इव स्नात्वा उत्वे ददृश्र इति श्रुतेरभिप्रायमाह ॥ सखाय इत्यादिना ॥ ते मुक्तास् त्वे केचिन्मुक्तास्स्नात्वा स्नानयोग्या हृदा इव मनोहरा उ एव ददृश्रे ददृशिर इति श्रुतिखण्डार्थसूचनम् । हृदा इव मनोहरा इति दर्शनस्य स्वाभिन्नतां सूचयितुं श्रुतौ संश्लिष्टोच्चारणम् । उपलक्षणं चैतत् । केचिन्मुक्ता उपसमीपे कक्षं वनं येषां ते उपकक्षास्त एवोपकक्षा-सश्श्वेतद्वीपस्थोपवनादौ विहरन्त उ एव ददृशिरे । त्वे केचिन्मुक्ता आदघ्नास आ कण्ठपर्यन्तं कटिपर्यन्तं वा दघ्नं प्रमाणं यस्य । श्वेतद्वीपं परितो विद्यमानस्य क्षीरसमुद्रस्य । अर्शवानर्श इतिवत्तद्वन्त आदघ्नासः । क्षीर-समुद्रजले यथासुखं विहरन्त उ एव ददृशिर इति पदद्वयस्याप्यर्थो द्रष्टव्यः ।

एवं चादघ्नास इति विशेषणेन लोकसमीपस्थानां सामीप्यमुक्तानामुदा-हरणम् । उपकक्षास इत्यनेन लोकान्तस्थितसालोक्यमुक्तानामुदाहरणम् । हृदा इवेति तृतीयविशेषणेनातिगभीराणामपि पवित्राणामत्यन्तमनोहराणां च भगवतः करचरणाद्यङ्गाश्रितदेवादीनां सायुज्यमुक्तानामुदाहरणमिति विभागः । अनेनैव प्रकारेण वैकुण्ठलोकसमीपस्थसान्तानिकादिलोकेषु अनन्तासनलोक-समीपस्थघनोदके च रममाणास्सामीप्यमुक्ता लोके लोकस्थभगवदङ्गेषु च रममाणास्सालोक्यमुक्तास्सायुज्यमुक्ताश्च द्रष्टव्याः ।

सारूप्यन्तु यद्यपि सर्वेषां च मुक्तानामस्ति । निर्दुःखत्वनित्यज्ञानत्व-मुक्तत्वादिभगवद्धर्मसमानधर्मवत्त्वरूपसारूप्यस्याभावे समीपस्थत्वादिमात्रस्य सुखप्राप्तिदुःखनिवृत्त्योरन्यतरत्वस्याप्यभावेन सामीप्यादिभाजां त्रयाणामपि मुक्तत्वायोगात् । तथापि स्वर्गादिसमीपस्थप्रदेशेषु रममाणा मुक्तास्तस्या-सङ्कीर्णोदाहरणम् । तच्चान्यत्रोक्तरीत्या द्रष्टव्यम् ॥ २३८ ॥

सत्यप्रमोदटीका

‘अक्षण्वतः कर्णवन्तः सखायः मनोजवेष्वसमा बभूवुः । आदघ्नास उपकक्षास उत्वे ह्रदा इव स्नात्वा उत्वे ददृश्रे । इत्यादीनि च वाक्यानि तारतम्यं विमुक्तिगम् । व्यक्तं वदन्ति तत्केन साम्यं मुक्तेषु गम्यते’ । (३-४-१६) इत्यनुव्याख्यानदिशा श्रुतिं व्याख्याति सखाय इति । ‘श्रुत्वा विष्णुं कर्णफलं प्राप्तत्वात्कर्णसंयुताः । अक्षण्वन्तो दर्शनाच्च विष्णो-र्मुक्ताश्च ये गणाः । तारतम्यं च तेषां च श्रुतावुदितमञ्जसा । क्षीरसागरदघ्नास्तु केचित्तिष्ठन्ति मुक्तिगाः । उपस्थिता ब्रह्मवनं केचिदश्वत्थमण्डलम् । ऐरे ह्रदे केचिदपि देवा एव सदा हरिम् । नागभोगशयं मुक्ता ददृश्रेऽधिकमोदिनः । सागरादिस्थिता विष्णुं पश्यन्ति क्वचिदेव हि’ इति ऐतरेयभाष्योक्तस्मृत्याऽस्य मन्त्रस्यार्थो ज्ञेयः । ‘क्षीरसागरदघ्नाः’ इति सामीप्यमुक्तिः । ‘उपस्थिता’ इति सालोक्यम् । ‘ऐरे ह्रदे’ इति सायुज्यम् । इत्येवं तारतम्योक्तिः ॥ २३८ ॥

युक्तिमल्लिका

मनोज्ञकर्णवन्तश्च मनोज्ञाक्ष्यादिसुन्दराः ।

प्रत्ययो यत्प्रकृत्यर्थप्राशस्त्यं च वदेत्किल ॥ २३९ ॥

प्रशस्तता च कर्णादेर्ज्ञानानन्दात्मतैव हि ।

अतो निराकारतैषां नैव वाच्या कदाचन ।

श्रोत्रनेत्रफलस्याप्तेरपि ते तत्पदोदिताः ॥ २४० ॥

स्पष्टैतद्वाक्यबलतो यत्र त्वस्येति वागपि ।

उक्तरीत्या तर्कमुद्रामाश्रित्यैवेति गम्यते ॥ २४१ ॥

सुरोत्तमटीका

अक्षण्वन्तःकर्णवन्त इत्येतत्पदद्वयमङ्गान्तरस्याप्युप-लक्षणमिति भावेन तदर्थमाह ॥ मनोज्ञेति ॥ आदिपदेन करचरणादि-सर्वावयवा गृह्यन्ते । कर्णनेत्रसौन्दर्यस्य सर्वावयवसाचिव्ये सत्येव सम्भवादिति भावः । प्रत्ययो मतुप्प्रत्ययः । एषां मुक्तानाम् ॥ २३९–२४१ ॥

सत्यप्रमोदटीका

प्रत्यय इति ‘भूमनिन्दाप्रशंसासु भवन्ति मुतबादयः’ इत्युक्तमतुप्प्रत्ययः ॥ तर्केति ‘यदि भेदो न स्याद् भोग एव न स्यादि’त्यादि तर्केत्यर्थः ॥ २३९–२४१ ॥

युक्तिमल्लिका

मुक्तिकाले यतस्तेषां महिमान इति श्रुतौ ।

महिमोक्तः शून्यभावो मुक्तानामुचितो न तत् ॥ २४२ ॥

सुरोत्तमटीका

महिमान इति श्रुतौ ‘‘तेह नाकं महिमान’’ इति श्रुतौ । तत्तस्मात् ॥ २४२ ॥

सत्यप्रमोदटीका

न चेष्टापत्तिः ‘महिमानः सचन्त’ इति भोगादि-रूपमहिम्नः प्रमितत्वाद् इत्याह महिमान इति ॥ २४२ ॥

युक्तिमल्लिका

नन्दन्ति किल ते सर्वे क्लेशलेशश्च तेषु न ।

अतो मुक्तकथैवेयं तत्पूर्वा वाक्च मौक्तवाक् ॥ २४३ ॥

सुरोत्तमटीका

नन्वस्य प्रकरणस्य मुक्तपरत्वं कुत इति चेत्सर्वे नन्दन्तीत्युत्तरवाक्यबलादित्याह ॥ नन्दन्तीति ॥ न हि मुक्तेरन्यत्र सर्वे नन्दन्तीति घटते । उपलक्षणं चैतत् । सखाय इति पदेनोक्तसर्वसख्यस्य ‘‘ऋचां त्व’’ इति श्रुत्युक्तब्रह्मबाहुल्यस्य च मुक्तेरन्यत्रायोगात्तदपि ग्राह्यम् । अतो मुक्तकथैवेयमिति भावः । तत्तस्मात् । पूर्वा वाक् अक्षण्वन्त इति वाक्

॥ २४३ ॥

सत्यप्रमोदटीका

नन्दन्तीत्युत्तरश्रुतिबलान्मुक्तत्वनिश्चय इत्याह अत इति । पूर्ववाक् ‘अक्षण्वन्त’ इति वाक् मौक्ता मुक्तसम्बन्धिनी ॥ २४३ ॥

युक्तिमल्लिका

परञ्ज्योतिरुपप्राप्य निष्पन्ननिजरूपवान् ।

पर्येति मुक्तिस्थानेषु स्त्रीभिर्यानैश्च संयुतः ॥ २४४ ॥

रममाणो हसन् क्रीडन् ज्ञात्यज्ञातिजनैः सह ।

इति मुक्तस्य सौभाग्यं श्रुतिराह पदे पदे ॥ २४५ ॥

अतो द्वितीयशून्यत्वमद्रष्टृत्वमवक्तृताम् ।

अश्रोतृत्वं श्रुतिप्रोक्तचित्रभोगेष्वभोक्तृताम् ॥ २४६ ॥

सुरोत्तमटीका

परञ्ज्योतिरिति श्रुत्यापि मुक्तसौभाग्यं प्रदर्शयन् स्पष्ट-दृष्टबहुतरनिरवकाशमेकं वाक्यं न पराभिप्रेतं बाधितमर्थं ब्रूत इत्याह ॥ परञ्जोतिरित्यादिना ॥ २४४–२४६ ॥

सत्यप्रमोदटीका

‘परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते । जक्षन् क्रीडन् रममाणः स्त्रीभिर्वा यानैर्वा ज्ञातिभिर्वाऽज्ञातिभिर्वा’ इति श्रुति-र्मुक्तिमहिमानं वर्णयन्ती ‘यत्र त्वस्येति’ श्रुतेः परोक्तं निर्विशेषभावपरत्वं पराचष्टे इत्याह परमिति । न चेयम् अपरममुक्तिविषया । शङ्कराचार्यैरपि परममुक्तिविषयतापरतया व्याख्यातत्वात् । विस्तरो भे.प.ब्र.सूत्राणि इति ग्रन्थे ॥ भोगेषु विषयसप्तमी ॥ २४४–२४६ ॥

युक्तिमल्लिका

शून्यवाद्युक्तमोक्षाभां मुक्तिं को नाम वैदिकः ।

ब्रूयाच्छ्रुतिं बाधितार्थां स्पष्टश्रुतिसमाख्यया ।

योग्यार्थे प्रणयेन्नो चेन्मीमांसा किं निबन्धना ॥ २४७ ॥

अतश्छन्दसि मर्यादामेवमेवेति शाब्दिकः ।

नैवाह शब्दव्यत्यासं विभक्तिव्यत्ययादि च ।

अबाधितार्थलाभार्थमेव प्राह पदे पदे ॥ २४८ ॥

सुरोत्तमटीका

श्रुतिं यत्रत्वस्येति श्रुतिम् ॥ २४७,२४८ ॥

सत्यप्रमोदटीका

बाधितार्थां समाख्यया बाधितः परोक्तोऽर्थः यस्याः सा ताम् ॥ शब्दव्यत्यासं नैवाह । विभक्तिव्यत्ययादि च अबाधितार्थ-लाभार्थमेवाहेति योजना । पदे पदे ‘व्यत्ययो बहुलं छन्दसि’ इत्यादौ ॥ २४७,२४८ ॥

युक्तिमल्लिका

तस्मात्क्वाचित्कैक्यवाक्यमुपादाय बहुश्रुतीः ।

नोपेक्षयेत्तादृगर्थं तस्यैकस्य परं वदेत् ॥ २४९ ॥

सुरोत्तमटीका

तादृगर्थं बहुश्रुत्यनुकूलार्थम् ॥ २४९ ॥

सत्यप्रमोदटीका

उपेक्षयेत् स्वार्थान्न प्रच्यावयेत् । तादृगर्थं बहुश्रुत्यनु-गुणम् ॥ २४९ ॥

युक्तिमल्लिका

व्यत्यासेन व्यत्ययेन वृत्त्या वा लोकसिद्धया ।

कथं मीमांसकस्यार्थः सर्वानुभवबाधितः ॥ २५० ॥

सुरोत्तमटीका

अर्थो मुक्तौ तस्करस्येव श्रोत्रनयनघ्राणहस्तपादादि-राहित्यरूपः ॥ २५० ॥

सत्यप्रमोदटीका

सर्वानुभवबाधित इति । ‘न हि भोगाभावः विज्ञातारमरे केन विजानीयादिति विज्ञातुर्विज्ञानं चापेक्षितमि’ति तत्त्व-निर्णयोक्तेरिति भावः ॥ २५० ॥

युक्तिमल्लिका

यतः साधनवैचित्र्यं देवर्ष्यादिषु दृश्यते ।

अतः फलेऽपि वैचित्र्यं ततो मुक्ताः परावराः ॥ २५१ ॥

सुरोत्तमटीका

अधुना ‘‘सैषानन्दस्य मीमांसा भवती’’ति श्रुतौ मानुषानारभ्य विरिञ्चपर्यन्तं मुक्तावपि स्वरूपानन्दस्यैव तारतम्यकथनान् मुक्तानां तारतम्ये युक्तिमप्याह ॥ यत इति ॥ ततस्साधनवैचित्र्ये सति साध्यवैचित्र्यस्याप्यावश्यकत्वाच्च ॥ २५१ ॥

सत्यप्रमोदटीका

सैषाऽऽनन्दस्य मीमांसा भवति इति ब्रह्मवल्लीश्रुत्या सिद्धे आनन्दतारतम्ये युक्तिमप्याह यत इति । तदुक्तमनुव्याख्याने ‘युक्तं च साधनाधिक्यात्साध्याधिक्यं सुरादिषु । नाधिक्यं यदि साध्ये स्यात्प्रयत्नः साधने कुतः । यतश्च दृश्यते तेषां महानेव महात्मनाम् ॥ यत्र साधनबाहुल्यं साध्यबाहुल्यमत्र च । दृष्टं नियमतो नो चेन्न यत्नं कुर्युरञ्जसा’ इति ॥२५१॥

युक्तिमल्लिका

न चेन्मुक्तौ तारतम्यं कृतहान्यकृतागमौ ।

भवेतां हि महादोषौ भ्रान्ताश्च स्युर्महोद्यमाः ॥ २५२ ॥

सुरोत्तमटीका

विपक्षे बाधकमाह ॥ न चेदिति ॥ २५२ ॥

सत्यप्रमोदटीका

कृतहानिर् उत्तमाधिकारिणाम् । अकृताभ्यागमः मन्दाधिकारिणाम् ॥ २५२ ॥

युक्तिमल्लिका

स्वरूपानन्दवैचित्र्यमीमांसां कुर्वती श्रुतिः ।

मुक्तानां तारतम्यस्यानङ्गीकारे प्रकुप्यति ॥ २५३ ॥

सुरोत्तमटीका

मुक्तानां तारतम्यं मिथो भेदो ऽनवच्छिन्नानन्दतयाऽन्ते कथितात्परमात्मनश्च भेदोऽपि सिद्ध इत्याह ॥ स्वरूपेति ॥ २५३ ॥

सत्यप्रमोदटीका

श्रुतिः ‘अथात आनन्दस्य मीमांसा भवति’ इत्यादिका । मुक्तानां, ‘ते ये शतं’ इति निर्दिष्टानाम् । एवं ‘यतो वाचो निवर्तन्ते’ इति निर्दिष्टस्य ब्रह्मणश्च ॥ २५३,२५४ ॥

युक्तिमल्लिका

यतो वाचो निवर्तन्ते अप्राप्य मनसा सह ।

आनन्दं ब्रह्मणो विद्वान्न बिभेति कुतश्चन ॥ २५४ ॥

इत्यन्तोक्तपरब्रह्मस्वरूपानन्दपङ्क्तिगा ।

सर्वाप्यानन्दमीमांसा सा स्वरूपानन्दगोचरा ॥ २५५ ॥

भवेद्धि सर्वथा नो चेत्प्रायपाठस्य का गतिः ।

प्रायपाठविरोधो हि महान् दोषो विदां मते ॥ २५६ ॥

सुरोत्तमटीका

अव्यवहितोत्तरोपसंहारवाक्ये प्रतिपादितब्रह्मस्वरूपा-नन्दप्रायपठितत्वात्सर्वाप्यानन्दमीमांसा स्वरूपानन्दमीमांसैवेत्याह ॥ यत इति

॥ २५४–२५६ ॥

सत्यप्रमोदटीका

अत्र परब्रह्मानन्दस्तावत्स्वरूपानन्द एवेति सिद्धम् । तस्य नित्यमुक्तस्य प्राकृतानन्दाप्रसक्तेरेव । तत्प्रायपाठेन पूर्वोक्ता मनुष्योत्त-मादयोऽपि मुक्ता एवेति सिध्यतीत्याह इतीति ॥ २५५,२५६ ॥

युक्तिमल्लिका

सत्यज्ञानानन्दपदैरानन्दमयचर्चया ।

उपक्रमेऽपि यद्ब्रह्मस्वरूपानन्द ईरितः ॥ २५७ ॥

सुरोत्तमटीका

उपक्रमेऽपि स्वरूपानन्दस्यैवोपक्रान्तत्वान् मध्येऽपि स्वरूपानन्दमीमांसैव भवेत् । उपक्रमोपसंहारानुगुण्येनैव मध्यप्रकरणस्यापि योजनीयत्वादित्याह ॥ सत्येति ॥ सत्यं ज्ञान (मानन्द)मनन्तं ब्रह्मेत्यप्यु-पक्रमवाक्यस्य शाखान्तरे सत्त्वादिति भावः ॥ २५७ ॥

सत्यप्रमोदटीका

न केवलमुपसंहारस्य किन्तूपक्रमस्य बलेनापि स्वरूपानन्दाध्यवसाय इत्याह सत्येति अनन्तपदोक्तस्यानन्दमयस्य स्वरूपानन्दपूर्णत्वस्यैवोक्तेः । ‘स्वरूपे च युज्यते प्रचुरप्रकाशो रविरिति-वदि’ति भाष्यवचनात् ॥ २५७ ॥

युक्तिमल्लिका

अतो मध्ये कृता चिन्ता स्वरूपानन्दगोचरा ।

भवेदवश्यं संसारमात्रगोष्ठी कथं श्रुतेः ॥ २५८ ॥

सुरोत्तमटीका

युक्त्यन्तरं चाह ॥ संसारेति ॥ सांसारिकसुखे वैराग्यमुत्पाद्य मोक्षसुख एव रतिं जनयित्वा जनान् मोक्षमार्ग एव प्रवर्तयन्ती श्रुतिः कथं सांसारिकसुखमेव वर्णयेदिति भावः ॥ २५८ ॥

सत्यप्रमोदटीका

गोष्ठीति ॥ तेन संसारिमात्रपरतया व्याकुर्वाणं रामानुजीयं भाष्यं प्रलापमात्रमिति ध्वनयति ॥ २५८ ॥

युक्तिमल्लिका

तद्दृष्टान्ततया संसार्यानन्दोऽपि विचार्यते ॥ २५९ ॥

सुरोत्तमटीका

ननु भवन्मतेऽपि ‘‘श्रोत्रियस्य चाकामहतस्ये’’ति मौक्तसुखस्य सर्वत्र पृथगुच्यमानत्वात् स एको मनुष्यगन्धर्वाणामानन्द इत्यादिनोक्ततत्तदानन्दोऽपि मौक्तानन्द इति चेत्सत्यम् । संसारेऽपि तत्त-त्स्वरूपानन्दस्य तादृशत्वाभावे नियमेन क्रमाच्छतोत्तरो बाह्यानन्दोऽपि न स्यात् । तस्माच्छतोत्तरबाह्यानन्दक्रमनिदर्शनेन स्वरूपानन्दमेव सर्वानुभवारूढं कर्तुं बाह्यानन्दस्यापि कथनमित्याह ॥ तद्दृष्टान्ततयेति ॥ तेषां स्वरूपानन्दानां दृष्टान्ततया । यथा गृहाद्बहिर्निस्सरद्धूपधूमबाहुल्यतारतम्यनिदर्शनेन गृहान्त-रेऽपि तत्तारतम्यमनुभावयन्ति तथेति भावः ॥ २५९ ॥

सत्यप्रमोदटीका

संसार्यानन्दे तारतम्यस्येहैव दर्शनात्संप्रतिपत्ते-र्दृष्टान्ततयोक्तिरित्याह तदिति ॥ २५९ ॥

युक्तिमल्लिका

तत्तद्रूपस्य तादृक्त्वाभावे बहिरयं क्रमः ।

कथं स्यान्नियमेनैव यो वेदेन प्रमीयते ॥ २६० ॥

सुरोत्तमटीका

तदेव दर्शयति ॥ तत्तदिति ॥ यः क्रमः स्वरूपा-नन्दरहितकल्पादिदैत्येषु बाह्यानन्दक्रमस्याप्यश्रवणाददर्शनाच्च स्वरूपवैचित्र्य-निमित्तमेवेदं बाह्यवैचित्र्यमिति भावः ॥ २६० ॥

सत्यप्रमोदटीका

तत्रापि विवादे बाधकमाह तत्तदिति । तदुक्तं भाष्ये यथा बालस्य सदेव पुंस्त्वं यौवनेऽभिव्यज्यते एवं सतामेवानन्दादीनां व्यक्त्य-पेक्षया तदुक्तिः । ‘बलमानन्द ओजश्च सहो ज्ञानमनाकुलम् । स्वरूपाण्येव जीवस्य व्यज्यन्ते परमाद्विभोरि’ति ॥ २६० ॥

युक्तिमल्लिका

उक्तो हि मानुषानन्दो न सदा विद्यते नृणाम् ।

संसारिणां क्वचिद्दुःखमपि सम्भावितं यतः ॥ २६१ ॥

अतस्तादृङ्मौक्तसुखं नियतं हि श्रुतेर्मतम् ।

न चेद्ब्रह्मादिजीवानां रूपस्यानन्दरूपता ।

केन सिद्ध्येद्यदि स्पष्टा श्रुतिरेषा बहिर्गता ॥ २६२ ॥

सुरोत्तमटीका

श्रुत्युक्तमानुषानन्दस्य नियमेन मनुष्येष्वदर्शनाच्च स्वरूपभूततदानन्द एव श्रुतेस्तात्पर्यमित्याह ॥ उक्त इति ॥

नियतं नियमेन विद्यमानं तादृङ्मौक्तसुखं वित्तपूर्णसकलपृथिवीपरिपालन-दशायां चक्रवर्तिनो यत्सुखं तादृशं यन्मौक्तसुखं मुक्तिदशायामनुभूयमानसुखं श्रुतेर्मतमभिमतमिति सम्बन्धः । एवं च बाह्यानन्दस्य पूर्वस्माच्छतगुण-त्वेनोत्तरपदस्थस्वरूपानन्दस्यापि शतगुणत्वे सिद्धे स्वरूपस्यानपाया-च्छ्रोत्रियस्य श्रवणफलं प्राप्तस्याकामहतस्यावाप्तस्वयोग्यसकलकामस्य मुक्त-स्याप्यानन्द एव तादृश इति सर्वत्रापि वाक्यशेषस्य योजना द्रष्टव्या । न चेदेषा श्रुतिस्स्वरूपानन्दपरा न चेत् । रूपस्य स्वरूपस्य केन प्रमाणेन

॥ २६१,२६२ ॥

सत्यप्रमोदटीका

नियतत्वान्मौक्तानन्दस्येदं श्रुतौ तात्पर्यकथनं तत्रैव मुख्यमित्याह उक्त इति । केनेति । मुक्तेस् तत्रानन्दस्य तत्तारतम्यस्य च श्रुत्येकगम्यत्वादिति भावः ॥ २६१,२६२ ॥

युक्तिमल्लिका

कथं ब्रह्मसुखं तेषामवाङ्मनसगोचरम् ।

न हि तक्षकचूडास्थं रत्नमन्येन लभ्यते ।

अतस्तार्किकजीवाः स्युः सर्वे जीवास्तवापि हि ॥ २६३ ॥

सुरोत्तमटीका

ननु ‘‘यतो वाच’’ इति श्रुत्युक्तब्रह्मस्वरूपभूतानन्देनैव जीवानामानन्दरूपता सिद्ध्यतीत्यत आह ॥ कथमिति ॥ ब्रह्मादिजीवैर्मनसा स्मर्तुं वाचा वक्तुं चाशक्यमिति श्रुत्यैव प्रतिपादितं ब्रह्मसुखं कथं जीवानां स्यादिति भावः । तार्किकजीवा आनन्दरूपत्वरहिततया तार्किकोक्तजीवाः ॥

सत्यप्रमोदटीका

‘यतो वाचो निवर्तन्ते’ इत्यत्रोक्त आनन्दो विष्णोरेव न मुक्तजीवानाम् । न च स साधनसहस्रेणापि प्राप्यः । ‘लक्षणं परमानन्दो विष्णोरेव न संशयः । अव्यक्तादितृणान्तास्तु विप्लुडानन्दभागिनः’ इत्युक्तेः । तत्र दृष्टान्तस् तक्षकेति । तदाहरणप्रयत्नोऽनर्थफलक एव यथा तथाऽत्रापीति भावः । अतः मोक्षसुखे प्रमाणान्तराप्रसक्तेस् तदसिद्धेरेवेत्यर्थः । अपी-त्यभ्युपगमः । वस्तुतो निर्विशेषत्ववादिनस्तन्मतेऽपि आनन्दविषयकानु-भवानभ्युपगमात् ॥ २६३ ॥

युक्तिमल्लिका

जीवस्वरूपानन्दस्य तादृक्त्वे किं गतं तव ।

ऐक्यायोगाद्यदि भयं भेदोऽस्तु सततं सताम् ।

अपौरुषेये निर्बन्धो न स्वस्वमतसिद्धये ॥ २६४ ॥

सुरोत्तमटीका

ऐक्यायोगाज्जीवानां परस्परमैक्यायोगात् । अपौरुषेये वेदे ॥ २६४ ॥

सत्यप्रमोदटीका

तादृक्त्वे श्रुत्युक्तिबलेन परिच्छिन्नत्वे । तथा सति न ऐक्यसिद्धिरिति चेन्माऽस्तु । तथा सति अपौरुषेयत्वेन निर्दोषश्रुतेरानर्थक्यं स्यादिति चेन्न । भेदार्थकत्वेनैव तत्सार्थक्योपपत्तेः । तदुक्तं न्यायामृते ‘निर्दोषताऽन्यथासिद्धेरि’ति ॥ २६४ ॥

युक्तिमल्लिका

अकामहतता कस्मान्मुक्तलिङ्गमपोद्यते ।

कथमवृजिनत्वं च मुक्तादन्यस्य शोभते ॥ २६५ ॥

सुरोत्तमटीका

‘‘श्रोत्रियस्य चाकामहतस्ये’’त्यत्रोक्ताऽकामहतता । बृहदारण्यकस्थानन्दमीमांसायामवृजिनोऽसहश्चेत्यत्रोक्तमवृजिनत्वमपापत्वं च

॥ २६५ ॥

सत्यप्रमोदटीका

अकामहतता तैत्तिरीयोक्ता । अवृजिनत्वं बृहदारण्योक्तम् । अन्यस्येति ‘अपापत्वं च नैवास्ति यावत्संसारमस्य हि’ इत्यनुव्याख्यानोक्तेः ॥ २६५ ॥

युक्तिमल्लिका

ब्राह्मणस्य हि देहोऽयं नोपभोगाय कल्पते ।

इह क्लेशाय महते प्रेत्यानन्तसुखाय च ॥ २६६ ॥

सुरोत्तमटीका

यथा मनुष्यगन्धर्वादिपदस्थानामुत्तरोत्तरं शतशताधिका-नन्दास् तथा तेषु तेषु पदेषु कामरहिततयाऽकामहतानां श्रोत्रियाणां ब्राह्मणादीनां च तत्तत्पदस्थदेवानन्दसदृशानन्द इति परकीयव्याख्यानं दूषयति ॥ ब्राह्मणस्येति ॥ २६६ ॥

सत्यप्रमोदटीका

‘अतःपदस्थसुखवत्पदाकामे सुखं कुत’ इति वक्ष्यमाणोपपादनाय परोक्तप्रक्रियाव्यभिचारप्रदर्शनपरं श्लोकमुदाहरति ब्राह्मणस्येति । अत्र रामानुजमतमनूद्य अनुभवविरोधो दोषोऽभिहितोऽनु-व्याख्याने ‘कुत्रचित्कामिनः पुंसः कामाभावात् क्वचित् क्वचित् । इन्द्रादि-सुखभोगोऽस्तीत्यनुभूतिर्हि कुप्यति ।’ इति तत्र सुधा ‘कुत्रचिदिन्द्रादि-पदव्यतिरिक्ते कामिनः पुंसः क्वचित् क्वचिदिन्द्रादिपदे कामाभावादिन्द्रादिपद-समानसुखानुभवोऽस्तीति व्याख्यानेऽनुभवविरोधः स्यादि’ति । स्मृति-विरोधोऽप्यत्रोदाह्रियते इहेति । इहामुत्रार्थभोगविरागपुरःसरं साधनपरस्य । स्वाध्यायप्रवचनरूपतपसः साधनस्य कर्मापेक्षयाऽतिक्लेशसाध्यत्वात् । तदुक्तं क्लेशायेति । उक्तं च सुधायां ज्ञानापेक्षया कर्मणः लघूपायत्वं ‘अभ्युदयस्य धर्मादिलघूपायसाध्यस्ये’ति । कर्मणा ज्ञानमातनोतीत्यागमेन ज्ञानस्य लघूपायान्तरसाध्यताऽध्यवसायादि’ति । अनन्तसुखाय मोक्षाय । ज्ञानस्य मोक्षहेतुत्वादिति भावः ॥ २६६ ॥

युक्तिमल्लिका

इत्युक्त्या नेह सुखिनो विरागा अपि योगिनः ।

अतः पदस्थसुखवत्पदाकामे सुखं कुतः ॥ २६७ ॥

सुरोत्तमटीका

इत्युक्त्येति । भारतोक्त्या ॥ २६७ ॥

सत्यप्रमोदटीका

योगिनः ब्राह्मणाद्याः । अतः रामानुजोक्तस्यार्थस्य भारतादिप्रमाणविरोधाद् अनुभवविरोधाच्च । पदाकामे परोक्ते अकामहत-शब्दार्थे संसारिणि ॥ २६७ ॥

युक्तिमल्लिका

स भुङ्क्ते विषयान्सर्वान्प्रशास्ति च जगत्रयम् ।

अयं पञ्चाग्निमध्यस्थस् तपस्तपति सर्वदा ।

सुखलेशोऽपि नास्यास्ति सुखं तादृक्कथं वद ॥ २६८ ॥

सुरोत्तमटीका

स पदस्थः । अयं ब्राह्मणादिः ॥ २६८ ॥

सत्यप्रमोदटीका

स इन्द्रादिपदप्राप्तिमान् । अयं तत्पदाकामः पदान्तरप्रेप्सावान् तपोनिरतः साधकः । अस्य कायक्लेशेन तप्यमानस्य । तादृक् पदाधिष्ठात्राऽनुभूयमानसुखसदृशम् ॥ २६८ ॥

युक्तिमल्लिका

तदिह क्लेशभाग्योगी सुखं तस्यास्ति मुक्तिगम् ।

तस्मान्मुक्तसुखेष्वेव तारतम्यं तवाप्यभूत् ॥ २६९ ॥

सुरोत्तमटीका

तस्मादुक्तरीत्या योगिनामपि मुक्तिकालीनसुखैक-भोक्तृत्वात् ॥ २६९ ॥

सत्यप्रमोदटीका

तद् अकामहतशब्दस्य संसारिषु साधकेषु विरक्तेष्वपि मुख्यतोऽसम्भवात् । तस्मान् मुक्तेष्वेव सम्भवेन श्रौततत्पदस्य मुक्तपरत्व-सिद्धेः । तारतम्यम् उभयश्रुत्युक्तम् ॥ २६९ ॥

युक्तिमल्लिका

अतः कामार्थसंपत्त्या ह्यकामहततास्त्वियम् ।

अकामस्य वृथा कामहततावाङ्न चेत्तव ॥ २७० ॥

सुरोत्तमटीका

किञ्च कामितार्थालाभे हि कामेन हतता । तल्लाभे चाकामहतता । तच्च सङ्कल्पादेव च श्रुतेरिति सूत्रान्मुक्तानामेव घटते । अमुक्तास्तु विरक्ता अकामा एव । काम्यार्थप्राप्त्या याऽकामहतता सा कथम-मुक्तेषु स्यादतोऽपीयं मुक्तवार्तैवेत्याह ॥ अत इति ॥ अतो मुक्तावेव सकलकाम्यावाप्तिसम्भवात् । अस्तु मुक्तावेवास्तु । इयं श्रुत्युक्ता । अकामस्य संसारे वैराग्यवशाद्विषयकामनामेवाकुर्वतः । वृथा सांसारिकविरक्तस्वरूप-निरूपणस्याकाम इत्येतावता पूर्तेर्हतपदं व्यर्थमित्यर्थः । न चेन् मुक्तपरं न चेत् ॥ २७० ॥

सत्यप्रमोदटीका

‘कामाहतिः कुतोऽन्यत्र प्राप्तकामस्य सा भवेत्’ इत्यनुव्याख्यानोक्तमाह अत इति । पदान्तरे कामनावतः सतस् तत्पदा-कामत्वमात्रेण अकामहतत्वस्य अपेक्षितपदान्तरस्य अप्रयत्नेन प्राप्तिमन्तराऽ-योगादिति भावः । तदुक्तमनुव्याख्याने ‘अप्रयत्नेन कामानामवाप्तिः सा यदा भवेत् । तदैवाकामहतता कुत एवान्यथा भवेदि’ति । एतच्च मुक्तावेव सम्भवति नान्यत्रेति भावः ॥ २७० ॥

युक्तिमल्लिका

विरक्ताः सर्वसंपत्तौ विरक्ताः स्युर्न कुत्रचित् ।

तत्तत्पदेष्वकामास्ते वि(भ)रक्ताः क्व व्यवस्थया ॥ २७१ ॥

तव नीचपदाकामात्सुखं शतगुणोत्तरम् ।

भवेदुच्चपदाकामे कथं स्युस्तादृशर्षयः ॥ २७२ ॥

यदि सर्वपदाकामाः सर्वे तर्हि सुखे समाः ।

भवेयुस्तारतम्येन सुखिता तेषु किंकृता ॥ २७३ ॥

सुरोत्तमटीका

किञ्च मनुष्यगन्धर्वपदाकामाद् देवगन्धर्वपदाकामस्य शतगुणानन्द एवमुत्तरत्रापीति वदता तत्तत्पदाकामास्तदन्यपदेषु सकामाश्च तत्र तत्रोक्ता अकामहतास्त्वया वक्तव्याः । पदान्तरेष्वप्यकामत्वे आनन्द-तारतम्यायोगात् । एतादृशाकामाश्च न क्वापि सन्तीत्याह ॥ विरक्ता इति ॥ कुत्रचित्कुत्रचिदेव । व्यवस्थया विभक्त इति सम्बन्धः

॥ २७१–२७३ ॥

सत्यप्रमोदटीका

सर्वसंपत्ताविति इहामुत्रार्थफलभोगविराग इति मुमुक्षोरधिकारिणः सर्वपदारागस्यैव विधानादिति भावः । न हि त्वदभिमतस्य देवादिपदेषु रागिणोऽपि तदुच्चेन्द्रादिपदेषु विरागमात्रेण सर्वसंपत्तौ विरक्त इति वाचोयुक्तिः सम्भावनाऽर्हेत्याह विरक्ता इति । कुत्रचित् कुत्रचिदेव । विरक्ताश्चेत्सर्वत्रैव विरक्ता भवेयुः । न तु त्वदुक्तदिशा व्यवस्थया । कथमिति । एवमीदृशानां कतिचित्पदकामिनां लम्पटा इत्येव वक्तुं युक्तं न तु ऋषयो विरक्ता इतीति भावः ॥ किंकृतेति । तारतम्यहेतुतया त्वदभिमतस्य व्यवस्थया वैराग्याभिमतस्य दूषितत्वादिति भावः॥२७१–२७३ ॥

युक्तिमल्लिका

अतस्तत्तत्पदाकामः सकामोऽन्यपदेषु च ।

भवेदसौ महायोगी का गीस्तं बाधितं वदेत् ॥ २७४ ॥

सुरोत्तमटीका

महायोगीति विन्यासः ॥ २७४ ॥

सत्यप्रमोदटीका

महायोगीति विपरीतलक्षणया । कामलंपट एवेति भावः । गीर् अवृजिनो ऽकामहत इति श्रौतनिर्देशः ॥ २७४ ॥

युक्तिमल्लिका

भोग्यार्थतारतम्ये स्यात्तारतम्यं सुखस्य च ।

तत्त्यागेऽपि सुखस्योच्चनीचतेत्यद्भुतं वचः ॥ २७५ ॥

सुरोत्तमटीका

भोग्यार्थतारतम्ये भोग्यार्थश्शर्कराखण्डादिः । सुखस्य तदनुभवजनितसुखस्य ॥ २७५ ॥

सत्यप्रमोदटीका

भोग्यार्थेति । ‘मुन्नाम विषयोत्थं यत् प्रकृष्टविषयात् प्रमुत्’ इति बृहद्भाष्योक्तदिशेति भावः ॥ २७५ ॥

युक्तिमल्लिका

किं कूपस्थजलाकामात्सुखं शतगुणोत्तरम् ।

तटाकस्थजलाकामे पिपासारहिते वद ॥ २७६ ॥

सूक्ष्मभाण्डोदनाकामात्सुखं शतगुणोत्तरम् ।

स्थूलभाण्डोदनाकामे बुभुक्षारहितेऽस्ति किम् ॥ २७७ ॥

सुरोत्तमटीका

एतदेव निदर्शनमुखेन दर्शयति ॥ किं कूपस्थेति । सूक्ष्मभाण्डेति च ॥ २७६,२७७ ॥

सत्यप्रमोदटीका

‘देवपदाकामादिन्द्रपदाकामस्यानन्दविशेषादर्शना-दि’ति सुधोक्तं लोकनिदर्शनाभ्यां संवादयति कूपस्थेति सूक्ष्मेति च

॥ २७६,२७७ ॥

युक्तिमल्लिका

कथञ्चित्कामशून्यो यः सोऽकामहत उच्यताम् ।

पदं न पदलभ्यं ते ततोऽप्येतदलौकिकम् ।

श्रुत्युक्तावृजिनत्वं तु घटते न कथञ्चन ॥ २७८ ॥

सुरोत्तमटीका

किं चास्तु वाऽकामेऽपि यथाकथञ्चिदकामहतपदम् । त्वया त्वकामहतपदेन तत्पदाकामहतोऽत्र वक्तव्यः । तच्च न श्रौतमित्याह ॥ कथञ्चिदिति ॥ कामशून्यो यस्स कथंचिदकामहत उच्यतामिति सम्बन्धः । पूर्वोक्तहतपदवैयर्थ्यसूचनाय कथञ्चिदित्युक्तम् । पदं तत्पदमिति पदम् । एतत्तवार्थकथनम् । इदन्तु सुतरां न घटत इत्याह ॥ श्रुत्युक्त्येति ॥ पाप-रहितत्वस्य मुक्तेष्वेव सम्भवादिति भावः ॥ २७८ ॥

सत्यप्रमोदटीका

‘तस्मात्तस्मादकामत्वमिति चाश्रुतकल्पना । अकामहत इत्युक्तेः श्रुतहानिरपि स्फुटा’ इत्यनुव्याख्यानोक्तदोषेण दूषयति । कथञ्चिदिति अनेन श्रुतहानिर्दोष उक्तः । तदुक्तं सुधायां ‘श्रुतावकामहत इत्युक्तेः परेण चाकाम इति व्याख्यातत्वाच्छ्रुतस्य हतशब्दस्य हानिरपि स्फुटाऽऽपद्यते’ इति । पदम् इति ‘तस्मात्तस्मात्पूर्वनिर्दिष्टादतिशयेनोत्तरोत्तर-स्याकामत्वं श्रोत्रियत्वादिकं चेति व्याख्याने त्वश्रुतकल्पनं स्यात् । तस्मादित्यतिशयेनेति चाश्रुतस्य कल्पनीयत्वादि’ति सुधोक्तेरिति भावः । अवृजिनत्वमित्युपलक्षणम् । सुधोक्तं श्रोत्रियत्वं च ग्राह्यम् । एतच्च विवृतम् अधस्तात् ‘अक्षण्वन्तः कर्णवन्तः प्राप्तसमस्तेन्द्रियफलाः’ इति सुधोक्तस्य श्रोत्रियत्वस्य संसारिष्वसम्भवादिति च ध्येयम् ॥ २७८ ॥

युक्तिमल्लिका

तत्तच्छ्रुत्यर्थकथनं न श्रुत्यै रोचते सताम् ।

भारतीहृदयं त्वेको भारतो वेत्ति नापरः ॥ २७९ ॥

अनुसन्धीयतां चर्चा महती मूलशास्त्रगा ।

बुद्धावारोहसिद्ध्यर्थं ततः किञ्चिदिहोद्धृतम् ॥ २८० ॥

सुरोत्तमटीका

भारतो वायुः ॥ २७९,२८० ॥

सत्यप्रमोदटीका

तत् तस्मात् । तच्छ्रुत्यर्थकथनम् । तैः रामानुजीयैस् तच्छ्रुतेर् आनन्दवल्ल्याः । अर्थकथनं केवलं संसारिपरतया व्याख्यानम् । श्रुत्यै श्रवणेन्द्रियाय । भारतः वायुः ॥ मूलशास्त्रं भाष्यानुभाष्यतट्टीकाः । उद्धृतम् । तच्चास्माभिस्तत्र तत्र विवृतौ सङ्क्षिप्य दर्शितम् ॥ २७९,२८० ॥

युक्तिमल्लिका

अतो मिथो जीवभेदो जीवब्रह्मविभिन्नता ।

तत्तदानन्दवैचित्र्यात्सिद्धा सिद्धान्तवेदिनाम् ॥ २८१ ॥

तस्माच्छ्रौतञ्च यौक्तञ्च मध्वस्य मतमाफलात् ।

हृद्यञ्च निरवद्यञ्च तत्सर्वमतिमङ्गलम् ॥ २८२ ॥

सुरोत्तमटीका

अत इत्येतदेव विशदयति ॥ तत्तदिति ॥२८१,२८२॥

सत्यप्रमोदटीका

वैचित्र्यात् संसारे मुक्तौ च ॥ आफलात् । आङ् अभिविधौ । मुक्तावपीत्यर्थः ॥ २८१,२८२ ॥

युक्तिमल्लिका

ते प्रसादो हरे सेवानुरूप इति सप्तमे ।

प्रह्लादो यत्स्फुटं मुक्तौ फलं सेवानुगं जगौ ॥ २८३ ॥

सुरोत्तमटीका

‘‘संसेवया सुरतरोरिव ते प्रसादस्सेवानुरूप उदयेन परावरत्वादि’’ति भागवतस्थप्रह्लादवाक्येनापि मुक्तौ तारतम्यं सिद्ध्यतीत्याह ॥ ते प्रसाद इति ॥ परावरत्वात्सेवां विना संपदादिभिरुच्चत्वनीचत्वात् । न प्रसादो नेति भागवतवाक्यशेषस्यार्थः ॥ २८३ ॥

सत्यप्रमोदटीका

‘नैषा परावरमतिर्भवतो ननु स्याज्जन्तोर्यथाऽऽत्म-सुहृदो जगतस्तथाऽपि । संसेवया सुरतरोरिव ते प्रसादः सेवाऽनुरूप उदयो न परावरत्वम्’ इति प्रह्लादवचनं मौक्ततारतम्ये प्रमाणयति ते इति । सेवाऽनुरूप इति ‘यावत्सेवा परे तत्त्वे तावत्सुखविशेषता’ इति भगवत्पादोक्तेः । परा-वरत्त्वं वैषम्यम् । उदयः मुक्तौ सुखानुभवः ॥ २८३ ॥

युक्तिमल्लिका

तत्रैव मुक्तौ फलसंपद उच्चावचा इति ।

दातैव यत्फलासाम्यं प्राह भागवते स्फुटम् ।

युक्तिश्रुतिस्मृतिभ्यस्तत्सिद्धा मुक्तोच्चनीचता ॥ २८४ ॥

सुरोत्तमटीका

‘‘नाहं तु सख्यो भजतोऽपि जन्तून् भजाम्यमीषा-मनुवृत्तयो यथा । तथैव मत्तः फलसंपदस्स्युरुच्चावचाः कल्पतरोरि-वार्थिनामि’’ति दशमस्कन्धे कृष्णवाक्येनापि मुक्तौ तारतम्यमस्तीत्याह ॥ तत्रैवेति ॥ ‘‘हरिस्तु निर्गुणस्साक्षात्पुरुषः प्रकृतेः परः । स सर्वदृगुपद्रष्टा तं भजन्निर्गुणो भवेदि’’ति स्मृतेर्हरिभजनस्य गुणत्रयात्मकसम्पत्सम्पादकत्वा-योगात्फलसम्पदः फलरूपा मुक्तिकालीनास्संपदस्स्युरिति भागवतवाक्य-स्यार्थः । अतो वाक्यद्वयमपि मुक्तावेव तारतम्यं साधयतीति भावः । तत्र भागवत एवेति सम्बन्धः । तत्तस्मात् । साधनतारतम्ये साध्यतारतम्यं स्यादिति युक्तिः । श्रुतिरानन्दमीमांसारूपा । स्मृतिरुक्तभागवतवाक्यद्वयरूपा ॥२८४॥

सत्यप्रमोदटीका

ॐ फलमत उपपत्तेरिति सामान्यतः सर्वफलदातृत्वेन ‘ज्ञानिनां मोक्षदश्च सः’ इति विशिष्य मोक्षदातृत्वेन च प्रमितस्य कृष्णस्य वचनेनैव मुक्तौ तारतम्यं सिध्यतीत्याह तत्रेति । ‘नाहं तु सख्यो भजतोऽपि जन्तून् भजाम्यमीषामनुवृत्तयो यथा । तथैव मत्तः फलसंपदः स्युरुच्चावचाः कल्पतरोरिवार्थिनाम्’ इति भागवतं तात्पर्यतः सङ्गृह्णाति दातैवेति । फलसंपदः संसारे तथा मुक्तौ च ॥ २८४ ॥

युक्तिमल्लिका

मनोजवेष्वसमता यत्सख्यं चोदितं श्रुतौ ।

तन्मत्साराद्यभावश्च तत्र तेषां प्रसिद्ध्यति ॥ २८५ ॥

सुरोत्तमटीका

ननु मुक्तौ तारतम्ये नीचस्योच्चे मात्सर्यमुच्चस्य नीचेऽ-वज्ञा स्यादिति शङ्कां श्रौतयुक्त्यैव परिहरति ॥ मनोजवेष्विति ॥ यद्यस्मात् । तत्तस्माद् असमत्वेऽपि सख्यकथनात् । तत्र मुक्तौ । तेषां मुक्तानाम् ॥२८५॥

सत्यप्रमोदटीका

मनोजवेषु ‘मनोजवः प्रज्ञाऽतिशयः बहुवचनमाद्यर्थे ज्ञानादिगुणेषु असमास्तारतम्योपेता बभूवुः’ इति सुधोक्तोऽर्थो ध्येयः । परस्परं सखायः । तत्र मुक्तौ तरतमभावसद्भावेऽपि । अत्र यदुक्तं परकालयतिना ‘अत्र आनन्दातिरिक्ततारतम्यमेवोच्यते’ इति । तत्तुच्छम् । अशाब्दत्वात् । अंशेन साम्यम् अंशान्तरेण वैषम्यमित्युक्तौ स्वरूप एव भेदप्रसक्तेः । संसारिभिरेव समत्वाभाव उच्यते इत्यप्यसारम् । निर्मूलत्वात्कल्पनायाः । मुक्तानामेव पूर्वं प्रकृतत्वात् । मिथस्तारतम्यस्यैव प्रतीतिसिद्धत्वात् । अत्र विस्तरोऽस्मत्कृते विजयीन्द्रविजयवैभवे ॥ २८५ ॥

युक्तिमल्लिका

हरिसाम्योक्तिवत्क्वापि साम्योक्तिर्दुःखवर्जनात् ।

उक्ता निरवकाशास्ता यच्छ्रुतिस्मृतियुक्तयः ।

तत्सिद्धतारतम्यं तन्मुकुन्दोऽपि न मोचयेत् ॥ २८६ ॥

सुरोत्तमटीका

क्वापि कुत्रचिद्वने । साम्योक्तिर्मुक्तानां परस्परं साम्योक्तिः। साम्योक्तिमात्रेण मुक्तानां परस्परं साम्याङ्गीकारे ‘मम साधर्म्यमागता’ इति वचनेन मुक्तानां, भगवता च सर्वसाम्यं स्यादिति बाधक-सूचनाय हरिसाम्योक्तिवदित्युक्तम् । यद्यस्मात् । तत्सिद्धतारतम्यं ताभिश्श्रुति-स्मृतियुक्तिभिस्सिद्धं मुक्तानां तारतम्यम् । तत्तस्मादुक्तप्रमाणानां निरवकाश-त्वात् ॥ २८६ ॥

सत्यप्रमोदटीका

क्वापि श्वेतद्वीपगतवनक्रीडारता उपकक्षास इत्यादि श्रुतावुक्तम् । हरिसाम्योक्तिवत् परमं साम्यमुपैतीत्यत्रेव । न च तत्रापि विवदितव्यम् । ‘दुःखाभावः परानन्दो लिङ्गभेदः समा मता’ इति गीता-भाष्योदाहृतप्रमाणेन प्रमितत्वात् । ‘सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च’ इत्यादिनिरवकाशप्रमाणसिद्धत्वादित्याह उक्ता इति । मुकुन्दोऽपि अनादि-संसारबन्धान्मोचकोऽपि । नेति ‘स्वतन्त्रेच्छोऽपि भगवान्मानेऽसौ मानवान् किल’ इति पूर्वमुक्तेः । उक्तं च सुधायां ‘यावत्प्रमाणसिद्धं तावतः सुघटस्य दुर्घटस्य वा घटनायां पटुरिति ब्रूम’ इति । अनादेर्बन्धस्य मोचकत्वं प्रमितं नैवम् अनादेस्तारतम्यस्य मोचकत्वमिति हृदयम् ॥ २८६ ॥