यद्यन्ते निष्प्रकारा धीर्ब्रह्माऽन्यस्य न बाधनम्
चरमसाक्षात्कारनिराकृतिः
युक्तिमल्लिका
यद्यन्ते निष्प्रकारा धीर्ब्रह्माऽन्यस्य न बाधनम् ।
यद्यन्ते सप्रकारा धीर्ब्रह्माऽन्यस्य न बाधनम् ॥ ७२० ॥
सुरोत्तमटीका
निष्प्रकारा ब्रह्मस्वरूपमात्रविषया तदितरनिषेधाख्य-प्रकारशून्येत्यर्थः । अस्मिन्पक्षे नेदं रजतमितिवद् अभावप्रमारूपबाधस्यैवा-भावाद् ब्रह्मान्यस्य न बाधनम् । द्वितीयपक्षे प्रकारभूतनिषेधस्यैव ब्रह्मव्यति-रिक्तस्य चरमप्रमाविषयत्वेन ब्रह्मवदुर्वरितत्वाद् ब्रह्मान्यस्य न बाधनमिति ज्ञातव्यम् ॥ ७२० ॥
सत्यप्रमोदटीका
किं च चरमज्ञानं बाधकाभिमतं निष्प्रकारं सप्रकारं वा । नाद्य इत्याह ॥ यदीति । निष्प्रकारकस्य साधनबाधनाक्षमत्वात् । भ्रमाविषयविशेषविषयकत्वमेव बाधकत्वे तन्त्रम् । न द्वितीय इत्याह यदीति चरमज्ञानस्य प्रमात्वेन तद्विषयस्य प्रकारस्य सत्यत्वापत्त्या ब्रह्मान्यस्य सर्वस्य बाधासिद्धेः ॥ ७२० ॥
युक्तिमल्लिका
अतो बोधाद्धि सर्वस्य बाधं युक्तिरपाकरोत् ।
अबोधादेव बाधोक्तिरिति वक्ति ततस्सुधीः ॥ ७२१ ॥
सुरोत्तमटीका
बोधाद् ब्रह्मज्ञानाख्यबोधात् । बाधं जगन्निषेधाख्य-बाधम् । तत उक्तरीत्या बाधासम्भवात् । अबोधात् पूर्वोत्तर प्रमेयाबोधात् । बाधोक्तिर् जगद्बाधोक्तिः ॥ ७२१ ॥
सत्यप्रमोदटीका
अतः पक्षद्वयेऽपि दोषस्योक्तत्वात् । अबोधात् तवाज्ञानादेव । सुधीस् तत्त्ववादी ॥ ७२१ ॥
युक्तिमल्लिका
ज्ञानेनाज्ञानस्य नाशे तदुपादानकं जगत् ।
नश्येच्चेन्न ह्ययं बाधो नाशोऽयं घटनाशवत् ।
अनित्यतैव तेन स्यान्मिथ्यात्वं निर्निबन्धनम् ॥ ७२२ ॥
सुरोत्तमटीका
ज्ञानेन निषेधो बाध इति पक्षमपाकृत्य ज्ञानेन नाशो बाध इति पक्षं पूर्वोक्तदूषणद्वयेन दूषितमपि पुनर्दोषान्तरेण दूषयति ॥ ज्ञानेनेति ॥ ७२२ ॥
सत्यप्रमोदटीका
अथ ज्ञानेन बाधो नाम नाश इत्यभिप्रेयते तर्हि सुतरां सत्यत्वं सेत्स्यतीत्याह ज्ञानेनेति । अज्ञानस्येति । ज्ञानमज्ञानस्यैव निवर्तक-मिति नियमात् । तर्हि बाध इत्यपार्थकं वच इत्याह नाश इति । विमतः, नाश एव, उपादाननाशपूर्वकत्वात् कपालनाशजन्यघटनाशवद् इति प्रयोगो ऽभिप्रेतः ॥ ७२२ ॥
युक्तिमल्लिका
नाशानन्तरनास्तित्वबोधो घटपटादिके ।
नष्टे तन्नास्तिताबोधसमो मिथ्या ततोऽपि न ॥ ७२३ ॥
सुरोत्तमटीका
ततः नाशानन्तरं जातान्नास्तित्वबोधात् ॥ ७२३ ॥
सत्यप्रमोदटीका
नास्तिताबोधः ध्वंसविषयकः नाशानन्तरनास्तिता-बोधत्वात् तथाविधघटादिनास्तिताबोधवत् । तथा च न मिथ्यात्वमित्याह नाशेति ॥ ७२३ ॥
युक्तिमल्लिका
प्रध्वंसाभावबोधोऽसौ न मिथ्यात्वस्य वेदनम् ।
प्राङ्नास्तिताया बोधस्तु न तवापि ममापि न ॥ ७२४ ॥
सुरोत्तमटीका
प्राक् नाशात्प्राक् ॥ ७२४ ॥
सत्यप्रमोदटीका
नाशात् प्राक् अस्तीति बोध उभयसंमत इत्याह प्रागिति ॥ ७२४ ॥
युक्तिमल्लिका
सत एव विनाशेन प्रा(क्सत्तै)क्सत्येव जगत्यभूत् ।
अतो विषं महेशस्य कण्ठाभरणतामगात् ॥ ७२५ ॥
सुरोत्तमटीका
अतः नाशोत्तरकालीननास्तित्वस्य प्राक्सत्त्वनियतत्वात् । यथाऽतिक्रूरमपि विषं महेश्वरस्य कण्ठाभरणमभूत् तथा नाशोत्तरकालीन-नास्तित्वमपि जगत्सत्तासाधकत्वेन सत्यत्ववादिनः कण्ठाभरणमेवाभूत् ॥ ७२५ ॥
सत्यप्रमोदटीका
अतो दुरभिप्रायेणैव त्वयोक्तो नाशस्तत्ववादिनो मम सिद्धान्तभूतसत्यत्वसाधनायैवाभूदिति साहित्यमुद्रयाऽऽह महेशस्येति
॥ ७२५ ॥
युक्तिमल्लिका
त्रिकालनास्तिताबोधो बाधोऽप्येतेन खण्डितः ।
प्राक्सत्तानियमो यस्मान्नाशस्याखिलसंमता ॥ ७२६ ॥
सुरोत्तमटीका
एतेन प्राक्सत्तानियतनाशेन । एतेनेत्युक्तहेतुं विशदयति ॥ प्रागिति ॥ ७२६ ॥
सत्यप्रमोदटीका
अखिलेति । यथाऽह मायिभाष्यकारोऽपि ‘सत एव घटादेरुत्पत्तिर्विनाशो वा दृष्टः । नासतः शशविषाणादेरि’ति ॥ ७२६ ॥
युक्तिमल्लिका
कालत्रयेऽपि सत्ताया निषेधः कुत्र विद्यते ॥ ७२७ ॥
सुरोत्तमटीका
प्राक्क्रियाकालनास्तित्वरूपबाधमङ्गीकृत्य रज्जुभ्यामेव बन्धनं कृतम् । अधुना श्रौतपदावलीशोधने स एवाष्टमरसायित इत्याह ॥ कालत्रयेति ॥ ७२७ ॥
सत्यप्रमोदटीका
‘‘बन्धबाध एव मुक्तिरिति चेन्नैवं श्रुतिसूत्रे वदतः । ‘तरति शोकमि’त्यादौ विपरीताभिधानादि’’ ति सुधोक्तमाह कालत्रयेऽपीति
॥ ७२७ ॥
युक्तिमल्लिका
न विद्यते द्वितीयं चेदद्वितीयाभिधं हि तत् ।
वर्तमाननिषेधोऽयं लटस्तत्रैव शासनात् ॥ ७२८ ॥
सुरोत्तमटीका
एकमेवाद्वितीयमित्यत्राद्वितीयपदेनैव कालत्रयनिषेधोक्ति-रिति शङ्कां निराकरोति ॥ न विद्यत इति ॥ तद् ब्रह्म । अयं, न विद्यत इति निषेधः । तत्रैव वर्तमाने ॥ ७२८ ॥
सत्यप्रमोदटीका
ननु ‘एकमेवाद्वितीयमि’ति श्रुतौ अद्वितीयशब्दः कालत्रयनिषेधपर इति चेन्मैवम् । न विद्यते द्वितीयं यस्य इति खलु तत्र विग्रहः । तत्र लटा वर्तमाननिषेध एव प्रतीयते । प्रलयवर्णनपरत्वात् । अतीतानागतकालयोः सत्ता अनुमन्यत एव । ‘विशिष्य निषेधः शेषविध्यनु-ज्ञापकः’ इति न्यायादित्याह नेति ॥ ७२८ ॥
युक्तिमल्लिका
अघटा भूमिरित्युक्ते किं भाव्यपि घटोऽत्र न ।
अत ईदृक्पदस्थो नञ्नात्यन्ताभावबोधकः ॥ ७२९ ॥
सुरोत्तमटीका
अद्वितीयपदस्यापि विग्रहं वदन्तः न विद्यते द्वितीयं यस्येत्येव वदन्ति । स च लडन्तपदप्रयोगमहिम्ना वर्तमानकाल एव तन्निषेधति । न सर्वदा । अन्यथाकालान्तरे सघटे भूतलेऽघट इति प्रयोग एव न स्यादित्याह ॥ अघटेति ॥ अतो नानेन पदेन त्रैकालिकनिषेधसिद्धिरिति भावः ॥ ७२९ ॥
सत्यप्रमोदटीका
‘भावी’ इत्युपलक्षणम् । अतीतेत्यपि ग्राह्यम् ॥ ७२९ ॥
युक्तिमल्लिका
सोऽपि यस्येति शब्दस्य वाच्यार्थे केवलं भवेत् ।
स्वस्वोपादानगानर्थान् समर्थान् किं निषेधति ॥ ७३० ॥
एकदेशनिषेधश्च न मिथ्यात्वप्रयोजकः ।
सन्नप्यर्थो न सर्वत्र क्वचिन्नास्त्यस्ति च क्वचित् ॥ ७३१ ॥
सुरोत्तमटीका
युक्तयन्तरं चाह ॥ सोऽपीति ॥ सोऽपि वर्तमान-निषेधोऽपि । वाच्यार्थे ब्रह्मणि । अद्वितीयं ब्रह्मेत्युक्ते ब्रह्मण्येव द्वितीयनिषेधं कुर्यान् न तु सर्वत्र । न ह्यधनोऽयं ब्राह्मण इत्युक्ते राज्ञः कोशस्थधन-स्याप्यभावस्सिद्ध्यतीति भावः । ततः किमित्यत आह ॥ स्वस्वोपादान-गानिति ॥ एकदेशनिषेध एकस्मिन्देशे निषेधः । अर्थः घटादिः, अतः सार्वदैशिकसार्वकालिकनिषेध एव मिथ्यात्वोपयोगी । स चाद्वितीयश्रुतौ लटा कालविशेषोक्तेर् यस्येति देशविशेषोक्तेश्च कथं सिद्ध्येदिति भावः ॥ ७३०,७३१ ॥
सत्यप्रमोदटीका
एवं यस्य इति यच्छब्दवाच्यब्रह्मणि विशिष्य निषेधे तदन्यत्र स्वस्वोपादानेषु कपालादिषु घटादिकार्यवस्तूनां सत्तामनुजानात्येवेत्याह सोऽपीति ॥ नेति किन्तु परिच्छिन्नत्वस्यैव । तदेवाह सन्नपीति ॥ ७३०,७३१ ॥