परोक्षज्ञानजनकं श्रवणं केन हेतुना
शब्दादेव अपरोक्षज्ञानम् इति परप्रक्रियाया निरासः
युक्तिमल्लिका
परोक्षज्ञानजनकं श्रवणं केन हेतुना ।
अपरोक्षफलं कुर्यात्सा ह्यदृष्टस्य कल्पना ॥ २३ ॥
सुरोत्तमटीका
पूर्वं श्रवणस्य साक्षात्कारहेतुतामङ्गीकृत्य दूषणमुदितम् । इदानीं तदेव न घटत इत्याह ॥ परोक्षेति ॥ सा अपरोक्षज्ञानजननरूपा ॥ २३ ॥
सत्यप्रमोदटीका
वस्तुतस्तु श्रवणस्य चरमसाक्षात्काराङ्गत्वमेव न सम्भवति । ‘श्रवणाद्यङ्गकनिदिध्यासनमपरोक्षज्ञानकरणमनःसहकारि’ इति न्यायामृतोक्तरीत्या मन एव करणम् । एतच्चाग्रे विवरिष्यते । श्रवणस्यापरोक्ष-ज्ञानजनकत्वमेव न घटते इत्याह परोक्षेति ॥ २३ ॥
युक्तिमल्लिका
गेहे घट इति प्रोक्ते बहिस्स्थस्यापरोक्षधीः ।
गेहान्तस्स्थघटेऽपि स्यात्सापि दृश्यार्थदृङ्न किम् ॥ २४ ॥
सुरोत्तमटीका
ननु साक्षात्कारयोग्येऽर्थे प्रयुक्तश्शब्दः साक्षात्कारमेव जनयतीत्यत आह ॥ गेह इति ॥ सा शब्दजन्या प्रतीतिः
॥ २४ ॥
सत्यप्रमोदटीका
ननु शब्दस्य परोक्षधीहेतुत्वस्वाभाव्येऽपि यत्र अपरोक्षार्थविषयकत्वं तत्रापरोक्षज्ञानजनकत्वमित्यङ्गीक्रियते इति चेत्तथाऽप्य-दृष्टकल्पनादोषस्यानिस्तार एवेति अतिप्रसङ्गमुखेनाह गेह इति । बहि-स्स्थस्येति इन्द्रियसन्निकर्षाभावेऽपीति भावः । दृश्यार्थो ऽपरोक्षविषयः ॥ २४ ॥
युक्तिमल्लिका
साक्षात्कारस्य योग्योऽर्थो यदा साक्षात्प्रदृश्यते ।
तत्र प्रयुक्तशब्दोऽपि साक्षात्कारफलो यदि ॥ २५ ॥
तर्हि स्याद्ब्रह्मणस्साक्षात्कारः प्राक्कारणान्तरात् ।
तत्र प्रयुक्तशब्दस्तु व्यर्थस्स्यादिति मे मतिः ॥ २६ ॥
सुरोत्तमटीका
पक्षान्तरमाशङ्कते ॥ साक्षात्कारस्येति ॥ योग्यता-मात्रमेव नालं किन्तु तद्दर्शनसमये प्रयुक्तश्शब्दस्साक्षात्कारमेव जनयतीति शङ्काभिप्रायः। यद्यपीयं शङ्का प्रकृतानुपयुक्ता । घटस्येव ब्रह्मणः श्रवण-दशायामेव चक्षुरादिना मनसा वा दर्शनाभावात् । तथापि घटादौ चेमां शङ्कां परिहर्तुमियमाशङ्का । दूषयति ॥ तर्हीति ॥ २५,२६ ॥
सत्यप्रमोदटीका
नैष दोषः । एककाले तस्यैव पुरुषस्य अपरोक्षो यो विषयस् तद्विषयकः शब्दोऽप्यपरोक्षज्ञानं जनयतीति नियम्यते । घटस्तु बहिस्स्थस्य न शब्दश्रवणकालेऽपरोक्षः । अतो नोक्तोऽतिप्रसङ्ग इत्याक्षिपति साक्षात्कारेति ॥ परिहरति तर्हीति । कारणान्तरेण शब्दान्येन मानस-साक्षात्कारादिना ॥ २५,२६ ॥
युक्तिमल्लिका
किञ्च फूत्का(फट्का)रलिङ्गेन दृश्यमानेऽपि हस्तिनि ।
जायमानानुमाऽपि स्यात्साक्षात्कारात्मिका तव ॥ २७ ॥
सुरोत्तमटीका
फूत्कारः वेतण्डशुण्डादण्डोत्थस्वनविशेषः । तव मते । दृश्यमानार्थे ज्ञानकरणत्वस्योभयत्र साम्यादिति भावः॥ २७ ॥
सत्यप्रमोदटीका
अतिप्रसङ्गान्तरमाह किञ्चेति । लिङ्गेन जायमाना इति योजना । दृश्यमानेति । एकस्मिन्नेव कालेऽपरोक्षविषयेत्यर्थः । अनुमाऽपीति परोक्षज्ञानजननस्वभावाऽपि । अपिशब्देन अयं गज इति शब्दस्यापि सङ्ग्रहः । इदं चोपलक्षणम् । ‘‘जीवाः परमात्मनो न भिद्यन्ते आत्मत्वादिति लिङ्गजन्यायाः, श्रवणात्प्रागापाततो वेदान्तजन्यायाः, भाषा-प्रबन्धजन्याया अनधीतवेदान्तजन्यायाश्चैक्यप्रतीतेरापरोक्ष्यापातेन श्रवण-नियमादेरयोगात्’’ इति न्यायामृतोक्तान्यतिप्रसङ्गान्तराणि ग्राह्याणि । ब्रह्मण-स्तदभिन्नैक्यस्य च स्वप्रकाशत्वेनापरोक्षत्वादिति भावः
॥ २७ ॥
युक्तिमल्लिका
एकगोष्ठप्रविष्टाः किं महिषीधेनुपूर्वकाः ।
एकाकारफलं दद्युरिदं चादृष्टकल्पनम् ॥ २८ ॥
सुरोत्तमटीका
दूषणान्तरं चाह ॥ एकगोष्ठेति ॥ इदं विजातीय-करणानामेकत्र सन्निवेशे स्वजातिविरुद्धफलजनकत्वम् । किञ्च चक्षुःकरणक एवापरोक्षज्ञाने शब्दस्यापि करणतोच्यते उत तदजन्यसाक्षात्कारान्तरे । नाद्यः। एकज्ञाने करणद्वयानपेक्षणेन संशयोत्तरप्रत्यक्षे व्याप्तिदर्शनस्येव सहकारित्वस्यैव प्राप्तेः । न द्वितीयः । केवलशब्दादेवान्यत्रापि तदुदयप्रसङ्गात् ॥ २८ ॥
सत्यप्रमोदटीका
करणशक्तिमतिलङ्घ्य ज्ञानस्य विषयानुसारित्वे अतिप्रसङ्गान्तराण्याह एकगोष्ठेति एकस्मिन्नेव विषये सन्निवेशमात्रेण स्वभावातिक्रमणे, एकत्र गोष्ठे समाविष्टानां गोमहिषीपूर्वकाणामपि परस्पर-कार्यजनकत्वं स्यादित्यर्थः । ‘‘चाक्षुषादिविषयकस्मृत्यनुमितिस्पार्शनज्ञाना-देश्चाक्षुषत्वाद्यापातात् । लिङ्गशब्दादिसिद्धे चेन्द्रियात्परोक्षधीप्रसङ्गात् । एवञ्च ‘परोक्षे चापरोक्षे च चाक्षुषी स्पार्शिनीव च । अपरोक्षे परोक्षा धीर्युक्ता करणशक्तितः’ । तस्माद्ये विरुद्धे ज्ञानत्वावान्तरजाती परोक्षत्वापरोक्षत्वे तदाश्रययोर्ज्ञानयोर्भिन्नत्वाद् यश्चैको विषयस्तत्र विरुद्धजात्यभावात्प्रत्यक्ष-विषयमपि शाब्दज्ञानं परोक्षमेव’ इति न्यायामृतोक्तमत्रोक्तस्योपपादन मत्रानु-सन्धेयम् । विस्तरस्तत्रैव शब्दप्रत्यक्षभङ्गे ॥ २८ ॥
युक्तिमल्लिका
दशमस्त्वमसीत्युक्तिरपि शाब्द्या धिया स्वया ।
चित्तव्याक्षेपहन्त्र्येव दशमोऽहमिति प्रमा ॥ २९ ॥
तत्रापि मानसी नो चेदहं त्वोल्लेखिनी कथम् ।
दशमस्त्वमसीत्यत्र ह्यहंशब्दो न विद्यते ॥ ३० ॥
त्वंतामेव ज्ञापयेत्सा नाहन्तां ज्ञापयेद्धि वाक् ।
शब्दो वदेत्स्वशक्यार्थमशक्यार्थं कथं वदेत् ॥ ३१ ॥
सुरोत्तमटीका
प्रमेयं दूषयित्वा दृष्टान्तं च दूषयति ॥ दशम इति ॥ स्वात्मना सह दशसङ्ख्याकजनेषु सत्सु स्वानवलोकिनो बहिर्मुखस्य दशमः क इति शङ्कायां प्रयुक्ता ‘‘दशमस्त्वमसी’’त्युक्तिरित्यर्थः । शाब्द्या शब्द-करणिकया । धिया परोक्षज्ञानेन । चित्तव्याक्षेपहन्त्री अन्यत्रैवासक्तं तच्चित्तं त्वन्त्वप्रकारेणैव तत्स्वरूपं प्रबोध्य स्वस्वरूपाभिमुखं विदधत्येवेत्यर्थः । मानसीत्युपलक्षणम् । साक्षिरूपिणी वा । नो चेन् मनःकरणिका नो चेत् । अहमित्युल्लेखस्य मनःकरणके साक्षिरूपे च ज्ञान एव दर्शनात् । नन्वहं शब्दप्रयोगे शाब्द्यामपि प्रतीतौ अहं त्वोल्लेखोऽस्तीति चेत् । सत्यम् । प्रकृते सोऽपि नास्तीत्याह ॥ दशम इति ॥ शक्तिग्रहप्रकारेणैव ज्ञानजनकत्व-नियमादिति भावः॥२९–३१ ॥
सत्यप्रमोदटीका
यच्चोक्तं परेण तत्त्वमसीति वाक्यादेवापरोक्षधीर् दशमस्त्वमसीत्यादौ शब्दादेवापरोक्षधीदर्शनादिति । तत्र दृष्टान्तं दूषयति दशम इत्यादिभिः । शाब्द्या परोक्षया । चित्तेति अन्यत्र व्यासक्तं तच्चित्तं स्वस्वरूपाभिमुखं विदधतीत्यर्थः । प्रमा मानसीति योजना । वृत्तिज्ञान-सहकारेणैव शब्दानाम् अर्थबोधकत्वस्य क्लृप्तत्वात् । अङ्गीकृतश्चायं न्यायः परेणापि ‘न ह्यक्षरबाह्यो वाक्यार्थः’ इति वचनात् ॥ वाक्यार्थं वृत्तिमहिम्ना लब्धार्थम् ॥ २९–३१ ॥
युक्तिमल्लिका
घटत्वाकारधीरेव घटशब्देन जायते ।
द्रव्यत्वाकारधीर्द्रव्यपदादुभयवत्यपि ।
दशमोऽहं त्विति तु या मतिस्सा मानसी ध्रुवम् ॥ ३२ ॥
सुरोत्तमटीका
ननु स्वस्वरूपे अहंत्वस्यापि विद्यमानत्वात्त्वमिति पदेनैव तस्यापि बोधोऽस्त्वित्यत आह ॥ घटत्वेति ॥ उभयवत्यपि द्रव्यत्व-घटत्ववत्यपि ॥ ३२ ॥
सत्यप्रमोदटीका
ननु तत्र दशमे अहंत्वमप्यस्तीति चेत्किं तावता । तद्बोधकपदाभावात् । अन्यथा वृत्त्यविषयत्वेऽपि तत्र विद्यमानत्वमात्रेण शाब्दत्वे घटशब्देन द्रव्यत्वाकारधीरपि स्यात् ॥ ३२ ॥
युक्तिमल्लिका
अव्युत्पन्नस्य तद्वाक्यश्रवणेऽपि मतिर्न सा ।
व्युत्पत्तिश्शब्दजन्यार्थज्ञाने क्लृप्तं हि कारणम् ॥ ३३ ॥
अतः शाब्दप्रबोधोऽस्ति मध्ये व्यासङ्गभञ्जकः ।
समाहितमनास्तु स्वं दशमं मनसेक्षते ॥ ३४ ॥
सुरोत्तमटीका
युक्त्यन्तरमपि सूचयन्नेतदेव विशदयति ॥ अव्युत्पन्न-स्येति ॥ सा वाक्यजन्या ॥ ३३,३४ ॥
सत्यप्रमोदटीका
क्लृप्तमिति । तदुक्तं सुधायां ‘शक्तिज्ञानानुरोधित्वा-दभिधानस्य’ इति ॥ ३३,३४ ॥
युक्तिमल्लिका
कारुः स्वकण्ठपरशुं विस्मृत्य बहु चिन्तयन् ।
अयं परशुरित्युक्ते किं शब्दादेव पश्यति ॥ ३५ ॥
उक्तिः परोक्षज्ञानेन चित्तव्याक्षेपनाशिनी ।
पश्चात्स्वकण्ठपरशुं चक्षुषैव स पश्यति ॥ ३६ ॥
सुरोत्तमटीका
शब्दप्रयोगेऽपि तत्तदर्थसाक्षात्कारश्चक्षुरादीन्द्रियैरेवेत्यत्र दृष्टान्तमाह ॥ कारुरिति ॥ शब्दप्रयोगेऽपि परशोश्चक्षुषैव दर्शनस्य सर्वजन-सम्प्रतिपन्नत्वाद्विप्रतिपन्नस्थलेष्वप्येवं ज्ञानद्वयमवर्जनीयमिति भावः ॥ ३५,३६ ॥
सत्यप्रमोदटीका
व्यासङ्गभञ्जकत्वमात्रं न तु करणानां स्वस्वभावाति-क्रम इत्येतद् दृष्टान्तेन दर्शयति कारुरिति ॥ ३५,३६ ॥
युक्तिमल्लिका
स्वतस्समाहितमना दशमोऽहमिति स्वयम् ।
मनसैवाभिपश्येच्चेद्ब्रह्म पश्येत्तथैव हि ॥ ३७ ॥
सुरोत्तमटीका
अहं दशम इति ज्ञानं मानसमेवेत्यत्र युक्त्यन्तरमप्याह ॥ स्वत इति ॥ स्वतः शब्दप्रयोगं विना । समाहितमनाः सावधानचित्तः । अविवेकिन एव शब्दापेक्षा । विवेकी तु यूयं नव अहं तु दशम इति स्वयमेव प्रत्येतीति सर्वानुभवसिद्धम् । तस्मादविवेक्यपि शाब्द्या प्रतीत्या चित्तं स्वाभिमुखीकर्तुमेव शब्दमपेक्षते । तथा स्वस्थचित्तस्तु विवेकिवत्स्वात्मानं स्वमनसैव दशमोऽहमिति पश्यति । वृथा करणवैषम्यकरणे कारणाभावादिति भावः । तथैवेत्यनेनासम्प्रज्ञातसमाधिस्थयोगिनि चित्तव्याक्षेपाभावा-द्बाह्येन्द्रियाणामुपरतत्वेन शब्दश्रवणासम्भवाच्च स्वस्थचित्तवन् मनसैव ब्रह्मापरोक्षज्ञानं न तु शब्दसहायेनेति सूचयति । एवं च परोदीरितबहिर्मुख-दृष्टान्तः कथं प्रकृतोपयोगी । न हि ‘‘शान्तोदान्त उपरतस्तितिक्षुस्समाहितो भूत्वाऽऽत्मन्येवात्मानं पश्येदि’’त्युक्तब्रह्मापरोक्षज्ञानिनः कदाप्यसमवधान-मुचितम् । एवं च ब्रह्मदर्शनदशायां क्व शब्दादपरोक्षज्ञानम् । कस्य वेदं निदर्शनमिति भावः । नन्वस्तु योगिनश्शब्दानपेक्षा । इदानीं बहिर्मुखं जनमभिमुखीकर्तुगुरुणोपदिश्यमानवेदान्तवाक्यरूपशब्दस्योपयोगोऽस्तीति चेत् । सत्यम् । तथापि गुरूपदिष्टशब्दश्रवणसमनन्तरमेव तस्य ब्रह्मापरोक्ष-दर्शनाभावेन पुनर्दृष्टान्तवैयर्थ्यस्य तदवस्थत्वात् । न च वाच्यमिदानीमपि शब्दश्रवणसमनन्तरमेव वाक्यार्थविशिष्टब्रह्मदर्शनमप्यस्तीति । त्वदुक्तमहा-वाक्यार्थे प्रतिवादिनां विवादाभावप्रसङ्गात् । घटो दृष्ट इतिवद्दृष्टं ब्रह्मेति प्रतिवक्तव्यत्वाच्च ॥ ३७ ॥
सत्यप्रमोदटीका
समाहितमनाश् चित्तव्यासङ्गरहितः । तथैव हि मनसैवानुद्रष्टव्यम् इति श्रुतिप्रसिद्धेः । ‘यत्र चैवात्मनाऽऽत्मानं पश्यन्’ इति स्मृतेश्च ॥ ३७,३८ ॥
युक्तिमल्लिका
शब्दस्तु व्यवधानस्योच्छित्त्यै कर्णे निपातितः ।
शाब्दीं करणसामर्थ्यात्त्वमाकारां धियं दिशेत् ॥ ३८ ॥
सुरोत्तमटीका
बहिर्मुखेऽपि व्यासङ्गनिवर्तकत्वेन प्रागुक्तांशस्य सहकारितामनूद्य दृष्टान्तमुखेनाप्युपपादयति ॥ शब्दस्त्विति
॥ ३८ ॥
युक्तिमल्लिका
ततस्समाहितमनाः पश्येदहमिति स्वयम् ।
अहंत्वोल्लेखिनी शब्दाभावे धीर्मनसैव हि ॥ ३९ ॥
प्रतिबन्धनिरासे हि निमित्तान्तरतः कृते ।
दहनादेव दाह्यस्य दाहः स्यान्नान्यतः क्वचित् ॥ ४० ॥
सुरोत्तमटीका
शब्दाभावे अहमिति शब्दाभावे ॥ ३९,४० ॥
सत्यप्रमोदटीका
अहंत्वोल्लेखिनी धीर् इति योजना । शब्दाभावे अहमिति शब्दाभावे ॥ ३९ ॥
युक्तिमल्लिका
प्रतिबन्धनिरासेन तस्य स्याच्चरितार्थता ।
सहकारी भवेद्वासौ स एव न हि दाहकः ॥ ४१ ॥
सुरोत्तमटीका
असौ प्रतिबन्धनिवर्तकः ॥ ४१ ॥
सत्यप्रमोदटीका
भवेद्वेति उपचारेणेति भावः । असौ प्रतिबन्ध-निरासोपक्षीणः । तदुक्तं सुधायां ‘तथाऽपि प्रतिबन्धनिवृत्तौ सत्यामेव निर्णय इति प्रतिबन्धकनिरासहेतोरपि विचारस्योपचारेण निर्णयहेतुत्वात्’ इति ।अत एव वा इत्यनास्थासूचकः॥४१ ॥
युक्तिमल्लिका
अहंशब्दाप्रयोगेऽपि ह्यहमाकारधीत्वतः ।
दशमोऽहमिति ज्ञानं न शाब्दं स्वस्थधीर्यथा ।
पराकरोति ते पक्षमनुमानमपीदृशम् ॥ ४२ ॥
सुरोत्तमटीका
परोदीरितदृष्टान्तेऽपि दशमोऽहमिति ज्ञानस्य शब्दा-करणकत्वेऽनुमानमाह ॥ अहमिति ॥ अहं दशम इति वाक्यजनितज्ञाने व्यभिचारपरिहाराय विशेषणम् । स्वस्थधीः स्वस्थस्याहं दशम इति धीः ॥ ४२ ॥
सत्यप्रमोदटीका
ज्ञानम् अस्वस्थस्य जायमानं विमतम् । अहं दशम इति वाक्यजन्यज्ञाने व्यभिचारवारणाय हेतौ विशेषणम् । विपक्षे यदि शाब्दं स्यात् तर्हि शब्दप्रयोग एव जन्यं स्यात् । अन्यथाऽकारणकार्योत्पत्तिप्रसङ्ग इति बाधकसद्भावान्नाप्रयोजकता । अत एव न दृश्यमानविषयकत्वाभाव उपाधिः ॥ ४२ ॥
युक्तिमल्लिका
दृष्टियोग्ये प्रयुक्तोऽपि शब्दो यद्यपरोक्षकृत् ।
गृहे घटोऽस्तीत्युक्तेऽपि तर्हि स्यादपरोक्षधीः ॥ ४३ ॥
सुरोत्तमटीका
दृश्यमानेऽर्थे प्रयुक्तश्शब्दस्साक्षात्कारमेव जनयतीति मतं सङ्ग्रहाय पुनरप्यनूद्य प्रकारान्तरेण च दूषयति ॥ दृष्टियोग्य इति ॥ ४३ ॥
सत्यप्रमोदटीका
दृष्टियोग्य इति । तथा च ब्रह्मणो दृश्यमानत्वा-भावेऽपि चरमसाक्षात्कारयोग्यत्वात् तस्य शब्दादापरोक्ष्यं सम्भवतीत्याशयः । स्याद् बहिःस्थस्येति शेषः । गेहस्थघटस्य दर्शनयोग्यत्वात् ॥ ४३ ॥
युक्तिमल्लिका
दृश्यमाने प्रयुक्तस्तु शब्दो यद्यपरोक्षकृत् ।
असमाहितचित्तस्य कथं तर्ह्यपरोक्षधीः ॥ ४४ ॥
न ह्यसौ विस्मृतस्वात्मा पुरा शब्दप्रयोगतः ।
आत्मानं मनसा पश्येद्व्याक्षेपाक्षिप्तचेतनः ॥ ४५ ॥
सुरोत्तमटीका
व्याक्षेपाक्षिप्तचेतनः व्याक्षेपनिरस्तमनोव्यापार इत्यर्थः॥ अत एतादृशे प्रयुक्तं दशमस्त्वमसीति वाक्यमपि दृश्यमाने प्रयुक्तशब्दत्वा-भावात् त्वन्न्यायेनैव न साक्षात्कारजनकं स्यादिति भावः । पूर्वं दार्ष्टान्तिके शब्दप्रयोगसमये दृश्यमानत्वाभाव उक्तः । इदानीं तु दृष्टान्त एवेति विवेकः ॥ ४४,४५ ॥
सत्यप्रमोदटीका
दोषान्तरं वक्तुं पूर्वं निरस्तमपि पुनराशङ्कते दृश्यमान इति । तथा च दशमस्त्वमसीति वाक्यजन्यज्ञाने दृष्टान्तीकृते साधनवैकल्यम् । न केवलं प्रागुक्ता पक्षेऽसिद्धिः । उपपादयति कथमिति । व्यासक्तस्य आत्मनि दृश्यमानत्वाभावात् । पुरेति अनन्तरं व्यासङ्गपरिहारेण दर्शन-सम्भवादिति भावः ॥ ४४,४५ ॥
युक्तिमल्लिका
दृश्यमानेऽपि शब्देन साक्षात्कारान्तरप्रमा ।
अनानुभविकत्वेन वैयर्थ्याच्च न शोभते ।
सैव चेत्तर्हि शब्दोत्था साक्षात्कारप्रमा क्व ते ॥ ४६ ॥
सुरोत्तमटीका
किञ्च दृश्यमानेऽपि प्रयुक्तश्शब्दः दर्शनान्तरं साधयति उत तदेवेति विकल्प्याद्यं दूषयति ॥ दृश्यमान इति ॥ वैयर्थ्याच्चेत्युपलक्षणम् । अन्यत्रापि तज्जनकत्वप्रसङ्गादित्यपि द्रष्टव्यम् । द्वितीयं दूषयति ॥ सैवेति ॥ तस्याश्च प्रागेव स्वकरणजनितायाः पुनश्शब्देनापि जननायोगादिति भावः ॥ ४६ ॥
सत्यप्रमोदटीका
दृश्यमाने इति विषयसप्तमी । शब्देनेत्यनेन अन्वयः । साक्षात्कारान्तरेति । पुरुषान्तरस्य अथवा स्वस्यैव कालान्तरे जाततद्विषयक-साक्षात्कारेत्यर्थः । अनानुभविकत्वेनेति । ‘‘केषाञ्चिदपरोक्षे स्वर्गादावस्माकं शब्दादपरोक्षधीः स्याद् एकपुरुषाभिप्राये पूर्वेद्युश्चैत्रस्यापरोक्षे इदानीं शब्दा-दपरोक्षधीः स्यादि’’ति न्यायामृतोक्तोऽनुभवविरोधो ध्येयः ॥ वैयर्थ्याच्चेति व्यवहारे भट्टनयमङ्गीकुर्वाणस्य तव तत्त्वमसिवाक्यस्याधिगतार्थगन्तृत्वप्राप्त्याऽ-प्रामाण्यप्रसङ्गादित्यर्थः । सैवेति । अन्योन्याश्रयप्रसङ्गेन साक्षात्कारप्रमा-जननासम्भवात् । शब्देन अपरोक्षज्ञानजननेऽर्थस्य दृश्यमानत्वसिद्धिः ।दृश्यमानत्वसिद्धौ हेतुसिद्ध्या अपरोक्षप्रमारूपसाध्यसिद्धिरिति॥४६ ॥
युक्तिमल्लिका
करणस्य बलाच्चेद्धीस्तर्हि शाब्देन सा भवेत् ।
दृष्टेऽर्थे तर्करसिकस्यानुमानाद्यथाऽनुमा ॥ ४७ ॥
सुरोत्तमटीका
पक्षान्तरमाशङ्क्य दूषयति ॥ करणस्येति ॥ शब्दस्य तत्रैव सामर्थ्यादिति भावः ॥ ४७ ॥
सत्यप्रमोदटीका
करणस्य शब्दस्य बलात् स्वभावात् । प्रमाणसंप्लव-मात्रेण न करणानां स्वस्वभावातिक्रम इत्याह दृष्ट इति ॥ ४७ ॥
युक्तिमल्लिका
तस्माद्दर्शनमुद्दिश्य तादर्थ्येनास्य कीर्तनात् ।
करणत्वं श्रुतिबलाद्वाच्यं नान्याऽस्ति ते गतिः ॥ ४८ ॥
सुरोत्तमटीका
तस्मात् शब्दश्रवणस्य क्वाप्यपरोक्षज्ञानजनकत्वा-दर्शनात् । अस्य श्रवणादेः । श्रुतिबलादेव श्रवणस्यापरोक्षज्ञानजनकत्वं वक्तव्यमिति भावः ॥ ४८ ॥
सत्यप्रमोदटीका
कीर्तनात् ‘आत्मा वाऽरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्य’ इति श्रुतौ ॥ ४८ ॥
युक्तिमल्लिका
श्रुतिस्तु श्रवणं वक्ति मननं ध्यानमन्ततः ।
पारंपर्यात्तु तत्राद्ये हेतुर्ध्यानं तु मुख्यतः ॥ ४९ ॥
न चेत्कर्मैव हेतुस्स्यादङ्गं स्याच्छ्रवणाद्यपि ।
कर्मणा ज्ञानमित्याह यतः श्रुतिरचञ्चला ॥ ५० ॥
सुरोत्तमटीका
तत्र श्रवणमनननिदिध्यासनानां मध्ये । आद्ये श्रवण-मनने । मुख्यतः द्वारान्तरं विना । उक्तविधया मनःकरणकदर्शनोपयोगीत्यर्थः। अयमभिसन्धिः । ‘‘मनसैवैनं पश्यती’’ति श्रुत्या इतरव्यवच्छेदपूर्वकं तृतीयया मनस एव करणत्वनिर्णीतेस्सहकारितयैवैषां कथनं न करणतया द्विकरणकैक-क्रियायोगात् त्रयाणामपि करणत्वप्रसङ्गाच्चेति ॥ ४९,५० ॥
सत्यप्रमोदटीका
आद्ये श्रवणमनने हेतू इति वचनव्यत्ययेनान्वयः । मुख्यत इति । श्रवणाद्यङ्गकनिदिध्यासनं साक्षात्कारजनकमनसो ऽव्यव-धानेन सहकारीत्यर्थः । तदुक्तं न्यायामृते ‘‘तस्माच्छ्रवणसामर्थ्यरूपलिङ्गेन ततस्तु पश्यते निष्कलं ध्यायमान इत्यादिवाक्येन निदिध्यासनस्य फलस्•म्बन्धात् प्रकरणेन च श्रवणादिकं निदिध्यासने सन्निपात्यङ्गम् । युक्तश्च विप्रकृष्टस्य फलोपकारात् सन्निकृष्टस्य फलोपकारः’’ इति ॥ न चेत् सामर्थ्य-रूपलिङ्गमनादृत्य द्रष्टव्यः श्रोतव्य इति सन्निधानमात्रेण अङ्गित्वाङ्गीकारे । कर्मैव ‘कर्मणा ज्ञानमातनोति’ इति श्रुतौ ज्ञानरूपसाक्षात्कारसन्निधानात् । हेतुर् अङ्गि । श्रवणाद्यपि त्रितयमपि । अङ्गं कर्मणः । अचञ्चला द्वारान्तराऽनभिधायिनी ॥ ४९,५० ॥
युक्तिमल्लिका
तस्मात्क्रमिकवेदोक्तकारणेषु यदुत्तरम् ।
ज्ञानादव्यवधानेन पूर्वं च तत एव तत् ॥ ५१ ॥
सुरोत्तमटीका
तस्मात् पूर्वतया श्रवणस्य मुख्यकारणत्वे कर्मण एव तत्प्रसङ्गात् । तत एव तादृशनिदिध्यासनादेव । तद् अपरोक्षज्ञानम् ॥ ५१ ॥
सत्यप्रमोदटीका
तत एव ध्यानादेव । तद् दर्शनम् ॥ ५१ ॥
युक्तिमल्लिका
यदि श्रवणमात्रेऽपि सर्वेषां ब्रह्मदर्शनम् ।
जीवन्मुक्ताः कुतस्तर्हि शुकाद्या एव योगिनः ॥ ५२ ॥
सुरोत्तमटीका
श्रवणादेव ब्रह्मदर्शनाङ्गीकारे बाधकं चाह ॥ यदीति ॥ मन्दानामपि जीवन्मुक्तत्वं स्यादिति भावः । विवादाभावादेरुपलक्षणमेतत् ॥ ५२ ॥
सत्यप्रमोदटीका
श्रवणमात्रेऽपि इति । ‘तत्त्वमस्यादिवाक्योत्थ-सम्यग्धीजन्ममात्रतः । अविद्या सह कार्येण नासीदस्ति भविष्यति’ इति त्वत्प्रक्रियाऽनुसारेणेति भावः ॥ एवेति इतरेषाम् अनुष्ठितश्रवणमात्राणां मन्दानां व्यवच्छेदासम्भवादिति भावः । जीवन्मुक्ता इति परपक्षे तत्सद्भाव-मुपेत्योक्तम् । वस्तुतो मुक्ता एव कुतो न स्युरित्याशयः । तदुक्तं सुधायां ‘ज्ञाने सति किमपि मुक्तिर्नैवापेक्षते इति सद्य एव साक्षात्कृतब्रह्मणां शरीरादिनिवृत्तिः प्रसज्येत’ इति ॥ ५२ ॥
युक्तिमल्लिका
अनानुभाविकं चेदं श्रुतिकालेऽपि दर्शनम् ।
अश्नतः शृृण्वतश्चान्नं किं नास्ति महदन्तरम् ॥ ५३ ॥
सुरोत्तमटीका
श्रवणदर्शनयोरत्यन्तवैलक्षण्ये सर्वानुभवसिद्धं दृष्टान्तमाह ॥ अश्नत इति ॥ एकत्र तृप्तिदर्शनाद् अन्यत्र तदभावाद् रसनेन्द्रियमेव तत्तद्रसदर्शनकारणं न शब्द इति भावः ॥ ५३ ॥
सत्यप्रमोदटीका
श्रुतिकाले श्रवणानन्तरमेव । अन्तरं व्यवधानम् । ‘त्वम् अन्नवानसि’ इति श्रवणमात्रेणान्नसाक्षात्कारापत्त्या सद्य एव रसनेन्द्रि-येण रससाक्षात्कारजन्या तृप्तिः स्यात् । तच्चानानुभविकम् इति हृदयम् ॥५३॥
युक्तिमल्लिका
तच्छब्दान्नापरोक्षं स्यान्नतरां निर्विकल्पकम् ।
यतस्त्वदुक्तवाक्येऽपि दशमत्वविशिष्टधीः ॥ ५४ ॥
सुरोत्तमटीका
तत् तस्माद् रसशब्देन रससाक्षात्कारादर्शनात् । नतरामित्येतदेव स्पष्टयति ॥ यत इति ॥ ५४ ॥
सत्यप्रमोदटीका
नतरामिति ‘इदमित्थमि’ति ज्ञानमात्रस्य संसृष्टार्थ-विषयकत्वनियमेन निर्विकल्पकज्ञानस्यैवालीकतया सप्तमरसत्वेन ज्ञानविशेषस्य शाब्दस्य निर्विकल्पकत्वस्य अष्टमरसत्वादिति भावः ॥ ५४ ॥
युक्तिमल्लिका
अन्वितार्थाभिधायित्वादन्योन्यान्वयमिश्रितम् ।
स्वार्थं मुख्यममुख्यं वा पदं वक्तीति ते मतम् ।
तच्छब्दान्निर्विकल्पा धीरिति रिक्तं वचस्तव ॥ ५५ ॥
सुरोत्तमटीका
तत् तस्मात् तव मतेऽपि शब्दस्यान्विताभिधायित्वात् ॥ ५५ ॥
सत्यप्रमोदटीका
रिक्तं वाक्यलक्षणव्याघातकारणम् । वाक्यं हि आकाङ्क्षासन्निधियोग्यतावतां पदानां समूहः । आकाङ्क्षाद्याः प्रत्येकमन्वय-घटितमूर्तय इति भावः ॥ ५५ ॥
युक्तिमल्लिका
यौगपद्येन तद्योग्यगुणानुस्मरणं हरेः ।
अच्छिन्नतैलधारावदारात्तं दर्शयेद्धृदि ॥ ५६ ॥
सुरोत्तमटीका
उपसंहरति ॥ यौगपद्येनेति ॥ तत् तस्मात् श्रवणस्य दर्शनहेतुत्वायोगात् । अच्छिन्नतैलधारावद्यौगपद्येन हरेर्योग्यगुणानुस्मरणं स्वयोग्यगुणानुस्मरणमिति निदिध्यासनस्वरूपकथनम् ॥ ५६ ॥
सत्यप्रमोदटीका
अच्छिन्नेति ‘खण्डस्मृतिर्धारणं स्यादखण्डं ध्यान-मुच्यते’ इति तल्लक्षणोक्तेः । आरात् । ‘स्वयोग्यगुणोपेतस्य निर्दोषस्य भगव-द्विग्रहविशेषस्यादरनैरन्तर्याभ्यां विषयवैराग्यतद्भक्तिसहिताद् बहुकालोपचिता-न्निदिध्यासनापरनामकाद्विचिन्तनादि’ति सुधोक्तरीत्याऽर्थो ज्ञेयः ॥ ५६ ॥
युक्तिमल्लिका
ध्यानं च मनसा तस्माद्ध्यातृचित्तं हरीच्छया ।
तद्गं तमेवेन्द्रियत्वात्पश्यतीत्यतिमङ्गलम् ॥ ५७ ॥
सुरोत्तमटीका
साक्षात्कारस्येन्द्रियजन्यत्वनियमान्मनसैवैनं पश्यतीति श्रुतेश्च कथं ध्यानमात्रेण दर्शनमित्यत आह ॥ ध्यानं चेति ॥ तद्गं ध्येयप्रतिमान्तर्गतम् । तं ध्येयगुणवन्तं भगवन्तं पश्यतीति करणे कर्तृत्वोप-चारः । ध्यानप्रसन्नभगवदनुगृहीतं मनः योग्यजीवस्य भगवत्साक्षात्कारकरणं भवतीति भावः । एतत्सर्वं मनसि निधाय श्रोतृणां मनस्समाधानार्थं प्रागस्माभिः किञ्चित्प्रदर्शितमिति द्रष्टव्यम् ॥ ५७ ॥
सत्यप्रमोदटीका
मनसेति । ‘श्रवणदर्शनादिजनितमानसवासनामयस्य वस्तुनो मनसाऽवलोकनं ध्यानं’ इति सुधोक्तेः । हरीच्छयेति । अव्यक्त-स्वभावस्य प्रत्यक्षत्वानुपपत्तेः । ‘नित्याव्यक्तोऽपि भगवानीक्ष्यते निजशक्तितः’ इति अव्यक्ताधिकरणभाष्योदाहृतप्रमाणात् । ‘उपासना त्वापरोक्ष्यं गमये-त्तत्प्रसादतः’ इति च । तद्गं ध्येयप्रतिमान्तर्गतम् । तदुक्तं प्रतिषेधाधिकरणभाष्ये ‘तदुपासनं च भवति प्रतिमोपासनं यथे’ति । पश्यति साक्षात्करोति । इन्द्रियत्वेनेन्द्रियजन्यं प्रत्यक्षम् इति लक्षणात् । तमेव ‘‘पश्यन्ति परमं ब्रह्म चित्ते यत्प्रतिबिम्बितम्’’ इति तत्रैवोक्तेः । इतीति । श्रवणादेव ज्ञानम् । तच्च प्रसादनैरपेक्ष्येणैव मोचकम् इत्यादि परपरिकल्पितप्रक्रियापराकरणेन हेतुना । अशेषम् ‘अज्ञानां ज्ञानदो विष्णुर्ज्ञानिनां मोक्षदश्च सः,’ ‘यथा दृष्ट्या प्रसन्नः सन् राजा बन्धापनोदकृत् । एवं दृष्टः स भगवान् कुर्याद् बन्धविभेदनम्’ इत्यादिप्रमेयजातम् अतिमङ्गलं निराबाधं सुस्थिरमभूदिति भावः ॥ ५७ ॥
युक्तिमल्लिका
यदङ्घ्य्रभिध्यानसमाधिधौतसुधियात्मनः ।
अनुपश्यन्ति तत्तत्त्वमित्याह भगवान् शुकः ॥ ५८ ॥
सुरोत्तमटीका
उक्तार्थं प्रमाणेन द्रढयति ॥ यदङ्घ्य्रीति ॥ अनेन ‘‘यदङ्घ्य्रभिध्यानसमाधिधौतया धियाऽनुपश्यन्ति हि तत्वमात्मनः । वदन्ति चैतत्कवयो यथा तथं स मे मुकुन्दो भगवान्प्रसीदतामि’’ति भागवतश्लोकं सङ्गृह्णाति ॥ ५८ ॥
सत्यप्रमोदटीका
उक्तं सर्वमपि प्रमेयं पिण्डीकृत्य प्रतिपादयद्भागवत-वचनमुदाहरति यदिति ‘यदङ्घ्य्रभिध्यानसमाधिधौतया धियाऽनुपश्यन्ति हि तत्त्वमात्मनः । वदन्ति चैतत्कवयो यथा तथं स मे मुकुन्दो भगवान्प्रसीद-ताम्’ । इति श्लोकः ॥ ५८ ॥
युक्तिमल्लिका
ध्यानमेव प्रधानाङ्गं तेन चाज्ञानधीमलम् ।
क्षाल्यते धौतधीरेव दर्शने कारणं किल ॥ ५९ ॥
सुरोत्तमटीका
अस्य तात्पर्यमाह ॥ ध्यानमिति ॥ श्रवणमनने विहायास्यैवासाधारण्येन ग्रहणादिति भावः । तेन ध्यानाख्यसमाधिना । अज्ञानधीमलम् अज्ञानाख्यमनोमलम् । धौतपदमहिम्ना लब्धोऽयमर्थः । तेन चाङ्गत्वस्फोरणं कृतमिति द्रष्टव्यम् । धौतधीर् अज्ञानाख्यपङ्कक्षालनेन धवलीभूतधीः । दर्शने आत्मतत्वदर्शने ॥ ५९ ॥
सत्यप्रमोदटीका
प्रकृतोपयोगं दर्शयन् व्याख्याति ध्यानमिति । एवकारेण श्रवणस्याङ्गित्वप्रधानाङ्गत्वयोर्निरासः । क्षाल्यते स्वरूपावरकमज्ञानं ध्यानरूपपरोक्षज्ञानेन शिथिलीक्रियते । तथैव गीताभाष्योक्तेः । धीर् दर्शने कारणम् । उत्तरश्लोके व्याख्यानं मनःसाक्षात्कारस्य करणम् । अङ्गाङ्गम् अङ्गस्य निदिध्यासनाङ्गस्य मननस्याङ्गम् । कारणम् अङ्गि करणम् ॥५९,६०॥
युक्तिमल्लिका
धीशब्दोक्तं मनस्साक्षात्कारस्य करणं किल ।
अङ्गाङ्गं श्रवणं दृष्टिकारणं नतरां किल ॥ ६० ॥
सुरोत्तमटीका
धीशब्दार्थं वदन् तृतीयाबलेन लब्धार्थमप्याह ॥ धी-शब्देति ॥ अनुपश्यन्तीति ज्ञानकरणतयोक्तत्वादिति भावः । अतः प्रागुक्तकारण पदस्यैवकारसाहित्यात्करणपरम् । अतिशयितकारणस्यैव करण-त्वात् । अङ्गाङ्गं ध्यानाङ्गस्य मननस्याङ्गम् । साक्षाद्ध्यानाङ्गमपि नेत्यर्थः । अत एव नतरामित्युक्तम् ॥ ६० ॥
युक्तिमल्लिका
एवं चार्थद्वयं सिद्धं यदस्माभिरुदीरितम् ।
परोदीरितमार्गौ यौ कुमार्गौ तौ बहिर्गतौ ॥ ६१ ॥
सुरोत्तमटीका
श्लोकस्य प्रकृतोपयोगं दर्शयति ॥ एवमिति ॥ अर्थद्वयं ध्यानस्य प्रधानाङ्गत्वम् । मनसः करणत्वरूपमङ्गित्वं च । परोदीरितमार्गौ श्रवणस्यैवाङ्गित्वं मनननिदिध्यासनयोरुत्तराङ्गत्वमिति मार्गौ । मार्गपदेनोक्त्या प्राप्तापराधपरिहाराय कुमार्गावित्यनुवादः ॥ ६१ ॥
सत्यप्रमोदटीका
अर्थद्वयं मनसः करणत्वम् । श्रवणस्य अङ्गत्वम् । कुमार्गौ गोविन्दप्रसादापलापकत्वेन कुपथौ । ‘कुपथं तं विजानीयाद्गोविन्द-रहितागमं’ इति स्मृतेः ॥ ६१ ॥
युक्तिमल्लिका
परोक्षज्ञानकरणं साक्षात्काराय को वदेत् ।
को वा श्रवणमात्रेण तं पश्यति महाप्रभुम् ।
अज्ञैश्च शब्दमात्रेण दृष्टश्चेत्कलहः कुतः ॥ ६२ ॥
सुरोत्तमटीका
कलहः वादिप्रतिवादिनोर्विवादः । एतदेवाभिप्रेत्य प्रागस्माभिस्सङ्ग्रहायोक्तम् ॥ ६२ ॥
सत्यप्रमोदटीका
कुत इति श्रवणजनितदर्शनेन सद्यः शरीरपातापातात् ॥ ६२ ॥
युक्तिमल्लिका
तैलधारावदच्छिन्नगुणसन्धानरूपया ।
मनोधारणया योगी पश्येच्चेदुचितं हि तत् ॥ ६३ ॥
सुरोत्तमटीका
ध्यानस्वरूपं निरूपयन्ध्यानस्यैव प्रधानाङ्गत्वमनुभाव-यति ॥ तैलधारावदिति ॥ ६३ ॥
सत्यप्रमोदटीका
गुणसन्धानं योग्यगुणोपसंहारः । धारणया ध्यानेन । योगी परमात्मनः प्रसादेनेति पूरणीयम् । उचितम् । उक्तप्रमाणानुगुणम् ॥ ६३ ॥
युक्तिमल्लिका
दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम् ।
इति गीतासु हरिणा निरणायि मतं मम ॥ ६४ ॥
सुरोत्तमटीका
ध्यानप्रसन्नभगवद्दत्तचक्षुषैव भगवद्दर्शनम् । न शब्द-श्रवणमात्रेणेत्यत्र गीतावाक्यमपि प्रमाणयति ॥ दिव्यमिति
॥ ६४ ॥
सत्यप्रमोदटीका
दिव्यमिति ‘न तु मां शक्यसे द्रष्टुमनेनैव स्वचक्षुषा’ इति पूर्वार्धम् । चक्षुर् दर्शनशक्तिम् । साक्षाद्धीकरणादित्येकं पदम् । साक्षा-त्कारकरणात् । एवपदेन विजातीयकरणशब्दस्य व्यवच्छेदः ॥ ६४,६५ ॥
युक्तिमल्लिका
अविद्यां किल विद्राव्य दिव्यं चक्षुर्दृशे दिशेत् ।
साक्षाद्धीकरणादेव साक्षाद्धीसंस्कृतादपि ।
नान्यस्माद्यद्ददौ दिव्यं चक्षुरेव निरीक्षितुम् ॥ ६५ ॥
सुरोत्तमटीका
अस्य तात्पर्यमाह ॥ अविद्यामिति ॥ प्राग्दर्शनाभाव-सम्पादकप्रतिबन्धकनिरासस्यावश्यकत्वात् । अविद्यां विद्राव्येत्युक्तम् । यद् यस्मात् । निरीक्षितुं स्वविश्वरूपं द्रष्टुं दिव्यं चक्षुरेव ददौ । तस्मात्संस्कृतादपि भगवदनुग्रहाख्यसंस्कारसहितादपि साक्षाद्धीकरणादेव साक्षाद्धीस्साक्षात्कारः । न त्वन्यस्माल्लिङ्गाच्छब्दाद्वेति सिद्धम् । अनुगृह्णन्नपि भगवान्न लोकमर्यादा-मुल्लङ्घितवान् । त्वन्तु निर्मर्यादस्तामप्युल्लङ्घयसि । अतस्त्वं नालौकिको नापि लौकिक इति भावः ॥ ६५ ॥
युक्तिमल्लिका
चष्टेऽनेनेति तच्चक्षुर्मनो वा बाह्यमेव वा ।
चक्षुस्सहायेन मनो यतः पश्यति तं बहिः ॥ ६६ ॥
सुरोत्तमटीका
तर्हि चक्षुरिति कथनान्मनसः कथं करणत्वमित्यत आह ॥ चष्ट इति ॥ इति व्युत्पत्त्या तच्चक्षुर् गीतोक्तं चक्षुः । बहिर्दर्शनेऽपि मनस एव प्राधान्यमित्याह ॥ चक्षुस्सहायेनेति ॥ ततःप्राधान्येन मन एव तत्रापि चक्षुः । अन्यथा भागवतगीतावाक्ययोर्विरोधात् । अन्तर्वा बहिर्वा तयोरुभयो-रेव दर्शनहेतुत्वस्य चक्षुषा पश्यति मनसा पश्यति सुखं पश्यतीति लोकवेद-सम्मतत्वात्स्मृतिद्वयेनापि मनश्चक्षुषी एव गृहीते न श्रावणस्पार्शनादि साक्षा-त्कारान्तरकरणानि । किमु वाच्यं तदा परोक्षज्ञानकरणलिङ्गशब्दादीनां दर्शनहेतुतयाऽसङ्ग्राह्यत्वमिति भावः ॥ ६६ ॥
सत्यप्रमोदटीका
यौगिकचक्षुःशब्देन मनसोऽपि सङ्ग्रहमाह चष्ट इति । सहायेनेति । ‘मनसस्तु बाह्येन्द्रियसन्निधानेन एते सर्वेऽपि विषया’ इति पद्धत्युक्तेः ॥ ६६ ॥
युक्तिमल्लिका
किञ्च दक्षशिरश्छिन्दन्न च्छेदे कारणं पुरा ।
अपश्यत्किल तद्दृष्ट्यै दध्यौ पशुपतिश्चिरम् ॥ ६७ ॥
इति भागवते ध्यानात्पूर्वं दृष्टेरभावतः ।
तदभावे भावरूपं व्यतिरेकमदर्शयत् ॥ ६८ ॥
सुरोत्तमटीका
ध्यानस्यैव दर्शने प्रधानाङ्गत्वं न श्रवणस्येत्यत्र भागवत-कथान्तरसंमतिमपि प्रमाणयति ॥ किञ्चेति ॥ व्यतिरेकं व्यतिरेकव्याप्तिम् । ‘‘शस्त्रैरस्त्रान्वितैरेनमनिर्भिन्नत्वचं हरः । विस्मयं परमापन्नो दध्यौ पशुपति-श्चिरमि’’ति भागवतवाक्यस्य तात्पर्यकथनमिदम् ॥ ६७,६८ ॥
सत्यप्रमोदटीका
अतीन्द्रियार्थसाक्षात्कारे ध्यानस्यैवाङ्गत्वं भागवताख्या- नेन अन्वयव्यतिरेकप्रदर्शनपूर्वकं निदर्शयति किञ्चेति । पुरा ध्यानात्पूर्वम् । कारणं विशेषनिमित्तम् । तदुक्तं गीताभाष्ये ‘स्वतः प्रायोनिमित्तैश्चा-विनाशिनोऽपि केनचिन्निमित्तविशेषेण स्यात् ककच्छेदवदि’ति । तत्र प्रमेयदीपिकायां ‘यथा दक्षस्य प्रजापतेश्शिरच्छेदो न स्वतो नापि वीरभद्रायुधेन निमित्तेन किन्तु यज्ञपशुभावनाऽऽख्येन निमित्तविशेषेण तथेत्यर्थः’ इति । तथा चातीन्द्रियार्थविषयकयोगिप्रत्यक्षे समाधिपरिपाकलक्षणयोग एव निमित्तम् । ‘‘समाधिपरिपाकवन्तो योगिनः’’ इति तत्त्वनिर्णयटीकोक्तेः ॥ अनेन ध्यानाभावे अतीन्द्रियार्थदर्शनाभाव इति व्यतिरेकव्याप्तिः सिद्धेत्याह तदिति
॥ ६७,६८ ॥
युक्तिमल्लिका
दृष्ट्वा संज्ञपने योगमिति ध्यानोत्तरक्षणे ।
दृष्टिं ब्रवीति यत्तेन तत्सत्त्वे सत्त्वरूपिणम् ।
अन्वमंस्तान्वयं ध्यानाददृश्यार्थस्य दर्शने ॥ ६९ ॥
सुरोत्तमटीका
‘‘दृष्ट्वा संज्ञपने योगमि’’त्यनेन ‘‘दृष्ट्वा संज्ञपने योगं पशूनां स पतिर्मखे । यजमानपशोस्तस्य कायात्तेनाहरच्छिर’’ इति वाक्यं सङ्गृह्णाति । मखे यज्ञे । संज्ञपने याज्ञीयपशुहिंसायाः । योगम् उपायम् । स्वयज्ञभङ्गात्कुपितो हरिरिमं छेत्तुं न मुञ्चति । तस्मादिममेव यज्ञपशुं कृत्वैतच्छिर एव विच्छिद्य भगवदाहुतित्वेनाग्नौ जुहोमीति संकल्पाख्यमुपायं दृष्ट्वेति भावः । अन्वयम् अन्वयव्याप्तिम् ॥ ६९ ॥
सत्यप्रमोदटीका
‘‘दृष्ट्वा संज्ञपने योगं पशूनां स पतिर्मखे । यजमान-पशोस्तस्य कायात्तेनाहरच्छिरः’’ । इत्युत्तरश्लोकपर्यालोचनयाऽन्वयोऽपि सिद्ध इत्याह दृष्ट्वा इति । अदृश्यार्थे अतीन्द्रियस्य संहारे निमित्तविशेषस्यार्थे
॥ ६९ ॥
युक्तिमल्लिका
रौद्री विद्याऽनवद्येत्थं ध्यानस्य दृशि हेतुताम् ।
अन्वयव्यतिरेकाभ्यां निर्णिनायेति मे मतिः ॥ ७० ॥
सुरोत्तमटीका
रौद्री विद्या रुद्रकृतध्यानादिविद्या ॥ ७० ॥
सत्यप्रमोदटीका
रौद्री दर्शनार्थं रुद्रेणानुष्ठिता । विद्या ध्यानम् ॥७०॥
युक्तिमल्लिका
रुद्रोऽप्यद्रावयद्यस्याः क्षुद्रोपद्रवहृद्रुजम् ।
हृद्या मध्वस्य शुद्धा सा विद्या विद्योतते तराम् ॥ ७१ ॥
सुरोत्तमटीका
अधुनोक्तरीत्या भागवतभारतादिरहस्यानुकूलां मध्वस्य विद्यां स्तौति ॥ रुद्र इति ॥ यस्या विद्यायाः । क्षुद्रोपद्रवः श्रवणादेवा-परोक्षज्ञानं न तु निदिध्यासनसहकृतमनस इति विपरीतप्रमेयम् । स एव हृद्रुक्हृदयरोगस् तां हृद्रुजम् । श्रुतिस्मृत्यनुभवविरुद्धत्वात्स्वाभिमतहरेणैव तिरस्कृतत्वाद्वा क्षुद्रेत्युक्तम् ॥ ७१ ॥
सत्यप्रमोदटीका
क्षुद्रेति शब्दः परोक्षज्ञानस्यैव करणं न प्रत्यक्षस्य इति सार्वजनीनानुभवस्यापलापपरत्वात् । ‘यस्य प्रसादात्परमार्तिरूपा-दस्मात्संसारान्मुच्यते नापरेण’ इत्यादिश्रुतिभिः ‘मत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम्’ इत्यादिस्मृतिभिश्च सुस्पष्टतया सिद्धस्य भगवत्प्रसादरूप-महिम्नोऽवधीरणादिति भावः । हृद्रुजं तात्पर्यविषयीभूतार्थविरोधिनीं पर-प्रक्रियाम् । अद्रावयत् स्वयं माध्वसिद्धान्तानुरोधानुष्ठानेन पराचष्ट ॥ ७१ ॥
युक्तिमल्लिका
इदं त्रयं प्रधानाङ्गं मनः करणमुच्यते ।
प्रतिबन्धे न तत्पश्येत्तदपाये तु पश्यति ॥ ७२ ॥
सुरोत्तमटीका
त्रयं श्रवणादित्रयम् । प्रधानाङ्गं कर्मादिभ्यः प्रधानाङ्गम् । एतेषां मध्ये तु पूर्वोक्तरीत्या ध्यानस्यैव प्राधान्यं द्रष्टव्यम् ॥ ७२ ॥
सत्यप्रमोदटीका
प्रतिबन्ध इति । दर्शनप्रतिबन्धकान्युक्तानि गीतायाम् । ‘लभते ब्रह्मनिर्वाणम् ऋषयः क्षीणकल्मषाः । छिन्नद्वैधा यतात्मानः’ इति । तदर्थो भाष्ये ‘क्षीणपापा महाज्ञाना जायन्ते गतसंशयाः ।’ क्षीण-कल्मषत्वं पापक्षयः । महाज्ञानाः श्रवणादिना विदितवेद्याः । द्वैधः संशयो विपर्ययो वा क्षीणकल्मषत्वयतात्मत्वछिन्नद्वैधत्वानां हेतुहेतुमद्भावे । इति प्रमेयदीपिकाऽनुसारेण तात्पर्यं बोध्यम् ॥ ७२ ॥
युक्तिमल्लिका
प्रतिबन्धनिवृत्त्यर्थं श्रवणाद्यापि मृग्यते ।
अतश्श्रुतिश्श्रवणतो मुक्तिरित्यपि सा जगौ ।
एवं च मनसैवेति श्रौतावधृतिरप्यभूत् ॥ ७३ ॥
सुरोत्तमटीका
मृग्यते मनसा । अतः श्रवणादेरप्यङ्गत्वात् । सा श्रुत्वैव मोक्षमाप्नोतीत्यादिका । एवं च मनस एव दर्शनकरणत्वात् ॥ ७३ ॥
सत्यप्रमोदटीका
श्रवणादीति आदिपदेन पुण्यकर्मादिकं ग्राह्यम् । पापक्षयहेतुत्वात् पुण्यकर्मणाम् । ‘येषां त्वन्तगतं पापं जनानां पुण्यकर्मणां’ इति गीतोक्तेः । ‘श्रुत्वा मत्वा तथा ध्यात्वा तदज्ञानविपर्ययौ । संशयं च पराणुद्य लभते ब्रह्मदर्शनम्’ इति च प्रमाणम् । श्रुतिः ‘श्रुत्वैव मोक्षमाप्नोति’ इति श्रुतिः । एवकारोऽयोगव्यवच्छेदपरः । श्रुतिमतिनियतध्यानजज्ञान-योगेनैवेति अन्ययोगव्यवच्छेदपरो वा । परंपरया कारणेऽपि कारणत्वव्यवहारः स्वर्गकामो यजेतेति श्रुतौ घृतेन पुष्टिर्जायत इति लोके च सिद्धः । ज्ञान-प्रतिबन्धकपापक्षयाख्यमसाधारणकारणं कार्यस्य लक्षणं भवत्येवेति प्रमेय-दीपिकोक्त्या प्रतिबन्धकनिवृत्तेरपि कारणत्वव्यवहारो बोध्यः ॥ ७३ ॥