०६ वैकुण्ठादिप्राप्तिरेव परममुक्तिः

ततो वैकुण्ठमगमद्भास्वरं तमसः परम्

वैकुण्ठादिप्राप्तिरेव परममुक्तिः

युक्तिमल्लिका

ततो वैकुण्ठमगमद्भास्वरं तमसः परम् ।

यत्र नारायणस्साक्षान्न्यासिनां परमा गतिः ॥ १५१ ॥

शान्तानां न्यस्तदण्डानां यतो नावर्तते यतिः ।

इति भागवते वैकुण्ठाख्या भगवतः पुरी ॥ १५२ ॥

सुरोत्तमटीका

वैकुण्ठप्राप्त्यतिरिक्तमोक्षाभावं सयुक्तिकप्रमाणवचनेनोप-पादयति ॥ तत इति ॥ इतिशब्दात्पूर्वं विद्यमानं सर्वं भागवतवाक्यम् ॥ १५१,१५२ ॥

सत्यप्रमोदटीका

अर्चिरादिमार्गेण प्राप्यो विष्णुलोकोऽपरमुक्तिरिति औतिनः । तदुक्तं चन्द्रिकायां ‘त्वन्मतेऽर्चिरादेरुपासकगतित्वेन ब्रह्म-विद्गतित्वाभावादि’ति । तदेतत्स्मृतिवाक्यैर्दूषयन् वैकुण्ठलोकप्राप्तेरितरा परम-मुक्तिर्नास्तीति प्रमेयं स्मृतिभिः श्रुतिभिश्च सविस्तरं समर्थयते तत इति पूर्वैः । पुरी परमोच्यते इति सम्बन्धः । तमसः परम् इत्यस्यार्थो ऽज्ञानाद्बहिर्भूता इति । अङ्गीकृतश्च परेण तमः शब्दस्याज्ञानार्थकत्वं ‘नासदासीदि’ति श्रुतिमुदाहृत्य अज्ञानस्यानिर्वचनीयत्वसिद्धये तम आसीदिति वाक्यशेषमुदाहरता । न ह्यविद्याऽस्तमयादपरो मोक्षस्तेनेष्यत इति भावः ॥ १५१–१५३ ॥

युक्तिमल्लिका

तमश्शब्दोदिताज्ञानाद्बहिर्भूताऽतिभास्वरा ।

पुनरावृत्तितश्शून्या गतिश्च परमोच्यते ।

इतोऽतिरिक्तः परमो मोक्षः कस्स्याद्विवेकिनाम् ॥ १५३ ॥

सुरोत्तमटीका

तमसः परमित्यस्यार्थमाह ॥ तम इति ॥ यतो नावर्तत इत्यस्य फलितार्थमाह ॥ पुनरिति ॥ परमा गतिरिति सम्बन्धः । इतो ऽज्ञाननिवृत्तिस्थलात् । अपुनरावृत्तिस्थलादिति यावत् ॥ १५३ ॥

युक्तिमल्लिका

मर्त्यो मृत्युव्यालभीतो लोकान्सर्वांश्च निर्भयान् ।

नाद्राक्षीत्किल पादाब्जं प्राप्य विष्णोर्यदृच्छया ।

स्वस्थश्शेते मृत्युरस्मादपैतीत्याह देवकी ॥ १५४ ॥

इतोऽपि कृष्णचरणप्राप्तिरेवामृतं सताम् ।

जीवन्मुक्तौ च यन्मृत्युस्ततो मुक्तिरियं परा ॥ १५५ ॥

सुरोत्तमटीका

मर्त्यो मृत्युव्यालभीतः पलायंल्लोकान्सर्वान्निर्भयान्नाध्य-गच्छत् । त्वत्पादाब्जं प्राप्य यदृच्छयान्ते स्वस्थश्शेते मृत्युरस्मादपैतीति भागवतस्थदेवकीवाक्यमर्थतः पठन् मृत्युविदूरस्थानत्वाद्वैकुण्ठस्यैव परम-मोक्षत्वमित्याह ॥ मर्त्य इति ॥ व्यालः वनसर्पः । सर्वान् सत्यकैलास-स्वर्गादीन् । निर्भयान् मृत्युभयरहितान् । त्वत्पादाब्जं वैकुण्ठपुरीस्थस्य तव पादाब्जम् । अन्ते सर्वलोकपलायनावसाने । शेते रमणीयशय्यायां मुक्त-स्स्वर्नार्या सह शेते । अस्माद् वैकुण्ठपुरे त्वच्चरणसमीपस्थमुक्तात् । इत एतद्वचनबलात् । जीवन्मुक्तौ स्थितशुकवामदेवादीनामित्यर्थः । यद्यस्मात् । मृत्युर्मरणम् । ततः मरणराहित्येन जीवन्मुक्तितोऽप्यतिशयितत्वात् ॥ १५४,१५५ ॥

सत्यप्रमोदटीका

‘मर्त्यो मृत्युव्यालभीतः पलायन् लोकान्सर्वान्निर्भया-न्नाध्यगच्छत् ॥ त्वत्पादाब्जं प्राप्य यदृच्छयान्ते स्वस्थः शेते मृत्युरस्मादपैति’ इति भागवते देवकीवाक्यमर्थतः सङ्गृह्णाति मर्त्य इति । परेति पुनरावृत्ति-राहित्यस्यैव परममुक्तिस्वलक्षणत्वादिति भावः ॥ १५४,१५५ ॥

युक्तिमल्लिका

आब्रह्मभवनाल्लोकाः पुनरावर्तिनोऽर्जुन ।

मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते ॥ १५६ ॥

इति गीतोदितां वाणीमनुस्मर न विस्मर ।

जीवन्मुक्तौ तु यज्जन्म ततो मुक्तिरियं परा ॥ १५७ ॥

सुरोत्तमटीका

गीतावाक्येऽपि कृष्णसमीपप्राप्तेरेव पुनर्जन्माख्यसंसार-दूरीकरणसामर्थ्योक्तेस्सैव परममुक्तिरित्याह ॥ आब्रह्मेति ॥ यद्यप्यनन्तासन-श्वेतद्वीपयोः पुनरावृत्तियुक्तत्वशङ्कानिरासाय मुक्तानामप्यावासत्वेनाप्यङ्गी-कृतान्तरिक्षस्वर्गादिलोकानां च पुनरावृत्त्यैव युक्तजनभरितत्वशङ्कानिरासाय च भगवत्पादैरेव पूर्वार्धस्य मेरुस्थितब्रह्मसदनादर्वाक्तनलोकानां पुनरावृत्त्यैव युक्तजनभरितत्वमेवार्थ उक्तः । तथापि वक्तुः कृष्णस्य व्याख्यातुराचार्यस्य च प्राकृतमेरुस्थब्रह्मभवनसाम्येन सत्यलोकस्य कैमुत्येन तदर्वाक्तनलोकानां च जन्मादियोग्यप्रकृतिबद्धजनयुक्तताऽप्यभिमता । अन्यथा मामुपेत्येति स्वलोक-गमनस्यैव विशिष्य पुनर्भवविदूरत्वकथनविरोधात् । तथापि मुक्तामुक्तजन-स्थानतया तेषामपि लोकानामेकांशेन स्वलोकसाम्यमागतमिति चेन्न । मामुपेत्येति वदतः कृष्णस्य तल्लोकस्थमुक्तानां जन्मवैधुर्येऽपि श्वेतद्वीपस्थस्व-प्राप्त्येकनिमित्तत्वस्य तेष्वपि लोकेषु स्थितस्वमूर्तिविशेषप्राप्तिनिमित्तत्वस्य चाभिप्रेतत्वेन तल्लोकमहिमत्वाभावे तात्पर्यात् । अतो न प्रकृतानुपयोगः । एतद्वाक्योक्तमुक्तेरपि जीवन्मोक्षादतिशयमाह ॥ जीवदिति ॥ यद्यस्मात् । प्राक् मरणाभावेनातिशय उक्तः । इदानीं जननाभावेनातो न पौनरुक्त्यम् ॥ १५६,१५७ ॥

सत्यप्रमोदटीका

ननु अन्तरिक्षस्वर्गादिष्वपि मुक्ताः सन्ति इति स्थितिः । ‘केचिदत्रैव मुच्यन्ते’ इत्यादिवचनादिति चेत्सत्यम् । तथाऽपि अत्र मामुपेत्येत्यस्य श्वेतद्वीपस्थवासुदेवं प्राप्येति तथा तत्तल्लोकस्थस्वमूर्तिविशेषं प्राप्येति चार्थस्य विवक्षितत्वान् न कोऽपि क्षुद्रोपद्रव इति मन्तव्यम् । विस्तरः सत्तत्त्वरत्नमालायाम् ॥ १५६,१५७ ॥

युक्तिमल्लिका

सा च विष्णोस्समीपाप्तिस्तदङ्घ्रिप्राप्तिरेव वा ।

तल्लोकेषु स्थितिर्वाऽभूत्तेनैक्यं त्वष्टमो रसः ॥ १५८ ॥

अस्पष्टवचनस्यार्थं स्पष्टोक्तेरनुसारतः ।

प्राहुस्सर्वे यतः पूर्वे तन्मा कुर्वेकताभ्रमम् ॥ १५९ ॥

सत्यप्रमोदटीका

एवं परममुक्तावपि सायुज्यादिभेदसद्भावेऽपि तवैक्य-वार्ता गुहानिहितेत्याह सा चेति ॥ १५८,१५९ ॥

युक्तिमल्लिका

अनन्तासनवैकुण्ठश्वेतद्वीपाभिधास्त्रयः ।

ज्योतिष्मन्तो यत्र लोकास्तत्र माममृतं कृधि ॥ १६० ॥

इति श्रुतौ यतो विष्णोर्लोकेष्वमृततोदिता ।

ततस्तल्लोकगमनं महामोक्षो भवेद् ध्रुवम् ॥ १६१ ॥

सुरोत्तमटीका

इदानीं श्रुतिभिरपि वैकुण्ठपुर्यादिभगवत्पुरत्रयस्यैव परममोक्षत्वं साधयति ॥ ज्योतिष्मन्त इत्यादिना ॥ यत्र प्रदेशे । ज्योति-ष्मन्तः सूर्याग्न्यादिप्रकाशं विनापि अजस्रं प्रकाशवन्तः लोकास्सन्ति । तत्र तत्प्रदेशस्थलोकेषु माममृतं कृधिकुरु । इति श्रुतौ एवमर्थकश्रुतौ । अमृतता मरणरहितता ॥ १६०,१६१ ॥

सत्यप्रमोदटीका

ज्योतिष्मन्तः ‘त्रिपादस्यामृतं दिवि’ इति वाक्ये दिवि इत्यस्य तथा व्याख्यानात् । ‘न तद्भासयते सूर्यो न शशाङ्को न पावकः । यद्गत्वा न निवर्तन्ते तद्धाम परमं मम’ इति गीतायां लोकानां परमत्वोक्त्याऽपि सिद्धमर्थमाह महामोक्ष इति ॥ १६०,१६१ ॥

युक्तिमल्लिका

यतोऽत्रैव श्रुतिस्स्पष्टं विष्णोर्लोके महीयते ।

इत्याह तदिमे लोकास्तस्यैव स्युर्न संशयः ॥ १६२ ॥

सुरोत्तमटीका

अत्रैव अस्मिन्सूक्त एव । श्रुतिर् यत्र तत्परमं पदं विष्णोर्लोके महीयत इति श्रुतिः । तत्तस्माद् अत्रैव वाक्यान्तरे स्पष्टं विष्णुलोकत्वश्रवणात् । इमे ज्योतिष्मन्त इति वाक्योक्ताः । अत्र सामान्योक्तावपि एतत्प्रकरणस्थविशिष्योक्तिबलाद् अत्रापि विष्णुलोकत्व-निर्णयः । बहुवचनाल्लोकानां त्रित्वं च गम्यत इति भावः

॥ १६२ ॥

सत्यप्रमोदटीका

इमे त्रयः । अतः लोकशब्दः समुदायैकवचन इति भावः ॥ १६२ ॥

युक्तिमल्लिका

उक्तस्मृतेश्च संमत्या लोकोऽयं वैष्णवो भवेत् ।

अतस्सलोकतां मोक्षो सालोक्यं च श्रुतिर्जगौ ॥ १६३ ॥

सुरोत्तमटीका

उक्तस्मृतेस् ततो वैकुण्ठमिति स्मृतेः । अतः लोकस्यैव मोक्षस्थानत्वात् । श्रुतिर् गच्छेद्ब्रह्मसलोकतामित्यादि श्रुतिः । मुक्तिस्थानस्य लोकत्वाभावे मोक्षस्य सालोक्यमिति व्यवहारो न स्यादिति भावः ॥ १६३ ॥

सत्यप्रमोदटीका

गच्छेद्ब्रह्मसलोकतामिति श्रुतौ सालोक्यमोक्षस्य विवरणाद्विष्णुलोकप्राप्तिरेव परममोक्ष इत्यवसीयते । न हि निर्विशेषब्रह्मभावे पराभिमते लोकशब्दव्यवहारोऽस्तीति भावः ॥ १६३ ॥

युक्तिमल्लिका

आब्रह्मभुवनाल्लोकाः पुनरावर्त्तिनोऽर्जुन ।

इत्युक्तेस्स च लोकोऽयं विष्णोर्लोको न संशयः ॥ १६४ ॥

सुरोत्तमटीका

स च सलोकतामित्यादिश्रुत्युक्तलोकः । ब्रह्मभवन-पर्यन्तलोकानां पुनरावृत्त्युक्तेः सालोक्यमोक्षघटकलोको विष्णुलोक एव भवेदिति भावः । उपलक्षणं चैतत् । विष्णोर्लोके महीयत इति स्पष्टश्रुति-समाख्यया चेत्यपि द्रष्टव्यम्॥ १६४ ॥

सत्यप्रमोदटीका

परिशेषाच्च अस्य विष्णुलोकत्वसिद्धिरित्याह आब्रह्मेति ॥ १६४ ॥

युक्तिमल्लिका

सर्वलोकक्षये यस्तु मोक्षोऽसौ नेक्ष्यते क्वचित् ॥ १६५ ॥

सुरोत्तमटीका

विष्णोर्लोकस्य मोक्षस्थानत्वे युक्त्यन्तरं चाह ॥ सर्वेति ॥ सर्वलोकक्षये सर्वलोकानां क्षयो यस्मिन्प्रतिपाद्यते स सर्वलोकक्षयः । क्षय इत्युपलक्षणम् । जन्मापि ग्राह्यम् । सर्वलोकानां क्षयजन्म-प्रतिपादकवाक्यमित्यर्थः । तस्मिन् स्थानं मदीयं सह विश्वमेतत्क्रीडावसाने द्विपरार्धसंज्ञे । भ्रूभङ्गमात्रेण हि सन्दिधक्षोः कालात्मनः पश्यति को भविष्यदित्यादिप्रलयवाचकवाक्ये भूर्लोकः कल्पितः पद्य्भां भुवर्लोकश्च नाभितः । हृदा स्वर्लोक उरसा महर्लोको महात्मनः । ‘‘ग्रीवायां जनलोकश्च तपोलोकश्च नेत्रयोः । मूर्धभिस्सत्यलोकश्च ब्राह्मो लोकस्सनातन’’ इत्यादि-जन्मवाचकवाक्ये च यः वैकुण्ठलोकः नेक्ष्यते न श्रूयते । असौ वैकुण्ठलोकः मोक्ष एव मुच्यते अत्रेति व्युत्पत्त्या मुक्तिस्थानमेवेत्यर्थः । वैकुण्ठादधो विद्यमानस्वलोकमारभ्य तस्मादधोविद्यमानलोकानामेव क्षयकथनाज्जन्मकथनाच्च वैकुण्ठलोकस्योभयकोटावप्यप्रवेशितत्वेन जन्मक्षयरहितलोकत्वमर्थाल्लभ्यते । अतस्तस्यैव मुक्तिस्थानत्वमिति भावः ॥ १६५ ॥

सत्यप्रमोदटीका

यस्तु मोक्षः निर्विशेषलक्षणशून्यभावापत्तिरूपः । निर्विशेषत्वाच्छून्यवच्छून्य इति परेण भाषितत्वात् । असौ क्वचित् कुत्रापि श्रुतौ नेक्ष्यते नोपलभ्यते । अतो ऽप्रामाणिक एवेति भावः । यद्वा सर्व-लोकक्षये लोकानां प्रलये नाशप्रतिपादनावसरे असौ विष्णुलोकः न ईक्ष्यते कुत्रापि न श्रूयते । अतो ऽयं विष्णोर्लोको मोक्ष इति पूर्वेणान्वयः ॥१६५॥

युक्तिमल्लिका

पवमानोऽत्र यत्प्रार्थ्यो वायोश्च तदनुज्ञया ।

तल्लोकप्रापकत्वं तत्सिद्धं गुरुशिरोमणेः ॥ १६६ ॥

सुरोत्तमटीका

अत्र नानानमित्यादिवर्गत्रयात्मकसूक्ते । तदनुज्ञया हर्यनुज्ञया । तल्लोकप्रापकत्वं विष्णुलोकप्रापकत्वम् । तत्तस्मान् मोक्षं प्रापयेति प्रार्थितत्वात् ॥ १६६ ॥

सत्यप्रमोदटीका

न केवलं ‘विष्णुर्हि दाता मोक्षस्य वायुश्च तदनुज्ञया’ इति वचनेन किन्तु मुमुक्षुणा मोक्षदानार्थम् अत्र सूक्ते प्रार्थितत्वान्यथाऽनुपपत्त्या च श्रीमध्वस्य मोक्षप्रदातृत्वं सिध्यतीत्याह पवमान इति ॥ १६६ ॥

युक्तिमल्लिका

अन्ते ज्ञानाद्ब्रह्मलोकमभिसंपद्यते किल ।

आवर्तते न स पुनः पुनरावर्तते न सः ।

द्विरुक्त्येत्थं निरणयत्पुनरावृत्तिशून्यताम् ॥ १६७ ॥

सुरोत्तमटीका

अधुना ‘‘अरश्च हि वैण्यश्चार्णवौ ब्रह्मलोके तदश्वत्थ-स्सोमसदनस्तदपराजिता पूर्ब्रह्मणः प्रभुविमितमिति सखल्वेवं वर्तयन्यावदायुषं ब्रह्मलोकमभिसंपद्यते न च पुनरावर्तते न च पुनरावर्तत इति च ब्रह्मलोक-समाख्यया एकार्थप्रतिपादकं छन्दोगोपनिषदष्टमप्रपाठकभागद्वयस्थवाक्यं मनसि निधाय वैकुण्ठपुर्या एव परममुक्तिस्थानत्वं वर्णयति ॥ अन्त इति ॥ सख-ल्वेवमिति वाक्यस्यार्थकथनमिदम् । निरणयद् ब्रह्मलोकपदोक्तवैकुण्ठलोकस्य पुनरावृत्तिशून्यतां निश्चितवती ॥ १६७ ॥

सत्यप्रमोदटीका

विष्णोर्वैकुण्ठलोकप्राप्तिरेव परममोक्ष इत्येतच्छन्दोगोप- निषत्समाख्ययाऽपि साधयति अन्ते इत्यादिना अरश्च ह वै ण्यश्चार्णवौ ब्रह्मलोके तदश्वत्थस्सोमसदनस्तदपराजिता पूर्ब्रह्मणः प्रभुविमितमिति, स खल्वेवं वर्तयन्यावदायुषं ब्रह्मलोकमभिसम्पद्यते न च पुनरावर्तते न च पुनरा-वर्तते इति च वाक्ये उक्तार्थे समाख्यात्वेन व्याख्याति अन्ते इति । स खल्वेवं वर्तयन्यावदायुषम् इत्यर्थः । द्विरुक्त्या अभ्यासरूपलिङ्गेन ॥ १६७ ॥

युक्तिमल्लिका

लोकोऽयं ब्रह्मणो विष्णोरपराजितपूः किल ।

कुयुक्त्या मृत्युना दोषैः पराजिग्ये यतो न सा ॥ १६८ ॥

सुरोत्तमटीका

सत्यलोकस्थितस्य चतुर्मुखब्रह्मणः द्विपरार्धावसाने प्रलयश्रवणेन पुनरावृत्तिशून्यत्वायोगात् परब्रह्माख्यविष्णोर्लोक एवायं ब्रह्म-लोक इति भावेनोक्तम् ॥ लोकोऽयमिति ॥ श्रुतेरंशान्तरस्थपदयोरर्थमाह ॥ कुयुक्त्येति ॥ ततः सा मृत्युरस्मादपैतीति न यत्र मायेति च स्मृत्युक्ता वैकुण्ठपुरी अपराजितपूरिति सम्बन्धः ॥ १६८ ॥

सत्यप्रमोदटीका

ब्रह्मेत्यस्य परं ब्रह्मेत्यर्थ इत्याह विष्णोरिति । कुयुक्त्या विमतो न परममोक्षो ऽसदुपासनेन प्राप्तत्वादित्येवंरूपया मायि-प्रयुक्तया । नेति । अपरमुक्तावसम्भाव्यमानसुबहुलक्षणकथनेन कुयुक्ते-राभासीकरणात् ॥ १६८ ॥

युक्तिमल्लिका

सत्त्वचित्त्वविभुत्वाद्यैस्सत्प्रभोस्संमिता किल ।

हिरण्मय्याः पुरस्तस्याः परं ब्रह्म प्रभुः किल ॥ १६९ ॥

सुरोत्तमटीका

प्रभुणा नारायणेन विशेषेण मितमुपमितमिति प्रभु-विमितमिति पदस्यार्थकथनम् ॥ सत्त्वचित्त्वाद्यैरिति ॥ सत्त्वं जनन-मरणबन्धादिदोषरहितत्वम् । विशिष्योपमा चेतनत्वं विना न घटत इति चित्त्वमपि गृहीतम् । अनेन वैकुण्ठस्य लक्ष्म्यात्मकत्वमपि सूचितम् । व्याप्तत्वादिबहुगुणैर्हरिसमाया अपि तस्यास्स्वामी हरिरेवेति सूचनाय प्रभुपदमिति भावेनोक्तम् ॥ हिरण्मय्या इति ॥ पुरःपुर्याः ॥ १६९ ॥

सत्यप्रमोदटीका

तान्येव प्रतिज्ञातपरममुक्तिलक्षणान्याह सत्त्वेत्यादिना । सत्त्वं निर्दोषत्वलक्षणं साधुत्वम् । ‘सद्भावे साधुभावे’ चेत्यभिधानात् । चित्त्वं प्रभुविमितमिति विशेषणबलाल्लब्धार्थः । प्रभुणा विष्णुना विशेषेण चित्त्वादिधर्मैरुपमितमित्यर्थः । लक्ष्म्यात्मकमित्यर्थः । लक्ष्म्याः समासमत्त्वेन यथायोग्यं साम्यं विवक्षितम् । तत्स्फोरणायैव विष्णोर् लक्ष्मीविभुत्वोक्तिः ॥ १६९–१७० ॥

युक्तिमल्लिका

इति च्छन्दोगोपनिषज्जगौ यत्तज्जगत्प्रभोः ।

वैकुण्ठाख्यैव नगरी सा पुरीति मतिर्मम ॥ १७० ॥

सुरोत्तमटीका

यद्यस्मात् । तत्तस्माद् उक्तस्मृत्या अपराजितपुरत्वस्य यतो नावर्तते यतिरिति स्मृत्या पुनरावृत्तिराहित्यस्य च वैकुण्ठ एव सम्भवात् ॥ १७० ॥

युक्तिमल्लिका

यत्राश्वत्थोऽमृतस्यन्दी यत्रारण्यौ सुधार्णवौ ।

साऽश्वत्थप्रियदुग्धाब्धिशायिनः पूर्न संशयः ॥ १७१ ॥

सुरोत्तमटीका

निमित्तान्तरं चाह ॥ अश्वत्थ इति ॥ अरण्यौ अरश्च ण्यश्चारण्यौ । अरसंज्ञ एकः । ण्यसंज्ञश्चापर इत्यर्थः । ‘‘रुष दाह’’ इति धातोर्डप्रत्यये कृते रपदोदितदुःखविरुद्धसुखरूपत्वाद् ऋगताविति धातोः पचाद्यचि ऋवर्णस्थाने गुणे च कृते ज्ञानरूपत्वाच्चारपदवाच्य एकः णपदोक्त-सुखरूपत्वाद् यपदोक्तमानरूपत्वाच्चण्यपदवाच्योऽपरः । उभावपि ज्ञानसुख-रूपतया तत्पदवाच्याविति भावः । सा अश्वत्थसुधा समुद्राश्रयीभूता ॥१७१॥

सत्यप्रमोदटीका

श्रुतौ अश्वत्थेतिपदेन अश्वत्थप्रियत्वस्य सोम-सवनमितिपदेन सुधास्यन्दिदुग्धाब्धिशायित्वस्य च इत्येवं विष्णुधर्मप्रत्यभि-ज्ञानाच्चास्य तत्पुरत्वसिद्धिरित्याह यत्रेति ॥ ‘ॐ गतिशब्दाभ्यां तथा हि दृष्टं लिङ्गं च ॐ’ इति सूत्रभाष्ये ‘तस्यैव हि तल्लक्षणत्वेनोच्यते’ इति सुधार्णवद्वयाश्रयलोकवत्त्वस्य स्मृतिसमाख्यया विष्णुलक्षणत्वस्य समर्थित-त्वादिति भावः । निर्वचनेन अरण्यशब्दयोर्ज्ञानसुखरूपार्थकत्वलाभादिति भावः ॥ १७१ ॥

युक्तिमल्लिका

किञ्च श्रुतिर्यतस्स्पष्टममृतेनावृतां पुरीम् ।

आह तेनापि मुक्तस्य पुरी सेयं न संशयः ॥ १७२ ॥

सुरोत्तमटीका

‘‘यो वैतां ब्रह्मणो वेद अमृतेनावृतां पुरीमि’’ति श्रुत्यर्थपर्यालोचनयापि मुक्तानामावासभूता पुर्येव । सा च पूर्वोत्तरपर्यालोचनया वैकुण्ठनगरीत्याह ॥ किञ्चेति ॥ १७२ ॥

युक्तिमल्लिका

जात्येकवचनं चेदमावृतामिति कीर्तनात् ।

अतोऽमृतैः पूर्णपुरी नारायणपुरी ध्रुवम् ॥ १७३ ॥

सुरोत्तमटीका

इदम् अमृतेनेति पदम् । पूर्णत्वापरपर्यायावृतत्वस्य बहुमुक्तजनसापेक्षत्वादिति भावः ॥ १७३ ॥

सत्यप्रमोदटीका

अमृतेन मुक्तवर्गेणावृतं व्याप्तम् इति श्रुतौ कीर्तनाच्चैव- मित्याह किञ्चेति । ‘यो वैतां ब्रह्मणो वेद अमृतेनावृतां पुरीं’ इति श्रुतावित्यर्थः । इदम् अमृतेनेदं परम् । आवृतां पूर्णाम् । मुक्तैः पूर्णाम् । ततश्च ‘अरश्च ह वै ण्यश्च’ इति पूर्वोदाहृतश्रुत्युक्तो ब्रह्मलोको विष्णोः परब्रह्मणो लोक एव न कार्यब्रह्मणः संसारिण इति दर्शयति अत इति

॥ १७२,१७३ ॥

युक्तिमल्लिका

देवानां पूरयोध्येति यदयोध्याभिधां पुरः ।

प्रादात्तस्याः श्रुतिः पूर्वं तद्विष्णोरेव सा पुरी ॥ १७४ ॥

सुरोत्तमटीका

एतच्छ्रुत्युक्तामृतपुर्या विष्णुपुरीत्वे ज्ञापकद्वयमाह ॥ देवानामिति ॥ देवानां मुक्तदेवानां पुरःपुर्याः । तस्याः ‘‘यो वै तामि’’ति श्रुत्युक्तायाः । पूर्वं योवैतामिति वाक्यात्पूर्वभागे ॥ १७४ ॥

सत्यप्रमोदटीका

श्रुतिः ‘यो वैतां’ इति श्रुतिः । पूर्वं पूर्वभागे । देवानां मुक्तदेवानां, ‘यत्र पूर्वे साध्याः सन्ति देवाः’ इति श्रुतिसिद्धानाम्

॥ १७४,१७५ ॥

युक्तिमल्लिका

नानाजनपदाकीर्णं वैकुण्ठं तद्धरेः पदम् ।

तन्मध्ये नगरी दिव्या साऽयोध्येति प्रकीर्तिता ।

इति पाद्मस्य वचनाद्यदयोध्या हरेः पुरी ॥ १७५ ॥

सुरोत्तमटीका

अयोध्याभिधा च वैकुण्ठनगर्या एवेत्यत्र प्रमाणमाह ॥ नानेति ॥ सा वैकुण्ठमध्यनगरी । यद्यस्मात् तस्मादयोध्यापदस्य वैकुण्ठान्तःपुरवाचकत्वात् । तत्पदसमभिव्याहृता अमृतेनावृता पुरी नारायण-पुरीति पूर्वेणान्वयः ॥ १७५ ॥

युक्तिमल्लिका

विभ्राजमानां हरिणीमिति सैव श्रुतिः पुनः ।

हरिणीमाह तेनापि हरेरेव पुरी भवेत् ॥ १७६ ॥

सुरोत्तमटीका

सैव योवैतामिति वाक्यवती श्रुतिः । यजुश्शाखैक-देशरूपा । विभ्राजमानां हरिणीं यशसा संपरीवृतामिति श्रुतिः । हरिणीं हरेरियमिति व्युत्पत्त्या हरिणीशब्दवाच्या । तेन हरिणीशाब्देन ॥ १७६ ॥

सत्यप्रमोदटीका

सैव श्रुतिः ‘यो वै तामि’ति श्रुतिः । ‘हरेरियं’ इति निर्वचनलब्धां हरिणीम् ॥ १७६ ॥

युक्तिमल्लिका

पुरीं हिरण्मयीं ब्रह्म विवेशेति यतः श्रुतिः ।

ब्रह्मणोऽन्ते प्रवेशार्हामाह तेनापि सा पुरी ॥ १७७ ॥

सुरोत्तमटीका

अन्ते द्विपरार्धावसानकाले । तेन मुक्तब्रह्मप्रवेश-योग्यत्वेन ॥ १७७ ॥

सत्यप्रमोदटीका

ब्रह्म मुक्तश् चतुर्मुखः कार्यब्रह्म ॥ १७७ ॥

युक्तिमल्लिका

विष्णोरेव पुरी ब्रह्मनाम्नस्तस्यैव पूस्त्वतः ।

क्वचिद्ब्रह्मपुरीत्युक्ता सैव ब्रह्मा विशेद्धि याम् ॥ १७८ ॥

सुरोत्तमटीका

अधुना छन्दोगोपनिषत्प्रोक्तब्रह्मपूश्शब्दार्थमाह ॥ विष्णोरिति ॥ क्वचिद् योवैतामित्यत्र ब्रह्मणः पुरीमित्युक्ता । तत्रत्यब्रह्मपुरी-शब्दस्यात्र व्याख्याने निमित्तं सूचयति ॥ ब्रह्मा विशेद्धि यामिति ॥ अत्र ब्रह्मप्रवेशयोग्यत्वकथनात्तत्रापि ब्रह्मपुरी विष्णुपुर्येव भवेत् । न हि पूर्वमपि सत्यलोकाख्यब्रह्मपुरे स्थितस्य सत्यलोकाख्यब्रह्मपुरीप्रवेश एव फलम् । अथवा ब्रह्मणः प्रवेशयोग्यत्वाद् वैकुण्ठपुर्येव ब्रह्मपुरीति वैकुण्ठ एव गजप्रवेशयोग्य-शालायां गजशालाशब्दवद् ब्रह्मपुरीशब्दप्रयोगस्य निमित्तान्तर सूचनार्थमत्र व्याख्यानम् ॥ १७८ ॥

सत्यप्रमोदटीका

ब्रह्मपुरीशब्दस्य छन्दोगोपनिषदुक्तनिर्वचनेनापि विष्णुपुरीत्वं सिध्यतीत्याह विष्णोरिति । ब्रह्मनाम्न आत्मब्रह्मादयः शब्दास्तमृते विष्णुमव्ययम् । न सम्भवन्ति इत्युक्तेः । ब्रह्म ब्रह्मपुरीं विशे-दित्युक्तौ प्रथमब्रह्मशब्दस्य बाधकवशात् कार्यब्रह्मपरत्वमेव । ‘ब्रह्मैव सन् ब्रह्माप्नोति’ इत्यत्रेवेति भावः ॥ १७८ ॥

युक्तिमल्लिका

ये तु लोकान्तरप्राप्तिमोक्षं नाचक्षतेऽबुधाः ।

तेषां वृथार्चिराद्यध्वनोर्ध्वोर्ध्वगमनं भवेत् ॥ १७९ ॥

सुरोत्तमटीका

ऊर्ध्वोर्ध्वलोकगमनरूपार्चिरादिमार्गपर्यालोचनयापि वैकुण्ठपुर्येव मुक्तिपुरीत्याह ॥ येत्विति ॥ १७९ ॥

सत्यप्रमोदटीका

अबुधा मिथ्योपासनासाध्य इति अन्यथाज्ञानिनः । वृथा ब्रह्मविद्गतिरूपनिर्विशेषब्रह्मभावापत्तिरूपत्वाभावाद् अपुरुषार्थः ॥१७९॥

युक्तिमल्लिका

ब्रह्मज्ञानेन सर्वस्य नाशे ब्रह्माभवत्स्वयम् ।

क्व गच्छेदपरिच्छिन्नो मार्गः कस्यापवर्गदः ॥ १८० ॥

सुरोत्तमटीका

अभवद् यत्र तिष्ठति तत्रैवाभवदित्यर्थः ॥ १८० ॥

सत्यप्रमोदटीका

नाशे बाधे । स्वयमिति ‘स्वेन रूपेणाभिनिष्पद्यत’ इत्यस्य ‘केवलेनैवैवात्मनाविर्भवति न तु धर्मान्तरेणे’ति परेण व्याख्याना-न्निर्विशेषभावस्यैव मोक्षत्वकथनादिति भावः । इदं च व्याख्यानं स्वव्याहतम् । ‘मुक्तानां परमा गतिः’ इति नामव्याख्याने विष्णुरेव प्रकृष्टा गन्तव्या देवता इति भाषितत्वादिति मन्तव्यम् ॥ १८० ॥

युक्तिमल्लिका

अतो वैकुण्ठादिलोकप्राप्तिर्मुक्तिर्विवेकिनाम् ।

अन्या तु मुक्तिराम्नायन्यायच्छेदाय केवलम् ॥ १८१ ॥

सुरोत्तमटीका

अतो ऽर्चिरादिलोकारोहस्य मोक्षमार्गत्वकथनात् ॥ १८१ ॥

सत्यप्रमोदटीका

आम्नायन्यायेति । उपक्रमादिन्यायैर् विष्णोर्लोक-प्राप्तिरेव मोक्ष इत्यत्राम्नायानां तात्पर्यावधारणादिति भावः॥१८१ ॥

युक्तिमल्लिका

खगेन्द्रध्वजपादाब्जयुगमूलनिषेवणम् ।

यतो भागवते स्पष्टमपवर्गाख्यमीरितम् ॥ १८२ ॥

अतो वैकुण्ठलोकस्थमुकुन्दपदसन्निधौ ।

स्थितिरेव मुमुक्षूणां मोक्षो व्यासानुशासनात् ॥ १८३ ॥

सुरोत्तमटीका

अधुना ‘‘स वै महाभागवतः परीक्षिद्येनापवर्गाख्य-मदभ्रबुद्धिः । ज्ञानेन वैयासकिशब्दितेन भेजे खगेन्द्रध्वजपादमूलमि’’ति मोक्षप्रतिपादकभागवतवाक्यपर्यालोचनयापि वैकुण्ठस्थनारायणचरणारविन्द-समीपप्राप्तिरेव मुक्तिरित्याह ॥ खगेन्द्रेति ॥ स्वमातुर्गर्भे स्वरक्षणाय पर्यावर्तमानं कृष्णं परित ईक्षत इति परीक्षित् । उत्पत्तिसमय एवापरोक्ष-ज्ञानितया जीवन्मुक्त इति भावः । इदं च विशेषणम् अस्य फलतया कथ्यमाना मुक्तिः परममुक्तिरिति सूचनार्थम् । विष्णुभक्तस्यैव ब्रह्मज्ञानेऽधि-कार इति सूचनाय महाभागवत इति विशेषणम् । तस्य च श्रोतृत्वसंपत्ति-सूचनायादभ्रबुद्धिरित्युक्तम् । वैयासकिशब्दितेन व्यासपुत्रशुकनिरूपितेन । ज्ञानोपदेष्टृगुरोरपि विष्णुरूपव्यासपुत्रत्वेन वैष्णवत्वसूचनाय वक्तृप्रसक्तिसूचनाय च वैयासकिपदम् । ज्ञानं च वैष्णवपुराणेन तदुपबृंहितवेदेन चोत्पन्नं विष्णोस्सर्वोत्तमत्वविषयमेव भवेदिति सूचनाय येनेत्युक्तम् । शुकमुखाद्भागवत श्रवणजनितेनेत्यर्थः। हरिचरणारविन्दप्राप्त्यतिरिक्तमोक्षाभावसूचनाय तस्या एव मोक्षत्वसूचनाय च अपवर्गाख्यमिति फलविशेषणम् । उपचारेणात्रापवर्ग-शब्दप्रवृत्तिरिति शङ्कानिरासाय आख्येत्युक्तम् । ‘‘आख्याह्वे अभिधानं च नामधेयं च नाम चे’’ति लिङ्गानुशासनात् ‘‘ख्या प्रकथन’’ इति धातु-व्याख्यानाच्चायमेव मुख्यापवर्ग इति भावः । मुक्तिदशायामपि हरेस्साकारत्वं पक्ष्यादिजीवानां च मुक्तौ विद्यमानत्वं तत्तारतम्यं मुक्तावपि चेतनातिरिक्त-शुद्धजडसद्भावं सेव्यसेवकभावेन तत्रापि मुक्तपरमात्मनोर्भेदं च सूचयितुं ‘‘खगेन्द्रध्वजपादमूलं भेज’’ इति चोक्तम् । अन्यथा पदे इत्यवक्ष्यत् । भेज इत्यतीतोक्तिस्तु ‘‘एष्यत्तु निश्चितं यत्स्यादतीतत्वेन भण्यत’’ इति न्यायात् । इदं चैतादृशज्ञानस्य फलसंशयनिरासार्थम् । अतीतकल्पेऽपि मुक्तपरीक्षि-त्सङ्ग्रहार्थं वा भेज इत्युक्तम् । येनेत्यस्य तदहं तेऽभिधास्यामीत्यनेनान्वयः ॥ १८२,१८३ ॥

सत्यप्रमोदटीका

भागवते ‘स वै महाभागवतः परीक्षिद्येनाप-वर्गाख्यमदभ्रबुद्धिः । ज्ञानेन वैयासकिशब्दितेन भेजे खगेन्द्रध्वजपादमूलम् ।’ इति श्लोके ॥

अयं श्लोकः भागवतस्य प्रामाण्यं तेन च मुक्तिस्वरूपतत्साधनानि निर्धार-यति । तत्प्रकारं दर्शयति नवभिर् अत इत्यादिना । स्थितिरेव इति एवकारेण शून्यभावो मोक्ष इति माध्यमिकमतं, निर्विशेषब्रह्मभाव इति मायिमतं सततोर्ध्वगतिरिति जैनमतं च निरस्तं ध्येयम् । एवं ‘रथो ध्वजः’ इत्यादि सुखविहारसाधनोक्त्या सुखध्वंसो मोक्ष इति तार्किकमतमपहस्तितं ध्येयम् । एवं मुक्तखगानां तदिन्द्रस्य गरुडस्य च सद्भावकथनेन मोक्षे तदभावं वर्णयताम्, एवं पादमूलेऽवस्थितिरेव न तु तत्समानानन्द इति कीर्तनेन आनन्द साम्यं वदतां रामानुजीयानां च मतं पराकृतम् इत्याद्यूह्यम् ॥ १८२,१८३ ॥

युक्तिमल्लिका

अतीतकल्पमुक्तं चाप्येषा वागेव यद्वदेत् ।

पुराणस्य सदेदृक्त्वात्तेन भेज इतीरितम् ॥ १८४ ॥

सुरोत्तमटीका

इममेवार्थं विस्तरेण प्रदर्शयति ॥ अतीतेत्यादिना ॥ यद्यपि शौनकादीन् प्रति कथा कथनाय चिरकालातीतपरीक्षित्कथाकथनोद्य-तस्य सूतस्य तदीय वाक्यानुवादकस्य व्यासस्य च भेज इत्येव प्रयोग उचितः । तथाप्यपवर्गात्मकस्य वैकुण्ठान्तःपुरस्थहरिचरणसमीपगमनस्य ब्रह्मणः परान्तकाल एव सम्भवात् शङ्कासमाधानं चेति द्रष्टव्यम् । अतीतकल्पमुक्तम् अतीतब्रह्मकल्पे मुक्तम् । यद् यस्मात् । ननु तदानीन्तनभागवतज्ञानस्य मुक्तिदायकत्वे इदानींतनभागवतज्ञानस्य किमागतमित्यत उक्तम् । पुराणस्य सदेदृक्त्वादिति । ईदृक्त्वात् पदपौर्वापर्यव्यत्यासमात्रेऽपि शब्दतोऽर्थतश्चैक-प्रकारकत्वात् । एवं च तदानींतनभागवतज्ञानस्य फलदायकत्वोक्तौ अस्यापि तदुक्तं स्यादिति भावेन तदुदाहरणमिति भावः ॥ १८४ ॥

सत्यप्रमोदटीका

एषा वागेवेति । ‘पुराणानि तदर्थानि सर्गे’ इत्युक्तेः । भेजे अतीतकल्पे विद्यमानः परीक्षिद् इत्युपस्कारेण योज्यम् । ‘अतीतानागतानां समानरूपत्वात्प्राप्तपदानां मुक्त्याऽऽवृत्तावप्यविरोधः’ इति भाष्यवचनात् ॥ १८४ ॥

युक्तिमल्लिका

आगामिनोऽपि निर्णीत्यै वागेवं वर्तते किल ।

अपवर्गाख्यमित्युक्तेरग्रेऽन्योऽर्थो न शोभते ॥ १८५ ॥

सुरोत्तमटीका

अन्योऽर्थः जीवन्मुक्तित्वकथनम् ॥ १८५ ॥

सत्यप्रमोदटीका

एतत्कल्पीयपरिक्षितः कर्तृत्वेन ग्रहणेऽपि ‘एष्यत्तु निश्चितं यत्तदतीतत्वेन भण्यते’ इति न्यायसूचनादतीतत्वोक्त्यविरोध इत्याह आगामिनोऽपीति । परान्तकाले संपद्यमानस्यापीत्यर्थः । अपवर्गाख्यमिति अभिधानवृत्तिकथनादुपचारेणापरमुक्तिरत्रोच्यते इति चोद्यानवकाश इत्याह नेति ॥ १८५ ॥

युक्तिमल्लिका

ज्ञानसाध्यत्वकथनात्सिद्धा परममोक्षता ॥ १८६ ॥

सेव्यसेवकभावश्च यतो भेज इतीर्यते ।

अतो जीवेशभेदस्य मुक्तावप्यनुवर्तनम् ॥ १८७ ॥

साकारत्वं च पादोक्त्या रथोक्त्या भोगसाधनम् ।

तारतम्यं च जीवेषु खगेन्द्रत्वस्य कीर्तनात् ।

खगादिजीवराशिश्च मुक्तावस्तीति गम्यते ॥ १८८ ॥

सुरोत्तमटीका

युक्त्यन्तरं चाह ॥ ज्ञानेति ॥ १८६–१८८ ॥

सत्यप्रमोदटीका

ब्रह्मविद्गतिरपरमोक्ष इति मायिनाऽपि दुर्वचमित्याह ज्ञानेति ॥ अनुवर्तनमिति । भेदस्यानौपाधिकत्वस्य पारमार्थिकत्वस्य चोक्त्या भेदस्यौपाधिकत्वम् आचक्षाणो भास्कर आविद्यकत्वं वदन् मायी च दूषितौ ॥ १८६–१८९ ॥

युक्तिमल्लिका

एतत्समस्तं तत्रापि सिद्धं वाक्यार्थवेदिनाम् ॥ १८९ ॥

महाभागवतेऽनल्पबुद्धिः पाण्डववंशजः ।

अधिकारी व्यासपुत्रः शुको योगीश्वरो गुरुः ॥ १९० ॥

सुरोत्तमटीका

तत्रापि मुक्तावपि ॥ १८९–१९० ॥

सत्यप्रमोदटीका

‘अथो विहायेमममुं च लोकं विमृश्य तौ हेयतया पुरस्तात् । कृष्णाङ्घ्रिसेवामभिमृश्यमान उपाविशत्प्रायममर्त्यनद्याम्’ इति पूर्वं प्रकृतस्य ‘स’ इत्यत्र परामर्शात् परीक्षितः नित्यानित्यवस्तुविवेकादिमत्त्वं, महाभागवत इत्यनेन भक्तिपूर्वकाध्ययनम् अदभ्रबुद्धिरित्यनेन सामर्थ्यं विद्वत्त्वं च इति अधिकारिसंपत्समृद्धिरभिहिता इत्याह अधिकारीति । एतैरेव विशेषणैस्तत्त्वज्ञानयोग्यता परीक्षिदिति पाण्डववंशजत्वकसूचनेन वक्तृप्रीति-विषयतेति ग्रन्थस्य श्रोत्रानुकूल्यं, शुकस्य वैयासकिरिति निर्देशेन व्यासोपदिष्ट- प्रमेयानामेव तत्पुत्रेण वर्णितत्वेन वक्त्रानुकूल्यं च प्रदर्शितम् इति विभाव-नीयम् । प्रायोपविष्टं प्रति तन्मोक्षार्थमुपदिष्टत्वेन प्रसङ्गानुकूल्यं च । तस्मा-त्परमप्रमाणत्वेन श्लोकनिरूपितं प्रमेयजातं वस्तुतत्त्वमिति सर्वमवदातम् । एवमीदृशज्ञानसाध्यत्वेनाभिहितोऽपवर्गोऽपरममोक्ष इति वाद उन्मत्तप्रलाप इत्यतिरोहितम् ॥ १९०,१९१ ॥

युक्तिमल्लिका

तादृशाचार्यसंपत्तौ तस्य ज्ञानेन यत्फलम् ।

महामोक्षः कथं नासौ यन्मार्गोऽद्यापि योगिनाम् ॥१९१॥

सुरोत्तमटीका

परममोक्षत्वे प्रबलयुक्तिं चाह ॥ तादृशेति ॥ तस्य शिष्यस्य जीवन्मुक्तेरपरोक्षज्ञानावस्थात्मकत्वेऽपि तत्फलत्वाभावात् । अपरोक्षज्ञानिना साक्षाच्छिवेन शुकेनापरोक्षज्ञानिनं परीक्षितं प्रत्युपदिष्टज्ञान-फलतयोच्यमानोऽयं मोक्षः कथं न परममोक्ष इति भावः । यन्मार्गः यस्य परीक्षितो मार्गः । भागवतश्रवणमिति यावत् । योगिनामपेक्षित इत्यर्थः ॥ १९१ ॥

युक्तिमल्लिका

न तद्भासयते सूर्यो न शशाङ्को न पावकः ।

यद्गत्वा न निवर्तन्ते तद्धाम परमं मम ॥ १९२ ॥

इति गीतासु कृष्णेन स्वलोकगमनस्य यत् ।

पुनरावृत्तिशून्यत्वं परमत्वं च कीर्तितम् ।

अतस्तत्परमं धाम तदेव च परात्परम् ॥ १९३ ॥

सुरोत्तमटीका

गीतावाक्यान्तरेणापि वैकुण्ठस्यापुनरावृत्तिस्थानत्वं स्पष्टमाह ॥ न तदिति ॥ पराज् जीवन्मोक्षात् ॥ १९२,१९३ ॥

सत्यप्रमोदटीका

अनुकृत्यधिकरणे सूर्याद्यप्रकाश्यत्वेन हेतुना कृष्णस्या- निर्देश्यसुखरूपत्वसमर्थितत्वात्तत्प्राप्तिरेव परममोक्ष इत्याह नेति ॥ गीतासु इति बहुवचनेन ‘मामेवेष्यसि’ ‘ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरमि’त्यादीनि वचनानि सङ्ग्राह्याणि ॥ १९२,१९३ ॥

युक्तिमल्लिका

यत्र त्वस्येति वाक्यं च स्पष्टश्रुत्युक्तमार्गतः ।

आचचक्षे परं मोक्षमिममेव न चापरम् ॥ १९४ ॥

वाक्यार्थस्य प्रकारश्च पूर्वमेव निरूपितः ।

तयोर्निरवकाशस्य प्राबल्यं सावकाशतः ॥ १९५ ॥

सुरोत्तमटीका

श्रुतीत्युपलक्षणम् । स्मृतीत्यपि ग्राह्यम् । इमं वैकुण्ठम् ॥ १९४,१९५ ॥

सत्यप्रमोदटीका

स्पष्टश्रुतीति ‘यथाकामं चरति यथाकामं पिबति यथाकामं रमते’ इत्यादि भाष्योदाहृतश्रुतीत्यर्थः, ‘श्यामावदाताः शतपत्र-लोचनाः’ इति तदुदाहृतस्पष्टस्मृतयोऽपि ग्राह्याः । इममेव ‘लोकं वैकुण्ठ-नामानं दिव्यं षाड्गुण्यसंयुतम्’ इत्युक्तमेव । अपरं निर्विशेषभावरूपम् ॥ सावकाशतस् तर्कमुखतया योजनावकाशवतः यत्र त्वस्येति वाक्यात्

॥ १९४,१९५ ॥

युक्तिमल्लिका

अन्यथा सुखभोगस्य ज्ञानमात्रस्य सर्वथा ।

निषेधात्तार्किकस्यैव मोक्षस्स्यान्नावयोर्मते ॥ १९६ ॥

सुरोत्तमटीका

अन्यथा यत्र त्वस्येति वाक्यस्य तर्कमुद्रया प्रवृत्त्य-नङ्गीकारे । यद्यपि सुखभोगोऽपि सुखापरोक्षज्ञानमेव । तथापि सुखाभावस्य सूचनाय केन कं जिघ्रेदिति विषयानुभवस्य श्रुतावपि पृथग्ग्रहणाद् ग्रन्थकृतापि पृथग्गृहीतम् । सुखभोगस्य सुखसाधनविषयानुभवस्य । मोक्षः षड्बुद्धि-पदोदितषड्विधज्ञानैस्सह एकविंशतिप्रभेददुःखध्वंसात्मकः । आवयोर् मोक्षं च सुखं ज्ञानं चास्तीत्यङ्गीकुर्वतस्तव च मम चेत्यर्थः ॥ १९६ ॥

सत्यप्रमोदटीका

अन्यथा तर्कात्मकत्वानङ्गीकारे, दर्शनस्पर्शनरस-नघ्राणादीनां निषेधात्मकत्वापत्त्या । तार्किकस्य मोक्षे ज्ञानसुखादिगुणाभाव-मङ्गीकुर्वाणस्य । इदं चापाततः । तार्किकः सुखाद्यनङ्गीकारेऽपि शिला-सदृशमपि भवतु मुक्तानां स्वरूपमेव वोररीकुरुते । अयं तु मायी ‘न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता’ इति गौडपादोक्तरीत्या मुक्तस्वरूपमेवापलपतीति ततोऽपि निकृष्ट इति हृदयम् ॥ १९६ ॥

युक्तिमल्लिका

अविद्याऽस्तमयाधारो भावान्तरविभेदवान् ।

ध्वंसाधारत्वतः कुम्भध्वंसाधारकपालवत् ।

अनुमेयं मुक्तिकाले भेदं साधयति स्फुटम् ॥ १९७ ॥

सुरोत्तमटीका

इदानीं मोक्षेऽपि भावान्तराद्ब्रह्मणो भेदसद्भावेऽनुमानं रचयति ॥ अविद्येति ॥ अविद्यास्तमयाधारः ब्रह्मचैतन्यमित्यर्थः । ब्रह्मेत्युक्ते सगुणब्रह्मणासिद्धार्थता स्यादित्यत एवमुक्तम् । अन्तरपदमुपरञ्जकम् । ध्वंसाधारत्वतः ध्वंसाधारत्वात् । अनुमेयम् इयमनुमेति सम्बन्धः ॥ १९७ ॥

सत्यप्रमोदटीका

‘विमतो भिन्नो मुक्तत्वात्’ इति तत्त्वोद्योतोक्तमनुमानं मनसि निधाय मुक्तभेदसाधकमनुमानमाह अविद्याऽस्तमयाधार इति । संसारान्मुक्त इत्यर्थः । ‘अविद्याऽस्तमयो मोक्षः सा संसार उदाहृतः’ इति तदुक्तेः । ननु साध्ये भावान्तरपदेन स्वव्यतिरिक्तभावविवक्षायामप्रसिद्ध-विशेषणता । मुक्तस्य तद्भेदसिद्धिं विना तेषामेतद्व्यतिरिक्तत्वासिद्धेः । सिद्धौ च सिद्धसाधनत्वादिति चेन्न । स्वप्रागभावदशायां येन भेदेन विशिष्टस्तेनैव मोक्षेऽपीत्ययमर्थो विवक्षित इति टीकोक्तरीत्या साध्यतात्पर्यस्य विवक्षितत्वात् । कुम्भेति प्रतियोगिध्वंसयोः समानदेशवृत्तित्वनियमाद्घटध्वंसाधारः कपाल एव । तस्य च प्रागवस्था घटावस्था । तदानीं विद्यमानो भेदः जडसंसारिपरमात्म-प्रतियोगिकः । स सर्वोऽपि कपालदशायामनुवर्तते इति दृष्टान्ते साध्यसिद्धिः । तस्यैव संसारान्मुक्तेऽपि सिद्ध्या प्रतियोगिविशेषघटितस्य उद्दिष्टभेदस्य सिद्धिः । यद्वा बन्धध्वंसाधारत्वं हेतुः । तथात्वे निगडमुक्तो दृष्टान्त इति तट्टीकोक्त-रीत्या प्रयोगो वा बोध्यः । अनुमा इयम् इति पदच्छेदः ॥ १९७ ॥

युक्तिमल्लिका

ब्रह्मा तु सर्वजीवांस्तांस्त्रिविधान्स्वोदरस्थितान् ।

निवेश्य विष्णोरुदरे कुक्षिस्थैरपरोक्षिभिः ॥ १९८ ॥

साकं वैकुण्ठवाहिन्यां परितोऽन्तःपुरं हरेः ।

मुक्तामुक्तस्थलोपाधौ चिद्रूपजलसंपदि ॥ १९९ ॥

विरजायां महानद्यां निर्दोषायां भवच्छिदि ।

मग्नो विध्वस्तसंसारो लिङ्गदेहस्य भङ्गतः ॥ २०० ॥

दिव्यस्वरूपसंपन्नः शेषवीन्द्रेन्द्रपूर्वकैः ।

चिद्रूपैः सनकाद्यैश्च भृग्वाद्यैश्च समन्वितः ॥ २०१ ॥

कुक्षिं प्रविश्य स्वपितुरुषित्वा शतवत्सरान् ।

सृष्टिकाले पूर्वमुक्ता ब्रह्माद्या योगिनो यथा ।

जाताः स्वयञ्च स्वगणैः सह तद्वत्प्रजायते ॥ २०२ ॥

सुरोत्तमटीका

पूर्वमुपनिषदभिप्रेततयोक्तं मुक्तिगमनप्रकारमेकीकाराय पुनरनुवदन्किञ्चिदधिकं वदन् भागवतवाक्यारूढं करोति ॥ ब्रह्मेत्यादिना ॥ कुक्षिस्थैस्स्वकुक्षिस्थैः । शेषवीन्द्रेत्यादिकं पूर्वानुक्तं भागवतवाक्यानुसारेणात्र सङ्गृहीतम् । ‘‘कर्तृत्वात्सगुणं ब्रह्म प्रविश्य पुरुषर्षभमि’’त्यस्यार्थसूचनाय कुक्षिं प्रविश्य स्वपितुरित्याद्युक्तम् । अनेन सकलजीवोत्तमस्यैव कर्तृत्वात्पितृत्वा-त्सगुणसहभोगित्वादिगुणभरित इत्यर्थस्सूचितो भवति । शतवत्सरान् ब्रह्मशतवत्सरान् । सृष्टिकाले पूर्वमुक्ता इत्यादिकमपि यथापूर्वं जायत इति भागवतवाक्यस्यार्थसूचनाय सङ्गृहीतम् । अनेन पूर्वान्पूर्वमुक्तान्यथानतिक्रम्येति यथापूर्वशब्दार्थ उक्तो भवति । अगुणव्यतिरेकेण गुणमिश्रणरहिते वैकुण्ठादि-लोकत्रये प्रजायते प्रकर्षेणानन्दादिप्रादुर्भाववान्भवतीति मूल एवोक्तत्वात् । स्वपूर्वमुक्ता ब्रह्माद्यास्सृष्टिकाले येषु वैकुण्ठादिलोकेषु तिष्ठन्ति तत्रैव स्वयमपि स्थितोऽभूदिति भावः ॥ १९८–२०२ ॥

सत्यप्रमोदटीका

एवं पूर्वोक्तं महाप्रलये सर्वजीवानां स्थितिप्रकारमनूद्य भागवतसमाख्यया विशदयति ब्रह्मेत्यादिभिः । अपरोक्षिभिः स्वस्वयोग्य-भगवद्रूपविशेषदर्शनभोगाभ्यां विनष्टानिष्टसञ्चितप्रारब्धलक्षणाशेषकर्मभिः ॥ चिद्रूपेति । लक्ष्म्यात्मकेत्यर्थः ॥ विध्वस्तेति । ‘प्रारब्धकर्मशेषस्तु विरजा-तरणावधिरि’त्युक्तेः ॥ चिद्रूपैः ‘आनन्दमात्रवपुषः सृतिविप्रमुक्तान्’ इति भगवत्पादवचनात् ॥ शतवत्सरान्’ तावत्येव निशा तात यन्निमीलति विश्वसृगि’त्युक्तेः

॥ १९८–२०२ ॥

युक्तिमल्लिका

शुद्धप्रकृत्यंशतः स्युर्भूषणायुधराशयः ।

मुक्तानां किल सर्वेषां लिङ्गभङ्गे हरीच्छया ॥ २०३ ॥

सुरोत्तमटीका

सारूप्यमोक्षप्रकारं वर्णयति ॥ शुद्धेति ॥ लिङ्गभङ्गे विरजाम्बुमज्जनाल्लिङ्गनाशे जायमाने । तन्नाशोत्तरक्षण एवेत्यर्थः । शुद्ध-प्रकृत्यंशतः विकाररहितकेवलप्रकृतेरेव नानावर्णसूक्ष्मांशैर्हरीच्छया भूषणादि-राशयस्स्युरिति सम्बन्धः । शर्कराखण्डपरिवृतमक्षिकाराशिवन्नानावर्णा-स्सूक्ष्मतर भास्वरप्रकृत्यंशा मुक्तानाञ्चिन्मयशिरःपाण्याद्यवयवेषु किरीटाद्या-कारेण संलग्ना भवन्तीति भावः । अथवा तदङ्ग एवानादिकालमारभ्य शुद्धप्रकृत्यंशतो विद्यमाना भूषणायुधराशयस्स्युर् आवरकलिङ्गभङ्गे सति व्यक्तास्स्युः । लिङ्गदेहस्य चिद्रूपदेहकंचुकतया स्थितस्य त्रिविधजीवेष्वपि साम्येनैकत्र विशेषायोगात्प्रागुक्तपक्ष एव ज्यायान् ॥ २०३ ॥

सत्यप्रमोदटीका

यथेति ‘यथापूर्वं प्रजायते’ इति वचनात् । हरीच्छयेति ‘ज्ञानिनां मोक्षदश्च सः’ इत्युक्तेर् ईश्वरेच्छाया एव प्रधाना-वरणत्वात् । शुद्धेति बन्धकव्यापाररहितेत्यर्थः । भूषणेति । ‘सर्वे चतुर्बाहव उन्मिषन्मणिप्रवेकनिष्काभरणाः सुवर्चसः ।’ इति द्वितीयस्कन्धे हरिणा चतुर्मुखाय प्रदर्शितस्य वैकुण्ठस्य वर्णनात् । ‘सन्दर्शयामास परं न यत्पद-मि’ति वचनात् तस्यैव परममुक्तित्वं प्रमीयते ॥ २०३ ॥

युक्तिमल्लिका

अतः सारूप्यमोक्षोऽयं सर्वेषामपि योगिनाम् ।

सालोक्यसामीप्यसायुज्यानि योग्यतया किल ॥ २०४ ॥

सुरोत्तमटीका

अतस्सर्वेषामपि किरीटकुण्डलाद्यलङ्कारस्यापेक्षितत्वात् । योग्यतया सालोक्यादिमोक्षत्रयस्य या योग्यता तया । सा चोत्तमाधि-कारिणामेव भवति न सर्वेषामिति भावः । सालोक्यादिवदपूर्वं वा आवृततया प्रागुपविद्यमानं वा सारूप्यं विरजाम्बुन्यामज्य लिङ्गशरीरं विनाश्योत्थितानां सर्वेषां तदैव भवति । सालोक्यादित्रयं तु पुनस्सृष्टिकाले भगवदुदरान्निस्सृतानां योग्यानामुत्तमाधिकारिणामेव भवति । सर्वमोक्षाणामपि भगवदवताराणामिव शक्त्यात्मना प्राक्सतां व्यक्तेरेव जायमानत्वान्नोत्पत्तिराशङ्कनीया ॥ २०४ ॥

सत्यप्रमोदटीका

किलेति योग्यतयेति च वचनेन जीवानाम् अनादि-स्वरूपयोग्यतां मुक्तौ तारतम्यं चापलपन्तो रामानुजीया निरस्ताः । ‘मुक्ता-नामपि सिद्धानां नारायणपरायणः । सुदुर्लभः प्रशान्तात्मा कोटिष्वपि महामुने’ इति स्मृतौ ‘सर्वेऽस्मै देवा बलिमावहन्ति’ इति श्रुतौ च चतुर्मुखस्य सर्वमुक्तानामाधिपत्यसिद्धेः ॥ २०४ ॥

युक्तिमल्लिका

अस्मद्गुरुर्मुख्यवायुर्हरेर्नाभिसरोरुहात् ।

उत्पद्य चतुरास्यत्वं प्राप्य शास्त्यखिलं जगत् ॥ २०५ ॥

एवं चक्री जगच्चक्रं सदा वर्तयति प्रभुः ।

आद्यः स्थिरचराणां यो वेदगर्भः सहर्षिभिः ॥ २०६ ॥

योगेश्वरैः कुमाराद्यैः सिद्धैर्योगप्रवर्तकैः ।

भेददृष्ट्याऽभिमानेन निस्सङ्गेनापि कर्मणा ॥ २०७ ॥

कर्तृत्वात्सगुणं ब्रह्म पुरुषं पुरुषर्षभम् ।

स सङ्गत्य पुनः काले कालेनेश्वरमूर्तिना ॥ २०८ ॥

जाते गुणव्यतिकरे यथापूर्वं प्रजायते ।

इति भागवते स्पष्टं कथेयं समुदीरिता ॥ २०९ ॥

सुरोत्तमटीका

वेदा गर्भे यस्य स वेदगर्भो मुख्यप्राणः । भविष्यद्भि-र्ऋषियोगेश्वरसिद्धाद्यैस्सह सगुणं ज्ञानानन्दादिगुणसहितं ब्रह्म परब्रह्मात्मकं पुरुषर्षभं नारायणं समेत्य प्रलयकाले तदुदरेस्थित्वेत्यर्थः । गुणव्यतिकरे गुणवैषम्याख्यसृष्टौ जायमानायां सत्याम् । स्वधर्मनिष्ठश्शतजन्मभिः पुमा-न्विरिञ्चतामेति । यत्पादपद्मपरिचर्यये त्यादिवाक्यैश्च सत्यलोकाधिपत्यस्यापि साक्षान्मोक्षाङ्गतया ज्ञानभक्तिवैराग्याणामवान्तरफलत्वसम्भवाद् भेददृष्ट्या स्वतृतीयावतारे समर्थितभेदज्ञानेन । अभिमानेन मूलरूपेऽवतारेषु च हरावेव कृतबहुमानेन निस्सङ्गेन फलापेक्षां विना कृतेन कर्मणा राक्षससंहरणादिकर्मणा च प्रसन्नभगवदनुग्रहाद् यथापूर्वं पूर्वब्रह्माणमनतिक्रम्य तदुत्पत्तिप्रकारेणेत्यर्थः । प्रजायते महत्तत्वप्रवर्तकस्थूलदेहतयोत्पद्यत इति तस्यैव श्लोकस्य सम्भव-दर्थान्तरमभिप्रेत्याह ॥ अस्मद्गुरुरिति ॥ २०५–२१० ॥

सत्यप्रमोदटीका

चतुरास्यत्वं प्राप्येति ‘स्वधर्मनिष्ठः शतजन्मभिः पुमान्विरिञ्चतामेति’ इति वक्ष्यप्रमाणानुसारेणेति भावः ॥ सदेति । ‘व्यदधा-च्छाश्वतीभ्यः समाभ्यः’ इति श्रुतेः । ‘न क्वाप्यनीदृशं विश्वमि’ति स्मृतेश्च । आद्य इत्यादि भागवतवचनम् ॥ समुदीरिता समाख्यारूपेण वर्णिता ॥ २०५–२०९ ॥

युक्तिमल्लिका

साधनं चास्य जीवेशभेददृष्टिर्हरौ गुरौ ।

अभिमानाभिधा भक्तिर्निवृत्तं कर्म चोच्यते ॥ २१० ॥

मुख्यं तदुभयं कर्म त्वमुख्यं तत्र साधनम् ।

अतस्तृतीयं तत्प्रोक्तमपिशब्दोऽप्यगर्हयत् ॥ २११ ॥

सुरोत्तमटीका

तत्र मुक्तौ तेषु साधनेषु वा । अतो ऽप्रधानत्वात् । तत्फलसङ्गरहितं कर्म ॥ २११ ॥

सत्यप्रमोदटीका

तदेव साधयति साधनं चेति । भेददृष्ट्या इत्यस्यार्थः जीवेशेति । पञ्चभेदेत्यर्थः । (एतेषां श्लोकानाम् अर्थस् तात्पर्योक्तो ऽभिमानेन पूर्णज्ञानेन । सङ्गत्य लये परमेश्वरं प्रविश्य । यथापूर्वं प्रजायते उच्चनीचादि-भावेन जायते अगुणव्यतिकरे बहिः श्वेतद्वीपे निर्गच्छन्ति ।) ‘पञ्चभेदांश्च विज्ञाय मुक्तिर्न चान्यथा’ इति स्मृतेः । ‘जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः’ इति श्रुतेः । अभिमानाभिधेति अभितो मान इति व्युत्पत्त्येति भावः । गुराविति । ‘यस्य देवे परा भक्तिर्यथा देवे तथा गुरावि’ति श्रुतेः । निःसङ्गेनेति निवृत्तेनेत्यर्थः । ‘निष्कामं ज्ञानपूर्वं तु निवृत्तमिह चोच्यते । निवृत्तं सेवमानस्तु ब्रह्माभ्येति सनातनमि’ति वचनात् । अपिशब्देन ज्ञानसमकक्षतां गर्हयामास । ॐ भाक्तं वा अनात्मवित्तथा हि दर्शयति इति सूत्रात् ॥ २१०–२१३ ॥

युक्तिमल्लिका

समुच्चयार्थं गर्हार्थमपि शब्दोऽयमीरितः ।

न चेच्चशब्दं प्रब्रूयात्सोऽपि च्छन्दो भिनत्ति न ॥ २१२ ॥

सुरोत्तमटीका

न चेद्गर्हापेक्षा न चेत् । सोऽपि चशब्दोऽपि । निस्सङ्गेन च कर्मणेत्युक्तेऽपि छन्दोभङ्गाभावादिति भावः॥२१२ ॥

युक्तिमल्लिका

अभिमानोऽप्युक्तरीत्या भक्तिरेव भवेदसौ ।

मोक्षसाधनपङ्क्तौ यः पठितो दिव्ययोगिना ॥ २१३ ॥

सुरोत्तमटीका

मोक्षसाधनपङ्क्तौ सर्वाविवादनिवृत्तकर्माख्यमोक्षसाधन-पङ्क्तौ ॥ २१३ ॥

युक्तिमल्लिका

एवं परान्तकाले स्यान्मुक्तत्वं योग्ययोगिनाम् ।

परान्तकालो यन्मुक्तिकालः श्रुतिषु कथ्यते ।

निवृत्तं कर्म यन्मुक्त्यै ततोऽन्योऽर्थो न शोभते ॥ २१४ ॥

सुरोत्तमटीका

यद्यस्मात् । श्रुतिषु परान्तकाले परामृतादित्यादिश्रुतिषु । यद्यस्मात् । ततो मुक्तिसाधनत्वेन सर्वाभिमतनिवृत्तकर्मणा सह पठितत्वात् । अन्योऽर्थो व्यावहारिकभेददृष्ट्या देहाद्यभिमानेन पुनरिहैव जायत इत्याद्यर्थः । मुक्त्यैकसाधननिवृत्तकर्मण उत्पत्तिहेतुत्वायोगादृषीणां सनत्कुमारादि-योगीश्वराणां प्रवर्तकसिद्धानां सकलवेदप्रवर्तकब्रह्मणश्चान्ते देहाभिमानस्य चायोगात्परान्तकाले परिमुच्यन्ति सर्व इति श्रुतिविरोधाच्च । अतोऽ-स्मदुक्तविधया ज्ञानभक्तिवैराग्यसाधनत्रयेण पूर्वब्रह्मवदाविर्भूतानन्दो भवती-त्येवार्थः । परान्तकाले न मोक्षः किन्तु पुनरपि ब्राह्मशतवर्षानन्तरं मोक्ष इति स्वयूथ्यः कश्चित्तदपि न । परान्तकाले परिमुच्यन्ति सर्व इति श्रुतिविरोधान् न ह्युदिते जुहोतीति श्रुतेरुदयानन्तरं त्रिंशद्घटिकोपरि जुहोतीति कोऽपि प्रेक्षावानर्थं ब्रूते । ‘‘तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ संपत्स्यत इति श्रुतेः प्रारब्धकर्मनाशानन्तरं मोक्षविलम्बायोगाच्च । उक्तविधया वैकुण्ठाच्छ्वेत-द्वीपं प्राप्य गमनसम्भवेन ‘‘यावच्छ्वेतं न गच्छती’’ति वाक्यस्याप्यनुकूलत्वात् । प्रारब्धकर्मनाशस्तु यद्यपि विरजातरणावधिस्तथापि स प्रारब्धकर्मरूप-प्रकृतेर्बन्धो ब्रह्मणा सहैवभिद्यते न स्वेच्छयेत्यर्थसम्भवेनास्यापि वाक्यस्या-स्मदनुकूलत्वात् । अन्यथा ‘‘उपासते ते पुरतस्समाप्नुयुर्ब्रह्माणमस्मान्मतिमाप्य विष्णुम् ॥ प्रयान्त्यतोऽन्येऽपि तमाप्य तस्माद्धरिं गता मुक्तिभाजः परान्त’’ इति स्पष्टाचार्यवचनविरोधेनापसिद्धान्तापातादतो यत्किञ्चिदेतत् ॥ २१४ ॥

सत्यप्रमोदटीका

जायते जनि प्रादुर्भावे इति धातोर् ज्ञानानन्दा-द्यात्मकस्वस्वरूपेणाविर्भवतीत्यर्थः ॥ अन्यो ऽर्थः मिथ्याभूतभेददर्शनेन देहाभिमानेन च यथापूर्वम् इह संसारे देहसम्बन्धरूपं जन्म प्राप्नोतीत्येवं रूपः । न शोभते तिरस्कार्यः । ‘न भारती मेऽङ्ग मृषोपलक्ष्यते न कर्हिचिन्मे मनसो मृषा गतिः ।’ इत्यादिकथितमहिमातिशयोपेतस्य अभिमानाद्यशेषदोषदूरस्य चतुर्मुखस्य परान्तकाले प्राप्यगतेर् मोक्षत्वावश्यंभावात् तस्याः संसारत्व-कथनस्य प्रमाणविरुद्धतयाऽपहसनीयत्वादिति भावः । अतः योगीश्वरस्य चतुर्मुखस्य सनकादियोगिनां साधनवर्णनपरत्रितयस्य अस्मदुक्तरीत्या क्रमेण ज्ञानं भक्तिर् वैराग्यम् इत्येवार्थाश्रयणस्य समुचितत्वादिति भावः ॥ २१४ ॥

युक्तिमल्लिका

पुमान्विरिञ्चतामेति मामेवैति ततः परम् ।

इत्युक्त्या च पुनर्जन्म तस्यैव स्यात्कथं वद ॥ २१५ ॥

मां लक्ष्मीं स्वात्मवाचित्वे यथाहमिति रुद्रवाक् ।

न शोभते न हि स्वात्मप्राप्तिः स्वस्य लये सति ॥ २१६ ॥

पदं वैष्णवमेतीति वैकुण्ठगतिकीर्तनात् ।

पुनरावृत्तिवार्ताऽस्य निवृत्तेवाभवत्तव ॥ २१७ ॥

सुरोत्तमटीका

‘‘स्वधर्मनिष्ठश्शतजन्मभिः पुमान्विरिञ्चतामेति ततःपरं हि माम् ॥ अव्याकृतं भागवतोऽथ वैष्णवं पदं यथाहं विबुधाः कलाप्तय’’ इति भागवतवाक्यान्तरसमाख्यया यथापूर्वं प्रजायत इति वाक्यस्याप्यस्मदुक्त एवार्थ इत्याह ॥ पुमानिति ॥ पुमान् ब्रह्मपदवीयोग्यपुरुषः । शतजन्मभिस्स्व-विहितधर्माचरणं कृत्वा विरिञ्चतामेति ।

मामित्यस्यार्थकथनायोक्तम् ॥ मां लक्ष्मीमिति ॥ अस्य श्लोकस्य रुद्रवचनत्वान्मां स्वात्मानमित्यर्थः कुतो नेत्यत आह ॥ स्वात्मवाचित्व इति ॥ यथाहमिति रुद्रेण ब्रह्मनिर्याणस्य स्वनिर्याणं दृष्टान्ततया कथ्यते । एवं च यथा लयेऽहं मां प्रविशामि ब्रह्मापि मां प्रविशतीत्यर्थो वक्तव्यः । तच्चात्माश्रयान्न शोभते । तस्माद्यथाहं लक्ष्मीं प्रविशामि तथा ब्रह्मापि लक्ष्मीं प्रविशतीत्येवार्थ उचितः । सर्वेषामपि देवानां लक्ष्मीद्वारा विष्णुप्राप्तेश्शास्त्र-सिद्धत्वादिति भावः । उपलक्षणं चैतत् । यतस्सत्यलोकस्थितस्य ब्रह्मण-स्स्वलोकादुपरितनवैकुण्ठस्थविष्णुप्राप्तये भूलोकस्थितकैलासपर्वतस्थशिवप्रवेशो लौकिकमाभाणकमनुकरोति । अतोऽपि न युक्तः । सोऽथ विरिञ्चवीर्य इति भागवते रुद्रस्य ब्रह्मकुमारत्वोक्तेश्च न युक्त इति द्रष्टव्यम् ।

अथ लक्ष्मीप्राप्त्यनन्तरं भागवतः भगवद्भक्तशिरोमणिर्ब्रह्मा अव्याकृतं विकाररहितं वैष्णवं विष्णुसम्बन्धिपदं स्थानं वैकुण्ठमेतीत्यनेन लब्धमर्थमाह ॥ पदमिति ॥ तव पुनरावृत्तिवार्ता । यथापूर्वं प्रजायत इत्यस्य पूर्ववद्ब्रह्मा पुनरप्युत्पद्यत एव न तु वैकुण्ठं प्राप्नोतीत्यर्थकथनम् । तद्वल्लयप्रतिपाद-केऽस्मिन्वाक्ये स्पष्टं वैकुण्ठगतेरुक्तत्वेनैतद्वाक्यसमाख्यया तस्मिन्नपि वाक्येऽ-स्मद्व्याख्यानानुसारेण वैकुण्ठगतेरेव वक्तव्यत्वादिति भावः ॥ २१५–२१७ ॥

सत्यप्रमोदटीका

सुस्पष्टभागवतवचनाच्चैवमित्याह पुमानिति । अनेन ‘स्वधर्मनिष्ठः शतजन्मभिः पुमान् विरिञ्चतामेति ततः परं हि माम् । अव्याकृतं भागवतोऽथ वैष्णवं पदम्’ इति रुद्रवाक्यमर्थतः सङ्गृह्णाति । शत-जन्मभिरिति एकोनशतकल्पसाधनानन्तरम् इत्यर्थः । ततः परं विरिञ्चिपदेन साधनानन्तरम् । मां लक्ष्मी एति । द्वारमात्रतयेत्यर्थः । न तु तत्र लयः । वैष्णवं पदमेति इति उत्तरत्र श्रुतेः । रुद्रस्य चतुर्मुखे विलयस्य प्रमितत्वेन माम् इत्यस्य स्वात्मानं रुद्रमित्यर्थस्तु अशक्यशङ्कः ॥ २१५–२१७ ॥

युक्तिमल्लिका

ब्रह्मणा सह मुक्तः सन्भोगान्भुङ्क्ते विपश्चिता ।

श्रुतिश्चैषा ब्रह्मणोऽन्ते मुक्तिमाह न संसृतिम् ॥ २१८ ॥

सुरोत्तमटीका

सोऽश्नुते सर्वान् कामान् सह ब्रह्मणाविपश्चितेति श्रुत्या मुक्तैस्सह चतुर्मुखब्रह्मणो मौक्तभोगकथनाच्च न तस्य पुनर्जन्मेत्याह ॥ ब्रह्मणेति ॥ २१८ ॥

सत्यप्रमोदटीका

श्रुतिविरुद्धश्च परपरिकल्पितोऽर्थ इति वक्ति ब्रह्मणेति । श्रुतिः सोऽश्रुते सर्वान्कामान्सह ब्रह्मणा विपश्चितेति श्रुतिः । अत्र मुक्तमात्रस्य चतुर्मुखेण सहैव भोगकथनाच् चतुर्मुखस्यैव पुनः संसारे आवृत्तिकथनं कथं नासङ्गतमित्याशयः ॥ २१८ ॥

युक्तिमल्लिका

दत्तं किल ब्रह्मपदं रामेणास्मद्धनूमते ।

तच्च न स्याद्यदि ब्रह्मा स एव स्यात्पुनः पुनः ॥ २१९ ॥

सुरोत्तमटीका

अस्यैव ब्रह्मणः पुनर्जन्माभावे युक्त्यन्तरं चाह ॥ दत्तमिति ॥ तत् हनूमतो भविष्यद्ब्रह्मपदवीदानम् ॥ २१९ ॥

सत्यप्रमोदटीका

नैषः दोषः । ब्रह्मणा पुनः कल्पान्तरे मुक्तेन सह मुक्तानां भोगोपपत्तेरिति चेन्मैवम् । हनूमते रामेणागामिकल्पे एव ब्रह्मपद-दानानुपपत्तेः । न हि एकस्मिन्नेव ब्रह्मकल्पे चतुर्मुखद्वयावस्थानं सञ्जाघटीती-त्याह दत्तमिति ॥ २१९ ॥

युक्तिमल्लिका

न चेच्छ्रुतिः कथं प्राह पवमानः प्रजापतिः ।

इत्याद्या पवमानस्य प्रजापतिपदं वद ॥ २२० ॥

सुरोत्तमटीका

वायोर्ब्रह्मपदानङ्गीकारे श्रुतिविरोधं चाह ॥ न चेदिति ॥ आदिपदेन मारुतस्य वेधस इति श्रुतिं गृह्णाति॥ २२० ॥

सत्यप्रमोदटीका

आद्यपदेन ‘मारुतस्य वेधसः’ इति श्रुतेर्ग्रहणम् ॥ २२० ॥

युक्तिमल्लिका

तस्माल्लये हरेः कुक्षिं प्रविश्यान्ते लयस्य सः ।

वैकुण्ठादिपुरस्थः स्यादित्येवार्थः पुमर्थकृत् ॥ २२१ ॥

सुरोत्तमटीका

सः ब्रह्मा ॥ २२१ ॥

सत्यप्रमोदटीका

स्यादिति । स्वरूपेण प्रादुर्भवतीत्येवार्थः । एवकारेण पुनः संसारसम्बन्धं वारयति ॥ २२१ ॥

युक्तिमल्लिका

परान्तकाले सर्वेऽपि मुच्यन्ते योगिनः किल ।

ब्रह्मैवं सति योगीन्द्रो मुक्ताग्रेसरतामियात् ॥ २२२ ॥

सुरोत्तमटीका

ब्रह्मणः कैमुत्येन मुक्तत्वे श्रौतयुक्त्यन्तरं चाह ॥ परान्तेति ॥ एवं सति ब्रह्मणोऽप्यधमापरोक्षज्ञानिनां सर्वेषां मुक्तत्वे सति ॥

सत्यप्रमोदटीका

एवं सति योगिनामपि मुक्तत्वे सति । योगीन्द्रो ब्रह्मा न केवलं मुक्तो भवति किन्तु मुक्ताग्रेसरताम् इयादित्यर्थः ॥ २२२ ॥