०५ ज्ञानेनाशेषनिवृत्तिरित्यस्य निरासः

ज्ञानेनैव च नास्तित्वं कस्य विश्वस्य जायते

ज्ञानेनाशेषनिवृत्तिरित्यस्य निरासः

युक्तिमल्लिका

ज्ञानेनैव च नास्तित्वं कस्य विश्वस्य जायते ।

प्रलये नास्तिता या तु सा ध्वंसादेव केवलम् ॥ १२४ ॥

सुरोत्तमटीका

यद्यपि ज्ञानेन नाशाख्यबाधो नास्ति । तथापि नास्तित्व- बोधाख्यबाधोऽस्तीत्यतस्सोऽपि नास्तीत्याह ॥ ज्ञानेनेति ॥ अतस्त्वदभिलषित त्रिकालनास्तिताख्यबाधस्य नात्रावकाश इति भावः ॥ १२४ ॥

सत्यप्रमोदटीका

ज्ञानेनैव च नास्तित्वं पराभिमतं ज्ञानत्वेन निवर्त्य-त्वम् । केवलं न तु ‘नास्ति नासीद्भविष्यति’ इति त्वदुक्तं त्रैकालिक-निषेधप्रतियोगित्वम् ॥ १२४ ॥

युक्तिमल्लिका

किमन्यन्नाशयेज्ज्ञानी कस्य वा नास्तितां दिशेत् ।

स्वदेहस्यापि यद्दाहान्नास्तिता न स्वसंविदा ॥ १२५ ॥

सुरोत्तमटीका

अन्यद् उक्तप्रकारेण नष्टजगतोऽन्यत् । दाहात् सङ्कर्षणमुखानलेन दाहात् ॥ १२५ ॥

सत्यप्रमोदटीका

न स्वसंविदेति । तदुक्तं सुधायाम् । ‘किन्तु मुद्गर-प्रहारादिना घटस्येवेश्वरज्ञानेच्छाप्रयत्नैर्विनाश एव’ इति

॥ १२५,१२६ ॥

युक्तिमल्लिका

अतो जगद्बाधकथा स्वाबोधादेव केवलम् ।

उच्चैर्न वाच्या विद्वत्सु महाहास्यास्प(दं)दा हि सा ॥ १२६ ॥

सुरोत्तमटीका

अतः दृष्टजगत उक्तविधयैव नाशात् । जगदन्तरस्य चाभावात् । सा ज्ञानान्नाशकथा ॥ १२६ ॥

युक्तिमल्लिका

इतोऽन्यस्सर्वसंहारो न श्रौतो नापि यौक्तिकः ।

घटादिसर्वनाशो हि स्वस्वकारणशेषवान् ॥ १२७ ॥

सुरोत्तमटीका

इतः ब्रह्मप्रलयात् । सर्वसंहारः ब्रह्मव्यतिरिक्तप्रकृति-प्राकृताख्यसकलजगत्संहारः ॥ १२७ ॥

सत्यप्रमोदटीका

स्वस्वकारणेति । ‘वायुना हतगन्धा भूः सलिलत्वाय कल्पते’ इत्यादिभिर् भागवते नाशप्रकारोक्तेः ॥ १२७ ॥

युक्तिमल्लिका

दाहेन कार्यनाशेऽपि भस्मशेषः प्रदृश्यते ।

स्वस्वावयवनाशेऽपि सूक्ष्मसूक्ष्मतदंशकाः ।

शिष्टा भवन्ति तद्वस्तु कथं स्यादसदेव हि ॥ १२८ ॥

अतो या या त्वयोच्येत सा सा नाशपरंपरा ।

कथं मुञ्चेदुपादानसूक्ष्मांशांशपरंपराम् ॥ १२९ ॥

सुरोत्तमटीका

कार्यनाशेऽपि सकारणकार्यनाशेऽपि ॥ १२८,१२९ ॥

सत्यप्रमोदटीका

कथमिति । अवयवसंयोगनाशेन कार्यनाशे अवयवा-नाम्, अवयवनाशेन तन्नाशे अवयवोपादानानाम्, अन्ततः मूलप्रकृतेरवशेष इति कुत्रापि निःशेषनाशोऽलीक इति भावः ॥ १२८,१२९ ॥

युक्तिमल्लिका

परंपरा द्विरूपेयं प्रकृतौ पर्यवस्यति ।

सर्वस्यान्ते यतस्सैव शिष्टा नष्टा च नैव सा ॥ १३० ॥

सुरोत्तमटीका

द्विरूपा कारणकार्यनाशरूपा । इयं घटमारभ्य प्रकृति-पर्यन्ता । सैव प्रकृतिरेव ॥ १३० ॥

सत्यप्रमोदटीका

द्विरूपा कार्यकारणनाशरूपा । नैव नष्टेति । प्रकृते-र्नित्यत्वं च महाप्रलयानन्तरं पुनःसृष्टावुपादानत्वात् ॥ १३० ॥

युक्तिमल्लिका

नाशत्वाद्विमतो नाशस्स्याद्भावान्तरशेषवान् ।

घटनाशवदित्येषा विदोषा युक्तिरस्ति हि ॥ १३१ ॥

सुरोत्तमटीका

निरूपितप्रमेयतःसिद्धमनुमानमाह ॥ नाशत्वादिति ॥ विमतो नाशः परोदीरितसर्वनाशः ॥ १३१ ॥

सत्यप्रमोदटीका

जीवब्रह्मैक्यमाशासानेन मायिना विरुद्धधर्मोपलक्षित-सर्वप्रपञ्चस्य ज्ञाननिवर्त्यत्वरूपमिथ्यात्वं यदुच्यते तत्र निवृत्तिरूपो विनाशः कीदृश इति प्रष्टव्यम् । किम् असङ्कोचेन सर्वनाशो ऽथ ब्रह्मभिन्नस्य सर्वस्य भावस्य नाश उत भावकार्यस्य, यद्वा ब्रह्मभिन्नस्य सादेरनादेः सर्वस्य नाश इति विकल्प्य दूषयति । विमतः ज्ञानेन जायमानो निवृत्तिलक्षणः । विदोषा अव्यभिचरितव्याप्तियुता ॥ १३१ ॥

युक्तिमल्लिका

निश्शेषवस्तुनाशस्य नाशमात्रेऽप्यदर्शनात् ।

वक्राभासोक्तिमात्रेण नैव स्याद्धि स यौक्तिकः ॥ १३२ ॥

सुरोत्तमटीका

यौक्तिको न हि ॥ १३२ ॥

सत्यप्रमोदटीका

व्यभिचाराभावमेव विशदयति अदर्शनादिति । वक्राभासेति व्याप्तिरहितत्वाद्वक्रत्वं दृष्टान्तीकृतशुक्तिरूप्ये दृग्विषयत्व-रूपदृश्यत्वस्य हेतोस् तथा निवृत्तिरूपस्य साध्यस्य चाभावात् । असत्त्वेन सन्निकर्षस्य, नाशस्य चासम्भवात् । तदुक्तं न्यायामृते ‘विज्ञाननाश्यता मिथ्यारूप्यादौ नानुभूयते । किन्त्वधिष्ठानवत्सत्ये तदज्ञानेऽनुभूयते’ इति । तेनैव हेतुना प्रातिभासिकत्वस्यापि साधनसौलभ्येन आभाससाम्यं च । सः नाशः ॥ १३२ ॥

युक्तिमल्लिका

अदृष्टकल्पनादोषो यतस्सर्वत्र सञ्चरेत् ।

श्रुतयश्च पुराणानि मन्मतस्यैव साक्षिणः ॥ १३३ ॥

सुरोत्तमटीका

कुतो न यौक्तिक इत्यत आह ॥ अदृष्टेति ॥ १३३ ॥

सत्यप्रमोदटीका

श्रुतयः ‘कालश्च नित्यः प्रकृतिश्च नित्या’ इत्याद्याः । पुराणानि ‘अव्याकृतं विशति यर्हि गुणत्रयात्मा कालं परं स्वमनुभूय परः स्वयम्भूः’ ‘नित्या वेदाः समस्ताश्च’ ‘न क्वाप्यनीदृशं विश्वं तत्तत्कालानुसारतः’ इत्यादीनि ॥ १३३ ॥

युक्तिमल्लिका

किञ्च सर्वविनाशो न नाशस्यास्याविनाशनात् ।

नापि भावस्य सर्वस्य नाशो ब्रह्माविनाशनात् ॥ १३४ ॥

सुरोत्तमटीका

यया कयाचन युक्त्या सर्वनाशं साधयतोऽपि स्वोक्तयुक्त्यैवान्ततस्साध्यमानसकलजगन्नाशस्यैवोर्वरितत्वेन सर्वनाशप्रतिज्ञैवेयं व्याहता स्यादित्याह ॥ किञ्चेति ॥ अस्य साध्यमानसर्वनाशाख्यस्य । तस्यापि नाशे पुनस्सर्वजगदुन्मज्जनप्रसङ्गादिति भावः । अस्तु तर्हि सर्वभाव-विनाश इत्यत आह ॥ नापीति ॥ प्राचीनपक्षेऽपीदं दूषणमनुसन्धेयम् ॥ १३४ ॥

सत्यप्रमोदटीका

असङ्कोचेन सर्वनाश इति पक्षं दूषयति किञ्चेति । तदुक्तमनुव्याख्याने ‘अनादेरस्य विश्वस्य निवृत्तिर्यदि चेष्यते । निवृत्तिश्च निवर्तेत’ इति । न चेष्टापत्तिर् अभावविपत्तेरेव प्रतियोग्यापत्तिरूपत्वेन विश्वस्य पुनरुन्मज्जनप्रसङ्गात् । ‘न हि सहस्राक्षोऽपि क्षयं क्षेप्तुं क्षमः’ इत्यस्य उन्मत्तवाक्यत्वप्रसङ्गाच्च ॥ नापीति । ‘नाशोऽयं विमतोऽपि स्यान्नाशत्वा-त्कर्तृशेषवान्’ इत्यनुव्याख्यानात् । ब्रह्मेत्युपलक्षणं कालप्रकृत्यादीनां नित्यानां च ग्रहणम् ॥ १३४ ॥

युक्तिमल्लिका

ब्रह्मभिन्नस्य भावस्य नाशे जीवोऽपि नंक्ष्यति ।

मिथ्याभूतोऽस्ति तद्भेदः परमार्थो न कुत्रचित् ॥ १३५ ॥

सुरोत्तमटीका

तर्हि ब्रह्मव्यतिरिक्तभावस्य नाशोऽस्त्वित्यत आह ॥ ब्रह्मभिन्नस्येति ॥ जीवस्यापि ब्रह्मभिन्नत्वादिति भावः । ननु परमार्थतो मया जीवब्रह्मभेदानङ्गीकारात् कथं ब्रह्मभिन्नेत्युक्ते जीवस्य प्राप्तिरिति चेत् तर्हि पारमार्थिकभेदस्य त्वया क्वाप्यनङ्गीकाराद्ब्रह्मभिन्नपदेनैव जगतोऽप्यप्राप्ति-स्स्यात् । अपारमार्थिकभेदमादाय जगतः प्राप्तिश्चेत् तत एव जीवस्यापि प्राप्तिस्स्यादित्याह ॥ मिथ्याभूत इति ॥ तद्भेदः जीवेश्वरभेदः ॥ १३५ ॥

सत्यप्रमोदटीका

ननु जीवो न ब्रह्मभिन्न इत्यत आह मिथ्येति । परमार्थतो भिन्नत्वं पक्षविशेषणम् अतो न जीवस्य ज्ञाननिवर्त्यत्वसिद्धिरिति चेदेवं तर्हि जगतोऽपि तत्सिद्धिर्न स्यात् । तत्रापि पारमार्थिकभेदस्य त्वयाऽ-नभ्युपगमेन वियदादेः पक्षीकरणायोगादित्याह नेति । तथा च पारमार्थिकत्व-विशेषणस्य परित्यागावश्यम्भावाज् जीवनाशप्रसङ्गो दुष्परिहर इति भावः ॥ १३५ ॥

युक्तिमल्लिका

भावकार्यस्य सर्वस्य नाश आशास्यते यदि ।

जीवस्य जीवधर्माणां कालादेर्गगनस्य च ।

विनाशोऽनादिभावानां भवेदाकस्मिकस्तदा ॥ १३६ ॥

सुरोत्तमटीका

पक्षान्तरमाशङ्क्य दूषयति ॥ भावेति ॥ जीवस्य जीवोपाधिभूतलिङ्गदेहस्य । तदुपहितजीवस्य वा । जीवधर्माणाम् अल्पज्ञत्वा-दीनाम् ॥ १३६ ॥

सत्यप्रमोदटीका

‘एकमेवाद्वितीयम्’ इति श्रुतावेकशब्दस्य स्वकार्य-पतितमन्यदिति परेण व्याख्यानात्तदनुसारेण शङ्कते भावकार्यस्येति । अनादिभावानामिति । तेषां कार्यत्वाभावादिति भावः । जीवस्येति ‘जीव ईशो विशुद्धा चिदि’ति त्वया तस्यानादिषु परिगणनादिति भावः । जीव-धर्माणामिति अनुच्छित्तिधर्मा इति श्रुत्या यावद्द्रव्यभाविनां तेषां तत्स्वरूप-त्वेनानादित्वादिति भावः । कालादीत्यत्रादिपदेन वर्णप्रकृत्यादीनां ग्रहणम् । विनाश इति औतपालनार्थं तेषामपि नाशस्य त्वया वक्तव्यत्वात्, ज्ञानान्येन विनाशस्य च मिथ्यात्वासम्पादकत्वेन त्वदसम्मतेरिति भावः । अत उक्तम् आकस्मिक इति ॥ १३६ ॥

युक्तिमल्लिका

ब्रह्मान्यानादिनाशे तु नश्येद्ब्रह्मापि तादृशम् ।

अतस्सर्वविनाशोऽयं विद्वदग्रे न शोभते ॥ १३७ ॥

सुरोत्तमटीका

ननु ब्रह्मान्यजडभूतसकलभावनाश एव सर्वनाशोऽङ्गी-क्रियते अतः को दोष इति चेत् । न । अनादित्वेनाङ्गीकृतगगनादीनां नाश-प्रसङ्गात् । अस्तु को दोष इत्यत आह ॥ ब्रह्मान्येति ॥ तादृशम् अनादि-भावभूतम् । अनश्वरब्रह्मवदनादिभावानां गगनादीनामविनाशि सर्वनाश-निष्ठत्वेन नाशासम्पादकजडत्वप्रवेशमात्रेण नाश्यत्वांशायोगादिति भावः । एवमप्यन्योन्याभावात्मकजीवब्रह्मभेदस्यानष्टत्वेन त्वदभीष्टासिद्धेर् ब्रह्मधर्मतया प्रतीयमानजडभूतत्वदैक्यस्यैव नष्टत्वेनेष्टहानेश्चेत्यप्यूह्यम् । नित्यत्वश्रुतिबलान्न ब्रह्मणो नाश इति चेत् तत एव गगनादीनामपि नाश इति सन्तोष्टव्यम् । ‘‘आकाशवत्सर्वगतश्च नित्य’’ इति श्रुत्या ब्रह्मणस्सन्दिग्धयोस्सर्वगतत्व-नित्यत्वयोर्दृष्टान्ततयोक्तगगने निश्चितयोस्तयोस्सत्त्वस्य श्रुत्यभिप्रेतत्वात् । अत एव गगननित्यत्वादेर्नौपचारिकत्वम् । दृष्टान्तस्य भङ्गे दार्ष्टान्तिकस्य सुतरां भग्नत्वेन ब्रह्मणि ततोऽप्यतिशयितौपचारिकत्वप्राप्तेः । अयम् इदानी-मभावात्कालान्तरे कल्प्यमानः । कदाचिदस्य सर्वस्य नाशो भविष्यतीति वा सकालः सर्वविनाशवानिति वा साधयता कालस्यावश्यमङ्गीकार्यत्वादिति भावः ॥ १३७ ॥

सत्यप्रमोदटीका

अनादीति ॥ अभावद्वैतपक्षे भावेत्यपि पूरणीयम् । ब्रह्मापीति । ब्रह्म ज्ञाननिवर्त्यम् अनादिभावत्वाद् अज्ञानादिवदिति साधन-सौलभ्यादिति भावः । ब्रह्मान्यत्वेन हेतुविशेषणेऽप्रयोजकतेत्यूह्यम् । अयं भाविनाशः । न शोभते इति ॥ तस्यापि भाविकालवृत्तित्वेन कालनाशोक्ते-र्व्याहतत्वेन सर्वनाशासम्भवादिति भावः । साक्ष्यादिप्रमाणबलेन तेषां ब्रह्मवदेव सत्यत्वसिद्धेरिति भावः ॥ १३७ ॥

युक्तिमल्लिका

अणुत्वेशवशत्वादेरनादेरविनाशनात् ।

जीवब्रह्मैकताशा च दुराशैवाभवत्तव ॥ १३८ ॥

सुरोत्तमटीका

किञ्च ऐक्यरक्षणाय खल्वयं सर्वविनाशोऽङ्गीक्रियते । ब्रह्मातिरिक्तभावरूपजडविनाशाङ्गीकारे च ‘‘अविनाशी वा ओऽयमात्माऽनु-च्छित्ति धर्मे’’ति श्रुतावनुच्छित्तिरेव धर्मो यस्येति समासाङ्गीकारे पौनरुक्त्य-भयेन न विद्यते उच्छित्तिर्येषां ते धर्मा यस्येत्येव वक्तव्यतया नित्यत्वेन प्रमितजीवधर्माणां धर्म्यभिन्नतया चेतनरूपाणां च नाशप्रसक्तेरेवाभावेन तवैक्यस्यानवसर एवेति भावेनाह ॥ अणुत्वेति ॥ आदिपदेन ‘‘नित्यानन्दो नित्यज्ञानो नित्यबलः परमात्मा । स्वाभाविकी ज्ञानबलक्रिया चे’’त्यादिश्रुत्या च नित्यतयोक्तभगवद्धर्माणां सङ्ग्रहः । चेतनातिरिक्तकालाकाशादि जड-जगन्मात्रनाशसाधने जीवब्रह्मणोर्बहिर्भूतत्वादिति भावः । अथ यदि चिन्मात्र-मङ्गीकृत्य श्रुतिमनादृत्य च भावरूपचिद्धर्माणां भावरूपजगतश्च नाशोऽङ्गी-क्रियते । तदाप्यैक्यस्यैव नष्टत्वेनैक्याभावस्य चावशिष्टत्वेन भवदनिष्टस्या-परिहारात् । अथ यदि धर्मधर्मिणोरभेदमङ्गीकृत्य तवैक्यं रिरक्षसि । तदा त्वदीयमृतसञ्जीवनेनैव पुनरुज्जीवितास्सार्वज्ञादयो धर्माः किञ्चिज्ज्ञत्वादयो जीवधर्माश्चोभयतो गृहीतमुद्गरास्तवैक्यमेव रामभटा राक्षसचमूमिव हन्युः । एवं च जगन्नाशाय प्रयतमानस्य तवैव नाशोऽभूदिति च दुराशैवाभवत्तवेत्यव-धारयतो भावः ॥ १३८ ॥

सत्यप्रमोदटीका

ब्रह्मभिन्नभावरूपजडविनाशपक्षे ऐक्यासिद्धिं दोषमाह अणुत्वेति । आदिपदेन ब्रह्मधर्माः सर्वज्ञत्वादयः । तथा च स्वभावभूतविरुद्ध-धर्माणां चेतनत्वेन निवृत्त्यसिद्ध्या भागत्यागासम्भवेन नैक्यसिद्धिरिति भावः । ऐक्यस्यौपाधिकस्य निरुपाधिकब्रह्मस्वरूपत्वासम्भवेन भावरूपत्वेन च तन्नाशापत्तिश्च ॥ १३८ ॥

युक्तिमल्लिका

अनादिभावभूतानामेतेषां परमात्मवत् ।

अज्ञानोपादानता ते न मिथ्यात्वं च (न) युक्तिमत् ॥ १३९ ॥

सुरोत्तमटीका

ते मते । अज्ञानोपादानता मिथ्यात्वं चेति सम्बन्धः ॥ १३९ ॥

सत्यप्रमोदटीका

अविद्यातत्कार्यान्यतरत्वस्य तव मिथ्यात्वलक्षणत्वेन तथा ज्ञानमज्ञानस्यैव निवर्तकम् इति च नियमेन अनादीनाम् अज्ञानोपादान-कत्वासम्भवेन तेषाम् अनिवृत्तिरेवापद्यते इत्याह अनादीति । तदुक्तं वादा-वल्याम् ‘अनादिभावरूपस्य विज्ञानविलापनाऽसम्भवाच्च ब्रह्मवदि’ति ॥१३९॥

युक्तिमल्लिका

सादेरनादेस्सर्वस्य ब्रह्मणोऽन्यस्य वै क्षयः ।

उक्तरीत्या स नैवाभूद्यो मायावादिनां मतः ॥ १४० ॥

सुरोत्तमटीका

उक्तरीत्या सङ्कर्षणमुखाग्निनेत्याद्युक्तरीत्या ॥ १४० ॥

सत्यप्रमोदटीका

प्रकारान्तरेणैव प्रलयप्रतिपादकप्रागुक्तश्रुतिस्मृति-विरोधश्च वज्रलेप इत्याह उक्तेति ॥ १४० ॥

युक्तिमल्लिका

साद्यदृष्टैस्सहान्यस्य कार्यमात्रस्य च क्षये ।

यः पुनः कारणाभावात्सृष्ट्यभावस्तु कथ्यते ।

चित्रं स तार्किकोक्तोऽपि प्रतितर्कहतो भवेत् ॥ १४१ ॥

सुरोत्तमटीका

मायावाद्यभिमतं ब्रह्मव्यतिरिक्तसाद्यनादिजगन्नाशाख्य-सर्वनाशं दूषयित्वा सादिभिस्सर्वादृष्टैस्सह सादिजगतां सर्वेषां नाशं पुनः कार्यमात्रस्य सर्वथाऽनुत्पत्तिं वदतस्तार्किकस्य सर्वनाशं दूषयति ॥ सादीति ॥ सादिभिरुत्पत्तिसहितैः । अदृष्टैस्सर्वादृष्टैः । अन्यस्य महीमहीधरादेः । कारणाभावात् कारणीभूतादृष्टाभावात् । सः सृष्ट्यभावः ॥ १४१ ॥

सत्यप्रमोदटीका

तार्किका एव प्रतिपन्नाः । परान्तकाले जायमाने महालये सर्वादृष्टनाशो न भवति । किन्तु तदानीन्तनज्ञानिमात्रस्य । इतरेषाम् अज्ञानिनाम् अदृष्टस्योर्वरितत्वात् पुनः सृष्ट्यन्तराणि भवन्ति । चरम-ब्रह्मलयाख्यान्तलये तु सर्वादृष्टविनाशः । अतो निमित्ताभावान्न पुनः सृष्ट्यन्तरमिति तदेतदप्रामाणिकं कुकल्पनामात्रम् । महालयातिरिक्तस्य तदभिमतचरमलयस्यैवाभावात् सृष्टिप्रलयप्रवाहस्य अनादिनित्यत्वेन प्रमितत्वा-दिति दूषयति नवभिः सादीत्यादिभिः । सादिभिः सर्वादृष्टैः सह भूभूधरादेः । क्षये अन्तलये नाशे सति । सो ऽन्तलयः । प्रतितर्क अग्रे, विमतः प्रलयो ऽदृष्टशेषवान् इति पद्ये वक्ष्यते । प्रत्यनुमानस्य श्रुतिसचिवत्वेनैव तेन तत्कल्पनाया बाध इति भावः ॥ १४१ ॥

युक्तिमल्लिका

ब्रह्मणः शतवर्षाख्यपरान्तो यो महालयः ।

सर्वकार्यकरण्डस्य ब्रह्माण्डस्यास्य सप्तभिः ॥ १४२ ॥

युक्तस्यावरणैरस्मिन् जायमाने पुनः पुनः ।

अनादितोऽनुवृत्ते च स्पष्टं सृष्ट्यन्तरान्विते ॥ १४३ ॥

कार्यमात्रलये तावत्कार्यादृष्टस्य सर्वथा ।

लयो नाजायत किल कथं सोऽन्ते भविष्यति ॥ १४४ ॥

सुरोत्तमटीका

अस्मिन् महाप्रलये पुनःपुनर्जायमाने सतीति सम्बन्धः । अदृष्टस्य सर्वथा सर्वात्मना लयः । सर्वादृष्टलय इति यावत् । सः सर्वा-दृष्टलयः। अन्ते त्वदभिमतचरमब्रह्मलये ॥ १४२–१४४ ॥

सत्यप्रमोदटीका

यः महान् लयः, अस्मिन् कार्यादृष्टस्य सर्वथा लयो नाजायत किल, कथं सो ऽन्ते भविष्यति इति श्लोकत्रयस्यैकान्वयः । अनुवृत्ते सृष्ट्यन्तरान्विते इत्यनेन परम्पराया अविच्छेदेन नित्यत्वं निदर्शयति॥ १४२–१४४ ॥

युक्तिमल्लिका

न ह्येतेभ्यो लयेभ्यश्च स्यादन्योऽभ्यधिको लयः ।

एभ्यो ब्रह्मादिदेवेभ्यो ज्ञानी कोऽभ्यधिको वद ॥ १४५ ॥

सुरोत्तमटीका

एभ्यो ऽनादिकालमारभ्येदानींतनब्रह्मपर्यन्तमनुभूततत्त-द्देवेभ्यः ॥ १४५ ॥

सत्यप्रमोदटीका

एभ्यः प्रमितेभ्यः । अभ्यधिकः क इति । अन्यस्यैवाप्रामाणिकत्वात् तस्याधिकत्वं तु दूरे इति भावः ॥ १४५ ॥

युक्तिमल्लिका

कालस्यान्त्यस्य शृङ्गं न नापि तद्गलयस्य च ।

अदृष्टकल्पनादोषो ह्यदृष्टं कल्पयत्यहो ॥ १४६ ॥

सुरोत्तमटीका

अदृष्टं जगदन्तरजनकादृष्टम् ॥ १४६ ॥

सत्यप्रमोदटीका

शृङ्गं ज्ञापक आगमः । दोषो ऽदृष्टं कल्पयतीति । दोषेण त्वत्कल्पनायाः पराहतत्वात् प्रमाणबलेन सृष्ट्यन्तरकारणमदृष्टं निराबाधं सिध्यतीति भावः ॥ १४६ ॥

युक्तिमल्लिका

विमतः प्रलयोऽदृष्टशेषवान्प्रलयत्वतः ।

यथाऽयं प्रलयश्चेति युक्तिं कोऽत्येति तत्सताम् ॥ १४७ ॥

सुरोत्तमटीका

तत्कल्पनाप्रकारमेवानुमानरचनयाऽऽह ॥ विमत इति ॥ तत्तस्मात् ॥ १४७ ॥

सत्यप्रमोदटीका

युक्तिं ‘धाता यथापूर्वमकल्पयदि’त्यादि प्रमाणानु-गृहीताम् ॥ १४७ ॥

युक्तिमल्लिका

किञ्चान्त्या साऽपि सृष्टिस्ते सर्वसृष्ट्युपमा भवेत् ।

ज्ञानिमात्रावृता सा न पशुपक्ष्यादिसंवृता ।

तस्यां च ज्ञानिमात्रस्यादृष्टनाशस्तु पूर्ववत् ॥ १४८ ॥

सुरोत्तमटीका

युक्त्यन्तरेणापि तार्किकाभिमतं सर्वनाशं दूषयति ॥ किञ्चेति ॥ पशुपक्ष्यादिसंवृता सा त्वदभिमतसर्वनाशात्पूर्वं विद्यमाना सृष्टिर् ज्ञानिमात्रावृता नेति सम्बन्धः । तस्यां सृष्टौ । ज्ञानिमात्रस्य सकला-परोक्षज्ञानिसमुदायस्येत्यर्थः ॥ १४८ ॥

सत्यप्रमोदटीका

किञ्च त्वदभिमतायाम् अन्तिमसृष्टावपि न ज्ञानि-मात्राः किन्तु अज्ञानिनः पशुपक्ष्यादयः प्राक्तनसृष्टिष्विव सन्त्येव । अज्ञानिनां च नादृष्टनाशस् तव संमतः । अन्तलये सर्वादृष्टनाश इति रिक्थं वच इत्याह द्वाभ्यां किञ्चेत्यादिना ॥ इदं चोपलक्षणम् । विशेषानभ्युपगन्तुस्तस्य मते प्रलयकाले ईश्वरसञ्जिहीर्षाधीनत्वस्य दुर्वचत्वात्प्रलयोपाधिकत्वस्याङ्गीकाराद् अन्योन्याश्रयेण प्रलयस्यैवासिद्धिरिति दोषोऽवगन्तव्यः । तदुक्तमनुव्याख्याने ‘न हि कालविशेषोऽस्ति तत्पक्षे’ इति ॥ १४८,१४९ ॥

युक्तिमल्लिका

सर्वादृष्टविनाशस्तु हेत्वभावान्न यौक्तिकः ।

तस्माद्वैदिकतर्काग्रे शुष्कतर्को न शोभते ॥ १४९ ॥

सुरोत्तमटीका

सर्वादृष्टविनाशः सकलपशुपक्ष्यादिजीवनिष्ठादृष्ट-विनाशः । हेत्वभावाद् अपरोक्षज्ञानाख्यहेत्वभावात् ॥ १४९ ॥

युक्तिमल्लिका

सूर्याचन्द्रमसौ धाता यथा पूर्वमकल्पयत् ।

इति श्रुतिरनाद्यन्तकालीनाऽन्वग्रहीद्धि नः ॥ १५० ॥

सुरोत्तमटीका

अन्वग्रहीद् अनुग्रहमकरोत् ॥ १५० ॥

सत्यप्रमोदटीका

अनादीति प्रामाण्योक्तिः । नः प्रक्रियामिति शेषः । श्रुतिः ‘व्यदधाच्छाश्वतीभ्यः समाभ्यः’ । ‘शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते’ ‘यथेदानीं तथा चाग्रे पश्चादप्येतदीदृशम्’ इत्यादीनि प्रमाणान्यप्यत्रानु-सन्धेयानि ॥ १५० ॥