उत्क्रान्तिमार्गगम्याप्तिभोगरूपं फलं सताम्
उत्क्रान्त्यादिविचारः
युक्तिमल्लिका
उत्क्रान्तिमार्गगम्याप्तिभोगरूपं फलं सताम् ।
फलाध्याये तु कथितं बुद्धिशुद्ध्यै विचार्यते ॥ १०४ ॥
सुरोत्तमटीका
साधनं निरूप्य फलं च किञ्चिद्विवेचयति ॥ उत्क्रान्तीति ॥ बुद्धिशुद्ध्यै अस्मन्मनःपावनीकरणाय ॥ १०४ ॥
सत्यप्रमोदटीका
‘कर्मक्षयस्तथोत्क्रान्तिर्मार्गो भोगश्चतुष्टयम् । फलं मोक्ष इति प्रोक्तं क्रमात्पादेषु चोच्यते’ इति अनुभाष्यं हृदि कृत्वाऽऽह उत्क्रान्तिरिति । कर्मक्षयोऽप्युपस्कर्तव्यः । उत्क्रान्तिरित्युपलक्षणं देवानां मोक्षोऽपि द्वितीयपादोक्तो ग्राह्यः । भाष्ये तथैवोक्तेः । मार्गो गम्यं भगवत्प्राप्तिश्च तृतीयपादे । भोगश्चतुर्थे इति विवेकः ॥ १०४ ॥
युक्तिमल्लिका
ज्ञानी ज्ञानोदये जाते ब्रह्मनाड्या विनिर्गतः ।
अर्चिराद्यध्वना प्राप्य ब्रह्मलोके चिरं वसेत् ।
जीवन्मुक्तिदशा सैव ज्ञानिनां कीर्त्यते बुधैः ॥ १०५ ॥
सुरोत्तमटीका
चिरं ब्रह्मणो मुक्तिकालपर्यन्तम् ॥ १०५ ॥
सत्यप्रमोदटीका
‘वेदान्तविज्ञानसुनिश्चितार्थाः संन्यासयोगाद्यतयः शुद्धसत्त्वाः । ते ब्रह्मलोके तु परान्तकाले परामृतात्परिमुच्यन्ति सर्वे’ इति श्रुतिं प्रतिज्ञातार्थपरां विवृणोति ज्ञानी इत्यादिभिः । ज्ञानी देवेतरो मनुष्योत्तमादिः । ‘उत्क्रान्तिमार्गौ देवानां न प्रायेण भविष्यतः’ इति देवानामुत्क्रान्तिनिषेधात् । ज्ञानोदये जाते इति । ‘स्वोदयात्फलदं ज्ञान-मि’त्युक्तेर्जीवन्मुक्त्यवस्थायास्ततः प्रभृत्येवारंभात् । न तु ज्ञानोदयात्पूर्वमित्यत्र तात्पर्यम् । न तु अव्यवधानेनेति । ‘विद्वानमृतमाप्नोति नात्र कार्या विचारणा । अवसन्नं यदारब्धं कर्म तत्रैव गच्छति । न चेद्बहूनि जन्मानि प्राप्यैवान्ते न संशयः’ इति भाष्योदाहृतप्रमाणमत्रानुसन्धेयम् ॥ ‘साक्षात्कृतब्रह्मणां सद्यः शरीरपाते वातपुत्रीयाः पौरुषेया ब्रह्मोपदेशाः प्रसज्येरन्नि’ति च सुधा विभावनीया । ‘तदोकोऽग्रज्वलनम्’ इत्यादिसूत्रोक्तं संक्षिप्याह ब्रह्मनाड्ये-त्यादिना । ब्रह्मनाड्या’ शतं चैकस्य हृदयस्य नाड्यस्तासां मूर्धानमभि-निःसृता’ इति भाष्योक्तया ॥ सैवेति । ज्ञानोदयानन्तरम् उत्क्रान्तेः प्राक्तनावस्थाऽपि सङ्ग्राह्या । एवकारो ऽयोगव्यवच्छेदपरो वा । ब्रह्मलोके इति । अत्र विस्तरः ‘अप्रतीकालम्बनास्तु सुषुम्ना मध्यसंस्थया । ब्रह्मनाड्या विनिष्क्रम्य विष्णोर्लोकमवाप्नुयुः ।’ इत्यादि सत्तत्त्वरत्नमालायाम् उत्क्रान्ति-प्रकरणादनुसन्धेयः ॥ १०५–१०७ ॥
युक्तिमल्लिका
द्विपरार्धात्मकः कालः पर इत्येव कथ्यते ।
परस्यार्धं परार्धं यत्प्राहुः शब्दविचक्षणाः ॥ १०६ ॥
ब्रह्मणः शतवर्षात्मा कालस्तस्मात्पराभिधः ।
तदन्ते किल सर्वेषां प्राग्ज्ञातपरमात्मनाम् ।
तेनैव ब्रह्मणा साकं महामोक्षो भविष्यति ॥ १०७ ॥
सुरोत्तमटीका
तदन्ते परान्ते ॥ १०६,१०७ ॥
युक्तिमल्लिका
वेदान्तज्ञानतः सम्यङ्निश्चितार्था विरागिणः ।
यतयः शुद्धसत्त्वास्ते ब्रह्मलोके वसन्ति हि ॥ १०८ ॥
सर्वे परान्तकाले तु परामृतपदोदितात् ।
नारायणान्नित्यमुक्तात्परिमुच्यन्ति संसृतेः ॥ १०९ ॥
ल्यब्लोपे पञ्चमी चेयं भवेच्छब्दज्ञसंविदा ।
परामृतं प्राप्य मुक्ता इत्यप्यर्थः श्रुतेस्तदा ॥ ११० ॥
सुरोत्तमटीका
उक्तार्थप्रतिपादिकां ‘‘वेदान्तविज्ञानसुनिश्चितार्था-स्सन्यासयोगाद्यतयश्शुद्धसत्वाः । ते ब्रह्मलोके तु परान्तकाले परामृता-त्परिमुच्यन्ति सर्व इति श्रुतिमर्थतो गृह्णाति ॥ वेदान्तेति ॥ सन्यासयोगा-दित्यस्य फलितकथनं विरागिण इति ॥ १०८–११० ॥
सत्यप्रमोदटीका
विरागिणः यतय इत्यत्र हेतुपरं विशेषणम् । सन्न्यासयोगाद्यतय इति श्रुतेः ॥ परामृतान् नित्यमुक्तान् नारायणात् । तदनुग्रहादिति यावत् । नारायणं प्राप्येति ॥ १०८–११० ॥
युक्तिमल्लिका
अतः परममोक्षोऽयं नान्योऽसावस्ति जानताम् ।
इत्याह वैदिकी वाणी विशदा सर्वसंमता ॥ १११ ॥
सुरोत्तमटीका
अतः वेदान्तविज्ञानसुनिश्चितार्थैः प्राप्यत्वात् । अयं परान्तकालीनः । अन्यः ब्रह्मप्रलयादप्यन्यकालवर्ती ॥ १११ ॥
सत्यप्रमोदटीका
परममोक्ष इति । एतेन परब्रह्मविदो मुख्यामृतत्वे गत्युत्क्रान्त्योरभाव इति परभाषितं निरस्तम् । ‘परामृतात्’ इति ‘परिमुच्यन्त’ इति च वेदान्तविज्ञानसुनिश्चितार्थानां परब्रह्मविदां परममोक्षस्यैव स्पष्टमभिधानादित्याह वाणी विशदेति । स्वव्याहतं च शाङ्करभाष्यम् । स्वयमेव ‘मुक्तानां परमा गतिः’ इति विष्णुसहस्रनामव्याख्याने ‘अविद्या-रागद्वेषादि दोषविमुक्तानां प्रकृष्टा गन्तव्या देवता’ ‘मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यत इति भगवद्वचनादि’ति व्याख्यानेन गन्तव्या इत्यनेन मार्गस्य, प्रकृष्टा इत्यनेन कृष्णस्यैव परब्रह्मत्वस्य, इतःपरं गन्तव्यान्तरनिषेधेन मुख्यामृतत्वस्य च सुस्पष्टमङ्गीकारात् ॥ १११ ॥
युक्तिमल्लिका
अतो विमुक्तिकालोऽयं श्रौतत्वान्नापरः श्रुतेः ।
परान्तकालमेवेयं मुक्तिकालं यतोऽब्रवीत् ।
परान्तकालस्स किल महत्तत्त्वलयो यदा ॥ ११२ ॥
सुरोत्तमटीका
इयं श्रुतिः ॥ ११२ ॥
सत्यप्रमोदटीका
नापर इदानीमेव ज्ञानेन बन्धबाधादविद्याऽस्तमयो मायिनामभिमतः ॥ महत्तत्त्वलयो यदेति ॥ ‘अव्याकृतं विशति यर्हि गुणत्रयात्मा कालं परं स्वमनुभूय परः स्वयम्भूः’ इति भागवतोक्तेः ॥११२॥
युक्तिमल्लिका
उदरे वासुदेवस्य जीवान्सर्वान्विधिस्तदा ।
निवेश्य सर्वमुक्त्यर्हान्जीवानादाय सत्वरः ॥ ११३ ॥
वैकुण्ठान्तःपुरस्थे तु विरजाख्ये सरिद्वरे ।
नित्ये चिद्रूपसलिले रजश्शब्दोपलक्षितैः ॥ ११४ ॥
त्रिगुणैर्वर्जिते तेषां भर्जनेऽतिपटीयसि ।
स्नात्वा भूतेन्द्रियमनोमात्रं त्रिगुणरूपिणम् ॥ ११५ ॥
लिङ्गदेहं विनिर्भिद्य प्राङ्मुक्तैश्च त्रिधामगैः ।
सहमुक्तैश्च सहितो वासुदेवोदरं विशेत् ॥ ११६ ॥
सुरोत्तमटीका
इदानीं योग्यायोग्यजीवानादाय गतस्य महत्तत्वात्मना भगवतो ग्रासीभूतस्य ब्रह्मणस्स्वेन सह मुच्यमानैर्जीवैस्सह लिङ्गदेहभङ्गप्रकारं सविस्तरं दर्शयति ॥ उदर इति ॥ जीवान् सर्वान् उत्तममध्यमाधमभेदेन त्रिविधान् । वैकुण्ठान्तःपुरस्थे चतुर्दिक्षुस्थितामुक्तगम्यद्वारचतुष्टयादन्तर्मुक्त-नगरीं परितो विद्यमाने चतुर्द्वारपर्यन्तं परिलम्बिन्या बन्धकीभूतप्रकृतेः परम-व्योमाख्यमुक्तपुर्याश्च मध्यप्रदेशेऽमुक्तगमनप्रतिबन्धकतया परिखावत्परितस्स्थित इत्यर्थः । प्रधानपरमव्योम्नोरन्तरा विरजानदीति पुराणवाक्यादयमर्थोऽव-गन्तव्यम् । चिद्रूपसलिले लक्ष्म्यात्मकसलिले । तत्र प्रयुज्यमानविरजा-शब्दार्थमाह ॥ रजश्शब्देति ॥ तेषां त्रिगुणानाम् । भूतेन्द्रियमनोमात्रं केवलं सूक्ष्मपञ्चभूतदशेन्द्रियमन आख्यषोडशकलात्मकम् । त्रिधामगैर् वैकुण्ठ-श्वेतद्वीपानन्तासनस्थैः ॥ ११३–११६ ॥
सत्यप्रमोदटीका
सर्वान् त्रिविधान् ॥ वैकुण्ठान्तःपुरःस्थे ‘प्रधान-परमव्योम्नोरन्तरा विरजानदी’ति स्मृतेः । विरजाशब्दार्थमाह त्रिगुणैर्वर्जिते इति ॥ विनिर्भिद्य । ‘स्वगुणाच्छादिका त्वेका’ इत्यादिवचनानुसारेण ॥ ११३–१२० ॥
युक्तिमल्लिका
एवं परान्तकालेऽस्मिन्मुच्यन्ते ब्रह्मणा सह ।
इत्याहोपनिषत्सैषा तत्तत्वमिदमेव हि ॥ ११७ ॥
सुरोत्तमटीका
एषा वेदान्तेति प्रागुक्ता । तत्तस्मात् स्पष्टं श्रुतावुक्तत्वात् ॥ ११७ ॥
युक्तिमल्लिका
ततश्चिद्रूपसलिलसंप्लवे सति केशवः ।
वटपत्रपुटे शेते लक्ष्म्या सह किल प्रभुः ॥ ११८ ॥
सुरोत्तमटीका
ततः ब्रह्मणो लिङ्गदेहनाशानन्तरम् । चिद्रूपसलिल-संप्लवे महालक्ष्म्यात्मकजलसमुदायोपरि । वटपत्रपुटे लक्ष्म्यात्मकवटपत्रपुटे ॥ ११८ ॥
युक्तिमल्लिका
अतः परममोक्षस्य कालोऽयं नात्र संशयः ।
तस्माद्ब्रह्मलयस्सोऽयं महाप्रलय एव हि ॥ ११९ ॥
सुरोत्तमटीका
अयं परान्ताख्यः । तस्मात् परममोक्षरूपत्वात् ॥ ११९ ॥
युक्तिमल्लिका
सोऽयं लयश्च कल्पान्ते सङ्कर्षणमुखाग्निना ।
प्रलयार्केण च जगद्दाहे सांवर्तकोदकैः ।
विलोडितं च तद्भस्म सर्वं जलमयं भवेत् ॥ १२० ॥
सुरोत्तमटीका
सूक्ष्मलिङ्गदेहलयप्रकारमुक्त्वा स्थूलजगल्लयप्रकारमप्याह ॥ सोऽयमिति ॥ कल्पान्ते सोऽयं वक्ष्यमाणस्स्थूलजगल्लयश्च लिङ्गदेहलया-त्प्रागेवास्ति । फलसौरभे मुक्तिरूपलयतया लिङ्गदेहलयस्यान्तरङ्गत्वात्तस्यैव प्राक्कथनम् ॥ १२० ॥
युक्तिमल्लिका
जलं च तेजसा शुष्येत्तच्च वायौ प्रशाम्यति ।
वायुश्च गगने लीनो लयस्तस्याप्यहङ्कतौ ।
अहङ्कारस्य महति तस्य स्यात्प्रकृतौ लयः ॥ १२१ ॥
प्रकृतिश्च स्वभावस्था स्वभावं प्रकृतिं विदुः ।
अतस्तस्यास्तु न लयस्सा नित्यैव परात्मवत् ॥ १२२ ॥
सुरोत्तमटीका
तेजसा बाह्यावरणभूततेजसा । तत् तेजः । तस्य गगनस्य ॥ १२१,१२२ ॥
सत्यप्रमोदटीका
सङ्कर्षणेति । ‘सङ्गर्षणमुखानलः । दहन्नूर्ध्वशिखः’ इति भागवतोक्तेः । सांवर्तकेति । ‘सांवर्तको मेघगणो वर्षति स्म शतं समाः’ इति च ॥ सा नित्यैव परात्मवद् इति ‘नासतो विद्यतेऽभावो नाभावो विद्यते सतः’ इति गीतोक्तप्रकारेणेति भावः ॥ १२०–१२३ ॥
युक्तिमल्लिका
इति श्रुतिपुराणादौ तत्र तत्र प्रदृश्यते ।
एवं च ज्ञानबलतः कस्य नाशो भवेद्वद ॥ १२३ ॥
सुरोत्तमटीका
इति अनेन प्रकारेणैव स्थूलजगल्लयः । ज्ञानबलतः ज्ञानस्यैव बलतः ॥ १२३ ॥