१५ अर्थक्रियाकारित्वेन प्रमाणदृष्टत्वेन च हेतुना सत्यत्वम्

सदा सर्वत्र सद्ब्रह्म सदा सर्वत्र चार्थकृत्

अर्थक्रियाकारित्वेन प्रमाणदृष्टत्वेन च हेतुना सत्यत्वम्

युक्तिमल्लिका

सदा सर्वत्र सद्ब्रह्म सदा सर्वत्र चार्थकृत् ।

आकाशवत्कालवच्च त्रिकालासत्कदापि न ॥ ९८८ ॥

सुरोत्तमटीका

अधिकसत्ताकस्याधिककार्यकारित्वं दृष्टान्तेनोपपादयति ॥ सदेति ॥ यथा सर्वत्र सदा विद्यमान आकाशस्सर्वत्र सदाऽवकाशप्रदानाख्य-कार्यकृत् । यथाच सर्वत्र सदा विद्यमानः कालस्सर्वत्रापि तत्तत्कार्याणां निमित्तकारणम् । एवं ब्रह्मापि सदा सर्वत्र विद्यमानं सर्वमपि कार्यं कुर्यादिति भावः । त्रिकालासत् शशशृृङ्गम् ॥ ९८८ ॥

सत्यप्रमोदटीका

सदा सर्वत्रेति स हि सर्वस्य कर्ता इति श्रुतेः ॥ ९८८ ॥

युक्तिमल्लिका

भ्रान्तस्य वाग्भ्रान्तमेव स्वार्थं वक्ति न चापरम् ।

मणिप्रभायां मणिधीः प्रभाऽध्यस्तमणेर्हि धीः ॥ ९८९ ॥

असन्मणेर्हि तज्ज्ञानं मणिप्राप्तिर्यदृच्छया ॥ ९९० ॥

सुरोत्तमटीका

लोके पदकदम्बकत्वार्थप्रकाशकत्वाख्यस्वरूपेण सत्यमपि वाक्यं ज्ञानं च स्वस्वरूपघातकेना(अयोग्येतरान्विते शक्त्यभावादिकरणदोषेण दुष्टकरणाख्य ज्ञानदोषेण)योग्यार्थे प्रयुक्तवाक्यत्वदुष्टकरणजन्यत्वरूपदोषमात्रेण घटितं चेन् मिथ्याभूतमेवार्थं बोधयेन्नतु सत्यम् । स्वस्वरूपस्यैव घातकेन मिथ्यात्वाख्यमहादोषेण दूषितं वाक्यं ज्ञानं च शशशृृङ्गमिव न कमप्यर्थं साधयितुमलं सत्यार्थं तु सुतरां न साधयेदित्याह ॥ भ्रान्तस्येति ॥ भ्रान्तस्य शुक्तिरजतादिभ्रमयुक्तस्य । वाक् तत्र रजतमस्तीत्यादि वाक् । भ्रान्तं भ्रान्तिपरिकल्पितम् । अविद्यमानमित्यर्थः ॥

मणिप्रभायां मणिधीरपि अविद्यमानमेव स्वार्थमुल्लिखति । न तु विद्य-मानम् । दोषमूलज्ञानत्वाख्यदोषात् । मणिप्राप्तिस्तु यादृच्छिकीत्याह ॥ मणिप्रभायामिति ॥ तन् मणिप्रभायां मणिज्ञानम् ॥ ९८९,९९० ॥

सत्यप्रमोदटीका

भ्रमस्य तज्जन्यवाग्व्यवहारस्य सत्यत्वेऽपि न विषयस्य सत्त्वसिद्धिरित्याह भ्रान्तस्येति । भ्रान्तं भ्रमविषयम् असत्यमेव । यदृच्छयेति । तथा च विषयसत्त्वस्योत्तेजकत्वाद् दोषो न प्रतिबन्धक इति भावः ॥९९०॥

युक्तिमल्लिका

प्रभाव्याप्तत्वतो वा स्यान्मणिप्राप्तिर्न धीबलात् ।

काचे नीलमणिभ्रान्त्या नीलप्राप्तिः कुतो न चेत् ॥ ९९१ ॥

सुरोत्तमटीका

न चेन्मणिभ्रमान्मणेरप्राप्तिर्न चेत् । नीलाप्राप्तिर् नीलमण्यप्राप्तिः ॥ ९९१ ॥

सत्यप्रमोदटीका

न धीबलादिति । प्रमात्मकानुमितिरेव तत्र सफल-प्रवृत्तिहेतुः । उभयत्रापि सत्यमेव ज्ञानम् अर्थक्रियाकारीति निष्टङ्कितम् ॥९९१॥

युक्तिमल्लिका

शाखाचन्द्रोक्तितश्चैव शाखायां चन्द्रधीर्भवेत् ।

स च नास्ति यतो वाक्यममानं नापि चार्थवत् ॥ ९९२ ॥

सुरोत्तमटीका

सः शाखायामारोपितचन्द्रः यतो नास्ति ततो वाक्य-ममानं तदभाववति तत्प्रकारकज्ञानजनकम् । अत एवार्थवत् सत्यार्थवदपि नेति सम्बन्धः ॥ ९९२ ॥

सत्यप्रमोदटीका

असत्येन वेदान्तवाक्येन सत्यस्य ब्रह्मात्मैकत्वस्य प्रतिपत्तिरिति परप्रक्रियां तदभिमतदृष्टान्तदूषणेन दूषयति शाखेत्यादिभिः ॥

युक्तिमल्लिका

आभिमुख्याय तद्वाक्यं वदन्त्यज्ञेषु केवलम् ।

चन्द्रप्राप्तिः स्वदृष्ट्यैव भवेत्तेनाध्वना शनैः ॥ ९९३ ॥

सुरोत्तमटीका

अभावे कुतस्तद्वाक्यं कथ्यत इत्यत आह ॥ आभि-मुख्यायेति ॥ तद्वाक्यं शाखैव चन्द्र इति वाक्यम् । तेनाध्वना शाखाध्वना

॥ ९९३ ॥

सत्यप्रमोदटीका

शाखामपि द्वारत्वेनैवोपदिशन्ति न तु शाखैव चन्द्र इति । आभिमुख्याय अज्ञानां दृष्टिं चन्द्रं प्रत्यभिमुखीकर्तुम् । प्राप्तिर् ज्ञानम् । दृष्ट्या चक्षुषा, न केवलं वाक्येन ॥ ९९३ ॥

युक्तिमल्लिका

मिथ्यावाक्यस्य यो ह्यर्थस्स सत्यः कुत्र भण्यताम् ।

यस्स्थूलारुन्धतीन्यायः सोऽप्येवमभिसंहितः ॥ ९९४ ॥

सुरोत्तमटीका

मिथ्यावाक्यस्य मिथ्याभूतार्थे प्रयुक्तस्य शाखैव चन्द्र इत्यादिवाक्यस्य । सो ऽर्थः । मिथ्याभूतस्य वाक्यस्य तु मूकमुखवाक्यस्येवार्थ एव नास्ति । सत्यार्थस्तु दूरापास्तः । नह्यान्ध्येऽपि गमनासमर्थस्स्वमरणे सति गच्छन्क्वापि दृष्ट इति भावः । एवं शाखाचन्द्रवाक्यन्यायेन ॥ ९९४ ॥

सत्यप्रमोदटीका

मिध्यावाक्यस्येति ‘दुःखादेर्यदि मिथ्यात्वं तद्वाक्य-स्याग्रतो भवेत्’ इत्युक्तरीत्या स्वरूपत एवासतः वन्ध्यासुतवचस इव बोधकत्वमेव न, दूरे यथार्थबोधकत्वम् इति भावः । यद्वा प्रत्यक्षविरोधेन योग्यताशून्यस्य शाखैव चन्द्र इति वाक्यस्य यो ऽर्थः शाखाचन्द्रैक्यरूपः स कथं सत्य इत्यर्थः । एवं द्वारतया उपदेश इत्यनङ्गीकृत्य स्थूलनक्षत्रमेवारुन्ध-तीत्युपदेशस्थलेऽपि अयमेव प्रकार इत्याह य इति ॥ ९९४ ॥

युक्तिमल्लिका

अतो भ्रान्तेन बोध्योऽर्थो नैवाभ्रान्तः क्वचिद्भवेत् ।

अतो मिथ्याश्रुतेरर्थस्तवैक्यं च मृषा भवेत् ॥ ९९५ ॥

सुरोत्तमटीका

अत उक्तरीत्या ईषदाभासवाक्यानामपि सत्यार्था-दर्शनात् । भ्रान्तेन भ्रान्तकल्पितवाक्येन । भ्रान्तिकल्पितो भ्रान्तस्स न भवतीत्यभ्रान्तस्सत्य इत्यर्थः । अतः मिथ्याभूतवाक्यस्य अर्थादर्शनात् सत्यार्थस्य सुतरामदर्शनाच्च । मिथ्याश्रुतेस् तवैक्यम् अर्थ इत्येवमृषा । अर्थ-त्वेऽपि तवैक्यमेव मृषा मिथ्याभूतमेवेति द्वेधापि योजना द्रष्टव्या ॥ ९९५ ॥

सत्यप्रमोदटीका

भ्रान्तेन योग्यताशून्येन । अभ्रान्तः सत्यः । प्रकृते सङ्गमयति अत इति । मिथ्याश्रुतेरित्यस्य पूर्ववदर्थद्वयम् । असत्येन वेदान्त-वाक्येन सत्यस्य ब्रह्मात्मैक्यस्य प्रतिपत्तिर्न सम्भवतीति फलितम् ॥ ९९५ ॥

युक्तिमल्लिका

उपजीव्यविरोधेन ह्युपजीवकनाशनम् ।

वदन्ति शिष्टास्तस्येदं स्पष्टमासीन्निदर्शनम् ॥ ९९६ ॥

यतो मानस्य मिथ्यात्वे मेयं मिथ्येति निश्चितम् ।

ते ब्रह्मणि तदद्वैते तस्मादाशा वृथा तव ॥ ९९७ ॥

सुरोत्तमटीका

मानस्य उपजीव्यस्य । मेयम् उपजीवकम् । तस्मा-दुपजीव्यप्रमाणमिथ्यात्वे उपजीवकप्रमेयमिथ्यात्वस्यावर्जनीयत्वात् । ते ब्रह्मणि तव निर्गुणब्रह्मणि । तदद्वैते तेन ब्रह्मणा जीवाद्वैते । वेदस्य मिथ्यात्वे वेद-बोध्ययोरनयोरपि मिथ्यात्वापरिहारादिति भावः ॥ ९९६,९९७ ॥

सत्यप्रमोदटीका

शिष्टाः ‘उपजीव्यविरोधे तु नास्यास्तन्मानता भवेत्’ इति ब्रह्मतर्कशासनानुसारिणः । नाशनं बाधनम् ॥ ब्रह्मणि सत्यज्ञानादिकस्य पदार्थपरवाक्यस्य ऐक्ये तत्त्वमसीत्यादिवाक्यार्थपरवाक्यस्य इत्युपस्कर्तव्यम् ॥ ९९६,९९७ ॥

युक्तिमल्लिका

स्वतस्सिद्धिस्त्ववेद्यत्वरूपत्वान्नार्थसाधिका ।

न विवादिनि सा वक्तुं शक्यते या त्वयोदिता ॥ ९९८ ॥

सुरोत्तमटीका

ननु मास्तु तर्हि वेदाद्ब्रह्मणस्सिद्धिः । किन्तु स्वप्रकाश-त्वादेवेत्यत आह ॥ स्वतस्सिद्धिरिति ॥ भवन्मते स्वप्रकाशत्वस्यावेद्यत्व-रूपत्वान्न तेनापि ब्रह्मसिद्धिरिति भावः । विवादिनि स्वप्रकाशत्व एव विवादं कुर्वदितार्किकादौ ब्रह्मण्येव विवादं कुर्वति मीमांसकादौ । ब्रह्मैव नास्तीति वदन्तं प्रति ब्रह्मविषयिणी ब्रह्मकर्तृकैव प्रतीतिः कथमन्यान्प्रति साधकतया वक्तुं शक्येति भावः । या स्वतस्सिद्धिः ॥ ९९८ ॥

सत्यप्रमोदटीका

स्वत इति प्रमाणाभावे सत्त्वं न स्यादित्यस्य प्रमाणेन विना ब्रह्म सिध्यतीत्यस्यानुत्तरत्वादिति वादावल्युक्तदिशा इति भावः ॥९९८॥

युक्तिमल्लिका

अन्यथा स्वप्रकाशत्वाद्घटसिद्धिर्भवेन्मम ।

स्वपराविषयज्ञानं घटोऽपि न कथं वद ॥ ९९९ ॥

सुरोत्तमटीका

अन्यथा अवेद्यत्वरूपस्वप्रकाशत्वादपि ब्रह्मसिद्ध्यङ्गी-कारे । एतादृशस्वप्रकाशत्वस्य घटेप्यङ्गीकर्तुं शक्यत्वात् । नन्वपरोक्ष-व्यवहारयोग्यत्वमपि स्वप्रकाशत्वान्तर्गतम् । अतः कथं घटस्य स्वप्रकाशत्व-मिति चेन् न । अवेद्ये वेदनजन्यव्यवहारायोगेन लक्षणस्य परस्परविरुद्ध-तयाऽसम्भावितत्वात् । चिदवेद्यत्वमेवावेद्यत्वं न सर्वथाऽवेद्यत्वमिति चेत्तर्हि चिदवेद्ये ब्रह्मणि व्यवहारोऽपि न चिज्जन्यः । स्वावेद्ये चिता व्यवहार-जननायोगात् । किन्तु वृत्तिजन्य एव वक्तव्यः । एवं च मुक्तौ स्वप्रकाशत्वं न स्यात् । स्याच्च स्वावेद्ये केवलवृत्तिवेद्ये तज्जन्यापरोक्षव्यवहारयोग्ये च घटादौ स्वप्रकाशत्वम् । यदि च चिदवेद्यत्वमेव स्वप्रकाशत्वम् । तच्च परंपरया साक्षिवेद्यत्वान्न घटादेरिति मतम् । तर्हि चिदचित्संवलनात्मकमनोवेद्यायाम् अहमज्ञ इत्यज्ञानद्वारा च स्वावेद्यायां चित्यपि न चिदवेद्यत्वम् । अतस्साक्षा-च्चिदवेद्यत्वं लक्षणार्थो वक्तव्यः । स च घटादावपि समः । न च वाच्यं मन्मते घटादेस्साक्षादधिष्ठानचिद्वेद्यत्वेन न चिदवेद्यत्वमिति । तथा सति निरधिष्ठानभ्रमायोगेन तत्रैवाधिष्ठानचितोऽप्युल्लेखावश्यंभावाद् घटस्येव चितोऽपि चिद्वेद्यत्वमपरिहार्यमेव । एतत्सर्वमभिप्रेत्योक्तं स्वप्रकाशत्वाद्घटसिद्धिर्भवे-न्ममेति । स्वपराविषयज्ञानं स्वाविषयं पराविषयं ज्ञानं वस्तुगत्या सविषय-कत्वाख्यज्ञानलक्षणरहितं सङ्केतेन ज्ञानशब्दवाच्यमित्यर्थः ॥ ९९९ ॥

सत्यप्रमोदटीका

अन्यथेति विषयवर्जितः प्रकाश एव न भवति घटवद् इति तत्त्वोद्योतमनुरुध्याह स्वपरेति । तथा हि तज्ज्ञानं स्वविषयं परविषयं वा । नाद्यः स्ववृत्तिविरोधात् । न द्वितीयः मोक्षे ज्ञानाभावप्रसङ्गात् । निर्विषय-ज्ञानरूपत्वे अस्तु प्रपञ्चेऽपि तादृशज्ञानरूपत्वम् इति वादावल्युक्तेः ॥ ९९९ ॥

युक्तिमल्लिका

मुक्तौ ते यादृशं ब्रह्म तादृशं मे जडं न किम् ।

सङ्केतस्सर्वशब्दानां कुत्र कुत्र न शक्यते ॥ १००० ॥

सुरोत्तमटीका

यादृशं परस्याभावेन स्वविषयत्वानङ्गीकारेण च स्वपरा-विषयम् । ननु संसारे परविषयत्वसद्भवाद्घटस्य च तदभावात्कथं साम्यमिति चेत् । न । संसारेऽपि विषयविषयिभावानङ्गीकारेण घटवद्ब्रह्मणोऽपि परा-विषयत्वात् । पराध्यासाधिष्ठानत्वस्य च शिलाध्यासाधिष्ठाने घटेऽपि साम्यात् । अत एव यादृशं ते ब्रह्म तादृशं मे जडमित्युक्तम् । वस्तुतस्तु संसृताव-विद्यमानार्थगोचरं ते ब्रह्मभ्रान्तिमदपि स्यात् । जडं तु तादृशभ्रान्त्यापि रहितत्वात्त्वद्ब्रह्मणोऽप्यधिकं स्यादित्यपि द्रष्टव्यम् ॥ १००० ॥

सत्यप्रमोदटीका

यादृशं निर्विषयज्ञानरूप् । सङ्केतः प्रमाणामूला स्वकपोलकल्पिता परिभाषा ॥ १००० ॥

युक्तिमल्लिका

अश्रौतं ब्रह्म तत्तेऽस्तु श्रुत्युक्तब्रह्मणा वयम् ।

कृतार्थः स्याम भूमासौ नः क्लेशात्तारयिष्यति ॥ १००१ ॥

सुरोत्तमटीका

तत् तस्मात् श्रुतेर्मिथ्यात्वाङ्गीकारेण प्रतिपादनसामर्थ्या-भावात् । अवेद्यतया ब्रह्मणः प्रतिपाद्यत्वायोगाच्च ॥ १००१ ॥

सत्यप्रमोदटीका

अश्रौतमिति । अवेद्यत्वाङ्गीकाराद् ब्रह्मणः । तेऽ-स्त्विति । ‘निर्गुणत्वं तदा च स्यादासुरत्वं न चान्यथा’ इत्यनुव्याख्यान-सुधायां ‘गुणशब्दोदितशुभगुणराहित्यमासुरत्वमेवोक्तं स्यात् । तेनैक्यं च मायावादिनामनुमन्यामहे’ इति उक्तेः । भूमा पूर्णसुखः ॥ १००१ ॥

युक्तिमल्लिका

अतः श्रौतेन बाधेन सत्त्वप्रत्यक्षबाधनम् ।

ज्वलज्ज्वलनवैरेण पतङ्गस्येव नाशनम् ॥ १००२ ॥

सुरोत्तमटीका

अतः परमते श्रुतेश्श्रुत्युक्तबाधस्य च मिथ्यात्वात् । नाशनं स्वस्यैव नाशकरम् ॥ १००२ ॥

सत्यप्रमोदटीका

ज्वलत्वम् उपजीव्यत्वादिना प्राबल्यम् । ज्वलनं रेखोपरेखाग्राहकं प्रत्यक्षम् । पतङ्ग आपतार्थप्रलोभी मायावादी । प्रलोभि-तात्मनः नाशनं तमःप्राप्तिः ॥ १००२ ॥

युक्तिमल्लिका

तस्मान्निर्दोषमानेन वेद्यसत्ताश्रयत्वतः ।

अबाधितं जगदिदं सर्वं ब्रह्मवदेव हि ॥ १००३ ॥

सुरोत्तमटीका

अनुमानं रचयति ॥ तस्मादिति ॥ पररीत्या शुक्ति-रजते व्यभिचारवारणाय विशेषणम् ॥ १००३ ॥

सत्यप्रमोदटीका

तस्मादिति जगत् सत्यं प्रमाणदृष्टत्वाद् ब्रह्मवद् व्यतिरेकेण शशशृङ्गवत् । इति प्रयोगोऽभिप्रेतः । निर्दोषेति स्वरूपसङ्कीर्तनम् । अतत्त्वावेदकं प्रमाणं चेति व्याघात इति वादावल्युक्तेः ॥ १००३ ॥

युक्तिमल्लिका

अर्थः परोक्तवाक्यानामुक्तोऽस्माभिः पुरैव हि ।

भाविबाधापनोदार्थमेतावच्चर्चितं पुनः ॥ १००४ ॥

सुरोत्तमटीका

परोक्तवाक्यानाम् ‘‘एकमेवाद्वितीयं, नेह नानास्ति किञ्चने’’त्यादिवाक्यानाम् । पुराभेदसौरभे । एतावत् त्रैकालिकनास्तित्व-विषयत्वं श्रुतेस्त्रैकालिकनिषेधविषयत्वे तज्जन्यज्ञानात्कालान्तरे वा बाधः शङ्कितुं शक्येतापि उक्तरीत्या वाक्यस्य वर्तमाननिषेधमात्रविषयत्वसिद्धौ वाक्यजन्य-त्रैकालिकनिषेधबोधस्योत्तरत्राप्यसम्भवेन भाविबाधकशङ्काया गर्भस्राव एवेति सूचनाय त्रैकालिकनिषेधविषयत्वमात्रमत्रापि चर्चितमिति भावः ॥ १००४ ॥

सत्यप्रमोदटीका

पुरा भेदसौरभे अत्रापि । चर्चितम् । ‘स्वकाले ह्यस्तितां गृह्णन् साक्षात्कारस्त्रिकालगम् । प्रतिषेधं निरुन्धानो गृह्णात्येवात्य-बाध्यताम्’ इत्युक्तरीत्या समर्थितम् ॥ १००४ ॥

युक्तिमल्लिका

किञ्च दृश्यत्वजडतापरिच्छेदादयोऽखिलाः ।

हेतवस्सन्तु जगति मिथ्यात्वं माऽस्तु का क्षतिः ॥ १००५ ॥

सुरोत्तमटीका

अधुना दृश्यत्वादिहेतूनां व्यवच्छेद्यान्तदर्शयन्सत्यत्व-व्यवच्छेदाख्यमिथ्यात्वे तेषां प्रयोजकतैव नास्तीत्याह ॥ किञ्चेति ॥१००५॥

सत्यप्रमोदटीका

‘न च जगतो मिथ्यात्वाभावे बाधकं पश्यामः’ इति वादावलीमनुरुध्य मिथ्यात्वहेतूनाम् अप्रयोजकतामाह किञ्चेत्यादिभिः ॥१००५॥

युक्तिमल्लिका

यतो दर्शनयोग्यत्वं दृश्यत्वं निरुपाख्यताम् ।

क्षिपेज्ज्ञानेन हीनत्वं जडत्वं ज्ञातृतां क्षिपेत् ॥ १००६ ॥

परिच्छेदश्च गुणतो देशतः कालतोऽवधिः ।

अनन्तगुणतां देशव्याप्ततां नित्यतां क्षिपेत् ॥ १००७ ॥

सुरोत्तमटीका

क्षिपेदित्यतः पूर्वं सर्वत्र जगतीति योजनीयम् ॥ १००६,१००७ ॥

सत्यप्रमोदटीका

दर्शनयोग्यत्वमिति ज्ञानजन्याभिलपनरूपव्यवहार-विषयत्वायोग्यत्वरूपं निरुपाख्यत्वमेव क्षिपेन् निराकुर्यात् । ज्ञानेन हीनत्वम् अज्ञातृत्वम् । ‘अस्माभिस्तु ज्ञातृत्वानाधारत्वस्य जडत्वेनाभिलापान्नास्म-त्प्रतिबन्दी’ इति वादावल्युक्तेः ॥ ‘अन्तशब्दस्य वस्तुतः परिच्छेदे अव्युत्पन्न- त्वादि’ति वादावलीमनुरुध्याह परिच्छेदश्चेति । देशकालयोरवधिरूपमर्थ-मभिधाय तृतीये वस्तुतो भेदरूपार्थोक्तौ पंक्तिभेददोषापत्तेरिति भावः । विवृतमेतत्सविस्तरं भेदसौरभे ॥ १००६,१००७ ॥

युक्तिमल्लिका

सत्यत्वोपप्लवे नैते हेतवो धूमकेतवः ।

अतोऽप्रयोजकास्सर्वे मिथ्यात्वे हेतवस्तव ।

प्रयोजकस्तु बाधो यो न द्वयोस्स मतेऽभवत् ॥ १००८ ॥

सुरोत्तमटीका

धूमकेतवो नेति सम्बन्धः । सत्यत्वव्यवच्छेदाय हि परेण मिथ्यात्वं साध्यते । वक्तृत्वव्यवच्छेदकमूकत्वादत्तृत्वव्यवच्छेद इव नैतै-र्हेतुभिस्सत्यत्वव्यवच्छेदरूपमिथ्यात्वसिद्धिर्भवतीति भावः । सः बाधः । अतः स्वरूपासिद्धोऽन्यतरासिद्धो वा बाध्यत्वहेतुरिति भावः ॥ १००८ ॥

सत्यप्रमोदटीका

उपप्लवे निराकरणे । साहित्यमुद्रयाऽऽह धूमकेतव इति ॥ १००८ ॥

युक्तिमल्लिका

घटोऽस्ति नास्ति वेत्युक्ते दृष्ट्वोच्यत इति प्रजाः ।

प्रतिब्रुवन्ति दृष्टश्चेदस्तित्वमनुजानते ।

यदि दृष्टो न, नास्तित्वं तस्य लोकोऽनुमन्यते ॥ १००९ ॥

सुरोत्तमटीका

इदानीं दृश्यत्वहेतोर्मिथ्यात्वे विरुद्धतां प्रदर्श्य तेनैव जगत्सत्यत्वं साधयति ॥ घट इति ॥तस्य अदृश्यमानघटस्य॥१००९ ॥

सत्यप्रमोदटीका

दृढप्रत्यक्षसिद्धेऽर्थे सार्वजनीनं संप्रत्ययमभिनीय दर्शयति घट इति । अङ्गीकृतं चैतत्परेणापि । तथा हि भामत्यां ‘लौकिकानि हि प्रमाणानि सदसत्त्वगोचराणि । तैः खलु सदिति गृह्यमाणं सदित्येव वस्तु व्यवस्थाप्यते असदिति च गृह्यमाणमसदित्येव व्यवस्थाप्यते’ इति (भे.प.-ब्र.सू.) ॥ १००९ ॥

युक्तिमल्लिका

तस्माद्यो लोकमर्यादामनुसृत्य प्रवर्तते ।

सत्यत्व एव दृश्यत्वं हेतुं कुर्यात्स पण्डितः ।

मिथ्यात्वे तु विरुद्धं तत्को हेतुं कुरुते बुधः ॥ १०१० ॥

सुरोत्तमटीका

तस्माद्दृश्यमाने वस्तुनि अस्तित्वस्यैव लोकव्यवहार-सिद्धत्वात् । तद् दृश्यत्वम् ॥ १०१० ॥

सत्यप्रमोदटीका

‘दृश्यत्वस्य सन्मात्रवृत्तिद्विरुद्धता च’ इति वादावली- मनुरुध्याह तस्मादिति ॥ १०१० ॥

युक्तिमल्लिका

ज्ञानोपनीतो भातोऽपि गन्धो योग्यो न चक्षुषः ।

घ्राणस्यैव स योग्योऽर्थो रूपाद्याः किल चक्षुषः ॥ १०११ ॥

सुरोत्तमटीका

ननु दृशो योग्यत्वं हि दृश्यत्वं तच्च शुक्तिरजतेऽप्यस्ति । इदं रजतमिति तस्यापि चक्षुषा दृश्यमानत्वात् । अतः कथं व्यभिचरितेन हेतुना सत्यत्वसाधनमिति शङ्कापरिहाराय शुक्तिरजतादेर्दर्शनयोग्यत्वमेव निवारयति ॥ ज्ञानेति ॥ सः गन्धः ॥ १०११ ॥

सत्यप्रमोदटीका

सपक्षे शुक्तिरूप्येऽपि विद्यमानत्वात्कथं विरुद्धता इति शङ्कासमाधानाय शुक्तिरूप्यस्य मिथ्याभूतस्य रूपरहितस्य चक्षुरयोग्यत्वं दृष्टान्तोक्त्या साधयति ज्ञानोपनीत इत्यादिभिः । गन्धः घ्राणेन्द्रिययोग्यो ऽनुपनीततया स्वसामग्रीवशेनैव तज्जन्यज्ञानविषयत्वादिति भावः ॥ १०११ ॥

युक्तिमल्लिका

अन्तरेव स्वतन्त्रस्य बाह्योऽर्थो घटपूर्वकः ।

ज्ञानोपनीतो भातोऽपि तद्वद्योग्यो न साक्षिणः ॥ १०१२ ॥

सुरोत्तमटीका

तद्वच् चक्षुषो गन्धवत् ॥ १०१२ ॥

सत्यप्रमोदटीका

भातः घटज्ञानवानहम् इति साक्षिज्ञाने ज्ञानविशेषणतया विषयः ॥ १०१२ ॥

युक्तिमल्लिका

सुखाद्या एव तद्योग्याः क्काचित्कं कारणं विना ।

क्लृप्तया स्वस्वसामग्य्रा द्दृष्टिः स्यात्पदे पदे ।

स एव तत्तद्योग्योऽर्थो नान्यः कृत्रिमपुत्रवत् ॥ १०१३ ॥

सुरोत्तमटीका

कुतस्सुखाद्या एव च योग्या इत्यत आह ॥ क्वाचित्क-मिति ॥ क्वाचित्कं सर्वत्र तत्तदर्थदर्शनहेतुत्वेनादृष्टं क्वचिदेव च हेतुतया दृष्टं च । यद्दृष्टिर् यस्यार्थस्य दृष्टिः । अन्यः क्लृप्तस्वसामग्रीं विना क्वाचित्ककारणेन कदाचित्केन चिद्वेद्यः । कृत्रिमपुत्रवद् दत्तपुत्रवत् । यथा स्वस्वोदरजात एव स्वपुत्रो ऽन्य औरसपुत्राभावाद्गृहीतो न स्वपुत्रवत्पुत्रः । यथा चक्षुरादिना सर्वत्र क्लृप्तसामान्यसाम्रगीत एव साक्षात्कृतो घटादिश्च क्षुरादेरर्थः । ज्ञानाख्य-क्वाचित्ककारणान्तरबलेन गृहीतस्तु गन्धादिर्न चक्षुषोऽर्थः । एवं साक्षिणा स्वशक्तयैव गृहीतस्सुखादिस्साक्षिणोऽर्थः । व्यवसायद्वारा गृहीतो घटादि-श्शुक्तिरजतादिर्वा न साक्षिणोर्थः । तथा दोषवशाच्चक्षुषा गृहीतोऽपि शुक्ति-रजतादिर्न चक्षुषोऽर्थः किन्तु घटादिरेवेति सर्वत्र विषयविवेको द्रष्टव्यः

॥ १०१३ ॥

सत्यप्रमोदटीका

सुखाद्याः कालाकाशादयः । काचित्कं कारणं विना उपनायकादिकं विना । यद्दृष्टिरित्युत्तरेण सम्बन्धः । यस्य दृष्टिः स एवेति योजना । पदे पदे उत्सर्गतः ॥ १०१३ ॥

युक्तिमल्लिका

सहकार्यन्तरबलात्प्रतीतिः स्यात्क्वचित्क्वचित् ।

योग्यता तूक्तमार्गेण स्वारस्यात्प्रत्यये किल ॥ १०१४ ॥

सुरोत्तमटीका

स्वारस्यात् स्वस्वभावात् ॥ १०१४ ॥

सत्यप्रमोदटीका

क्वचित् क्वचिद् अपवादस्थले । स्वारस्यात् स्वरसतो जायमाने ॥ १०१४ ॥

युक्तिमल्लिका

इमां हि शास्त्रमर्यादां सर्वेऽङ्गीकुर्वते बुधाः ।

अतो दोषात्प्रतीतेऽपि मिथ्यार्थे नास्ति योग्यता ॥ १०१५ ॥

सुरोत्तमटीका

मिथ्यार्थे शुक्तिरजतादौ । योग्यता चक्षुर्जन्यदर्शनयोग्यता ॥ १०१५ ॥

सत्यप्रमोदटीका

इमां करणानां स्वकारणासादिता या ज्ञानजननशक्तिस् तद्वत्सहजा वा तदभिन्ना वा या प्रमाजननशक्तिस् तद्वत्त्वं करणप्रमाणा-नामुत्पत्तौ स्वतःप्रामाण्यम् इत्येवंरूपाम् । दोषाद् विपरीतशक्त्याधायकात् । प्रतीते शुक्तिरजते । योग्यता चक्षुषा इति शेषः ॥ दोषोऽप्युपनायकवत् सहकारिविशेष एवेति भावः ॥ १०१५ ॥

युक्तिमल्लिका

किञ्च प्रत्यक्षयोग्यं स्याद्बहिर्द्रव्यं तदेव हि ।

महत्त्वे सति यद्रूपमुद्भूतं च भवेत्सदा ।

तस्माद्दर्शनयोग्यत्वं मिथ्यार्थेष्वस्ति न क्वचित् ॥ १०१६ ॥

सुरोत्तमटीका

प्रकारान्तरेण शुक्तिरजतादेश्चक्षुरयोग्यतां प्रदर्शयति ॥ किं चेति ॥ यद्रूपं यस्य रूपम् । अतश्चाक्षुषबाधप्रमाया बाध्यरजतोल्लेखेऽपि न तस्य चक्षुर्विषयत्वम् । उपनीतस्यैव भानाच्चेति भावः ॥ १०१६ ॥

सत्यप्रमोदटीका

प्रत्यक्षेति चाक्षुषप्रत्यक्षेत्यर्थः । मिथ्यार्थे रूपादिहीने । यद्रूपं यस्य रूपम् । तस्मान् महत्त्वसमानाधिकरणोद्भूतरूपस्य चाक्षुषता-प्रयोजकत्वात् ॥ १०१६ ॥

युक्तिमल्लिका

शब्दाच्चायोग्यतादोषे सति मिथ्यार्थधीर्नृणाम् ।

अप्रमा परतो यस्य दोषाभावे स दोषभाक् ॥ १०१७ ॥

तस्माद्दृश्यत्वसत्यत्वे सत्ये ब्रह्मणि वर्तनात् ।

मिथ्यार्थतो निवृत्तेश्च नित्यं व्याप्ते परस्परम् ॥ १०१८ ॥

सुरोत्तमटीका

यस्य मते । अप्रमाया दोषजन्यत्वं वदता प्रात्यक्षिकभ्रमे आनुमानिकभ्रमे शब्दभ्रमे च फलबलादेव दोषः कल्पनीय इति भावः

॥ १०१७,१०१८ ॥

सत्यप्रमोदटीका

परत इति । तदुक्तं तर्कताण्डवे ‘अप्रमायां त्वन-न्यथासिद्धान्वयव्यतिरेकित्वाद्दोषः कारणमि’ति । यस्येत्यस्य स इत्यनेनान्वयः । दोषाभावेऽप्यप्रमोत्पद्यत इत्यङ्गीकारे सः परतस्त्ववादी अपसिद्धन्तरूपदोषभाक् इति भावः ॥ तस्मात् सपक्षे शुक्तिरूप्ये दृश्यत्वाभावात् । एवं च वादावल्युक्ता विरुद्धता सुस्थेत्याह ब्रह्मणीति । विपक्ष एव वर्तमानत्वात्

॥ १०१७,१०१८ ॥

युक्तिमल्लिका

तत्तत्करणसम्बन्धो यत्सत्यत्वैकहेतुकः ।

अप्रयोजकताशङ्का तस्मान्नात्र विवेकिनाम् ॥ १०१९ ॥

सुरोत्तमटीका

प्रकारान्तरेणापि दृश्यत्वसत्यत्वयोर्व्याप्तिं द्रढयति ॥ तत्तदिति ॥ तद् यस्मात् । योग्यार्थदर्शनाय करणसम्बन्धोऽवश्यं वक्तव्यः । करणसम्बन्धाभावेऽपि प्रतीतिस्त्वयोग्ये एव । सम्बन्धश्च सत्ययोरेव । अतोऽपि दृश्यत्वसत्यत्वे अविनाभूते इति भावः ॥ १०१९ ॥

सत्यप्रमोदटीका

तज्ज्ञानासाधारणकारणासाधारणकारणसन्निकर्षानु-योगित्वं विषयत्वम् इति लक्षणपर्यालोचनयाऽपि सन्निकर्षसापेक्षं विषयत्वं सन्निकर्षायोग्यस्य असदर्थस्य न सम्भवतीत्याह तत्तदिति । अप्रयोजकता । दोषाभावेऽपि अप्रमात्वं स्यादित्येवंरूपा । प्रत्यासत्तिप्रतिनिधेर्दोषस्यावश्यक-त्वादिति भावः ॥ १०१९ ॥

युक्तिमल्लिका

विवादविषयो विश्वं दृश्यत्वात्परमार्थसत् ।

ब्रह्मवद्व्यतिरेकेण शुक्तिरूप्यवदेव वा ॥ १०२० ॥

रणाङ्कणाद्गृहीतोऽयं भटो वीरशिरोमणिः ।

चित्रं युक्तिधनैस्तुष्टो हन्ति शत्रोरनीकिनीम् ॥ १०२१ ॥

सुरोत्तमटीका

परेण स्वसाध्यसिद्ध्यर्थमुक्तदृश्यत्वहेतोरेव युक्तिबला-दस्माभिर्गृहीतत्वाद् रणाङ्कणाद्गृहीत इत्युक्तम् । बहुधने दत्ते मर्मज्ञत्वात्स एव स्वपूर्वसेनां हन्तीत्यतो युक्तिधनैस्तुष्ट इत्याद्युक्तम् ॥ १०२०,१०२१ ॥

सत्यप्रमोदटीका

दृश्यत्वात् प्रमाणदृष्टत्वात् । एतच्च समर्थितमिति भावः ॥ निरवकाशतया सत्यत्वसाधकं हेतुं मिथ्यात्वे उपन्यस्यतः परस्याहो अविवेकितेत्याह रणेति । युक्तिर् दृश्यत्वस्य सन्मात्रवृत्तित्वरूपयुक्तिः ॥ १०२०,१०२१ ॥

युक्तिमल्लिका

अस्य प्रकरणे साम्यं ये प्रोचुः पूर्वसूरयः ।

तेषां तु न रणे साम्यं केनापीति मतिर्मम ॥ १०२२ ॥

सुरोत्तमटीका

परायुधेनैव स्वसाध्यसाधनचमत्कारवन्तं स्वाचार्यं स्तौति ॥ अस्येति ॥ अस्य दृश्यत्वहेतोः । प्रकरणे स्वसाध्ये । साम्यम् । परेण परसाध्ये प्रयोगवत्प्रयोगम् । प्रयोगमात्रे साम्यम् । विचार्यमाणे तु परकीय-साध्यविरुद्धत्वात्स्वकीयसाध्ये सर्वजनसंमत्याऽनुकूलत्वाच्चा साम्यमेवेति द्रष्टव्यम् । पूर्वसूरयः सर्वेषामादिगुरवश्श्रीमदाचार्याः । रणे वादरणे । केनापि विदुषा साम्यं न ॥ १०२२ ॥

सत्यप्रमोदटीका

प्रोचुर् मिथ्यात्वानुमानुखण्डने । पूर्वसूरयः श्रीभगव-त्पादाः । ‘रजतं दृष्टमिति भ्रममात्रत्वाद् विमतं सत्यं दृश्यत्वादात्मवदित्यपि योज्यत्वात्प्रकरणसमः’ । इदं चोपलक्षणम् । वस्तुतस्तु प्रबलप्रमाणविरोध एव । ‘प्रत्यक्षादिविरुद्धत्वाद्विश्वं सत्यमित्यादिवाक्यविरुद्धत्वात् कालात्यया-पदिष्ट’ इति तत्रैवोक्तेः । तदेतदभिप्रेत्याह न साम्यमिति । किन्तु तदुक्तयुक्तेः प्राबल्यमेवेति हृदयम् ॥ १०२२ ॥

युक्तिमल्लिका

किञ्च दृश्यध्यस्ततैव दृश्यत्वं भवतो मते ।

विषयत्वपरित्यागाद्वृत्तौ वृत्त्याकृतिस्तव ।

दृश्यत्वं किल तत्सर्वं प्रतिवादी न मन्यते ॥ १०२३ ॥

तस्मादन्यतरासिद्धो हेतुः स्यादप्रबुद्ध ते ।

सर्वेषामपि सिद्धो मे हेतुर्नारदसिद्धवत् ॥ १०२४ ॥

सुरोत्तमटीका

परकीयदृश्यत्वहेतोरन्यतरासिद्धिं चाह ॥ किञ्चेति ॥ अधिष्ठानचैतन्यस्य दृक्त्वे दृश्यध्यस्तत्वमेव परस्यहेतुतयाऽभिमतम् । वृत्तौ वृत्तिरूपज्ञाने चेत् । वृत्तेरिवाकृतिर्वृत्त्याकृतिः । विषयस्य वृत्तिसमाकारवत्त्व-मित्यर्थः । विषयविषयिभावानङ्गीकाराद् इदमेव दृश्यत्वं परस्याभिमतम् । तत्सर्वं द्विविधं दृश्यत्वम् । प्रतिवादी तत्ववादी । साध्याविशिष्टहेतोः करणादप्रबुद्धेत्युक्तम् । दृग्जन्यफलाश्रयत्वादिकमपि परस्यासिद्धमिति सूचनाय सर्वपदम् । ज्ञातताया वृत्तिप्रतिफलितचैतन्यस्य च परेणानङ्गीकारात् । व्यवहारस्य प्रवृत्तेश्च पुङ्गतत्वेन विषये तदाश्रयत्वाभावादन्यतरासिद्धिः । दृग्जन्यफलाश्रयत्वं दृश्यत्वं वदता परेण फलं प्रत्यप्याश्रयत्वस्यैवोररीकरणाद् विषयत्वानङ्गीकाराच्च । अन्यथा ज्ञाततायामयोगात् । मे हेतुर् दृग्विषय-त्वाख्यहेतुः । विषयत्वं च स्वरूपसम्बन्धविशेष इत्यङ्गीकारात् । तस्य चाभावसमवायादिस्थले सर्वसंमतत्वात् सर्वेषामपि सिद्ध इत्युक्तम् । न च वाच्यं मयाप्येतदेव दृश्यत्वमुच्यत इति । तथा सति दृग्दृश्ययोस्सम्बन्धानु-पपत्तेरेवाभावेनैतादृशदृश्ये त्वदभिलषितदृगध्यस्तत्वस्यैवासिद्धेः । दृश्यत्वस्य वृत्तिविषये आत्मनि गतत्वेन हेतोर्व्यभिचारप्रसङ्गात् । चित एव दृक्त्वे मद्रीत्या घटादावभावेन पुनर्भागासिद्धिस्स्यात् । अस्माकं तु यथायोग्यं वृत्तिर्वादृक्चिद्वा दृक् । यथा नारदाख्यसिद्धः देवानां दैत्यानां च प्रियस्तद्वत् ॥ १०२३,१०२४ ॥

सत्यप्रमोदटीका

‘दृश्यत्वाभावादसिद्धो हेतुः । अनिर्वचनीयासिद्धेरेव’ इति भगवत्पादोक्तिं समर्थयते किञ्चेत्यादिना । भवतः ‘नियामकं न संवेद्यं पश्यामो नीलतद्धियोः’ इति विज्ञानवादिनां ग्राह्यलक्षणाभावाख्यं तर्कं भिक्षित्वा विषयत्वसम्बन्धस्य दुर्निरूपत्वं वदतो मायिभिक्षोः । अध्यस्ततैवेति असत्त्वे तु चित्प्रकाशारोपितस्य अधिष्ठानाध्यस्तत्वसम्बन्धेन प्रकाशोपत्तिरिति त्वत्सिद्धान्तादिति भावः । परित्यागाद् विकल्पासहत्वेन खण्डनात् । तथा हि । वृत्त्याकृतिरिति । वृत्तिसमानाकारत्वं तच्च प्रतिवाद्यसिद्धम् । नापि ज्ञानजन्यफलाश्रयत्वम् । फलं ज्ञाततो व्यवहारो वा । नाद्यः ज्ञातताया अप्रामाणिकत्वेन परस्य स्वरूपासिद्धिः । अतीतानागतनित्यानुमेयेषु वादि-नोऽपि भागासिद्धिः । न द्वितीयः । व्यवहाराश्रयत्वस्य पुरुष एव सम्भवेन विषये तदभावात् । नापि वृत्तिप्रतिफलितचैतन्यादिकं परस्यासिद्धेरेव । तदेतदभिप्रेत्योक्तं तत्सर्वमिति ॥

प्रमाणतो दृग्विषयत्वं वाद्यसिद्धम् । फलितमाह तस्मादिति । मिथ्यात्वं चाध्यस्तत्वमेवेति साध्याविशिष्टता च । सिद्धान्ते तु न कोऽपि दोष इत्याह सर्वेषामपि इति । विषयत्वरूपस्वरूपसम्बन्धस्य अभावादिषु सर्वत्र सम्भवात् । नारदसिद्धवदिति । यथा नारदो दैत्यानां देवानां च संमतस् तथा चैतन्य-विषयत्वस्य वृत्तिविषयत्वस्य चोपपत्तेः । तदुक्तं वादावल्यां ‘चैतन्याविषय-त्वेऽपि बाधकाभावात् । वृत्तिविषयत्वेनैव व्यवहारोपपत्तेः ।चैतन्यस्यापि स्वाभाविकं भविष्यतीति को दोष’ इति॥१०२३,१०२४ ॥

युक्तिमल्लिका

यतो दुष्टं च करणं स्वयं सदपि तात्त्विकम् ।

अर्थं न साधयेत्तस्मान्मिथ्यार्थः क्वार्थसाधकः ॥ १०२५ ॥

सुरोत्तमटीका

किञ्च परमते शब्दवद् लिङ्गस्यापि मिथ्यात्वाङ्गीकारान्न कोऽपि हेतुस्त्वदभिलषितसाध्यसाधक इत्याह ॥ यत इति ॥ दुष्टकरणं काचादिदोषयुक्तकरणम् । सत् सत्यम् । अर्थं स्वविषयीभूतशुक्तिरजतादिकम् । तस्माद्दोषग्रस्तसत्यार्थस्यापि सदर्थसाधकत्वाभावात् । मिथ्यार्थः मिथ्याभूत-लिङ्गाद्यर्थः । अर्थसाधको ऽर्थक्रियाकारी । अतो हेतुशतकेनापि न परेण मिथ्यात्वं साधयितुं शक्यमिति भावः ॥ १०२५ ॥

सत्यप्रमोदटीका

परः प्रमाणानां मिथ्यात्वं मनुते । अतस्तेषां साधकत्वमेव न घटत इत्याह यत इति ॥ दुष्टमपि करणं स्वरूपतः सदपि दोषग्रस्ततया न तात्त्विकमर्थं साधयति यदा तदा परमते स्वरूपत एवासन्ति प्रमाणानि कथङ्कारं तात्त्विकार्थं साधयेयुरिति भावः । तदुक्तं भगवत्पादैः ‘अनङ्गीकुर्वतां विश्वसत्यतां तन्न वादिता । तस्माद्व्यवहृतिः सर्वा सत्येत्येव व्यवस्थिता’ इति

॥ १०२५ ॥

युक्तिमल्लिका

सिद्धिर्हि विद्यमानत्वनिर्णयस्संमता सताम् ।

सा प्रमाणेन यस्यासीत्तद्धि प्रामाणिकं विदुः ॥ १०२६ ॥

निर्णयस्तदभावस्य व्यावृत्त्या तस्य सत्त्वधीः ।

उद्दिष्टा तत्कुचोद्यस्य नावकाशोऽत्र विद्यते ।

घटस्य नास्तिताज्ञानं घटज्ञानं हि को वदेत् ॥ १०२७ ॥

सुरोत्तमटीका

इदानीं प्रामाणिकत्वहेतुना जगत्सत्यत्वं साधयितुं प्रामाणिकशब्दार्थं लोकसंमत्याख्याकरणसम्मत्या च दर्शयति ॥ सिद्धिरिति ॥ नहि कोऽपि घटाभावसिद्धिं घटसिद्धिं ब्रूते । न वा स्वप्रयोजनालाभे सिद्धं मम प्रयोजनमित्याह । किन्तु स्वप्रयोजने सम्यक्संपन्ने सत्येव । इमां लोक-व्याकरणप्रसिद्धिं हिशब्देन सूचयति । यस्य घटादेर्वस्तुनः ॥

तदभावस्य घटाद्यभावस्य । तस्य घटादेः । न हि कोऽपि घटनास्तित्व-निर्णयं घटनिर्णयं वक्ति । किंतु घटोऽस्त्येवेति निर्णय एव घटनिर्णयः । अतो निर्णयशब्दार्थोऽपि लोकसम्मत इति भावः । एतदपि द्वितीय हिशब्देन सूचयति । कुचोद्यस्य ‘‘असदेव रजतं प्रत्यभादि’’त्यनुव्यवसायविषयतया ‘‘नेदं रजतमि’’ति बाधप्रमाविषयतया च शुक्तिरजतस्य प्रामाणिकत्वमस्तीति चोद्यस्य । अत्र प्रामाणिकत्वहेतौ । प्रमाणेन नास्तीति प्रतिपादिते वस्तुनि प्रामाणिकत्वस्य लोके वेदे चाव्यवहारात् । प्रत्युताप्रामाणिकत्वस्यैव व्यवहारा-च्चेति भावः ॥ १०२६,१०२७ ॥

सत्यप्रमोदटीका

ननु प्रामाणिकत्वं सत्यत्वसाधकम् । असदेव रजतं प्रत्यभादिति भ्रान्त्युत्थितस्यानुव्यवसायरूपं प्रमाणं प्रति तथा नेदं रजतम् इति बाधकानुभवरूपप्रमाणं प्रति च रजतस्य विषयत्वात्तस्यापि प्रामाणिकत्वाव-गमात्तेन रजतस्यापि सत्त्वम् इति परस्य कुचोद्यं प्रामाणिकत्वस्वरूपनिर्धारणेन निराह सिद्धिरित्यादिना । प्रमां प्रति अनिषेध्यत्वेन साक्षाद्विषयत्वमेव प्रामाणिकत्वम् । तदेव सत्त्वसाधकतयोपन्यस्तम् । अनुव्यवसायं प्रति परंपरया विषयो बाधकानुभवं प्रति निषेध्यत्वेन विषये रजते तन्नास्तीति कुतस्तस्य सत्त्वसाधनप्रत्याशेत्याह विदुर् इति । लौकिका वैदिकाश्चेति शेषः । अनुव्यवसायेन भ्रमस्य सत्त्वसिद्धिः, बाधानुभवेन च रजताभावस्यैव सिद्धि-र्नत्वेव रजतस्येति भावः । तदुक्तं वादावल्यां ‘अन्यथा भ्रमो ममासीदिति विशिष्टविषयज्ञानस्य प्रमाणत्वात्तद्विशेषणतयाऽर्थस्यापि प्रामाणिकत्वापात’ इति ॥ १०२६,१०२७ ॥

युक्तिमल्लिका

यद्वा प्रमाणं यत्सत्तामङ्गीकारयति स्फुटम् ।

सोऽर्थः प्रामाणिकोऽन्योऽर्थस्त्वप्रामाणिक उच्यते ॥ १०२८ ॥

सुरोत्तमटीका

प्रकारान्तरेणापि प्रामाणिक शब्दस्योक्तमेवार्थमानयति ॥ यद्वेति ॥ यत्सत्तां यस्य पदार्थस्य विद्यमानताम् । घटो नास्तीति वदतापि भूतले घट इति प्रमाणे सति घटास्तित्वस्यैवाङ्गीकारादिति भावः ॥ १०२८ ॥

सत्यप्रमोदटीका

प्रमाणशब्दनिरुक्त्याऽपि प्रामाणिकत्वहेतोः सत्यत्व-साधकता सिध्यतीत्याह यद्वेत्यादिभिः । स्फुटमिति तच्चानिषेध्यत्वेन साक्षा-त्तद्विषयकप्रमाजनकमेव नान्यदिति भावः ॥ १०२८ ॥

युक्तिमल्लिका

प्रमाणता च करणे प्रमाकरणता मता ।

प्रमा यथार्थधीस्तत्त्वं लोकोक्त्या न दुराग्रहात् ॥ १०२९ ॥

सुरोत्तमटीका

तत्वं प्रमाणत्वम् । लोकोक्त्या लोकव्यवहारेणाङ्गी-कार्यम् । दुराग्रहात् स्वमतदुराग्रहात् । यथार्थमेव मया दृष्टमिति वदन्लोकोऽहि यथार्थज्ञानकरणस्यैव प्रमाणतां वक्ति । अतस्तदेव प्रमाणं न त्वर्थेऽनधिगत-त्वादिकं प्रवेशनीयमिति भावः

॥ १०२९ ॥

युक्तिमल्लिका

अतो यद्विद्यमानत्वं प्रत्यक्षेणेतरेण वा ।

निर्णीयते प्रमाणेन तत्प्रामाणिकशब्दवत् ॥ १०३० ॥

सुरोत्तमटीका

प्रत्यक्षेण प्रमाणत्वेन लोकसम्मतप्रत्यक्षेण । तद् लोकसम्मतप्रमाणप्रसिद्धविद्यमानत्वाधिकरणम् । प्रामाणिकशब्दवत् प्रामाणिक-शब्दवाच्यम् । एवं च महावाक्यमेव प्रमाणं नान्यदिति वदता मायावादिनापि न हेतोरन्यतरासिद्धिर्वक्तुं शक्या । लोकसम्मत प्रमाणबोधितविद्यमानत्वाधि-करणत्वस्य हानोपादानादिकं कुर्वता तेनापि घटादौ प्रपञ्चे ब्रह्मणि च वक्तव्यत्वात् शुक्तिरजतादाववक्तव्यत्वाच्च इदमेव च प्रामाणिकत्वम् । लोके एतादृशे वस्तुन्येव प्रामाणिकपदप्रयोगदर्शनात् । प्रयोगानुसारेणैव व्याकरण-स्यापि प्रवृत्तत्वादुक्तसम्बन्धविशेषण एव तदुदित प्रत्ययार्थ इति भावः ॥ १०३० ॥

सत्यप्रमोदटीका

प्रामाणिकशब्दवत् प्रामाणिकशब्दप्रतिपाद्यताऽर्हम् । प्रामाणिकत्वं प्रति सत्त्वस्य प्रयोजकत्वात् । तदुक्तं वादावल्यां ब्रह्मणश्चा-प्रामाणिकत्वे शशविषाणवदसत्त्वप्रसङ्ग’ इति ॥ १०३० ॥

युक्तिमल्लिका

प्रयोगस्यानुसारेण शब्दस्यार्थो भवेत्किल ।

प्रयोगमूलं यत्प्राहुस्सर्वे व्याकरणं बुधाः ॥ १०३१ ॥

सुरोत्तमटीका

एतदेव विशदयति ॥ प्रयोगस्येत्यादिना ॥ १०३१ ॥

सत्यप्रमोदटीका

किल ‘प्रयोगमात्रबाहुल्यं रुढिरित्यभिधीयते’ इति अनुव्याख्यानोक्तलक्षणेन प्रसिद्धम् ॥ १०३१ ॥

युक्तिमल्लिका

प्रयुञ्जते न तच्छब्दं प्रजा रज्जुभुजङ्गमे ।

निषेध्यत्वेन बाधाख्यमानसम्बन्धवत्यपि ॥ १०३२ ॥

सुरोत्तमटीका

तच्छब्दं प्रामाणिकशब्दम् ॥ १०३२ ॥

सत्यप्रमोदटीका

तच्छब्दं भुजङ्गमशब्दम् । सम्बन्धवत्यपि निषेध्यत्वेन विषयत्वरूपसम्बन्धवत्यपि ॥ १०३२ ॥

युक्तिमल्लिका

ततः प्रमाणसम्बन्धमात्रार्थः प्रत्ययोऽत्र न ।

तत्सम्बन्धविशेषार्थ इत्याहुः शब्दकोविदाः ॥ १०३३ ॥

सुरोत्तमटीका

प्रत्ययःप्रमाणपदोपरिप्रामाणिकपदसंपत्त्यर्थं वैयाकरणै-रनुशिष्टठक्प्रत्ययः । अत्र प्रामाणिकशब्दे । प्रमाणसम्बन्धमात्रार्थो नेति सम्बन्धः । तत् तस्मात् ॥ १०३३ ॥

सत्यप्रमोदटीका

प्रत्ययः प्रामाणिकशब्दे प्रमाणपदोत्तरः विषयत्व-रूपसम्बन्धवाचकः ॥ १०३३ ॥

युक्तिमल्लिका

विशेषश्च स एव स्यान्मिथ्यार्थाद्विशिनष्टि यः ।

अतोऽस्मदुक्तमेवार्थं शब्दोऽसौ वक्ति नापरम् ॥ १०३४ ॥

सुरोत्तमटीका

अतः व्याकरणस्यापि प्रयोगमूलत्वात् । असौ शब्दः प्रामाणिकशब्दः ॥ १०३४ ॥

सत्यप्रमोदटीका

विशेषो ऽनिषेध्यत्वेनेत्युक्तरूपः ॥ १०३४ ॥

युक्तिमल्लिका

माने तव महावाक्ये यदि तत्पदमर्थवत् ।

तदा प्रामाणिकं ब्रह्म न चेदैक्यं न वाक्यतः ॥ १०३५ ॥

सिद्ध्येद्विध्येदतो ब्रह्म तत्पदेषुर्न संशयः ।

ऐक्यं तव यतोऽवश्यं मुख्यतत्त्वच्युतिर्न चेत् ॥ १०३६ ॥

सुरोत्तमटीका

दृष्टान्ते साधनवैकल्यं परिहरति ॥ मान इति ॥ महावाक्ये तत्त्वमसीति वाक्ये । तत्पदं तदितिपदम् । अर्थवत् प्रतिपाद्यार्थ-वत् ॥ न चेत् तत्पदस्य मुख्यतो लक्षणया वा ब्रह्मप्रतिपादकत्वं न चेत् । अतस्तत्त्वं पदाभ्याम् ऐक्यबोध्यत्वात् । तत्पदेषुस् तत्पदाख्यशरः । ब्रह्म-विध्येत् । यथा शरवेधः परिहर्तुं न शक्यते तथा ब्रह्मणोऽपि तत्पदबोध्यत्व-मनिवार्यमिति भावः

॥ १०३५,१०३६ ॥

सत्यप्रमोदटीका

महावाक्ये तत्त्वमसि इति वाक्ये तत्पदं तदिति पदम् । अर्थवत् शक्त्या लक्षणया वा ब्रह्मरूपार्थप्रतिपादकं तदा प्रामाणि-कत्वहेतुः सत्त्वसाधनायोपन्यस्तो न साधनविकलः । न चेद् ब्रह्मण एवानुपस्थितेर् वाक्याद् ऐक्यं न सिध्यति इति योजना । अत ऐक्यसिद्धि-मभीप्सताऽवश्यं तत्पदप्रतिपाद्यत्वम् उररीकरणीयमिति साहित्यमुद्रयाऽऽह । तत्पदेषुस् तदितिपदरूपः शरः, ब्रह्म विध्येद् अवश्यं प्रतिपादयेदेव इति । मुख्यतत्त्वं त्वत्सिद्धान्तरहस्यम् ऐक्यम् । तस्य च्युतिर् अभावसिद्धिः

॥ १०३५,१०३६ ॥

युक्तिमल्लिका

तदा त्वैक्याभावरूपहेतोरेव प्रसिद्ध्यति ।

अनेकं जगदेतन्मे बाधेषावप्ययो गतम् ॥ १०३७ ॥

सुरोत्तमटीका

तदा ऐक्याभावे । ऐक्याभावरूपहेतोर् ऐक्याभावाख्य-हेतुत इत्यर्थः । मे मदभिमतम् । अनेकं जगत् प्रसिद्ध्यति प्रकर्षेण सिद्ध्य-तीति योजना । विमतो जीवो ब्रह्मणो भिन्नो भवितुमर्हति ब्रह्मैक्यरहितत्वात् । जडप्रपञ्चवदिति साध्यत इति भावः । बाधेषौ जगद्बाधकत्वेनाभिमते एकमेवाद्वितीयमिति वाक्याख्यशरे । अयः जगन्नाशकत्वेनायस्स्थानीय-मैक्यविषयत्वम्

॥ १०३७ ॥

सत्यप्रमोदटीका

इदं प्रमाणप्रमितम् । जगज् जीवजडात्मकम् । अनेकं परस्परप्रतियोगिकपारमार्थिकभेदोपेतस्वैकदेशप्रतियोगिकपारमार्थिकभेदोपेतम् । प्रकर्षेण परस्परविरुद्धयोरन्यतरनिषेधे अन्यतरविधिरिति व्याप्तिबलेन सिध्यति । तदुक्तं वादावल्यां ‘स्वरूपैक्यस्य बाधितत्वे भेदोन्मज्जनप्रसङ्गात् । न ह्युभयोदासीनतत्त्वसिद्धिः । उभयात्मकवस्तुवत्तस्यापि व्याहतत्वेनासम्भवि-त्वादि’ति । तथा च बाधेषौ भेदबाधकत्वेन त्वदभिमते एकमेवाद्वितीय-मित्यादिवाक्यबाणे अयः बाधोपयुक्तम् ऐक्यविषयकत्वं गतम् अपगतम्

॥ १०३७ ॥

युक्तिमल्लिका

अतः प्रामाणिकं ब्रह्म तवापि च ममापि च ।

परमार्थसदेव स्याद्बह्मवत्तेन मे जगत् ॥ १०३८ ॥

सुरोत्तमटीका

तेन प्रामाणिकत्वहेतुना ॥ १०३८ ॥

सत्यप्रमोदटीका

ब्रह्मवदिति । दृष्टान्ते साधनवैकल्यस्य परिहृत-त्वादिति भावः ॥ १०३८ ॥

युक्तिमल्लिका

प्रमितं विश्वसत्यत्वं सच्चेन्नोपाधिरात्मता ।

अत्रैव साध्यस्याव्यात्प्या भवेन्नोपाधिरात्मता ।

न्यायसाम्याद्ब्रह्मणि ते साध्याव्याप्तिप्रसङ्गतः ॥ १०३९ ॥

न चेत्प्रमापि जगति साधनाव्याप्ततागता ।

आत्मत्वोपाधिरेतस्मात्स्वात्मानं हन्ति नापरम् ॥ १०४० ॥

सुरोत्तमटीका

आत्मत्वोपाधिना प्रामाणिकत्वहेतोस्सोपाधिकत्वमाशङ्क्य विकल्पासहं तदित्याह ॥ प्रमितमिति ॥ न्यायसाम्यात् । जगति प्रमितस्य सत्त्वस्याभावे ब्रह्मण्यपि प्रमितस्याभावप्रसङ्गात् । न हि न्यायस्य पक्षपातोऽ-स्तीति भावः ॥ १०३९,१०४० ॥

सत्यप्रमोदटीका

सत्यत्वसाधकप्रामाणिकत्वहेतोः, यदि सत्त्वं न स्या-त्प्रामाणिकत्वमेव न स्यादित्यनुकूलतर्कसनाथत्वेन पक्ष एव साध्यव्यापकता-भङ्गान् न आत्मत्वरूपोपाधिसम्भव इत्याह प्रमितमिति । अनुकूलतर्केण पक्षे सिद्धम् इत्यर्थः । यथोक्तं ‘अनुकूलेण तर्केण सनाथे सति साधने । साध्य-व्यापकताभङ्गात्पक्षे नोपाधिसम्भव’ इति । सत्यत्वस्य प्रामाणिकत्वं प्रति प्रयोजकत्वेन हेतूच्छित्तिरेव विपक्षे बाधिकेति ध्येयम् । न चेत् प्रामाणि-कत्वहेतुना जगति सत्यत्वसिद्धिं नाङ्गीकरोषि चेद् ब्रह्मण्यपि सत्यत्वासिद्धिः । उभयत्र प्रामाणिकत्वाविशेषेण एकत्र साधकत्वम् अपरत्रासाधकत्वम् इति अर्धजरतीयानुपपत्तेः । स्वात्मानं हन्ति । आत्मन्यपि आत्मत्वाभावं प्रसञ्जयति । तदुक्तं वादावल्यां ‘आत्मत्वमुपाधिरिति चेन्न । अबाध्यत्वा-देरात्मत्वस्य पक्षे सम्भवात् । अन्यथाऽऽत्मत्वस्याप्यभावः स्याद्ब्रह्मणी’ति ॥ १०३९,१०४० ॥

युक्तिमल्लिका

प्रामाणिकं च बाध्यं चेत्येतमर्थमनर्थदम् ।

व्याघातो जितनिर्घातस्तर्कोऽप्याक्रोशयेद्ध्रुवम् ॥ १०४१ ॥

यद्बाधोऽर्थायथार्थत्वं तद्याथार्थ्यं च यत्प्रमा ।

वन्ध्यासुतो वदेदेवं न तु पुत्रवतीसुतः ॥ १०४२ ॥

सुरोत्तमटीका

अनुमानानुग्राहकतर्कमाह ॥ प्रामाणिकमिति ॥ जितः निर्घातो ऽशनिर्येन सः । अशनिपातादप्यधिक इत्यर्थः । यद् यस्मात् । तद्याथार्थ्यम् अर्थयाथार्थ्यम् । द्वितीयमपि यत्पदं यस्मादित्यर्थः ॥ १०४१,१०४२ ॥

सत्यप्रमोदटीका

व्याघात इति तदुक्तं तत्रैव ‘अतत्त्वावेदकं प्रमाणं चेति व्याघातः । अतत्त्वावेदकं प्रमाणं चेच्छुक्तिरजतज्ञानमपि प्रमाणं किं न स्यात् । प्रमाणं चेन्नातत्वावेदकम् औतवाक्यवत्’ इति । जितनिर्घातो ऽशनेरपि बलवत्तरः ॥ १०४१,१०४२ ॥

युक्तिमल्लिका

यद्येकमानमानत्वहीनतायां रतिस्तव ।

तर्हि बाधप्रमाणेऽस्तु सा जगत्कण्टकोपमे ॥ १०४३ ॥

सुरोत्तमटीका

एकमानमानत्वहीनतायां विश्वबाधकविश्वसाधकप्रमाण-योरुभयोरपि प्रामाण्यायोगाद् एकमानस्य मानत्वहीनतायां मानत्वाभावे । सा मानत्वहीनता ॥ १०४३ ॥

सत्यप्रमोदटीका

बाधप्रमाणे बाधकत्वेन त्वदभिमत नेहनानास्तीति वाक्ये । बाधो ऽन्यार्थता । सत्यत्वसाधकप्रमाणानां बहुत्वनिरवकाशत्वादिना बलवत्त्वात् ॥ १०४३ ॥

युक्तिमल्लिका

रक्षो घ्नन्ति हि शान्त्यर्थं कं घ्नन्ति जगतीपतिम् ।

बाधकत्वेन बलिताऽप्येतेनैव बहिर्गता ॥ १०४४ ॥

सुरोत्तमटीका

कण्टकछेद एव न्याय्य इत्याह ॥ रक्ष इति ॥ घ्नन्ति राजरक्षां कुर्वन्तो मान्त्रिकाः । प्रकृतेऽपि जगत एवाभावे जगत्पतेरेवाभाव-प्रसङ्गाज् जगद्धनने जगत्पतेरेव हननं द्रष्टव्यम् । बलिता बलवत्ता । एतेन बाधकीभूतरक्षसामेव हननेन ॥ १०४४ ॥

सत्यप्रमोदटीका

तव मिथ्यात्वसाधकाभिमतं वाक्यं जगतो ऽत एव जगतीपतेश्च हननाय प्रवृत्तं रक्षःसदृशमेव बाधार्हम् । बहिर्गतेति । हीन-बलताया अत एव बाधार्हत्वस्योपपादितत्वादिति भावः ॥ १०४४ ॥

युक्तिमल्लिका

साधकस्य सदोषत्वे बाधकं प्रबलं भवेत् ।

विदोषसाधकस्याग्रे किं बाधकशतेन ते ॥ १०४५ ॥

न ह्यापणस्थरूप्यस्य बह्वाघातेऽप्यरूप्यता ।

रसयोगेऽपि तद्रूपनाशादभिभवेन वा ।

रूपान्तरस्य चोत्पत्तौ तस्यैव स्यात्सुवर्णता ॥ १०४६ ॥

सुरोत्तमटीका

विदोषसाधकसिद्धस्याबाध्यत्वं दृष्टान्तमुखेन घटयति ॥ नहीति । आघाते स्वर्णकारैर्बहुधा आघाते कृतेऽपि । रसयोगेऽपि रसवादिभिः पादरसयोगे कृतेऽपि तद्रूपनाशात् तस्य रजतस्य श्वेतत्वाख्यरूपनाशात् । रूपान्तरस्य सुवर्णवर्णस्य । तस्यैव प्राक्तनरजतस्यैव ॥ १०४५,१०४६ ॥

सत्यप्रमोदटीका

विदोषसाधकस्येति

निर्दोषश्रुतिसाक्षिभ्यां प्रमिते ब्रह्मजीवयोः ।

सर्वशक्त्यल्पशक्तित्वे मिथ्येति च न युज्यते ॥ इत्युक्तेः ।

बाधकशतेन विरोधिशतेन । ते इति । तव तेषां बाधकत्वं दुराग्रह-दुर्विलासमात्रमूलमिति हृदयम् ॥ आपणस्थरूप्यं वास्तवं निर्दोषं नेहनानेति वाक्यम् । बह्वाघातः जगदपलापरूपो मायावादिकल्पितोऽर्थः । न ह्यरूप्यता । जगतो वा तदन्तःपातिनः स्वस्य वा मिथ्यात्वं नैव प्रतिपादयति । रसयोगे तात्पर्यविमर्शे रूपान्तरं मानान्तरानुगुणमर्थान्तरम् । सुवर्णता ब्रह्मणः स्वगतभेदनिषेधरूपमहिमप्रतिपादकता ॥ १०४५,१०४६ ॥

युक्तिमल्लिका

फलस्य पीतपक्वत्वमिव बाधो न कस्यचित् ।

तस्यैवावस्थान्तरत्वान्मिथ्यात्वापादनं न तत् ॥ १०४७ ॥

सुरोत्तमटीका

फलस्य प्राक्श्यामफलस्य । आतपयोगेन पीतपक्वत्व-मिवेति दृष्टान्तस्यापि दृष्टान्तः । तद् रसयोजनम् ॥ १०४७ ॥

सत्यप्रमोदटीका

कस्यचिन् न बाधः फलस्य अवस्थाऽन्तरापत्तिः पूर्वरूपस्य नाशः । न तु मिथ्यात्वम् । एवं वेदस्य अर्थान्तरम् । पूर्वार्थस्य परित्याग एव । न कस्यापि बाधः । ‘वेदवेदानुसारेषु विरोधेऽन्यार्थकल्पना’ इति व्यासस्मृतेः ॥ १०४७ ॥

युक्तिमल्लिका

ततः काचादिदोषोत्थो बाध्योऽस्तु रजतभ्रमः ।

तद्दोषहीनमानोत्था विश्वधीर्नैव बाध्यते ॥ १०४८ ॥

सुरोत्तमटीका

विदोषसाधकप्रमाणसिद्धस्यार्थस्य बाधकशतेनापि यतो मिथ्यात्वं न दृष्टम् अतो बाधकत्वेन प्राबल्यं न यौक्तमिति भावः । लोक-सम्मतकाचादिदोषमात्ररहितप्रत्यक्षसिद्धापणस्थरजतं स्वनारीकरकटकार्थमुपा-ददता परेणापि तत्र प्रामाणिकत्वोररीकरणाद् व्यवहारोपयोगितया लोक-सम्मतप्रमाणेनैव प्रामाणिकत्वं वदतो ममापि तावदेवालम् । हानोपादानादि-स्वव्यवहाराय घटादिप्रपञ्चे यत्प्रामाणिकत्वं लोकोऽङ्गीकुरुते तेनैव प्रामाणि-कत्वेन सत्यत्वस्यापि साधयितुं शक्यत्वात् । वस्तुतत्वविचारायैव चर्चेयमिति ज्ञातव्यम् ॥ १०४८ ॥

सत्यप्रमोदटीका

दोषहीनम् अपौरूषेयत्वेनानाशङ्कितदोषम् ॥ १०४८ ॥

युक्तिमल्लिका

काचादिदोषतोऽन्योऽपि यस्तु दोषो मतस्तव ।

अविद्यावद्विषयतासंज्ञो भाष्यकृतोदितः ॥ १०४९ ॥

दोषस्स तूष्णीं किमुत प्रमायाः प्रतिरोधतः ।

भ्रमस्योत्पादकत्वाद्वा कं पक्षमवलम्बसे ॥ १०५० ॥

सुरोत्तमटीका

ननु जगत्प्रमायां काचादिदोषाभावेऽप्यविद्याख्यदोषो भविष्यतीति चेन्न । दूषितत्वात् । किञ्च प्रमाप्रागभावस्य प्रमोत्पत्तौ दोषत्वा-दर्शनेनाविद्यादोषत्वस्यानानुभविकत्वात् । भावरूपाविद्यादोष इति चेत् । न । आविद्यकचरमप्रमाया अपि सदोषत्वप्रसङ्गात् । तस्याजडप्रपञ्चेषु त्वयानङ्गी-कारेणार्थानावरकतयार्थदोषत्वायोगात् । अत एव करणानावरकतया करण-दोषत्वायोगाच्च । विषयस्याविद्योपादानकत्वमपि दोष इति चेन्न । तवापि मते शुक्तिरजतादौ नाविद्योपादानकत्वमेव स्वोपादेये विषये उत्पत्स्यमानज्ञाने दोषः । विषयोपोद्बलकस्यैवालोकादेरिव ज्ञाने दोषत्वायोगात् । किं तु रजतो-पादानकत्वनिमित्तरजतत्वाभावादेवातद्वति तत्प्रकारकत्वरूपभ्रमः । घटादौ तु मृदाद्युपादानजन्येन भ्रमस्स्यात् । कथमन्यथा केवलाविद्योपादानके तमसि शुक्तिरजतादाविव न भ्रमः । तत एवोपादानात्तमस्त्वस्यापि तत्र सिद्धेर्न भ्रमश्चेत्तर्हि रजतत्वापादकोपादानाभावादेव शुक्तिरजते भ्रमो नाविद्योपादान-कत्वादिति सुस्पष्ठम् । अर्थगतस्य करणगतस्य अर्थेन्द्रियमध्यवर्तिनो वा शापादेर्वा ज्ञानप्रतिबन्धकस्यैव कस्यचिद्दोषत्वौचित्येन जडवृत्त्यप्रतिबन्ध-कस्यास्य तत्र दोषत्वायोगात् । प्रामाणिकत्वहेतौ प्रमाणजन्यवृत्तेरेव प्रस्तुत-त्वाच्च । अज्ञानानुपादानकानादिभेदवृत्तेर्दोषामूलत्वप्रसङ्गाच्च ।

न च वाच्यं मिथ्याभूताज्ञानोपादानकत्वनिमित्तमर्थगतं मिथ्यात्वमेव दोष इति । अन्योन्याश्रयात् । पूर्ववदज्ञानानुपादानक भेदस्यवृत्तौ दोषाभाव-प्रसङ्गात् । तत्र बाधादेव मिथ्यात्वं चेत्तर्हि सर्वत्रापि तेनैव मिथ्यात्वसम्भवेन भवदज्ञानस्य दोषसम्पादकतयापि दोषत्वाभावेऽज्ञानदोषतावादस्यैवाज्ञान-मूलत्वापातात् । न चार्थगतं मिथ्यात्वमपि दोषः । शुक्तिरजतादिभ्रमस्यापि तेनैव सम्भवेन तत्र पुनः काचादिदोषाणामनाश्रयणीयत्वप्रसङ्गात् । अर्था-भावापरपर्यायमिथ्यात्वे सति ज्ञानजनकीभूतेन्द्रियार्थसन्निकर्षाख्यकारणाभावेनैव स्वाधिकरणे प्रमारूपकार्याभावस्य सम्भवात् । तदप्रतिबन्धकस्यार्थाभावात्मक-मिथ्यात्वशुक्तिरजतादौ भ्रमकारणदोषत्वेसदाभ्रमप्रसङ्गेन तदभाववति तद्वत्त्व-बोधनाय दोषान्तरस्यावश्यं वक्तव्यत्वान् न मिथ्यात्वं क्वाप्यर्थगतो दोषः । किन्तु सति शुक्तीन्द्रियसन्निकर्षे प्रसक्ततत्प्रमाप्रतिबन्धस्यार्थाभावादेवाप्रसक्त-विपरीतार्थज्ञानस्य बलात्प्रसञ्जकस्य च काचादिकरणदोषस्यातिदूरत्वसादृश्या-द्यर्थदोषस्यैव दोषत्वमुचितम् । अर्थमिथ्यात्वसिद्धौ प्रमाणानां दोषमूलत्व-सिद्धिः । प्रमाणानां दोषमूलत्वसिद्धौ सत्यत्वसाधकाभावेनार्थमिथ्यात्वसिद्धि-रित्यन्योन्याश्रयाच्च नार्थगतं करणगतं वा मिथ्यात्वं दोषः । किंतु काचादिरेव । अन्यथाकरणगतमिथ्यात्वस्यापि करणदोषत्वप्रसङ्गेन मिथ्याभूतकरणजन्यं चरमापरोक्षज्ञानमपि भ्रमस्स्यात् । विषयाभावे करणाभावेऽपि भ्रमोदया-सम्भवेनाभावसंपादकमिथ्यात्वस्य दोषत्वे उभयत्रापि दोषत्वापरिहारात् । शुक्तिरूप्यादौ काचादिदोषजन्यप्रतीतिविषयत्वनियततया दृष्टमिथ्यात्वस्य तदभावेऽसम्भवाच्च । तूष्णीमेव कल्पने ब्रह्मण्यपि कल्पनसम्भवेन पुनश्चरम-प्रमाया भ्रमत्वप्रसङ्गात् । अतोऽपि न मिथ्यात्वं दोषः । एतत्सर्वं सूचय-न्प्रकारान्तरेणाप्यविद्याया दोषत्वं खण्डयति ॥ काचादीति ॥ काचादिरेव दोषो न त्वन्य इति हि वाक्यस्य पर्यवसितोऽर्थः । अतः काचादेर्दोषत्व-समर्थनमप्यनेनैव सूचितम् । अविद्यावद्विषयतेत्यनेनाविद्यावद्विषयकाणि शास्त्राणि भवन्ति । सर्वाणि च लौकिकानि प्रत्यक्षादीनि प्रमाणानि चेति वाक्यं संगृह्णाति ॥ १०४९,१०५० ॥

सत्यप्रमोदटीका

अविद्यावद्विषयता अतत्त्वावेदकता । य इत्यस्य उत्तरश्लोस्थेन स इत्यनेनान्वयः । तूष्णीं स्वसमयदुराग्रहमात्रेण । तदुक्तं वादावल्यां ‘दोषश्चाविद्यैव परस्येष्टा । सा च यदि वेदान्तानामपि मूलं तर्हि प्रत्यक्षे प्रद्वेषः किंनिबन्धनः’ इति । अत आविद्यकत्वस्य प्रत्यक्षे एव दोषत्वोक्तिर्दुराग्रहनिबन्धनैव । प्रमायाः प्रबलप्रमाणस्य प्रतिरोधतः विरोधात् । उत्पादकत्वादिति अप्रामाण्यस्योत्पत्तौ परतस्त्वादिति भावः॥१०४९,१०५०॥

युक्तिमल्लिका

आद्ये गुणोऽपि दोषः स्याद् द्वितीये ते मते प्रमा ।

ब्रह्मचिन्मात्रविषया तद्रोधात्तत्र केवलम् ।

दोषोऽस्त्वसौ घटाद्यर्थे दोषता तस्य किंकृता ॥ १०५१ ॥

सुरोत्तमटीका

तद्रोधाद् ब्रह्मचिन्मात्रविषयकप्रमाप्रतिरोधात् । तत्र ब्रह्मचिति । तस्य अविद्यावद्विषयत्वस्य । किं कृतेत्यनेन घटादौप्रतिबध्यप्रमाया एवाभावाज् जडेऽज्ञानावरणानङ्गीकारेण तज्जन्यभ्रमस्याप्ययोगाद् अविद्याव-द्विषयत्वस्य त्वन्मतेऽभावाच्च नोभयथापि दोषत्वमिति सूचयति ॥ १०५१ ॥

सत्यप्रमोदटीका

आद्ये स्वपरिभाषामात्रत्वेन दोषत्वम् इति पक्षे । गुणोऽपीति त्वन्मतेऽधिष्ठानसत्यत्वं गुणोऽपि शून्यसमयपरिभाषया दोषः स्यात् । द्वितीये प्रबलप्रमाणविरोधेन दोष इति पक्षे । प्रमा चरमसाक्षात्कारः । तत्र केवलं चित्येव ॥ किंकृतेति । तस्या अचेतनघटाद्यविषयकत्वादेवेत्यर्थः ॥ १०५१ ॥

युक्तिमल्लिका

मम जीवगताविद्या तस्येशविषयप्रमाम् ।

रुणद्धि तस्य दोषोऽसौ तत्रैव न परात्मनि ॥ १०५२ ॥

सुरोत्तमटीका

उभयत्रापि तस्येति पदं जीवपरम् । तत्रैव तस्मिन्विषये । अविद्याया जीवे स्थित्वा परमात्मविषयकप्रमामात्रप्रतिबन्धकत्वेन परमात्मविषय एव दोषत्वम् । न तु परमात्मनिष्ठतया दोषत्वं नापि घटादिविषय इति भावः ॥ १०५२ ॥

सत्यप्रमोदटीका

स्वमते तु नायं दोष इत्याह ममेति । जीवाश्रितो दोषो जीव एव परमात्मविषयकप्रमाप्रतिबन्धक इत्यङ्गीकारात् । दोषोऽन्यत्र तत्कार्यं तु अपरत्र इत्येवंरूपदोषाभावः । तदुक्तं भगवत्पादैः ‘स्वभावाज्ञान-वादस्य निर्दोषत्वान्न तद्भवेदि’ति ॥ १०५२ ॥

युक्तिमल्लिका

घटादिषु प्रमारोधस्तवापि न ममापि न ।

तत्प्रत्यक्षादिमानेषु का हानिस्स्यादविद्यया ॥ १०५३ ॥

चक्षुर्दोषस्य काचस्य किं घ्राणादौ च दोषता ।

क्वचित्कश्चिद्दोष इति यत्प्राहुः पूर्वसूरयः ॥ १०५४ ॥

सुरोत्तमटीका

तत् तस्माद् अविद्याया ब्रह्मप्रमामात्रे दोषत्वात् ॥ १०५३,१०५४ ॥

सत्यप्रमोदटीका

घटादिषु जडेषु । मतद्वयेऽपि अज्ञानस्य जडा-श्रितत्वानङ्गीकारात् । तव मते अप्रकाशस्वरूपत्वाज्जडेऽज्ञानं न मन्यते’ इत्युक्तेः । मम मते अज्ञानस्य जीवाश्रितत्वमात्रस्य स्वीकारात् । का हानिरिति ॥ मानेषु जडविषयकेष्विति शेषः ॥ यो दोषो यत्रानाश्रितो न स तत्र स्वकार्यकर इत्यत्र दृष्टान्तमाह चक्षुरिति । क्वचित् स्वाश्रय एव ॥ १०५३,१०५४ ॥

युक्तिमल्लिका

तृतीयेऽपि भ्रमः कस्ते यद्धेतुत्वेन दोषता ।

न हि कुड््यघटाद्यर्थधीरेषा भ्रमरूपिणी ।

कुड््यत्वादियुतेष्वेव कुड््यत्वादिप्रकारिका ॥ १०५५ ॥

सुरोत्तमटीका

एषा वृत्तिरूपा । कुड्यत्वादियुतेषु कुड्यादिषु । कुड्यत्वादिमतिकुड्यत्वादिप्रकारकत्वेन तद्वति तत्प्रकारकत्वान् न कुड्यादि-वृत्तेर्भ्रमत्वम् । अतस्तत्राविद्याया भ्रमहेतुत्वेनापि न दोषत्वमिति भावः ॥ १०५५ ॥

सत्यप्रमोदटीका

भ्रमोत्पादकत्वादज्ञानं दोष इति तृतीयं निराह तृतीय इति । क इति घटकुड््यादिविषयक उत ब्रह्मविषयकः । नाद्यः कुड््यादि-धियां तद्वति तत्प्रकारकत्वेन प्रमात्वादेवेति भावः ॥ १०५५ ॥

युक्तिमल्लिका

भ्रमो हि ब्रह्मणि तव तद्गाविद्यापि तद्भ्रमम् ।

संपादयन्ती तत्रैव दोषः स्याच्छक्तिशोधने ॥ १०५६ ॥

सुरोत्तमटीका

तद्गाविद्या ब्रह्मनिष्ठाविद्या । तद्भ्रमं ब्रह्मभ्रमम् । तत्रैव ब्रह्मभ्रमविषय एव । भ्रमसम्पादकतया दोषत्वमङ्गीकृत्येदमुदितम् । वस्तु-तस्त्वस्मत्प्रमितेऽर्थे ब्रह्मणोऽपि न भ्रमः । भ्रमप्रमाविषयत्वयोरेकत्रायोगात् । अन्यस्य च प्रत्येतव्यस्य चिदवेद्ये ब्रह्मणि तन्मतेऽप्ययोगाद् अभ्रम एवेति द्रष्टव्यम् ॥ १०५६ ॥

सत्यप्रमोदटीका

द्वितीयस्तु स्यादित्याह भ्रम इति । तत्रैव न घटादि-विषये इयं च अभ्युपगमोक्तिः । वस्तुतस्तु ब्रह्मणोऽपि प्रमितेऽर्थे न भ्रम इति भावः ॥ १०५६ ॥

युक्तिमल्लिका

प्रत्यक्षादिप्रमाणानां जडानां जीववर्तिनाम् ।

कथं सा भ्रमहेतुः स्याच्चक्षुर्दोषोऽपि को भवेत् ॥ १०५७ ॥

सुरोत्तमटीका

सा ब्रह्मगताऽविद्या ॥ १०५७ ॥

सत्यप्रमोदटीका

प्रत्यक्षादिप्रमाणानामपि जडत्वेन नाज्ञानाश्रयत्वम् । सा अविद्या । को दोषो भवेच् चाक्षुषवृत्तेर् भूतले घटः, घटे घटत्वम् इत्यादेस् तद्वति तत्प्रकारकत्वेन प्रमात्वात् तत्र दोषकल्पनाया एवानवकाशादिति भावः ॥ १०५७ ॥

युक्तिमल्लिका

किञ्चित्प्रमासाधकश्च बहुतद्रोधकश्च यः ।

स दोषो भ्रमदो दृष्टः प्रमाऽभावे भ्रमः कुतः ॥ १०५८ ॥

सुरोत्तमटीका

पररीत्यापि वृत्तौ दोषो न घटत इत्याह ॥ किञ्चि-दिति ॥ किञ्चित्प्रमासाधको ऽधिष्ठानांशे इदं त्वमात्र प्रमासाधकः । तदबाधक इति यावत् । बहुतद्रोधकः बहूनामधिष्ठाननिष्ठशुक्तित्वादीनां तद्रोधकः प्रमारोधकः । परमते चरमप्रमाया एव प्रमात्वेन वृत्तेरंशद्वयेऽपि प्रमात्वानङ्गीकारान् नोक्तलक्षणो दोषस्तत्र सम्भवतीति भावः ॥ १०५८ ॥

सत्यप्रमोदटीका

चाक्षुषादिवृत्तीनां सर्वथा प्रमात्वमेवेति सिषाधयिषु-र्भिक्षुपादप्रसरणन्यायेन तासां विशेष्यांशे तावत्प्रमात्वं पररीत्याऽप्यङ्गीकार्य-मेवेत्याह किञ्चिदिति । अधिष्ठानांशे प्रमा । तदंशे बाधकाभावात् । बहु-तद्रोधकः प्रकाराणामंशे प्रमात्वविघटकः । प्रमाऽभावे अधिष्ठानांशे प्रमाऽभावे ॥ १०५८ ॥

युक्तिमल्लिका

सर्वं ज्ञानं यतो धर्मिण्यभ्रान्तं सर्वदेहिनाम् ।

घटे घटत्वमिति धीः कथं स्यात्केवलं भ्रमः ॥ १०५९ ॥

सुरोत्तमटीका

किञ्च परमते ब्रह्मैव जगदारोपाधिष्ठानम् । एवं चायं घट इति वृत्तौ इदमंशस्य सामान्याकारतयाऽधिष्ठानब्रह्मविषयत्वाङ्गीकारेण भ्रमत्वशङ्का स्यादपि । भूतले घटः घटे घटत्वम् इत्याद्यसाधारणाकारेण भूतलघटादिमात्रविषयप्रथमांशयुक्तशतसहस्रवृत्तिषु भ्रमत्वशङ्कैव न घटते । यदि च स्वमतं विहाय भ्रमत्वपरिरक्षणार्थं भूतलघटादिकमेवाधिष्ठानं ब्रूयात् । तदा व्यावहारिक जगदारोपाधिष्ठानभूतलघटादेर्ब्रह्मवत्परमार्थसत्त्वं स्यात् । तेषां च परमार्थसत्यत्वे आपणस्थरजतादेरिव स्वस्वयोग्यस्थान एव विद्यमानत्वाद्ब्रह्मणि निषेधेऽप्यत्रानिषेधात् । घटत्वादिप्रतीतौ घटादेर्घटत्वादिनिष्ठजातित्व-प्रमेयत्वादिधर्मप्रतीतौ घटत्वादेरधिष्ठानत्वाच्च परमार्थसत्यत्वमेव स्यात् । एवं च सर्वस्यापि सत्यत्वे तत्राविद्यमानस्य मिथ्यात्वस्य प्रतीतिरेव भ्रमस्स्यादित्याह ॥ सर्वमिति ॥ केवलभ्रमो ऽधिष्ठानांशे प्रमाशून्यभ्रमः ॥ १०५९ ॥

सत्यप्रमोदटीका

केवलं भ्रमः कथं स्याद् इति । भ्रमस्यापि उक्तरीत्या भ्रमप्रमोभयरूपत्वादिति भावः ॥ १०५९ ॥

युक्तिमल्लिका

कल्प्यादधिकसत्ताकमधिष्ठानं तवैव हि ।

यतोऽवश्यं ततो व्यक्तिस्सत्यैवासीत्परात्मवत् ॥ १०६० ॥

सुरोत्तमटीका

व्यक्तिरित्युपलक्षणम् । भूतलमपि ग्राह्यम् ॥ १०६० ॥

सत्यप्रमोदटीका

ननु भूतले घटः, घटे घटत्वं, इत्यादिप्रतीत्या अधिष्ठानतया न भूतलघटादीनां सत्त्वसिद्धिः । तत्र मया भूतलघटा-द्यवच्छिन्नचैतन्यानामेवाधिष्ठानत्वाङ्गीकारादिति चेन्न । भूतलादिशब्दानां तत्तदवच्छिन्नचैतन्ये लक्षणाश्रयणस्य सार्वजनीनानुभवविरोधात् । तथाऽपि भूतलघटादिव्यक्तीनां पारमार्थिकत्वं कुत इति चेत्त्वदभ्युपगतन्यायेनैवेत्याह कल्प्यादिति । तवैव सत्तात्रयवादिन एव । भूतले घट इत्यत्र भूतलस्य, घटे घटत्वमित्यत्र घटस्य एवं चालनीन्यायेन सर्वासां व्यक्तीनाम् अधिष्ठानत्वेन पारमार्थिकत्वमेव सिध्यति । व्यावहारिकत्वेन त्वदभिमतघटपटत्वाद्यधिष्ठान-त्वादेवेति भावः ॥ १०६० ॥

युक्तिमल्लिका

तद्व्यक्त्यंशे प्रमैवेयं भवेद्युक्तिबलेन धीः ।

जात्यंशेऽपि प्रमा सा स्यात्तासां चास्वेव संस्थितेः ॥ १०६१ ॥

सुरोत्तमटीका

तासां जातीनाम् । आसु व्यक्तिषु । घटादीनां भूतल एव विद्यमानत्वादित्यपि ग्राह्यम् । भूतलपदेन भूतलावच्छिन्नचैतन्यमेवोच्यते । घटपदेन च घटावच्छिन्नं घटत्वपदेन च तदवच्छिन्नचैतन्यम् । अतोऽ-धिष्ठानत्वेनापि चैतन्यस्यैव सत्यत्वं न भूतलादेरिति चेन् न । इदं पदस्य सर्वनामतया ब्रह्मपरत्वसम्भवेऽपि भूतलादिपदानां ब्रह्मपरत्वायोगात् । मुख्ये सम्भवत्यमुख्यायोगेन लक्षणादेरनुचितत्वाच्च । व्यावहारिकभ्रमाधिष्ठानत्वस्य चैतन्यादन्यत्रायोगाल्लक्षणेति चेन् न । धर्मिभ्रमस्येदं रजतमित्यादौ तादात्म्य-विषयत्वनियमदर्शनेन भूतले घट इत्याधाराधेयतया धर्मिप्रतीतेस्तव मतेऽ-ब्रह्मभ्रमतया सर्वसम्प्रतिपन्नप्रतीतीनां भ्रमत्वासिद्ध्या च कल्पकाभावेनान्यो-न्याश्रयात् । अन्यत्रैवप्रसिद्धपदस्याप्रसिद्धामुख्यार्थं स्वीकृत्य तस्याधिष्ठानतां संपाद्य सर्वेषां प्रत्येतॄणां सर्वेषां प्रमेयानां चाप्रमातृत्वाप्रमेयत्वकल्पनातोऽपि प्रसिद्धार्थस्वीकारेण प्रमातृत्वप्रमेयत्वरक्षणस्यैव न्याय्यत्वात् ॥ १०६१ ॥

सत्यप्रमोदटीका

इदानीं वृत्तीनां प्रकारांशेऽपि प्रमात्वमेवेत्याह जात्यंशेऽपीति । तासां घटत्वादिजातीनां तास्वेव घटादिव्यक्तिष्वेव । तथा च विशेष्यवृत्तिकारकत्वात् सर्वांशेन प्रमात्वमेवेति भावः ॥ १०६१ ॥

युक्तिमल्लिका

घटावच्छिन्नचैतन्ये घटत्वमिति कस्य धीः ।

घटाधिष्ठानचैतन्ये घटोऽध्यस्तः परं तव ॥ १०६२ ॥

सुरोत्तमटीका

दूषणान्तरं चाह ॥ घटेति ॥ उपलक्षणं चैतत् । भूतलावच्छिन्ने चैतन्ये घट इति धीरित्यपि ग्राह्यम् । सर्वानुभवविरुद्धत्वाच्च नैयं कल्पनायुक्तेति भावः । भूतलावच्छिन्नचैतन्ये भूतलस्यैवाध्यस्तत्वेन घटाद्य-वच्छिन्नचैतन्ये च घटादीनामेवाध्यस्तत्वेनान्याधिष्ठानचैतन्ये चैतन्यान्तराध्यस्त-पदार्थानां पुनरध्यासाङ्गीकारे युक्तिविरोधोऽपसिद्धान्तश्चेत्याह ॥ घटादिष्ठा-नेति ॥ परं केवलम् । तव मते । परमित्यनेन भूतलावच्छिन्नचैतन्ये घटाध्यासं व्यवच्छिनत्ति । अतो भूतलावच्छिन्नचैतन्ये घटस्य घटावच्छिन्नचैतन्ये घटत्व-स्यारोपेऽपसिद्धान्त इति भावः ॥ १०६२ ॥

सत्यप्रमोदटीका

घटाधिष्ठानचैतन्ये घटत्वारोप इत्येतत्सार्वजनीनानुभव विरोधेनापाकृतम् । परप्रक्रिययाऽपि तन्निराह । घटाधिष्ठानचैतन्ये घट आरोपित इति प्रक्रियामुल्लङ्घ्य, इदानीं तत्र घटत्वारोपाङ्गीकृतिः कथं न व्याहतेति भावः ॥ १०६२ ॥

युक्तिमल्लिका

घटत्वं तु घटे नोचेत्सा धीः स्यात्प्रातिभासिकी ॥ १०६३ ॥

सुरोत्तमटीका

घटे घटत्वमित्यत्र दूषणान्तरं चाह ॥ घटत्वमिति ॥ घटे घटव्यक्तौ । घटे नो चेदित्युपलक्षणम् । चैतन्ये चेदित्यपि ग्राह्यम् । साधीश् चैतन्ये घटत्वमिति धीः । घटे पटत्वमिति धीवद् अस्या अपि बुद्धे-रिदानीमेव बाध्यत्वात्प्रातिभासिकत्वं स्यात् । तच्चानुपपन्नम् । अतो घटत्वा-धारता घटव्यक्तावेव प्रतीयत इति भावः ॥ १०६३ ॥

सत्यप्रमोदटीका

घटे नोचेदिति किन्तु घटावच्छिन्ने चैतन्ये एव स्याच्चेदिति पूरणीयम् । सा धीर् घटावच्छिन्ने चैतन्ये घटत्वमिति धीः । प्रातिभासिकी । इदानीमेव ब्रह्मप्रमाऽन्येन ‘घट एव घटत्वं, न घटावच्छिन्न-चैतन्ये इति ज्ञानेन बाधदर्शनादि’ति भावः । एवं प्रतिभासमात्रशरीरत्वेन घटत्वस्यापि प्रातिभासिकत्वं स्यात् । तथा चापसिद्धान्त इति भावः ॥ १०६३ ॥

युक्तिमल्लिका

पृथुबुध्नोदराकारव्यक्तावेव घटत्वधीः ।

व्यंजको ह्ययमाकारो व्यंग्या जातिश्च सा किल ।

तस्मादनन्तव्यक्तीनां सत्यता युक्तितोऽभवत् ॥ १०६४ ॥

सुरोत्तमटीका

अत्रैव युक्तिमाह ॥ पृथ्विति ॥ व्यङ्ग्यव्यञ्जक-योरैकाधिकरण्यनियमाद् व्यञ्जकस्य चाकारस्य निराकारे ब्रह्मण्ययोगादिति भावः। फलितमाह ॥ तस्मादिति ॥ अस्यैव विवरणं युक्तित इति । पररीत्यैवागताया व्यावहारिकजगदारोपाधिष्ठानत्वाख्ययुक्तेः । अयमत्र प्रयोगः । घटादयो व्यक्तिपदार्थाः परमार्थसत्याः । व्यावहारिकजगदारोपौ-धिष्ठानत्वात् । ब्रह्मवदिति ॥ १०६४ ॥

सत्यप्रमोदटीका

व्यंग्यव्यंजकयोः सामानाधिकारण्यनियमादपि घट एव घटत्वधीर् न तदवच्छिन्नचैतन्य इति सिध्यतीत्याह व्यञ्जक इति । घटत्व-जातेर्व्यञ्जको हि पुथुबुध्नोद्याकारः । स च घटनिष्ठ एव न चैतन्यनिष्ठः । तस्य निराकारत्वात् । अतो व्यंग्यजातिरपि घटनिष्ठतयैव भातीति भावः ॥ अनन्तव्यक्तीनामिति पूर्वोक्तचालनीन्यायेनेति भावः ॥ १०६४ ॥

युक्तिमल्लिका

तद्विशेषविदो धीत्वाज्जातिधीरपि न भ्रमः ।

तत्रैव विद्यमानार्थधीत्वादपि न स भ्रमः ॥ १०६५ ॥

सुरोत्तमटीका

जातेरपि सत्यत्वेऽनुमानमाह ॥ तद्विशेषेति ॥ तद्विशेषविदः जातिव्यञ्जकाकारविशेषविदः । अयं घट इदं घटत्वमित्यादि-प्रतीतौ त्वद्रीत्या घटघटत्वभ्रमाधिष्ठानचैतन्योल्लेखसम्भवेति घटे घटत्वमित्यादौ त्वद्रीत्या भ्रमे घटांशानुभवे घटत्वांशानुभवे चानुल्लिख्यमानस्यात एव सकल-भ्रमाननुस्यूतस्य चैतन्यस्य सर्वत्रापि भ्रमाधिष्ठानत्वायोगेन घटादिप्रतीतेः क्वापि भ्रमत्वायोगाच्च । कथं तर्हीदं रजतमिति भ्रमानन्तरम् अत्र भूतले रजतमिति प्रतीतेर्भ्रमत्वम् । अधिष्ठानाभिमत शुक्तेरत्राप्रतीतेः कथं वाऽत्रैव व्यभिचरितस्य शुक्तिकाशकलस्य तत्राधिष्ठानत्वमिति चेन् न । अत्र रजतत्वमित्यादिधर्मभ्रमे सप्तम्यन्तेदं पदोदितशुक्तयादेरिव रजतसंसर्गभ्रमेऽस्मिन्भूतलस्यैवाधिष्ठानत्व-सम्भवात् । इयांस्तु विशेषः । शुक्ते रजतत्वानर्हत्वात्तत्रेदं पदेनैव ग्रहणम् । भूतलस्य तु रजतसंसर्गार्हत्वाद्विशिष्यैव ग्रहणमिति । रजतादितादात्म्यभ्रममात्रे रजतत्वादिसंसर्गभ्रममात्रे च शुक्त्यादेरधिष्ठानत्वाङ्गीकारेण विजातीयेऽस्मिन्भ्रमे सर्वभ्रम इव तदभावस्य व्यभिचारानापादकत्वाच्च । तव तु व्यावहारिकभ्रममात्रे चैतन्यस्यैवाधिष्ठानत्वनियमाङ्गीकारेण क्वचिद्व्यभिचारेऽधिष्ठानत्वस्यैव भङ्गाद् भूतलादेरधिष्ठानत्वासम्भवाच्च । शुक्तिश्वेतिम्न इव भूतलत्वादेर्विशेषस्य ज्ञानेऽपि भ्रमविरोधिशुक्तित्वाज्ञानवद्भूतल निष्ठरजतसंसर्गभ्रमविरोधिरजतानाधारत्वाज्ञान-मात्रेणाधिष्ठान सामान्यज्ञानस्यापि सम्भवात् । एवं परोक्षानुमित्यादिभ्रमेऽपि पर्वतादेरेवाधिष्ठानत्वं बोध्यम् ।

यद्वा तस्याः प्रतीतेरधिष्ठानभूतशुक्तिभूतलसंसर्गे रजतसंसर्गत्वारोप रूपतया तस्य शुक्तिभूतलसंसर्गस्यैवाधिष्ठानत्वेन भ्रमत्वसम्भवात् । विद्यमानस्य प्रमां प्रतिरुध्य तत्रैव भ्रमं जनयन्हि दोषः । अतो विद्यमानशुक्तिभूतलसंसर्गस्य विशिष्य प्रमां प्रतिरुध्य तत्रैव रजतसंसर्गत्वभ्रमोऽवश्यं वक्तव्यः । अन्यथा दोषस्य सामान्यप्रतीत्यप्रतिबन्धकतयेन्द्रियसन्निकृष्टशुक्तिभूतलसंसर्गस्येदं त्वेना-रोप्यमाण रजतभूतलसंसर्गस्य चानेनैवाकारेण विशिष्य प्रतीतिरिति सर्वानुभव-विरुद्धस्य पुरोवर्त्यत्र रजतमत्रेति विशकलिताधाराधेयभावद्वयस्यापि प्रतीति-प्रसङ्गः ।

यदि च पुरोवर्तिन एव रजतत्वेनोल्लेखान्न तस्य पृथगुल्लेखः । तर्हि तत्संसर्गस्यैव रजतसंसर्गतयोल्लेखो नान्यस्येत्यनिच्छताप्यङ्गीकार्यम् । एवमन्यत्राप्यपरोक्ष भ्रमे निरधिष्ठानकभ्रमाभावादधिष्ठानसंसर्गेऽध्यस्तसंसर्गारोप इत्यूह्यम् । परोक्षसंसर्गभ्रमे तु अनुमानस्थलेऽसल्लिङ्गपरामर्श शक्त्यैव प्रतीत-मनाधेयप्रतियोगिकं सत्यं पक्षनिष्ठमाधारत्वम् अधिष्ठानतया सामान्यत उल्लिख्यैव तत्रापरसम्बन्धितयाऽविद्यमानसाध्यांशमुल्लिखंत्यनुमिति स्तदंशमात्रे भ्रमरूपा । शब्दस्थलेऽप्यन्विताभिधायकशशादिपदशक्तया बोधितं सत्यं शशादिनिष्ठं योग्येतरान्वयमधिष्ठानतया सामान्यत उल्लिख्यैव तत्रापरसम्बन्धि-तयाऽयोग्यशृृङ्गाद्यर्थमुल्लिखन्ती शाब्दीप्रतीतिस्तदंशमात्रे भ्रमरूपा । सर्वथा सत्यं समग्रसंसर्गं संसर्गांशं वाऽनवलम्ब्य न कोऽपि संसर्गभ्रमः । भूतले घट इत्यादौ तु त्वद्रीत्याख्य व्यावहारिकसंसर्गारोपस्यास्याधिष्ठानत्वार्हपारमार्थिकसंसर्गा-न्तरस्याभावेनासम्भवाद् अस्यैवानुभवस्यैव प्रमात्वे वक्तव्ये संसर्गप्रमाया-स्संसर्गिप्रमाघटितत्वनियमेन प्रमाविषयभूतलघटादेरिदं भूतलमयं घट इत्या-दावप्यारोपासम्भवेन चैतन्याधिष्ठानत्ववार्ताया निर्मूलत्वापरिहारात् । सत्य-पदार्थान्तरसन्निकर्षरहिते केवलभूतले सन्निकर्षभ्रमस्य क्वाप्यदर्शनेन सन्निकर्ष-भ्रमे सत्यसन्निकर्षपूर्वकत्वस्यापि नियतत्वेनोक्तदोषानुद्धारोऽपि द्रष्टव्यः । अत्रेमौ प्रयोगौ भवतः । घटे घटत्वमिति धीर् न घटत्वजातिभ्रमः । पृथुबुध्नो-दराकारव्यक्तजातिप्रतीतित्वात् । घटत्ववत्येव घटत्वप्रतीतित्वात् । व्यतिरेकेण पाषाणे घटत्वप्रतीतिवत् ॥ १०६५ ॥

सत्यप्रमोदटीका

विशेषविद आकारव्यंग्यजातिर् आकाराश्रयघट-वृत्तिरेवेति विशेषविदः । तत्रैवेति न तु चैतन्ये । तस्य निराकारत्वेन जाति-त्व्यञ्जकत्वासम्भवादिति भावः । तथा च विशेष्यवृत्तिधर्मप्रकारकत्वात्, घटे न घटत्वम् इति बाधकप्रत्ययाभावादिति च । उक्तं च भामत्यां ‘लौकिकानि हि प्रमाणानि सदसत्वगोचराणि । तैः खलु सदिति गृह्यमाणं सदित्येव यथाभूतम् अविपरीतमेव तत्त्वं व्यवस्थाप्यते । अतात्विकत्वं तु तेषामन्यतो बाधका-दवगन्तव्यम् इति (भे.प.ब्र.सू.) ॥ १०६५ ॥

युक्तिमल्लिका

तस्मादरजतव्यक्तौ दोषाद्या रजतत्वधीः ।

स भ्रमः स्यान्निजव्यक्तौ जातिधीस्तु न विभ्रमः ॥ १०६६ ॥

सुरोत्तमटीका

तस्माद् व्यञ्जकवति व्यङ्ग्यप्रतीतेर्भ्रमत्वायोगात् । व्यञ्जकाभाववति व्यङ्ग्यज्ञानस्यैव भ्रमत्वादिति यावत् ॥ १०६६ ॥

सत्यप्रमोदटीका

निजव्यक्तौ घटत्वाश्रये घटे । घटत्वधीर् घटत्वमस्ति धीः । न विभ्रमस् तद्वति तत्प्रकारकत्वात् ॥ १०६६ ॥

युक्तिमल्लिका

तद्ब्रह्मभ्रमसृष्टार्थदर्शनाद्भ्रान्तिताऽपि न ।

जातिभ्रमे धर्मिभूतव्यक्तिः सत्या यतो ध्रुवा ॥ १०६७ ॥

सुरोत्तमटीका

भूतले घट इत्येव भूतलावच्छिन्नचैतन्यास्य स्वा-नधिष्ठितघटं प्रति अधिष्ठानचैतन्यतया भ्रमत्वायोगान् न ब्रह्म भ्रान्तिसिद्धत्व-मित्युक्तम् । अत एव वृत्तेरपि न घटभ्रमत्वमित्याह ॥ तदिति ॥ तत् तस्माद् घटस्वब्रह्मभ्रमसिद्धत्वाभावात् । ब्रह्मभ्रमसृष्टस्य घटस्य दर्शनात् । भ्रान्तिता वृत्तेर्भ्रान्तिता । घटस्य प्राग्ब्रह्मभ्रमसृष्टत्वे हि भ्रान्तार्थविषयिणी वृत्तिरपि भ्रान्तिस्स्यात् । तस्य चोक्तविधयाऽभावात् तद्विषयवृत्तेरपि न भ्रान्तित्वमिति भावः । निमित्तान्तरं चाह ॥ जातीति ॥ जातिभ्रमे घटे घटत्वमिति जातिभ्रमे । यतः धर्मिभूता व्यक्तिर् घटव्यक्तिः । सत्या । ततो वृत्तेर्न भ्रान्तित्वमित्यर्थः ॥ १०६७ ॥

सत्यप्रमोदटीका

घटस्य ब्रह्मभ्रमसृष्टत्वे हि तद्विषया वृत्तिर् भ्रान्तिः स्यात् । तदेव नास्ति । चालनीन्यायेन अधिष्ठानतया सर्वपदार्थानां सत्यत्वस्य व्यवस्थापितत्वादित्याह तदिति । तत् तस्मात् ॥ १०६७ ॥

युक्तिमल्लिका

कथं च ब्रह्मणोऽन्यत्र योगायोगाद्भ्रमस्तव ।

सत्यो घटोऽन्यदृष्टोऽपि यदन्यैः परमीक्ष्यते ।

अन्यदृष्टे तु मिथ्यार्थे क्वास्त्यन्यस्यापि दर्शनम् ॥ १०६८ ॥

सुरोत्तमटीका

किञ्च घटादेरधिष्ठानरूपब्रह्मभ्रमजत्वेऽन्येषान्तद्दर्शनमेव न स्यात् । तेष्वध्यासाख्यसम्बन्धाभावात् । लोके एकभ्रमजस्य रजतादे-रन्यैरदर्शनाच्चेत्याह ॥ कथं चेति ॥ ब्रह्मणो ऽधिष्ठानभूतब्रह्मणः । योगा-योगात् । अध्यासाख्ययोगात् । तव मते । यद् यस्मात् । तस्मादन्यसृष्टो मिथ्यार्थोऽन्यैर्नेक्ष्यत इति भावः । तदेव दर्शयति ॥ अन्येति ॥ १०६८ ॥

सत्यप्रमोदटीका

योगायोगाद् अध्यासासम्भवात् । एकभ्रमदृष्टे अन्यस्य कस्यापि प्रमा न सम्भवति । प्रमाभ्रमयोरेकविषयकत्वायोगात् । इत्याह अन्येति ॥ १०६८ ॥

युक्तिमल्लिका

एकस्य रजतभ्रान्तौ किमन्येषां च तद्भ्रमः ।

स्वरूपैक्यात्समाधानमपि तेन न शोभते ॥ १०६९ ॥

सुरोत्तमटीका

तद्भ्रमः रजतभ्रमः । स्वरूपैक्याद् अधिष्ठानचैतन्यस्य द्रष्टृजीवानां च स्वरूपैक्यात् । समाधानं तद्भ्रम एवास्यापि भ्रम इति समाधानम् । तेन एकत्र जातरजतभ्रमस्यान्यत्रादर्शनेन । घटस्थले ऐक्यादेकत्र भ्रान्त्यान्यस्य भ्रान्तिश्चेत् शुक्तिरजतस्थले तथा स्यात् । शुक्तिप्रमातुरपि वृत्तिप्रतिफलितचैतन्यद्वारा रजतभ्रमस्थले गमनस्यापि साम्यादिति भावः ॥ १०६९ ॥

युक्तिमल्लिका

अन्यत्रादृष्टपदवी कथमत्रैव कल्प्यते ।

अदृष्टकल्पनादोषो रुन्धे त्वद्दोषदोषताम् ॥ १०७० ॥

सुरोत्तमटीका

अन्यत्र शुक्तिरजतभ्रमादौ । अत्रैव घटादिभ्रमस्थल एव । ननु काचादिदोषवशादेकस्य रजतभ्रमो नापरस्येति चेत् । न । भ्रम-साङ्कर्यघटकचैतन्यैक्यस्य दोषसांकर्यघटकताया अपि सम्भवेनैकदोषस्यैवापर-दोषत्वस्यापि कल्पयितुं शक्यत्वात् । युक्त्यन्तरं चाह ॥ अदृष्टेति ॥ घट-भ्रमेऽदृष्टस्य काचादेः कल्पना रजतभ्रमे कल्पना स एव दोषः । त्वद्दोषदोषतां तव दोषाणां काचादीनां दोषत्वम् । भ्रमत्वाविशेषाद् घटभ्रमे काचादि-दोषानपेक्षणे रजतभ्रमेऽपि तदनपेक्षणमेव स्यादिति भावः ॥ १०७० ॥

सत्यप्रमोदटीका

अन्यत्र शुक्तिरजतादौ । अत्र घटादौ । शुक्तिरजत-ज्ञानस्य वस्तुतो भ्रमत्वे सर्वेषां च तथाविधं ज्ञानं भ्रम एव । अन्यथा व्यक्तिभेदेन प्रमाभ्रमसाङ्कर्ये वस्तुनो द्वैरूप्यापत्तिः । दोषदोषतां काचादीना-मिन्द्रियदोषताम् । अदृष्टकल्पना तस्यैव दोषस्य इन्द्रियान्तरे विद्यमानत्वेऽपि तदिन्द्रियस्य दुष्टत्वानापादकत्वकल्पना ॥ १०७० ॥

युक्तिमल्लिका

अज्ञानोपादानकत्वमर्थदोषस्तु यस्तव ।

कुम्भकारकुविन्दाद्याः सद्यो दद्युस्तदुत्तरम् ।

न तैस्सह वयं ब्रूमः कृतग्रन्थपरिश्रमाः ॥ १०७१ ॥

सुरोत्तमटीका

अज्ञानोपादानकत्वं घटादावर्थदोष इत्यत्र सोपहासं दूषण मुक्त्वा दूषणान्तरं चाह ॥ अज्ञानेति ॥ घटादिकर्तृभिः कुम्भ-कारादिभिर्मृदादेरनुसरणादिति भावः ॥ १०७१ ॥

सत्यप्रमोदटीका

घटादिप्रत्यक्षवृत्तेरतत्वावेदकत्वम् इन्द्रियदोषाभावेऽपि अर्थदोषादेवेति पक्षं निराह अज्ञानोपादानकत्वमिति । मिथ्यात्वं चेत् तस्य उत्पत्तेरेवाभावेन तदर्थं कुलालादीनां कारणकलापोपादानस्य निरर्थकत्वा-पातात् । तदुक्तं ‘न निरोधो न चोत्पत्तिः’ इति गौडपादकारिकां व्याकुर्वता परेणैव ‘सतो हि घटस्योत्पत्तिर्विनाशो वा दृष्टः नासतः शशविषाणादेति’ति । तथा चैवमीदृशासम्बद्धभाषणशीलः विद्वत्कर्तृकविचारगोचरवाक्यप्रबन्धात्मक-कथाया बहिष्कारस्यैवार्ह इत्याह नेति ॥ १०७१ ॥

युक्तिमल्लिका

कथं च वृत्तिनाश्यं तदज्ञानं तत्र दूषणम् ।

अविद्यावत्त्वचर्चायां वक्ष्यामस्तत्र चोत्तरम् ॥ १०७२ ॥

सुरोत्तमटीका

तत्र वृत्तिनाशोत्तरकालीनेऽधिष्ठानचैतन्यात्मकभ्रमे । दूषणं भ्रमकारणीभूतदोषः ॥ १०७२ ॥

सत्यप्रमोदटीका

चैतन्यावरकाज्ञानाख्यदोषस्य वृत्त्या नाशोत्तरं जायमानस्य ‘ज्ञातं मयेदं त्वि’ति ज्ञानस्य कथं तद्दोषजन्यत्वम् । कथंतरां च भ्रमत्वमित्याह कथमिति ॥ १०७२ ॥

युक्तिमल्लिका

अज्ञानापगमे तत्तद्वस्तु ब्रह्म तवोल्लिखेत् ।

तद्भ्रान्तिदृष्टत्वकथाऽप्येषां तस्माद्वृथा भवेत् ॥ १०७३ ॥

सुरोत्तमटीका

एतदेव विशदयति ॥ अज्ञानापगम इति ॥ तद्भ्रान्ति-सृष्टत्वकथा । तद्भ्रान्तिर् ब्रह्मभ्रान्तिः । एषां घटादीनाम् । तस्मादज्ञानाख्य दोषाभावदशायां दृष्टत्वात् ॥ १०७३ ॥

युक्तिमल्लिका

तस्मान्नात्राक्षदोषोऽस्ति नार्थदोषोऽपि दृश्यते ।

चित्रं पित्रोरभावेऽपि भ्रमसूनुरयं तव ।

तस्मात्सत्यं जगत्सर्वमभ्रान्तेरपि दर्शनात् ॥ १०७४ ॥

सुरोत्तमटीका

तस्मादर्थकरणदोषाभावेऽपि प्रतीयमानत्वात् ॥१०७४॥

सत्यप्रमोदटीका

तस्मात् सत्यमिति निर्दोषार्थेन्द्रियसन्निकर्षजन्य-प्रत्यक्षादिदृष्टत्वात् । तदुक्तं वादावल्यां ‘प्रत्यक्षादेरतत्वावेदकत्वे मानाभावात् । विषयस्यासत्त्वादेव तत्सिद्धिरिति चेत्तदेव कुत’ इति ॥ पिता काचादि-रिन्द्रियदोषः । माता अविद्याऽऽख्यार्थदोषः । सूनुर् भ्रमः ॥ १०७४ ॥

युक्तिमल्लिका

पृथुबुध्नोदराकारे घट एव घटत्वधीः ।

तस्यापि स्याज्जडाकारव्यंग्यधीर्न निराकृतौ ।

तदा पूर्वोक्तयुक्त्यैव तत्रापि भ्रान्तिता गता ॥ १०७५ ॥

सुरोत्तमटीका

प्रागुक्तयुक्तिं च स्मारयति ॥ पृथ्विति ॥ तस्य घट-त्वस्य व्यञ्जकवति घटादौ या घटत्वजातिबुद्धिः सैव घटत्वबुद्धिरित्यर्थः । जडाकारव्यङ्ग्यधीर्जडाकारव्यङ्ग्या घटत्वधीश्च निराकृतौ ब्रह्मचिति न किन्तु साकारे घट एवेत्यर्थः । तदा साकारघट एव घटत्वजातेः प्रतीतौ । पूर्वोक्तयुक्त्या व्यावहारिकजगदारोपाधिष्ठानत्वयुक्त्या अधिष्ठानाभिमतचिदंशो-ल्लेखरहितत्वयुक्त्या च । तत्रापि जातिप्रतीतावपि ॥ १०७५ ॥

सत्यप्रमोदटीका

निराकृतौ निराकारे चैतन्ये । तत्रापि जातिरूप-प्रकारांशोऽपि ॥ १०७५ ॥

युक्तिमल्लिका

यस्मात्सार्वजनीनोऽयं न स्यादनुभवो भ्रमः ।

अतोऽत्र दोषचिन्तां च नदोषज्ञोऽनुमन्यते ॥ १०७६ ॥

सुरोत्तमटीका

अयं जात्याद्यनुभवः । सार्वजनीन इत्यनेनाप्यस्यानुभवस्य चिदंशाविषयत्वं सूचयति । घटमात्रविषयत्वस्यैवाऽविपालगोपालं सम्मतत्वात् । अतः जात्यादिप्रतीतेर्भ्रमत्वाभावात् । अत्र जातिप्रतीतौ । दोषचिन्तां जाति-व्यक्त्योरज्ञानोपादानकत्वाख्यदोषचिन्ताम् ॥ १०७६ ॥

सत्यप्रमोदटीका

अतः ‘बल्येवानुभवः सदा’ इति ब्रह्मतर्कोक्तेः ‘न चानुभवविरोधे आगमप्रमाण्यं’ इति तत्त्वनिर्णयोक्तेश्च ॥ १०७६ ॥

युक्तिमल्लिका

ब्रह्मण्यविद्यमानांस्तान्यदि ब्रह्मणि दर्शयेत् ।

तदा भ्रमोऽपि सा धीस्स्याद्घटादिस्वस्वधर्मिषु ।

तांस्तान्धर्मान्दर्शयन्ती केन वा हेतुना भ्रमः ॥ १०७७ ॥

सुरोत्तमटीका

प्रकारान्तरेणापि जातिप्रतीतेर्भ्रमत्वं न घटत इत्याह ॥ ब्रह्मणीति ॥ तान् घटादिजडमात्राश्रितधर्मान् । साधीर् ब्रह्मण्यविद्यमान-घटत्वस्य ब्रह्मणि धीः । तांस्तान्धर्मान् घटत्वपटत्वादिधर्मान् । अतद्वति तत्प्रकारकज्ञानं हि भ्रमः । स च घटत्वरहिते ब्रह्मणि घटत्वरहितपट इव घटत्वबुद्धावेव स्यात् । न तु घटादिष्वेव घटत्वादिबुद्धौ । विश्वाधारेऽपि ब्रह्मणि योग्यघटादिधर्मिणां कदाचिदाश्रितत्वप्रतीतावपि धर्माणामेषां कदापि ब्रह्मणि प्रतीत्यभावेन कथं तद्बुद्धीनां भ्रान्तित्वम् । न हि भूतले घट इति वद् भूतले घटत्वमित्यपि कोऽपि प्रत्येति । अतो धर्मिणामन्यत्र प्रतीतावपि न धर्माणामन्यत्र प्रतीतिरिति भावः ॥ १०७७ ॥

सत्यप्रमोदटीका

अनुभवो घट एव घटत्वं गोचरयति न तु घटत्वा-नाश्रये ब्रह्मणि अतो निरवकाश इत्याह ब्रह्मणीति ॥ १०७७ ॥

युक्तिमल्लिका

अथ धर्मा न सन्त्येव तेषु तेषु च धर्मिषु ।

अतस्तेष्वेव तत्तद्धीर्यदि भ्रान्तिरितीर्यते ॥ १०७८ ॥

तर्हि कुड््येऽपि घटधीर्घटादौ पटधीरपि ।

कुतो न तेन ते धर्मास्सन्त्येव स्वस्व(भूमि) धर्मिषु ॥ १०७९ ॥

सुरोत्तमटीका

शङ्कते ॥ अथेति ॥ तेष्वेव घटादिष्वेव । तत्तद्धीर् घटत्वपटत्वादि धीः । तर्हि घटधीर् घटत्ववत्ताधीः । कुड्यघटयोरुभयोरपि घटत्वरहितत्वसाम्ये घट इव कदाचित्कुड्येऽपि घटत्वधीस्स्यात् । न चैतदस्ति । अतो घटे घटत्ववत्त्वमेव वक्तव्यम् । न तु तदभाव इति भावः । तेन व्यवस्थया स्वस्वधर्मिष्वेव तत्तद्धर्मप्रतीतिनियमेन । १०७८,१०७९ ॥

सत्यप्रमोदटीका

कुड््ये घटत्वमिति धीवद् यदि ब्रह्मणि घटत्वमिति धीः स्यात् तदैव परं सा भ्रमः स्यात् । सा नास्त्येव । ब्रह्मणि घट इति धीस्तु तस्य विश्वाधारतोपपादकत्वात् प्रमैवेति भावः ॥ १०७८,१०७९ ॥

युक्तिमल्लिका

न चेत्कुतो न सन्तीति प्रश्ने किं स्यात्तवोत्तरम् ।

बाधादिति वदंश्चापि प्रष्टव्यः प्रतिवादिना ॥ १०८० ॥

सुरोत्तमटीका

न चेद् एवमपि धर्मिषु धर्मसत्त्वं न चेत् । कुतो न सन्ति तत्तद्धर्मास्तत्तद्धर्मिषु कुतो न सन्तीति प्रश्न इत्यर्थः ॥ १०८० ॥

सत्यप्रमोदटीका

बाधाभावाच्च घटे घटत्वम् इति धीः प्रमैवेत्याह न चेदित्यादिना ॥ १०८० ॥

युक्तिमल्लिका

घटे घटत्वबाधश्चेत्स नास्ति मरणेऽपि ते ।

ब्रह्मण्यखिलबाधस्तु न बाधस्तेषु तद्धियाम् ॥ १०८१ ॥

किन्त्वेषां जडधर्माणां ब्रह्मणि प्रतिषेधने ।

जडधर्मत्वदाढर्््यं स्यात्तदभावः कुतो वद ॥ १०८२ ॥

सुरोत्तमटीका

तेषु घटादिषु । तद्धियां घटत्वादिधियाम् । यत्र प्रतीतिस्तत्रैव तदभावधीर्हि बाधः । तदभावाद्धर्माणां धर्मिषु नास्तितापि न । अतस्तत्र तत्प्रतीतिर्न भ्रम इति भावः ॥ १०८१,१०८२ ॥

सत्यप्रमोदटीका

मरणेऽपि कालत्रयेऽपि । तेषु तद्धियां विशेष-वृत्तिधर्मप्रकारकधियाम् ॥ ब्रह्मणि चैतन्ये । दाढर्््याय घटत्वादिर् जडमात्र-वृत्तिधर्म इति निर्णयाय ॥ १०८१,१०८२ ॥

युक्तिमल्लिका

व्यावहारिकताऽप्येषां बाधादेव भवेत्तव ।

स च नैतेषु ते धर्मास्सन्तीत्याकारकोऽस्ति न ॥ १०८३ ॥

भावी च नासौ बाधस्तद्व्यावहारिकता कुतः ।

न ब्रह्मणीदमिति तु बाधौ नैतान्प्रबाधते ॥ १०८४ ॥

सुरोत्तमटीका

सः बाधः । एतेषु धर्मिषु न सन्तीति सम्बन्धः ॥ तत्तस्मात् ॥ १०८३,१०८४ ॥

सत्यप्रमोदटीका

एषां घटत्वादीनाम् । बाधादेवेति ‘बाध्यविषये व्यावहारिकमित्यस्य औतिपरिभाषामात्रसिद्धत्वादि’ ति कल्पतरूक्तेः । स च बाध एतेषु घटादिषु । ते धर्मा घटत्वादिधर्मा न सन्तीत्येवंरूपः नास्ति । तत् तस्माद्बाधाभावात् । कुत इति अतात्त्विकत्वं तु तेषामन्यतो बाधका-दवगन्तव्यमि’ति भामत्युक्तेः । ‘न ह्ययं सर्वप्रमाणसिद्धो लोकव्यवहारोऽ-न्यत्तत्त्वमनधिगम्य शक्यतेऽपह्नोतुम् इति परभाष्याच्च । (भे.प.ब्र.सू.१) ॥ न प्रबाधते भिन्नविषयत्वादिति शेषः ॥ १०८३,१०८४ ॥

युक्तिमल्लिका

अतो जडस्थरूपादिगुणानां कर्मणामपि ।

जात्यादीनां च सर्वेषामबाध्यत्वेन सर्वदा ॥ १०८५ ॥

व्यावहारिकताऽयोगात्तत्सत्त्वं ब्रह्मसत्त्ववत् ।

पारमार्थ्येनैव सत्त्वमभूत्सद्युक्तिसत्त्वतः ॥ १०८६ ॥

घटोऽपि ब्रह्मणि न चेन्मृत्कपाले भविष्यति ।

ब्रह्मण्यखिलबाधस्तु कस्य वा बाधको वद ॥ १०८७ ॥

कपाले नेति बाधस्तु नास्ति नापि भविष्यति ।

तद्धर्मिणां च सर्वेषामबाधात्स्वस्वधर्मवत् ॥ १०८८ ॥

व्यावहारिकताऽयोगात्पारमार्थ्यमभूद्बलात् ।

आपणस्थस्य रूप्यस्य शुक्तौ बाधेऽपि का क्षतिः ॥ १०८९ ॥

सुरोत्तमटीका

व्यावहारिकताऽयोगाद् धर्माणां धर्मिष्विव धर्मिणामपि घटपटादीनां कपालतन्त्वादिषु स्वसत्तादशायां नेति बाधाभावेन व्यावहारिक-ताया अयोगात् ॥ १०८५-१०८९ ॥

सत्यप्रमोदटीका

सद्युक्तिसत्त्वतो ऽबाध्यत्वरूपयुक्तिसामर्थ्यात् ॥ ब्रह्मणि घटो नेति धीः, कपाले घटोऽस्तीति धियः कथं बाधकं भिन्नविषय-कत्वादिति भावः । तथा च, धर्मिणः सत्या अबाधात् स्वस्वधर्मवद् इति प्रयोगमाह तदिति ॥ १०८५-१०९० ॥

युक्तिमल्लिका

अतो घटाद्यर्थधीषु भ्रमत्वं नैव शोभते ।

तद्धेतुभूतधर्माणां दोषत्वाशापि ते वृथा ॥ १०९० ॥

तस्मादाविद्यकत्वं च मृदुपादानकत्ववत् ।

प्रमात्वाप्रतिरोधित्वाद्दोषो नाभूद्विचारणे ॥ १०९१ ॥

सुरोत्तमटीका

तद्धेतुभूतधर्माणां तस्यां धर्मधर्मिधियि हेतुभूतधर्माणां त्वद्रीत्या हेतुभूतानामज्ञानोपादानकत्वादिधर्माणां समानप्रकारयोरेव बाध्य-बाधकत्वस्य लोके दर्शनादिहापि येनाकारेण यत्र यस्य प्रतीतिस्तेनैवाकारेण तस्य तत्र निषेधे बाधस्स्यान्नान्यथेत्येको भावः । नेह नानेति वाक्याज्जायमानो बाध ईदृश एव स्यात् । निरवकाशैतद्वाक्यसमाख्यया सावकाशमद्वितीयवाक्यमपि न विद्यते द्वितीयं यस्मिन्नित्येव विग्रहं लभते नान्यथा । चरमप्रतीतेर्द्विप्रकार-कत्वप्रसङ्गात् । अतस्त्वद्रीत्यैव न जगतो बाध इति भावः ॥ १०९०,१०९१ ॥

सत्यप्रमोदटीका

तस्मान् निर्दोषप्रमाणेन घटादीनां पारमार्थिकत्वस्य व्यवस्थापितत्वात् । अज्ञानस्य मिथ्यात्वं तु कफोणिगुडायितमिति भावः

॥ १०९१ ॥

युक्तिमल्लिका

प्रत्यक्षादिप्रमाणानां व्यावहारिकमानता ।

या परैरुदिता तां च युक्तिरेषा निषेधति ॥ १०९२ ॥

सुरोत्तमटीका

एतेनैतदपि निरस्तमित्याह ॥ प्रत्यक्षादिति ॥ व्यावहारिकमानता व्यावहारिकार्थविषयकप्रमाणता । एषा घटघटत्वादि-प्रतीतेर्भ्रमत्वानुपपत्तिरूपा प्रत्यक्षादिप्रमाणजन्याया भूतले घट इत्यादिप्रतीते-रुक्तविधया भ्रमत्वाभावे प्रमात्वे च सिद्धे प्रमाकरणानां च तेषां कुतो व्यावहारिकप्रमाणत्वमिति भावः ॥ १०९२ ॥

सत्यप्रमोदटीका

एषा युक्तिः प्रमाणदृष्टत्वयुक्तिः ॥ १०९२ ॥

युक्तिमल्लिका

अतस्साधकमानस्यैवादोषत्वमभूद्बलात् ।

बाधके वैयधिकरण्याख्यदोषेण दुष्टता ।

अतो बाधकमानस्य मानतैवापहीयताम् ॥ १०९३ ॥

सुरोत्तमटीका

अतः भ्रमजनकत्वाभावात् प्रमाजनकत्वाच्च । साधक-मानस्य घटादिसाधकप्रत्यक्षादिप्रमाणस्य । इदं च मेयघटादेरप्युपलक्षणम् । बलाद् युक्तिबलात् । भ्रमाख्यफलबलोन्नेयः करणदोषोऽर्थदोषश्च भ्रमे सत्येव कश्चित्कल्पनीयः । भ्रमाभावेऽपि तत्कल्पनाया अनुचितत्वाददोषत्वमिति भावः । बाधके प्रत्यक्षादिप्रमाणबाधकत्वेनाभिमते तवैक्यवाक्ये । वैयधि-करण्याख्यदोषेण दुष्टता वैयधिकरण्यं चैतन्यैक्यमात्रविषयत्वेन घटादिजड-प्रपञ्चसत्यत्वमिथ्यात्वास्पर्शित्वं तदाख्यदोषेण दुष्टता । भिन्नविषयत्वेन घटादिसत्यत्वग्राहकप्रत्यक्षाणां न बाधिका अतोऽपि न तेषां व्यावहारिक-प्रमाणत्वमिति भावः ॥ १०९३ ॥

सत्यप्रमोदटीका

बाधकमानस्य ‘नेहनानास्ति’ इत्यादिकस्य । वैयधि-करण्येति इह ब्रह्मणि नास्तीति विशिष्य निषेधस्य स्वस्वाधिकरणेष्वस्तीति शेषविध्यनुज्ञापकत्वेनाविरोधात् । मानहीनता जगतो मिथ्यात्वप्रतिपादनेऽ-सामर्थ्यादन्यार्थपरता

॥ १०९३ ॥

युक्तिमल्लिका

अथ मानाभावतोऽर्थाभावस्तेन च धीर्भ्रमः ।

भ्रमाच्च दोषो दोषेण मानताहीनतेति तु ।

अन्योन्याश्रयतस्तस्य कुरुते बोधहीनताम् ॥ १०९४ ॥

सुरोत्तमटीका

शङ्कते ॥ अथेति ॥ मानाभावः प्रत्यक्षादिप्रमाणानां शुक्तिरजतप्रत्यक्षवद् घटादिप्रत्यक्षाणां मानत्वाभाव इत्यर्थः । तेन प्रमाणा-भावप्रयुक्तप्रमेयाभावेन । धीर् घटादिधीः । भ्रमाद्दोषः करणदोषोऽर्थदोषश्च कश्चित्कल्प्यते । मानताहीनता प्रामाण्याभावः । दूषयति । अन्योन्याश्रयत इति । प्रत्यक्षादिप्रमाणानां प्रामाण्याभावे घटाद्यर्थाभावः । तदभावे च तद्धीर्भ्रमः । भ्रमेण च दोषः । दोषेण च प्रामाण्याभाव इति चक्रकगर्भा-न्योन्याश्रयत इत्यर्थः । तस्य एवं कल्पयतः ॥ १०९४ ॥

सत्यप्रमोदटीका

मानाभावातः प्रत्यक्षादीनां सत्त्वग्राहिणाम् अतत्त्वा-वेदकत्वादप्रमात्वादित्याशयः । चतुर्णामितरेतराश्रयत्वेऽपि विषयस्या-सत्त्वात्प्रत्यक्षादीनाम् अतत्त्वावेदकत्वं तत एव विषयासत्त्वम् इति अन्योन्याश्रय एव पर्यवसानम् । न च तर्हि भवतामप्यन्योन्याश्रयता । विषयसत्त्वे प्रामाण्यसिद्धिस् तसिद्धौ तत्सिद्धिरिति चेन्न । विषयसत्त्वस्य प्रमाणप्रवृत्तेः प्रागेव तत्प्रयोजकत्वेन सिद्धेः । तदुक्तं वादावल्यां ‘अन्यथा शशविषाणवत् प्रमाणप्रवृत्त्ययोगात्’ इति । विषयसत्त्वस्य प्रामाण्यं प्रत्यजनकत्वाच् च । तदुक्तं तर्कताण्डवे ‘तस्य (विषयसत्त्वस्य) अतीतादिविषयकानुमित्यादि-साधारण्येन प्रामाण्यशरीरान्तर्गतत्वेन च तदजनकत्वादि’ति । प्रत्यक्षस्य स्वभावतः प्रबलत्वेन मिथ्यात्वसाधनाय परोपन्यस्तप्रमाणानि बाधित्वा विषयसत्त्वव्यवस्थापनादित्यादिकमूह्यम्

॥ १०९४ ॥

युक्तिमल्लिका

ऐक्यायोगेन मिथ्यात्वं तत्त्वमर्थगतार्थयोः ।

विरुद्धयोः कथञ्चित्स्याद्विश्वाभावस्तु किंकृतः ॥ १०९५ ॥

सुरोत्तमटीका

प्रागुक्तं वैयधिकरण्यमेव विशदयति ॥ ऐक्येति ॥ तत्त्वमर्थगतार्थयोस् तत्त्वं पदार्थभूतजीवब्रह्मनिष्ठधर्माख्यार्थयोः॥ १०९५ ॥

सत्यप्रमोदटीका

ननु तत्त्वमसिवाक्यं तावदैक्यं बोधयति । न च तत् तत्त्वंपदबोध्यविरुद्धधर्माणां सत्यत्वे सम्भवति । तदर्थं विरुद्धधर्ममिथ्यात्व-मास्थेयमिति चेदस्तु तावत् । न तावताऽपि सर्वजगन्मिध्यात्वसिद्धिरित्याह ऐक्येति । कथञ्चिदित्यनास्था । वस्तुतो निर्दोषश्रुतिसाक्षिसिद्धधर्माणां मिथ्यात्वायोग एवेति भावः ॥ १०९५ ॥

युक्तिमल्लिका

सर्वं मिथ्येति सर्वस्य मिथ्यात्वप्रतिपादिका ।

न हि वागस्ति तेनायं विश्वाभावः कुतोऽपतत् ॥ १०९६ ॥

सुरोत्तमटीका

तेन ऐक्यवाक्यस्य भिन्नविषयत्वेन घटादिकं मिथ्येति वाक्याभावेन च ॥ १०९६ ॥

सत्यप्रमोदटीका

तेन अप्रामाणिकत्वेन प्रमाणविरुद्धत्वेन च ॥१०९६॥

युक्तिमल्लिका

वाक्यं च नाक्षसिद्धस्य बाधकं स्यादितीरितम् ।

अन्यथा लक्षणावृत्तेः शिक्षणं स्याद्विचारय ॥ १०९७ ॥

सुरोत्तमटीका

ईरितं प्रागेवोक्तमित्यर्थः ॥ १०९७ ॥

सत्यप्रमोदटीका

ईरितं ‘न हि प्रत्यक्षसिद्धमन्येन केनापि बाध्यं दृष्टं’ इति तत्त्वोद्योते समर्थितम् ॥ १०९७ ॥

युक्तिमल्लिका

यदा ब्रह्मणि नेत्यद्या वाग्वा धीर्वा तदुद्भवा ।

सखण्डा सप्रकारापि सोपादानस्थधर्मिणाम् ।

धर्मिस्थानां च धर्माणां बाधिका नाभवत्तदा ॥ १०९८ ॥

सुरोत्तमटीका

एकमेवाद्वितीयमित्यादिवाक्यानामपि भिन्नविषयत्वं प्रदर्शयति ॥ यदेति ॥ यदुद्भवा वाक्योद्भवा । सखण्डा वाक् । सप्रकारा धीरिति विवेकः । अपिपदेन अखण्डत्वे निष्प्रकारत्वे च सुतरामिति सूचयति । धर्मिस्थानां भूतलादिधर्मिस्थानाम् । भिन्नविषयत्वादिति भावः ॥ १०९८ ॥

सत्यप्रमोदटीका

न बाधिका भिन्नविषयत्वादेव ॥ १०९८ ॥

युक्तिमल्लिका

अखण्डार्थानि वाक्यानि निष्प्रकारकधीश्च ते ।

कं बोधयेत्कं कमर्थं बाधयेद्वा विचारय ॥ १०९९ ॥

सुरोत्तमटीका

अपिपदेन सूचितमर्थं स्पष्टमाह ॥ अखण्डेति ॥१०९९॥

सत्यप्रमोदटीका

वाक्यत्वं प्रति संसर्गविषयकत्वस्य, ज्ञानत्वं प्रति सप्रकारकत्वस्य च व्यापकत्वेन वाक्यस्य वाक्यत्वं ज्ञानस्य च ज्ञानत्वं दुर्घटम् इति दूरे तयोर्बाधकत्वमित्याशयः । बाधकत्वे भ्रमकालीनापरोक्षबुध्यविषय-विशेषविषयकत्वस्य तन्त्रत्वादिति भावः ॥ १०९९ ॥

युक्तिमल्लिका

तस्मात्साधकमानस्य हीनता मरणेऽपि न ।

अविद्यावद्विषयता नाभूदेवं विचारणे ॥ ११०० ॥

सुरोत्तमटीका

तस्मात् क्लृप्तदोषाभावात् । कल्पकाभावेन कल्प्यदोषा-भावाच्च । साधकमानस्य घटादिसाधकमानस्य । नाभूद् दोषो नाभूत् । एवं पूर्वोक्तरीत्या ॥ ११०० ॥

सत्यप्रमोदटीका

मरणेऽपि कालत्रयेऽपि । प्रत्यक्षस्य निरपवादेन त्रिकालाबाध्यताग्राहकत्वात् ॥ ११०० ॥