अथ दृग्दृश्यसम्बन्धायोगात्केवलमीदृशी
दृग्दृश्ययोः संबन्धानुपपत्तिभङ्गः
युक्तिमल्लिका
अथ दृग्दृश्यसम्बन्धायोगात्केवलमीदृशी ।
कुसृष्टिर्हि त्वया वाच्या सापि शोच्या महात्मनाम् ॥ ६४२ ॥
सुरोत्तमटीका
दृग्दृश्यसम्बन्धायोगाद् अयं घट इति ज्ञानस्य मान-सत्वम् । अत एव दृश्यस्य ब्रह्मण्यारोपश्चेति शङ्कां सविस्तरं दूषयति ॥ अथेति ॥ ईदृशी दृश्यस्य दृशि आरोप इत्येवमाकारा ॥ ६४२ ॥
सत्यप्रमोदटीका
अथेदानीं पराभिमतं दृग्दृश्ययोराध्यासिकसम्बन्धं सविस्तरं निरस्यति अथेत्यादिभिः । सम्बन्धायोगादिति । ज्ञानस्याद्रव्यत्वेन संयोगस्याभावात्, समवायस्य चात्मातिरिक्तेनासम्भवादिति भावः । कुसृष्टिर् अध्यासः, प्रतिकर्मव्यवस्थानिर्वाहार्थम् अन्तःकरणस्य बहिर्निर्गमनं, तत्तदाकारेण परिणामः, तत्र ज्ञातृचैतन्यस्य प्रतिफलनं, तेनाधिष्ठानावरणनिवृत्तिर् इत्यादिका । शोच्येति । क्लृप्तेन विषयविषयिभावाख्यस्वरूपसम्बन्धादेव व्यवहारनिर्वाहादिति भावः ॥ ६४२ ॥
युक्तिमल्लिका
एवं सति च दृश्यस्य दृक्सम्बन्धोऽपि को वद ।
अध्यासाध्यस्तभावश्चेत्सोऽपि सम्यग्विविच्यताम् ॥ ६४३ ॥
सुरोत्तमटीका
एवं सति दृश्यस्य दृश्यारोपे सति ॥ ६४३,६४४ ॥
सत्यप्रमोदटीका
एवं सति संयोगाद्यसम्भवे सति, असम्बद्धस्य प्रकाशनेऽतिप्रसङ्गात् त्वयाऽपि यस्य कस्यचित्सम्बन्धस्यावश्यं वक्तव्यत्वे च सति ॥ ६४३ ॥
युक्तिमल्लिका
आरोपरूपज्ञानत्वमध्यासत्वं हि केवलम् ।
अध्यस्तत्वं च तज्ज्ञानज्ञेयत्वं न ततोऽपरम् ॥ ६४४ ॥
सत्यप्रमोदटीका
ज्ञेयत्वं विषयत्वम् ॥ ६४४ ॥
युक्तिमल्लिका
अतस्त्वयोक्तस्सम्बन्धो ज्ञानज्ञेयत्वमेव हि ।
न संयोगस्तयोरासीत्समवायोऽपि न ह्यभूत् ॥ ६४५ ॥
सुरोत्तमटीका
अतो ऽध्यासाध्यस्तभावस्यापि ज्ञानज्ञेयत्व एव पर्यव-सानात् । तयोर् ज्ञानज्ञेययोः ॥ ६४५ ॥
सत्यप्रमोदटीका
ज्ञानज्ञेययोः स्वरूपसम्बन्धः घटतद्वृत्त्योः क्लृप्तः । तेनैव सर्वनिर्वाहे किमाध्यासिकसम्बन्धकल्पनादुर्व्यसनेनेत्याह अत इत्यादिभिः ॥ ६४५,६४६ ॥
युक्तिमल्लिका
अयं तु वृत्तिघटयोरप्यस्त्येव स्वभावतः ।
वृत्तिर्ज्ञानं घटो ज्ञेय(इ)मिति को नाम नाब्रवीत् ॥ ६४६ ॥
सुरोत्तमटीका
अयं त्वयाऽप्यन्ततोऽङ्गीकृतो ज्ञानज्ञेयत्वरूपः । वृत्तिर् अन्तःकरणवृत्तिः ॥ ६४६ ॥
युक्तिमल्लिका
ज्ञानज्ञेयत्वमनयोः केनेति यदि शङ्क्यते ।
आरोप्यारोपभावो हि तयोः केनेति कीर्तय ।
संयोगसमवायौ तु नोभयोरपि संमतौ ॥ ६५७ ॥
सुरोत्तमटीका
अनयोर् वृत्तिघटयोः । तयोर् घटतदधिष्ठानचैतन्ययोः ॥ ६४७ ॥
सत्यप्रमोदटीका
प्रतिबन्द्या परेणैव स्वरूपसम्बन्धमङ्गीकारयितुं पृच्छति केनेति ॥ ६४७ ॥
युक्तिमल्लिका
यदि ब्रह्मणि सत्त्वं च घटस्य पृथगुच्यते ।
तर्ह्यध्यस्तत्वकथनं कण्ठशोषणमेव ते ॥ ६४८ ॥
संयुक्तसमवायाख्यस्सम्बन्धस्तत्र ते भवेत् ।
घटेन युक्तं तद्ब्रह्म समवेता च तत्र चित् ॥ ६४९ ॥
सुरोत्तमटीका
पृथक् आरोपात्पृथक् आरोपातिरिक्तं ब्रह्मणि घटसत्त्वं च आरोपोपयोगितयाऽङ्गीक्रियते चेदित्यर्थः ॥ तत्र घटे तदधिष्ठानचैतन्य-रूपज्ञाने चेत्यर्थः । संयुक्तसमवायमुपपादयति ॥ घटेनेति ॥ ६४८,६४९ ॥
सत्यप्रमोदटीका
सम्भावितं प्रकारान्तरमुट्टङ्क्य निषेधति यदीति । पृथगिति । घटस्य चैतन्येऽध्याससिद्धौ उपयोगितया, अध्यासात् पृथग्भूतः, ब्रह्मणो घटेन संयोगसम्बन्धोऽङ्गीक्रियते चेदित्यर्थः ॥ एवं सति घटस्य ब्रह्मसमवेतेन ज्ञानेन संयुक्तसमवायः सम्बन्ध उक्तो भवति । तत्कथमित्यत आह घटेनेति । चिज् ज्ञानम् ॥ ६४८,६४९ ॥
युक्तिमल्लिका
एवं चेद्ब्रह्मसंयुक्तघटाभ्रज्ञानताऽपि ते ।
घटज्ञाने कुतो नाभूत्सम्बन्धस्य समत्वतः ॥ ६५० ॥
सुरोत्तमटीका
एवं चेद् घटब्रह्मसंयोगेनैव चिद्रूपज्ञानस्य घटज्ञानत्वं चेत् । घटाभ्रं घटावच्छिन्नाकाशः । घटज्ञाने ब्रह्मचैतन्यात्मकघटज्ञाने । संयुक्तसमवायस्योभयत्र साम्यादिति भावः । अत एवारोपोऽप्यपेक्षित इति चेन् न । भ्रमरूपज्ञानमेव ह्यारोपः । सम्बन्धस्य साम्याद् उभयत्रापि भ्रमरूपं ज्ञानमस्त्वित्याक्षिपन्तं प्रति भ्रमरूपज्ञानात्मकारोपाभावादित्यस्यात्माश्रय-ग्रस्तत्वेनानुत्तरत्वात् ॥ ६५० ॥
सत्यप्रमोदटीका
सम्बन्धान्तरेणैवालम् । किमध्यासेनेति पररीत्यै-वोक्तम् । वस्तुतस्तु न ज्ञानाश्रयब्रह्मणा संयुक्तत्वमात्रेण न तज्ज्ञानज्ञेयत्वम् । तथा सति घटकाशस्यापि ब्रह्मसम्बद्धत्वाविशेषेण घटज्ञानज्ञेयत्वं स्यादित्याह घटभ्रेति ॥ ६५० ॥
युक्तिमल्लिका
किं ज्ञाने ज्ञानताऽस्तीति घटज्ञानेऽपि भासते ।
तस्माज्ज्ञाने स्थितत्वं तज्ज्ञानत्वे न प्रयोजकम् ॥ ६५१ ॥
सुरोत्तमटीका
ज्ञानात्मकब्रह्मणि घटस्य सत्त्वं तेन ज्ञेयत्वप्रयोजकं च नेत्यत्र दृष्टान्तमाह ॥ किं ज्ञान इति ॥ तज्ज्ञानत्वे तस्य ज्ञानस्य तज्ज्ञानत्व इत्यर्थः ॥ ६५१ ॥
सत्यप्रमोदटीका
तज्ज्ञाने भासमानत्वे तद्विषयत्वमेव तन्त्रम् । न तु ज्ञानरूपत्वं ज्ञानाश्रितत्वं वा इत्येतन्निदर्शयति किमिति । ज्ञाने आश्रितत्व-मात्रेण ज्ञानता न घटज्ञानेऽवभासत इति भावः ॥ ६५१ ॥
युक्तिमल्लिका
विषयत्वं विषयिता काचिद्वाच्याऽपरैव तत् ।
स एव वृत्तिघटयोरस्त्वद्धाऽयं श्रमाय ते ॥ ६५२ ॥
सुरोत्तमटीका
अपरा ज्ञानज्ञेयत्वादध्यस्ताध्यासभावाच्चातिरिक्ता । तत् तस्मात् प्रकारान्तरेण ज्ञानज्ञेयसम्बन्धानिर्वाहात् । अयम् अध्यासपर्यन्त-धावनरूपः ॥ ६५२ ॥
सत्यप्रमोदटीका
अतस् तज्ज्ञानत्वे तद्विषयकत्वमेव तन्त्रमिति निगम-यति विषयत्वमिति । स एवेति । तदुक्तं वादावल्यां ‘चैतन्याविषयत्वेऽपि बाधकाभावात् । वृत्तिविषयत्वेनैव व्यवहारोपपत्तेरि’ति । अद्धा निश्चयेन । अयम् अध्याससम्बन्धः । ते भ्रमाय तवैव भ्रमनिदर्शकः ॥ ६५२ ॥
युक्तिमल्लिका
सम्बन्धाभावमात्रेण वस्तु मिथ्येति को वदेत् ।
सिद्धे वस्तुनि सम्बन्धस्तादृक्कल्प्यो हि कश्चन ॥ ६५३ ॥
सुरोत्तमटीका
किं च दृष्टसम्बन्धेष्वेकतराभावे सम्बन्धान्तरमेव कल्प्यम् । न तु तस्य मिथ्यात्वमित्याह ॥ सम्बन्धेति ॥ ६५३ ॥
सत्यप्रमोदटीका
त्वया सम्बन्धो ज्ञातुं न शक्यते इत्येतावता प्रमित-वस्त्वपलापो न युक्त इत्याह सम्बन्धाभावमात्रेणेति ॥ त्वया सम्बन्धस्य ज्ञातुमशक्यत्वमात्रेण । तदुक्तमभियुक्तैः ‘न हि जात्यन्धेन नीलं न शक्यते इत्येतावता अनिर्वचनीयमेव तत्’ इति । उक्तं च वादावल्यां ‘संयोगासम्भवे समवायवदन्यस्यापि तयोरसम्भवे कल्प्यत्वात् । विषयविषयिभावस्य सम्भवादि’ति ॥ ६५३ ॥
युक्तिमल्लिका
घटाभावश्च भूमिश्च योगाभावेन किं मृषा ।
तादृक्स्वरूपतामन्ते तयोर्योगं हि मन्वते ॥ ६५४ ॥
सुरोत्तमटीका
तादृक्स्वरूपतां सम्बन्धान्तरमन्तरेण विशिष्टप्रतीति-योग्यस्वरूपताम् । स्वरूपसम्बन्धविशेषमिति यावत् । तयोर् भूतलघटाभावयोः
॥ ६५४ ॥
सत्यप्रमोदटीका
योगेति स्वरूपातिरिक्तसम्बन्धेत्यर्थः । तादृक्स्वरूपतां सम्बन्धान्तरमन्तरेण विशिष्टव्यवहारजनकत्वयोग्यत्वरूपस्वरूपताम् ॥ ६५४ ॥
युक्तिमल्लिका
न चेत्परोक्षवृत्तीनां विषयाः स्युः कथं वद ।
न हि वृत्तौ पदार्थानामध्यासस्तत्र विद्यते ॥ ६५५ ॥
ज्ञानज्ञेयत्वमर्यादा तत्र येनोच्यते त्वया ।
तेनैव दृश्यतादृक्त्वमपरोक्षेऽपि कथ्यताम् ॥ ६५६ ॥
सुरोत्तमटीका
नचेज् ज्ञानज्ञेययोर्भूतलाभावयोरिव स्वरूपसम्बन्धविशेष एव सम्बन्धो न चेद् अध्यास एव सम्बन्धो वाच्यश्चेदित्यर्थः । तत्र परोक्षज्ञानस्थले ॥ ६५५,६५६ ॥
सत्यप्रमोदटीका
परोक्षवृत्तीनामित्युपलक्षणम् । न्यायामृते दृग्दृश्य-सम्बन्धानुपपत्तिभङ्गे उक्तरीत्या ‘ध्वंसादेरतीतादिना मिथ्यात्वलक्षणान्त-र्गतस्यात्यन्ताभावस्य प्रतियोगिना वेदान्तनिष्ठशक्तितात्पर्ययोश्च ब्रह्मणा, मुमुक्षायाश्च मोक्षेण तदुक्तदूषणस्य च दूष्येण, त्वद्वाक्यस्य चार्थेन…..-असम्बन्धेन स्वन्यायस्वक्रियास्ववचनविरोधाः स्युरि’त्युक्तातिप्रसङ्गाश्च ग्राह्याः । न हि ज्ञेये ज्ञानमिव, प्रतियोगिशक्तया ज्ञेयेष्यमाणव्यहर्तव्यादयो ऽभाव-शक्त्यज्ञानेच्छाव्यवहारादिष्वध्यस्ताः । (न्याया.१/२३) ॥ येन स्वरूप-सम्बन्धेन । तत्र परोक्षवृत्तिस्थले । अपरोक्षे अपरोक्षवृत्तौ ॥ ६५५,६५६ ॥
युक्तिमल्लिका
अन्यथा पटवृत्तिश्च घटवृत्तिः कुतो न ते ॥ ६५७ ॥
तत्तद्वृत्तित्वमेव स्याद्येनोपायेन ते मते ।
तेनोपायेन सा वृत्तिस्तत्तज्ज्ञानं भवेन्मम ॥ ६५८ ॥
तस्मात्कीलस्य लाभाय न देवालयनाशनम् ।
कुरु स्वीकुरु विश्वस्य सत्यतां भृत्यतां भज ॥ ६५९ ॥
सुरोत्तमटीका
बाधकान्तरं चाह ॥ अन्यथेति ॥ ६५७-६५९ ॥
सत्यप्रमोदटीका
अन्यथा स्वरूपसम्बन्धभेदेन ज्ञाने वैलक्षण्यानङ्गीकारे ॥ इदं घटज्ञानमेव न पटज्ञानमिति वैलक्षण्यं येन घटेन्द्रियसन्निकर्षजनितवृत्ति-प्रतिफलनादिना त्वया कथ्यते मया प्रतिफलनादिकुसृष्टिं विहाय तत्तदिन्द्रिय-सन्निकर्षादिजन्यत्वमात्रेण वृत्तिविषयत्वेनैव कथ्यते इत्याह तत्तदिति ॥
कीलोऽत्र सम्बन्धः । देवालयः विश्वम् । अल्पस्य हेतोर्बहुनाशो न युक्त इति न्यायव्युत्पादने तात्पर्यम् । वस्तुतो ऽन्धेन त्वया कीलस्यादर्शनमात्रेण देवालयस्य मिथ्यात्वकथनमयुक्तमित्याशयः । न कुर्वित्यन्वयः । भृत्यतां सत्यविश्वनिर्माणेन जगत्प्रभोरीश्वरस्येत्यादिः ॥ ६५७–६५९ ॥
युक्तिमल्लिका
असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् ।
अपरस्परसम्भूतं किमन्यत्कामहैतुकम् ॥ ६६० ॥
एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः ।
प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः ॥ ६६१ ॥
इति गीतास्थकृष्णोक्त्या मिथ्यात्वाशां परित्यज ॥ ६६२ ॥
सुरोत्तमटीका
गीतायां मिथ्यात्वस्य भगवतैव स्पष्टं निन्दितत्वाच्च न जगन्मिथ्यात्वमित्याह ॥ असत्यमिति ॥ ते आसुराः । आसुरीं पार्थमे शृृण्विति उपक्रमात् । नष्टात्मानो ऽल्पबुद्धय इति निन्दनात् पूर्वपरामर्शित-च्छब्देनासुरत्वेन निन्दनाच्च जगतोऽसत्यत्ववादो न युक्त इति भावः ॥ ६६०–६६२ ॥
सत्यप्रमोदटीका
स्वरूपसम्बन्धस्य प्रमितत्वेन आक्षेपकस्य सम्बन्धा-भावस्य प्रमितत्वं निराकृतम् । आक्षेप्यं मिथ्यात्वं प्रमाणविरूद्धं चेत्याह असत्यमिति । न च वाच्यम् इयं निन्दा जगतोऽत्यन्तासत्त्ववादिनं बौद्धमेव स्पृशति न तु पुनः व्यावहारिकसत्यत्ववादिनं मायिनमिति । बौद्धेनापि सांवृतसत्यत्वस्याङ्गीकृतत्वात् । उभाभ्यामपि बाध्यत्वस्य स्वीकृतत्वेन विवादस्य नाममात्रत्वात् ॥ तदुक्तं वादावल्यां ‘अत्यन्तासत्त्वाभ्युपगन्तुर्वादिन एवाभावात् । आहुरित्यस्यायोगात्’ इति । ‘आसुरीं पार्थ मे श्रुणु’ इत्युपक्रमेण नष्टात्मानो ऽल्पबुद्धय इति विशेषणेन मिथ्यात्ववादिनो निन्दा स्फुटा ॥ ६६०–६६२ ॥
युक्तिमल्लिका
घटावच्छिन्नचैतन्ये घटाध्यासो न युज्यते ।
आत्माश्रयप्रसङ्गेन तादृग्भ्रान्तेरसम्भवात् ॥ ६६३ ॥
अतो घटादेरध्यासश्शुद्धचित्येव ते मते ।
निरंशं शुद्धचैतन्यमेकमेव हि तत्तदा ॥ ६६४ ॥
अध्यासात्प्रागवच्छेदभेदाद्भेदोऽपि तत्र न ।
एवञ्च सर्वं तत्रासीदध्यस्तं न तु किञ्चन ॥ ६६५ ॥
सुरोत्तमटीका
प्रकारान्तरेणाप्यध्यासस्यार्थसम्बन्धतां दूषयति ॥ घटा-वच्छिन्नेति ॥ न च वाच्यं घटोपलक्षितचैतन्य एवाध्यासान्नात्माश्रय इति । अध्यासात्पूर्वं घटस्यैवाभावेन तदुपलक्षितत्वस्यापि वक्तुमशक्यत्वात् । तादृग्भ्रान्तेर् आत्माश्रयग्रस्तभ्रान्तेः ॥ शुद्धचिति शुद्धचैतन्यात्मकचिति । तत्र शुद्धचैतन्ये ॥ ६६३-६६५ ॥
सत्यप्रमोदटीका
किं च घटस्यारोपः किं घटाधिष्ठानचिति, शुद्धचिति वा । नाद्यः घटारोपार्थं घटारोपस्यैव कारणत्वाङ्गीकारापत्त्याऽऽत्माश्रयात् । न द्वितीयः । शुद्धचितो निरंशत्वेन अध्यासस्याविशिष्टत्वाद् युगपदेव सर्ववस्तूनां प्रकाशापातात् । न चावच्छेदकभेदादतिप्रसङ्गनिस्तारः । आरोपात्प्राक् अवच्छेदस्यासम्भवादित्याशयः । किञ्चन घटादिकं यत्किञ्चिदेकमेव
॥ ६६३-६६५ ॥
युक्तिमल्लिका
तस्मात्सर्वस्य चाध्यासात्सा सर्वस्य च दृग्भवेत् ।
न चेत्कस्यापि दृङ्न स्यादध्यासस्त्वफलो भवेत् ॥ ६६६ ॥
सुरोत्तमटीका
सा घटभ्रान्तित्वेनाभिमता चित् । नचेत् सर्वावभासकत्वं न चेत् । कस्यापि तस्य घटस्यापि ॥ ६६६ ॥
सत्यप्रमोदटीका
सा घटाधिष्ठानभूता चित् । यदि पुनश् चितो ऽज्ञानावृतत्वेन न सर्वस्य प्रकाशस् तर्हि तत एव हेतोः कस्यापि प्रकाशो न स्याद् इत्याह न चेदिति । तदुक्तं वादावल्याम् । ‘अध्यस्तत्वेन प्रकाशने जीवे अध्यासपक्षे सर्वदा सर्वेषां प्रपञ्चः प्रकाशेत । ब्रह्मणोऽधिष्ठानत्वे तु न कस्यापि कदाऽपी’ति । अफल इति प्रकाशस्यानुपपादकत्वात् ॥ ६६६ ॥
युक्तिमल्लिका
अतोऽध्यासान्न दृग्दृश्यभावो ब्रह्मघटादिषु ।
किं त्वध्यासेन हीनोऽर्थः सोयं त्वद्दृशि दृश्यते ॥ ६६७ ॥
सुरोत्तमटीका
अफलत्वमेव विवेचयति ॥ अत इति ॥ अतो ऽध्यासस्य सर्वसाम्यात् ॥ ६६७ ॥
सत्यप्रमोदटीका
अत उभयथाऽपि दोषसद्भावात् । दृशि वृत्तौ चैतन्ये वा । दृश्यते विषयो भवति ॥ ६६७ ॥
युक्तिमल्लिका
किञ्च शुक्त्यादिचैतन्येष्वध्यस्तं प्रातिभासिकम् ।
त्वन्मते करणद्वारा साक्षी किल निरीक्षते ॥ ६६८ ॥
तदाऽध्यासाध्यस्तभावसम्बन्धो न तयोरभूत् ।
अतस्ततोऽन्यस्सम्बन्धस्तत्रावश्यं भवेत्तव ॥ ६६९ ॥
तेनैव वृत्तिर्दृश्यानां दृगस्त्वखिलसंमता ।
अनानुभविकी ब्रह्मचितो दृक्त्वकथा वृथा ॥ ६७० ॥
सुरोत्तमटीका
तयोः साक्षिचैतन्यशुक्तिरजतयोः ॥ ६६८–६७० ॥
सत्यप्रमोदटीका
किञ्च शुक्तिरूप्यादिस्थले परप्रक्रिययैवाध्याससम्बन्धो भग्न इत्याह किञ्चेति । रूप्यं शुक्त्यवच्छिन्नचैतन्ये आरोपितम् । प्रतिभासते च साक्षिणा । तथा च येन भासते न तदधिष्ठानम् । यच्चाधिष्ठानं पराग्भूतं शुक्त्यवच्छिन्नं चैतन्यं न तेन भासते । न च वाच्यम् इदं रूप्यमिति भ्रमे अंशद्वयम् । तत्र इदमंशो ऽन्तःकरणवृत्त्यवच्छिन्नेन रजतांशस्तु अविद्यावृत्त्य-वच्छिन्नेन चैतन्येन प्रतिभासते अतो नोक्तो दोष इति । तथा सति अख्याति-मतानुमतिप्रसङ्गेन प्रवृत्त्याद्यनुपपत्तिः । चैतन्यैक्याङ्गीकारेण परिहारे तु प्रति-कर्मव्यवस्थाभङ्गः । अतस् तत्र त्वयाऽपि शुक्तिकाशकलसन्निकृष्टमिन्द्रियं दोषवशाद्रजतं गृह्णातीति वाच्यम् । तथा च सर्वत्र स एव सन्निकर्षोऽस्तु । कृतमध्यासकुकल्पनया । भ्रमप्रमाविवेकस्तु दोषजन्यत्वतदभावाभ्यां सम्भवतीति न ब्रह्मचित एव दृक्त्वकल्पनं युक्तमित्याह अनानुभविकीति । तदुक्तं वादावल्यां ‘चैतन्याविषयत्वेऽपि बाधकाभावात् । वृत्तिविषयत्वेनैव व्यवहारो-पपत्तेः’ इति ॥ ६६८-६७० ॥
युक्तिमल्लिका
अज्ञानं किल सर्वत्र ब्रह्म सर्वगतं किल ।
घटभ्रमस्तथाप्यस्य कुम्भकारगृहे किल ॥ ६७१ ॥
सुरोत्तमटीका
प्रकारान्तरेणाप्यनानुभविकत्वं प्राक् संकोचेनोक्तमिदानीं विस्तृत्याह ॥ अज्ञानमिति ॥ तथापि कल्पकयोरज्ञानब्रह्मणोस्सर्वगतत्वेऽपि । अस्य ब्रह्मणः ॥ ६७१ ॥
सत्यप्रमोदटीका
पूर्वोक्तविसङ्गतीः संगृह्य परप्रक्रियामपहसति अज्ञान-मित्यादिभिः पञ्चभिः । ब्रह्मेति अधिष्ठानाभिमतम् एकमेवेत्यर्थः । तदुक्तं न्यायामृते (१/२३) ‘न हि त्वन्मतेऽपि विज्ञानवादिमत इव तत्तदर्थास्तत्त-ज्ज्ञानेऽध्यस्ताः । सत्यायाः शुद्धदृशः स्वतो भेदाभावाद् उपाधिविशिष्टाया भेदेऽपि घटादिवन्मिथ्यात्वेन तदधिष्ठानत्वायोगादि’ति । घटभ्रमो ऽहं घट इत्याकारकः॥६७१ ॥
युक्तिमल्लिका
मृदादिकारणाभावे तत्रापि न भवेत्किल ।
जातेऽप्यनलसंयोगस्याधिक्ये बाध्यते किल ॥ ६७२ ॥
तत्र तत्र घटे नीते भ्रमद्ब्रह्मानुगं किल ।
मुद्गरेण घटे ध्वस्ते भ्रमनाशो भवेत् किल ॥ ६७३ ॥
सुरोत्तमटीका
तत्रापि कुम्भकारशालायामपि ॥ ६७२,६७३ ॥
सत्यप्रमोदटीका
मृदादीति । न हि शुक्तौ रूप्यभ्रमाय उपादानाद्य-पेक्षाऽस्ति रूप्यस्यासत्त्वादेवेति भावः ॥ आधिक्ये इति । तथा सति घटस्य नाशादिति भावः ॥ ब्रह्म अनुगम् इति पदच्छेदः ॥ ६७२,६७३ ॥
युक्तिमल्लिका
एवं ब्रह्मभ्रमास्सर्वे क्लृप्तास्तत्तत्स्थले किल ।
विचित्रकार्यकर्तृणां यथाऽऽकांक्षा तथा किल ॥ ६७४ ॥
सुरोत्तमटीका
तत्तत्स्थले कुम्भकारकार्वादिशालायां यथाकाङ्क्षा नाना-विधजीवानां यत्र यत्राकाङ्क्षा तथैव भ्राम्यति । न तु स्वेच्छया भ्रमः । जगत-स्सर्वस्याविद्यापरिणामपक्षे ब्रह्मणस्तद्भ्रमत्वपक्षे चोक्तं सर्वं वैचित्र्यं न घटत इति भावः ॥ ६७४ ॥
सत्यप्रमोदटीका
कर्तृणां कुविन्दादीनां चिकीर्षाऽपि भ्रमकारणत्वे-नैष्टव्येत्याह विचित्रेति ॥ ६७४ ॥
युक्तिमल्लिका
इदं विवेककौशल्यं ब्रह्मणो वा भ्रमस्य वा ।
उताज्ञानस्य किं वा तच्छास्त्रकर्तुर्न वेद्म्यहम् ॥ ६७५ ॥
सुरोत्तमटीका
अनानुभविकप्रमेयकल्पकं परमपहसति ॥ इदमिति ॥ ६७५ ॥
सत्यप्रमोदटीका
विवेककौशलं विपरीतलक्षणया अविवेकमूढतेत्यर्थः । अहम् इति । न केवलम् अहमेव किन्तु आविपालगोपाला दुःशास्त्रकारस्य मायिन एवेदं कुकल्पनाविलसितमिति विदन्तीत्याशयः ॥ ७६५ ॥
युक्तिमल्लिका
भ्रमकारणसंपत्तौ भ्रमस्सर्वत्र सम्भवेत् ।
प्रयोजनानुसारेण स नियोक्तुं न शक्यते ॥ ६७६ ॥
भ्रमजत्वकथा तस्माद्भ्रान्तश्रोत्राय रोचते ।
स्वस्वहेतूद्भवं सर्वं कार्यमित्यतिनिर्मलम् ॥ ६७७ ॥
सुरोत्तमटीका
सः भ्रमः । रजतार्थिनोऽपि रज्जुसर्पभ्रमसंपत्तौ रज्जु-सर्पभ्रम एव जायते । न तु रजतभ्रमः । सर्पार्थिनोऽपि रजतभ्रमकारणसंपत्तौ रजतभ्रम एव जायते । न तु सर्पभ्रमः । एवं च परमते भ्रमकारणयोर-ज्ञानब्रह्मणोस्सर्वत्र सद्भावेऽपि कुलालशालायामेव घटभ्रमः कुविन्दशालायामेव पटभ्रम इत्यादिव्यवस्था लोकसंमततत्तत्सामग्रीजन्यत्वमेवाक्षिपति । भ्रमजत्व-कथान्तु भ्रान्तोपि नानुमन्यत इति भावः । अतो भ्रान्तश्रोत्राय रोचत इत्युक्तिरप्यभ्युपगमवादेनेति द्रष्टव्यम् ॥ ६७६,६७७ ॥
सत्यप्रमोदटीका
प्रयोजनेति कुलालादीनामित्युपस्कर्तव्यम् ॥ रोचते इति काकुः । भ्रान्तोऽपि सर्वः स्वसामग्रीमहिम्नैव भ्रमोत्पत्तिर् न तु आत्मनः प्रयोजनानुसारेणेति निश्चिनोतीति भावः ॥ ६७६,६७७ ॥
युक्तिमल्लिका
किञ्चाध्यस्तं समस्तं च स्वाधिष्ठानैस्सहेक्ष्यते ।
तदध्यस्तघटादीनां वृत्तिश्च ब्रह्मगोचरा ।
अध्यस्तसाक्षाद्धीत्वेन वाच्यावश्यं त्वयैव हि ॥ ६७८ ॥
न चेद्ब्रह्मगताज्ञानं कथं सा विनिवर्तयेत् ।
न ह्यन्यज्ञानतोऽन्यत्र स्यादज्ञानपरिक्षयः ॥ ६७९ ॥
एवञ्च ब्रह्मवृत्तिस्सा येन योगेन ते मते ।
तेनैव दृग्दृश्यभावोस्त्वध्यासेन न किं फलम् ॥ ६८० ॥
सुरोत्तमटीका
प्रकारान्तरेणापि चैतन्यभ्रमत्वपक्षे वृत्तिभ्रमत्वपक्षे चाध्यासस्य वैफल्यमाह ॥ किञ्चेति ॥ अधिष्ठानोल्लेखं विना केवलमध्यस्तस्यैव भ्रान्तावुल्लेखायोगात् । अधिष्ठानं च चैतन्यं न स्वस्मिन् स्वयमध्यस्तम् । अतोऽध्यासाभावेऽपि यथा तस्योल्लिख्यमानत्वसम्भवाद्व्यर्थोऽध्यास इति भावः ॥ ६७८-६८० ॥
सत्यप्रमोदटीका
किं च भ्रमबाधयोरुभयत्राधिष्ठानोल्लेखो नियतः । इदं रजतं नेदं रजतमित्यत्र दर्शनात् । तत्राधिष्ठानचितो ज्ञानं न तावदध्यास-सम्बन्धेन । चितः स्वस्मिन्ननध्यासात् । अतो वृत्त्यैवेति वाच्यम् । अत आवश्यक्या तयैवाध्यस्ताभिमतप्रपञ्चज्ञानमस्तु । अलमप्रामाणिकस्याध्यासस्य तस्य सम्बन्धत्वस्य च कल्पनयेत्याह किञ्चेति । सहेति तदभिन्नतयेत्यर्थः । वृत्तिश्चेद्ब्रह्माविषयिणी तया ब्रह्मावरकाज्ञाननिवृविर्न स्यादित्याह न चेदिति ॥ ६७८,६७९ ॥
युक्तिमल्लिका
कथं च वृत्तिरूपोऽयं भ्रमो ब्रह्मोल्लिखेत्तव ।
अतीन्द्रियं परं ब्रह्म कथं चक्षुरपीक्षते ॥ ६८१ ॥
दृष्टं चेद्ब्रह्म मुक्तिः स्याद्दृष्ट्यैव किल मुच्यते ।
किं न्यूनमस्य ज्ञानस्य मुक्तिदान्निर्विकल्पकात् ॥ ६८२ ॥
सुरोत्तमटीका
वृत्तेर्भ्रमत्वपक्षे पुनरपि दोषानाह ॥ कथमिति ॥ ६८१,६८२ ॥
सत्यप्रमोदटीका
योगेन इन्द्रियसन्निकर्षेण । इदं च परं प्रति आपाद्य तेनैव परस्य खण्डनकौशलम् । तन्मते ब्रह्मण औपनिषदत्वात् । इदं चानु-पदमेव स्वयं वक्ति कथं चेति । यद्वा योगेन वादान्तैः शक्तितात्पर्यलक्षण-सम्बन्धेन चरमवृत्तौ ब्रह्मणो विषयत्वम्, तेनैव अतीन्द्रियधर्मादिज्ञानमप्यस्तु इति भावः ॥ निर्विकल्पकादिति । मोक्षहेतुत्वेन त्वदङ्गीकृताद्बाधकज्ञानात् । भ्रमस्य विशेषविषयकत्वं तु बाधकत्वे तन्त्रम् । तत्तु त्वयैव तिरस्कृतमिति भावः ॥ ६८०-६८२ ॥
युक्तिमल्लिका
अखण्डब्रह्मचिद्भागे तन्मात्रस्यावगाहिनी ।
वृत्तिश्चानुकरोत्येषा तदंशे चरमप्रमाम् ॥ ६८३ ॥
सुरोत्तमटीका
ननु घटांशे सविकल्पकत्वस्यापि विद्यमानत्वान्न मुक्ति-रित्यत आह ॥ अखण्डेति ॥ तन्मात्रस्य चित्स्वरूपमात्रस्य । तदंशे अधिष्ठानांशे ॥ ६८३ ॥
सत्यप्रमोदटीका
वृत्तिरेवेति । अधिकविषयकत्वेऽपि विशेष्यांशविषय-कत्वस्यानपायादिति भावः । अङ्गीकृतं चास्या वृत्तेर्ब्रह्मानुभवत्वं परेणापि । यथोक्तं न्यायामृते ‘विज्ञातो घट इत्युक्तिर्ब्रह्मानुभवतो भवेत्’ इति परमतानु-वादप्रस्तावे ॥ ६८३ ॥
युक्तिमल्लिका
न चेदधिष्ठाननिष्ठाज्ञानहन्त्र्यपि सा कथम् ।
याऽविद्यास्तमये शक्ता मुक्तौ शक्ता कथं न सा ॥ ६८४ ॥
सुरोत्तमटीका
नचेद् अविद्यानिवृत्तिरूपमुक्तिदा नचेत् । सा वृत्तिः ॥ ६८४ ॥
सत्यप्रमोदटीका
कथमिति तावन्मात्रस्यैव तन्मते मोक्षत्वात् । यथाऽऽह ‘अविद्याऽस्तमयो मोक्ष’ इति ॥ ६८४ ॥
युक्तिमल्लिका
अहिमूषिकयोः पात्री यथा भागान्तरस्थितम् ।
आखुं हन्यात्तथेयं च हन्याद्द्रष्टरि बन्धनम् ।
तृणैश्छन्नोऽपि किं वह्निर्न दहेत्सतृणं वनम् ॥ ६८५ ॥
सुरोत्तमटीका
अधिष्ठानांशस्य मुक्तिदत्वेऽपि अध्यस्तांशस्य संसार-रूपत्वान्न मुक्तिरित्याशङ्कां दृष्टान्तमुखेन परिहरति ॥ अहिमूषिकयोरिति ॥ इयं वृत्तिः पूर्वांशे ब्रह्मवृत्तित्वाख्यसर्पवती । उत्तरांशे च पूर्वांशविनाश्य-घटादिगोचरत्वरूपसंसाराख्यमूषिकवती । स्वपूर्वांशेनैव द्रष्टरि स्थित-मुत्तरांशाख्यबन्धनमपि स्वयमेव नाशयेत् । अत उत्तरांशे सविकल्पकरूपत्व-मपि न मुक्तिप्रतिबन्धकमिति भावः । दृष्टान्तान्तरमप्याह ॥ तृणैरिति ॥ सतृणम् आच्छादकतृणसहितम् । एवमुत्तरांशसविकल्पकाच्छन्नापि पूर्वांशब्रह्म-विषयकवृत्तिः स्वाच्छादकसविकल्पकेन सह सकलमपि जगन्नाशयेदिति भावः । पराभिमतसर्वनाशोपयोगित्वाद् दृष्टान्तान्तरकथनम् ॥ ६८५ ॥
सत्यप्रमोदटीका
‘ननु ज्ञातोऽयं घट’ इति अधिष्ठानब्रह्मविषयकत्वेन भवतु ब्रह्मानुभवः । किं त्वियम् अध्यस्तं घटमपि विषयीकुर्वन्ती कथम् अध्यस्तम् अज्ञानं नाशयेदिति शङ्कामनुरूपदृष्टान्तप्रदर्शनेन परिहरति ॥ अहीति । मूषिकाऽऽश्रयभूताऽपि पेटिका सर्पस्याप्याश्रयत्वेन यथा भागान्तरस्थित-मूषिकावधहेतुस्तथेति भावः । दृष्टान्तान्तरमाह तृणैरिति । वह्निरावरणं तृणं विनाश्य यथा दहेत्तथेति भावः ॥ ६८५ ॥
युक्तिमल्लिका
घटवृत्तिर्यतोऽज्ञाननाशिनीति मतं तव ।
ज्ञानार्थं श्रवणाद्यर्थं सिद्धेऽन्ने किं नु तण्डुलैः ॥ ६८६ ॥
सुरोत्तमटीका
ननु श्रवणादिजन्यत्वाभावान्न मुक्तिरित्यत आह ॥ ज्ञानार्थमिति ॥ श्रवणादिकमपि ब्रह्मज्ञानार्थमेव प्रार्थनीयम् । यदृच्छयैव ब्रह्मज्ञाने जाते श्रवणादिजन्यत्वाभावेन न कोऽप्यपराध इति भावः । तत्र दृष्टान्तमाह ॥ सिद्धेन्न इति ॥ सिद्धे सुरभिस्तनादित एव सिद्धे । यथा-कामधेनुकल्पवृक्षादिलब्धान्नस्य तण्डुलजन्यत्वाभावेऽपि स्वकार्यकारित्वं तथाऽनायासलब्धस्यास्य ब्रह्मज्ञानस्य श्रवणादिजन्यत्वाभावेऽपि स्यादेव स्वकार्यकारित्वम् । दृष्ट्वैव तं मुच्यत इत्येव हि श्रुतिः । न तु श्रवणेन दृष्ट्वेति ॥ ६८६ ॥
सत्यप्रमोदटीका
ननु सत्यं वृत्त्यैव ब्रह्मानुभव इति । ‘सर्वप्रत्ययवेद्ये च ब्रह्मरूपे व्यवस्थिते’ इत्यादेः । किन्तु स तादृशाऽनुभवो नाज्ञाननाशकः किन्तु श्रवणादिजन्य एव इति चेन्नैतत्तव मतमित्याह घटेति । त्वदभिमत-दृष्ट्वैव तं मुच्यते इति श्रुत्यर्थविरोधश्च । श्रवणादि अर्थम् इति पदच्छेदः । आगमदोष एव यल्लघीयसि सत्युपाये गरीयस उपायान्तरस्य बोधनम् । तथा हि लोकन्यायः ‘र्ओ चेन्मधु विन्देत किमर्थं पर्वतं व्रजेदि’ति ॥ ६८६ ॥
युक्तिमल्लिका
न चेच्छ्रवणशक्त्यैव स्याद्बन्धस्य निवर्तनम् ।
ज्ञानस्वभावतो मुक्तिरिति रिक्तं वचस्तव ॥ ६८७ ॥
अयमित्यत्र लोको हि देशकालस्थतां वदेत् ।
ब्रह्मांशस्य प्रवेशं तु साक्षी सर्वस्य बाधते ॥ ६८८ ॥
सुरोत्तमटीका
नचेद् यादृशतादृशज्ञानेन मोक्षो न चेत् ॥६८७,६८८॥
सत्यप्रमोदटीका
न हि ममेव तव मते ज्ञानजन्यप्रसादान्मुक्तिः । येन प्रसादसंपत्तये श्रवणादिजन्यत्वेन ज्ञानं नियम्येत । किन्तु ज्ञानस्वभावादेव । एवमपि श्रवणाद्यपेक्षाऽऽग्रहे परस्य बाधकमाह न चेदिति । ‘तद्धेतोरेवास्तु तद्धेतुत्वं मध्ये किं तेने’ति न्यायेनेति भावः ॥ सर्वस्य देशकालादिकस्य साक्षी ब्रह्मांशस्य प्रवेशं बाधते इति योजना ॥ ६८७,६८८ ॥
युक्तिमल्लिका
अतोऽनुभवबाधे तु स्यादारोपकथा तव ।
आरोपितत्वसिद्ध्यैव लोकानुभवबाधनम् ॥ ७८९ ॥
सुरोत्तमटीका
अतः देशकालगोचरत्वस्य सर्वानुभवसिद्धत्वात् । स्वप्रक्रिययैवानुभवबाधेऽन्योन्याश्रय इत्यर्थः ॥ ६८९ ॥
सत्यप्रमोदटीका
कथेति कथामात्रं न तु प्रामाणिकीति भावः । तेनात्रोक्तोऽन्योन्याश्रय आपाततः । वस्तुतोऽनुभवबाधिता निर्मूला प्रक्रियैव तिरस्कारार्हा इति हृदयम् ॥ ६८९ ॥
युक्तिमल्लिका
सर्वानुभवबाध्यार्थं वेदोऽपि न हि बोधयेत् ॥ ६९० ॥
सुरोत्तमटीका
ननु तमेव भान्तमनुभाति सर्वमिति श्रुत्यैव सर्वानु-भवबाध इत्यत आह ॥ सर्वेति ॥ सर्वानुभवबाध्यार्थं ब्रह्मानुस्यूततयैव घटपटाप्रतितीतिर्भवतीत्यर्थः । हिशब्देन सर्वानुभवबाधितयजमानप्रस्तरत्वादेर-बाधनप्रसिद्धिं सूचयति ॥ ६९० ॥
सत्यप्रमोदटीका
सर्वेति अयं घट इत्यत्र प्रतीतौ इदंशब्देन ब्रह्म भासते इत्येवमर्थम् । वेदः ‘तमेव भान्तमनुभाति सर्वम्’ इत्यादिस्त्वदभिमतः । तदुक्तं भगवत्पादैः ‘न चानुभवविरोधे आगमप्रामाण्यम् । आगमप्रामाण्यानु-भवस्यैवाप्रामाण्यप्राप्तेरि’ति ॥ ६९० ॥
युक्तिमल्लिका
तं भान्तमनुभातीति सौरालोकस्य दर्शने ।
हेतुतामाह भासेति स्पष्टोक्तेस्स हि भास्करः ॥ ६९१ ॥
सुरोत्तमटीका
कस्तर्हि श्रुतेरबाधितार्थ इत्यत आह ॥ तमिति ॥ दर्शने घटपटादिदर्शने भान्तं तं सूर्यम् अनु अनन्तरम् अनुसृत्येत्यर्थः । सर्वं घटपटादिकं भाति चक्षुषा प्रतीयत इति सौरालोकस्य दर्शने हेतुतामाहेति सम्बन्धः । स्वोक्तानुसरणं श्रुतिः स्वयमेव विशदयति । तस्य सूर्यस्य भासा किरणेन करणेन चेति चाक्षुषप्रतीतेस्सौरालोकजन्यत्वमेव तदनुसरणमित्यर्थः । सः सूर्यः भास्करः भासं करोतीति भास एव करा यस्येति वा व्युत्पत्त्या सूर्यस्यैव भास्करत्वाद् भाःपदवाच्यत्वं सूर्यकिरणस्यैवेत्यतः सूर्यपरमेवेदं वाक्यम् । ज्ञानवाचित्वे भयेति ब्रूयादिति भावः ॥ ६९१ ॥
सत्यप्रमोदटीका
प्रकाशमानं तं सूर्यम् अनुसृत्य सर्वं रूपवद्वस्तु, आलोक सहकारेण चाक्षुषज्ञाने प्रतीयत इति श्रुत्यर्थमाह तमिति । भासेति किरणानां करणत्वोक्त्या तच्छब्दः स्वरसतो भास्करपर एवेत्याह स इति ॥ ६९१ ॥
युक्तिमल्लिका
भास्वन्तमनुसृत्योत्था ज्ञानाख्या भा ममास्ति तत् ।
तं भान्तमनुभातीति युक्तं ते तु न भाद्वयम् ॥ ६९२ ॥
अधिष्ठानात्मकं ज्ञानं घटज्ञानं हि ते मते ।
तज्ज्ञानमनुसृत्योत्थमन्यज्ञानं क्व ते वद ॥ ६९३ ॥
तं भान्तमनुभातीति वाक्यार्थो दुर्घटस्तव ।
अतोऽस्मदुक्त एवार्थो वाक्यस्वारस्यसंपदा ॥ ६९४ ॥
सुरोत्तमटीका
स्वोक्तार्थे उपपत्तिं सूचयन्परोक्तार्थेऽनुपपत्तिमाह ॥ भास्वन्तमिति ॥ ज्ञानाख्या भा अनुभातीत्यत्रोक्ता भा । तत्तस्मात् सूर्यकिरण- ज्ञानाख्यभाद्वयस्य विद्यमानत्वात् । ते तव मायावादिनः ॥ भाद्वयाभाव-मेवोपपादयति ॥ अधिष्ठानेति
॥ ६९२-६९४ ॥
सत्यप्रमोदटीका
‘गच्छन्तमनुगच्छति’ इति वाक्येऽनुशब्देन गमनद्वय-मिवात्रापि अनुभातीत्यत्रानुशब्देन भानद्वयं प्रतीयते । तच्च सूर्यस्य प्रकाशनम् अनु घटादेर्भानम् इति मदुक्तार्थः श्लिष्ट इत्याह भास्वन्तमिति । परस्य तु अनुशब्दार्थो दुर्घटः । भानरूपस्य अधिष्ठानचैतन्यस्यैकत्वादित्याह अधिष्ठानेति ॥ ६९२-६९४ ॥
युक्तिमल्लिका
यदादित्यगतं तेजो जगद्भासयतेऽखिलम् ।
यच्चन्द्रमसि यच्चाग्नो तत्तेजो विद्धि मामकम् ।
इति स्मृत्या सूर्यभासो जगद्भासकतोचिता ॥ ६९५ ॥
सुरोत्तमटीका
सूर्यभासो जगद्भासकत्वाख्यस्वोक्तार्थे स्मृतिसंमतिं चाह ॥ यदादित्येति ॥ मामकमित्युक्तया ब्रह्मपक्षेऽपि श्रुतिः प्रकाशमेव वक्ति । न तु ज्ञानमिति सूचयति ॥ ६९५ ॥
सत्यप्रमोदटीका
स्वोक्तार्थे स्मृतिं संवादयति यदिति । ‘आदित्यगतं तेजो जगद्भासयते’ इति भागः प्रकृतोपपादकः ॥ ६९५ ॥
युक्तिमल्लिका
कश्चिच्च चक्षुषा नैनं पश्यतीति हि वेदवाक् ।
स्वाद्वन्नलाभेऽपि कुतः कण्टकान्ने रुचिस्तव ॥ ६९६ ॥
सुरोत्तमटीका
परोक्तार्थे बाधिकां श्रुतिमर्थतो गृह्णाति ॥ कश्चिदिति ॥ अनेन न चक्षुषा पश्यति कश्चनैनमिति श्रुतिं गृह्णाति । एतच्छ्रुत्यर्थपर्या-लोचनायां चाक्षुषघटादिवृत्तेर्ब्रह्मविषयकत्वायोगेन स्वाविषये तस्या अज्ञान-निवर्तकत्वस्याप्ययोगेन पराभिमतज्ञानस्याप्यभावाद् घटज्ञाने ब्रह्मज्ञानस्यानु-स्यूतत्वोक्तिरयुक्तैवेति भावः । युक्तार्थलाभेऽप्ययुक्तार्थकथनमनुचितमित्ये-तदन्यापदेशेनाह ॥ स्वाद्वन्नेति ॥ ६९६ ॥
सत्यप्रमोदटीका
कश्चिदिति । अनेन ‘न चक्षुषा पश्यति कश्चनैनं’ इति श्रुतिं संगृह्णाति । तथा च अयं घट इति चाक्षुषप्रत्यक्षे न ब्रह्मणो भान-मिति भावः । स्वाद्वन्नं सूर्यचन्द्रादिप्रकाशस्येशाधीनत्वरूपं मोक्षहेतुभगव-न्महिमरूपम् । कण्टकान्नं जगतः क्षये पर्यवसाय्यध्यासरूपम् । व्याख्याते चेमे श्रुतिस्मृती अस्मदुक्तरीत्यैव परेणापि ॐ अनुकृतेस्तस्य च, ॐ अपि स्मर्यते इति सूत्रभाष्ये । अत्र विस्तरः भे.प.ब्र.सू.इति ग्रन्थे ॥ ६९६ ॥
युक्तिमल्लिका
भासमानमिदं सर्वं रत्नार्केन्द्वनलादिकम् ।
तं भान्तमनुभातीति तस्य भासा विभाति च ॥ ६९७ ॥
निरवद्यः श्रुतेरर्थस्सोऽयं स्मृतिसमाख्यया ।
भादीप्ताविति धात्वर्थं दीप्तिमाहुर्यतो बुधाः ॥ ६९८ ॥
सुरोत्तमटीका
परकीयार्थे दीप्त्यर्थकपदद्वयस्य ज्ञानार्थकत्वस्वीकार-मुभयत्रापि भान्तं प्रतीयमानं भाति प्रतीयत इति कर्मार्थत्वं चारुचिं सूचयन्दीप्त्यर्थकधातोः कर्त्रर्थकप्रत्ययस्यान्वित्युपसर्गस्य न तत्र सूर्यो भाति न चन्द्रतारकौ नेमा विद्युतो भान्ति न चायमग्निरित्येतद्वाक्यपूर्वार्धोक्तार्थ परामर्शेदंपदस्य च योग्यमर्थान्तरमाह ॥ भासमानमिति ॥ इतिशब्दस्य भाति विभातीति पदद्वयेनापि योगः । सोऽयं सूर्यचन्द्रतारकविद्युद्रत्नादिभास्वररूप-मिदं पूर्वार्धोक्तं सर्वं तत्र परमात्मनि सूर्यो न भातीत्यादिना सूर्यादेरप्यनन्त-गुणितप्रकाशे परमात्मनि स्वभानायानुश्रयमाणतयोक्तं तत्प्रकाशाग्रे मन्दीभूत-स्वप्रभं सूर्यादिकं भान्तं प्रकाशमानं तं परमात्मानमनुसृत्य तत्सन्निधाने-नेत्यर्थः । भाति प्रकाशत इत्ययमर्थः स्मृतिसमाख्यया निरवद्यः धात्वननुकूल-त्वादिदोषरहितः श्रुतेरर्थस्स्यात् ॥ ६९७,६९८ ॥
सत्यप्रमोदटीका
स्मृतिसमाख्ययाऽत्र श्रुतौ परमात्मनो जगद्भासकत्वम् इतराभास्यत्वं सूर्यचन्द्रादिभाननियामकत्वं, एवंरूपो भगवतो महिमातिशय एवोच्यते इत्याह भासमानमिति । एवं सति दीप्त्यर्थकत्वमपि भाधातोरनु-कूलितमित्याह भा दीप्ताविति । परमते चैतन्यस्य निर्विशेषभारूपत्वेन कर्त्राद्यर्थकप्रत्यया अपि विरुध्यन्ते इत्यपि ध्येयम् ॥ ६९७,६९८ ॥
युक्तिमल्लिका
यद्यद्विभूतिमत्सर्वं श्रीमदूर्जितमेव वा ।
तत्तदेवावगच्छ त्वं मम तेजोंऽशसम्भवम् ॥ ६९९ ॥
इति गीतोदिता वाणी श्रीमतः केशवांशतः ।
श्रीमतां यद्भवं प्राह श्रुतिश्चाह तमेव तत् ॥ ७०० ॥
सुरोत्तमटीका
स्मृतिमेवोदाहरति ॥ यद्यदिति ॥ विभूतेः पृथग्ग्रहणा-च्छ्रीमदित्यस्य कान्तिमदित्येवार्थः । कान्तिमतो जनकभगवदंशस्यापि कान्ते-रावश्यकत्वात् श्रीमतः केशवांशत इत्युक्तम् । एवं च कान्तिमतस्सूर्यादेः कान्तिमन्तं भगवन्तमनुसृत्य भानस्य स्पष्टीकृतत्वात् श्रुतेरप्ययमेवार्थ इति भावः ॥ ६९९,७०० ॥
सत्यप्रमोदटीका
श्रुत्युक्तार्थे स्मृत्यन्तरमपि प्रमाणयति यद्यदिति । सर्वम् आदित्यादिकं वस्तु । श्रीमत् कान्तियुक्तम् । मम तेजोंऽशेन प्रकाशरूपांशेन सहभूतं जानीहीत्यर्थः । तम् उक्तं श्रुत्यर्थम् एव आह । तत् तस्मात् स एवार्थो युक्तः ॥ ६९९,७०० ॥
युक्तिमल्लिका
न तु मां शक्यसे द्रष्टुमनेनैव स्वचक्षुषा ।
दिव्यं ददामि ते तक्षुः पश्य मे योगमैश्वरम् ॥ ७०१ ॥
श्रुत्यर्थधानाक्षोणीयं वाणीगुप्त्यै वृतिश्च नः ।
चक्षुषैवेक्षणक्षेपाद्यच्छत्येकार्थता स्मृतेः ।
अदिव्यचक्षुर्वृत्तौ यद्ब्रह्मानुल्लेखवाक्च सा ॥ ७०२ ॥
सुरोत्तमटीका
किञ्च ब्रह्मविषयकचाक्षुषवृत्त्या तदविद्यानिवृत्तौ जातायां भान्तं तं परमात्मानमनु सर्वं भातीति हि परस्यार्थः । इदमपि स्मृति-विरुद्धमिति भावेन तां स्मृतिं पठति ॥ नत्विति ॥ इयं वाणी अनेनैव चक्षुषा मां द्रष्टुं न शक्यसे न शक्नोषीति वाणी नश्श्रुत्यर्थधानाक्षोणी अस्माभिः प्रागुक्ताया न चक्षुषा पश्यति कश्चनैनमिति श्रुतेरर्थबीजावापभूमिः । तच्छ्रुत्यर्थस्यैव पूर्वार्धे अनया स्मृत्या सङ्ग्रहादिति भावः । नः गुप्त्यै तमेव भान्तमनुभाति सर्वमिति श्रुतेरस्मदुक्तार्थरक्षणाय वृतिश्च उत्तरार्धे अर्थात् स्वस्य लौकिकचक्षुर्वृत्तावभानकथनेन प्रतिवादिमृगमुखमुद्रणस्याप्यनयैव साधित-त्वादिति भावः । अगम्यपर्वताग्रक्षेत्रवद् उभयाकारत्वमप्येकस्य न विरुद्धमिति ज्ञातव्यम् । एतदेव दर्शयति ॥ चक्षुषेति ॥ यदिति पदद्वयमपि यस्मा-दित्यर्थे । सा स्मृतिः ॥ ७०१,७०२ ॥
सत्यप्रमोदटीका
‘न चक्षुषा पश्यति कश्चनैनं’ इत्युक्तश्रुतेः स्मृति-समाख्यामाह न तु मामिति । धानाक्षोणी बीजावापभूमिः । इयं स्मृतिः । वाणीगुप्त्यै श्रुतिसंरक्षणाय । वृतिर् गीताचार्योण दत्तो वर इति भावः । स्वपक्षसाधने परपक्षदूषणे चेत्युभयत्र व्यापृतत्वात् । श्रुत्यर्थसाधकत्वं दर्शयति चक्षुषेति । परपक्षप्रतिक्षेपप्रकारमाह अदिव्येति । ‘न ह्ययं घट’ इति ज्ञान-जनकं चक्षुः प्राणिमात्रसाधारणं दिव्यमिति सम्भवतीति भावः ॥७०१,७०२॥
युक्तिमल्लिका
अथवा स्वस्वरूपेण ज्ञानेन परमेश्वरम् ।
स्वशक्त्यैव सदा भान्तमनुसृत्यान्यदेहिनाम् ॥ ७०३ ॥
प्रत्यक्षेणानुमानेन शब्दाख्यकरणेन वा ।
भातीदं सकलं विश्वमित्यर्थोऽस्त्वति निर्मलः ॥ ७०४ ॥
सुरोत्तमटीका
किञ्च ईश्वरस्य ईश्वरज्ञानस्य च सर्वोत्पत्तिमन्निमित्त-कारणत्वमीश्वरस्य स्वातन्त्र्यम् ईश्वरज्ञानस्य बाध्यकरणनिरपेक्षतां च बोधयितुं तमेव भान्तं बाह्यकरणादिकं विना स्वस्वरूपकरणशक्त्यैव भान्तं स्वस्वरूप-ज्ञानेन प्रकाशमानं परमात्मानमनुसृत्य सर्वमिदं घटपटादिकं जीवानां तत्तदिन्द्रियैर्भाति ज्ञातं भवतीति वा सर्वजनमनोहरश्श्रुतेरर्थस्सम्भवतीत्याह॥अथवेति॥७०३,७०४ ।
सत्यप्रमोदटीका
भाधातोर्दीप्त्यर्थकत्वमाश्रित्य श्रुतेरर्थ उक्तः । ज्ञानार्थ-कत्वं स्वीकृत्यार्थान्तरमाह अथवेति । तं परमात्मानम् एव स्वसत्तादौ परा-नपेक्षत्वरूपस्वातन्त्र्येणैव । तदाह स्वशक्त्यैवेति । भान्तं क्रियासातत्ये शतृप्रत्ययः । तदर्थः स्वपराशेषविषयकज्ञानाश्रयमित्यर्थः । सर्वार्थविषयकमिति स्वतन्त्रमिति च तज्ज्ञानस्य लक्षणद्वयोक्तेः । तं परमात्मानम् अनु उपजीव्य । जीवानाम् इति शेषः, तत्तद्योग्यतां च अनु अनुसृत्य, सर्वं जगद् भाति तत्तत्करणजन्यज्ञानविषयो भवति ॥ ७०३,७०४ ॥
युक्तिमल्लिका
एवं सति ब्रह्मणो वा विशेष्यस्य विशेषणे ।
तज्ज्ञाने वा नृणां जन्यज्ञानमात्रे निमित्तता ।
सर्वोत्पत्तौ निमित्तस्य (प्रोक्त्यै) प्राप्त्यैव स्यान्न ते कथा ॥ ७०५ ॥
सुरोत्तमटीका
विशेष्यस्य भान्तमित्यत्र विशेष्यतयोक्तस्य । विशेषणे तत्रैव विशेषणतयोक्ते ब्रह्मभानेन सह जगद्भानस्यान्यैर्वादिभिरनङ्गीकारात्ते इत्युक्तम् । कस्याप्यनानुभविकत्वात् कथेत्युक्तम् ॥ ७०५ ॥
सत्यप्रमोदटीका
ज्ञानविशिष्टं ब्रह्म जन्यज्ञानमात्रं प्रति निमित्तकारण-मित्युक्तौ विशेष्यप्राधान्यविवक्षायां ब्रह्मणः विशेषणस्य तद्विवक्षायां ब्रह्म-ज्ञानस्य निमित्तकारणत्वमर्थः प्राप्यत इत्याह एवमिति । विशेष्यस्य ब्रह्मणः वा विशेषणे तज्ज्ञाने वा सर्वोत्पत्तौ निमित्तता इति योजना । वाक्यार्थ इति शेषः । तत्र हेतुर् भासेति तृतीयया निमित्तताप्राप्त्या एव इति । ते कथा अध्यासप्रलापः । न अत्र श्रुतौ नैवोक्ता इति भावः ॥ ७०५ ॥
युक्तिमल्लिका
एवशब्दोऽनुशब्दश्च स्यादेवं सति सार्थकः ।
भासेत्यत्र तृतीयाया हेतुत्वार्थोऽपि शोभते ॥ ७०६ ॥
सुरोत्तमटीका
अन्यप्रेरणव्यवच्छेदादेवशब्दस्य हेतुत्वकथनाद् अनु-शब्दस्य च सार्थक्यादेवशब्दोऽनुशब्दश्चेत्याद्युक्तम् ॥ ७०६ ॥
सत्यप्रमोदटीका
एवेति परसापेक्षत्वनिरासेन स्वातन्त्र्यस्य, अनुशब्देन जन्यज्ञानमात्रे तदधीनत्वस्य, भासेति तृतीयया निमित्ततायाश्च बोध इति श्रौतपदस्वारस्यमित्याह एवेत्यादिना ॥ ७०६ ॥
युक्तिमल्लिका
तव त्वतीन्द्रियं वस्तु नैतद्वाक्यस्य गोचरः ॥ ७०७ ॥
सुरोत्तमटीका
तव पक्षे । एतद्वाक्यस्य तमेवभान्तमिति वाक्यस्य । चक्षुर्वृत्त्या भान्तमिति हि परेणार्थो वक्तव्यः । स च ब्रह्मणोऽतीन्द्रियत्वादुक्त-श्रुतिस्मृतिविरोधाच्चानुपपन्न इति भावः ॥ ७०७ ॥
सत्यप्रमोदटीका
तव चाक्षुषवृत्त्या भान्तम् इत्यर्थं वदतः । अतीन्द्रियं वस्तु ब्रह्म । एतद्वाक्यस्य एतद्घटकस्य तम् इति तस्य इति च शब्दस्य । न गोचरः नैव प्रतिपाद्यः ॥ ७०७ ॥
युक्तिमल्लिका
परोक्षवृत्तावज्ञानानाशादृक्च यदावृता ।
अतस्सर्वपदार्थोऽपि स्यादनर्थकरस्तव ॥ ७०८ ॥
सुरोत्तमटीका
दूषणान्तरं चाह ॥ परोक्षवृत्ताविति ॥ दृक् ब्रह्मदृक् । यद् यस्मात् । अतस् तत्र चैतन्यस्यावृतत्वेन भान्तमनुभातीत्यस्य कथना-योगात् । अनर्थकरः सङ्कोचाख्यानर्थकारी । परोक्षज्ञानविषयेषु वह्न्यादिषु भान्तमनुभातीत्यर्थस्य तवैवानुपपन्नत्वेन सर्वशब्दार्थस्य सङ्कोचनीयत्वादिति भावः ॥ ७०८ ॥
सत्यप्रमोदटीका
परपक्षे सर्वशब्दस्य ऐन्द्रियकार्थमात्रपरतया सङ्को-चोऽपि दोष इत्याह परोक्षेति । यद् यस्मात् । दृक् धर्माधर्माद्यतीन्द्रिया-धिष्ठानभूता चित् । आवृता । तत्र हेतुः परोक्षवृत्तेर् आवरणनिवर्तकत्वस्य त्वयाऽनङ्गीकाराद् इति ॥ ७०८ ॥
युक्तिमल्लिका
यद्वा भान्तं तमन्वेतद्भातीति प्रतिभां हरेः ।
स्वगोचरां सर्वजगद्गोचरां च श्रुतिर्जगौ ॥ ७०९ ॥
सुरोत्तमटीका
अथवा सर्वविषयके भगवज्ज्ञाने भान्तं तं परमात्मा-नमन्वनन्तरम् अमुख्यतयेत्यर्थः । सर्वं भाति । एवं च तस्य परमात्मनो भासा ज्ञानेन इदं सर्वं परापरप्रमेयात्मकं जगद्भातीति श्रुतेरर्थस्सम्भवतीत्याह ॥ यद्वेति ॥ ७०९ ॥
सत्यप्रमोदटीका
यद्वा तस्य भासा स्वरूपप्रमयैव सर्वम् इदं प्रमाणप्रमितम् अशेषं जगद् विभाति अशेषविशेषपुरस्कारेण निरतिशयस्पष्टतया च प्रकाशते । तमेव भान्तं प्राधान्येन प्रकाशमानम् अनु तज्ज्ञानोद्देशेनैव सर्वम् अन्यद् भाति ज्ञेयं भवति इत्यर्थः । जीवानाम् अयं घट इत्यादिज्ञानम् अधिष्ठानचैतन्यात्मक-मेवेति अपगतस्मृतिरपि न वदेत् । अयं तु मायी ‘मत्तः स्मृतिर्ज्ञानमि’ति स्मृतेर् दुराग्रहेणापलापी ततोऽपि निकृष्ट इत्याशयः ॥ ७०९,७१० ॥
युक्तिमल्लिका
अन्यत्त्वमुख्यतो ज्ञेयमनुशब्दोऽपि शंसति ।
अस्मज्ज्ञानं तदेवेति कोऽपस्मार्यत्र वर्णयेत् ॥ ७१० ॥
सुरोत्तमटीका
अस्मज्ज्ञानम् अस्माकं सर्वेषां जीवानां ज्ञानं तदेव ब्रह्मैव । तत्तदधिष्ठानचैतन्यमेव तत्तदर्थस्य ज्ञानं नानादेहस्थितजीवानां तु ज्ञानमेव नास्तीति कोऽपस्मारी अत्र श्रुतौ वर्णयेदिति सम्बन्धः । जडानां चेतनत्वकथनाज् जीवानां जडत्वकथनाच्चापस्मारीत्युक्तम् । तदेवेति वदता चिद्रूपज्ञानस्य स्वाविषयत्वात्तदधिष्ठानचैतन्यरूपज्ञानमेव सर्वोल्लेखीति श्रुते-राकारस्स्यात् । न तु भान्तमित्याद्याकार इत्यपि सूचितम् । वृत्तौतु स्वोत्पत्ति-दशायामावृतब्रह्मणो ज्ञानस्यैवाभावान् नास्याश्श्रुतेरवसर इत्यपि ज्ञेयम् ॥ ७१० ॥
युक्तिमल्लिका
अथवा विश्वरूपाख्यरूपेण ज्ञानिनां दृशि ।
भान्तं तमनुसर्वं च भातीत्यर्थः श्रुतेर्भवेत् ॥ ७११ ॥
सुरोत्तमटीका
अर्थान्तरं चाह ॥ अथवेति ॥ तं परमात्मानम् ॥ ७११ ॥
सत्यप्रमोदटीका
भान्तमित्येतस्य ‘दृशि’ इत्येतत्पूरणीयम् । तस्य च योगप्रभावलब्धातिशये, विश्वरूपविषयके योगिज्ञान इत्यर्थः । तं परमात्मानम् । अनु तदवयवैकदेशाश्रितत्वेन । सर्वं भाति जगत् प्रतीयते इत्यर्थः । ‘तत्रैकस्थं जगत् कृत्स्नं प्रविभक्तमनेकधा । अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा’ इति स्मृतेः ॥ ७११ ॥
युक्तिमल्लिका
मलमूत्रादिदृष्टिं सा ब्रह्मदृष्टिं कथं वदेत् ।
या तदाहौपनिषदमवाङ्मनसगोचरम् ॥ ७१२ ॥
सुरोत्तमटीका
सर्वस्य जगतो ज्ञानस्य ब्रह्मविषयज्ञानतया परेण कथनान् मलमूत्रादिदृष्टिमित्युक्तम् । सा तमेव भान्तमिति श्रुतिः । या श्रुतिः । तद् ब्रह्म ॥ ७१२ ॥
सत्यप्रमोदटीका
एवं चतुर्धा स्वमते योजनां प्रदर्श्य परोक्तार्थस्याति-जुगुप्सितत्वमाह मलेत्यादिभिः । या श्रुतिस् तद् ब्रह्म औपनिषदम् आह सा श्रुतिर् मलमूत्रादिदृष्टिम् एव ब्रह्मदृष्टिं कथं वदेद् इत्यन्वयः ॥ ७१२ ॥
युक्तिमल्लिका
यद्धि वाङ्मनसाऽतीतं तद्वीथीवृषभः कथम् ।
श्लेष्ममूत्रमलादीनामपि दृग्ब्रह्मदृक्किल ।
तवातिसुलभं ब्रह्म यदौपनिषदं सताम् ॥ ७१३ ॥
सुरोत्तमटीका
यद् ब्रह्म । वीथीस्थवृषभवद् ब्रह्मणोऽपि सर्वैरपि दृश्य-मानत्वकथनाद् वीथीवृषभ इत्युक्तम् ॥ ७१३ ॥
सत्यप्रमोदटीका
सर्वैरपि सुलभतया दृश्यत्वनिदर्शनाय वीथीति वृषभ-विशेषणम् । यद् ब्रह्म वृषभः वृषभसदृशः ॥ ७१३ ॥
युक्तिमल्लिका
ब्रह्मज्ञाने सति नृणां मुक्तिः पश्चाद्भवेत्किल ।
मलैस्सह विमुक्तिः प्राक्पश्चाद्ब्रह्मदृशिस्तु ते ॥ ७१४ ॥
पुण्यनाशस्तदैव स्यात्पातकैर्लिप्यते किल ।
ब्रह्मदृष्ट्या त्वशुद्धस्य हन्त शुद्ध्यै स्पृहा किल ॥ ७१५ ॥
सुरोत्तमटीका
परप्रक्रियामपहसति ॥ ब्रह्मज्ञान इति ॥ प्राद्गल-विमोचनं पश्चान्मलदर्शने ब्रह्मणोपि दर्शनमिति परेणोक्तत्वात् प्राग्ब्रह्मणो मुक्तिः पश्चात्तद्दर्शनमित्यपहासः ॥ तदैव मलेन सह ब्रह्मदर्शनसमय एव । शुचित्वापगमाद् अशुचित्वागमाच्च पुण्यनाशः पापलेपश्चेत्युक्तम् । शुद्ध्यै आचमनादिशुद्ध्यै । मलदर्शनस्यापि ब्रह्मदर्शनरूपत्वे तस्यापि चरम-साक्षात्कारवत्पुण्यहेतुत्वमेव स्यात् । न निन्द्यतेति भावः ॥ ७१४,७१५ ॥
सत्यप्रमोदटीका
मलादिविमोकानन्तरं शुद्ध्यर्थं प्रक्षालनादिविधयः खलु शास्त्रे प्रवर्तन्ते। त्वद्रीत्या ते विरुध्यन्ते । तेषां विधीनामुपपत्तये त्वयैवं वक्तव्यम् । मलमूत्रदर्शनरूपब्रह्मदर्शनेन पुण्यहानिः पापलेपश्च जातः । तदुभयपरिहाराय शुद्धिर्विधीयते इति । तदेतदपहसनीयमित्याह पुण्येति ॥ ७१४–७१५ ॥
युक्तिमल्लिका
अतोऽधिष्ठानदृक्छून्यदृष्टित्वाद्घटदर्शनम् ।
ब्रह्मधीरिव नारोप इति स्यादनुमाऽपि नः ॥ ७१६ ॥
स्वावेद्याधिष्ठानदृक्च नाधिष्ठानस्य धीस्तव ।
ततोऽधिष्ठान्दृक्छून्या घटदृष्टिर्द्विधाऽप्यभूत् ॥ ७१७ ॥
तस्मादारोपबलतो न मिथ्याऽभूदिदं जगत् ।
बाधस्य शोधनेऽपि स्यान्न मिथ्येति मतिर्मम ॥ ७१८ ॥
सुरोत्तमटीका
अतः घटज्ञाने चैतन्यदर्शनायोगात् ॥ पररीत्या-प्यधिष्ठानज्ञानशून्यत्वमुपपादयति ॥ स्वावेद्येति ॥ परमते कर्तृकर्मभाव-विरोधेन चैतन्यस्य स्वविषयत्वानङ्गीकाराद् अधिष्ठानचैतन्यरूपघटदर्शन-स्याधिष्ठानाविषयत्वं सिद्धमिति भावः । द्विधा लोकरीत्या स्वरीत्याच ॥ ७१६–७१८ ॥
सत्यप्रमोदटीका
‘अयं घट इति चैतन्यरूपं ज्ञानं’ न भ्रमो ऽधिष्ठानाभिमतचैतन्यसंभिन्नतया प्रकाशमानत्वरहितत्वाद् ब्रह्मज्ञानवत्, व्यतिरेकेण शुक्तिरूप्यज्ञानवन् न चासिद्धिः । औपनिषदस्य ब्रह्मणश्चाक्षुषज्ञाने भानायोगस्योक्तत्वात् । निर्विशेषस्य चैतन्यस्य स्वकर्मकत्वस्य परेणानङ्गी-काराच्चेत्याह अत इति स्वावेद्येति च ॥ ७१६,७१७ ॥
युक्तिमल्लिका
अस्ति चेन्नास्तिताबोधो बाधस्सर्वस्य नाभवत् ।
नास्ति चेन्नास्तिताबोधो बाधस्सर्वस्य नाभवत् ॥ ७१९ ॥
सुरोत्तमटीका
बाधमप्युभयतः पाशरज्जुभ्यां बध्नाति ॥ अस्ति-चेत्यादिना ॥ प्रथमपक्षे ब्रह्मव्यतिरिक्तनास्तिता बोधस्यैवोर्वरितत्वात् सर्वस्य बाधो नाभवदित्युक्तम् । त्रिकालनास्तित्वं हि बाधः । सचैकस्मिन्काले नास्तिताबोधस्यास्तित्वे कथं पुनस्तस्य स्यादिति भावः । एतेन व्याव-हारिकास्तित्वमपि प्रत्युक्तम् । त्रिकालनास्तितारूपबाधयोग्यत्वे प्रयत्नशतेनापि पुनस्तस्मिन्नस्तित्वस्य वक्तुमशक्यत्वात् । अस्तित्वे च कथं पुनस्तस्य त्रिकालनास्तित्वरूपबाधः । अतस्सुष्ठूक्तम् अस्ति चेन्नास्तिताबोधो बाधस्सर्वस्य नाभवदिति । द्वितीयपक्षे बाधत्वेनाभिमतनास्तिताबोधस्यैवा-भावान् न कस्यापि बाधस्स्यादित्यर्थः ॥ ७१९ ॥
सत्यप्रमोदटीका
सर्वस्य बाधः सत्यो मिथ्या वा । आद्ये आह सर्वस्येति सर्वान्तःपातिनो बाधस्यैवोर्वरितत्वात् । द्वितीये तु स्वयमेवानङ्गी-कारान्न बाध इत्याह नास्तीति । न च बाधस्येदानीमेवास्तित्वं कालान्तरे सोऽपि बाधिष्यत इति वाच्यम् । इदानीम् अस्तित्वस्यापि त्रैकालिकनिषेधरूप-बाधप्रतिरोधकत्वात् । तदुक्तं न्यायामृते ‘स्वकाले ह्यस्तितां गृह्णन् साक्षात्कार-स्त्रिकालगम् । प्रतिषेधं निरुन्धानो गृह्णात्येवात्यबाध्यतामि’ति ॥ ७१९ ॥