१४ परमार्थसत एव साधकत्वसमर्थनम्

क्षीरं पिबसि तृप्तस्य सुखं साक्षी प्रपश्यति

परमार्थसत एव साधकत्वसमर्थनम्

युक्तिमल्लिका

क्षीरं पिबसि तृप्तस्य सुखं साक्षी प्रपश्यति ।

स्वप्रसूः किल माता न कथं पिबसि निन्दसि ॥ ८०१ ॥

सुरोत्तमटीका

किञ्च विश्वमिथ्यात्ववादस्तवैवानुभवविरुद्ध इत्याह ॥ क्षीरमिति ॥ प्रसूः प्रसवित्री । स्वपोषकत्वात् क्षीरस्य स्वप्रसूत्वमुक्तम् । निन्दामि च पिबामि चेति दुर्नीतिरपि त्वय्येव दृष्टेत्याह ॥ कथमिति ॥ कर्मणा पिबसि वाचा मिथ्येति निन्दसीत्यर्थः । प्राक्स्वन्यायविरोध उक्तः । मध्ये स्वानुभवसिद्धसुखदातृतया स्वपोषकक्षीरस्य पोषकत्वोक्तया मिथ्या-त्वोक्तया च माता वन्ध्येतिवत्स्ववचनविरोधः । अन्ते स्वक्रियाविरोधश्चोक्त इति द्रष्टव्यम् ॥ ८०१ ॥

सत्यप्रमोदटीका

मिथ्यात्वं वदंस्त्वमेव स्ववाङ्मनसविसंवादं कुरुष इत्याह क्षीरमिति । यथाऽह स्वयमेव बौद्धमतखण्डनावसरे ‘यथा हि कश्चिद् भुञ्जानः, भुजिसाध्यायां तृप्तौ स्वयमनुभूयमानायामेवं ब्रूयान् नाहं भुञ्जे न वा तृप्यामीति कथमुपादेयवचनः स्यादिति (भे.प.ब्र.सू., शां.भा.२ २२८) ॥ ८०१ ॥

युक्तिमल्लिका

असत्त्वमेव मिथ्यात्वं मम सर्वस्य संमतम् ।

अपसिद्धान्तदोषेण न तत्साध्यं भवेत्तव ॥ ८०२ ॥

सुरोत्तमटीका

मम मते । सर्वस्य शुक्तिरजतादेश्शशविषाणादेश्च । तद् असत्त्वरूपमिथ्यात्वम् । ननु सार्वदेशिकसार्वकालिक निषेधप्रतियोगित्व-रूपमसत्त्वं न मदभिमतमिथ्यात्वम् । येन तत्साधने अपसिद्धान्तस्स्यात् । किंतु प्रतिपन्नोपाधौ त्रैकालिकनिषेधप्रतियोगित्वमेव । इदं च प्रतिपन्नस्य रजतस्योपाधौ शुक्तिशकले त्रैकालिकनिषेधप्रतियोगित्वरूपमिति निरुपाख्या-दसतो व्यावृत्तम् । अतो नापसिद्धान्त इति चेद् अत्रापि प्रष्टव्यम् । प्रतिपन्नस्य यस्य कस्यचिद्रजतस्य वा अनुभूयमानारोपे पुरतः प्रतीतस्य वा उपाधौ त्रैकालिकनिषेध उत शुक्तितया प्रतिपन्नस्यरजतस्य । नाद्यः केन-चिदानीतस्यैव रजतस्य शुक्तिशकलोपरि निक्षेपे सति सत्त्वसम्भवेनोक्त-निषेधस्यायुक्ततया दृष्टान्तस्य साध्यवैकल्यप्रसङ्गात् । पक्षे च सर्वाधारे ब्रह्मणि प्रतिपन्नस्य जगतः घटाधारभूतले प्रतीतघटस्येव निषेधासम्भवेन बाधाच्च ।

न द्वितीयः । शुक्तितया प्रतीतस्य शुक्तयात्मकरजतस्य सार्वदेशिक-सार्वकालिकनिषेधप्रतियोगित्वेन सदा सर्वत्राप्यसतश्शशशृृङ्गादविशेषेण तादृश-मिथ्यात्वसाधने पुनरपसिद्धान्ततादवस्थ्यात् । उपाधाविति विशेषणस्य वैयर्थ्याच्च । न च वाच्यमुक्तनिषेधप्रतियोगित्वेऽप्यपरोक्षतया प्रतीतत्वान्ना-सत्त्वमिति । गन्धवत्त्वरूपपृथिवी लक्षणवत्त्वेन समयोर्घटपरमाण्वोः प्रत्यक्षा-प्रत्यक्षपार्थिवरूपत्ववज्जगच्छशशशृृङ्गयोरप्युक्तनिषेधप्रतियोगित्वसाम्ये प्रत्यक्षा-प्रत्यक्षासद्रूपत्वस्यैव प्राप्तत्वेनासत्त्वापरिहारात् । निरुपाख्यपदेनैवं ख्यायमान-तया प्रतीयमानतया च निरुपाख्यत्वमसत्त्वमिति वदताऽप्यप्रत्यक्षत्वमेव निरुपाख्यत्वं वक्तव्यम् । तच्चातीन्द्रियधर्मादौ गतत्वान् नासत्त्वोपयोगि । किंतूक्तनिषेध एव तद्विषयत्वे च कथमसत्त्वपरिहारः । पारमार्थिकत्वेन तादृशनिषेधप्रतियोगित्वसाधनान्नापसिद्धान्त इति चेन्न । परमार्थतो जगत्सदा सर्वत्र नास्तीत्याकारकश्रुतेरभावेन श्रुतिजन्यतादृशबाधस्याप्यविद्यमानतया एतादृशनिषेधप्रतियोगित्वसाधने पुनर्बाधप्रसङ्गात् । दृष्टान्तेऽपि नेदं रजतमित्येव बाधदर्शनेन साध्यवैकल्याच्च । यदि च भ्रमकालेऽयं घट इत्याद्याकारेण ब्रह्मतया प्रतीतं जगद् उक्तनिषेधप्रतियोगीति साध्यते तदा प्रतिवादिमते एतादृशजगतोऽप्रसिद्धत्वादाश्रयासिद्धिः । तदभावसाधनस्येष्टत्वात्सिद्धसाधनता च । अनारोपितजगतोऽप्रतिषेधेन परस्यार्थान्तरता च स्यात् ॥ ८०२ ॥

सत्यप्रमोदटीका

किं च साध्यं मिथ्यात्वम् असत्त्वं चेदपसिद्धान्तः । असद्वैलक्षण्याङ्गीकारादित्याह अप्रसिद्धेति । स्वमतेन पक्षघटकं विशेषण-मप्रसिद्धं स्यादिति भावः । न च वाच्यं प्रतिपन्नोपाधाविति विशेषणान्न दोष इति । ‘का चेयं प्रतिपन्नता नाम । प्रमाणप्रतिपन्नता, भान्तिप्रतिपन्नता वा । नाद्यः । प्रमाणप्रतिपन्नस्य त्रिकालदेशनिषेधसाध्यप्रसङ्गात् । द्वितीये वक्तव्यं कोऽयं निषेधः । अभाववेदनं सद्विविक्तत्ववेदनं वा । नाद्यो ऽत्यन्तासत्त्वा-पातात् । न द्वितीयः । तस्यैवाद्याप्यनिरूपणात्’ इति वादावल्युक्तदूषणेन दृष्टत्वात् ॥ ८०२ ॥

युक्तिमल्लिका

अन्यत्सदसतोरन्यदित्याद्यं सर्वमेव हि ।

ममाप्रसिद्धं तद्धेतुरप्रसिद्धविशेषणः ।

दृष्टान्तस्साध्यविकलः किं हेतुशतकेन ते ॥ ८०३ ॥

सुरोत्तमटीका

अन्यद् असत्वादन्यन्मिथ्यात्वम् । सदसतोरन्यत्सद-सद्विलक्षणम् । आद्यपदेन स्वात्यन्ताभावसमानाधिकरणत्वज्ञानविनाश्यत्वादिकं गृह्यते । तत् तस्मात् । हेतुशतकेन जडत्वात्परिच्छिन्नत्वादित्यादिना हेतु-शतकेन । हेतुशतकस्यापि मिथ्यात्वं खलु साध्यम् । तच्चोक्तविधया एकं तव नाभूत् । अन्यदन्यस्याप्रसिद्धम् । एवं च मृतपुत्ररक्षणाय पितॄणां शतेनापि नालमिति भावः ॥ ८०३ ॥

सत्यप्रमोदटीका

ननु मिथ्यात्वं नासत्त्वं येनापसिद्धान्तः किन्तु अन्य-देवेत्याशङ्क्य निराह अन्यदिति । तस्यैव विवरणं सदसतोरन्यदित्याद्यमिति । आद्यपदेन स्वात्यन्ताभावसामानाधिकरणत्वादिकं ग्राह्यम् । अप्रसिद्धम् इति पररीत्या । स्वमते व्याघात एव दोषः । दृष्टान्त इति । तत्रासत्त्वस्यैव सत्त्वात् । किमिति व्याप्तिग्रहस्यैवासम्भवादिति भावः ॥ ८०३ ॥

युक्तिमल्लिका

परोक्षज्ञानमसति शब्दादस्तीति ते मतम् ।

तच्च खण्डपदं शक्तिग्रहे सत्येव बोधयेत् ।

शक्तसम्बद्धमथवा नासम्बद्धार्थबोधकम् ॥ ८०४ ॥

सुरोत्तमटीका

सच्चेन्न बाध्येत असच्चेन्न प्रतीयेतेति शुक्तिरजते सदसद्वै-लक्षण्यप्रसिद्धिसंपादनायार्थापत्तिं वदता प्रतीत्या असद्वैलक्षण्यं शुक्तिरजतादौ परेणोच्यते । तत्र परोक्षप्रतीत्या वा अपरोक्षप्रतीत्या वेति विकल्प्योभयथापि तव नासद्वैलक्षण्यसिद्धिरित्याह ॥ परोक्षेति ॥ अत्यन्तासत्यपि ज्ञानमर्थे शब्दः करोति हीति तद्वचनादिति भावः । तद्बोधकवाक्यस्थितं खण्डपदम् । शक्तिग्रहे योग्येतरान्वितस्वार्थाभिधायकत्व रूपशक्तिग्रहे । अमुख्यवृत्त्या बोधकं चेत् शक्येन मुख्यार्थेन सम्बद्धन्तीरादिकं बोधयेदिति सम्बन्धः ॥ ८०४ ॥

सत्यप्रमोदटीका

‘न चार्थापत्त्याऽनिर्वचनीयसिद्धिः । असतः प्रतीतिं विना असद्वैलक्षण्यज्ञानासिद्धेः’ इति भगवत्पादोक्तिं समर्थयते परोक्षज्ञान-मसतीत्यादिना । न तावदसतः प्रतीतिरेव नास्ति इति वक्तुं शक्यम् । अज्ञाते धर्मिणि प्रतीतिविषयत्वरूपधर्मस्य निषेधायोगात् । यथोक्तं ‘न ह्यज्ञाते धर्मिणि कस्यचिद्धर्मस्य विधानं वा निषेधो वा युज्यत’ इति । येन पुंसा शशशृङ्गाभावो न निश्चितस् तेन गोशृङ्गमस्तीति वाक्यादिव शशशृङ्गमस्तीति वाक्यादपि बोधस्यानुभवसिद्धत्वात् । अङ्गीकृतश्च परेणापि । यथाऽऽह–

अत्यन्तासत्यपि ह्यर्थे शब्दो ज्ञानं करोति हि ।

अबाधात्तु प्रमामत्र स्वतःप्रामाण्यनिश्चलाम् ॥ इति ।

करणानि ज्ञानजननायावश्यमर्थेन प्रत्यासत्तिमपेक्षन्ते । अन्यथाऽति-प्रसङ्गादित्याह तच्चेति । खण्डपदमिति । वाक्यघटकं वा वाक्यतुल्ययौगिक-पदघटकं वा इत्यर्थः ।सम्बद्धमिति उपलक्षणम् । सादृश्यवदित्यपि ग्राह्यम् । तेन गौणीवृत्तिसंग्रहः॥८०४ ॥

युक्तिमल्लिका

पदद्वयात्मकं वाक्यं समस्तं वा पदं भवेत् ।

योग्यताऽऽवश्यकी तत्र सापि शक्यार्थसङ्गतिः ॥ ८०५ ॥

सुरोत्तमटीका

समस्तं पदद्वयसमासघटितम् । यथा सरसीरुहमिति पदम् । द्विविधवाक्येऽप्यर्थपदयोस्साक्षाद्वाच्यवाचकभावसम्बन्धो वाऽर्थद्वारा सम्बन्धो वाऽपेक्षितः । सर्वथाऽसम्बद्धार्थज्ञानजनकत्वं न वाक्यस्यापीति भावः । प्रयोजकान्तरमप्याह ॥ योग्यतेति ॥ सा योग्यता । शक्यार्थसङ्गतिः शक्यार्थयोः परस्परसम्बन्धः ॥ ८०५ ॥

सत्यप्रमोदटीका

द्वयेति । अनेकेत्यर्थः । समस्तेति यौगिकेत्यर्थः । आवश्यकी शब्दप्रमायां वर्तते । न तु प्रमां प्रति कारणम् । शक्यार्थसङ्गतिः पदबोध्यार्थानाम् अन्वयः ॥ ८०५ ॥

युक्तिमल्लिका

असम्बद्धार्थबोधस्तु न शब्दादपि जायते ।

असतस्सर्वशून्यस्य कथं शब्दोऽपि बोधकः ॥ ८०६ ॥

सुरोत्तमटीका

असम्बद्धार्थबोध इत्यत्र सम्बन्धपदेन साक्षाच्छब्दार्थ-योरर्थयोस्सम्बन्धोऽर्थद्वारा सम्बन्ध इति त्रितयं गृह्यते । तत्र साक्षा-त्सम्बन्धेनार्थबोधकमुख्यवाक्ये परम्परासम्बन्धेनार्थबोधकामुख्यवाक्ये चार्थयो-र्मिथस्सम्बन्धात्मिका योग्यतोभयत्राप्यपेक्षितेति विवेको द्रष्टव्यः । सर्वशून्यस्य सम्बन्धत्रयशून्यस्य । शब्दः शशस्य विषाणमिति भिन्नपदात्मको वा शश-विषाणमिति समस्तपदात्मको वा । शशशृृङ्गस्य साक्षाच्छब्दसम्बन्धाभावाद् अर्थद्वारा सम्बन्धाभावात् शशविषाणपदार्थभूतयोर्विषाणशशयोर्मिथस्सम्बन्धा-भावाच्च कथं शब्दबोध्यतेति भावः ॥ ८०६ ॥

सत्यप्रमोदटीका

शब्दादपि न केवलं प्रत्यक्षानुमानाभ्याम् । असम्ब-द्धेति । शाब्दबोधस्थले पदार्थयोः, आर्थिकार्थस्थले अर्थयोः, परस्पर-सम्बन्धरहितेत्यर्थः ॥ ८०६ ॥

युक्तिमल्लिका

यदि दोषवशाच्छब्दो बोधयेत्तदसङ्गि च ।

असन्निकृष्टमेवास्तु शुक्तौ रजतमप्यसत् ।

दोषोपोद्बलितं चक्षुर्गृह्णीयादविशेषतः ॥ ८०७ ॥

सुरोत्तमटीका

अथ सम्बन्धाभावेऽपि अयोग्यार्थकपदयोस्सहो-च्चारणाख्यदोषवशादसम्बद्धस्यापि शशविषाणस्य भ्रान्तिश्चेद् असतश्शुक्ति-रजतस्याप्यसम्बद्धस्यैव दोषवशादपरोक्षभ्रमोऽप्यस्त्वित्याह ॥ यदीति ॥ तत् शशशृृङ्गम् । असदप्यस्त्विति सम्बन्धः

॥ ८०७ ॥

सत्यप्रमोदटीका

शब्दजन्ये शशशृङ्गमस्तीति भ्रमे योग्यताऽज्ञानाद् योग्यताभ्रमाद्वा दोषाद्विपरीतान्वयबोधो जायते । दोष एव तत्र सन्निकर्ष-कार्यकार इति भावः ॥ एवं चापरोक्षभ्रमस्थलेऽपि दोषवशादसन्निकृष्टस्यापि रजतस्योल्लेखः सम्भवतीति भावः । अविशेषतः । दोषस्येति शेषः । परोक्ष-भ्रमे दोषः योग्यताभ्रमादिर् अपरोक्षभ्रमे तु सादृश्यादिरित्यन्यदेतत् ॥ ८०७ ॥

युक्तिमल्लिका

अपरोक्षप्रतीत्या तन्नासत्त्वं तस्य गच्छति ।

क्वचिद्भवति शास्त्रार्थः क्वचिन्नेति कथं वद ॥ ८०८ ॥

सुरोत्तमटीका

तत् तस्मात् । असतोऽपि दोषवशात् परोक्षप्रतीतिवद् अपरोक्षप्रतीतेरपि सम्भवात् । तस्य शुक्तिरूप्यस्य ॥ ८०८ ॥

सत्यप्रमोदटीका

क्वचिद् एकमेव वस्तु अन्याकारेण परोक्षप्रतीतौ, अपरोक्षप्रतीतौ च भासत इत्यनुभवः । तथा चासत एवान्याकारस्य सत्त्वेन परोक्षप्रतीतेः स्वीकारो ऽपरोक्षप्रतीतेः पुनर्निषेधः निर्निबन्धनः । अर्थासत्त्व-स्योभयत्र साम्यादित्याह अपरोक्षेति ॥ ८०८ ॥

युक्तिमल्लिका

भूतले घटनास्तित्वं चक्षुषा दृश्यते यदा ।

प्रतियोगी कथं तत्रासन्निकृष्टोऽपि दृश्यते ॥ ८०९ ॥

सन्निकृष्टसता साकं तत्सत्त्वे नास्तितैव न ।

अनन्यगत्या तन्मात्रे नियमस्त्यज्यते यदि ॥ ८१० ॥

न शुक्तिरूप्यसत्त्वे स्याद्भ्रमता लोकसंमता ।

अनन्यगत्या तद्भ्रान्तौ सन्निकर्षोऽपि नेष्यताम् ॥ ८११ ॥

सुरोत्तमटीका

युक्त्यन्तरेणाप्यसम्बद्धार्थापरोक्षप्रतीतिमनुभावयति ॥ भूतल इति ॥ प्रतियोगी घटः ॥ तत्सत्त्वे प्रतियोगिसत्त्वे । अनन्यगत्या प्रतियोगि-सत्त्वसापेक्षचक्षुस्सन्निकर्षापेक्षायामभावस्यैवाभावप्रसङ्गात् सन्निकर्षाख्यगत्य-योगेनेत्यर्थः । तन्मात्रे अभावप्रतियोगिमात्रे । नियमः सन्निकर्षनियमः । प्रकृतेऽपि सममित्याह ॥ नेति ॥ तत् तस्मात् । सन्निकर्षापेक्षायां शुक्ति-रूप्यस्यापि सत्त्वप्रसङ्गात् ॥ ८०९–८११ ॥

सत्यप्रमोदटीका

चक्षुषेति । ‘क्वचिद् घटाद्यभावोऽपि प्रत्यक्षेणैव गम्यत’ इत्युक्तेः । तत्र प्रतियोगिनो घटस्य ज्ञानोल्लेख्यत्वेऽपि न चक्षुषः सन्निकर्षोऽस्ति । तथा च ज्ञानस्य तदुल्लेखित्वे तत्सन्निकृष्टकरणजन्यत्वं तन्त्रम् इति नियमस्तत्र त्वयैव त्याज्य इत्याह भूतल इति । परमुखेन समाधिं वाचयित्वा समं भ्रमस्थलेऽपीत्याह सन्निकृष्टेति । सता भूतलेन । तत्सत्त्वे घटसत्त्वे । नास्तितैव न अभावबुद्धिरेव न स्यात् । अनन्यगत्या असन्निकर्षा-दन्या गतिः सन्निकर्षस् तस्यायोगेन ॥ समः समाधिरित्याह नेति । रूप्यस्यापि सन्निकृष्टत्वे सत एव सत्त्वेन भानमित्यापत्त्या भ्रान्तिव्यवहारलोप-प्रसङ्ग इत्याह भ्रमतेति । सतोऽसत्त्वेन, असतः सत्त्वेन च प्रतीतेरेव भ्रान्तित्वादिति भावः ॥ ८०९–८११ ॥

युक्तिमल्लिका

अतिप्रसङ्गदोषं तु दोष एवापनेष्यति ।

प्रतिमल्लं यथा मल्लस्तदसत्त्वेऽपि का क्षतिः ॥ ८१२ ॥

सुरोत्तमटीका

अतिप्रसङ्गदोषम् असम्बद्धत्वाविशेषात् शुक्तिरजतभ्रमवद् रज्जुसर्पभ्रमोऽप्यस्त्विति दोषम् । दोषो ऽधिष्ठानस्य रजतसादृश्याख्यदोषः । तत् तस्मात् । उक्तरीत्या असतोऽप्यपरोक्षप्रतीतिसम्भवात् ॥ ८१२ ॥

सत्यप्रमोदटीका

अतिप्रसङ्गेति । घटसन्निकृष्टेन चक्षुषा पटादिज्ञान-रूपेत्यर्थः । दोषः सादृश्यादिः ॥ ८१२ ॥

युक्तिमल्लिका

असद्रजतमेवेति ह्यनुभूतिर्बलीयसी ।

न चेत्तव मते साक्षी तत्साक्षात्कुरुते कथम् ॥ ८१३ ॥

असन्निकृष्टतज्ज्ञाने चक्षुषोऽप्यस्तु सा गतिः ।

सन्निकर्षे त्वर्थसत्त्वात्तज्ज्ञानं न भ्रमो भवेत् ॥ ८१४ ॥

सन्निकर्षेण चक्षुश्च कुतस्तन्न प्रकाशयेत् ।

तमो हि चक्षुषा दृश्यं केवलाविद्यकं च ते ॥ ८१५ ॥

सुरोत्तमटीका

नेयं स्वकपोलकल्पनेत्याह ॥ असदिति ॥ हिशब्देन एतादृशानुभवस्य सर्वजनप्रसिद्धतां सूचयति । तस्मादनुभवकलहोऽपि नास्तीति भावः । प्रतिबन्द्यन्तरं चाह ॥ न चेदिति ॥ तत् स्वासम्बद्धशुक्तिरूप्यम् । साक्षिणोऽपि परसम्बन्धिसुखाद्यग्रहणेन सम्बन्धसापेक्षत्वनियमादिति भावः ॥ सन्निकर्षे तु साक्षिणश्शुक्तिरजतस्य च सन्निकार्षाङ्गीकारे । तज्ज्ञानं शुक्ति-रजतज्ञानम् ॥ ननु केवलाविद्यकत्वाच्छुक्तिरजतस्य न चाक्षुषत्वमित्यत आह ॥ तम इति ॥ ८१३–८१५ ॥

सत्यप्रमोदटीका

‘असदेव रजतं प्रत्यभाद् इत्युत्तरकालीनानुभवात् शुक्तिरेवात्यन्तासद्रजतात्मना प्रतिभातीत्याचार्याः’ इति पद्धत्युक्तमाह असदिति । किं च शुक्तिरूप्यादिप्रातिभासिकपदार्थानां भानं साक्षिणैवेति वदता त्वयैव सन्निकर्षनियमः परित्यक्त इत्याह साक्षीति । तत्रापि सन्निकर्षाङ्गीकारे रजत-स्यापि सत्त्वापत्तिश् चक्षुषाऽपि तद्ग्रहणापत्तिश्चेत्याह सन्निकर्षे त्विति । चक्षुश्चेति च । न चाविद्यकत्वाद्रूप्यस्य चक्षुषा भानायोगः । तथाभूतस्यापि तमसश्चक्षुषा भानाङ्गीकारादित्याह तमो हीति॥८१३–८१५ ॥

युक्तिमल्लिका

शशस्य शृृङ्गिताऽभावं यो न जानाति दूरतः ।

स तु कर्णद्वयं दृष्ट्या शशशृृङ्गं च चक्षुषा ।

किं न प्रत्येत्यसत्तस्मादापरोक्षिकमेव हि ॥ ८१६ ॥

सुरोत्तमटीका

प्रकारान्तरेणाप्यसतोऽपरोक्षप्रतीतिमनुभावयति ॥ शश-स्येति ॥ कर्णद्वयं शृृङ्गाकारं शशकर्णद्वयम् । शशशृृङ्गं शशशृृङ्गमिति ऊर्ध्वी-भूतशशकर्णयोरिमे शशशृृङ्गे इति भ्रमश् चक्षुषैव जायत इत्यर्थः । तस्माद् उक्तविधया चक्षुषैव शशशृृङ्गभ्रमस्यानुभवसिद्धत्वात् । आपरोक्षिकम् अपरोक्ष-भ्रमयोग्यम् ॥ ८१६ ॥

सत्यप्रमोदटीका

असतः सत्त्वेनापरोक्षप्रतीतिविषयतां स्थलान्तरेऽनु-भावयति शशस्येति । कर्णद्वयमिति । तस्य शृृङ्गद्वयेन ऊर्ध्वत्वरूपसादृश्य-सद्भावादिति भावः । न जानातीति बाधानुसन्धानाभावः । तथा च प्रत्यक्षभ्रमसामग्री सर्वाऽप्यविकलेति भावः ॥ ८१६ ॥

युक्तिमल्लिका

प्रातिभासिकनामापि यदि तस्य प्रदीयते ।

प्राग्जातस्य कुमारस्य तन्नामकरणान्तरम् ॥ ८१७ ॥

सुरोत्तमटीका

ननु प्रतीतं शशशृृङ्गमपि प्रातिभासिकमिति मम मतम् । अतः कथम् असतोऽपरोक्षप्रतीतिरिति चेत् । सत्यम् । प्रतीतत्वे प्राति-भासिकत्वं वदता प्रतीतिः कस्येत्युक्ते असत इत्येवोत्तरं वक्तव्यम् । प्रतीतिसमसमयवर्तिनो वा प्रतीत्युत्तरकालीनस्य वा प्रातिभासिकस्य प्रतीतेः प्रागभावात् । अतः कथं नासतः प्रतीतिरित्याह ॥ प्रातिभासिकेति ॥ तस्य शशशृृङ्गस्य ॥ ८१७ ॥

सत्यप्रमोदटीका

नामेति । प्रतीतस्यासतः प्रातिभासिकेति त्वत्परि-भाषामात्रेण न प्रतीतिरपलापार्हा इत्याह प्रागिति ॥ ८१७ ॥

युक्तिमल्लिका

असतश्शशशृङ्गस्य प्रत्यक्षेण भ्रमे सति ।

प्रातिभासिकता स्याच्चेत्प्राग्धीरसत एव सा ॥ ८१८ ॥

सुरोत्तमटीका

प्राक् प्रातिभासिकनामकरणात्पूर्वम् । तस्मादसतः परोक्षयाऽपरोक्षया च भ्रान्त्या विषयीकरणसम्भवेनासच्चेन्न प्रतीयेतेति व्याप्त्य-सम्भवान् नार्थापत्त्यापि सदसद्वैलक्षण्यसिद्धिरिति भावः ॥ ८१८ ॥

सत्यप्रमोदटीका

असत इति । परोक्षभ्रमे असदित्यङ्गीकृतस्य तस्यैव अपरोक्षभ्रमोत्पत्तौ प्रातिभासिकेति नामान्तरकरणमात्रेण न अपरोक्षतः प्रतीतस्य असत्त्वम् अपगच्छतीत्याशयः ॥ ८१८ ॥

युक्तिमल्लिका

अर्थाभावकृतासत्त्वं कस्तदा तस्य मोचयेत् ।

मिथ्यात्वसाधिका दृष्टिः किं तेऽर्थाभावबाधिका ॥ ८१९ ॥

सुरोत्तमटीका

पराङ्गीकृतप्रातिभासिकतादशायामपि शशशृृङ्गादेरसत्त्वं युक्त्या साधयति ॥ अर्थेति ॥ तदा प्रतीतिदशायाम् । तस्य प्रतीयमान-शशशृृङ्गस्य । तत्रापि परेण दृश्यत्वतः प्रातिभासिकत्वरूपमिथ्यात्वसाधनान् मिथ्यात्वसाधिकेत्युक्तम् ॥ ८१९ ॥

सत्यप्रमोदटीका

अर्थाभावेति । अध्यस्ततुच्छयोरुभयोरपि लक्षणेऽर्था-भावस्य साम्यादिति भावः । यथोक्तं न्यायामृते–

त्रिकालसर्वदेशीयनिषेधाप्रतियोगिता ।

सत्तोच्यतेऽध्यस्ततुच्छे तं प्रति प्रतियोगिनी ॥ इति ॥ ८१९ ॥

युक्तिमल्लिका

सत्त्वप्रतीतिर्भ्रान्तिश्चेदसत्त्वे सति शोभते ।

प्रमारूपा च सा नास्ति किं तस्यासत्त्वमोचकम् ॥ ८२० ॥

सुरोत्तमटीका

भ्रान्तिकालीनसत्त्वप्रतीत्याऽसत्त्वबाधकशङ्कां परिहरति ॥ सत्त्वेति ॥ भ्रान्तिश्चेदिति । तदभाववति तत्प्रकारकत्वस्य भ्रान्तित्वात् सत्त्वाभावासत्त्वयोश्च पर्यायत्वादिति भावः । प्रमा चेत्स्यादपि बाधिका । सा तु नास्तीत्याह ॥ प्रमेति ॥ सा सत्त्वप्रतीतिः । तस्य प्रतीयमानशशशृृङ्गस्य ॥ ८२० ॥

सत्यप्रमोदटीका

सत्त्वेन प्रतीयते अतो नासत्त्वम् इति चेत् किं सा प्रतीतिर् भ्रान्तिर् उत प्रमा । नाद्यस् तस्या असत्त्वसाधकत्वेन बाधकत्वा-योगात् । सत एव सत्त्वेन प्रतीतौ भ्रान्तित्वायोगात् । अनिर्वचनीयार्थाभासो भ्रम इति तु अनवस्थापराहतम् । न द्वितीयस् तदभावादेव । प्रमायां विषयस्य बाधानुपपत्तेः ॥ ८२० ॥

युक्तिमल्लिका

असन्निकृष्टदृष्टिस्तु समा पक्षद्वयेऽपि ते ।

परिणामात्परीहारे त्रिकाल्यां बाध्यता गता ॥ ८२१ ॥

सुरोत्तमटीका

पक्षद्वये प्रातिभासिकत्वपक्षे असत्त्वपक्षे च । ननु प्रतीतिदशायाम् अविद्यापरिणामरूपत्वात् कथमसत्त्वमित्यत आह ॥ परिणा-मादिति ॥ वर्तमानदशायां सत्त्वप्रसङ्गेन बाधायोगादिति भावः ॥ ८२१ ॥

सत्यप्रमोदटीका

पक्षद्वये असत्त्वपक्षे प्रातिभासिकसत्त्वपक्षे च । प्रतिभासमात्रशरीरस्य प्रातिभासिकस्य प्रतिभासात्पूर्वमभावेन सन्निकर्षा-सम्भवादिति भावः । परिणामादिति अविद्योपादानत्वाङ्गीकारादिति भावः । बाध्यता त्रैकालिकनिषेधः भ्रमकाले सत्त्वस्य कालत्रयासत्त्वविरोधित्वादिति भावः । तदुक्तं वादावल्याम् । ‘पदार्थस्यासत्त्वेन तदुपादानताया असम्भवि-त्त्वादि’ति ॥ ८२१ ॥

युक्तिमल्लिका

पूर्वं च नासच्छृङ्गं स्यादनुत्पन्नघटादिवत् ।

विद्युद्बुद्बुदधीकल्पा धीश्च तस्य प्रमा भवेत् ॥ ८२२ ॥

सुरोत्तमटीका

दूषणान्तरं चाह ॥ पूर्वमिति ॥ प्रतीतिदशायां शशशृृङ्गस्योत्पन्नत्वे पूर्वं प्रागभावप्रतियोगित्वमेव स्यात् । नात्यन्तासत्त्वमिति भावः । तस्य शशशृृङ्गस्य । तदानीमेवोत्पन्नविनष्टत्वाङ्गीकारादपि न भ्रान्तित्वमिति सूचनाय निदर्शनम् ॥ ८२२ ॥

सत्यप्रमोदटीका

उत्पद्य विनष्टत्वे घटादिवत्सत्यतैव स्यात् तद्धीश्च विद्युदादिज्ञानवत् प्रमैव स्यादित्याह पूर्वमिति । यथोक्तं परेणैव ‘सतो हि घटादेरुत्पत्तिविनाशौ दृष्टौ नासतः शशविषाणादेरि’ति ॥ ८२२ ॥

युक्तिमल्लिका

तस्मात्तदसदेवासीदतस्तेन गतं मतम् ॥ ८२३ ॥

सुरोत्तमटीका

तस्मात्परिणामे तद्धीप्रमात्वप्रसङ्गात् । तत् प्रतीयमानं शशशृृङ्गम् । अतो ऽसत्त्वात् । तेन प्रागुक्ततदपरोक्षज्ञानेन

॥ ८२३ ॥

सत्यप्रमोदटीका

अतः स्ववचनविरोधाद् अविद्योपादानकत्त्वस्या-सङ्गतत्वात् । तत् शशशृृङ्गम् । तेन कर्णद्वयाधिष्ठाने शृृङ्गद्वयस्य सत्त्वेन अपरोक्षतयाऽवभासेन । मतम् असतः सत्त्वेनापरोक्षतया प्रतीतिर्नास्तीति मतम् ॥ ८२३ ॥

युक्तिमल्लिका

अयोग्यार्थकवाक्यं हि शक्त्यभावान्न शक्यवत् ।

शक्यसम्बन्धसादृश्याधीना वृत्तिस्ततोऽस्य न ॥ ८२४ ॥

करणस्थायोग्यताख्यदोषेण नयनादिवत् ।

असन्निकृष्टस्यात्यन्तासत एव हि धीरभूत् ॥ ८२५ ॥

सुरोत्तमटीका

प्रागर्थगतदोषेणैव शशशृृङ्गभ्रम इत्युक्तं नासम्बद्धार्थ-बोधकमित्येव चोक्तम् । इदानीं तं दोषं करणगतं कर्तुं गौण्यामपेक्षित-सादृश्याख्यनिमित्तान्तराभावं वक्तुं पुनराह ॥ अयोग्येति ॥ अयोग्यार्थकवाक्यं शशविषाणमित्यादिवाक्यम् । शक्त्यभावात् शशविषाणपदार्थयोः परस्पर-मन्वयायोग्यत्वेन योग्येतरान्वितस्वार्थाभिधायकत्वरूपशक्त्यभावात् । शक्यवद् इतरान्वितापरपदार्थरूपशक्यवत् । ततः शक्यस्यैवाभावात् । शक्यसम्बन्ध-सादृश्याधीना शक्यस्य एकैकपदार्थस्य सम्बन्धसादृश्ये अयोग्यार्थनिष्ठे ये सम्बन्धसादृश्ये तन्निरूपितैतद्धर्मिकसम्बन्धसादृश्ये इत्यर्थः । तदधीना अयोग्यार्थे लाक्षणिकी औपचारिकी वा वृत्तिः । अस्य शशविषाणपदस्य नेति सम्बन्धः ।

इदमुक्तं भवति । शशविषाणपदाच्छशसम्बन्धिविषाणरूपोऽर्थः न मुख्य-वृत्त्या वाच्यः । योग्येतरान्वितस्वार्थाभिधायकवाक्यस्य योग्यान्वितार्थ एव शक्तत्वात् । शशविषाणस्य च योग्येतरान्वितार्थत्वाभावेन प्रत्युतान्योन्य-सम्बन्धायोग्यशशविषाणाख्यविरुद्धार्थघटितत्वेन शशविषाणपदस्य तत्र शक्त्य-योगात् । अर्थस्य च तद्वाक्यशक्त्यत्वायोगाच्च न सिंहो देवदत्त इत्यादि वाक्यस्य सिंहेनैकीभूतदेवदत्तोऽर्थः । नाप्यमुख्यवृत्त्या लक्षणया गौण्या वा शशविषाणरूपोऽर्थश्शशविषाणपदार्थः । गङ्गायां घोष इत्यत्र गङ्गापदशक्यार्थ-भूतप्रवाहसम्बन्धस्य तीर इव शशादिपदशक्यशशाद्यर्थसम्बन्धस्यापि शश-विषाणेऽभावात् । सिंहपदशक्यार्थभूतसिंहसादृश्यस्य देवदत्त इव शशादि-सादृश्यस्यापि शशविषाणेऽभावात् । इतरान्वयविशिष्टस्य शक्यत्वे विशेष्यस्यापि शक्यत्वात् शक्यसम्बन्धसादृश्यनिरूपणे प्रवाहादिकमेव शक्यम् । सप्तम्यन्त गङ्गापदोक्तप्रवाहनिष्ठाधारत्वं प्रति पदान्तरोक्तघोषस्य समानाधिकरण सिंह-पदोक्तसिंहतादात्म्यं प्रतीतरपदार्थदेवदत्तस्य चापरसम्बन्धित्वायोगेन लक्षणा-गौण्योः क्त्यक्येऽन्वयवैशिष्ट्यासम्भवान् मुख्यतश्शब्दस्य शक्यं तु विशिष्टमेवेति द्रष्टव्यम् । न हि गङ्गापदमपि स्वायोग्यार्थरूपं प्रवाहनिष्ठं घोषाधारत्वं लक्षयति । न वा सिंहपदं सिंहेनैकीभूतं देवदत्तं गौण्या वा वक्ति । उभयोरप्यप्रामाणिकत्वमेव ह्यलक्ष्यत्वेऽगौणत्वे बीजम् । किन्तु तत्सम्बन्धितया तत्सदृशतया च प्रमितं तीरं देवदत्तं वा अमुख्यया वृत्त्या वक्ति । अतो मुख्यामुख्ये द्वे अपि वृत्ती प्रमित एव पदार्थे वर्तेते नाप्रमिते । अतश्शश-विषाणपदमपि प्रमितेऽर्थान्तरे गौण्या लक्षणया वा वृत्त्या प्रवर्तेतापि । न हि कश्चिदपि शशकर्णं विषाणोपमत्वाच्छशविषाणमिति व्यवहरति चेत् कोऽप्य-पराधोऽस्ति । शशविषाणरूपमर्थं त्वप्रामाणिकत्वान् न मुख्यया नापि लक्षणया न वा गौण्या वृत्त्या वक्ति । स्वयोग्यवृत्तिं विना निमित्तान्तरतो बोध्यस्य च चक्षुर्बोध्यचक्षुरयोग्यसौरभवन्न तदर्थत्वम् । कथमन्यथा घट-पटादिकमेव पदार्थो न शशविषाणादिरिति ॥

कथं तर्हि शशविषाणादिशब्दात्तत्प्रतीतिरित्यतो दोषवशादसन्निकृष्टस्यापि प्रतीतिरित्याह ॥ करणेति ॥ अयोग्यताख्यदोषेण अयोग्यार्थकत्वाख्यदोषेण । नयनादिवत् । यथा काचादिदोषकलिलं नयनमसन्निकृष्टमेव शुक्तिरजतं बोधयति तद्वदित्यर्थः

॥ ८२४,८२५ ॥

सत्यप्रमोदटीका

परोक्षभ्रमे सन्निकर्षाभावं दोषस्यैव च तत्कार्यकारित्वं प्रागुक्तं विशदयति अयोग्येति । न तावत् शशशृङ्गमस्तीति वाक्यात् शशशृङ्गमिति समस्तपदेनैव वा बोध एव न भवतीति युक्तम् । तदुक्तं न्यायामृते ‘‘न ह्यत्र ‘घढधषि’ निरर्थकेष्विव पदार्थधीरेव वा, ‘कुण्ड-मजाजिनम्’ इत्याद्यपार्थकेष्विव अन्वयधीर्वा नास्ति । विपरीतबोधकेषु योग्यताऽभावेऽपि अयोग्यत्वज्ञानाभावमात्रेण योग्यताभ्रमेण वा आकाङ्क्षा-सन्निधिभ्यां ज्ञानोत्पत्तेरनुभवात् । अन्यथा प्रवृत्त्यादेरयोगात् । योग्यताहीना-द्वाक्याद्भ्रमानुत्पत्तौ च तद्धीनात्प्रतिवादिवाक्याद्धीरेव न स्यादिति कथा बधिरकलहः स्यात्’’ इति (१/६१) अयमत्राशयः । पदानां हि योग्ये-तरान्विते वृत्तिः । योग्यं च प्रमाणाविरुद्धम् । शशशृङ्गयोः सम्बन्धः प्रमाणविरोधादयोग्यः । अतो न तत्र मुख्या वाऽमुख्या वा वृत्तिः सम्भवति । अतः शब्दाद्भ्रमः, करणगताऽयोग्यताऽऽख्यदोषमूलक एवेति । नयनवत् । पित्तदूषितं नयनं शङ्खेऽविद्यमानमेव पीतत्वम् असन्निकृष्टमपि यथा दर्शयति तद्वत् ॥ ८२४,८२५ ॥

युक्तिमल्लिका

इति सर्वैस्समाधेयं ततः प्रत्यक्षदर्शने ।

दोषादसन्निकृष्टस्य भानं को दूषयेद्बुधः ॥ ८२६ ॥

शब्दादसन्निकृष्टस्य शशशृङ्गस्य धीर्यथा ।

अक्षादसन्निकृष्टस्य शुक्तिरूप्यस्य धीस्तथा ॥ ८२७ ॥

सुरोत्तमटीका

सर्वैः शब्दात् शशविषाणज्ञानमङ्गीकुर्वद्भिः । ततः परोक्षमानेऽसन्निकृष्ट करणेन ज्ञानजननाङ्गीकारात् । एकत्र निर्णीतश्शास्त्रार्थोऽ-परत्रापीति न्यायादिति भावः ॥ ८२६,८२७ ॥

सत्यप्रमोदटीका

ततः परोक्षभ्रमे करणदोषादसन्निकृष्टभानस्यानुभव-सिद्धत्वात् । प्रत्यक्षदर्शने शुक्तिरूप्यादिभ्रमे ॥ तथेति । असन्निकृष्टकरण-जन्यत्वे ज्ञानस्य अतिप्रसङ्गं यथा दोषो वारयति तथैवापरोक्षभ्रमस्थलेऽपीति भावः ॥ ८२६,८२७ ॥

युक्तिमल्लिका

परोक्षधीः परीणामं यथा नापेक्षते तव ।

अपरोक्षापि धीस्तद्वत्तं व्यर्थं किमपेक्षते ॥ ८२८ ॥

सुरोत्तमटीका

तं परिणामम् ॥ ८२८ ॥

सत्यप्रमोदटीका

यथा अर्थस्यासत्त्वादेव । तं परिणामम् । व्यर्थम् अर्थासत्त्वस्य साम्यात् ॥ ८२८ ॥

युक्तिमल्लिका

ज्ञानस्य सन्निकर्षत्वकथाऽप्यत्र वृथैव तत् ।

दोषे सति तु किं तेन दोषाभावेऽपि किं ततः ॥ ८२९ ॥

सुरोत्तमटीका

तत् तस्माद् दोषवशादसन्निकृष्टस्यैव शाब्दज्ञान-जनकत्वदर्शनात् । तेन ज्ञानाख्यसन्निकर्षेण । दण्डज्ञानसद्भावेऽपि दण्ड-सन्निकर्षाभावदशायां दण्डीति विशिष्टज्ञानादर्शनाद् विशेषणसन्निकर्ष एव ज्ञानजनको न ज्ञानमात्रम् । दोषवशादसन्निकृष्टस्यैव विशेषणस्य भ्रमे विशिष्ट-ज्ञानं चेक्तिं ज्ञानाख्यसन्निकर्षेणापि तत्र प्रयोजनम् । मुख्यसन्निकर्षं व्यर्थी-कुर्वतो दोषस्य पारिभाषिकसन्निकर्षव्यर्थीकरणं किमु वक्तव्यमिति भावः ॥ ८२९ ॥

सत्यप्रमोदटीका

प्रातिभासिकार्थग्रहणे ज्ञानमेव सन्निकर्ष इति मन्दा-शङ्कां निराह ज्ञानस्येति । सन्निकर्षो हि ज्ञानस्य कारणम् । तस्य ज्ञाना-त्पूर्वभावित्वावश्यम्भावाद् आत्माश्रयत्वापत्तेर्न ज्ञानस्य सन्निकर्षता शङ्कितुमपि शक्या । अतो दोषस्यैव सन्निकर्षस्थानीयत्वमेष्टव्यमित्याह दोषे सतीति । सन्निकर्षो हि अर्थसत्त्वमपेक्षते । न च प्रातिभासिकं रूप्यं प्रतिभासात्पूर्व-मस्ति । तस्य प्रतिभासशरीरत्वात् । अतो अन्वयव्यतिरेकाभ्यां दोषस्यैव कारणत्वम् इति भावः ॥ ८२९ ॥

युक्तिमल्लिका

शुक्तौ सर्पभ्रमादृष्टे रज्जौ रूप्यभ्रमोज्खितेः ।

सादृश्यस्य प्रतीत्यर्थं रजतत्वप्रकारिका ।

धीर्वाच्या गौरवात्सा धीस्तस्यैवेति न कल्प्यते ॥ ८३० ॥

सुरोत्तमटीका

कुतस्तर्हि सर्वथा रजतमजानतो रजतभ्रमाभाव इत्यत आह ॥ शुक्ताविति ॥ शुक्तावेव रजतभ्रमदृष्टेः रज्ज्वामेव सर्पभ्रमदृष्टे-श्चाधिष्ठान प्रधानसादृश्यज्ञानमपि भ्रमकारणम् । सादृश्यस्य ज्ञानार्थमेवा-परसम्बन्धिनो रजतस्य ज्ञानं न सन्निकर्षघटकतयेति भावः । गौरवात् । रजतत्वप्रकारकरजतान्तरज्ञाने सादृश्यस्य ज्ञातुं शक्यत्वात् । भ्रमविशेषणी-भूतरजतस्यैव ज्ञानमपेक्षितमित्यङ्गीकारे कल्पनागौरवादित्यर्थः । तस्यैव भ्रमविशेषणीभूतरजतस्यैव ॥ ८३० ॥

सत्यप्रमोदटीका

अधिष्ठानगतसादृश्यप्रतिसम्बन्धिज्ञानमेव रजतज्ञानम् । तत्र रजतं न सन्निकर्षघटकतयाऽपेक्षितम् । पूर्वं प्रधानानुभवजनितसंस्कारसचिवं दुष्टेन्द्रियं पुरोवर्तिनि रजतत्त्वप्रकारकधियं जनयति । अतो ऽसता सन्निकर्षा-भावेऽपि दोष एव असतः सत्त्वेन प्रतीतिं जनयतीत्याह सादृश्यस्येति ॥८३०॥

युक्तिमल्लिका

विशेषणज्ञानजन्या विशिष्टस्य प्रमाऽपि न ।

अभावत्वप्रकारत्वपूर्वापूर्वार्थदर्शनात् ॥ ८३१ ॥

सुरोत्तमटीका

ननु विशिष्टज्ञानं विशेषणज्ञानजन्यं विशिष्टज्ञान-त्वाद्दण्डीति विशिष्टज्ञानवदित्यनुमानात् तस्यैव ज्ञानमङ्गीक्रियत इत्यत आह ॥ विशेषणेति ॥ अभावत्वम् अभावविशिष्टज्ञाने । प्रकारत्वम् अनुव्यवसायरूप-विशिष्टज्ञाने । विशेषणीभूतमपीदं द्वयं प्रागज्ञातमेव ज्ञायते । अतो विशिष्ट-ज्ञानत्वादिति हेतोरत्रैव व्यभिचारः । न च वाच्यमभावविशिष्टज्ञाने अभावत्व-विशेषणस्य प्राग्ज्ञानाभावेऽपि भूतलादिविशेषणान्तरस्य ज्ञानमस्त्येव । अतो न व्यभिचार इति । अनयोः प्रागज्ञातयोरेव विशेषणत्ववत् सकलविशेषणानामपि प्रागज्ञातानामेव विशेषणत्वसम्भवादप्रयोजको हेतुस्स्यात् । भ्रमेऽपीद मंश-विशेषणीभूतदेशकालादिज्ञानजन्यत्वेनैव विशेषणज्ञानजन्यत्वसम्भवेन प्राग्रजताख्यविशेषणज्ञानस्यानावश्यकत्वापाताच्च । एवं च नैतदनुमान-बलात्तस्यैव प्राग्ज्ञानं कल्पनीयमिति भावः ॥ ८३१ ॥

सत्यप्रमोदटीका

ननु विशिष्टज्ञानं प्रति विशेषणज्ञानकारणताया दण्डी चैत्र इत्यादिविशिष्टज्ञानस्थले क्लृप्तत्वात् तदनुसारेणात्रापि भ्रमविशेषणी-भूतरजतस्यैव ज्ञानं भ्रमरूपविशिष्टज्ञानं प्रति कारणं वक्तव्यमित्यतः स्यादप्येवं यदि विशिष्टज्ञानं प्रति विशेषणज्ञानं कारणमिति नियमः स्यात् । स एव नास्ति । बहुत्र व्यभिचारादित्याह विशेषणेति । प्रमाऽपि नेति । प्रमा-स्थलेऽपि विशेषणज्ञानजन्यत्वनियमो नेति भावः ॥ दण्डीति प्रत्यक्षेऽपि विशेष्येन्द्रियसन्निकर्षः विशेषणविशेष्ययोरसंसर्गग्रह एव कारणमिति भावः । अभावत्वेति । घटाभाववद्भूतलमिति ज्ञाने अभावत्वविशिष्टोऽभाव एव भूतलांशे विशेषणतया भाति । अभावनिर्विकल्पस्य परैरप्यनङ्गीकारात् । एवं रजतत्वप्रकारकज्ञानवानहमित्यनुव्यवसाये रजतत्वे व्यवसायनिरूपितत्वं यत्प्रकारत्वं तदपूर्वमेव भासते । तदुक्तं तर्कताण्डवे ‘व्यवसायगतस्य रजतत्व-वैशिष्ट्यविषयकत्वस्य असिद्ध्यापाताच्च । न ह्यनुव्यवसायादन्येन तत्सिद्धि-रि’ति । पूर्वशब्देन निर्विकल्पभङ्गे तर्कताण्डवोक्तानि अन्यानि व्यभिचार-स्थलानि ग्राह्याणि । संयुक्ताविमौ समवेताविमौ इत्यादीति ॥ ८३१ ॥

युक्तिमल्लिका

अविद्यमानार्थबोधहेतौ दोषे सति भ्रमे ।

अप्रतीतार्थबोधाय कुतोऽन्यानुसृतिर्वद ॥ ८३२ ॥

सुरोत्तमटीका

अविद्यमानार्थबोधकदोषस्याप्रतीतार्थबोधकत्वं सुतरां युक्तमित्याह ॥ अविद्यमानेति ॥ अन्यानुसृतिर् विशेषणज्ञानानुसृतिः ॥८३२॥

सत्यप्रमोदटीका

अन्यानुसृतिर् विशेषणज्ञानानुसृतिः । कुत इति । दोषेणैव अप्रतीतस्य रजतरूपभ्रमविशेषणस्योपस्थितिनिर्वाहादिति भावः

॥ ८३२ ॥

युक्तिमल्लिका

अत्र प्रतीतरजते कुतो देशान्तरस्थता ।

इदन्तामुल्लिखन्ती सा प्रतीतिस्सहते न ताम् ॥ ८३३ ॥

सुरोत्तमटीका

नन्वसतः प्रतीत्ययोगाद् अस्यैव रजतस्यान्यत्र सत्त्वे वक्तव्ये बलात्तस्यैव ज्ञानमागतमित्यत आह ॥ अत्रेति ॥ इदंताम् एतद्देश-कालवर्तिताम् । सा इदंरजतमिति प्रतीतिः । ताम् अन्यत्र सत्ताम् ॥ ८३३ ॥

सत्यप्रमोदटीका

‘‘अत्र प्रतीतस्यैवान्यत्र सत्त्वे मानाभावात् । तथा हि । भ्रान्त्यनुभवो वा तत्र प्रमाणम् । बाधानुभवो वा । भ्रान्त्यनुपपत्तिर्वा बाधानुपपत्तिर्वा । नाद्यः । तस्याप्रमाणत्वात् । अत्रैव सत्त्वावेदकत्वाच्च ।’’ इत्यादि सुधोक्तं विवृण्वान आह कुत इति । कुतः प्रमाणादित्यर्थः । सा भ्रान्तिः । ताम् अन्यत्र सत्ताम् ॥ ८३३ ॥

युक्तिमल्लिका

घटोऽयमिति दृष्टेऽपि घटो नो चेत्स्थलान्तरम् ।

गमिष्यति तथा द्रष्टा त्वं चैनमनुयास्यसि ॥ ८३४ ॥

सुरोत्तमटीका

इदमिति प्रतीतस्यान्यत्र सत्ताङ्गीकारे बाधकमाह ॥ घट इति ॥ दृष्टस् तत्र तदानीमेव नूतनतया दृष्टः । समानाधिकरणविशेषण-ज्ञानस्यैव कारणत्वाद् द्रष्टेत्यादिकमुक्तम् । अभिनवस्यास्य प्राग्दर्शनाभावेन समानाधिकरणज्ञानं कारणं वदताऽयमेव घटोन्यत्र नेतव्यः । स्वेनापि तत्र गन्तव्यम् । स्वमतरक्षणार्थं पश्चात्तनमपि कारणमङ्गीकार्यमित्यप्रामाणिक-परम्पराऽङ्गीकार्या स्यादिति भावः ॥ ८३४ ॥

सत्यप्रमोदटीका

इदंशब्दस्य पुरोदेशसम्बन्धार्थकतां विपक्षेऽनुभव-विरोधप्रदर्शनेनावधारयति घटोऽयमिति ॥ गमिष्यति तस्य स्थलान्तरे सत्त्वाङ्गीकारः प्रसज्यते ॥ ८३४ ॥

युक्तिमल्लिका

विशेषणज्ञानजन्यविशिष्टार्थस्य धीरिति ।

किमपूर्वघटव्यक्तौ घटत्वाकारधीर्न ते ॥ ८३५ ॥

सुरोत्तमटीका

किञ्चायं घट इति ज्ञाने तवापि मते प्राग्घटत्वज्ञानेनैवालं न तु तद्घटव्यक्तेरपि प्राग्ज्ञानमपेक्षितम् । एवं सतीदं रजतमिति भ्रमेऽपि तवापि मते प्राग्रजतत्वज्ञानेनैवालं तस्य रजतस्यैव प्राग्ज्ञानं निर्निबन्धन-मित्याह ॥ विशेषणेति ॥ अपूर्वघटव्यक्तौ पूर्वादृष्टनूतनघटव्यक्तौ । व्यक्तेः प्रागज्ञातत्वेऽपि व्यक्त्यन्तरे प्रागनुभूतघटत्वमात्र ज्ञानेन प्रागदृष्टकुम्भकारेणा-नीतनूतनघटव्यक्तौ अयं घट इति विशिष्टधीर्यथास्ति तथा भ्रमेऽपि रजतत्व-ज्ञानमात्रेण प्रागज्ञातस्यैव रजतस्य विशिष्टधीस्स्यादिति भावः । असतो ज्ञानमनुपपन्नमिति वदतोऽन्यत्र सर्वत्रासत्त्वं नात्र प्रतीत्यनुपपत्तौ बीजम् । अन्यत्र सर्वत्रासतोऽपि घटस्य पुरतः सत्त्वमात्रेण प्रतीतिदर्शनात् । किन्तु परतोऽसत्त्वमेव बीजम् । एतदुपपादकतयैवात्यन्तासत्त्वस्यापि बीजत्वाभिमानः परस्य । अत्रासत्त्वं त्वन्यथाख्यातिवादिनस्तवापि समम् । यदि च भ्रम-जनकीभूतदोषबलादत्रासत्त्वाख्यं प्रतीत्यनुपपत्तिबीजं धिक्कृत्य प्रतीतिमुप-पादयसि तर्ह्यहमपि असत्त्वप्रयुक्तं च तद्बीजं तेनैव धिक्कृत्य प्रतीतिमुपपाद-यामि । अतो सतोऽप्यपरोक्षप्रतीतौ न काचिदनुपपत्तिः । कुतस्तर्हि शश-शृृङ्गस्यादर्शनमिति चेद् भ्रमकारणीभूतदोषाभावादिति ब्रूमः । सति च तस्मिन्दूरादुपविष्टशशाख्यमृगस्वरूपमात्रमालोकयतोऽनुपदिष्टतत्स्वभावमनालोक-यतश्चोर्ध्वीभूततत्कर्णयोरन्यमृगशृृङ्गसादृश्याद् इमे शशशृृङ्गे इति भवत्येव भ्रमः ॥ ८३५ ॥

सत्यप्रमोदटीका

इतीत्यनन्तरम् एतावन्मात्रस्याभ्युपगमेऽपि विशेष्यवृत्ति-विशेषणस्य ज्ञानमेव विशिष्टज्ञानहेतुरिति वादो निर्निबन्धनः । यत्र कुत्रापि विशेषणज्ञानसद्भावेऽपि विशिष्टज्ञानसम्भवात् । अन्यथा अपूर्वघटदर्शने अयं घट इति घटत्वप्रकारकत्वविशिष्टधीर् न स्यादिति भावो ऽनुसन्धेयः । एवम् इदं रजतम् इति भ्रमेऽपि रजतस्यासत्त्वेऽपि रजतत्वस्य यत्र क्वापि प्रधाने ज्ञानेन निर्वाहे आपणस्थरजतवृत्तित्वेन तज्ज्ञाननियमाभ्युपगमोऽयुक्त इति हृदयम् ॥ ८३५ ॥

युक्तिमल्लिका

यथैकस्यां घटव्यक्तौ घटत्वाकारधीबलात् ।

पूर्वादृष्टघटव्यक्तिशतकेऽपि विशिष्टधीः ।

प्राग्दृष्टघटभूनिष्ठास्ते सर्वे किं घटास्तव ॥ ८३६ ॥

सुरोत्तमटीका

किमपूर्वेत्यादिनोक्तं प्रमेयं प्रपञ्चयति ॥ यथेति ॥ ते उपर्युपरि दृश्यमानास्सर्वे घटाः, प्राग्दृष्टघटभूनिष्ठाः किमिति सम्बन्धः । येन तेषामपि तदैव ज्ञानं स्यात् । अत एकघटे घटत्वप्रकारकधीबलादेवोपर्युपरि दृश्यमानघटशतकेऽपि प्रागज्ञात एव विशिष्टधीरिति भावः ॥ ८३६ ॥

सत्यप्रमोदटीका

अनुभवविरोधप्रदर्शनेन प्रागुक्तमतिप्रसङ्गं प्रपञ्चयति यथेति । घटवद्भूतलम् इति विशिष्टज्ञानं प्रति तत्तद्भूतलवृत्तिघटज्ञानस्यैव विशेषणज्ञानविधया कारणत्वाङ्गीकारे भिन्नभिन्नाधिकरणेषु द्रक्ष्यमाणघटेषु घटत्वबुद्धिर्या जायते सा न स्याद् अन्यथा तेषामपि पूर्वदृष्टघटाधिकरण-ताऽङ्गीकार आपद्यते इति भावः ॥ ८३६ ॥

युक्तिमल्लिका

यदि सामान्यतो ज्ञाता सर्वा व्यक्तिस्तदा तव ।

विशेष्यज्ञानजन्यत्वमपि तर्ह्यागतं बलात् ॥ ८३७ ॥

सुरोत्तमटीका

तदा प्राचीनघटदर्शनसमये । तर्हि विशेषणीभूत घट-त्वस्येव विशेष्यघटस्यापि प्राग्दर्शनावश्यंभावे ।बलाद्युक्तिबलात्॥ ८३७ ॥

सत्यप्रमोदटीका

व्यक्तिर् घटरूपा । विशेष्यज्ञानस्यापि इति । उभयोरपि नियतपूर्ववृत्तित्वेन अन्यतरपरित्यागेन अन्यतरस्य विशेषणज्ञानस्यैव कारणत्वाङ्गीकारे नियामकाभावादिति भावः ॥ ८३७ ॥

युक्तिमल्लिका

एवं च शुक्तिव्यक्तिश्च स्यादापणगता तव ।

रजतत्वप्रकारैव तेन धीः प्रागपेक्षिता ॥ ८३८ ॥

सुरोत्तमटीका

अस्तु को दोष इत्यत आह ॥ एवं चेति ॥ भ्रमे शुक्तेरेव विशेष्यत्वात् । सापि प्राग्दर्शनाय विशेषणीभूतरजतवद् आपणगता भवेदिति भावः । तेन घटत्वविशिष्टज्ञाननिदर्शनेन ॥ ८३८ ॥

सत्यप्रमोदटीका

अस्तु तदपीत्यत आह एवं चेति । विशेषणस्य रजतस्येव विशेष्यस्य इदंपदार्थस्यापि आपणस्थताऽङ्गीकारापत्तिरिति भावः । तथा च रजतत्वस्य न केवलं पुरतः किन्तु अत्यन्तासत्त्वेऽपि इदं रजतमिति धीर्निर्वहत्येवेत्याह रजतत्वेति ॥ ८३८ ॥

युक्तिमल्लिका

प्राग्दृष्टघटसादृश्यादेवान्यत्र विशिष्टधीः ।

तत्तद्व्यक्तिस्थता धीस्तु घटादावपि नेष्यते ॥ ८३९ ॥

सुरोत्तमटीका

नन्वेवं तर्ह्येकत्र घटत्वज्ञानाद् अज्ञातघटान्तरव्यक्तिष्विव पटादि व्यक्तिष्वपि कुतो न तद्विशिष्टधीरित्यत आह ॥ प्रागिति ॥ सादृश्यात् पृथुबुध्नोदराकारत्वाख्यसादृश्यात् ॥ ८३९ ॥

सत्यप्रमोदटीका

सादृश्यादेवेत्यत्रस्थैवकारव्यवच्छेद्यमाह तत्तदिति । तथा च भ्रमविषयस्य रजतस्यात्यन्तासतोऽपि प्रधानभूतरजतानुयोगिकसादृश्य-प्रतियोगित्वमस्त्येवेति, किं रजतस्य वस्तुत्वाऽऽग्रहेणेति भावः ॥ ८३९ ॥

युक्तिमल्लिका

एवं च रूप्यसादृश्याच्छुक्तौ रूप्यत्वधीर्भवेत् ।

अपूर्वज्ञाततद्व्यक्तेः कुतस्स्यादापणस्थता ॥ ८४० ॥

सुरोत्तमटीका

एवं च घटत्वविशिष्टप्रतीतावपि घटत्वप्रकारकप्रतीत्या प्राग्दृष्टघटसादृश्येन च पूर्णत्वे सति । रूप्यसादृश्यात् श्वेतत्वादिसादृश्यात् । इदं चोपलक्षणम् । रूप्यत्वप्रकारकप्रतीत्या चेत्यपि द्रष्टव्यम् । तद्व्यक्तेः शुक्तौ प्रतीयमानरजतव्यक्तेः ॥ ८४० ॥

सत्यप्रमोदटीका

तथा च रूप्यसदृशत्वात् शुक्तावेव रूप्यभ्रमो न रज्ज्वादौ ॥ अपूर्वेति । अत्यन्तासदित्यर्थः ॥ ८४० ॥

युक्तिमल्लिका

अन्यत्राप्यतिसादृश्ये रूप्यधीस्सा प्रमा भवेत् ।

अल्पसादृश्यतो धीश्चेद्यमयोरिव स भ्रमः ॥ ८४१ ॥

सुरोत्तमटीका

ननूभयत्रापि सादृश्यमात्रेण विशिष्टप्रतीतावेकत्र प्रमात्व-मपरत्र भ्रमत्वं च किं निबन्धनमित्यत आह ॥ अन्यति ॥ अन्यत्र प्राग-दृष्टव्यक्त्यन्तरे । यमयोरिव यमे यमान्तरत्वभ्रम इवेत्यर्थः । सर्वसादृश्ये प्रमात्वमल्पसादृश्ये भ्रमत्वमित्यर्थः ॥ ८४१ ॥

सत्यप्रमोदटीका

अतिसादृश्ये रूप्यत्वाद्यसाधारणधर्मेण सादृश्ये । अल्पसादृश्यतश् चाकचाक्यादिधर्मेण सादृश्यात् । यमयोरिति । तत्र बाह्याकार- मात्रेण सादृश्येऽपि अन्योन्यसुखाद्यनुसन्धानरूपासाधारणरूपेण सौभर्यादि योगिष्विव सादृश्यस्याभावादिति भावः ॥ ८४१ ॥

युक्तिमल्लिका

प्रत्यभिज्ञाऽप्यन्यकाले वक्ति देशान्तरे स्थितिम् ।

तदैव तस्यातिदूरदेशस्थत्वं कुतोऽपतत् ॥ ८४२ ॥

सुरोत्तमटीका

किञ्च सो यमिति देशान्तरस्थत्वमुल्लिखंत्यापि प्रत्यभि-ज्ञया न तदैव देशान्तरस्थत्वमपेक्ष्यते । देशान्तरस्थत्वगोष्ठीरहितप्रतीतौ कुतस्तदैव तदपेक्ष्यत इत्याह ॥ तदैवेति ॥ प्रतीतिकाल एव । तस्य शुक्तौ प्रतीयमानरजतस्य । तस्मादनानुभविकमेतदिति भावः ॥ ८४२ ॥

सत्यप्रमोदटीका

ननु तदिदं रजतमिति प्रत्यभिज्ञायां यथा देशान्तरस्थम् अत्रस्थत्वेन भाति तथाऽत्रापि आपणस्थं रजतं पुरोवर्तितया भातीति किं न स्यादित्यत आह अन्यकाल इति । तदित्युल्लेखेन प्रत्यभिज्ञा कालान्तरस्थमेव गोचरयति । अत्र तु एकस्मिन्नेव काले इति विषमो दृष्टान्त इति भावः । इदमुपलक्षणम् । तत्र तदेव इदन्त्वेनानुभवामि इतिवद् अत्र आपणस्थमेव रजतम् इदंत्वेनानुभवामि इत्यनुव्यवसायाभावात् प्रत्युत पुरोवर्तिनमेव रजतत्वेन जानामीत्येवानुभवादिति च भावः ॥ ८४२ ॥

युक्तिमल्लिका

विशेषणस्य च ज्ञानं यदि स्यात्सविकल्पकम् ।

अनवस्था तदा सुस्था यदि तन्निर्विकल्पकम् ॥ ८४३ ॥

नारिकेलद्वीपवासी तर्हि सामान्यतोऽग्निदृक् ।

द्वितीयक्षण एवाग्निवैशिष्ट्यमपि पश्यति ॥ ८४४ ॥

सुरोत्तमटीका

किञ्च विशिष्टज्ञाने कल्प्यमानं विशेषणज्ञानं सविकल्पकं निर्विकल्पकं वेति विकल्प्य पक्षद्वयेऽपि दूषणमाह ॥ विशेषणस्येति ॥ अनवस्थेत्युपलक्षणम् । निर्विकल्पकासिद्धिश्च द्रष्टव्या । तद्विशेषणज्ञानम् । सामान्यतः नामजात्यादियोजनाराहित्येन वह्निवह्नित्वविषयक निर्विकल्पक-ज्ञानवानिति यावत् । अग्निवैशिष्ठ्यम् अयमग्निमानित्यग्निवैशिष्ठ्यम् । अयमग्नि-रित्यग्नित्ववैशिष्ठ्यं च । अग्निनिर्विकल्पकस्याग्नित्वनिर्विकल्पकस्य च सत्त्वेन निर्विकल्पकरूपविशेषणज्ञानस्य सत्त्वात् । अतो व्यावर्तकजातेरग्नित्वजातिरिय-मिति विशष्यज्ञानाभावादेव तत्र विशिष्टज्ञानाभावः । स च व्यञ्जकज्ञाना-भावादित्येव वाच्यम् । एवं च कथं विशेषणनिर्विकल्पकाद्विशिष्टधीरिति भावः।

घटत्वनिर्विकल्पकादेव घटसविकल्पकं वदंस्तार्किकस्तत्रातिप्रसङ्गे दत्तेऽनुभवमपलप्यापि स्यादेवेति वदेत् । अतो नालिकेलद्वीपवासिपर्यन्तं धावनम् । किं च रूपीति विशिष्टज्ञाने विशेषणीभूतरूपस्येव विशेष्यभूत-घटस्यापि तव मते प्राङ्निर्विकल्पकमस्ति । जनकं च भवति । तथा च विशेषणज्ञानजन्यत्वमात्रं कुतस्साध्यते । उभयज्ञानजन्यत्वमपि साध्यताम् । यदि चोभयज्ञानजन्यत्वसाधने दृष्टान्ताभावाद् विशेषणज्ञानजन्यत्वमात्र-साधनेऽपि मदभिलषितनिर्विकल्पकसिद्धेरेतावदेव साध्यत इति मतं तदा परोऽपि त्वन्न्यायेनैव दण्डीति विशिष्टज्ञानं विशेषणविशेष्यज्ञानजन्यं विशिष्ट-ज्ञानत्वाद्रूपीति विशिष्टज्ञानवदिति साधयति चेत् किमुत्तरम् । दृष्टान्ते उभयो-स्साध्यासंमतिरुभयत्र समा । अनुमिति र्दृष्टान्तोऽस्तु । यदि च तत्रापि दण्ड-देवदत्तनिर्विकल्पकसम्भवादपसिद्धान्तमनादृत्येष्टापत्तिरिति ब्रूषे तदा तावतैव चरितार्थत्वात्पराभिमतदण्डसविकल्पकस्य गौरवाज्जनकता प्रसाध्याङ्गकापि न स्यात् । त्वदभिलषितदण्डनिर्विकल्पकं च न परस्याभिमतम् । अतस्त्व-दनुमानदृष्टान्ते पररीत्या साध्यवैकल्यं स्यात् । यदि च परस्य पररीत्यैव साध्यसिद्धिर् मम तु मद्रीत्यैवेति समाधत्से तदा परस्स्वरीत्या तव पक्षीभूत-रूपविशिष्टज्ञानेऽपि दण्डसविकल्पकान्तरवद् रूपसविकल्पकान्तरेणैव तव साध्यमन्यथीकुर्वन्नर्थान्तरेण त्वां निगृह्णीयात् ।

यदि च रूपेन्द्रियसन्निकर्षेणैव रूपीति विशिष्टज्ञानसम्भवाद् रूप-सविकल्पकान्तरमल्पीकुरुषे तदा तेनैव तव निर्विकल्पकं परोऽप्यल्पीकुर्यात् । दृष्टान्तेऽपि दण्डेन्द्रियसन्निकर्षेणैव सर्वं निर्वहन्प्राग्दण्डज्ञानस्य कारणतामेवा-नङ्गीकुर्वंश्च पुनर्दृष्टान्तं साध्यवैकल्याख्यशल्येनैवाकल्यं कुर्यात् । यद्यपि पक्षे दृष्टान्ते च रूपदण्डादिनामसविकल्पकोपयुक्तसंकेतग्रहाय प्राग्रूपादिज्ञान-मपेक्षितम् । तथापि तस्य रूपव्यक्त्यन्तरे दण्डव्यक्त्यन्तरे च तन्मात्रोपदेश-मात्रेणापि सम्भवेन शक्तिग्रहे उपक्षीणत्वेन चोभयत्रापि विशेषणीभूतयोरनयो-र्दण्डरूपयोर्ज्ञानमकारणमेव । तथा च पुनः पक्षे बाधो दृष्टान्ते साध्यवैकल्यं चापरिहार्यमेव । सङ्केतग्रहस्य च वृद्धव्यवहाराख्यानुमानेन वा गुरूपदेशाख्य-शब्देन वा जायमानस्य सविकल्पकत्वावश्यंभावात् तवेष्टासिद्ध्याऽन्यथा-सिद्धिश्च । लिङ्गशब्दयोर्निर्विकल्पकजनकत्वस्य त्वयाऽप्यनङ्गीकारात् । अस्य सर्वस्य सूचनाय नालिकेलद्वीपवासी तर्हिसामान्यतोऽग्निदृगित्याद्युक्तम् । तत्र हि दाहको वह्निरित्युपदेशजन्यव्यञ्जकव्यङ्ग्यजात्यादिसविकल्पकस्यैव वह्निरयमिति विष्टिज्ञानोपयोगितया कथनात् ॥ ८४३,८४४ ॥

सत्यप्रमोदटीका

विशिष्टज्ञानं विशेषणज्ञानजन्यम् इति वदन् प्रष्टव्यः । किं तद्विशेषणज्ञानं सविकल्पकम् उत निर्विकल्पकम् इति । नाद्यः । तत्रापि सविकल्पकविशेषणज्ञानान्तरस्य कारणत्वापातेन अनवस्था स्यादित्याह अनव-स्थेति । न द्वितीयः । अतिप्रसङ्गादित्याह नारिकेलेति । इतःपूर्वं वह्निज्ञान-रहित इति यावत् । तेन तस्य वह्निस्मरणरूपं विशेषणज्ञानं न सम्भावनार्ह-मिति भावः । सामान्यदृगित्यनेन वह्नित्वप्रकारकत्वं व्यवच्छिनत्ति । तदुक्तं तर्कताण्डवे निर्विकल्पकभङ्गे ‘‘वह्निमानित्यादि ज्ञानं प्रति वह्न्यादिज्ञानस्य न विशेषणज्ञानत्वेन कारणत्वम् । द्रव्यत्वादिना वह्न्यज्ञानेऽपि तदभावान् नापि विशेषणतावच्छेदकप्रकारकविशेषणज्ञानत्वेन निर्विकल्पकासिद्धेः । गौरवाच्च । किन्तु विशेषणतावच्छेदकप्रकारकज्ञानत्वेन । तथा च न निर्विकल्पकसिद्धिर् इति ।तथा च नारिकेलद्वीपवासिनस् तादृशज्ञानाभावान् न वैशिष्ट्यधीरिति भावः॥८४३,८४४ ॥

युक्तिमल्लिका

सविकल्पकधीपक्षे व्यञ्जकानुसृतिर्भवेत् ।

अनवस्थाभिया व्यञ्जके तु न व्यञ्जकान्तरम् ।

विशेषणज्ञानजत्वनियमस्तद्वृथा तव ॥ ८४५ ॥

सुरोत्तमटीका

सविकल्पकज्ञानपक्षे प्रागनवस्थोक्ता । इदानीं विशिष्ट-ज्ञाने विषयीभूतविशेषणस्यैव वा सविकल्पकं विवक्षितमुत यस्य कस्य चिद्विशेषणस्य वेति विकल्प्य दूषयति ॥ सविकल्पकेति ॥ व्यञ्जकानुसृतिर् घटत्वजातिमतीयं व्यक्तिरिति जातिवैशिष्ट्यज्ञाने परेणापि पृथुबुध्नोदरत्वाख्य व्यञ्जकस्यैव सविकल्पकानुसृतिः क्रियते न तु विशेषणीभूतजातेरेव प्राक्सविकल्पकानुसृतिः । तस्मादाद्यः पक्षो न घटते । द्वितीयं दूषयति ॥ अनवस्थेति ॥ व्यञ्जके पृथुबुध्नोदराकारत्वज्ञाने जातिव्यञ्जकसविकल्पकानु-सरणवद् व्यञ्जके व्यञ्जकान्तरसविकल्पकानुसरणाभावेन द्वितीयः पक्षोऽपि न घटते । द्विविधसाध्याङ्गीकरणेऽपि उक्तरीत्या जातौ व्यञ्जके च त्वद्धेतो-र्व्यभिचारादिति भावः । ननु दण्डीति विशिष्टज्ञाने दण्डाख्यविशेषणस-विकल्पकजन्यत्वं साध्यत इत्यस्यापीदमेवोत्तरम् । यथा व्यञ्जके व्यञ्जकान्तर-मनवस्थाभिया नापेक्ष्यते किन्तु व्यञ्जकेन्द्रियसन्निकर्षादेव तद्विशिष्टधीरङ्गी-क्रियते । तथा दण्डीत्यत्रापि प्राग्दण्डसविकल्पकान्तरमनपेक्ष्यताम् । अपेक्षणे तत्राप्यनवस्थाया दुर्वारत्वात् । अतो दृष्टान्ताभावात्तव पक्षे रूपीति विशिष्ट-ज्ञाने पक्षसमेस्मिन्दण्डविशिष्टज्ञाने वा साधयितुमपि न शक्यम् । यत्किञ्चि-द्विशेषणज्ञानजन्यत्वस्य प्रत्यक्षमात्रेऽयमित्युपनीतकालभानेन सिद्धसाधनत्वात् । यावद्विशेषणज्ञानजन्यत्वस्याभावविशिष्टज्ञाने व्यभिचरितत्वेन साधनायोगाच्च ।

यदि च वह्न्यनुमितिरूपविशिष्टज्ञानस्य व्याप्तिरूपविशेषणसविकल्पक-जन्यत्वस्य सर्वैरङ्गीकारात् स एव दृष्टान्तस् तथापि प्रकृते तदनुसरणं व्यर्थ-मित्यत्र युक्तिमप्यनेनैवाह ॥ अनवस्थेति ॥ व्यञ्जके पृथुबुध्नोदरत्वादौ । यथा जातेर्व्यञ्जकज्ञानानुसरणेऽपि न व्यञ्जकस्य तदनुसरणम् । अनवस्थाप्रसङ्गात् । व्यञ्जके व्यञ्जकान्तरानङ्गीकाराच्च । एवं जातौ दृष्टनियमस्य व्यञ्जके परित्याग-वद् अनुमितौ दृष्टनियमस्य प्रत्यक्षेऽपि परित्यागोऽस्तु विजातीयकार्ये दृष्ट-नियमस्य विजातीयकार्यान्तरेऽपि कल्पनायां कारणाभावात् । तथा सति लिङ्गजन्यत्वस्यापि प्रत्यक्षे कल्पनाप्रसङ्गादिति भावः । तत् तस्माद् उक्तरीत्या व्यभिचारादप्रयोजकत्वाच्च ॥ ८४५ ॥

सत्यप्रमोदटीका

सविकल्पकं विशेषणज्ञानं कारणम् इति पक्षे प्रागुक्ता-मनवस्थां स्फोरयन् विशेषणज्ञानस्य कारणतानियमं त्याजयति व्यञ्जकेति । अयं घट इति विशिष्टज्ञानं प्रति विशेषणघटत्वस्य विशषणतावच्छेदकी-भूतजातित्वेन ज्ञानं तावदावश्यकम् । घटत्वजातिव्यञ्जकं च पृथुबुध्नोद-राकारादिरूपं विशिष्टम् ॥ तज्ज्ञानार्थं व्यञ्जकान्तरानुसरणेऽनवस्था स्यात् । अतस् तज्ज्ञानं युगपदेव इन्द्रियसन्निकर्षेण जायते इति स्वीकर्तव्यम् । तथा च किञ्चिद्दूरं गत्वा तदङ्गीकारापेक्षया प्राथमिकं विशिष्टज्ञानम् अयं घट इत्येतदेव इन्द्रियसन्निकर्षेणैव, पूर्वं विशेषणज्ञानं विना जायते इति स्वीकार एवोचित इति भावः ॥ ८४५ ॥

युक्तिमल्लिका

घटे घटत्वमिति धीर्घटत्वज्ञानजा न चेत् ।

घटोऽयमिति धीः कस्माद्घटत्वज्ञानजा वद ।

तज्जीवति ज्ञानसाम्ये त्वच्छ्राद्धनियमं त्यज ॥ ८४६ ॥

सुरोत्तमटीका

दुराग्रहादेव परेणेदमुच्यते न तु वस्तुस्थित्येति भावेनाह ॥ घट इति ॥ यदि घटत्वं सर्वत्र प्राग्ज्ञातमेव ज्ञायत इति नियमस् तदा घटे घटत्वमित्यत्रापि स्यात् । तच्च नास्ति । घटे घटत्वमिति प्रतीतौ विशेष्य-भूतघटत्वस्य त्वयापि प्रागज्ञातस्यैव ज्ञानाङ्गीकारात् । यदि चात्र घटत्वेन्द्रय-सन्निकर्षेणैवालम् । किं प्राग्ज्ञानेनेति मतम् । एवं तर्ह्यत्र विशेष्यभूतघटत्व-ज्ञानजनकेन्द्रियार्थसन्निकर्षस्य विशेषणतादशायामपि सत्त्वात्तेनैव कुतो न तज्ज्ञानम् । न हि घटप्रकाशकः प्रदीपस्स्वगृहे चेत् स्वयमेव प्रकाशयति । परगृहे चेत्परसहायेनेत्यस्ति । अतःपरस्यायं दुराग्रह एव । तत् तस्माज् ज्ञानद्वयस्य विशेषाभावात् । ज्ञानसाम्ये ज्ञानद्वयसाम्ये । जीवति वैषम्य-करणहेत्वाख्यमारकाभावेन स्थिरतया स्थिते सति । त्वच्छ्राद्धनियमं त्वयाङ्गी-कृतश्राद्धनियमम् । वृथाङ्गीकारस्य श्राद्धनियम इति विदुषां सङ्केतः । तं त्यजेति योजना । ज्ञानद्वयस्य साम्ये सत्येकत्र विशेषाङ्गीकारोऽनुचित इति भावः । मृते खलु श्राद्धं कर्तव्यं जीवतश्श्राद्धमनुचितमिति ध्वनिः ॥ ८४६ ॥

सत्यप्रमोदटीका

अपि च विशिष्टज्ञानं प्रति विशेषणज्ञानमेव कारणं, न तु पुनः विशेष्यज्ञानत्वेन रूपेण विशेष्यज्ञानमिति परस्य पन्थाः । ज्ञानसाम्येऽपि प्रयोगभेदेन, घटत्वं,‘इह घटत्वं’ इति प्रयोगे विशेष्यभूतं, ‘अयं घट’ इति प्रयोगे विशेषणं च भवति ॥ एवं सति तस्यैव घटत्वज्ञानस्य विशेष्यतादशायां कारणत्वं विशेषणतादशायां कारणत्वाभाव इत्येतदर्धजरतीयं साहित्यमुद्रयाऽपहसति तदिति । तस्माज् ज्ञानयोः समानविषयकत्वेऽपि उभयत्र घटत्वज्ञानस्य इन्द्रियसन्निकर्षजन्यत्वे समानेऽपि एकत्र तदपलाप-दुर्व्यसनं त्यजेति भावः । जीवनवान् पिता, पितुर्जीवनम् इत्यनयोर्ज्ञानयोर् निर्निबन्धनम् अन्यतरमपलप्य जीवत एव पितुः श्राद्धं मा कृथा इति ध्वनिः ॥ ८४६ ॥

युक्तिमल्लिका

घटत्वनिर्विकल्पोत्था न घटत्वविशिष्टधीः ।

घटत्वसविकल्पत्वाद् घटत्वेहप्रतीतिवत् ॥ ८४७ ॥

सुरोत्तमटीका

प्रत्यनुमानं रचयति ॥ घटत्वेति ॥ घटत्वविशिष्टधीर् घटोऽयमिति विशिष्टधीरित्यर्थः । घटत्वेहप्रतीतिवद् घटत्वस्य इहेति प्रतीतिवत् । इह घटत्वमिति प्रतीतिवदित्यर्थः । तथा चायं प्रयोगः । घटोऽयमिति विशिष्टधीर् न जन्यघटत्वज्ञानजन्या । लौकिकघटत्वास्तित्व-प्रत्यक्षत्वात् । इह घटत्वमिति प्रतीतिवत् । उभयत्र साम्यस्फोरणाय घटत्व-पदम् । घटे घटत्वमिति घटत्वविशेष्यकज्ञाने घटत्वनिर्विकल्पकाजन्यत्वस्य परेणाप्यङ्गीकारान् न दृष्टान्तस्य साध्यवैकल्यमिति भावः ॥ ८४७ ॥

सत्यप्रमोदटीका

तदेवं विशिष्टज्ञानं विशेषणज्ञानजन्यमिति नियमस्य दूषितत्वान् निर्विकल्पप्रत्यक्षप्रभेदाङ्गीकारो युक्तिविरुद्ध इत्याह घटत्वेति । घटत्वविशिष्टधीर् अयं घट इति धीर् न घटत्वनिर्विकल्पजन्या, घटत्वस-विकल्पकत्वाद् घटे घटत्वम् इति प्रतीतिवद् इति प्रयोगः ॥ ८४७ ॥

युक्तिमल्लिका

असन्निकर्षभङ्गाय यदि तज्ज्ञानमिष्यते ।

तत्रैव तर्हि तज्ज्ञानं वाच्यं नान्यत्र कुत्रचित् ॥ ८४८ ॥

चन्दने सौरभज्ञानं तत्र तस्य प्रमातरि ।

उपनायकतामेति धीस्सा तत्सन्निकर्षजा ॥ ८४९ ॥

सुरोत्तमटीका

ननु चक्षुरसन्निकृष्टत्वेन चक्षुरयोग्यरजतस्योपनायकतया सुरभिचन्दनमिति चाक्षुषप्रतीतौ सौरभज्ञानवद् रजतज्ञानमपि सन्निकर्ष-स्थानीयत्वेनाङ्गीकार्यमित्यत आह ॥ असन्निकर्षेति ॥ तज्ज्ञानं रजतज्ञानम् । तत्रैव यद्विशेषणतया प्रतीयते शुक्तिशकल इत्यर्थः ॥ तस्य सौरभस्य । तत्र चन्दने । तत्र प्रमातरि चोत्पन्नेत्यर्थः । सा तत्रैव जायमाना विशिष्टधीः । तत्सन्निकर्षजा तादृशज्ञानाख्यसन्निकर्षजा ॥ ८४८,८४९ ॥

सत्यप्रमोदटीका

ननु च सुरभिचन्दनखण्डमिति चाक्षुषज्ञाने चक्षुषोऽ-योग्यं सौरभं भासते । न चासन्निकृष्टस्य भानम् । अत एव तत्र सुरभि-ज्ञानाख्यो ऽलौकिकसन्निकर्ष उपेयते । तद्वदेव इदं रजतमिति चाक्षुषज्ञाने न रजतस्य चक्षुषा सन्निकर्षः । तस्य पुरतोऽसत्त्वात् । अतो रजतज्ञानाख्यः सन्निकर्ष उपेयः । तन्निर्वाहार्थमेव तस्यान्यत्र सत्त्वकल्पनमित्याशङ्क्य वैषम्यप्रदर्शनेन निराह तत्रैवेति सुरभिचन्दनखण्डमिति ज्ञानं प्रमा । चन्दन एव सौरभज्ञानं च तत्र सन्निकर्षः । इदं रजतमिति ज्ञानं त्वप्रमा । रजतज्ञानं च त्वया न शुक्तौ किन्तु अन्यत्रैव स्वीक्रियते । किं केन सङ्गतमिति भावः । तदेतदाह प्रमातरीति तत्रैवेति च ॥ ८४८,८४९ ॥

युक्तिमल्लिका

चन्दनत्ववति व्यक्त्यन्तरे सौरभसंयुते ।

तज्ज्ञानमेव योगो न चक्षुषाऽत्रापि तद्धियः ।

अदर्शनात्तेन योगस्तत्रैव स परत्र न ॥ ८५० ॥

सुरोत्तमटीका

तज्ज्ञानं चन्दनान्तरे जातसौरभज्ञानम् । अत्र अस्मिन् चन्दने । तद्धियः सौरभवैशिष्ट्यधियः । चक्षुषाऽत्रापि तद्धियो ऽदर्शनादिति योजना । तेन कारणेन । सः योग इति सम्बन्धः ॥ ८५० ॥

सत्यप्रमोदटीका

तत्रैवेति नियमं व्यतिरेकमुखेनोपपादयति व्यक्त्यन्तर इति । तज्ज्ञानं चन्दनान्तरे सौरभज्ञानम् । न योगः सन्निकर्षे न भवति । तत्र हेतुश् चक्षुषाऽपीति । फलितमाह तेनेति ॥ ८५० ॥

युक्तिमल्लिका

शुक्तिव्यक्तावेव तस्माद्रजतत्वस्य धीर्यदि ।

सैवोपस्थापिका भूयाच्चक्षुषो मनसोऽपि वा ।

दोषादसन्निकृष्टस्य धीरेवात्रोचिता ततः ॥ ८५१ ॥

सुरोत्तमटीका

साक्षाज्ज्ञानस्य मनसि विद्यमानत्वान् मनोद्वारा चक्षुषो-प्युपकारित्वाद्द्वयमप्युक्तम् । ततः शुक्तिकायामेव प्राग्रजतज्ञानाभावात् ॥८५१॥

सत्यप्रमोदटीका

शुक्तिकायामेवेति । यदि इदं रजतमिति ज्ञानं सुरभि चन्दनखण्डमिति ज्ञानवत् प्रमा स्यादिति यावत् । मनसो बहिरस्वातन्त्र्यान् मानसज्ञाने बहिरर्थस्य भानाय चक्षुषः सहकारित्वाच् चक्षुष इत्युक्तम् । अतः प्रमार्थमेव लौकिको वाऽलौकिको वा सन्निकर्षो अन्वेषणीयः । भ्रमे तु दोष एवात्यन्तासतः प्रतीत्युपपादक इत्याह दोषादिति ॥ ८५१ ॥

युक्तिमल्लिका

असतो यदि न ज्ञानं कथं तत्रासतोऽपि तत् ।

दोषाच्चेद्दोष एवास्तु तर्हि सर्वधुरंधरः ॥ ८५२ ॥

सुरोत्तमटीका

तत्र प्रतीतिस्थले । तज् ज्ञानम् ॥ ८५२ ॥

सत्यप्रमोदटीका

कथमिति । सन्निकर्षाभावस्योभयपक्षेऽपि साम्यात् । दोषवशादत्रासतोऽपि प्रतीतिरिति चेद् अत्यन्तासतोऽपि सममित्याह दोषेति ॥ ८५२ ॥

युक्तिमल्लिका

विशेषणज्ञानजत्वसिद्ध्यै तस्यापणस्थता ।

यदि स्यादक्षसंयोगजत्वात्तर्ह्यस्तु तत्र तत् ।

बाधादिदं न चेत्तर्हि बाधादेव भवेन्न सा ॥ ८५३ ॥

सुरोत्तमटीका

तत्र पुरोवर्तिदेशे । तद्रजतम् । इदं पुरोवर्तित्वम् । सा आपणस्थता ॥ ८५३ ॥

सत्यप्रमोदटीका

सिद्ध्यै त्वत्परिकल्पिताप्रामाणिकप्रक्रियानिर्वाहाय । तर्हि त्वत्प्रक्रियानुसारेणैव । विशेषणज्ञानस्य चक्षुःसंयोगजन्यत्वस्य त्वयै-वाभ्युपगमात् । तद् रजतं तत्र पुरोदेश एव । बाधाद् अत्यन्तासदेव रजतं प्रत्यभादिति बाधानुभवविरोधात् । इदं पुरोदेशवृत्तित्वम् । सा आपणस्थता । बाधकज्ञानेन सत्त्वमात्रस्य प्रतिषेधादिति भावः ॥ ८५३ ॥

युक्तिमल्लिका

रजतं दृष्टमित्युक्ते किमापणगतं त्विति ।

पृष्टस्तन्नैतदन्यच्चेत्याह किं नाखिलो जनः ।

सर्वानुभवबाधाय नालं त्वत्प्रक्रियातटित् ॥ ८५४ ॥

सुरोत्तमटीका

बाधमेव दर्शयति ॥ रजतमिति ॥ तदापणगतम् । एतत्पुरोवर्तिदेशे प्रतीयमानम् । अखिलो जनः । अत्र दृष्टं रजतं तदापणस्थं न किंत्वन्यदेवेति नाह किमिति सम्बन्धः । अतोऽत्र दृष्टरजतस्यापणस्थता सर्वानुभवबाधितेति भावः । परप्रक्रियाया अस्थिरत्वात्तटिदित्युक्तम् ॥ ८५४ ॥

सत्यप्रमोदटीका

भ्रान्त्यनुभवान्यथाऽनुपपत्त्या आपणस्थत्वसिद्धिपक्षं सुधोक्तप्रकारेण निराह तन्नैतद् इति । पुरोदेश एव रजतम् । अन्यन् न आपणस्थं न इत्येव सार्वजनीनो भ्रान्त्यनुभवः । प्रक्रियातटिदिति । चलायां तटिदि स्थिरत्वं यथा बाधितं, तथा अनुभवविरुद्धा प्रक्रियैव बाधितेति हृदयम् ॥ ८५४ ॥

युक्तिमल्लिका

शशशृृङ्गं यथा नास्ति नासीन्नापि भविष्यति ।

शुक्त्यात्मकं तथा रूप्यं नासीदस्ति भविष्यति ।

एवं द्वयोश्च साम्येऽपि कस्मादस्मिंस्ततोऽन्यता ॥ ८५५ ॥

सुरोत्तमटीका

शुक्तिरजतस्य शशशृृङ्गस्य च साम्यमाह ॥ शशशृृङ्ग-मिति ॥ एवं कालत्रयेऽपि सत्तानिषेधसाम्ये । अन्यथा विलक्षणता ॥८५५॥

सत्यप्रमोदटीका

अत्यन्तासदेव रजतं प्रत्यभादिति प्रागुक्तबाधानु-भवविरोधं स्मारयति शशशृृङ्गेति । अस्मिन् रजते । अन्यता असद्भिन्नता अन्यत्र सत्त्वमिति यावत् ॥ ८५५ ॥

युक्तिमल्लिका

पूर्वाकारविकारश्च कथं स्याद्दृष्टिमात्रतः ।

न चेदैक्यं च भेदस्स्याच्चरमे दर्शने तव ।

असत्पुरा कथं नोचेद्दृष्टेस्स्यादसतोऽपरम् ॥ ८५६ ॥

सुरोत्तमटीका

इदानीं प्रकृतमनुसरन्प्रागसतश्शशशृङ्गस्य प्रतीतिदशायां प्रातिभासिकत्वं परेणोक्तम् । तदेव दूषणान्तरेणापि दूषयति ॥ पूर्वेति ॥ पूर्वाकारविकारः प्राक्तनासत्त्वाकारस्य पुनः प्रातिभासिकत्वरूपविकारः । न चेद् दृष्टिमात्रेण पूर्वाकारविकाराभावो न चेत् । पूर्वमन्याकारस्य दृष्टि-दशायामाकारान्तरं भवति चेदिति यावत् । ऐक्यं प्राग्विद्यमानमैक्यं चरमे दर्शने भेदस्स्यादिति सम्बन्धः ॥ ८५६ ॥

सत्यप्रमोदटीका

अधुना प्रागसदेव शशशृङ्गं प्रतीत्या प्रातिभासिकं संपद्यते इति मायिप्रक्रियाम् अतिप्रसङ्गोक्त्या पराचष्टे पूर्वेति । चरमे इति । प्राक् वेदैः परोक्षतया प्रतीतम् ऐक्यं चरमसाक्षात्कारेण भेद आपद्येतेति भावः । न च प्रमात्वेन वैषम्यम् । निष्प्रकारतयाऽभ्युपगते प्रमात्वासम्भवादेवेति ध्येयम् ॥ ८५६ ॥

युक्तिमल्लिका

विमतं शुक्तिरजतं नासतो व्यतिरिच्यते ।

त्रिकाल्यां च निषेध्यत्वान्मायिमस्तकशृङ्गवत् ॥ ८५७ ॥

अनानुभविकं तस्मान्मतमेतद्दुरात्मनाम् ।

नृशृृङ्गवच्छुक्तिरूप्यमसदेवेति निर्मलम् ॥ ८५८ ॥

सुरोत्तमटीका

शुक्तिरजतस्यासद्वैलक्षण्याभावेऽनुमानमाह ॥ विमत-मिति ॥ न व्यतिरिच्यत इति सम्बन्धः । सर्वानुभवसिद्धमसत्त्वमपलपन्परः पशुरिति ज्ञापनाय मायिमस्तकशृृङ्गवदित्युक्तम् ॥ ८५७,८५८ ॥

सत्यप्रमोदटीका

मायीति । न च दृष्टान्ते साध्यवैकल्यं परेण शङ्कार्हम् । तथा सति स्वस्यैव पशुत्वापत्तेरिति भावः ॥ दुरात्मनाम् अवैदिकं शून्यमतमेव वैदिकत्वेन छद्मना वर्णनपराणाम् ॥ ८५७,८५८ ॥

युक्तिमल्लिका

असतश्शशशृङ्गस्य प्रत्यक्षेण भ्रमे सति ।

प्रातिभासिकता स्याच्चेत्प्राग्धीरसत एव सा ॥ ८५९ ॥

सुरोत्तमटीका

प्राक्प्रातिभासिकत्वसंपत्तेः प्राक् । सा प्रातिभासिकत्व-सम्पादिका ॥ ८५९ ॥

युक्तिमल्लिका

सन्घटस्सन्पटस्स्तम्भस्सन्नित्यादीनि देहिनाम् ।

सत्त्वापरोक्षज्ञानानि वर्तन्ते तत्र तत्र हि ॥ ८६० ॥

कालत्रयाबाध्यता च साक्ष्युपस्कृतचक्षुषा ।

कुतो न गृह्यते नो चेच्चक्षुषेदन्त्वधीः कथम् ।

वर्तमानोऽपि कालोऽयं साक्षिवेद्यो न चाक्षुषः ॥ ८६१ ॥

सुरोत्तमटीका

इदानीं दृश्यत्वानुमानस्य कालात्ययापदिष्टतामाह ॥ सन् घट इत्यादिना ॥ सन्घट इत्यादि धर्मिग्राहकप्रत्यक्षेण जगतस्सत्त्व-सिद्धेर्बाधितविषयकं मिथ्यात्वानुमानमिति भावः । सन्घटस्सन्पट इत्यादि-व्यवहारेषु सच्छब्देन सत्त्वस्यादौ ग्रहणे इदं रजतमित्यत्रेदन्त्वस्येव तस्या-प्यधिष्ठानब्रह्मगतत्वशङ्का स्यादपि । विश्वं सत्यं घटोऽस्ति पटोऽस्ति पर्वतोऽग्निमानित्यादौ प्राग्विश्वघटादिकं धर्मिणमनूद्य पश्चादेव सत्यत्वादिधर्म-विधानदर्शनेन सर्वत्रापि घटस्सन्पटस्सन्नित्यादिव्यवहारो न्याय्यः । यद्यपि ग्रन्थकृतश्छन्दोबद्धग्रन्थत्वेन छन्दोभङ्गभिया प्राक्प्रयोगद्वये सत्पदस्यादौ प्रयोगस् तथापि युक्तेरनुल्लङ्घ्यत्वात्पाठक्रमादर्थक्रमो ज्यायानिति न्यायेन घटस्सन्पट-स्सन्नित्येवान्वयः कर्तव्यः । एवं च प्राक्सदंशप्रयोगाभावेन परकीयशङ्काया गर्भस्राव एवेति भावेनान्ते स्तम्भस्सन्निति प्रयोगः कृतः ।

ननु कालत्रयाबाध्यत्वरूपसत्त्वं कथं कालागोचर चक्षुषा गृह्यत इति चेन् न । उक्तविधया सत्यत्वग्राहकत्वेन सर्वानुभवसिद्धचक्षुषि कथंताया एवा-नवकाशात् । अन्यथा गन्धाग्राहके चक्षुषि रूपग्राहकत्वमपि कथमिति चोद्यस्य किमुत्तरम् । अनुभवबलेन ग्राहकत्वशक्तिकल्पनस्योभयत्र साम्यात् । अन्धे रूपज्ञानादर्शनाद् अनन्धे च तद्दर्शनाद् अन्वयव्यतिरेकाभ्यामेव रूपग्राहकत्वं कल्प्यते चेत् तत एव रूपनिष्ठसत्त्वग्राहकत्वमपि कल्प्यताम् । रूपदर्शनस्येव रूपनिष्ठसत्त्वदर्शनस्यापि उक्तविधयाऽन्वयव्यतिरेकयोस्साम्यात् । महत्त्वे सत्युद्भूतरूपवतो ग्राहकस्य चक्षुषः कथं तद्रहितकालत्रयग्राहित्वमिति चेन् न । तद्रहितरूपस्याप्यग्रहणप्रसङ्गात् । द्रव्यग्रह एव तत्प्रयोजकं न गुणग्रह इति चेन् न । स्वातन्त्रेण द्रव्यग्रहे तत्प्रयोजकं नोपनीतद्रव्यग्रह इति मयापि वक्तुं शक्यत्वात् । किञ्च किमर्थमिदं प्रयोजकं द्रव्य एव न गुण इति विभागः क्रियते । रूपरहितरूपस्यापि ग्रहणाच्चेत् तर्हि रूपरहितकालस्यापि ग्रहणा-द्द्रव्येऽपि विभागः क्रियताम् । कुतस्तर्हि चक्षुषाऽन्यत्र कालानवलोकनमिति चेत् तप्तवारिस्थतेजसि तव रूपानवलोकनवदिति ब्रूमः । तत्रानुद्भूतं तदिति चेद् अन्यत्र कालोऽप्यनुद्भूत इति ब्रूमः । अनुद्भूतत्वं गुणगता जातिः, कथं काल इति चेन् न । लाघवादुद्भूतत्वमेव जातिः । तदभावोऽनुद्भूतत्वम् । तच्चाप्रतीत्याख्यफलबलोन्नेयं यत्र यत्राप्रतीतिस्तत्र तत्र कल्प्यते । क्वचिच्चक्षु-र्ग्राह्ये सर्वथा तदयोग्यताया वक्तुमशक्यत्वात् । अन्यत्राप्रतीताविदमेव तन्त्रम् । उपनायकज्ञानस्यापि घटस्थल इव सर्वत्रापि सत्त्वात् । अन्यथा तप्तवारिस्थते-जोरूपे कथं तत्कल्पनम् । एकभागेन दर्शनमपरभागेनादर्शनं च तप्तवारिस्थ-तेजोरूपवदेव । प्रतीतिमनुरुध्यकल्पयता यथाप्रतीति सर्वं च कल्पनीयम् ॥ सुहृद्भावेन पृच्छन्तं प्रत्युत्तरमाह ॥ कालेति ॥ ८६०,८६१ ॥

सत्यप्रमोदटीका

‘सन् घट इत्यादि प्रत्यक्षेण बाधितविषयत्वात् कालात्ययापदिष्टश्च’ इति वादावल्युक्तं दृश्यत्वाद्यनुमानानां प्रत्यक्षबाधं समर्थयते सन्निति । ननु कथं वर्तमानकालसम्बन्धित्वरूपसत्त्वविषयकत्वम् । कालस्य रूपरहितस्य चक्षुरयोग्यत्वादिति चेन्न । साक्ष्युपनीततया काल-भानाङ्गीकारात् । ‘तदेतदिति सर्वं च दृश्यं वा स्मृतिगोचरम् । साक्षिसिद्धेन कालेन खचितं ह्येव वर्तते’ इत्यनुव्याख्यानोक्तेः । कालस्योपनीततयाऽपि चाक्षुषप्रत्यक्षाविषयत्वे ‘अयं घट’ इति प्रत्यक्षमपि दुर्घटं स्यादित्याह वर्तमान इति ।तथा च साक्ष्युपनीतकालत्रयसम्बन्धिबाधाभावविषयकत्वमपि चाक्षुष-प्रत्यक्षस्य सम्भवत्येवेति भावः

॥८६०,८६१ ॥

युक्तिमल्लिका

किञ्च त्रिकालबाध्यत्वमेककालेऽप्यबाधने ।

न स्यादतश्चक्षुषैव त्रिकालाबाध्यतेयते ॥ ८६२ ॥

सुरोत्तमटीका

प्रकारान्तरेणापि त्रिकालाबाध्यत्वरूपसत्त्वग्राहकता-मुपपादयति ॥ किञ्चेति ॥ अत एककालाबाध्यत्वग्राहित्वेऽपि त्रैकालिक-बाधप्रतिक्षेपसमर्थत्वात् ॥ ८६२ ॥

सत्यप्रमोदटीका

‘न च तस्योत्तरकालीनबाधाभावाग्राहकत्वं तदानी-मबाध्यताग्रहणेनैव तत्सिद्धेः’ इति वादावल्युक्तिमनुरुध्याह किञ्चेति । तदुक्तं न्यायामृते ‘‘स्वकाले ह्यस्तितां गृह्णन् साक्षात्कारस्त्रिकालगम् । प्रतिषेधं निरुन्धानो गृह्णात्येवात्यबाध्यतामि’’ति । कालत्रयस्याधिकरणकोटौ प्रवेशात् साक्षाद्ग्राह्याभावावगाहित्वेनैव विरोध इति भावः ॥ ८६२ ॥

युक्तिमल्लिका

किञ्च ब्रह्मगतं सत्त्वं सन्घटस्त्विति दृश्यते ।

इति तेऽपि मतं तच्च त्रिकालाबाध्यता न किम् ॥ ८६३ ॥

सुरोत्तमटीका

अपि च सन्घट इत्यादौ अधिष्ठान ब्रह्मनिष्ठसत्तैवो-ल्लिख्यत इति वदता परेणापीदं समाधेयमित्याह ॥ किञ्चेति ॥ तद् ब्रह्मनिष्ठसत्त्वम् ॥ ८६३ ॥

सत्यप्रमोदटीका

परेणाप्येतदङ्गीकृतमित्याह किञ्चेति । ब्रह्मगतमिति ‘सर्वप्रत्ययवेद्ये च ब्रह्मरूपे व्यवस्थिते’ इति सुरेश्वरवार्तिकोक्तेः ॥ ८६३ ॥

युक्तिमल्लिका

त्रिकालाबाध्यता तस्माच्चक्षुषैव निरीक्ष्यते ।

तत्तद्गता मेऽन्यगा ते शक्तिस्तूभयसंमता ॥ ८६४ ॥

सुरोत्तमटीका

तस्मात् त्रिकालबाध्यत्वग्राहकत्वस्य त्वयाप्यङ्गीकारात् । तत्तद्गता घटपटादिपदार्थेष्वेव स्थिता अबाध्यता । मे मम मते । अन्यगा ब्रह्मनिष्ठा । ते तव मते । शक्तिश् चक्षुषस्त्रिकालाबाध्यत्वग्रहणशक्तिः ॥८६४॥

सत्यप्रमोदटीका

अन्यगा अधिष्ठानब्रह्मगता । शक्तिश् चक्षुषस्त्रिकाला-बाध्यत्वग्रहणशक्तिः ॥ ८६४ ॥

युक्तिमल्लिका

अन्वयव्यतिरेकाख्यसाचिव्ये सति चक्षुषा ।

यथा कारणता दण्डे गृह्यते सर्वलौकिकैः ॥ ८६५ ॥

दोषाभावस्थलीयत्वयुक्त्युपोद्बलितं तथा ।

त्रिकालाबाध्यतां स्वार्थे गृह्णीयाच्चक्षुरेव हि ॥ ८६६ ॥

सुरोत्तमटीका

प्रकारान्तरेणापि सत्त्वग्राहित्वमुपपादयति ॥ अन्वयेति ॥ चक्षुषो यथाकारणतायास्स्वायोग्यत्वेऽप्यकारणरासभादितो व्यावृत्तान्वय-व्यतिरेकाख्यसहकारिसामर्थ्याच्चक्षुरेव तां गृह्णाति । तथा दोषस्थलीयबाध्य-शुक्तिरजतसत्त्वाद्व्यावृत्तदोषाभावस्थलीयत्वाख्ययुक्त्युपोद्बलितं चक्षुस्त्रिकाला-बाध्यसत्तां गृह्णातीति भावः ॥ ८६५,८६६ ॥

सत्यप्रमोदटीका

‘सहकारिसामर्थ्ये करणानां शक्त्यन्तराविर्भावस्य बहुलमुपलम्भात्’ इति पद्धत्युक्तिदृष्टान्तकथनपूर्वकं प्रकृते सङ्गमयति अन्वयेति । कारणता दण्डनिष्ठा घटजननानुकूलाऽतीन्द्रियशक्तिः ॥ ‘प्रकृते तु तादृशाबाधकादर्शनात् त्रिकालाबाध्यतैव निरपवादात्सिध्यति’ इति वादावल्युक्तमाह दोषाभावेति ॥ ८६५,८६६ ॥

युक्तिमल्लिका

यद्यधिष्ठानगं सत्त्वं भासते घटगं न तत् ।

नीलो घट इति ज्ञाने नैल्यं ब्रह्मगतं भवेत् ।

असद्रजतमित्यत्रासत्त्वं ब्रह्मगतं भवेत् ॥ ८६७ ॥

सुरोत्तमटीका

प्रतिबन्दीग्रहणाय गृहीतामपि अधिष्ठानगतसत्त्वमेव घटादौ प्रतीयत इति परप्रक्रियां स्वेनोच्यमानजगत्सत्यताविरोधित्वादसहमानः किञ्चिद्दूषयति ॥ यदीति ॥ तत्सत्त्वम् । सन्घट इति प्रतीतेर्नीलो घट इत्यादिप्रतीतेश्चाविशेषादिति भावः । उपलक्षणं चैतत् । ब्रह्मगतसत्त्वस्यैव जगति प्रतिभासाङ्गीकारे पुनस्सत्त्वान्तरस्यानानुभविकत्वेन व्यावहारिक-सत्त्वस्याभावप्रसङ्गात् सत्तात्रैविध्यभङ्गप्रसङ्ग इत्यपि द्रष्टव्यम् ॥ ८६७ ॥

सत्यप्रमोदटीका

मतमिति ॥ विवादाध्यासितं, सद्रूपे कल्पितं, प्रत्येकं तदनुविद्धतया प्रतीयमानत्वाद् इति ब्रह्मसिद्ध्युक्तम् । नील इति स्पष्टं घटादि-निष्ठतया प्रतीयमानमपि सत्त्वं यदि ब्रह्मनिष्ठम् इति मतं तर्हि नीलो घटश् चलति घटः, इत्यादावपि प्रतीयमानं रूपक्रियादिकमपि ब्रह्मनिष्ठमापद्येत इति भावः । इदमुपलक्षणम् । शब्दैकगम्यस्य ब्रह्मणश्चाक्षुषज्ञानेऽभानाच्चेति बोध्यम् । एतदनुपदमेव वक्ष्यते ॥ ८६७ ॥

युक्तिमल्लिका

त्वया प्रतीतमप्येतदसदित्येव चोदिते ।

सदेवेदमिति प्राहुस्सत्त्वं तत्कथमन्यगम् ।

आम्रान्पृष्टः कोविदारानाचक्षाणोऽस्ति कः पुमान् ॥ ८६८ ॥

सुरोत्तमटीका

सकलानुभवविरोधाच्च नेदमधिष्ठानगतसत्त्वमित्याह ॥ त्वयेति ॥ एतद्घटपटादिकम् । असत् सत्त्वाभाववत् । घटपटादेरेव सत्त्वाभावे चोदिते तस्यैव सत्त्वमवधारयन्तस्सन्तस्तद्गततयैव सत्त्वमनुभवन्ति । नौदासीन्येन नाप्यन्यगतत्वेनेति भावः । न च वाच्यं शुक्तिकारजतसत्त्वानु-भववदयमप्यनुभवो भ्रम एवेति । अतिदूरत्वादि दोषाभावेन घटादिस्सन्नेति बाधकाभावेन च वैषम्यात् । तूष्णीमेव भ्रान्तत्वेऽधिष्ठानगतमपि सत्त्वं भ्रान्तं स्यात् । अधिष्ठानगतसत्त्वस्यापि भ्रान्तत्वे कथं निरधिष्ठानको भ्रम इति चेन् न । निष्प्रधानकभ्रमवदेवास्यापि वक्तुं शक्यत्वस्य प्रागेवोक्तत्वात् । तत्तन्निष्ठ-तयाऽनुभूतमबाधितं सत्त्वं बलादधिष्ठानगतं कृत्वा तस्याधिष्ठानतां सम्पाद्या-नानुभविकं च कञ्चन दोषं परिकल्प्याबाधितसर्वानुभवस्य भ्रमत्वमापाद्य स्वापेक्षिततत्तदर्थक्रियाकारिणां धनवनितावसनान्नपानादीनां मिथ्यात्वकल्प-नातोऽपि यथानुभवं तत्तदर्थसत्ताङ्गीकारस्यैव लघुत्वाच्च । अन्यथा जड एवायमनित्य एवायमित्याद्यनुभवसिद्धजडत्वानित्यत्वादीनामपि अधिष्ठानब्रह्म-गतत्वं स्यात् । समानन्यायत्वात् । अर्धजरतीयानुपपत्तेश्च । ब्रह्मणि जडत्वा-नित्यत्वादिकं श्रुतियुक्तिबाधितं चेत्तर्ह्यर्थक्रियाकारिणि जगत्यपि सर्वानुभव-श्रुतियुक्तिबाधितं मिथ्यात्वं कथमङ्गीकुरुषे । प्रमाणत्रयप्रमितां च सत्तां कथमन्यत्र नयसि । कथं च विश्वं सत्यमित्याद्यागमानां प्रत्यक्षसिद्धानुवादि-त्वेनाप्रामाण्यमानयसि ॥ ८६८ ॥

सत्यप्रमोदटीका

अनुभवविरोधं च परस्याह त्वयेति ॥ स्फीतालोक-मध्यवर्ती सन्निकृष्टोऽपि अयं घटः सन्नेति केनचिच्चोदिते प्रतिवक्तारो भवन्ति अयं घटः सत्यो भवत्येवेति । यदि पुनः न सन् घट इति चोदनं ब्रह्मविषयकं तर्हि उत्तरमपि तद्विषयकमेव स्यात् । ज्ञानानां स्वतः प्रामाण्यसिद्धघट-सत्त्वापलापे ब्रह्मणोऽप्यपलापेन शून्यवादापत्तिरिति भावः ॥ ८६८ ॥

युक्तिमल्लिका

लोकानुभवबाधाय नालं त्वत्प्रक्रियातटित् ॥ ८६९ ॥

अचाक्षुषब्रह्मसत्ता चक्षुषा कथमीक्ष्यते ।

ब्रह्मणोऽचाक्षुषत्वं च सिद्धमुक्तप्रकारतः ॥ ८७० ॥

सुरोत्तमटीका

ननु स्वपूर्वाचार्यप्रक्रियासंरक्षणाय सर्वमिदं कल्प्यत इति चेत्तत्राह ॥ लोकेति ॥ लोकानुभवेत्युपलक्षणम् । विश्वं सत्यं यच्चिकेत सत्य-मित्यादि वेदद्रष्टॄणां महर्षीणां सत्यं मे व्याहृतं सतीति स्ववाक्यस्य सत्यत्वं वदतः सर्वज्ञस्य हरेः । एतेन सत्यवाक्येनेत्यादि पुराणप्रवर्तकानां महर्षीणां चानुभवोऽपि ग्राह्यः । लोकृ दर्शन इति धातोर्लोकपदेन वा तेषां ग्रहणम् । तटिदित्यनेन परोदीरितवाक्यानां परेणैव मिथ्यात्वाङ्गीकारादस्थिरत्वं सूचयति

॥ ८६९,८७० ॥

सत्यप्रमोदटीका

उक्तेति ॥ आसंसारमज्ञानावृतं, रूपादिहीनं, शब्दैकगम्यम् इत्याद्युक्तेत्यर्थः ॥ ८७० ॥

युक्तिमल्लिका

न हि कोऽपि पिशाचस्य सत्त्वं पश्यन्प्रदृश्यते ।

वेदैकगम्यादृश्यार्थसत्तां सर्वः किलेक्षते ॥ ८७१ ॥

सुरोत्तमटीका

ब्रह्मसत्यत्वस्याप्रत्यक्षत्वे कैमुत्यमाह ॥ न हीति ॥ ८७१ ॥

सत्यप्रमोदटीका

पिशाचेति । वायवीयदेहवत्त्वेन रूपहीनत्वे दृष्टान्तः । सर्वप्रत्ययवेद्ये चेति परप्रक्रियामपहसति सर्वः किलेति ॥ ८७१ ॥

युक्तिमल्लिका

घटस्सन्भूतले व्योमि्न न सन्रूपं च सद्घटे ।

न व्योम्नीति च विज्ञाते के ते सदसती वद ॥ ८७२ ॥

न ह्यधिष्ठानमाधेयं सच्च तत्सदसन्न हि ॥ ८७३ ॥

सुरोत्तमटीका

प्रकारान्तरेणापि सत्तां घटगतां करोति ॥ घट इति ॥ भूतलाधिकरणकतया घटाधिकरणकतया च प्रतीयमानस्सन्परमतेन ब्रह्म । अवृत्तिपदार्थत्वात् । अधिष्ठानाध्यस्तयोर्द्वयोरेव सत्त्वं वक्तव्यम् । एककर्तृक-वाक्यत्वात् । असत्त्वं च न ब्रह्मणः । किन्तु घटरूपयोरेव । अतस्सत्त्वमपि तयोरेव वक्तव्यम् । घटभूतलयोराधारतया स्पष्टं प्रतीयमानत्वेन त्वदभिमता-धिष्ठानगोष्ठ्या अप्ययोगाच्च ॥ एतदेव दर्शयति ॥ न हीति ॥ सत् सदेक-स्वभावं तद्ब्रह्म ॥ ८७२, ८७३ ॥

सत्यप्रमोदटीका

अधिष्ठानानुवेधं युक्त्यन्तरेणापाकरोति घट इति । भूतले घटः सन्, घटे रूपं सद् इति च सत आधेयत्वं प्रतीयते ॥ ब्रह्म च नाधेयम् । अतः नात्र सच्छब्दार्थः । एवं व्योमि्न घटः सन्नेति एवं रूपं सन्नेति च प्रतीयते । सदेकस्वभावस्य ब्रह्मणः न असद्रूपता । अतो ऽत्र उभयत्र सदसच्छब्दाभ्यां घटरूपे एव त्वयाऽपि बोध्यत्वेन स्वीकरणीय इत्याह न हीति । अत्र उभयत्र रूपघटयोर् व्योमसंसर्गनिषेध एव, न रूपघटयोः, तयोः प्रामाणिकत्वात् । अन्यथा प्रामाणिकप्रतियोगिकात्यन्ताभावाङ्गीकारेण अपसिद्धान्तः स्यादित्यवधेयम् ॥ ८७२,८७३ ॥

युक्तिमल्लिका

यदध्यस्तं घटे सत्त्वं भाति तद्गं हि तद्भवेत् ।

न त्वन्यगामि न ह्यावामन्यथाख्यातिवादिनौ ।

सत्त्वप्रत्यक्षमेतस्मादबाधितमभूदिदम् ॥ ८७४ ॥

सुरोत्तमटीका

एकत्रारोप्यमाणस्यान्यत्र सत्त्वं तार्किकस्यैव शोभते । न तु तव । अपसिद्धान्तादित्याह ॥ यदध्यस्तमिति ॥ एतस्माद् अन्यगत-स्यान्यत्र भ्रान्त्ययोगात् ॥ ८७४ ॥

सत्यप्रमोदटीका

अस्तु वा घटे सत्त्वमध्यस्तम् । तथाऽपि न तद् ब्रह्मगतमिति त्वया वक्तुं शक्यम् । अन्यत्र सतो ऽन्यत्र भानम् इति तार्किकमतप्रमोषापत्तेरित्याह यदिति । आवामिति । मम मते अध्यस्तम् असदेव । तव तु अनिर्वचनीयख्यातिवादिनस् तत्सदेव । असद्वैलक्षण्याख्य-स्वरूपाङ्गीकारात् । सर्वथा नान्यगतमिति भावः । अबाधितमिति श्रुतिस्तु प्रत्यक्षसिद्धं न बाधितुमीष्टे । अतीन्द्रियार्थविषयकत्वात्तत्प्राबल्यस्येति भावः ॥ ८७४ ॥

युक्तिमल्लिका

किञ्चाधिष्ठानगा सत्ता घटाद्यनुगतेति सा ।

घटेऽपि दृश्यते किं वा तन्निष्ठाऽऽरोप्यते घटे ॥ ८७५ ॥

उत तत्रैव सा दृष्टा घटो घटतयेक्ष्यते ।

किं वा घटे पृथक्सत्त्वं तत्स्थमेव निरीक्ष्यते ॥ ८७६ ॥

आद्ये चैतन्यवत्सत्तासिद्धेस्सिद्धं समीहितम् ।

द्वितीये तु चिदैक्यस्यारोपे स स्यान्न चान्यथा ॥ ८७७ ॥

सुरोत्तमटीका

इदानीं घटादिप्रपञ्चे सत्त्वस्यैवाप्रतीतौ व्यावहारिक-सत्त्वस्याप्यभावप्रसङ्गेन ब्रह्मगतसत्त्वस्यात्र प्रतीतावन्यथाख्यात्यापत्त्या तेषु तेष्वेव तत्तत्सत्त्वस्य प्रत्येतव्यत्वे सिद्धेऽविद्यानिवृत्त्युत्तरकालीन तत्तदधिष्ठान-चैतन्यस्य तत्तज्ज्ञानत्वं वदतः परस्यैव रीत्याऽविद्याख्य दोषायोगेन काचादि-दोषाणां सर्वसंमत्याप्यभावेन निर्दोषकरणजन्यमत एव बाधायोग्यं घटादिप्रत्यक्षं सर्वैरप्यनुल्लङ्घ्यमिति भावेन सविस्तरं परपक्षं विकल्प्य दूषयति ॥ किञ्चेति ॥ सा सत्तेति सम्बन्धः । तन्निष्ठा ब्रह्मनिष्ठा ॥ तत्रैव ब्रह्मण्येव । घटे सत्त्व-प्रतीतिरेव नास्तीत्येवकारार्थः । तत्स्थं घटस्थम् ॥ सत्तासिद्धेर् घटेऽपि सत्ता-सिद्धेः । समीहितं ब्रह्मवज्जगत्सत्यत्ववादिनां समीहितम् । सः ब्रह्मगत-सत्तारोपः ॥ ८७५-८७७ ॥

सत्यप्रमोदटीका

‘प्रत्यक्षबाधितं च जगन्मिथ्यात्वम् । सदिति प्रतीय-मानत्वात्’ इति तत्त्वोद्योतं समर्थयमानः परपक्षे सत्त्वं विकल्प्य दूषणेन, प्रत्यक्षस्य त्रिकालाबाध्यताग्राहकत्वं व्यवस्थापयति किञ्चेत्यादिभिः ॥ प्रत्यक्षेण प्रतीयमाना सत्ता ब्रह्मगतैवेति वा, ब्रह्मगता प्रपञ्चे आरोपितेति वा, घट इत्येव प्रात्यक्षिकी प्रतीतिर् न तु घटः सन्निति वा, पृथक् घटगतैव सत्ता प्रत्यक्षगोचर इति वा इति चतुर्धा विकल्प्य आद्ये दोषमाह आद्य इति । सिद्धमिति ‘यादृशं ब्रह्मणः सत्त्वं तादृशं स्याज्जगत्यपि’ इति अस्माभिरपि ब्रह्मगतपारमार्थिकसत्त्वस्यैव प्रपञ्चस्याप्याशासनात्तदुक्तं परेणापि ‘सत्वा-च्चावरस्य’ इति सूत्रभाष्ये ‘यथा च कारणं ब्रह्म त्रिषु कालेषु सत्त्वं न व्यभिचरति एवं कार्यमपि जगत् त्रिषु कालेषु सत्वं न व्यभिचरती’ति । द्वितीयं निराह चिदैक्यस्येति । सत्ता हि ब्रह्मणः सद्रूपस्य स्वरूपमेव । अतस् तदारोपश् चिदैक्यारोपं विना न घटते । अतश् चिदैक्यारोपोऽपि जगति अङ्गीकार्य इत्याह स इति सत्तारोपः॥ ८७५-८७७ ॥

युक्तिमल्लिका

उक्तरीत्या चिदैक्यस्यारोपस्स्यात्प्रातिभासिकः ।

न चेतनो घट इति बाधस्याद्यैव दर्शनात् ॥ ८७८ ॥

सुरोत्तमटीका

उक्तां रीतिमेव स्मारयति ॥ नेति ॥ औव ब्रह्मज्ञाना-त्पूर्वमेव ॥ ८७८ ॥

सत्यप्रमोदटीका

अस्तु चिदैक्यारोपोऽपि इति तत्राह नेति । ‘दृश्यते च जगदिदानीम् आत्मनो भिन्नत्वेन’ इति वादावल्युक्तब्रह्मज्ञानात् प्रागेव चिदैक्यस्य बाधदर्शनाच् चिदैक्यं प्रातिभासिकं स्याद् इत्याशयः ॥ ८७८ ॥

युक्तिमल्लिका

प्रातिभासिकसत्ता भूद्घटसत्ताऽपि ते मते ।

अर्थक्रियाया घटकं सत्त्वं नेत्यफलो घटः ॥ ८७९ ॥

सुरोत्तमटीका

अर्थक्रियाया घटकं सत्त्वं प्रातिभासिकसत्त्वादधिकं सत्त्वमित्यर्थः । दूषणान्तरमिदम् । प्रागुक्तापसिद्धान्तादिकं च द्रष्टव्यम्

॥ ८७९ ॥

सत्यप्रमोदटीका

अस्तु तदपि इति चेदर्थक्रियाविलोपप्रसङ्ग इत्याह सफल इति ॥ ८७९ ॥

युक्तिमल्लिका

घटे चेदुल्लिखेत्सा धीः पारमार्थिकसत्यताम् ।

क्षिपेदसत्यतां तस्य भाविबाधश्च बाध्यते ॥ ८८० ॥

सुरोत्तमटीका

दूषणान्तरं चाह ॥ घट इति ॥ सा सन्घट इत्यादि-रूपा । तस्य घटादिप्रपञ्चस्य । अबाधितपारमार्थिकसत्यत्वग्राहिप्रत्यक्षविरोधे अनुमानादिशतकेनापि मिथ्यात्वं वक्तुं न शक्यत इति भावः । ननु ब्रह्मगत-सत्त्वस्यैव जगति भ्रान्त्या भानात्कथं तेन जगन्मिथ्यात्वप्रतिक्षेप इति चेत्सत्यम् । प्रतीयते तावज्जगति पारमार्थिकं सत्त्वम् । तस्य च भ्रान्ति-सिद्धत्त्वम् । अत्रासत्त्वे ब्रह्मण्येव च सत्त्वे सति स्यात् । तत्र च न ताव-त्प्रत्यक्षं प्रमाणम् । तेन त्वद्रीत्या मद्रीत्या चात्रैव सत्त्वस्योल्लिख्यमानत्वात् । वस्तुस्थित्या तन्निष्ठस्यात्रोल्लेखेऽपि ब्रह्मगततयाऽनुल्लेखाच्च । नाप्यनुमानम् । अनुमानबाधायावतीर्णप्रत्यक्षस्याग्रे पुनरुच्यमानानुमानशतकस्यापि काला-त्ययापदिष्टताया अपरिहारात् । नाप्यागमः । घटे प्रतीयमानं सत्त्वं न घटगतं किन्तु ब्रह्मनिष्ठमित्याकारकवाक्यस्य क्वाप्यदर्शनात् । प्रत्यक्षसिद्धघोषा-नाधारत्वस्य वाक्यशतकेनापि बाधादर्शनाच्च । तस्मादबाधितसत्त्वग्राहिप्रत्यक्षेण स्यादेवमिथ्यात्वप्रतिक्षेपः । भाविबाधकवतश्शुक्तिरजतादेः काचादिदुष्टकरण-जन्यज्ञानविषयत्वनियमेन प्रकृते च तदभावस्योभयवादिसम्प्रतिपत्त्या त्वद्रीत्यैवा- विद्यानिवृत्त्युत्तरकालीनप्रतीतेरविद्याख्यदोषमूलत्वस्याप्यसम्भवेनादुष्ट-सार्वजनीनकरणजन्यज्ञानविषयस्यार्थक्रियाकारिणश्च घटादेस्त्वदभिलषितचरम-साक्षात्कारात्प्रागेव विनष्टस्य निष्प्रकारके तस्मिन्नास्तीत्यनुल्लिख्यमानस्य च भाविबाधोऽपि बाधित एवेति भावः ॥ ८८० ॥

सत्यप्रमोदटीका

अतो जगतो ब्रह्मणो भिन्नत्वेन दृश्यमानत्वेन पारमार्थिकसत्यत्वमेव सेत्स्यति । ‘यद्यतो भिन्नत्वेन दृश्यते न तत्तत्रारोपितं, यथा शुक्तिकाया भिन्नत्वेन दृश्यमानं रूप्यं न शुक्तिकायामारोपितं’ इति वादावल्याम् उक्तेः । तथा चासत्यतायाः प्रतिक्षेपः, भाविबाधकशङ्काया उन्मूलनं चेत्याह क्षिपेदिति ॥ भाविबाधः न प्रत्यक्षेण । अननुभवात् । सत्यः स्तम्भो भवत्येवेति सत्यत्वस्यैव तेनावधारणात् । नानुमानेन । प्रत्यक्षविरोधेन प्राप्तमरणावस्थस्य प्रत्यक्षविरोधेऽक्षमत्वात् । अन्यथा दहनशैत्यानुमानमपि तदुष्णताऽवगाहिप्रत्यक्षबाधेन प्रमाणं प्रसज्येत । नाप्यागमेन । ‘न ह्यनुभव-विरोधे आगमप्रामाण्यम् । आगमप्रामाण्यानुभवस्यैवाप्रामाण्यप्राप्तेः’’ इति भगवत्पादोक्तेः । प्रत्यक्षविरोधे आगमस्यान्यार्थकल्पनाया एव न्याय्यत्वात् । तदुक्तं ‘न प्रत्यक्षसिद्धम् अन्येन केनापि बाध्यं दृष्टमि’ति ॥ ८८० ॥

युक्तिमल्लिका

आरोपितत्ववार्ता तु बाधदृष्टेर्न शोभते ॥ ८८१ ॥

सुरोत्तमटीका

एतदेव दर्शयति ॥ आरोपितत्वेति ॥ आरोपितत्ववार्ता सत्त्वस्यारोपितत्ववार्ता ॥ ८८१ ॥

युक्तिमल्लिका

चिद्भिन्नत्वेनैव दृष्टघटादौ जडवस्तुनि ।

यत्सत्त्वं दृश्यते तच्च तद्गं स्यान्न तु चिद्गतम् ॥ ८८२ ॥

सुरोत्तमटीका

युक्त्यन्तरं चाह ॥ चिद्भिन्नत्वेनेति ॥ तद्गं जडवस्तु-गतम् । भेदेन दृष्टपदार्थधर्मस्य भिन्नतया दृष्टेऽन्यस्मिन्नारोपायोगादिति भावः ॥ ८८२ ॥

सत्यप्रमोदटीका

चिदिति । चिद्भिन्ने जगति चिद्गतासाधारणधर्मस्य तत्सत्त्वस्याप्यभाव आवश्यकः । अतः प्रतीयमानं सत्त्वं जगद्गतमेवेत्याह तद्गमिति ॥ ८८२ ॥

युक्तिमल्लिका

चिदसाधारणो धर्मस्सत्ता किल भवन्मते ।

चिदन्यत्वग्राहिणी चित्किं तां तत्र न बाधते ॥ ८८३ ॥

न चेत्स्वगतचित्त्वं च कुतो नारोपयेद्घटे ।

जातिक्षयो वा गर्भस्य स्रावो वा तद्भवेद्ध्रुवम् ॥ ८८४ ॥

सुरोत्तमटीका

तां सत्ताम् । तत्र घटादौ । बाधते न प्रत्येतुं मुञ्चति ॥ न चेत् स्वनिष्ठसत्तां न बाधते चेत् । जातिक्षयश् चित्त्वस्यान्यत्रारोपे स्वा-साधारणचित्त्वजातिक्षयः । प्रातिभासिकारोपे जात्यपसरणाभावेऽपि व्यावहारि-कारोपे ब्रह्मणीव घटेऽपि चित्त्वापरिहाराद् घटगतजडत्वजातिक्षयो वा । गर्भस्य स्रावश् चित्त्वानारोपे सत्त्वस्याप्यारोपासम्भवेन शङ्काया गर्भस्रावः । तत् तस्मात् सत्त्वारोपवच्चित्त्वारोपस्य न्यायप्राप्तत्वात् । व्यावहारिकारोपस्य तत्त-ज्जातिव्यवस्थापकत्वाच्चित्त्वारोपे घटस्यापि चित्त्वमेव स्यात् । जडत्वं च गच्छेत् । चित्त्वानारोपे च सत्त्वस्याप्यनारोपावश्यंभावेन घटसत्त्वस्यान्य-गतत्वशङ्का न घटत इति भावः ॥ ८८३,८८४ ॥

सत्यप्रमोदटीका

तदेव विपक्षे बाधकोक्त्या स्थिरीकरोति चिद-साधारणेति न चेदिति च । चित्त्वस्य जडे आरोपे चित्त्वरूपजातिक्षयः । अनारोपे सत्त्वस्य अनारोपितत्वप्राप्त्या भाविबाधशङ्काया गर्भस्राव इति विवेकः ॥ ८८३,८८४ ॥

युक्तिमल्लिका

घटस्थां कुरु तत्सत्तामन्यथाख्यातिरन्यथा ॥ ८८५ ॥

सुरोत्तमटीका

तत्सत्तां घटसत्ताम् ॥ ८८५ ॥

सत्यप्रमोदटीका

यदि जगति अविद्यमाना सत्ता तत्र विद्यमानत्वेन प्रतीयते । तर्हि असतः सत्त्वेन प्रतीत्यङ्गीकारादनिर्वचनीयख्यातिवादो दत्त-जलाञ्जलिः स्यादित्याह अन्यथेति । अतः प्रतीयमाना सत्ता जगद्गतैवेति फलितम् ॥ ८८५ ॥

युक्तिमल्लिका

सन्निकर्षाय तत्सत्तां चितिस्साक्षात्कृतिश्च ते ।

प्राक्सतीमेव गर्भे स्वे कथमारोपयेद्वद ।

अतश्चतुर्थपक्षोऽपि प्रथमं पक्षमन्वगात् ॥ ८८६ ॥

सुरोत्तमटीका

प्रकारान्तरेणापि घटादौ प्रतीतसत्ता घटादिगतैव स्यात् । न ब्रह्मगतसत्तायास्तत्रारोप इत्याह ॥ सन्निकर्षायेति ॥ सन्निकर्षाय अज्ञान-निवर्तकज्ञानजनकसन्निकर्षाय । तत्सत्तां घटादिसत्ताम् । चितिर् अपरोक्ष-वृत्त्याऽज्ञाननिवृत्तौ सत्यां ब्रह्मस्वरूपभूतज्ञानम् । साक्षात्कृतिर् मानसापरोक्ष-वृत्तिः । प्राक्सतीं पूर्वं विद्यमानाम् । स्वे गर्भे स्वोल्लेखदशाख्योदरे आरोपयेद् अविद्यमानामेव प्रदर्शयेत् । वृत्तेश्चितश्च पूर्वमेवेन्द्रियसन्निकर्षघटनाय विद्यमान-घटसत्ता कथं पुनर्वृत्त्या चिता वाऽऽरोप्यमाणा भवेदिति भावः । प्राग्विद्यमान शिशोर्मातुर्गर्भे पुनरारोहासम्भवं निदर्शनतया ध्वनयितुं गर्भे स्वे कथमारोपये-दित्युक्तम् । अतः घटादिगतसत्त्वस्य द्वेधाप्यारोपितत्वासम्भवात् । चतुर्थपक्षः घटादिनिष्ठसत्त्वस्य पार्थक्यपक्षः । प्रथमं पक्षं घटादेर्ब्रह्मणश्च समानसत्ता-जात्याश्रयत्वपक्षमन्वगाद् अनुसृत्यागात् । सत्त्वद्वयावलम्बित्वैकसत्तावलम्बित्व-रूपभेदसद्भावाद् ब्रह्मसत्त्वभिन्नस्यापि घटादिगतसत्त्वस्योक्तविधया ज्ञानद्वया-त्पूर्वमेव वर्तमानत्वेनानारोपितत्वेन ब्रह्मसत्त्वसमानत्वाच्चान्वगादित्युक्तम् । अन्यथा स एव स इत्यवक्ष्यत् । चतुर्थपक्षेऽपि पारमार्थिकत्वस्यापरिहारा-त्प्रथमपक्ष इवास्मदभीष्टसिद्धिरेवेति भावः ॥ ८८६ ॥

सत्यप्रमोदटीका

सत्ताया अनारोपितत्वे युक्त्यन्तरमाह सन्निकर्षा-येति ॥ चितिःआवरणनिवृत्त्यर्थं साक्षात्कृतिम् अपरोक्षवृत्तिमपेक्षते । अपरोक्ष-वृत्तिश्च सन्निकर्षार्थं प्राक्सत्तामपेक्षते । अत उभययाऽप्युपजीव्यत्वेन प्रागेवा-रोपात् सन्निकर्षघटकतया सिद्धं सत्त्वं कथं पश्चात्तनारोपविषय इति भावः । गर्भे आरोपयेत् प्रसुवीत ॥ न हि भार्यैव भर्तारं सूते यत्नशतैरपि’ इति ध्वनिः ॥ चतुर्थपक्षः जगति पृथक् ब्रह्मसत्ताभिन्नं व्यावहारिकं सत्त्वमस्तीति पक्षः । प्रथमं पक्षं ब्रह्मण इव प्रपञ्चस्य पारमार्थिकसत्त्वमिति पक्षम् । प्रत्यक्षसिद्धस्य व्यावहारिकस्य अबाध्यताया उपपादितत्वादिति भावः ॥८८६॥

युक्तिमल्लिका

तृतीये तु घटाद्यर्थे सत्त्वस्यादर्शने जनः ।

तमादत्ते शुक्तिरूप्यं नादत्ते केन हेतुना ।

अप्रसक्तनिषेधश्च कथमन्ते भवेत्तव ॥ ८८७ ॥

सुरोत्तमटीका

तं घटपटादिकम् । सत्त्वाभावस्योभयत्र साम्यादिति भावः । अन्ते ब्रह्मज्ञानदशायाम् । घटादौ सत्त्वस्यैवाभावे सत्त्वनिषेधा-ख्योन्तिमबाधोऽप्रसक्तनिषेधः स्यादिति भावः ॥ ८८७ ॥

सत्यप्रमोदटीका

तृतीये सत्तात्रैविध्यमते तृतीये प्रातिभासिकत्वे, अर्थस्य अर्थक्रियाकारित्वस्य । केन हेतुना आदत्ते इत्यन्वयः । शुक्तिरूप्यं च केन हेतुना नादत्ते इति च । निष्प्रयोजनत्वस्योभयत्र साम्यादिति भावः । कथमिति अर्थक्रियाऽभावेन शशविषाणायितस्य सत्त्वाप्रसक्तेस् तन्निषेधश् चरमज्ञानेन अन्ते क्रियमाणो ऽसङ्गत एव स्यादिति भावः ॥ ८८७ ॥

युक्तिमल्लिका

चतुर्थे न तृतीयं तत्सत्त्वं नापि द्वितीयकम् ।

बाधस्य बोधे यल्लोको निश्शङ्कं न प्रवर्तते ॥ ८८८ ॥

सुरोत्तमटीका

प्रागतिदेशमात्रेण दूषितं चतुर्थपक्षमिदानीं विस्तरेण दूषयति ॥ चतुर्थ इति ॥ तृतीयं सत्तात्रैविध्यविभागे तृतीयं प्रातिभासिक-सत्त्वम् । तज् जगति प्रतीयमानं सत्त्वम् । द्वितीयं व्यावहारिकम् । प्राति-भासिकत्वपक्षे व्यावहारिकत्वपक्षे च परमते बाधसद्भावाद् बाधस्य बोध इत्युक्तम् । यद् यस्मात् । तस्मान्नेति पूर्वेण सम्बन्धः ॥ ८८८ ॥

सत्यप्रमोदटीका

ब्रह्मसत्तायाः पृथक्सत्ता जगत्यस्तीति चतुर्थपक्षं पुनः दोषान्तरोक्त्या प्रत्याह चतुर्थे इति । न इति भिन्नं पदम् । तत् प्रतीयमानं तृतीयं सत्त्वं न, एवं द्वितीयमपि सत्त्वं न इति योजना । तत्र हेतुर् बाधेति ॥ उभयत्र सत्त्वस्य परिभाषामात्रत्वादिति भावः ॥ ८८८ ॥

युक्तिमल्लिका

कथं च तन्निषेधोऽन्ते बाध्यसत्त्वोररीकृतेः ॥ ८८१ ॥

सुरोत्तमटीका

तन्निषेधः व्यावहारिकसत्त्वस्य निषेधः । बाध्यसत्त्वो-ररीकृतेर् व्यावहारिकसत्त्वस्य परेणाङ्गीकारादित्यर्थः । व्यावहारिकतयाऽङ्गीकृते जगति न तन्निषेधो युक्तः । तस्यापि निषेधे जगतोऽत्यन्तासत्त्वप्रसङ्गात् । एवं च प्रतीतमिदमेव सत्त्वमबाधितमर्थक्रियोपयोगि चेति ब्रह्मसत्तासमानत्वादिदमेव पारमार्थिकं स्यात् । तथा सत्यबाधितं प्रातिभासिकसत्त्वमपि पारमार्थिक सत्त्वं स्यादिति चेत् । न । सत्तायास्सत्त्वे तस्या अपि तादृशत्वापरिहारात् । सैव नाङ्गीकार्या । प्रातिभासिके व्यावहारिकसत्त्वस्यैव, व्यावहारिके च पारमार्थिक सत्त्वस्यैव बाधेऽबाधितयोश्च तयोस्सत्तयोर्ब्रह्मसत्तासमानयोगक्षेमत्वापरिहारात् । सत्तात्रैविध्याङ्गीकारस्तवैव बाधकस्स्यात् । अतस्त्वयाऽप्येकैव सत्ताऽङ्गीकार्या । सदिधातोस्सत्तात्रैविध्येऽननुशासनात् । सत्य आत्मा सत्यो जीवस्सत्यं भिदेति श्रुतौ, सम्भवत्येकवाक्यत्वे वाक्यभेदो हि दूषणमिति न्यायेनैकवाक्यत्वस्य सर्वैर्वक्तव्यत्वाच्च । सा च सत्ता असदेवेदं रजतमिति बाधकप्रत्यये शुक्ति-रजतादौ सन्नैवेति साक्षात्सत्त्वस्यैव प्रतिषेधाद् बाधिताऽस्तु जगति तु द्वितीयं सन्नेति निषेधस्य क्वाप्यदर्शनादबाधितैवास्तु किमनया दुरन्तचिन्तयेति भावः ॥ ८८९ ॥

सत्यप्रमोदटीका

कथमिति । ‘‘स किं प्रत्यक्षाद्याकलितोऽन्यो वा यो निराक्रियते । आद्ये कथमङ्गीकृतस्य निराकरणम् । अन्यश्चेन्निषिध्यतां न नो हानिः’’ इति वादावल्युक्तमत्रानुसन्धेयम् ॥ ८८९ ॥

युक्तिमल्लिका

बाध्यसत्त्वनिषेधश्चाबाध्यसत्त्वसम(र्प)र्थकः ।

तादृक्सत्त्वनिषेधेऽपि न सत्किं ब्रह्म ते मते ॥ ८९० ॥

सुरोत्तमटीका

दूषणान्तरं चाह ॥ बाध्येति ॥ बाध्यं नेत्युक्तेऽबाध्य-त्वस्यैव लाभादिति भावः । तादृक्सत्त्वनिषेधे व्यावहारिकसत्त्वनिषेधे ॥८९०॥

सत्यप्रमोदटीका

समर्थक इति । द्वौ नञाविति न्यायेनेति भावः । तत्र निदर्शनं ब्रह्मेति ॥ ८९० ॥

युक्तिमल्लिका

अर्थेन्द्रियाभियोगार्थमारोपद्वितये मते ।

या सत्ताऽऽवश्यकी पूर्वं सा सर्वा पारमार्थिकी ॥ ८९१ ॥

सुरोत्तमटीका

अतः प्रथमं पक्षमन्वगादित्युक्तमेव विशदयति ॥ अर्थेति ॥ पूर्वम् आरोपद्वितयात्पूर्वम् ॥ ८९१ ॥

सत्यप्रमोदटीका

आरोपद्वितये इति व्यावहारिकत्वप्रतिभासकरूपे । प्रातिभासिकत्वपक्षेऽपि अधिष्ठानेन्द्रियसन्निकर्षस्यावश्यकत्वादिति भावः

॥ ८९१ ॥

युक्तिमल्लिका

सदित्येव प्रतीतेश्च व्यावहारिकता कुतः ।

बाधाद्बोध्यो हि तद्भावो बाधश्चाक्षेण बाधितः ॥ ८९२ ॥

प्रत्यक्षबाधे वाक्यस्यैवान्यार्थस्सर्वसंमतः ।

आगमादक्षबाधे स्याल्लक्षणाया बहिष्कृतिः ।

अक्षादागमबाधे तु मिथ्यात्वोक्तिर्वनं गता ॥ ८९३ ॥

सुरोत्तमटीका

प्रकारान्तरेणापि व्यावहारिकतां निवारयति ॥ सदिति ॥ तद्भावः व्यावहारिकत्वम् ॥ ८९२,८९३ ॥

सत्यप्रमोदटीका

व्यावहारिकता बाध्यता । कुत इति । स्वतः प्रामाण्यनिश्चलत्वादिति भावः । तद्भावः बाध्यत्वम् । बाधाभिमतःस्वयं बाधित उताबाधितः । नाद्यः । तस्य ब्रह्मण इव सत्यत्वस्थापकत्वादित्युक्तम् । न द्वितीयः । असिद्धेः । प्रत्यक्षेण जात्यादिना प्रबलेनैव तस्य बाधात् ॥

लक्षणाया बहिष्कृतिः । तत्त्वमसिवाक्ये, प्रत्यक्षविरोधेनैव हि परेण जहद-जहल्लक्षणोक्ता । ‘कथमेकत्वमनयोर्घटते विपरीतयोः । प्रत्यक्षेण विरोधोऽय-मुभयोरुपलभ्यते’ इति । ‘ऐक्यं तयोर्लक्षितयोर्न वाच्ययोर्निगद्यतेऽन्योन्यविरुद्ध- धर्मिणोः’ इति च । वनं गतेति । मिथ्यात्वमर्थं विहाय प्रत्यक्षानुगुण-मर्थान्तरमेव बोधयेदिति भावः ॥ ८९२,८९३ ॥

युक्तिमल्लिका

परेण बाध्यं पूर्वं चेत्स्मृत्यबाध्या श्रुतिर्भवेत् ।

विधिर्निषेधबाध्यश्चेदहिंसोक्त्या हतः क्रतुः ।

वैयाकरणशास्त्रादौ मर्यादा तत्कृता तथा ॥ ८९४ ॥

सुरोत्तमटीका

वैयाकरणशास्त्रादौ । आदिपदेन मीमांसाशास्त्रम् । तत्कृता पाणिन्यादिकृता । तथा परेण पूर्वं बाध्यं निषेधेन विधिर्बाध्य इत्यादि प्रकारेण ॥ ८९४ ॥

सत्यप्रमोदटीका

परेण बाध्यमिति । यथोक्तं न्यायामृते ‘परत्वं तु प्रमानन्तरभ्रमे व्यभिचारि’ इति । ‘तत्परत्वमसिद्धत्वात्परत्वं व्यभिचारतः । निर्दोषताऽन्यथासिद्धेः प्राबल्यं नैव साधयेदि’ति च ॥ (१/१४११८) हत इति । अग्नीषोमीयं पशुमालभेतेति श्रुतेः क्रतुविधायकत्वं न स्यादिति भावः । तत्कृतेति । पाणिन्यादिकृता परिभाषा तच्छास्त्रमात्रसम्बन्धिनीति भावः ॥ ८९४ ॥

युक्तिमल्लिका

अतः प्राबल्यदौर्बल्ये बाध्यताबाध्यतार्पके ।

सर्वोपजीव्यं प्रत्यक्षं सर्वतः प्रबलं महत् ।

तद्बाधादनुमा बाध्या शब्दोऽप्यन्यार्थतां व्रजेत् ॥ ८९५ ॥

सुरोत्तमटीका

अतस्तत्तद्वादिकृतसंकेतस्यानादरणीयत्वात् ॥ ८९५ ॥

सत्यप्रमोदटीका

सर्वोपजीव्यमिति । यत्प्रामाण्यं स्वस्वरूपसिद्ध्यर्थम् अपवादनिरासार्थं वा यत्प्रामाण्यायत्तं तत्तस्योपजीव्यम् । तथाविधं च साक्षि-प्रत्यक्षमिति भावः । एवं पक्षहेतुसाध्यव्याप्त्यादिग्राहकत्वेन अनुमानं प्रति, शब्दस्वरूपस्य तद्धर्मस्य योग्यतादेः, उपक्रमोपसंहारैकरूप्यादेर् ग्राहकत्वेन आगमं च प्रति बाह्यप्रत्यक्षस्याप्युपजीव्यत्वं न्यायामृतोक्तमनुसन्धेयम् ॥८९५॥

युक्तिमल्लिका

किञ्च श्रुतिरनादित्वात्पूर्वाऽक्षं तु परं नृणाम् ।

अतस्त्वन्न्यायतोऽप्यक्षमागमस्यैव बाधकम् ॥ ८९६ ॥

सुरोत्तमटीका

त्वन्न्यायतः परेण पूर्वं बाध्यत इति न्यायतः ॥८९६॥

सत्यप्रमोदटीका

पूर्वा अक्षमिति पदच्छेदः । तथा च परेणोक्तं, प्राबल्यहेतुः परत्वं, प्रत्यक्षस्यैवेति भावः ॥ ८९६ ॥

युक्तिमल्लिका

तत्त्वमस्यादिवाक्यं च विधिरूपं कथं महत् ।

सत्त्वप्रत्यक्षतस्सत्त्वं यन्निषेधनिषेधनम् ॥ ८९७ ॥

सुरोत्तमटीका

सत्त्वप्रत्यक्षतः कथं महदिति सम्बन्धः । सत्त्वप्रत्यक्षस्य निषेधरूपत्वमुपपादयति ॥ सत्त्वमिति ॥ यद् यस्मात् सत्त्वं निषेधनिषेधनं त्रैकालिकनिषेधस्य निषेधरूपम् । तस्मात्कथं महदिति पूर्वेणान्वयः ॥८९७॥

सत्यप्रमोदटीका

निषेद्धृत्वमपि प्रत्यक्षस्यैवेत्याह तत्त्वमसीति । निषेधत्वम् उपपादयति निषेधेति । अनेनैव सत्त्वग्राहिश्रुतेरपि मिथ्याश्रुतेः सिद्धमित्याह तदिति ॥ ८९७ ॥

युक्तिमल्लिका

निषेधाप्रतियोगित्वं यतस्सत्त्वं विदो विदुः ।

तत्सत्त्वश्रुतितो मिथ्याश्रुतिरासीद्धि दुर्बला ॥ ८९८ ॥

त्रैकालिकनिषेधो हि मिथ्यात्वमिति ते मतम् ।

तदभावश्च सत्यत्वं प्राबल्यं कस्य कथ्यताम् ॥ ८९९ ॥

निषेधत्वं परत्वं च द्वयं सत्यत्व एव हि ।

प्रतियोगिप्रसक्तौ प्राग्यतः पश्चान्निषेधनम् ।

तस्मात्त्वत्प्रक्रिया व्याघ्री स्वतन्तूनेव कृन्तति ॥ ९०० ॥

अतः प्राबल्यमेवैकं बाधकत्वे प्रयोजकम् ।

तच्चोक्तरीत्या प्रत्यक्षे जितं सत्यत्ववादिभिः ॥ ९०१ ॥

सुरोत्तमटीका

निषेधाप्रतियोगित्वं निषेधप्रतियोगित्वाभावः । निषेध-निषेधनमिति यावत् । अतस्सत्त्वप्रमाणं निषेधनिषेधरूपत्वात्त्वद्रीत्यैव सर्वतोऽपि महत् सत्त्वप्रत्यक्षं तु सुतरां महदिति भावः । तत् तस्मात् ॥ ८९८-९०१ ॥

सत्यप्रमोदटीका

प्रकारान्तरेण प्रत्यक्षस्य श्रुत्युपजीव्यत्वमाह प्रति-योगीति । येन विना यस्यानुत्थितिस् तत्तस्योपजीव्यमिति लक्षणान्तर-माश्रित्येदमिति ज्ञातव्यम् । अस्मिन्पक्षे परीक्षितत्वे सति उपजीव्यत्वं प्राबल्य-हेतुरिति ध्येयम् । अनेन प्रतिषेध्यसमर्पकत्वेनोपजीव्यत्वे इदं रूप्यमित्यस्यैव नेदं रूप्यमिति बाधकज्ञानं प्रत्युपजीव्यं स्यादिति वाचस्पत्युक्तातिप्रसङ्गस्य नावकाशः । तदुक्तं ‘यावच्छक्तिपरीक्षायामुपजीव्यस्य बाधने । दोषो नाशोदिते दोष उपजीव्यत्वमस्त्वलमि’ति ॥ ८९८-९०१ ॥

युक्तिमल्लिका

अतो घटादिरर्थोऽयं प्रत्यक्षेण प्रदृश्यते ।

तद्दृष्टं पारमार्थ्यं च तत्स्थमेवेति सुस्थितम् ॥ ९०२ ॥

सुरोत्तमटीका

तत्स्थं घटादिपदार्थस्थम् ॥ ९०२ ॥

सत्यप्रमोदटीका

अतः प्रत्यक्षे क्लृप्तदोषाणामभावात् । अज्ञाननिवर्त-कत्वेनाङ्गीकृते अज्ञानाख्यदोषस्यापि शंकाऽनास्पदत्वात् । तदुक्तं तत्वोद्योते चन्द्रप्रादेशादिविषयं तु दूरस्थत्वादिदोषयुक्तत्वादपटु । न च जगत्प्रत्यक्षस्या-पटुत्वे किञ्चिन्मानम्’ इति॥ ९०२ ॥