अनादितोऽनुवृत्तेन सत्त्वेन सहितं जगत्
भाविबाधशङ्कानिरासः
युक्तिमल्लिका
अनादितोऽनुवृत्तेन सत्त्वेन सहितं जगत् ।
न भाविबाधबाध्यं स्याद्ब्रह्मवत्परमार्थसत् ॥ ७६० ॥
अनुवृत्तिरनुच्छेदस्सत्ता चास्तीति वेद्यता ।
तदा तदास्तीति बुद्धिर्यन्नष्टेष्वपि विद्यते ॥ ७६१ ॥
सुरोत्तमटीका
हेतुगर्भमनुमानान्तरमाह ॥ अनादित इति ॥ अनेन विमतं जगन् न भाविबाधकबाध्यम् । अनादितोऽनुवृत्तसत्त्वसहितत्वाद् ब्रह्म-वदित्यनुमानमुक्तं भवति ॥ ७६०,७६१ ॥
सत्यप्रमोदटीका
अनादित इति । यथोक्तं ‘यथेदानीं तथा चाग्रे पश्चादप्येतदीदृशमि’ति गीतायां च ‘न चैव न भविष्यामः सर्वे वयमतः परमि’ति ॥ ‘न च तस्योत्तरकालीनबाधाभावाग्राहकत्वमिति वाच्यम् । तदानीमबाध्यताग्रहणेनैव तत्सिद्धेरि’ति वादावलीं हृदि कृत्वाऽऽह तदेति ॥ ७६०,७६१ ॥
युक्तिमल्लिका
शब्दमात्रेण दृष्टार्थो नान्यथीक्रियते बुधैः ।
प्रवाहयन्ति किं तीरं मञ्चं सञ्चारयन्ति किम् ॥ ७६२ ॥
सुरोत्तमटीका
किञ्च आगम एव खलु भाविबाधकतया परेणोच्यते । सोऽपि न दृष्टार्थबाधकः किन्तु दृष्ट्या बाधितः स्वयमेवार्थान्तरं भजत इत्याह ॥ शब्दमात्रेणेति ॥ ७६२ ॥
सत्यप्रमोदटीका
प्रत्यक्षसिद्धस्य शब्दबाध्यत्वेऽतिप्रसङ्गावाह प्रवाहेति मञ्चेति च । तदुक्तं भगवत्पादैः ‘न हि प्रत्यक्षसिद्धमन्येन केनापि बाध्यं दृष्टमि’ति ॥ ७६२ ॥
युक्तिमल्लिका
एकाभावेऽपरां वृत्तिमाश्रित्य तमबाधिते ।
अर्थे प्रवर्तयन्ति स्म दृष्टं मार्ष्टुं हि कः क्षमः ॥ ७६३ ॥
सुरोत्तमटीका
तम् आगमम् ॥ ७६३ ॥
सत्यप्रमोदटीका
तम् आप्तवाक्यम् । तदुक्तं भगवत्पादैः ‘वेदवेदानुसारेषु विरोधेऽन्यार्थकल्पना । इतराणि विरुद्धानि प्रलम्भभ्रमजान्यपि’ इति ॥७६३॥
युक्तिमल्लिका
अतोऽबाधितमेवास्तु विश्वं सर्वसुखप्रदम् ।
वाक्यं च प्रतिवाद्युक्तरीत्याऽर्थं प्राप्य जीवतु ॥ ७६४ ॥
सुरोत्तमटीका
अत आगमस्य प्रत्यक्षबाधकत्वायोगात् ॥ ७६४ ॥
सत्यप्रमोदटीका
सुखप्रदं सज्जनानामिति शेषः । वाक्यं सदागम-वाक्यम् । प्रतिवादी तत्त्ववादी । जीवतु मानं भवतु ॥ ७६४ ॥
युक्तिमल्लिका
लोकमर्यादया रुद्धा न स्युश्चेद्वाक्यमूषिकाः ।
एको देवालयं गच्छेदन्यो देवस्य मस्तकम् ।
असदेवेदमग्रेऽभूदिति वाङ्नास्ति किं श्रुतौ ॥ ७६५ ॥
सुरोत्तमटीका
ब्रह्मप्रतिबन्द्यापि वाक्यं न विश्वघातकमिति साहित्य-मुद्रयाऽऽह ॥ लोकमर्यादयेति ॥ बह्वर्थविसरणशीलत्वान्मूषिका इत्युक्तम् । एकः नेहनानेत्यादिरूपः । देवालयं भगवत्सन्निधानपात्रत्वाद्देवालयस्थानीयं विश्वम् । अन्यो ऽसदेवेदमग्र आसीदित्यादिरूपः । देवस्य ब्रह्मणः । तदेव दर्शयति ॥ असदेवेति ॥ ७६५ ॥
सत्यप्रमोदटीका
मर्यादया ‘पूर्वोत्तराविरुद्धः प्रमाणान्तराविरुद्धश्च शास्त्रार्थः’ इत्येवंरूपया । मूषिकाः क्वचिन्नानार्थकत्वेन कुत्रचिद्वृत्यन्तरैः कुत्रचित् पदच्छेदनिर्वचनादिवैचित्र्येण विरुद्धार्थप्रतिपादनावकाशवत्त्वेन प्रत्यक्षवन् नियतसञ्चाररहिताः । एकः ‘सत्यं ज्ञान’मित्यादिरूपः वेदः । देवालयं ब्रह्मणः सत्यत्वं गच्छेद् बोधयेत् । अन्यो ऽसदेवेत्यादिरूपः । मस्तकं छेत्तुमिति शेषः । देवस्य सत्यत्वमेवापलपेदिति यावत् ॥ ७६५ ॥
युक्तिमल्लिका
घटो नेति निषेधे तु बाधस्ते नैव सिद्ध्यति ।
प्रध्वंसप्रागभावाभ्यामपि नेत्युक्तिसम्भवात् ॥ ७६६ ॥
सुरोत्तमटीका
ते तव ॥ ७६६ ॥
सत्यप्रमोदटीका
कल्पमानमपि बाधकं किं घटो नेत्याकारकः, उत घटः सत्यो न इत्येवंरूपः । आद्यो न मिथ्यात्वसाधकः । ध्वंसप्रागभाव-बोधस्यापि सम्भवादित्याह घट इति ॥ ७६६ ॥
युक्तिमल्लिका
सत्यो नेति निषेधे तु बाधोऽयं स्यान्न चान्यथा ।
तादृङि्नषेधो नैवास्ति वेदे वा वैदिकेषु वा ॥ ७६७ ॥
सुरोत्तमटीका
तादृक् – सत्यो नेत्याकारकः ॥ ७६७ ॥
सत्यप्रमोदटीका
द्वितीयस्तु अनुपलम्भान्नास्त्येवेत्याह सत्य इति ॥ ७६७ ॥
युक्तिमल्लिका
किन्त्वद्वितीयं नेहास्तीत्याकारः परमस्त्यसौ ।
तस्मान्न वर्तमानस्ते बाधोऽयं श्रूयते क्वचित् ॥ ७६८ ॥
भाविबाधकशङ्कायाः किं कारणमुदीरय ॥ ७६९ ॥
सुरोत्तमटीका
असौ जगन्निषेधः ॥ ७६८,७६९ ॥
सत्यप्रमोदटीका
नेह नानास्तीत्यादिवाक्येष्वाद्यैव गतिरित्याह किन्त्विति ॥ किं कारणमिति प्रत्यक्षविरोधो वा अनुमानागमविरोधो वा । न द्वितीयः । तयोः प्रत्यक्षबाधनासामर्थ्यात् । नाद्यः । सत्यः स्तंभो भवत्येवेति तेन सत्यत्वस्यैवावधारणात् ॥ ७६८,७६९ ॥
युक्तिमल्लिका
बाधशङ्का तु मिथ्यात्वशङ्कां कुर्यान्न निश्चयम् ।
न चेत्तयैव सच्च स्याद्यत्सा को(ट््योर्वि)ट््यविरोधिनी ॥ ७७० ॥
सुरोत्तमटीका
किञ्च भाविबाधकशङ्कया न मिथ्यात्वनिश्चय इत्याह ॥ बाधशङ्केति ॥ तयैव बाधशङ्कयैव । यद् यस्मात् । सा शङ्का(अ)विरोधिनी मिथ्यात्वस्यैक कोट्योल्लेखे तद्विरुद्धसत्यत्वमपरकोट्योल्लिखन्तीत्यर्थः ॥७७०॥
सत्यप्रमोदटीका
अस्तु वा शङ्का । तथाऽपि तावन्न मिथ्यात्वनिश्चय इत्याह बाधेति । शङ्कयाऽप्यन्यतरकोटिनिश्चये तयैव सत्यत्वनिश्चयोऽप्यस्तु इत्याह न चेदिति ॥ ७७० ॥
युक्तिमल्लिका
त्रैकालिकनिषेधोऽपि न स्वरूपेण ते मते ।
नशृृङ्गवदसत्त्वाप्त्या ततस्सत्त्वनिषेधनम् ।
बाधोऽवश्यं त्वया वाच्यस्स तु न श्रूयते क्वचित् ॥ ७७१ ॥
सुरोत्तमटीका
ननु मास्तु सत्यं नेति जगतो निषेधः किन्तु त्रैकालिक-निषेध एव बाधो भविष्यतीत्यत आह ॥ त्रैकालिकेति ॥ सः सत्त्वनिषेधः । स इत्युपलक्षणम् । प्रागुक्तयुक्तया त्रैकालिकनिषेधोऽपि न श्रूयत इति द्रष्टव्यम् । इदमुक्तं भवति । विश्वं नास्तीति निषेधो घटो नास्तीतिवन्न मिथ्यात्वप्रयोजको बाधः । त्रैकालिकनिषेधोऽप्यसत्त्वापादकत्वान्न परमते बाधः । न चासौ श्रूयते । सत्यत्वनिषेधस्तु बाधः स्यात् । अश्रुतत्वान्न जगति स वक्तुं शक्यः । अतः कथं बाधशङ्केति ॥ ७७१ ॥
सत्यप्रमोदटीका
ते मते इति ॥ नः स्वरूपत्वेन शून्यमतप्रवेशभियेति भावः । सत्त्वनिषेधनम् । पारमार्थिकत्वाकारेण निषेधः । न क्वचिदिति । नेहनानास्तीत्यादिषु तद्बोधकपदाभावात् ॥ ७७१ ॥
युक्तिमल्लिका
किञ्च त्रिकालनास्तित्वं बाधः किल भवन्मते ।
नास्त्यद्वितीयमित्यादौ वर्तमानार्थकोऽस्ति लट् ।
न विद्यते द्वितीयं च यस्य तद्ध्यद्वितीयकम् ॥ ७७२ ॥
सुरोत्तमटीका
त्रैकालिकनिषेधस्याश्रुतत्वं स्मारयति ॥ किञ्चेति ॥ ७७२ ॥
सत्यप्रमोदटीका
न केवलं पारमार्थिकत्वनिषेधकपदाभावः, किं नाम त्रैकालिकनिषेधबोधकपदमपि नास्तीत्याह किञ्चेति । तदेव विग्रहप्रदर्शनेन स्फोरयति न विद्यत इति ॥ ७७२ ॥
युक्तिमल्लिका
अतो द्वेधाऽपि बाधस्ते श्रुतेर्हृदयशोधने ।
नास्ति तद्बाध एवायं नाभूदस्ति भविष्यति ॥ ७६३ ॥
सुरोत्तमटीका
तत् तस्मात् त्रिकालनास्तित्वस्य क्वाप्यश्रवणात् ॥ ७७३॥
सत्यप्रमोदटीका
अतः पारमार्थिकत्वेनेति वा त्रैकालिकेति वा निषेधस्य विशेषणस्य क्वाप्यश्रवणात् ॥ ७७३ ॥
युक्तिमल्लिका
न हीदानीं वर्तमानवेदादन्योऽपि कश्चन ।
भविष्यन्नास्ति ते वेदो बाधोऽयं यत्र गीयते ॥ ७७४ ॥
सुरोत्तमटीका
यत्र भविष्यद्वेदे । अतो भाविबाधकशङ्कापि न घटत इति भावः ॥ ७७४ ॥
सत्यप्रमोदटीका
भविष्यन्नास्ति इति । वेदानाम् अनादिनित्यादिति भावः ॥ ७७४ ॥
युक्तिमल्लिका
निर्विकल्पकरूपैव चरमापि प्रमा तव ।
न तत्र नास्तिताबोधो बाधोऽतः क्व भविष्यति ॥ ७७५ ॥
विमता जगती सेयं सत्यैव परमार्थतः ।
अबाध्यत्वाद्यथा ब्रह्मेत्यनुमा तन्न बाध्यते ।
त्रेधापि बाधायोगेन बाधायोग्यं यतो जगत् ॥ ७७६ ॥
सुरोत्तमटीका
प्रकारान्तरेणापि भाविबाधकशङ्कां निवारयति ॥ निर्विकल्पकेति ॥ तत् तस्मात् । उक्तविधया बाधस्यैवाभावात् । न बाध्यते असिद्ध्याख्यदोषेण बाधितविषयत्वाख्यदोषेण च दूष्यत इत्यर्थः । त्रेधा विश्वं सत्यं नेत्याकारेण, विश्वं कालत्रयेऽपि नेत्याकारेण, विश्वं कालत्रये सन्नेत्याकारेणेत्यर्थः । यत इत्यस्य पूर्वेणान्वयः ॥ ७७५,७७६ ॥
सत्यप्रमोदटीका
निर्विकल्पेति । हेतुगर्भम् । अबाध्यत्वाद् बाधा-योग्यत्वात् । असिद्धिं परिहरति त्रेधाऽपीति ॥ ७७५,७७६ ॥
युक्तिमल्लिका
विश्वं सत्यमिति स्पष्टं सत्यत्वं गर्जति श्रुतिः ।
विश्वं मिथ्येति विस्पष्टं मिथ्यात्वं कुत्र कथ्यते ॥ ७७७ ॥
सुरोत्तमटीका
न केवलं सत्यं नेत्यस्याश्रुतत्वं प्रत्युत सत्त्वस्यैव श्रुतत्वमस्तीत्याह ॥ विश्वं सत्यमिति ॥ किं च सत्यत्वश्रुतिवद्विश्वं मिथ्येति स्पष्टश्रुत्यभावाच्च न मिथ्यात्वमित्याह ॥ विश्वं मिथ्येति ॥ ७७७ ॥
सत्यप्रमोदटीका
स्पष्टमिति विद्यारण्येनापि सत्यमित्यस्यानारोपितमिति व्याख्यानादिति भावः ॥ ७७७ ॥
युक्तिमल्लिका
तिलानुन्मथ्य कस्तैलं घृते सत्यपि साधयेत् ।
किं श्रौतसत्यतां त्यक्त्वा मिथ्यात्वायोक्तिपीडनैः ॥ ७७८ ॥
सुरोत्तमटीका
स्पष्टसत्यत्वश्रुतौ सत्यामैक्यश्रुत्यन्यथानुपपत्त्या मिथ्यात्व कल्पनन्तु नोचितमिति साहित्यमुद्रयाऽऽह ॥ तिलानिति ॥ दार्ष्टान्तिकेऽपि योजयति ॥ किमिति ॥ ७७८ ॥
सत्यप्रमोदटीका
तिलान् सिकतासु आरोपितानिति हृदयम् । घृतं तिरस्कृतम् । तैलस्याप्यलाभः । परस्य नैराश्यं परमं सुखमिति ध्वनिः । यदग्रे स्वयमेव वक्ष्यति शिलानामेव पेषणमिति ॥ ७७८ ॥
युक्तिमल्लिका
श्रौतोऽर्थो मे तवाऽऽर्थार्थश्रुत्यै वृत्त्यन्तरं दिशेत् ।
यत्पृथ्वौरसपुत्रस्य दत्तपुत्रस्तु दत्तभुक् ॥ ७७९ ॥
सुरोत्तमटीका
आर्थार्थश्रुत्यै आर्थिकार्थतया मिथ्यात्वप्रतिपादकश्रुत्यै । वृत्त्यन्तरम् अर्थान्तरम् । इदमपि साहित्यमुद्रया रञ्जयति ॥ यदिति ॥ यद् यस्मात् । औरसपुत्रस्य स्वोदरादेव जातपुत्रस्य । दत्तपुत्रो ऽन्यद्वारोत्पन्न-पुत्रः । दत्तभुक् औरसपुत्रेण दत्तभूमिमात्रभुक् । एवमिहापि साक्षाच्छ्रुत्यै-वोक्तार्थश्श्रुतेरौरसार्थत्वान्न चालयितुं शक्यः । आर्थिकार्थस्तु अनुमानफल-रूपतयाऽमुख्यत्वात् । सत्यत्वश्रुतेरनुकूलार्थ एव पर्यवस्येत् । स्पष्टसत्यत्व-श्रुतिविरोधात् । ऐक्यश्रुतेरन्यथानुपपत्तिर्नमिथ्यात्वमाक्षिपेत् । किन्तु सत्य-त्वानुकूलसादृश्याद्यर्थकत्वमेवाक्षिपेत् । विश्वं मिथ्येत्येव साक्षान्निरवकाश-श्रुतिरस्ति चेन्न हातुं शक्या । ऐक्यश्रुत्यन्यथानुपपत्तिस्तु सिंहो देवदत्त इत्या-दाविव सादृश्यार्थकतयापि परिहर्तुं शक्यत्वान्न मिथ्यात्वस्यैव साधिकेति भावः
॥ ७७९ ॥
सत्यप्रमोदटीका
श्रौतः स्वरसतया वृत्तिमहिम्नैव लब्धः । श्रुतेर् औरसपुत्रसमः । आर्थार्थस् तत्त्वमस्यादिश्रुतीनां जीवब्रह्मैक्यमविद्यमानमेवार्थं परिकल्प्य तदन्यथाऽनुपपत्त्या कल्प्यमानः विरुद्धगुणमिथ्यात्वरूपोऽर्थः । अत एव बलादानीतो दत्तपुत्र इव पित्र्यधनस्यानर्हः । श्रुत्यै ऐक्यश्रुत्यै । अर्थान्तरं सादृश्याद्यैक्यरूपम् । पृथु औरसपुत्रस्य इति पदविभागः । पृथु पितुः सर्वस्वं धनम् । दत्तभुक् तदविरोधेन तेनापवर्जितभैक्ष्यान्नभुक् ॥ ७७९ ॥
युक्तिमल्लिका
किञ्चेदं ते तिलाकारशिलानामेव पेषणम् ।
रतो यत्नेऽपि महति मिथ्यात्वं न श्रुतिर्जगौ ॥ ७८० ॥
सुरोत्तमटीका
इदं श्रुत्या मिथ्यात्वकथनम् । कुत इत्यत आह ॥ यत इति ॥ उक्तविधया शतशः प्रयत्नेऽपि नेह नानेत्यादिश्रुतितो मिथ्यात्वा-लाभादिति भावः ॥ ७८० ॥
सत्यप्रमोदटीका
दृष्टान्तं स्पष्टयति किं चेति । आक्षेपकं स्वरूपैक्य-मेवाप्रमितं शिलाशकलारोपिततिलोपमम् । आक्षेप्यं मिथ्यात्वं प्रमाणविरुद्धम् । अनुपपादकं च । स्वरूपभूतानां विरुद्धधर्माणां निषेधे जीवेश्वरस्वरूप-योरेवाभावापत्त्या कयोरैक्यं श्रुतिर्वदेदिति भावः । अतोऽङ्गविकलोऽय-मर्थापत्त्याभासः ॥ ७८० ॥
युक्तिमल्लिका
असन्नासीदिति व्यर्थं य(द)द्यसत्सर्वथाऽप्यसत् ।
स्वरूपकीर्तनेनैव तदसत्त्वस्य सिद्धितः ।
सत्त्वप्रसक्त्यभावाच्च व्यर्थं तस्य निषेधनम् ॥ ७८१ ॥
यदीदानीं न तत्तुच्छं तदानीं किं निषिध्यते ।
तदानीं नेति वचनमिदानीं सत एव हि ॥ ७८२ ॥
सुरोत्तमटीका
त्रैकालिकनिषेधसत्यत्वनिषेधाख्यमिथ्यात्वस्याश्रौतत्वेऽपि नासदासीन्नो सदासीदिति श्रुत्या सदसदभावकालेऽपि तम आसीदिति अज्ञानस्य स्थितिकथनात्तस्य सदसद्वैलक्षण्यं सेत्स्यतीत्याशङ्कां परिहरति ॥ असन्नेति ॥ स्वरूपकीर्तनेन असदिति स्वरूपकीर्तनेन । तदसत्त्वस्य असतोऽसत्त्वस्य । श्रुतावसत्पदेन केवलमत्यन्तासदेवोच्यते चेद् असत्पदेनैव तस्याभावसिद्धेः पुनर्नासीदिति व्यर्थमिति भावः । तस्य असतः ॥ ७८१,७८२ ॥
सत्यप्रमोदटीका
‘नासदासीन्नो सदासीत्तदानीम्’ इति श्रुतिः सद-सन्निषेधकालीनावस्थितिं तमःशब्दिताज्ञानस्य प्रतिपादयति । तेन अज्ञानस्य सदसद्विलक्षणत्वरूपमिथ्यात्वं पारिशेष्येण सिध्यतीति परस्याशां विफलयति असदित्यादिना । ‘न च भावाभावविलक्षणं क्वचिदागमो वक्ति’ इति तत्त्वोद्योत वचनमनुरुध्याह असदिति । असदिति शब्देनैव अविद्यमान इत्यर्थलाभे पुनर्नासीदिति निषेधस्तव व्यर्थ इति भावः ॥ सर्वथाऽविद्यमानस्य तदानीमिति कालविशेषे विशिष्य निषेधोऽप्ययुक्त इत्याह यदिति । इदानीं सत्त्वानुज्ञापकत्वात्तव प्रतिकूलश्चेत्याह तदानीमिति ॥ ७८१,७८२ ॥
युक्तिमल्लिका
अनुवादकवाक्यं ते स्वार्थस्यासाधकं किल ।
सर्वसिद्धानुवादोऽयं कमर्थं साधयेत्तव ।
यत्प्रसिद्धा वायुरन्तरिक्षं चासदिति श्रुतिः ॥ ७८३ ॥
अतः श्रौतमतज्ञत्वं युक्तिज्ञत्वं च बालिशे ।
यदसत्तत्तवाऽप्यद्धा नासीदित्याह सा श्रुतिः ॥ ७८४ ॥
सुरोत्तमटीका
सर्वसिद्धानुवादः सर्वसिद्धत्यासतोऽत्यन्ताभावस्य श्रुत्या-कथनम् । अर्थम् असद्वैलक्षण्याख्यार्थम् । अनुवादेऽसाधकत्वस्य परेणाङ्गी-कारादिति भावः । यद् यस्मात् । प्रसिद्धा माध्यन्दिनोपनिषदि । अतः मायावादिनि श्रुतिमतज्ञत्वयुक्तिज्ञत्वयोरभावात् । बालिशे बालके मूर्खे वा । असदविद्यमानं यच्छ्रुतिज्ञत्वं युक्तिज्ञत्वं तत्तवापि मायावादिनोऽपि नासीद् इति सा नासदासीदिति श्रुतिराहेति सम्बन्धः । नासदासीदिति श्रुतिः प्रलयेऽ-त्यन्तासतोऽभावं वैयर्थ्यान्न वक्ति । किं तु वाय्वन्तरिक्षाख्यं भूतद्वयम् । उक्त-माध्यन्दिनश्रुतिसमाख्यया इदानीं सम्भावितसत्त्वं प्रलये नासीदित्याह । यदि चासत एवाभावो वक्तव्य इति परस्याग्रहस् तदा मूर्खेषु असद् यच्छ्रुतिमतज्ञत्वं युक्तित्वं च तन्मायावादिन्यपि नासीदित्येव श्रुतेरर्थ इति परपरिहासः ॥ ७८३,७८४ ॥
सत्यप्रमोदटीका
न च कुवादप्राप्तस्य प्रतिषेधः । असदस्तीति वादिन एवाभावादित्याह सर्वेति । तथा चैषोऽनुवादस्तव मते श्रुतेरप्रामाण्य एव पर्यवस्यति ॥ श्रुतेः प्रमाणानुगुणमर्थं स्वमतेनाह यदिति । ‘यदन्यद्वायोरन्त-रिक्षाच्चैतत्सदि’ ति माध्यन्दिनश्रुतेः । वाय्वन्तरिक्षौ अव्यक्तत्वादसदिति भावः ॥ एवं सत्यपि प्रमाणविरोधे तदविगणय्य दुराग्रहवशो यदि त्वं श्रुतेः सदसद्वैलक्ष्यण्यरूपमपार्थं परिकल्पयसि तर्हि श्रुत्यभिमानिनी देवता प्रकु-पिताऽनेनैव वाक्येन त्वां निन्दतीत्याह अत इति । यद् लोके बालिशे मूर्खे श्रुत्यर्थज्ञानं युक्तिज्ञानं चोभयमसत् तत् तवापि मायावादिनः न आसीत् ॥ ७८३,७८४ ॥
युक्तिमल्लिका
सन्नासीदिति वाक्चाह सत्तेनेदं वचस्त्विति ॥ ७८५ ॥
सुरोत्तमटीका
सन्नासीदिति श्रुतिरपि यदन्यद्वायोश्चान्तरिक्षाच्चैतत्सदिति तस्यामेवोपनिषदि विद्यमानवाक्यानुसारेण सत्पदवाच्यं वाय्वन्तरिक्षातिरिक्त-पृथिव्यादिभूतत्रयमपि प्रलये नासीदित्याह । यदि च सदेव नासीदिति वक्तव्यमिति तवाग्रहस् तदा सत्पदवाच्यब्रह्मणो नास्तित्वस्य त्वद्रीत्यैवा-सम्भवाद् असम्भवदर्थकं शास्त्ररूपं ते वच एव सत् समीचीनं नासीदित्याहेति परपरिहासः । वदसि चेद् उपनिषत्समाख्ययाऽर्थं वद । नो चेत्त्वदभि-लषितार्थद्वयस्याप्युक्तरीत्या युक्तिविरुद्धत्वाद् विरोधमजानतस्तव निन्दनमेव खण्डद्वयस्याप्यर्थ इति भावः ॥ ७८५ ॥
सत्यप्रमोदटीका
अत एव दुराग्रहिणस्तव इदं व्याख्यानं नो सत् समीचीनं नो आसीदिति ॥ ७८५ ॥
युक्तिमल्लिका
सच्छब्दार्थो जगच्चेत्स्यात्स्वान्यत्वं तर्हि सिद्ध्यति ।
इष्टासिद्धिरबाध्यत्वरूपसत्त्वानिषेधनात् ॥ ७८६ ॥
सुरोत्तमटीका
सन्नासीदित्यत्र परमते कथं युक्तिविरोध इत्यत आह ॥ सच्छब्देति ॥ ७८६ ॥
सत्यप्रमोदटीका
नो सदासीदित्यंशस्य परपरिकल्पितमर्थान्तरमुपक्षिप्य तेनैव तं परिहसति सदिति । अयमाशयः । सन्निषेधकालीनावस्थितिमत्त्वेन त्वया सद्वैलक्षण्यं साधयितुं प्रक्रान्तम् । तत्र वक्तव्यं सच्छब्दार्थो जगद्वा ब्रह्म वा विवक्षितम् । नाद्य इत्याह स्वान्यत्वम् इति । स्वनिषेधकालीनावस्थित्या स्ववैलक्षण्यमेव सिध्येत् । न तु अबाध्यवैलक्षण्यरूपं बाध्यत्वम् । तथा च त्वदिष्टासिद्धिः ॥ ७८६ ॥
युक्तिमल्लिका
सद्ब्रह्मैव भवेत्तस्माद्यद्वैलक्षण्यमीप्सितम् ।
नासीत्तदा तच्च किल यद्ब्रह्म परमार्थसत् ॥ ७८७ ॥
सुरोत्तमटीका
तस्माज् जगतः स्वस्यैव स्ववैलक्षण्ये अबाध्यवैलक्षण्या-सिद्धेः । यद्वैलक्षण्यं यस्य ब्रह्माणो वैलक्षण्यम् ॥ ७८७ ॥
सत्यप्रमोदटीका
द्वितीये ब्रह्मणो निषेध एव, नो सदासीदिति वाक्यार्थो निष्पन्नः ॥ ७८७ ॥
युक्तिमल्लिका
हन्त मिथ्याऽभवद्ब्रह्म सत्यं जगदभूदिदम् ।
यदावयोर्मते नास्ति निरधिष्ठानकभ्रमः ॥ ७८८ ॥
सुरोत्तमटीका
यद् यस्मात् । तस्मात्सत्यं जगदभूदिति पूर्वेणान्वयः । प्रलये ब्रह्मणोऽसत्त्वे मिथ्यात्वावश्यंभावान् निरधिष्ठानकभ्रमस्य चायोगाद् ब्रह्मारोपायैव जगत्सत्यत्वसिद्धिरिति भावः ॥ ७८८ ॥
सत्यप्रमोदटीका
किं तत इत्यत आह हन्तेति । अधिष्ठानस्य ब्रह्मण एवासत्त्वे निरधिष्ठानभ्रमस्यानङ्गीकाराज् जगत् सत्यमेवाभूदिति ॥ ७८८ ॥
युक्तिमल्लिका
अर्थान्नार्थान्तरं सिद्धमनर्थोऽयं महानभूत् ॥ ७८९ ॥
सुरोत्तमटीका
अर्थान्तरं जगतस्सदसद्वैलक्षण्यम् । अनर्थः ब्रह्मणः प्रलयेऽभाव एव ॥ ७८९ ॥
सत्यप्रमोदटीका
फलितमाह ॥ अर्थादिति ॥ अर्थापत्तेः । अर्थान्तरं मिथ्यात्वम् ॥ अनर्थः जगतः सत्यत्वम् ॥ ७८९ ॥
युक्तिमल्लिका
नोसदासीदिदं वाक्यं परस्यानर्थकारकम् ।
इत्येवाह श्रुतेरंशो द्वितीयोऽप्येव पूर्ववत् ॥ ७९० ॥
अन्तरिक्षाच्च वायोश्च यदन्यत्तत्सदित्यपि ।
यच्छ्रुतिस्स्वयमेवाह ततोऽप्येतदङ्गतम् ॥ ७९१ ॥
सुरोत्तमटीका
असद् ब्रह्माभावकथनादमङ्गलम् । अत एव परस्या-नर्थकारकं चेदं वाक्यम् । प्रलये ब्रह्माभावकथकं वाक्यं नासीदिति पर-परिहासाय श्रुतेरर्थान्तर कथनमिदम् । अंशः पूर्वांशः । एषो ऽंशः । पूर्ववत् पूर्वोक्तरीत्यैव परिहासः । पूर्वांशस्य तु पूर्वोक्तरीत्या इदानीमुक्तरीत्या च परपरिहासोऽर्थ इति भावः ॥ ७९०,७९१ ॥
सत्यप्रमोदटीका
पूर्ववच्छ्रुतेः परिहासमाह ॥ नो सदासीदिति । तव वाक्यार्थः न समीचीन इति पूर्ववदर्थः ॥ परोक्तोऽर्थः सुस्पष्टश्रुतिविरुद्ध इत्याह अन्तरिक्षादिति ॥ ७९०,७९१ ॥
युक्तिमल्लिका
अहो बत महानेष प्रमादो धीमतामपि ।
यत्स्वोक्तवचनस्यार्थस्स्वेष्टब्रह्मविनष्टता ।
तमसस्त्वविनष्टस्य तदानीमवशिष्टता ॥ ७९२ ॥
सुरोत्तमटीका
स्वपरमेष्टभूतब्रह्माभावप्रतिपादक स्वानिष्टभूततमस्सद्भाव प्रतिपादकवाक्ये बहुमानवन्तं परं परिहसति ॥ अहो बतेति ॥ तदानीं परब्रह्मणः प्रलयदशायाम् ॥ ७९२ ॥
सत्यप्रमोदटीका
धीमतां दुर्बुद्धिमतां प्रमाद उन्मादः बतेत्यपहासः । उक्तरीत्या नो सदासीदित्यस्य ब्रह्मनिषेधकत्वम् । तम आसीदिति अज्ञानास्यावशिष्टत्वं च वदता ब्रह्म मिथ्या, अज्ञानं तत्कार्यं जगच्च सत्यमिति स्वयमेव व्याख्यानात् स्वेष्टघातिता स्वानिष्टकारिता चेति अहो उन्माद-विलसितमिति भावः ॥ ७९२ ॥
युक्तिमल्लिका
अतः श्रुत्यर्थकुशलो भारतीपतिरेव नः ।
अन्यस्तद्भृत्यभृत्यश्चेन्मान्यो भवति कश्चन ॥ ७९३ ॥
सुरोत्तमटीका
अतः पराचार्यवच्छ्रुतिस्वमतयुक्तिविरुद्धार्थाकथकत्वात् । स्वमूलरूपनाम्ना आचार्याणामाह्वानं सरसवाग्विलासवत्या भारत्याः पत्यु-रवतारस्य मध्वमुनेर्नेदं कौशलमपूर्वमिति सूचनार्थम् ॥ ७९३ ॥
सत्यप्रमोदटीका
तद्भृत्यभृत्यः श्रीजयतीर्थार्यः । मान्य इति ‘गुरु-कारुण्यसरणिं प्रपन्ना मान्याः स्म’ इत्युक्तेः ॥ ७९३ ॥
युक्तिमल्लिका
यदद्वैतपरं वाक्यं मिथ्यात्वमपि तेन ते ।
गौर्गोवत्सप्रसूरेव महिषाश्वप्रसूश्च किम् ॥ ७९४ ॥
सुरोत्तमटीका
तत्वमस्याद्यैक्यवाक्ये श्रुत्या साक्षाज्जीवाभेदोऽर्था-न्मिथ्यात्वं च बोध्यत इति यत्परो वक्ति तच्च भेदसौरभादौ सविस्तरं निरस्त-मपि दृष्टान्तमुखेन दूषयितुं पुनराह ॥ यदद्वैतेति ॥ तेन वाक्येन । ते मते । मिथ्यात्वं जगन्मिथ्यात्वम् उच्यत इति योग्यतया सम्बन्धः । तदपि न युक्त-मित्यत्र दृष्टान्तमाह ॥ गौरिति ॥ प्रसूर् माता । महिषाश्वयोरिव अभेद-मिथ्यात्वयोः परस्परविरोधात् कथमेकवाक्यबोध्यता । अतो वाक्यमनुकूल-मर्थान्तरं वदेदिति भावः ॥ ७९४ ॥
सत्यप्रमोदटीका
औतपरं ‘तत्त्वमसि’ इत्यादिकम् । तेन वाक्येन । मिथ्यात्वं बोध्यते इति ते तव आशामात्रम् । तच्च विरुद्धमिति सदृष्टान्तमाह गौरिति । न ह्यक्षरबाह्यो वाक्यार्थो भवति इति भावः । न चानुपपत्त्या । तदभावादेव ॥ ‘प्रत्यक्षादिविरोधे तु गौणार्थस्यापि सम्भवादि’ति भगव-त्पादीयवचनात्सादृश्याद्यैक्यपरत्वेनाप्युपपत्तेः ॥ ७९४ ॥
युक्तिमल्लिका
दृष्टा दृष्टविरोधे तु वाक्यस्यान्यार्थतैव हि ।
आगोपालाविपालं च यद्दृष्टं दृष्टमेव तत् ॥ ७९५ ॥
सुरोत्तमटीका
तदेव दर्शयति ॥ दृष्टेति ॥ दृष्टविरोधे सिंहपुरुषयोर्दृष्ट-भेदविरोधे । एवशब्देन दृष्टभेदमिथ्यात्वं भेदकधर्ममिथ्यात्वं च व्यवच्छिनत्ति । तथा जीवपरमयोरैक्यघटनाय आविपालगोपालं दृष्टजीवेश्वरभेदस्य सर्वज्ञ-त्वाल्पज्ञत्वादिभेदकधर्माणां च न मिथ्यात्वं किन्तु दृष्टविरोधेनैक्यवाक्य-स्यैवार्थान्तरपरता । ततश्च नेदृशवाक्यैरपि जगन्मिथ्यात्वसिद्धिरिति भावः । एवं च सौरभसङ्गतत्वाच्च पुनर्वचनम् ॥ ७९५ ॥
सत्यप्रमोदटीका
दृष्टं निर्दोषप्रमाणसिद्धम् । सर्वज्ञत्वादिभेदकधर्म-जातम् । दृष्टमेव त्वदविवक्षामात्रेण न त्यागार्हम् ॥ ७९५ ॥
युक्तिमल्लिका
यत्र मिथ्याप्रपञ्चस्य वाक्यैर्वेदान्तगोचरैः ।
दृश्यमानमिदं सर्वमनित्यमिति चोच्यते ॥ ७९६ ॥
इति पाद्मे महेशेन त्रिंशाध्याये किलोदितम् ।
अतो मिथ्येति वाग्विश्वस्यानित्यत्वं वदेत्परम् ॥ ७९७ ॥
सुरोत्तमटीका
मिथ्यात्वप्रतिपादकवाक्यानामर्थान्तरं केवलं न मयै-वोच्यते किन्तु व्यासेनाप्युक्तमिति भावेन तद्वाक्यं पठति ॥ यत्रेति । मिथ्या मिथ्यात्वम् । उच्यत इत्यस्यात्राप्यनुकर्षः । तत्र वेदान्ते उच्यत इति सम्बन्धः । अतः वेदव्यासेनैवोक्तत्वात् ॥ ७९६,७९७ ॥
सत्यप्रमोदटीका
मिथ्योक्तेरन्यथागतिकथनाच्च न पराभिप्रेतोऽर्थ इत्याह यत्रेति । अनित्यमित्युपलक्षणम् । वृथात्वमित्यपि ज्ञेयम् । यथोक्तं न्यायामृते (१/३९) ‘मिथ्यात्वोक्तिस्तु’ वृथात्वात् । ‘मिथ्यैव व्यवसायस्ते’ इत्यादिवत् सदोषत्वाद्वा’ इति ॥ ७९६,७९७ ॥
युक्तिमल्लिका
यदि रूप्यस्य मिथ्यात्वे मिथ्या दृश्यत्वतो जगत् ।
मेयत्वाद्धटवत्तर्हि घटोऽपि स्यात्पटस्तव ॥ ७९८ ॥
अत्तृत्वात्पशुवन्मन्द शृङ्गं स्यात्तव मस्तके ।
पुरुषत्वान्मूकवत्ते मूकता स्याज्जितं परैः ॥ ७९९ ॥
बाधाबाधानुसरणे शिष्यस्त्वं प्रतिवादिनः ।
बाधशङ्काख्यपङ्केन किं किं न स्याद्धि पङ्किलम् ॥ ८०० ॥
सुरोत्तमटीका
विश्वमिथ्यात्वश्रुतिर्निराकृत्य विश्वं मिथ्यादृश्यत्वाच्छुक्ति-रूप्यवदित्यनुमानं प्रतिबन्द्या तावन्निराकरोति ॥ यदीति ॥ एवं च एतै-रनुमानैर्मिथ्यात्ववादिनः पशुत्वे मूकत्वे च जाते सत्यत्ववादिन एव जयोऽ-भूदिति भावः ॥ बाधेन मदुक्तानुमानदूषणे विश्वसत्यत्वस्य सर्वजनसम्प्रति- पन्नत्वात्तेनैव त्वदनुमानमपि दुष्टं स्यादित्याह ॥ बाधेति ॥ ७९८–८०० ॥
सत्यप्रमोदटीका
दृश्यत्वानुमानम् आभाससाम्येन दूषयति यदिति ‘सह-दर्शनमात्रेण न व्याप्तिरवसीयते’ इत्युक्तेः । मिथ्यात्वस्य सकलप्रमाणबाधान् नाभाससाम्यनिस्तार इत्याह बाधेति ॥ ७९८–८०० ॥