नेह नानेति वाक्यं च नानात्वं ब्रह्मणि क्षिपेत्
नेहनानास्तीति श्रुत्यर्थः
युक्तिमल्लिका
नेह नानेति वाक्यं च नानात्वं ब्रह्मणि क्षिपेत् ।
जगत्त्रिकालसत्तां तन्न क्षिपेत्स्वस्वभूमिषु ॥ ७३२ ॥
सुरोत्तमटीका
नेह नानेति श्रुतावप्ययमेव न्याय इत्याह ॥ नेहेति ॥ भावप्राधान्यमपेक्ष्य नानात्वमित्युक्तम् । लटा वर्तमानमेव क्षिपेत् । सर्वदा ब्रह्मणि नानात्वाभावस्तु एकमेव । एकधैवानुद्रष्टव्य इति सावधारणवाक्या-दवगन्तव्यः । तच्च नानात्वम् । स्वस्वभूमिषु पञ्चभेदधर्मिषु जीवेश्वरजडेषु । इहेति धर्मिविशेषोपादानात् । जगत् त्रिकालसत्तां तु न क्षिपेदित्युपलक्षणम् । निषेध्यतया जगतोऽत्राश्रवणान्न स्पृशेदित्यपि द्रष्टव्यम् । भवितृप्राधान्यमादाय जगन्निषेधपरत्वेऽपि ब्रह्मण्येव क्षिपेत् । स्वस्वभूमिषु कपालभूतलादिषु न क्षिपेत् । लट्प्रयोगबलाद्वर्तमानकाल एव क्षिपेन्न सर्वदा । अतो जगतोऽपि सार्वकालिकसार्वदैशिकनिषेधोऽनयापि श्रुत्या न सिद्ध्येत् । किञ्चान्योन्यस्मि-न्नन्योन्यात्मकतामध्यस्येति भवदीयभाष्यप्रक्रियया इदं रजतमित्यादाविवायं घट इत्यादावपि ब्रह्मजगत्तादात्म्यारोपस्त्वयाऽङ्गीकृतः । एवं च भ्रमनिवर्तको बाधोऽपि नेदं रजतमितिवद्ब्रह्मजगन्नेति जगत्तादात्म्यनिषेधरूप एव वक्तव्यः । तादात्म्यनिषेधरूपबाधे च तादात्म्यसत्त्वमात्रनिषेधे त्रैकालिकतादात्म्यसत्त्व-निषेधे च सार्वकालिक भेदस्यैव प्राप्त्या भिन्नजगतोऽप्रतिषेधेन च नास्माक-मनिष्टम् । न विद्यते द्वितीयं यस्येति निषेधो ब्रह्मणि जगन्नास्तीति निषेधश्च तादात्म्यभ्रमानिवर्तकत्वात्प्रकृतानुपयुक्तः । प्रत्युत द्वितीयं ब्रह्मणो न ब्रह्मणि जगन्नेति निषेधे ब्रह्मैव द्वितीयमिति त्वद्रीत्या भ्रान्तिप्रतीततत्तादात्म्यस्थापक एव । न हि ब्रह्मणो न ब्रह्मण्यपि नेति निषेधे ब्रह्मणो ब्रह्मात्मकतायाः काचन हानिर्दृश्यते । द्वितीयपदनानापदपर्यालोचनायां तु सुतरां जगतो ब्रह्माद्वितीयत्वप्राप्तिरिति द्रष्टव्यम् ।
ब्रह्मजगन्नेति निषेधरूपबाधस्तु भवतो महावाक्यशतेनापि न दृश्यते । अनयोर्वाक्ययोस्तादृशनिषेधपरत्वस्य त्वयैवानङ्गीकारात् । अङ्गीकारे च शुक्तौ नेदं रजतमिति रजततादात्म्यनिषेधेऽपि शुक्तावेव केन चिदानीयनिक्षिप्त शुक्तिभिन्नरजतसत्त्ववद् आपणस्थरजतसत्त्ववच्च ब्रह्मणि जगत्तादात्म्यनिषेधेऽपि ब्रह्मण्येव ब्रह्मभिन्नजगत्सत्त्वस्य स्वस्वकारणेषु जगत्सत्त्वस्य चाप्रतिघाते-नार्थान्तरत्वात् । ब्रह्मजगद्भेदसिद्ध्याऽस्मदभीष्टसिद्धेश्च । सर्वं खल्विदं ब्रह्मेत्यादिवाक्येषु सर्वैक्यस्यैव प्रतिपादनेन सुतरां तादात्म्यभ्रमानुकूलतया तन्निषेधरूपत्वाभावात् ।
कथं तर्हि भवतामपि मते इदानीं ब्रह्मणि जगतो वर्तमानत्वान्नास्तीति निषेध इति चेत्सत्यम् । स्वस्वोपादानेष्वित्यनुक्त्वा स्वस्वभूमिषु न क्षिपेदिति वदता यथावत्स्थितजगतो ब्रह्मापि भूमिरेवेति तत्तत्र न निषेधति किन्तु वस्तुस्थित्या नानामतोक्तरीत्या च विरुद्धाकारसंपन्नस्य जगतो ब्रह्मैवाभूमिरिति तत्तत्र निषेधतीत्यस्यार्थस्य ग्रन्थकृतैव सूचितत्वान्न काप्यनुपपत्तिः । तथा हि । अतीतानागतवर्तमानत्वेन नानाभूतं जगद् इह ब्रह्मणि किञ्चन किञ्चिदतीत-मनागतं च नास्ति । अतीतानागतपदोक्तप्रध्वंसप्रागभावप्रतियोगित्वाख्यधर्मि-सत्ताऽसहिष्णुधर्मेण नानाभूतं वर्तमानजगतो विलक्षणम् । अत एव नास्तीति नास्तित्वे हेतुसूचनायापि नानाभूतमिति विशेषणमुपात्तम् । अनेन प्रलयाभावं वदतो मीमांसकस्य सदाकार्यसत्त्वमङ्गीकृत्य भविष्यत्कार्यमेवानङ्गीकुर्वत-स्सत्कार्यवादिनश्च मतं निरस्तम् । नानाभूतपदेन जगत् त्रैविध्यमङ्गीकृत्य वर्तमानकाल एव तन्निराकुर्वंत्या श्रुत्या तदनङ्गीकारमतस्यापहस्तितत्वात् । नानाभूतम् इतो विलक्षणं तदैव धर्मिसत्तानियतवर्तमानत्वाख्यधर्मघटितं वर्तमानं जगद् ब्रह्मण्यस्त्येवेति आर्थिकोऽर्थः । किञ्चनपदं च सर्वैरपि नास्तीत्यभि-लप्यमानयोरतीतानागतयोरस्तीत्यभिलप्यमाने वर्तमाने जगति च चक्षुषी निमील्यना स्तित्वं वदतो मायावादिनो मुखमुद्रणार्थम् । एवं चार्थात्सामान्यतो मिथ्यात्वमतमपि अपहस्तितमिति वेदितव्यम् ।
यद्वा वर्तमानमेवाशुतरविनाशित्वेन चिरविनाशित्वेन नित्यत्वेन च नानाभूतं जगद् इह ब्रह्मणि किञ्चन आशुतरविनाशि चिरविनाशि च नित्यान्नानाभूतं विलक्षणमत एव स्वप्रागभावप्रध्वंसदशायां नास्तीत्यर्थः । एतत्कल्पमध्यवर्ति-नामेव विद्यमाननिषेधप्रदर्शनाय प्राचीनपक्षात् पृथगुक्तिः । प्राचीनपक्षोक्त-वर्तमानजगत्यपि न सर्वस्य सदाप्यस्तित्वमिति विवेकप्रदर्शनाय तदनन्तर-मेवोक्तिः ।
अथवा मायावादिनोक्तरीत्या सद्विलक्षणत्वासद्विलक्षणत्वाभ्यां तेनैव दृष्टि-सृष्टिपक्षोक्तपदार्थाननन्त्येन वा जैनोक्तरीत्या सत्त्वासत्त्वसदसत्त्वादिरूपसप्त-भङ्ग्या वा परमाणु पुञ्जवादिनोक्तरीत्या एकस्यैव बहुपरमाण्वात्मकत्वेन वा नानाभूतं जगद् इह ब्रह्मणि किञ्चन किमपि नास्तीत्यर्थः । एतादृशस्वकपोल-कल्पित दुर्मतानि श्रौतमतप्रतिष्ठापकस्य ब्रह्मणो मनसे न रोचन्त इति सूचनाय इहेति पदम् ।
यद्वा चेतनाचेतनात्मतया नानाभूतं यज्जगत् तत्किञ्चन एकदेशभूतं जडमेव । इह ब्रह्मणि । नानाभूतम् । भिन्नं नास्ति अस्तीति न किन्तु सर्वमपि भिन्नमस्तीति फलितोऽर्थः । अत्रापि किञ्चन पदं नानापदं च जडमात्रभेद-मङ्गीकृत्य चेतनभेदमनङ्गीकुर्वतो मुखमुद्रणार्थम् । अतिविरुद्धत्वान्मायिमतस्य चतुर्धा खण्डनम् । अथवा तार्किकोक्तरीत्या वृत्तिमदवृत्तिमत्पदार्थभेदेन नानाभूतं जगत् किञ्चन वृत्तिमत्पदार्थ एवेह ब्रह्मणि नास्ति अस्तीति न किन्तूभयमप्यस्तीत्यर्थः । अत्राप्यर्थाद्विष्णोरखण्डस्वामित्वकथनाच्छ्रीब्रह्मरुद्रा-दीनां खण्डस्वामित्व कथनाच्च श्रुत्या स्वमतस्थापनं शाक्तादिमतनिराकरणं च कृतमिति द्रष्टव्यम् । एवं च विश्वतश्चरणस्वप्रभुरिव श्रुतिरपीयं स्वरक्षकस्य हरेः प्रतिपक्षभूतान्यमतानि स्वपदविन्यासचातुर्येणैव हैन्याकराणि चकार ॥ ७३२ ॥
सत्यप्रमोदटीका
‘नेहनानेत्यागमोऽस्त्वत्र मानम् इति चेन्न । तस्य ब्रह्मणि नानात्वनिषेधपरत्वात्’ इति वादावल्युक्तं सपरिकरं विवृण्वन्नाह नेति नानाशब्दस्य भावप्रधानत्वपक्षे इह ब्रह्मणि सगुणे नानावतारे च किञ्चन गुणक्रियादिप्रतियोगिकः स्वगतो भेदो नास्ति । ‘यदेवेह तदमुत्र, यदमुत्र तदन्विह’ इति श्रुतेः । क्षिपेन् निराकुर्यात् । भूमिषु प्रमाणसिद्धाधिकरणेषु । परस्परप्रतियोगिकपारमार्थिकभेदशून्यस्वैकदेशप्रतियोगिकपारमार्थिकभेदशून्यतां न बोधयतीत्यर्थः ।
इदमत्रावधेयम् । विशिष्य निषेधन्यायेन इह भेदो नास्तीत्युक्तौ अन्यत्र भेदसद्भावोऽवगम्यते भेदो नास्तीति निषेधे गुणक्रियाऽवयवादयः सन्ति । किन्तु तेषां परस्परं परमात्मनो वा भेदो नास्तीति ज्ञायते । तदुक्तं ‘एवं धर्मान् पृथक् पश्यंस्तानेवानुविधावती’ ति । किञ्चनेति भेदसामान्यनिषेधेन भेदाभेदपक्षो निराक्रियते । एवं गुणक्रियाऽवयवादिप्रतियोगिकानेकभेदनिषेधार्थः किञ्चनशब्दः । भवितृप्राधान्यनिर्देशपक्षेऽपि नाना भिन्नं किञ्चन गुणकर्मादिकं नास्ति इत्येवार्थः । किञ्चनशब्दः प्रकृतगुणकर्मादिधर्मपर एव सर्वनाम-शब्दत्वात् । तदुक्तं न्यायामृते
वाक्यशेषस्थधर्माख्यविशेषे पर्यवस्यति ।
किञ्चनेति हि शब्दोऽयमक्ताशब्दो घृते यथा ॥ इति ।
भिन्नधर्मा न सन्तीत्युक्तौ विशेष्याणां धर्माणां प्रमितत्वेन निषेधायोगेन विशेषणस्य भेदस्यैव निषेधः पर्यवस्यति । धर्माणां स्वरूपेण निषेधाभिप्राये नानेतिशब्दो निरर्थकः स्यात् ।
यद्वा नानाशब्दो विनाऽर्थकः । ‘नाना विष्णुं मोक्षदो नास्ति देवः’ इति प्रयोगात् । तथा च किञ्चनशब्दस्य प्रपञ्चार्थकत्वेऽपि प्रपञ्चो ब्रह्मणाऽविनाभूत इत्येवार्थः । यद्वा प्रलये प्रपञ्चो ब्रह्मणि नास्ति इत्युक्तौ, लटा तदानींतननिषेध एव ज्ञाप्यते सृष्टिस्थित्योस्तत्सद्भावोऽनुज्ञायत एव । एतदप्युक्तं स्वस्वभूमिषु इति । सृष्टिस्थितिकालयोः स्वस्वाधिकरणे सत्तां नैव निषेधतीत्यर्थः ।
यद्वा जगति नाना कुवादिकल्पितः किञ्चन अप्रामाणिक आकारः, सदसद्विलक्षणत्वं सप्तभङ्गीस्वातन्त्र्यं परमाणुपुञ्जरूपत्वम् इत्यादिकं नास्तीत्यर्थः। एतदप्युक्तं सत्तां न क्षिपेत् किन्तु अप्रामाणिकमाकारमेव क्षिपेदिति । किं चेदं पराभिमतप्रपञ्चाभेदभ्रमस्य न बाधकम् । नात्र ब्रह्म जगताऽभिन्नं नेति ज्ञाप्यते किन्तु ब्रह्मणि भिन्नं जगन्नेत्येव । तथा चाभेदभ्रमः स्थिरीकृत एव स्यान् न तु बाधित इत्यवगन्तव्यम् । एतदप्युक्तं नानात्वं क्षिपेन् न त्वभेदं येन बाधकं स्यादिति भावः । यद्वा ब्रह्मणि भिन्नं किञ्चन जगन्नास्ति किन्तु सर्वमपि अस्तीत्यर्थः । यद्वा अतीतानागतः प्रपञ्च इदानीं नास्तीत्युक्ते सत्कार्यवादोऽ-प्यनेनैव निरस्तो ध्येयः ॥ ७३२ ॥
युक्तिमल्लिका
असङ्गिनि च सद्विश्वं नास्तीत्यपि निगद्यते ॥ ७३३ ॥
सुरोत्तमटीका
गीतावाक्यसमाख्यया च श्रुतेरर्थमाह ॥ असङ्गिनीति ॥ सद् विद्यमानम् ॥ ७३३ ॥
सत्यप्रमोदटीका
‘ऋतेऽर्थं यत्प्रतीयेत न प्रतीयेत चात्मनि’इति भागवतोक्तासङ्गित्वेनापि जगतो भगवति विद्यमानस्यापि नास्तित्वरूपं श्रुत्यर्थं घटयति असङ्गिनीति । यथोक्तं तत्रैव तात्पर्ये ‘सर्वं परे स्थितमपि नैव तत्रेति भण्यते । यतो हरेर्न जीवेन जीवनं न हरौ ततः । जीवः प्रकृतिरप्यत्र यतो नैव हि बन्धकृत् । कर्म चाफलदातृत्वात् कालश्चापरिणामनात्’’ इत्यादि ॥ ७३३ ॥
युक्तिमल्लिका
मया ततमिदं विश्वं जगदव्यक्तमूर्तिना ।
मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः ॥ ७३४ ॥
न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम् ।
योगैश्वर्यबलादेतन्न तु मिथ्यात्वतः किल ॥ ७३५ ॥
इति कृष्णस्य वचनान्न तन्मिथ्यात्वकारणम् ॥ ७३६ ॥
सुरोत्तमटीका
गीतावाक्यं पठति ॥ मयाततमिति ॥ तत् श्रुत्या भगवत्युक्तं नास्तित्वम् ॥ ७३४-७३६ ॥
सत्यप्रमोदटीका
उक्तार्थे गीतां संवादयति मयेत्यादिभ्याम् । अस्यार्थो विवृतो गीताविवृतौ ‘त्वगिन्द्रियेण तं ज्ञात्वाऽन्योन्यधर्मसंक्रान्तिमासाद्य न तिष्ठन्ति भगवतः प्रकृतस्पर्शहितत्वात्’ इति ॥ योगः स्वरूपसामर्थ्यम् ॥ तत् श्रुत्युक्तं नास्तित्वम् । किल प्रसिद्धम् । श्रुतिस्मृतिभ्यामेव गत्यन्तरकथनादिति भावः ॥ ७३४-७३६ ॥
युक्तिमल्लिका
अतस्तद्बाधपरशोरयो लोकत्रयेऽपि न ।
सिद्धं तु शाखाछेद्येव मूलच्छेदः कथं वद ॥ ७३७ ॥
सुरोत्तमटीका
उपसंहरति ॥ अत इति ॥ अतः सार्वदैशिकसार्व-कालिकजगन्निषेधस्य क्वाप्यश्रवणात् । अयो ऽयस्स्थानीयत्रैकालिकनिषेधः लोकत्रयेऽपि नेति सम्बन्धः । न च वाच्यं श्रुतेरनाद्यनन्तत्वेन तत्कृतवर्तमान निषेधोऽप्यर्थादनाद्यनन्तकालीन इति । एवमपि त्रैकालिकनिषेधस्यार्थिकत्वेन मिथ्यात्वे चोदनाभावस्यापरिहारात् । ब्रह्मणोऽन्यत्र निरवधिकानन्त्याङ्गीकारे तवापसिद्धान्तात् । श्रुतेश्च ब्रह्मवत्सदातनत्वे तस्या एव त्रिकालनिषेधायोगेन सर्वमिथ्यात्वासिद्धेश्च । सावधिकानन्त्ये चावध्युत्तरकाले निषेधासिद्ध्या त्वदभिलषितमिथ्यात्वस्यैवासिद्धेश्च । किञ्च निषेधस्य त्रैकालिकत्वपरिरक्षणाय वेदनित्यतामङ्गीकृत्य तदुक्तवर्तमाननिषेधस्यापि त्रैकालिकत्वं वदता वेदोक्तानां विश्वसत्यत्वभेदब्रह्मसगुणत्वसाकारत्वादीनां सर्वेषामर्थानां च सर्वकालेष्वपि वर्तमानत्वं वक्तव्यम् । एवं च सर्वदा वर्तमानेष्वर्थेषु क्रियमाणो निषेधो ऽन्धकारस्थित घटनिषेधवद्भ्रान्तनिषेधो वा स्यात् । पारिभाषिकनिषेधो वा स्यात् । अतिवाद्यपि प्रतिवादीत्वम् अस्मदभिमतवाद्ये वा भूः । किंकरा-श्शङ्कराद्या इति स्तुतिश्च निरवधिकार्थैवाभूत् ।
न च श्रौतनिषेधस्य भ्रान्तित्वे श्रुतेरप्रामाण्यं स्यादिति शङ्कनीयम् । वेदे तत्वावेदकत्वातत्वावेदकत्वविभागस्य त्वयैव कृतत्वात् । निषेध्यार्थानां च सर्वदा विद्यमानत्वे निषेधभ्रान्तित्वस्यैव न्याय्यत्वात् । व्यर्थमन्यथाऽन्धकार-स्थितघटनास्तित्वप्रतीतेर्भ्रान्तित्वम् । जगत्सत्त्वप्रतिपादकवाक्यानां च त्वदुक्तविधया कदापि स्वार्थप्रच्यावनाभावेनाभ्रान्तित्वस्यैव प्राप्तेश्च । यदि च श्रुतेरप्रामाण्याद्भीतोऽसि तदा प्रागस्मदुक्तनवार्थानेव वद ।
अथवा नानाभूतं किञ्चन किञ्चिदपि जगद् इह ब्रह्मणि नानाभूतत्वादेव न अन्यद् भिन्नं सदस्तीति वा । इह ब्रह्मणि यन्नानाभूतं जगदस्ति । तन् न ब्रह्म न । आधाराधेयभावात् क्षराक्षरजडतया नानाभूतत्वाच्चेति वा अभिनवमर्थान्तरं वद । तदन्यतद्विरुद्धतदभावार्थेषु नञोऽनुशासनात् । नब्राह्मण इत्यादौ प्रयोगाच्च । स्वस्मिन्नस्तीत्युक्तस्यैव जगतः पुनस्स्वस्मिन्नेव नास्तित्वं घटयतो भगवतः कौशलनिदर्शनेन त्रिदशाधिपतेर्माधवस्य मध्वस्य च कृपया दशेमेऽर्था ग्रन्थकृतैवोत्प्रेक्षिताः स्वग्रन्थे सूचिताश्च । तच्छिक्षयैवास्माभिर्लिखितान-स्वकौशलेनेति द्रष्टव्यम् । सिद्धं स्वारसिक शब्दशक्तया सिद्धं, निषेधनं, शाखाच्छेदि कालविशेषे देशविशेषे चास्तित्वच्छेदि । मूलच्छेदः सार्वकालिक-सार्वदैशिकनिषेधाख्यच्छेदः ॥ ७३७ ॥
सत्यप्रमोदटीका
तद्बाधपरशोर् विश्वमिथ्यात्ववादस्य । अयः साधकम् । लोकत्रयेऽपि प्रस्थानत्रये अन्विष्यमाणेऽपि । विश्वं सत्यम् इति श्रुत्या, उक्तगीतावाक्यैः,वैधर्म्याच्च न स्वप्नादिवद् इत्यादि सूत्रैः खण्डितत्वात् । शाखा आपातार्थः । मूलं तत्त्ववादः ॥ ७३७ ॥
युक्तिमल्लिका
तत्त्रिकालेऽपि नास्तित्वं न श्रौतं नोपयोगि च ।
नाशस्यास्य च बाधस्य परस्परविरोधतः ॥ ७३८ ॥
सुरोत्तमटीका
तत् तस्माद् उक्तन्यायात् । उपयोगि ज्ञानविनाश्य-त्वाख्यमिथ्यात्वोपयोगि । अनुपयोगित्वमेव दर्शयति ॥ नाशस्येति ॥७३८॥
सत्यप्रमोदटीका
न च वाच्यम् ईश्वरवन्नित्यया श्रुत्या नास्ति किञ्चनेति निषेधे नास्तित्वं सार्वकालीनमेव सेत्स्यति न वर्तमानमात्रकालीनमिति । ‘न वेदा न वर्णाश्रमाचारधर्माः’ इति वेदमिथ्यात्ववादिना त्वया तन्नित्यत्वानङ्गी-कारात् । अङ्गीकारे च तत्रैव श्रुत्यर्थमिथ्यात्वस्य भङ्गापत्तेः । तेनैव न्यायेन श्रौतसत्यत्वादीनामपि त्रैकालिकत्वसिद्धेः । प्रमाणविरोधे श्रुत्यादीनां प्रमाणानुगुणार्थान्तराङ्गीकारस्य न्यायप्राप्तत्वात् । तदेतदाह न श्रौतमिति श्रुतितात्पर्यविषयो नेति भावः । इह ब्रह्मणि यन् नाना बहुचित्रं जगदस्ति, तन् न, ब्रह्मणो भिन्नम् इति योजनोपपत्तेः । नञो भिन्नेत्यर्थवाचित्वेनाभि-धानसिद्धत्वात् । नोपयोगि । तुष्यत्विति न्यायेनाभ्युपगमेऽपि त्वदभिलषितस्य ‘अज्ञानस्य स्वकार्येण सह ज्ञानेन निवृत्तिर्बाध’ इति त्वया निरुक्तस्य ज्ञाननाश्यत्वापमिथ्यात्वस्य साधनम् उपयोगं नावहतीति भावः । निवृत्तेः सत्त्वनियतत्वात्, सत्त्वासत्त्वयोश्च परस्परविरहव्यापकत्वेनैव प्रमितत्वादिति भावः ॥ ७३८ ॥
युक्तिमल्लिका
व्यावहारिकसत्त्वं तु नास्त्वित्वापरनाम हि ॥ ७३९ ॥
सुरोत्तमटीका
व्यावहारिकसत्त्वमादाय त्रिकालनास्तित्वेऽपि नाशो घटत इत्यत आह ॥ व्यावहारिकसत्वमिति ॥ ७३९ ॥
सत्यप्रमोदटीका
ननु न प्रमाणविरोधेन प्रतीतार्थप्रच्यावनम् । तेषां व्यावहारिकसत्यमात्रप्रतिपादकत्वात् । अनया श्रुत्या च पारमार्थिकसत्त्वस्य निषेधादिति इति वाच्यम् । निर्मूलत्वात्कल्पनायाः । ‘बाध्यविषये च व्यावहारिकमित्यस्याद्वैतिपरिभाषामात्रसिद्धत्वादि’ति औतिभिरङ्गीकारेण प्रमाणान्तरैर्व्यावहारिकसत्त्वोक्तौ तेषाम् अप्रामाण्यस्यैवापातात् । सर्वाभ्युपगत व्यवहारनिर्वाहकत्वरूपव्यावहारिकत्वोक्तौ श्रुतीनां वैयर्थ्यप्रसङ्गात् । ‘अप्राप्ते शास्त्रमर्थवदि’ति न्यायात् । तदेतदाह व्यावहारिकेति ॥ ७३९ ॥
युक्तिमल्लिका
सत्तानिषेधे सत्येव या सा भ्रान्तौ प्रतीयते ।
तदाऽस्तित्वकथा शुक्तिरूप्यास्तित्वकथोपमा ॥ ७४० ॥
सुरोत्तमटीका
या सत्ता । त्रैकालिकनिषेधं वदता निषेधे सत्येव व्यावहारिकसत्त्वाख्य सत्ताकथनादिति भावः । तदस्तित्वकथा तस्य नास्तीत्युच्यमानस्य सत्त्वस्य तदैव तत्रैवास्तित्वकथा ॥ ७४० ॥
सत्यप्रमोदटीका
अस्तित्वकथा कथामात्रम् । न हि इतोऽन्यत् शशशृङ्गादेरपि असत्त्वमस्ति । कथोपमेति । बाधविलम्बः नासत्त्वप्रतिक्षेपक इति भावः ॥ ७४० ॥
युक्तिमल्लिका
नाशो न चेदयं बाधो जगत्प्रत्येव सम्भवेत् ।
अज्ञानस्यैव विज्ञानं विरोधीति गतं तदा ॥ ७४१ ॥
सुरोत्तमटीका
नाशो न चेन् नाशस्य प्राक्प्रतियोगिसत्त्वनियमभिया कुत्रापि नाशो नाङ्गीक्रियते चेत् । नाशपदेनापि बाध एवोच्यते चेदित्यर्थः । बाधो ऽयं बाधरूपो नाश इत्यर्थः । जगत्प्रत्येव सम्भवेत् । नेदं रजतमित्यत्र नास्तित्वापरपर्यायनाशस्य रजतं प्रत्येव दर्शनात् । तवाद्वितीयश्रुत्यापि द्वितीयस्यैव साक्षान्नास्तित्वाख्यनाशस्योक्तत्वादिति भावः । अस्त्वेवं तदापि मम का हानिरित्यत आह ॥ अज्ञानस्यैवेति ॥ तदा एवं सति । ज्ञान-मज्ञानस्यैव निवर्तकमिति सावधारणव्याप्तेर्भङ्गप्रसङ्ग इति भावः ॥ ७४१ ॥
सत्यप्रमोदटीका
ननु ज्ञाननाश्यत्वं नाम ज्ञानबाध्यत्वमेवाभिमतं चेत् तर्हि ज्ञानेन साक्षादेव बाधसम्भवे अज्ञानद्वाराश्रयणं निरर्थकम् इत्याह नाश इति ॥ ७४१ ॥
युक्तिमल्लिका
सोऽपि त्रिकालसत्ताया निषेधः स्यान्न चापरः ।
स तु न श्रूयते क्वापीत्युक्तं तत्कुत्र बाध्यता ॥ ७४२ ॥
सुरोत्तमटीका
व्याप्तिभङ्गोऽप्यस्तु तथापि बाध्यत्वसिद्ध्या ममेष्टसिद्धि-रित्यत आह ॥ सोऽपीति ॥ सोऽपि बाधोऽपि । तत् तस्मात् । त्रिकाल-नास्तित्वस्यैव बाधत्वे प्रतियोगिसत्तासापेक्षज्ञाननाश्यत्वपक्षप्रतिक्षेपप्रसङ्गः । तत्परित्यज्य नाशपदेनापि बाधस्यैवोक्तौ त्वदुक्तव्याप्तेर्भङ्गप्रसङ्गः । व्याप्तिमपि परित्यज्य बाधमात्रेणापि न सन्तोष्टव्यम् । क्वाप्यश्रवणेन तस्याप्यन्तत उज्जीवयितुमशक्यत्वात् । एवं च मार्जाराग्रे मूषिक चापलवत्परकीयशास्त्र-प्रक्रियाधावनायैवाभून् न जीवनायेति भावः॥ ७४२ ॥
सत्यप्रमोदटीका
बाधपक्षे पूर्वोक्तम् अश्रौतत्वं दोषं स्मारयति न श्रूयत इति ॥ ७४२ ॥
युक्तिमल्लिका
भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ।
क्षीयन्ते चास्य कर्माणि दृष्ट एवात्मनीश्वरे ॥ ७४३ ॥
इत्यादिवाक्यैर्बन्धस्य पुण्यपापादिकर्मणाम् ।
अज्ञानस्य च विज्ञानाच्छ्रुतो नाशो न चापरः ।
अतस्सर्वजगन्नाशो ज्ञानेनेत्यतिसाहसम् ॥ ७४४ ॥
सुरोत्तमटीका
किं चाज्ञानसंशयपुण्यपापातिरिक्तजगतो ज्ञान-नाश्यत्वस्यक्वाप्यश्रवणात् तन्मिथ्यात्वकथा न कथंचिदप्युपयोगिनीत्याह ॥ भिद्यत इति ॥ ७४३,७४४ ॥
सत्यप्रमोदटीका
नाश एव न बाध इत्यभिनीय दर्शयति भिद्यत इति । श्रुतोऽपि नाशः बन्धकारणमात्रस्याज्ञानादेर् न तु सर्वजगत इत्याह न चापर इति ॥ ७४३,७४४ ॥
युक्तिमल्लिका
इदानीं नष्टनानार्थनाशोऽन्ते ज्ञानतः कथम् ।
प्रागेव नास्तिता तस्य यतस्सर्वस्य संमता ॥ ७४५ ॥
सुरोत्तमटीका
अयुक्तश्च ज्ञानेन जगन्नाश इत्याह ॥ इदानीमिति ॥ नष्टस्य पुनर्नाशायोगात् । मास्तु ज्ञानेन नाशो बाधः किन्तु नास्तित्वबोध एव बाधः । स च नष्टस्यापि घटत इत्यत आह ॥ प्रागेवेति ॥ प्राग्ब्रह्मज्ञाना-त्प्राक् । तस्य इदानीं नष्टस्य । ध्वस्तघटादौ नास्तीति व्यवहारस्य सर्वसम्मत-त्वात् । त्रिकालनास्तित्वस्य च तथा बोधकशब्दाभावेन परमते शब्दजन्या-परोक्षज्ञाने उल्लेखस्यैवायोगात् । नास्तित्वोल्लेखमात्रस्य प्रागेव सिद्धत्वादिति भावः ॥ ७४५ ॥
सत्यप्रमोदटीका
‘अज्ञानस्य स्वकार्येण प्रविलीनेन वा सह ज्ञानेन निवृत्तिर्बाधः’ इति बाधलक्षणे ‘प्रविलीनेन सह’ इत्यंशम् अपहसति इदानी-न्तनेति नष्टस्य ब्रह्मज्ञानेन पुनर्नाशो वा, पुनः पूर्वं ज्ञातस्य नाशज्ञानं वा । नाद्य इत्याह प्रागेवेति ॥ ७४५ ॥
युक्तिमल्लिका
अतो नास्तित्वबोधोऽन्ते कथमस्येति चिन्त्यते ।
अनुवादितया वाक्यममानं स्याद्धि तेषु ते ॥ ७४६ ॥
सुरोत्तमटीका
अत इदानीमेव नास्तित्वबोधात् । अन्ते ब्रह्मज्ञान-दशायाम् । अस्य इदानीमेव नास्तीति प्रतीयमानस्य जगतः । नास्तित्व-बोधोऽपीदानीमेव जायते न तु ब्रह्मज्ञानदशायामिति भावः । इदानीं ज्ञातस्य पुनर्ब्रह्मज्ञानदशायामपि ज्ञाने को दोष इत्यत आह ॥ अनुवादितयेति ॥ वाक्यं ब्रह्मज्ञानजनक वाक्यम् । तेषु प्रागेव प्रत्यक्षादिना नास्तीति ज्ञातेषु ॥ ७४६ ॥
सत्यप्रमोदटीका
न द्वितीयः । बाधबोधकवाक्यस्य ज्ञानज्ञापकत्वेना-प्रामाण्यापत्तेरित्याह अनुवादितयेति ॥ ७४६ ॥
युक्तिमल्लिका
किन्तु प्रलयकालीनवह्न्यर्काद्यैर्जगत्क्षयः ।
मुद्गरादिकुठाराद्यैर्मध्ये मध्येऽर्थनास्तिता ॥ ७४७ ॥
सुरोत्तमटीका
इदानीं नष्टघटादीनां ज्ञानेन नाशस्य नास्तित्वबोधस्य चायोगेऽपि प्रलये नश्यज्जगतो ज्ञानेन नाशो वा क्रियते नास्तित्वं वोल्लिख्यत इत्यत आह ॥ किंत्विति ॥ जगत्क्षय इत्युपलक्षणम् । नास्तित्वबोधोऽपि संहृतत्वादेव चक्षुराद्यैरेव भवति । न तु तदर्थमपि ब्रह्मज्ञानमपेक्ष्यत इति द्रष्टव्यम् । नास्तितेत्युपलक्षणम् । नाशोऽपि ग्राह्यः । ज्ञानेन नाशो न चेत् केन तयोर्नाश इति शङ्कापरिहारायोभयत्रापि नाशककथनम् । अत एव किंत्वित्युक्तम् ॥ ७४७ ॥
सत्यप्रमोदटीका
तव बाधकज्ञानस्य न जगन्नाशकत्वम् । नाशस्य हेत्वन्तरेणैव सिद्धेरित्याह किन्त्विति । तदुक्तं सुधायां ‘किन्तु मुद्गरप्रहारा-दिना घटस्येव ईश्वरस्य ज्ञानेच्छाप्रयत्नव्यापारैर्विनाश एवे’ति ॥ प्रलये नाश-दर्शनमपि यथायथं प्रतियोगिग्राहकप्रमाणैरेव न तु पुनस् त्वदुक्तप्रणाड््या ब्रह्मज्ञानेनेति भावः ॥ ७४७ ॥
युक्तिमल्लिका
तच्छिन्नमूलशाखोग्रो मिथ्यावादाख्यपादपः ।
न फलाय न पत्राय न च्छायायै भवेत्तव ॥ ७४८ ॥
सुरोत्तमटीका
तत् तस्मात् । प्राङ्नष्टे प्रलयकालनष्टे च नाश-नास्तित्वबोधयोरन्यफलत्वेन ब्रह्मज्ञानफलत्वायोगाच् छिन्नं मूलम् इदानीन्तन-नास्तित्वाख्यं, शाखाग्रं प्रलयकालीननाशनास्तित्वाख्यं च यस्य । उभयत्रापि ज्ञाननाश्यत्वस्य ज्ञानेनैव नास्तितयोल्लिख्यमानत्वस्य चाभावेन मिथ्यात्वस्यैव भग्नत्वादिति भावः । अथवा उक्तप्रकारेण स्वप्रक्रिययैवारोपायोगाद्बाधायोगाच्च । छिन्नमारोपाख्यं मूलं बाधाख्यशाखाग्रं च यस्य स तथोक्तः । अल्पत्वादादि-त्वाच्चाद्यस्य मूलता बहुविस्तारवत्त्वादन्त्यस्याग्रता । मिथ्याभूतार्थे आरोपस्य पूर्वकालीनत्वाद्बाधस्य च चरमकालीनत्वाद् उभयाभावे मिथ्यात्वस्य सुतरा-मभावाच्चैवमुक्तमिति ज्ञातव्यम् ॥ ७४८ ॥
सत्यप्रमोदटीका
छिन्नेति निराकरणेनाभासीकृतेत्यर्थः । मूलं साधकाभिमतश्रुत्यादिमानस्वरूपम् । तेषामप्यग्रतो मिथ्यात्वापातेन वन्ध्यासुत-वचस इव स्वरूपासिद्धहेतूनामिव चासाधकत्वात् । अग्रच्छेदो नाम वाक्यानां पूर्वोत्तरविरोधेन प्रमाणान्तरविरोधेन त्वदभिमतार्थाप्रतिपादकत्वम् । अनुमानानां व्याप्त्याद्यङ्गवैकल्यम् । न फलायेति । वन्ध्यासुतेन मरुमरीचिकया पोषित-गन्धर्वनगरवृक्षस्येव स्वरूपत एवाभावादिति हृदयम् ॥ ७४८ ॥
युक्तिमल्लिका
इदानीं बाध्यरजताधिकसत्ताश्रयत्वतः ।
भेदो ब्रह्मगुणा विश्वं ब्रह्मवत्परमार्थसत् ॥ ७४९ ॥
सुरोत्तमटीका
पुनरप्यनुमानान्तरेण भेदस्य ब्रह्मगुणानां विश्वस्य च सत्यतां स्थापयति ॥ इदानीमिति ॥ ७४९ ॥
सत्यप्रमोदटीका
पूर्वोक्तं प्रातिभासिकेतरत्वरूपं पारमार्थिकत्वसाधकं हेतुं स्मारयति इदानीमिति ॥ ७४९ ॥
युक्तिमल्लिका
देहात्मनोरेकता च नभोनैल्यं च ते मते ।
यत्प्रातिभासिकं सर्वं तद्धेतुर्न विपक्षगः ॥ ७५० ॥
सुरोत्तमटीका
यद् यस्मात् । तत् तस्मात् प्रातिभासिकत्वेन शुक्ति-रजताधिकसत्ताश्रयत्वाभावात् ॥ ७५० ॥
युक्तिमल्लिका
बाध्यं यच्छुक्तिरूप्यादि तदद्यैव हि बाध्यते ।
नभोनैल्यं च तत्रत्यैर्न नीलमिति बाध्यते ॥ ७५१ ॥
सुरोत्तमटीका
किं च बाध्यं सर्वमिदानीमेव बाध्यते । अनादिकाल-मारभ्य एतावत्कालपर्यन्तमबाधितस्य जगतो ब्रह्मवदुपर्यपि न बाध इति वक्तुं नभोनैल्यभ्रमे देहात्मैक्यभ्रमे च यत्परैरिदानीमबाध्यत्वे सति ब्रह्मज्ञानेनैव बाध्यत्वमङ्गीकृतं तन्निरासाय तयोरुभयोर्वस्तुस्थितिं प्रदर्शयति ॥ बाध्यमिति ॥ तत्रत्यैर् भ्राम्यमाणनभोदेशस्थैः स्वसमीपस्थे नभसि । न कस्यापि भ्रमः । किन्तु दूरस्थे । तत्रापि तत्रत्यस्य न नीलमिति धीरस्त्येव । अतस्तस्यापीदानीमेव बाध्यत्वमिति भावः ॥ ७५१ ॥
सत्यप्रमोदटीका
मम देह इति नभो न नीलमिति च प्रमयेदानीमेव बाधान् न देहात्मैक्यादौ व्यभिचारः । तत्र हेत्वभावादेव । शुक्तिरूप्ये तु प्रातिभासिकत्वं तेनैवाङ्गीकृतम् । तत्रत्यैः प्रत्यक्षतो नैल्याभावं पश्यद्भिः । अत्रत्यस्य तु तत्रत्यस्य प्रत्यक्षमूलकेनाप्तवाक्येन बाधः । न सर्वथा केवलागमेनेति भावेनाह नभ इति ॥ ७५१ ॥
युक्तिमल्लिका
आकाशे नीलिमोदेतीत्यादिवेदोक्तितस्तु तत् ।
अबाध्यमेव वा नैल्यं नोभयत्रापि न क्षतिः ॥ ७५२ ॥
देहोऽहमिति विज्ञानं न हि कस्यापि देहिनः ।
नाहं देह इति ज्ञानं सर्वेषामपि सर्वदा ॥ ७५३ ॥
मम देह इति प्राहुस्सर्वेऽपि कथमन्यथा ।
देहात्मैक्यभ्रमस्येत्थमवकाशो न विद्यते ॥ ७५४ ॥
सुरोत्तमटीका
तद् दूरे प्रतीयमानं नभोनैल्यम् । समीपे नैल्याप्रतीतेर् दूरे च प्रतीतेर् नयनपक्ष्मणामिव तदाऽतिसामीप्यमेवार्थदोषः कल्प्यत इति भावः ॥ ७५२–७५४ ॥
सत्यप्रमोदटीका
व्युत्पादितं प्रातिभासिकत्वम् अव्याकृताकाशे प्रतीत-नैल्यस्य । भूताकाशनीलिम्नस्तु श्रुतिसिद्धत्वाद् योगिप्रत्यक्षगम्यत्वाच्च पार-मार्थिकत्वमेवेति न तत्र व्यभिचारप्रसङ्ग इत्याह आकाश इति । नस् तत्त्व-वादिनाम् । क्षतिर् उक्तानुमानस्य व्यभिचारः ॥ ‘अहं गौरः’ इति व्यवहारः सिंहश्चैत्रः, कृष्णं वस्त्रम् इत्यादिवदुपचारमात्रत्वान् न तथाविधप्रतीतिसाधक इत्याह देह इत्यादिभिः
॥ ७५२–७५५ ॥
युक्तिमल्लिका
गौरोहमित्यादिवाक्च कौराद्यङ्गेऽभिमानतः ।
अहंताया व्यवहृतिरुपचारेण केवलम् ।
न हि सिंहात्मकं मर्त्यं वक्ति वागौपचारिकी ॥ ७५५ ॥
यतोऽस्ति पुत्रे मित्रादौ वित्ते वाऽतिप्रिये नृणाम् ।
नष्टे नष्टोऽहमिति वाक्तुष्टे तुष्टोऽहमित्यपि ॥ ७५६ ॥
अतो बाध्यस्य सर्वस्य बाधोऽद्यापि हि विद्यते ॥ ७५७ ॥
सुरोत्तमटीका
वाक् सिंहो देवदत्त इति वाक् । यथा सिंहो देवदत्त इति प्रयोगस्यौपचारिकत्वान्न तेन सिंहदेवदत्ततादात्म्यस्य प्रतीतिः किन्तु सादृश्यस्यैव तथा गौरोऽहमित्यौपचारिकप्रयोगेऽपि न देहतादात्म्यप्रतीतिर् मम देह इति भेदबुद्धेर्जागरूकत्वात् । किं त्वभिमानादेव स्वीये स्वत्वव्यवहार इति भावः ॥ ७५५–७५७ ॥
सत्यप्रमोदटीका
उपचारमेव सुस्पष्टैर्निदर्शनैर्द्रढयति पुत्र इत्यादिना ॥ बाध्यस्य सम्प्रतिपन्नभ्रान्तपदार्थस्य प्रातिभासिकरूप्यादेः । अद्यापि ब्रह्मज्ञानेतरेण तत्प्रागेव ॥ ७५६–७५७ ॥
युक्तिमल्लिका
अनादिकालतस्सर्वं दृश्यते जगदीदृशम् ।
बाधो न लभ्यते सर्वमस्तीत्यद्यापि वीक्ष्यते ॥ ७५८ ॥
सत्यप्रमोदटीका
जगदीदृशमिति । तदुक्तं तत्त्वोद्योते ‘न क्वाप्यनीदृशं विश्वं तत्तत्कालानुसारत’ इति ॥ ७५८ ॥
युक्तिमल्लिका
यो नास्त्यत्रास्ति सोऽन्यत्र गृहे नास्त्यस्त्यसौ बहिः ।
सर्वत्र सर्वदेदं तु नास्त्येवेति क्व धीर्वद ॥ ७५९ ॥
सुरोत्तमटीका
यो घटो ऽत्र नास्ति सोऽन्यत्रेत्यन्वयः । एवमुत्तरत्रापि ॥ ७५९ ॥
सत्यप्रमोदटीका
किञ्चायं निषेध एकदेशकालप्रतिपन्नस्य कालान्तरादौ चेद् रीत्यन्तरेण परिच्छिन्नत्वम् अनित्यत्वं वोक्तं भवति । त्रिकालाखिल-देशनिषेधस्तु नास्त्येव । नित्यसर्वगतयोः कालाकाशयोस्तादृशनिषेधप्रतिज्ञाने व्याघातश्चेत्याह य इति ॥ ७५९ ॥