प्रधानसदृशाकारवर्णाधिष्ठानदर्शने
प्रतिकूलतर्कपराहतिः
युक्तिमल्लिका
प्रधानसदृशाकारवर्णाधिष्ठानदर्शने ।
तथा तथा भ्रमोऽपि स्यान्नान्यथा यत्र कुत्रचित् ॥ ५४४ ॥
सुरोत्तमटीका
परपक्षे कल्पनागौरवमेव प्रदर्शयति ॥ प्रधानेति ॥ प्रधानं सत्यरजतसर्पादिकम् । सर्पघटादिभ्रमे आकारसादृश्यस्याप्यपेक्षितत्वा-त्सोऽपि गृहीतः । प्रधानसदृशाकारवर्णं यदधिष्ठानं शुक्तिरज्ज्वादि । तद्दर्शने । तथा तथा भ्रमः । रजतसाम्ये रजतभ्रमः रज्ज्वादिसाम्ये रज्ज्वादिभ्रमः ॥५४४॥
सत्यप्रमोदटीका
एतावता दृग्दृश्ययोराध्यासिकसम्बन्धाङ्गीकारेण जगतो मिथ्यात्वसाधनं न सम्भवतीत्युपपादितम् । इदानीं मिथ्यात्वसाधकपरोक्तहेतूनां प्रतिकूलतर्कपराहतिं समर्थयिष्यमाणः, उपोद्घातमाह प्रधानेति । अनेन ‘अधिष्ठानं च सदृशं तथ्यवस्तुद्वयं विना । न भ्रान्तिर्भवति क्वापि स्वप्रमायादि- केष्वपि’ इति भगवत्पादीयं वचनं प्रमाणयति ॥ ५४४ ॥
युक्तिमल्लिका
पृथुबुध्नोदराकारघटवर्णशिवादिके ।
घटभ्रमस्तथैवोर्ध्वे स्थाण्वादौ पुरुषभ्रमः ।
रजताकारसदृशवर्णे तु रजतभ्रमः ॥ ५४५ ॥
सुरोत्तमटीका
तदेव दर्शयति ॥ पृथ्विति ॥ ५४५ ॥
सत्यप्रमोदटीका
प्रधानाधिष्ठानयोः सादृश्यं सर्वथाऽपेक्षितमित्येतद् दृष्टान्तैरुपपादयति पृथ्विति । तदुक्तं भगवत्पादैः ‘न हि सत्यशुक्तेः सत्य-रजतस्य तयोः सादृश्यस्य चाभावे भ्रान्तिर्भवति’ इति ॥ ५४५ ॥
युक्तिमल्लिका
विचित्राकारवर्णानामनन्तानन्तधर्मिणाम् ।
शुद्धब्रह्मण्यधिष्ठाने विश्वविभ्रमसिद्धये ।
स्वभावसिद्धा सिद्धाऽभूज्जगदाकारवर्णता ॥ ५४६ ॥
सुरोत्तमटीका
अस्त्वधिष्ठानस्य प्रधानसदृशाकारवर्णता । प्रकृते किमागतमित्यत आह ॥ विचित्रेति ॥ अनन्तानन्तवर्णानामनन्तानन्तधर्मिणां महीमहीधरसरित्समुद्रघटपटादिधर्मिणाम् अधिष्ठाने आरोपाधिष्ठान इति सम्बन्धः । स्वभावसिद्धा अनारोपिता । जगदाकारवर्णता जगत आरोप्यमाण जगतस् तत्प्रधानभूतजगदन्तरस्य वायोर्य आकारोवर्णश्च तत्समानाकारवर्णते-त्यर्थः । अनन्तानन्तजगदारोपस्याधिष्ठानभूतं ब्रह्मपरमार्थत एव जगत्सदृशा-नन्तानन्तवर्णाकारभरितं भवेदिति भावः ॥ ५४६ ॥
सत्यप्रमोदटीका
प्रकृतोपयोगमाह विचित्रेति । धर्मिणामित्यनन्तरम् आरोपस्येति शेषः । अधिष्ठाने इत्यनेन सम्बन्धः । शुद्धेति विशिष्टस्य मिथ्या-त्वेनाधिष्ठानत्वानुपपत्तेः । स्वभावसिद्धा सत्या । भ्रान्तिकल्पितत्वे, अधिष्ठाना-न्तरापेक्षयाऽनवस्थया मूलक्षतेः । अनेन निराकारस्य शुद्धस्याधिष्ठानत्वं वदतः परस्य व्याघातो दोषोऽप्युक्तो ध्येयः ॥ ५४६ ॥
युक्तिमल्लिका
अधिष्ठानमनारोप्यं तवैवावश्यकं मते ।
ब्रह्मणः पारमार्थ्यं हि न सिद्ध्येदन्यथा तव ॥ ५४७ ॥
निरधिष्ठानकभ्रान्तिवादिता च भवेद्ध्रुवम् ।
अधिष्ठानं हि शुद्धं ते व्यावहारिकविभ्रमे ॥ ५४८ ॥
सुरोत्तमटीका
अधिष्ठानवर्णाकारादेः पारमार्थ्यम् अधिष्ठानसत्यत्व-वादिनस्तवैवापेक्षितम् । अतो नास्माभिः पृथक्प्रयतितव्यमित्याह ॥ अधिष्ठानमिति ॥ अन्यथा अधिष्ठानस्याप्यारोपितत्वे निरधिष्ठानकभ्रान्ति-वादिता बौद्धतेत्यर्थः । व्यावहारिक विभ्रमे व्यावहारिकस्यविभ्रमे । हिशब्देन शुक्त्यादिसविकल्पकप्रमाबाध्यस्य प्रातिभासिकस्य व्यावहारिकाधिष्ठानत्व-सम्भवेऽपि ब्रह्मप्रमैकबाध्यस्य व्यावहारिकस्य निर्विकल्पकरूपचरमप्रमा-विषयीभूतं शुद्धं ब्रह्मैवाधिष्ठानमिति परप्रसिद्धिं सूचयति ॥ ५४७,५४८ ॥
सत्यप्रमोदटीका
तवेति अधिष्ठानत्वान्यथाऽनुपपत्त्या ब्रह्मणः पारमार्थ्यं वदत इत्यर्थः ॥ न चेच्छून्यवादप्रवेशः स्यादित्याह निरधिष्ठानेति । अधिष्ठानस्य आरोपितसत्ताऽधिकसत्ताकत्वनियमाङ्गीकारेणापि अधिष्ठानस्य शुद्धत्वं पारमार्थिकत्वं च तवावश्यकमित्याह अधिष्ठानमिति । व्यावहारिक-विभ्रमे व्यावहारिकस्य विभ्रमे । व्यावहारिकवियदादिविषयकविभ्रमे । बाधिकायाश्चरमप्रमायाः परमार्थशुद्धविषयकत्वाङ्गीकारादिति भावः ॥ ५४७,५४८ ॥
युक्तिमल्लिका
सोपाधिकभ्रमेऽपि स्यादुपाधेस्तादृगात्मता ।
पीतः पीतेन पित्तेन तिक्तस्तिक्तेन तेन हि ॥ ५४९ ॥
सुरोत्तमटीका
सोपाधिकभ्रमत्वाङ्गीकारेऽपि ब्रह्मणो जगदाकारत्वं न मुञ्चतीत्याह ॥ सोपाधिकेति ॥ तादृगात्मना भ्रमप्रकारीभूताकारगुण-सदृशाकारगुणवत्तेत्यर्थः । पीतः शङ्खे पीत इति भ्रम इत्यर्थः । पीतेन पीतवर्णेन । पित्तेन पित्ताख्योपाधिना भवतीत्यर्थः । तिक्तः गुडस्तिक्त इति भ्रमः । तिक्तेन तिक्तरसयुक्तेन । तेन पित्तेन ॥ ५४९ ॥
सत्यप्रमोदटीका
तादृगात्मता भ्रमे भासमानवर्णादिसदृशवर्णादिमत्त्वम् । पीतवर्णोपेतनायनपित्तरूपोपाधिना । पीतः । शङ्खः पीत इति भासते । तेन आस्यगतपित्तेन तिक्तः । गुडस् तिक्त इति भ्रमो भवतीत्यर्थः ॥ ५४९ ॥
युक्तिमल्लिका
तवोपाधिरविद्यैव तत्राकारादिकल्पितम् ।
उपाध्यन्तरशून्यत्वान्निरुपाधिकमेव तत् ॥ ५५० ॥
सुरोत्तमटीका
तव मते उपाधिर् जगदारोपोपाधिः । तत्र अविद्यायाम् । अविद्याया एव कल्पितत्वादिति भावः । तद् अविद्यायां कल्पितमाकारवर्णादिकम् ॥ ५५० ॥
युक्तिमल्लिका
तन्निष्ठनियताकारभ्रान्त्यै ब्रह्म भवेत्तथा ।
अतो जगद्भ्रमायाभूद्ब्रह्मैव जगदन्तरम् ॥ ५५१ ॥
सुरोत्तमटीका
तन्निष्ठनियताकारभ्रान्त्यै अविद्यानिष्ठनिरुपाधिकनियत जगद्भ्रमहेतुभूतनानाकारवर्णरसादिभ्रान्त्यै । तथा आरोप्यमाणाविद्यानिष्ठा-कारादिसदृशाकारादिप्रधानीभूतजगदन्तरसदृशाकारवच्चेत्यर्थः । निरुपाधिकभ्रमे अधिष्ठानस्यैव प्रधानसादृश्यनियमाज् जगद्भ्रमस्यौपाधिकत्वेऽपि तद्भ्रमसिद्ध्यर्थ-मुक्तरीत्या यदुपाधौ जगदङ्गीकार्यं तस्य निरुपाधिकभ्रमसिद्धत्वेनानन्त-तस्तद्भ्रान्त्यर्थमेवाधिष्ठानभूते ब्रह्मणि पारमार्थिकजगदन्तरं प्रधानीभूतजगदन्तरं चाङ्गीकार्यम् । एवं च सोपाधिकभ्रमत्वाङ्गीकारेऽपि परस्य जगच्चतुष्टयकल्पनया कल्पनागौरवम् । बकबन्धप्रयासश्चाधिकोऽभूत् । अस्मदुक्तदोषपरिजिहीर्षा तु शीर्षापगमेऽपि न भवतीति भावः । अतः द्विप्रकारकभ्रमेऽपि ब्रह्मणि जगदन्तरस्यावश्यकत्वात्
॥ ५५१ ॥
सत्यप्रमोदटीका
तथा च जगद्भ्रमस्यौपाधिकत्वोपगमेऽपि न सत्य-जगदन्तराङ्गीकारापत्तिदोषनिस्तार इति निरूपयति तवेत्यादिना । अविद्यैवेष्टा । आरोपिते भासमानाकारसदृशाकारवत्त्वम् उपाधेरावश्यकमित्युक्तम् । अविद्याया अपि कल्पितत्वात् तत्राकारसिद्ध्यर्थं पुन उपाध्यन्तरंवा तादृशाकारोपेतम् अधिष्ठानान्तरं प्रधानान्तरं च वा स्वीकर्तव्यम् । न चाविद्याभ्रमस्य अन्य उपाधिः परमतेऽस्तीत्याह उपाध्यन्तरशून्यत्वादिति । अतः निरुपाधिकभ्रमे क्लृप्तं सत्यजगदन्तरद्वयम् अधिष्ठानप्रधानभूतम् अङ्गीकार्यम् । तथा च जगदारोपार्थं द्वयं, अविद्यारोपार्थं च द्वयम् इति सत्यजगच्चतुष्टयाङ्गीकार आपन्नः । एवं च वृश्चिकभिया पलायमानस्याशीविषमुखे निपात इति भावः । अतः भ्रमस्य सोपाधिकत्वनिरुपाधिकत्वरूपपक्षद्वयेऽपि ब्रह्मात्मकसत्य-जगदङ्गीकारस्यावश्यकत्वात् ॥ ५५१ ॥
युक्तिमल्लिका
ममास्तु तज्जगत्सत्यं मनोरथरथोपमम् ।
इदं जगत्तवैवास्तु मिथ्यामिथ्यात्ववादिनः ॥ ५५२ ॥
सुरोत्तमटीका
तज्जगद् ब्रह्मणि त्वयाङ्गीकृतं जगत् । मनोरथरथोपमम् इदं जगत् । अत एव मिथ्या मिथ्याभूतम् । तवैवास्त्विति सम्बन्धः । मिथ्यात्ववादे ब्रह्मणि सत्यजगदन्तरस्याङ्गीकर्तव्यत्वात् कल्पनागौरवम् । सत्यत्ववादे तु ब्रह्मणि जगदन्तरस्याकल्प्यत्वात् कल्पनालाघवम् । ममास्तु तज्जगदिति परपरिहासाय वा अस्यैव जगतः विश्वरूपस्य हरेः पादाद्य-वयवलोमनखाद्याश्रितत्वाद्वोक्तमिति भावः ॥ ५५२ ॥
सत्यप्रमोदटीका
अधिष्ठानभूतम् अत एव सत्यं त्वयाङ्गीक्रियमाणं ब्रह्मात्मकं जगदेकम् । अपरं त्वयाऽऽरोपितत्वेन मिथ्याभूतं जगदपरम् । द्वयोर्मध्ये आद्यं, सतां मनोरथरथोपमम् अर्थक्रियासमर्थं, जगन् मम अस्तु । ब्रह्मात्मकम् इति पररीत्या । वस्तुतस्तु ‘इदं हि विश्वं भगवानिवेतरं यतो जगत्स्थानविरोधसम्भवः’ इति स्मृत्युक्तदिशा ब्रह्मस्वामिकम् इत्येव तात्पर्यार्थः । अपरं मिथ्यात्ववादिनस् तवास्तु । तत्रान्नपानादीनाम् अर्थक्रियाऽसमर्थत्वेन अभावेन तव नित्योपवासात् ‘क्षुत्क्षामान्’ इत्युक्तरीत्या तमःसाधनत्वात् । सत्यत्ववादिनः ब्रह्मप्राप्तिरूपो मोक्षः । आरोपितत्वं वदतो मायिनः ‘असत्य-मप्रतिष्ठं ये जगदाहुरनीश्वर ॥ मामप्राप्यैव कौन्तेय ततो यान्त्धमां गतिम्’ इति स्मृत्युक्तं तम एव । इत्येवं फलभेदमाह ममेति तवेति च ॥ ५५२ ॥
युक्तिमल्लिका
पटस्थले घटभ्रान्तिर्घटदेशे पटभ्रमः ।
न क्वापि विद्यते वस्तुव्यत्यासो विभ्रमस्य हि ॥ ५५३ ॥
सुरोत्तमटीका
प्रतीतिनियमान्यथानुपपत्त्यापि ब्रह्मणि नियताकारो वा जगत्सत्यत्वं वाच्यमित्याह ॥ पटेति ॥ वस्तुव्यत्यास उक्तविधया वस्तु-व्यत्यासः ॥ ५५३ ॥
सत्यप्रमोदटीका
परन्यायेनैव जगतः पारमार्थिकत्वं सिषाधयिषुः पराभिमतं भ्रमस्वरूपं विवेचयति पटेति । जगत्प्रतीतेर्नैयत्यं तावदस्ति घटस्थले एवघटस्य, पटस्थले एव च पटस्य इत्येवम् । न तु पुनः व्यत्यासेन, घटस्थले पटस्य प्रतीतिः पटस्थले घटस्य इत्येवंरूपा
॥ ५५३ ॥
युक्तिमल्लिका
तत्तदा स्याद्यदि ब्रह्म तत्र तत्रैव तादृशम् ।
स्वयमस्ति न चान्यत्र ततो भ्रान्तिश्च तादृशी ॥ ५५४ ॥
अधिष्ठानानुसारेण तत्र तत्रैव जायते ।
इति वा स्वस्वहेतूत्थाः पदार्थास्तत्र तत्र हि ॥ ५५५ ॥
सन्ति स्वभावतस्तस्मात्तत्र तत्रैव तादृशी ।
मतिर्व्यत्यासतो नेति व्यवस्थाऽऽश्रयणेन वा ।
इतस्तृतीयः पन्थास्तु न मुरारेश्च विद्यते ॥ ५५६ ॥
सुरोत्तमटीका
तद्वस्तुव्यत्यासं विना तत्तत्पदार्थज्ञानम् । ब्रह्ममिथ्यात्व-पक्षेऽधिष्ठानभूतं ब्रह्म । तादृशं घटभ्रमस्थले घटसदृशाकारम् । पटभ्रमस्थले पटसदृशाकारमित्यर्थः । तादृशी अधिष्ठानब्रह्मसदृशी । सत्यत्वपक्षे स्वस्व-हेतूत्थास् तन्तुमृदादिस्वकारणजाताः । तस्माद् घटप्रमास्थले घटस्यैव विद्य-मानत्वात् पटप्रमास्थले पटस्यैव विद्यमानत्वात् । इति व्यवस्थाश्रयणेन वा प्रतीतिनियमो वक्तव्य इत्यर्थः । इतः मिथ्यात्वपक्षोक्ताधिष्ठानसारूप्यनियमात् सत्यत्वपक्षोक्तस्वस्वकारणनियतकार्यनियमाच्च । मुरारेस्तृतीयः पन्था इति लोके वदन्ति । अतः न मुरारेरित्युक्तम् । मुरारिनामा कश्चिन्मिश्रः । तेनाप्यत्र तृतीयपक्षोन्नयनं कर्तुं न शक्यमित्यर्थः ॥ ५५४–५५६ ॥
सत्यप्रमोदटीका
तदेतस्य नैयत्यस्य पररीत्योपपत्तिप्रकारमनुवदति तदिति ब्रह्म घटाधिष्ठानम् । तत्रैव घटदेशे एव तादृशं घटाकारम् । स्वयमस्ति अधिष्ठानवत् तदाकारस्यापि सत्यत्वावश्यंभावात् । नान्यत्र पटदेशे । भ्रान्तिर् घटभ्रान्तिः । तादृशी घटदेशे एव घटाकारा ॥
तादृशीत्युक्तमेव विशदयति अधिष्ठानेति । सिद्धान्ते प्रतीतिनैयत्ये हेतुमाह स्वस्वहेतूत्था इति । तत्र तत्र स्वोपादानप्रदेश एव । पदार्थाः सन्ति इत्युत्तरेणान्वयः । स्वभावतः सत्यत्वादेव । इतः प्रागुक्तप्रकारद्वयादन्यः पन्थाः प्रकारः । मुरारेरित्यपहासः । ‘मुरारेस्तृतीयः पन्थाः’ इत्याभाणक-विषयस्य अस्वप्रकाशानुव्यवसायमुपेत्य प्रामाण्यस्वतस्त्ववादिनो मुरारिमिश्र-स्यापि
॥ ५५४–५५६ ॥
युक्तिमल्लिका
पक्षद्वयेऽपि नास्माकं हानिरुक्तप्रकारतः ।
शुद्धं जगत्पूर्वपक्षे जडं पक्षान्तरे जगत् ॥ ५५७ ॥
सुरोत्तमटीका
शुद्धं ब्रह्मचैतन्यात्मकम् । पूर्वपक्षे मिथ्यात्वपक्षे । पक्षान्तरे सत्यत्वपक्षे । कार्यनियमेनैव प्रतीतिनियमस्य सिद्धत्वेन ब्रह्मात्मक-जगतोऽनपेक्षणादित्यर्थः ॥ ५५७ ॥
सत्यप्रमोदटीका
हानिः सत्यत्वस्येति शेषः । मायिरीत्या ब्रह्मात्मका-धिष्ठानभूतजगत्सत्यत्वसिद्धेः । अस्मत्पक्षे स्वातन्त्र्यैक्यपरत्वमाश्रित्य । स्वस्व-कारणजन्यत्वपक्षे तु सत्यत्वस्य निराबाधत्वाद् इत्येवमुक्तप्रकारतः । तदेव स्मारयति शुद्धमिति । ब्रह्मात्मकम् अत एव सत्यम् । पूर्वपक्षे मायिपक्षे । तद्रीत्या अधिष्ठानभूतचैतन्यात्मकत्वे सत्यत्वस्य कथञ्चिदहानेः । पक्षान्तरे स्वस्वकारणजन्यत्वेन दृश्यमानमेव जडं जगत् सत्यभूतम् इति सिद्धान्ते ॥५५७॥
युक्तिमल्लिका
मिथ्या चेत्तद्भवेत्प्रातिभासिकं क्षणिकत्ववत् ।
इदानीमेव बाधेन तत्रारोपोऽपि बाधितः ।
तदा सत्यं जगदिदं भवेन्मम निराकुलम् ॥ ५५८ ॥
अधिष्ठानान्तराभावात्कथं ब्रह्मणि कल्पितम् ।
भवेत्तन्न ह्यधिष्ठानपारंपर्यं च ते मते ॥ ५५९ ॥
सुरोत्तमटीका
द्वयोर्जगतोः सत्यत्वायोगाद् एकस्य मिथ्यात्वं वक्तव्य-मिति चेत् । सत्यम् । तथापि जडजगन्न मिथ्या किं तु ब्रह्मात्मकं जगदेव मिथ्येत्यत्र युक्तिमाह ॥ मिथ्या चेदिति ॥ तज्जडजगतो मिथ्यात्वाय कल्प्यमानब्रह्मात्मकं जगत् । क्षणिकत्ववद् ब्रह्मण्यारोपितक्षणिकत्ववत् । प्रातिभासिकं भवेत् । मिथ्यात्वेऽपि अपशदमिथ्यात्वयोग्यं स्यादित्यर्थः । इदानीं संसारदशायां बाधेन त्वया मया कदापि नास्तीति निषिध्यमानत्वेन । तत्र जगदाकारसदृशाकारसहिते ब्रह्मणि । आरोपः मदीयजडजगदारोपः । बाधितः युक्तिबाधितः । प्रधानसादृश्याभावाद् भ्रमनियमयोग्यनियताकाराभावा-च्चानुपपन्न इत्यर्थः । इदमस्य ग्रन्थकारस्य कौशलम् । यद्बहुविधचर्चायामपि स्वाभिमत पक्ष एव पर्यवसानम् । तदा आरोपबाधे । अधिष्ठानान्तराभावाद् एतद्ब्रह्मातिरिक्ताधिष्ठानाभावात् । अगत्याऽधिष्ठानान्तराङ्गीकारेऽपसिद्धान्त इत्याह ॥ न हीति ॥ ५५८,५५९ ॥
सत्यप्रमोदटीका
मायिरीत्याऽपि चैतन्यात्मकत्वेऽपि सत्यत्वसिद्धिरिति यदुक्तं तत्र बाधकमाशङ्क्य निराकरोति मिथ्या चेदिति । निराकारे शुद्धे प्रतीयमानस्य जगदाकारस्य मिथ्यात्वमुच्यते, अत आरोपिताकारेण न सत्यत्वसिद्धिर् इति परेण यद्युच्यते इत्यर्थः । परिहरति प्रातिभासिकमिति । आपद्यते इति शेषः । तत्र हेतुर् इदानीमेव भ्रमकाले एव । बाधेन विरुद्धाकारप्रतिभासेन । ब्रह्मणश् चेतनत्वप्रत्यक्त्वादिना । जगतः जडत्व-पराक्त्वादिना ॥ तदुक्तं वादावल्यां ‘न आत्मा जगदारोपाधिष्टानम् । अविषयत्वात् । तद्विरुद्धतया प्रतीयमानत्वात्’ इति । तथा च आरोपः प्रातिभासिकः, मिथ्येति यावत् । इदानीमेव बाधाद् ब्रह्मणि प्रतीयमान-क्षणिकत्ववत् ॥ जगत् सत्यं बाधितारोपकत्वाद् आत्मवद् इति प्रयोगो ध्येयः॥ नन्वधिष्ठानचैतन्यस्यापि न सत्यत्वम् । येन तदात्मकत्वेनापि जगतः सत्यत्व-सिद्धिरित्यत आह अधिष्ठानान्तराभावादिति । सत्यभूतेत्युपस्कर्तव्यम् । तस्यापि मिथ्यात्वे अपसिद्धान्तो ऽनवस्था च । तत् ते मते न इत्यन्वयः ॥ ५५८,५५९ ॥
युक्तिमल्लिका
मायासृष्टिर्न नियता मन्त्रशक्त्यवसायतः ।
फणीकुर्यान्मणीकुर्यात्तृणीकुर्याच्च तत्पुनः ॥ ५६० ॥
अयं तु नियतारोपो रूप्यसर्पभ्रमादिवत् ।
उक्ता व्यवस्था तत्प्रार्थ्या सुस्थोऽनर्थस्ततस्तव ॥ ५६१ ॥
सुरोत्तमटीका
रजतसर्पादिभ्रमवज् जगद्भ्रमस्यापि व्यवस्थितभ्रमत्वात् प्रधानाधिष्ठानसादृश्यादिनियमः । मायासृष्टेस्त्वव्यवस्थितभ्रमत्वान्न तदपेक्षणम् । अतोऽपि नेयं मायासृष्टिरित्याह ॥ मायेति ॥ सा मायासृष्टिः । मन्त्रशक्ती-त्युपलक्षणम् । औषधशक्तिश्च ग्राह्या । तन् मायाविना प्रदर्शितमौषधादिकम् । फणीकुर्यात् पूर्वं सर्पत्वेन प्रदर्शयेत् । मणीकुर्यात् पुनस्तदेव मणित्वेन प्रदर्शयेत् । तृणीकुर्यात् तृणत्वेन प्रदर्शयेत् । एवमन्यदपि द्रष्टव्यम् । यत एवं मन्त्रौषध-बलोत्पन्नत्वेन एकत्रैव नानाप्रकारा । अतो मायासृष्टिर्न नियतेति पूर्वेणान्वयः । अतस्तत्र सादृश्यानपेक्षणं न दोषाय जगद्भ्रमस्तूक्तविधया परमते नियतत्वाद् अधिष्ठानसादृश्यादेव भवतीति भावः । एतेन जगत्सृष्टिर्न मायासृष्टिर् नियत-प्रतीतिकसृष्टित्वात् । घटादि सृष्टिवदिति मायासृष्ट्रत्वेनापि न मिथ्यात्वमिति सूचितम् ॥ ५६०,५६१ ॥
सत्यप्रमोदटीका
सार्वजनीनानुभवसिद्धं नियतप्रतीतिकत्वं मायासृष्टिपक्षे विरुध्यत इत्याह मायेति । फणीकुर्यात् सर्पत्वेन दर्शयेत् । एवमुत्तरत्रापि ॥ भ्रमेषु क्वचिन्नियतप्रतीतिकत्वं कुत्रचिदनियतप्रतीतिकत्वम् इत्यवान्तरविभाग-सद्भावेऽपि, प्रधानाधिष्ठानसादृश्यरूपसत्यत्रितयसापेक्षत्वनियमः सर्वभ्रम-साधारण इत्याह उक्ता व्यवस्थेति । तदुक्तं तत्त्वनिर्णये ‘मायामयी सृष्टिरपि तत्सदृशस्यान्यस्य विद्यमानत्व एव दृष्टा । द्रव्यत्वादिसादृश्ययुतं किञ्चि-दधिष्ठानमाश्रित्यैव च’ इति । अनर्थः सत्यत्रितयाङ्गीकाररूपः॥५६०,५६१॥
युक्तिमल्लिका
अधिष्ठानं प्रधानं च समसत्ताकमेव हि ।
दृश्यते रजतारोपे सर्पारोपादिकेषु च ॥ ५६२ ॥
सुरोत्तमटीका
प्रकारान्तरेणापि मिथ्यात्वमतेऽपि जगत्सत्यतां साध-यति ॥ अधिष्ठानमिति ॥ ५६२ ॥
सत्यप्रमोदटीका
सत्तात्रैविध्यवादेऽपि अधिष्ठानप्रधानयोः समसत्ताकत्वम् आरोप्यापेक्षयाऽधिकसत्ताकत्वं च क्लृप्तमित्याह अधिष्ठानमिति॥५६२ ॥
युक्तिमल्लिका
सदृशं च तदन्योऽन्यं नियतभ्रमसिद्धये ।
अत एव प्रधानं तदारोप्यादधिकं यतः ॥ ५६३ ॥
तद्बाधेऽपि न तद्बाधो दोषः काचादिरेव च ।
तथाविधो यतो दृष्टस्त्रितयं तद्भ्रमेऽपि सत् ॥ ५६४ ॥
इयं विभ्रममर्यादा स्वीकार्या लोकसंमता ।
दृष्टस्यास्य परित्यागे स्याददृष्टस्य कल्पना ॥ ५६५ ॥
सुरोत्तमटीका
तदधिष्ठानं प्रधानं च । तद् आपणस्थरजतादिकम् । तद्बाधे आरोपितरजतबाधे । न तद्बाधो ऽधिष्ठानप्रधानबाधो नेत्यर्थः । तथाविधो ऽधिष्ठानप्रधानसदृशः । आरोप्यमाणादधिकसत्ताकस् तद्बाधेऽप्य-बाध्य इत्यर्थः । त्रितयम् । अधिष्ठानप्रधानदोषाख्यं कारणत्रयम् ॥ ५६३–५६५ ॥
सत्यप्रमोदटीका
नियतेति । अनियतभ्रमेऽपि किञ्चित्सादृश्यमावश्यक-मिति पूर्वोक्ततत्त्वनिर्णयवाक्यादवधेयम् । अत एव आरोप्यापेक्षयाऽधिक-सत्ताकत्वादेव ॥
तद्बाधेऽपि आरोप्यस्य बाधेऽपि । तद्बाधो ऽधिष्ठानप्रधानयोर् बाधः । उक्तबाधाभावं भ्रमकारणदोषेऽप्यतिदिशति तथाविध इति । त्रितयमित्युप-लक्षणम् । अज्ञानं, बाधकज्ञानं, भ्रमः, द्रष्टा, देहेन्द्रियादिकं, दोषः, संस्कार इत्येतेषामपि सत्यत्वमावश्यकमिति ध्येयम् । अत्र विस्तरः न्यायामृते ‘मिथ्यात्वहेतूनां प्रतिकूलतर्काः’ इति भङ्गे (१/२५) ॥
भ्रमरूपकार्यं प्रति उक्तानां सत्यभूतानां कारणत्वेन तदनङ्गीकारे अकारणकार्योत्पत्तिरूपबाधकं स्यादित्याह इयं हीति । अदृष्टकल्पना अकारणकार्योत्पत्तिरूपा ॥ ५६३–५६५ ॥
युक्तिमल्लिका
तद्विश्वभ्रमसिद्ध्यर्थं प्रधानं जगदन्तरम् ।
अधिष्ठानब्रह्मसमसत्ताकं स्यादनिच्छतः ।
दोषोऽपि तादृक्कल्प्यस्स्यादुक्तो दोषो न चेद्भवेत् ॥ ५६६ ॥
सुरोत्तमटीका
तत् । तस्माद् अधिष्ठानप्रधानदोषाणां साम्यस्य भ्रममात्रे दृष्टत्वेन वैषम्यकरणायोगात् । न चेद् अस्य प्रमेयस्य परित्यागे । त्रयाणां मध्ये एकस्यैव पारमार्थिकत्वाङ्गीकार इत्यर्थः ॥ ५६६ ॥
सत्यप्रमोदटीका
अनिच्छतः ‘पिण्याकयाचनार्थं गतस्य खारीतैल-प्रदानप्रतिज्ञावत्’ इति वादावल्युक्तरीत्येत्यर्थः । तादृक् अधिष्ठानसमसत्ताकं पारमार्थिक इति यावत् । न चेद् उक्तसर्वेषां वा तेषामेकतमस्यापि वा सत्यत्वानङ्गीकारे ॥ ५६६ ॥
युक्तिमल्लिका
व्यावहार्यं प्रधानं चेदधिष्ठानं च तादृशम् ।
बलात्स्यात्सदृशे ते हि कुतो विसदृशे वद ॥ ५६७ ॥
अधिष्ठानान्तरं वाच्यमधिष्ठानभ्रमे यदि ।
तदा प्रधानभ्रान्तौ च स्यात्प्रधानान्तरं तव ॥ ५६८ ॥
सुरोत्तमटीका
नन्वङ्गीक्रियते प्रधानभूतं जगदन्तरम् । तदपि व्यावहारिकमेवेति चेत् । न । तस्याप्यारोपे पुनः प्रधानान्तरस्यापेक्षितत्वे-नानवस्थाप्रसङ्गात् । जगन्मिथ्यात्वस्याद्याप्यसिद्धत्वेनाप्रामाणिकानवस्थाया दोषत्वात् । तथापि चक्षुषीनिमील्य वदन्तं प्रत्याह ॥ व्यावहार्यमिति ॥ ५६७,५६८ ॥
सत्यप्रमोदटीका
ननु यदुक्तं भ्रमस्य सत्यप्रधानोपेतत्वं नियतमिति न तद्युक्तम् । तथा हि । न तावत्प्रधानं भ्रमे स्वरूपेणोपयुज्यते । अज्ञात-रजतस्यापि रजतारोपप्रसङ्गात् । नापि तज्ज्ञानम् । ज्ञानस्य चिरविनष्टस्य कारणत्वानुपपत्तेः । किन्तु तत्संस्कार एव । स च भ्रमेणाप्युपपद्यते । अतः प्रधानस्य व्यावहारिकसत्यत्वेऽपि भ्रमोपपत्तिरिति । तदेतत्प्रतिबन्द्या दूषयति अधिष्ठानं चेति । बलाद् व्याप्तिबलात् । हि यस्मात् । ते अधिष्ठानप्रधाने । सदृशे समसत्ताके इति व्याप्तिः । ननु अधिष्ठानस्य व्यावहारिकत्वं न युक्तम् । तथा सति आरोपार्थं तस्याप्यधिष्ठानान्तरं कल्पनीयं स्यात् । एवं तस्याप्येव-मित्यनवस्था स्यादिति चेत्समं प्रधानेऽपीत्याह तदेति मूलक्षतेरभावान्ना-नवस्थेति चेन्न प्रपञ्चभ्रमस्य अप्रमितत्वात् ॥ ५६७,५६८ ॥
युक्तिमल्लिका
पूर्वं पूर्वं प्रधानं चेत्कार्ये कार्ये ममापि हि ।
उपादानमधिष्ठानं तद्भागास्तस्य तस्य च ॥ ५६९ ॥
सुरोत्तमटीका
कार्ये कार्ये जगति । पूर्वं पूर्वम् अतीतमतीतं जगत् । प्रधानं चेदिति सम्बन्धः । तदुपादानं तत्तत्कार्योपादानं कपालादिकम् । तद्भागास् तस्य कपालस्य पूर्वपूर्वभागाः । तस्य तस्य उत्तरोत्तरकार्यस्य ॥ ५६९ ॥
सत्यप्रमोदटीका
पूर्वोत्तरप्रधानयोः कार्यकारणभाव उपेयते चेत् । तत्तत्कार्यस्य तत्तत्कारणमेवाधिष्ठानमिति अधिष्ठानेऽपि तथा स्यादित्याह उपादानमिति । भागा उपादानानि ॥ ५६९ ॥
युक्तिमल्लिका
इदमेव ह्यधिष्ठानं प्रतीतेरनुसारतः ।
न ब्रह्म नेह नानेति तत्र विश्वाप्रतीतितः ॥ ५७० ॥
सुरोत्तमटीका
प्रतीतेः स्वस्वोपादानाभिन्नतया तस्य तस्य कार्यस्य प्रतीतेः । ब्रह्म न घटाद्यारोपाधिष्ठानं न । तदात्मकतयाऽप्रतीतेः । न ह्ययं घट इत्युक्ते ब्रह्मघट इति वा ब्रह्मणि घट इति वा कोऽपि लोकः प्रत्येति । मम त्वयं घट इत्युक्ते एतत्कपालात्मको घट इति वा कपाले घट इति वाऽर्थः सर्वस्यापि संमतः । युक्त्यन्तरं चाह ॥ नेहेति ॥ तत्र ब्रह्मणि । लटा पराभिमतभ्रमकाल एव ब्रह्मणि जगदभावस्यैव व्युत्पन्नस्य प्रतीयमानत्वात् ॥ ५७० ॥
सत्यप्रमोदटीका
एवं सति अयं घट इति भ्रमप्रतीतिरपि अनुकूलिता स्यात् । नहि कोऽपि अयं घट इति उक्ते ब्रह्म घट इति वा ब्रह्मणिघट इति वा प्रत्येति । उपादानस्यैवाधिष्ठानत्वपक्षे तु कपालो घट इति वा कपाले घट इति प्रतीतिर् लोकसिद्धा सिद्धेत्याह इदमेवेति । ब्रह्मणि विश्वम् इति प्रतीतिस्तु नेह नानास्तीति श्रुत्यैव प्रतिषिद्धेत्याह नेति ॥ ५७० ॥
युक्तिमल्लिका
ब्रह्म वा व्यावहार्यं स्यादधिष्ठानं तदंशकः ।
तस्य स्युस्तत्तदंशाश्च तस्य तस्य प्रधानवत् ॥ ५७१ ॥
सुरोत्तमटीका
पराभिमताधिष्ठानस्यैव व्यावहारिकत्वं तदर्थं परंपरां चोपपादयति ॥ ब्रह्मेति ॥ ब्रह्म वा व्यावहार्यमधिष्ठानं स्यादिति सम्बन्धः । तदंशका ब्रह्मावयवाः । तस्य ब्रह्मणस्स्युः । आरोपाधिष्ठानम् । तत्तदंशास् तस्य तस्यांशस्यांशाः पूर्वपूर्वांशाः । तस्य तस्योत्तरोत्तरांशस्य । न च ब्रह्मणो निरंशत्वं वाच्यम् । सहस्रशीर्षेत्यादिना तस्यापि सांशत्वप्रतीतेः । स भगवः कस्मिन्प्रतिष्ठित इति स्वे महिम्नीति होवाचेति श्रुत्या स्वस्यैव स्वाधिष्ठानत्व-प्रतिपादनाच्च ॥ ५७१ ॥
सत्यप्रमोदटीका
पूर्वपूर्वब्रह्मांशा एव उत्तरोत्तरेषामधिष्ठानानि सन्तु इति रीत्यन्तरमाह तदंशक इति ॥ यद्यपि नायं परस्य पन्थाः, तथाऽपि युक्ति-रसिकतया प्रौढिवादेनात्र प्रस्ताव्यचर्चित इति ध्येयम् । यदि यः कोऽपि परः वैयात्यात् ‘सहस्रशीर्षा’ इति श्रुत्या सांशत्वं, ‘स भगवः कस्मिन् प्रतिष्ठितः स्वे महिमि्न’ इति श्रुत्या साधिष्ठानत्वं च परिकल्प्य एवं प्रत्यवतिष्ठेत तर्हि प्रधानस्यापि तथा स्यादिति पूर्वोक्तप्रतिबन्दीस्थिरीकरणार्थम् इति ज्ञातव्यम् ॥ ५७१ ॥
युक्तिमल्लिका
निरधिष्ठानता तु स्यात्सर्वथा तस्य वर्जने ।
अन्यथा निरधिष्ठानो भ्रमस्स्याद्रजतभ्रमः ॥ ५७२ ॥
अथवा जडमात्रस्य ब्रह्माधिष्ठानमस्तु ते ।
ब्रह्मणो जीव एवास्तु यत्सोऽहमिति ते भ्रमः ॥ ५७३ ॥
मिथो जीवैक्यवादे च जीवो जीवान्तरस्य भूः ।
एवं चानन्तजीवस्ते भूयासुर्भ्रमभूमयः ॥ ५७४ ॥
सुरोत्तमटीका
ननु कपालादीनां मिथ्यात्वात् कथमधिष्ठानत्वमित्यत आह ॥ निरधिष्ठानतेति ॥ तस्याधिष्ठानस्य । अन्यथा मिथ्याभूतस्याधिष्ठानत्वं न चेत् ॥ अधिष्ठानान्तरमप्याह ॥ मिथ इति ॥ जडानां जीवे आरोपः । जीवस्य तु जीवान्तरे । तस्य पुनर्जीवान्तरे । एवं वाऽधिष्ठानपरंपरा स्यादिति भावः । भ्रमभूमय आरोपाधिष्ठानानि ॥ ५७२–५७४ ॥
सत्यप्रमोदटीका
ननु उपादानानामेव अधिष्ठानत्वं न युक्तम् । तेषामपि मिथ्यात्वादिति चेन्नायमस्ति तव नियमः यत् सत्यस्यैवाधिष्ठानत्वमिति । मिथ्याभूतानामेव रज्जुशुक्तिकादीनाम् अधिष्ठानत्वाभ्युपगतेः । प्रत्युत त्वन्मते सत्यस्य ब्रह्मण एव ज्ञानाविषयत्वात् सामान्यतो ज्ञातत्वविशेषतोऽज्ञातत्वादि-धर्मशून्यत्वाद् अधिष्ठानत्वं दुर्घटमित्याह अन्यथेति ॥
पक्षान्तरमुट्टङ्कयति अथवेति ॥ जडमात्रस्येति । मात्रशब्देन जीवानां व्यवच्छेदः । जीव एवास्तु इत्यनन्तरम् अधिष्ठानमित्यनुकर्षः । तथाच जीवस्य ब्रह्माहम् इति प्रतीतिरुपपन्ना सम्पद्यते । ननु जीवस्य मिथ्यात्वेन अधिष्ठा-नान्तरं वाच्यम् इति चेत्सत्यम् । जीवान्तरस्य तथाभावोऽस्तु । नन्वेवं चैत्रे मैत्रस्यारोपितत्वे चैत्रस्य अहं मैत्र इति धीः स्यादिति चेत् स्यादेव मिथो जीवैक्यवादे इत्याह जीव इति । भूर् अधिष्ठानम् । भूमयो ऽधिष्ठानानि ॥ ५७२–५७४ ॥
युक्तिमल्लिका
यदि भीर्ब्रह्महत्याया भीतो भव जगत्क्षयात् ।
अब्रह्मवादितापीष्टा तव भाट्टानुसारिणः ॥ ५७५ ॥
सुरोत्तमटीका
उभयोरपि दोषत्वं स्फोरयितुं ब्रह्महत्याया जगत्क्षया-दित्युक्तम् । भाट्टानुसारिणः निरीश्वरभाट्टानुसारिणः ॥ ५७५ ॥
सत्यप्रमोदटीका
ननु ब्रह्मण आरोपितत्वोक्तौ तद्धत्यादोष इति चेन्मा भैषीः । शशविषाणवदप्रामाणिकस्य तव ब्रह्मणो हत्याया एवाभावात् । प्रत्युत प्रमितस्य जगतो मिथ्यात्वोक्तौ जगद्धत्यादोषस्तु वज्रलेप इत्याह यदीति । भाट्टमतानुसारिणः । ‘व्यवहारे भट्टनयः’ इति अङ्गीकुर्वतः निरीश्वरभाट्ट-पृष्ठलम्बिनः ॥ ५७५ ॥
युक्तिमल्लिका
ब्रह्मवादा जगद्वादैस्सह यान्तु वनान्तरम् ।
प्रकारद्वयतो लघ्वी सर्वत्रैकप्रकारता ॥ ५७६ ॥
सुरोत्तमटीका
ब्रह्मसत्यतावादस्य का गतिरित्यत आह ॥ ब्रह्मवादा इति ॥ प्रकारद्वयतः ब्रह्मणस्सत्यत्वं जगतो मिथ्यात्वमिति प्रकारद्वयात् । सर्वत्र ब्रह्मणि जगति च । एकप्रकारता मिथ्यात्वम् ॥ ५७६ ॥
सत्यप्रमोदटीका
वनान्तरं शून्यवादरूपमतान्तरानुसारेण निषेधविषय-ताम् । एकप्रकारता सर्वं मिथ्या इत्येवंरूपा ॥ ५७६ ॥
युक्तिमल्लिका
लोके सत्तासाम्यदृष्टेरधिष्ठानप्रधानयोः ।
कल्प्यमेतत्समस्तं च विपरीते विपर्ययः ॥ ५७७ ॥
सुरोत्तमटीका
कुत एवमधिष्ठानपरंपराकल्पनमित्यत आह ॥ लोक इति ॥ अधिष्ठानप्रधानयोस्सत्तासाम्यदृष्टेरिति सम्बन्धः । एतत्समस्तं प्रधान-परम्परावद् अधिष्ठान पारम्पर्यम् । विपरीते अधिष्ठानस्य सत्यत्वेन परम्परा-नपेक्षणे । विपर्ययः जगतोऽपि तदनपेक्षणमित्यर्थः । अप्रामाणिकप्रधान-परम्परामादाय जगतो मिथ्यात्वकल्पने ब्रह्मणोप्यधिष्ठानपरम्परामादाय मिथ्यात्वं कल्प्यते । उभयोरपि सत्तासाम्यस्य लोके दृष्टत्वात् । सत्यत्वेतु द्वयोरपि सत्यत्वं स्यात् । वैषम्यकथनेऽदृष्टकल्पनेति भावः ॥ ५७७ ॥
सत्यप्रमोदटीका
‘कल्पनाया आरोप्यसदृशसत्याधिष्ठानप्रदानपूर्वकत्वं व्यापकम् । तच्चात्र नास्ति । इति व्याप्यकल्पनाऽपि नास्ति’ इति वादावल्युक्तमनुरुध्य निगमयति लोक इति ॥ ५७७,५७८ ॥
युक्तिमल्लिका
आरोप्यमाणादधिकसत्ताकत्वं यतस्त्रिषु ।
लोकसिद्धं भ्रमे व्याप्तं तदभावे तु न भ्रमः ।
व्यापकस्य निवृत्तौ च किं स्याद्व्याप्यस्य वर्तनम् ॥ ५७८ ॥
सुरोत्तमटीका
एतदेव विशदयति ॥ आरोप्यमाणादिति ॥ त्रिषु अधिष्ठानप्रधानदोषेषु । ननु लोकेऽपि प्रधानादीनां व्यावहारिकत्वमेव मम मते तन्त्रं नत्वारोप्यमाणादधिकसत्ताकत्वमिति चेत् तर्ह्यधिष्ठानशुक्तिशकलादेरपि तदेव तव मते तन्त्रमिति जगदारोपाधिष्ठानं ब्रह्मापि व्यावहार्यं स्यात् । तत्राप्यधिष्ठानपरंपरासौलभ्यं तूक्तमेव । यदिचाधिष्ठानभूतब्रह्मणः पारमार्थ्या-याधिष्ठानमात्रे व्यावहारिकत्वमात्रं नालम् । किंत्वारोप्यमाणादधिकसत्ताकत्व-मेव प्रयोजकमिति वदसि । तर्हि प्रधानादावपि तदेव तन्त्रं स्यात् । वैषम्य-करणे कारणाभावादिति भावेनोक्तम् आरोप्यमाणादधिकसत्ताकत्वं यतस्त्रिष्विति ॥ ५७८ ॥
युक्तिमल्लिका
किञ्च दोषोऽपि कोऽत्र स्यादिति चिन्त्यं विवेकिभिः ॥ ५७९ ॥
सुरोत्तमटीका
अपि च दोषेणैव भ्रमो न स्वत इत्यप्रामाण्यपरतस्त्व-वादिनः परस्यापि संमतम् । दोषश्च जगद्भ्रमे परमतेऽविद्यैव । तस्याश्च दोषत्वं विचार्यमाणे न युक्तिसहम् । एवं च दोषामूलज्ञानविषयत्वादपि जगत-स्सत्यत्वमेव न्याय्यमित्याह ॥ किञ्चेति ॥ अत्र जगद्भ्रमे ॥ ५७९ ॥
युक्तिमल्लिका
अविद्यमानमेवार्थं भ्रमकाले तु यस्स्थिरः ।
प्रदर्शयति लोकस्य स दोष इति गीयते ।
करणेषु यथा काचो यथाऽर्थेष्वतिदूरता ॥ ५८० ॥
सत्यप्रमोदटीका
दोषानुसन्धानरूपकारणाभावान्न जगज्ज्ञानं भ्रम इति समर्थयितुं दोषस्वरूपं निर्धारयति अविद्यमानमिति । यत्सद्भावे करणाभि-मतं विपरीतं ज्ञानं जनयति स दोष इत्युक्तं भवति । काच इत्युपलक्षणम् । अनुमाने असिद्ध्यादिः । शब्दे ज्ञातज्ञापकत्वादिः । एवम् अतिदूरतेत्युपलक्षणम् । अनुमागमयोः प्रमाणविरुद्धत्वादिर् इत्यवगन्तव्यम् ॥ ५८० ॥
युक्तिमल्लिका
उपादानं तवाज्ञानं तन्तुवत्कार्यकारकम् ।
भ्रमकाले तु यन्नश्येत्कं पश्येत्तस्य दोषताम् ॥ ५८१ ॥
सुरोत्तमटीका
दोषलक्षणमाह ॥ अविद्यमानमिति ॥ उपादानं जगदुपादानम् । एवं च प्रागविद्यमानस्य जगतस्सत्ता सम्बन्धाख्यो-त्पत्तिहेतुत्वाद् भ्रमकालेऽविद्यमानार्थदर्शयितृत्वाख्यदोषलक्षणमविद्यायां न घटत इति भावः । अत एव भ्रमोपादानत्वेऽपि मनस इव न दोषता । भ्रमकाले स्थिरत्वाभावाच्च न दोषत्वमित्याह ॥ भ्रमकाल इति ॥ घटपटादिभ्रमकाल इत्यर्थः । यदज्ञानम्
॥ ५८१ ॥
सत्यप्रमोदटीका
एवं च भ्रमे परस्य अविद्यैव दोष इष्टः । न च तथा सम्भवति । अज्ञानस्य प्रपञ्चोपादानत्वाभ्युपगमान् न तस्य प्रपञ्चभ्रमं प्रति निमित्तकारणभूतदोषत्वम् । भ्रमे निमित्तकारणं च तदुच्यते यत्सद्भाव एव भ्रमरूपकार्योत्पत्तिर् यन्निवृत्तौ च तद्ध्वंसः । अज्ञाने तु न तदुभयमस्ति । किन्तु वैपरीत्यमेवेत्याह भ्रमकाल इति ॥ ५८१,५८२ ॥
युक्तिमल्लिका
यत्प्रवृत्तौ भ्रमस्यापि प्रवृत्तिस्स्यात्पदे पदे ।
यन्निवृत्तौ निवृत्तिश्च भ्रमस्य स हि पण्डितैः ॥ ५८२ ॥
दोष इत्युच्यतेऽनीदृगज्ञानं ते जगत्त्रये ।
कथं दोषो भवेत्पश्य प्रतिकर्मव्यवस्थितिम् ।
न चेत्तन्तुः पटे दोषो मृद्दोषो मृण्मये भवेत् ॥ ५८३ ॥
सुरोत्तमटीका
ननु भ्रमकाले स्थिरत्वाभावे कुतो न दोषत्वमित्यत आह ॥ यत्प्रवृत्ताविति ॥ यस्य दोषस्य प्रवृत्तौ संपत्तावित्यर्थः । तेऽज्ञानम् । जगत्त्रये अनीदृक् भ्रमकाले सम्पत्तिमन् न । किन्तु भ्रमकाले निवृत्तिमदेव । अतो भ्रमानुपयोगिनस्तस्य कथं दोषत्वमिति भावः । ननु भ्रमकालेऽज्ञानस्य कुतो नाश इत्यत आह ॥ पश्येति ॥ प्रतिकर्मव्यवस्थितिं घटवृत्या घटाधिष्ठानचैतन्यावरकाज्ञाननिवृत्तौ सत्यां तच्चैतन्यं तस्य घटस्य मानमिति या विषयव्यवस्थापिका प्रक्रिया तामित्यर्थः । कर्मपदस्य विषयवाचित्वात् । अत्र ह्यविद्यानिवृत्त्युत्तरकाल एव भ्रम इति स्पष्टं प्रतीयते । तस्मान्नानुक्तोपालम्भ इति भावः । न चेद् उपादानस्य दोषत्वाभावो न चेत् ॥ ५८२,५८३ ॥
सत्यप्रमोदटीका
प्रतिकर्मव्यवस्थितिम् । यदिन्द्रियनिर्गतान्तःकरण-परिणतया वृत्त्या यदवच्छिन्नचैतन्यावरकमज्ञानं यदा निवर्तते स एव तदानी-मेव तं प्रत्येव विषय इत्येवंरूपाम् । तदुपादानस्यापि तद्भ्रमं प्रति दोषत्वाङ्गीकारे अतिप्रसङ्गमाह न चेदिति॥ ५८३ ॥
युक्तिमल्लिका
किञ्च कुड््येन वस्त्रेण तमसा वाऽऽवृते घटे ।
ज्ञानमात्रनिरोधेन न प्रमा नापि चाप्रमा ॥ ५८४ ॥
सुरोत्तमटीका
आवरणत्वेचाज्ञानस्य भ्रमप्रमारूपज्ञानमात्रप्रतिबन्ध-कत्वमेव न्याय्यम् । भ्रमहेतुत्वरूपदोषत्वं कथं स्यादित्याह ॥ किञ्चेति
॥ ५८४ ॥
सत्यप्रमोदटीका
आवरणाभिमतं भावरूपाज्ञानं ज्ञानसामान्योत्पत्ति-प्रतिबन्धकं ज्ञानविशेषभ्रमहेतुरिति परोक्तिर् महोन्मादविलास इत्याह किञ्चेति । कुड््यं व्यवहितमावरणं, वस्त्रं सम्बद्धं, तमः सत्यपि सन्निकर्षे ज्ञानोत्पत्ति-विघटकमिति विवेकः । कार्यानुत्पादप्रयोजकत्वं सर्वथा प्रतिबन्धकसामान्य-लक्षणम् । तथा च ज्ञानसामान्योत्पत्तिप्रतिबन्धकं ज्ञानविशेषभ्रमहेतुश्चेति सुस्फुटो व्याघातः
॥ ५८४,५८५ ॥
युक्तिमल्लिका
तस्मादावरणाज्ञानं स्याज्ज्ञानप्रतिबन्धकम् ।
भ्रमहेतुः कथं दोषो भावाज्ञानमिदं वद ॥ ५८५ ॥
सुरोत्तमटीका
तस्माद् आवरणस्य ज्ञानमात्रप्रतिबन्धकत्वदर्शनात् । भावाज्ञानं भावरूपाज्ञानम् । ज्ञानप्रागभावरूपस्याज्ञानस्य ज्ञानहेतुत्व-दर्शनाद्भावेत्युक्तम् ॥ ५८५ ॥
युक्तिमल्लिका
तददोषस्य दोषत्वभ्रमो यस्तव चेतसि ।
तत्र दोषो भवेच्छब्दभावाज्ञानं परं तव ॥ ५८६ ॥
सुरोत्तमटीका
तत् तस्माद् उक्तविधयाऽज्ञानस्य दोषत्वायोगात् । तत्र अदोषाज्ञानस्य दोषत्वभ्रमे । शब्दभावाज्ञानम् आवरणशब्दस्वभावाज्ञानम्
॥ ५८६ ॥
सत्यप्रमोदटीका
अपहसति तदिति तस्मादित्यर्थः । अदोषस्य भ्रमोत्पत्तिप्रतिबन्धकस्य दोषत्वभ्रमः भ्रमोत्पत्तिहेतुत्वभ्रमः । यस्य मायिनः । शब्दभाव आवरणरूपशब्दस्य यथार्थोऽभिप्रायः । तदज्ञानं, तद्विषयक-विपरीतज्ञानम् ॥ ५८६ ॥
युक्तिमल्लिका
तस्माद्योग्यप्रधानादेरभावान्न जगन्मृषा ॥ ५८७ ॥
सुरोत्तमटीका
उपसंहरति ॥ तस्मादिति ॥ आदिपदेनाधिष्ठानं दोषश्च गृह्यते ॥ ५८७ ॥
सत्यप्रमोदटीका
तस्माद् व्यापकाभावात् । व्याप्यं जगन्मृषात्वं भ्रान्तिकल्पितत्वमपि न ॥ ५८७ ॥
युक्तिमल्लिका
अतीतकल्पेऽतीतं यत्प्रधानं तज्जगत्तव ।
तत्संस्कारेण चेदानीमारोप्यन्ते घटादयः ।
इति वाच्यं नष्टदृष्टेरदृष्टत्वाद्भ्रमान्तरे ॥ ५८८ ॥
सुरोत्तमटीका
युक्तयन्तरेणापि प्राचीनजगतः प्रधानत्वं दूषयति ॥ अतीतेति ॥ प्राचीनजगतःप्रधानत्वं वदता तत्स्मृतिजन्य एवायं भ्रमो वक्तव्यो नतु तदनुभवजन्यः । कल्पान्तरे नष्टस्य तस्यास्मिन्कल्पे द्रष्टुमशक्यत्वादित्याह ॥ तत्संस्कारेणेति ॥ तस्य प्राचीनजगतः संस्कारेण संस्कारजन्यस्मृत्येत्यर्थः । इदानीमस्मिन्कल्पे । नष्टदृष्टेर् नष्टप्राचीनकल्पीयजगद्दृष्टेः । भ्रमान्तरे कल्पान्तर- भ्रमे । एतत्कल्पीयभ्रम इति यावत् । अदृष्टत्वाद् अदर्शनात् । अयुक्तत्वा-दित्यर्थः ॥ ५८८ ॥
सत्यप्रमोदटीका
‘पूर्वपूर्वप्रधानारोपस्य उत्तरोत्तरप्रपञ्चारोपे प्रधान-त्वादिति चेन्न असत्त्वात्’ इति वादावल्युक्तं समर्थयते अतीतेति । एवं वदता कल्पादिकालीनभ्रमस्य पूर्वकल्पीयप्रधानसंस्कारः कारणं वाच्यम् इत्याह तत्संस्कारेणेति ॥ तत्र हेतुर् नष्टदृष्टेरिति । भ्रमान्तरे अनुभूयमानारोपस्थले सर्वत्र । नष्टदृष्टेर् नष्टपदार्थदर्शनस्य । अदृष्टेः सन्निकर्षायोगेनासम्भवात् ॥ ५८८ ॥
युक्तिमल्लिका
यतोऽनुभूयमानस्यैवारोपोऽयमभून्न ते ।
भ्रमोऽन्योऽयं प्रधानस्य संस्कारोद्बोधजो ध्रुवम् ॥ ५८९ ॥
सुरोत्तमटीका
अयमिदानींतनजगदारोपः । ततो ऽयं भ्रमोऽन्यो ऽनुभूयमानारोपादन्यः । कस्तर्हीत्यत आह ॥ प्रधानस्येति ॥ स्मर्यमाणारोप इत्यर्थः ॥ ५८९ ॥
सत्यप्रमोदटीका
गृह्यमाणारोपस्थले प्रधानस्य विद्यमानताया नियत-त्वात्, प्रकृते च तदसम्भवाद् अयं प्रपञ्चभ्रमः गृह्यमाणारोपादन्यः स्मर्यमाणारोप इत्येव वाच्यं गत्यन्तराभावादित्याह ध्रुवमिति ॥ ५८९ ॥
युक्तिमल्लिका
भ्रमहेतुस्स संस्कारो यदि जीवेषु जृंभते ।
जातिस्मरत्वसिद्ध्यर्थं तपांस्यासंस्तदा वृथा ॥ ५९० ॥
सुरोत्तमटीका
सः कल्पान्तरातीतजगद्विषयकः जृम्भते अस्मिन्काले उद्बुध्यते । तदा कल्पान्तरीयसकलसंस्काराणामस्मिन्कल्पे उद्बोधे । कल्पान्तरीयजगतः प्रधानत्वम् अनुभूयमानारोपस्थलीयरजतादिवदपि न घटते । चिरकालविनष्टस्येदानीं चक्षुषाऽनुभवायोगात् । नापि स्मर्यमाणारोप-स्थलीयापणस्थरजतादिवत् । जन्मान्तरीयस्मरणेप्यसमर्थानां जीवानां कल्पान्तरीयजगत्स्मरणे सुतरामसामर्थ्यात् । अतो द्वेधाऽपि न तस्य प्रधानत्व-मिति भावः ॥ ५९० ॥
सत्यप्रमोदटीका
अस्तु तथेति चेत्तत्रातिप्रसङ्गमाह जातिस्मरत्वेति । ‘हर्यर्चनानुभावेन यद्गजत्वेऽप्यनुस्मृतिः’ इति जन्मान्तरस्मरणार्थं गजेन्द्रस्य तपः, तथा ‘एवं पुरा धारणयाऽत्मयोनिर् नष्टां स्मृतिं प्रत्यवरुह्य तुष्यन् । तथा ससर्जेदममोघदृष्टिर्यथाऽप्ययात्प्राग्व्यवसायबुद्धिः’ इति चतुर्मुखस्य तप इत्येवं तपांसि तैस्तैः कृतानि तपांसि, निरर्थकानि स्युः । त्वद्रीत्या सर्वेषां जीवानां पूर्वकल्पीयस्य इदानीन्तनारोपं प्रति प्रधानस्य स्मरणस्य स्वत एव सिद्धेरित्याह वृथेति
॥ ५९० ॥
युक्तिमल्लिका
संस्काराधारमनसोऽसत्त्वाच्च न स वर्तते ।
घटावच्छिन्नचैतन्ये तत्संस्कारात्कथं भ्रमः ॥ ५९१ ॥
सुरोत्तमटीका
प्रकारान्तरेणापि प्रधानस्मरणासम्भवमुपपादयति ॥ संस्कारेति ॥ सः संस्कारः । तत् तस्मात् । संस्काराधारत्वं मनस एवेति संमतम् । घटावच्छिन्नचैतन्यस्य च देहाभावान्न मनोऽप्यस्ति । तदेव च परमते भ्रमः । अतः कथमसौ भ्रमः । स्मर्यमाणारोप इति भावः ॥ ५९१ ॥
सत्यप्रमोदटीका
असत्त्वात् प्रलयेऽभावात् । सः संस्कारः । न वर्तते निराधारस्यावस्थानायोगादिति भावः ॥ ५९१ ॥
युक्तिमल्लिका
ज्ञानोपादानमनसस्संस्काराधारतोचिता ।
अन्यत्रानुभवोऽन्यत्र संस्कार इति को वदेत् ॥ ५९२ ॥
सुरोत्तमटीका
ननु मनस एव संस्काराधारत्वं कुत इत्यत आह ॥ ज्ञानेति ॥ ५९२ ॥
सत्यप्रमोदटीका
ज्ञानोपादानेति ‘ह्रीर्धीर्भीः सर्वं मन एवे’ति श्रुतेः । उचिता उपादानोपादेययोः समानाश्रितत्वनियमात् । नियमानङ्गीकारेऽति-प्रसङ्गमाह अन्यत्रेति ॥ ५९२ ॥
युक्तिमल्लिका
तत्संस्काराद्ययोगेन संस्कारस्य तिरस्कृतेः ।
दोषस्य दूषणाच्चैव सत्यमासीज्जगत्त्रयम् ॥ ५९३ ॥
सुरोत्तमटीका
उपसंहरति ॥ तदिति ॥ तत् तस्माद् उक्तन्यायात् । संस्कारस्य तिरस्कृतेर् निराकरणात् । दोषस्य दूषणात् । चशब्दे- नाधिष्ठानखण्डनाच्च । संस्काराद्ययोगेन प्रधानसंस्काराधिष्ठानदोषाणामयोगेन जगत्त्रयं सत्यमासीदिति योजना ॥ ५९३ ॥
सत्यप्रमोदटीका
तत् तस्मात् । संस्कारादीत्यादिपदेन प्रधानाधिष्ठान-सादृश्यादिग्रहणम् । तिरस्कृतेश् चैतन्याश्रितत्वस्येति शेषः । दोषस्य अज्ञानस्य । दूषणाद् आवरणाभिमतस्य ज्ञानकारणत्वानुपपत्तिव्युत्पादनेनेति भावः ॥५९३॥
युक्तिमल्लिका
विमतोऽयं प्रपञ्चस्तदनारोपित एव हि ।
आरोपहेतुशून्यत्वाद्यथा ब्रह्मेति साध्यते ॥ ५९४ ॥
सुरोत्तमटीका
एवं चेदमनुमानं सिद्धमित्याह ॥ विमत इति ॥तत् तस्माद् उक्तन्यायेनोपपादितादारोपहेतुशून्यत्वादिति सम्बन्धः॥५९४ ॥
सत्यप्रमोदटीका
एवम् असिद्धेर् अप्रयोजकतायाश्च परिहृतत्वेन सिद्ध-मनुमानमाह विमत इति ॥ ५९४ ॥
युक्तिमल्लिका
दृष्टानुसारवैरूप्ये नष्टारोपकथा वृथा ।
इत्यारोपलतामूलं सिक्तमुष्णेन वारिणा ॥ ५९५ ॥
सुरोत्तमटीका
लोकसिद्धारोपकारणाभावेप्ययमारोपो भवतु को दोष इत्यत आह ॥ दृष्टेति ॥ आरोपकथा आरोपस्य कथा । जल्पकथादावारोप-साधनायानुमाननिरूपणमित्यर्थः । दृष्टानुसारं त्यजतः स्वानुमानेऽपि शुक्ति-रूप्यवदित्यादिदृष्टान्तस्यापि वक्तुमशक्यत्वात् कथायामनधिकार एव स्यादिति भावः । इति पूर्वोक्तप्रकारेण ॥ ५९५ ॥
सत्यप्रमोदटीका
दृष्टानुसारवैरूप्ये शुक्तिरूप्यभ्रमे दृष्टो यः प्रकारः सत्याधिष्ठानप्रधानसादृश्यादिपूर्वकत्वं तदपलापेन, प्रपञ्चारोपसाधनायानुमान-प्रयोगे । त्वदुक्तानुमानेष्वपि व्याप्तिपक्षधर्मतयोरपि दृष्टानुसारेणैव वक्तव्यतया तयोरेवासिद्धेर् आरोपसाधनाय त्वया प्रवर्तिता कथा वृथा निष्प्रयोजना ॥ लता आरोपसाधनाय प्रयुक्ता युक्तिः । उष्णेन वारिणा अनुमांगवैकल्यरूपदोषेण । सिक्ता आभासतां नीता । यद्वा दृष्टः, कथाहेतुर् यः, प्रमाणैः साधनीयं तर्कैश्च दूषणीयम् इत्येवं प्रकारः, तदनुसरणवैरूप्याज् जगदारोपकथने तदन्तः-पातिप्रमाणानामपि मिथ्यात्वेनासाधकत्वप्राप्त्या, नष्टारोपकथा नष्टानां ‘त आसुराः स्वयं नष्टा जगतः क्षयकारिण’ इति गीतोक्तदिशा आसुरस्वभावानां मायावादिनां कथा वृथा कथकत्वमेव न सम्भवति । इति हेतोर् आरोपलताया मूलं साधकत्वम् उष्णेन वारिणा सिक्ता वन्ध्यासुतवचस इव साधनबाधनाक्षमतां प्राप्ता । तदुक्तम् अनुव्याख्याने ‘अनङ्गीकुर्वतां विश्वसत्यतां तन्न वादिता’ इति ॥ ५९५ ॥
युक्तिमल्लिका
आरोपयोग्याधिष्ठानशून्यत्वात्परमार्थसत् ।
ब्रह्मवज्जगदेतत्स्यादिति सर्वं समञ्जसम् ॥ ५९६ ॥
सुरोत्तमटीका
आरोपहेतुशून्यत्वादित्यत्र प्रधानशून्यत्वाद्दोषशून्यत्वा-दधिष्ठानशून्यत्वादिति हेतुत्रयं सूचयितुम् अधिष्ठानशून्यत्वमात्रेणापि जग-त्सत्यतां साधयति ॥ आरोपेति ॥ अधिष्ठानशून्यत्वस्यास्मिन्नेव ग्रन्थे समर्थितत्वादस्यैवानुमानस्योदाहरणम् ॥ ५९६ ॥
सत्यप्रमोदटीका
अधिष्ठानशून्यत्वादित्युपलक्षणम् । प्रधानशून्यत्वात् सादृश्यशून्यत्वाद् इत्यादिकं प्रत्येकं प्रयोक्तव्यम् । शुक्तिरूप्यादिकं व्यतिरेक-दृष्टान्तः ॥ ५९६ ॥
युक्तिमल्लिका
दृष्टानुसारवैरूप्ये सत्यं जगदभून्मम ।
दृष्टानुसारसारूप्ये सत्यं जगदभून्मम ॥ ५९७ ॥
सुरोत्तमटीका
एवं चोभयतः पाशारज्जुरपि परस्य गलं बध्नातीत्याह ॥ दृष्टानुसारेति ॥ दृष्टानुसारवैरूप्ये भ्रममात्रे दृष्टकारणत्रयवैपरीत्ये परेणाङ्गीकृते सत्यत्ववादिनाऽपि शुक्तिरजतादौ मिथ्यात्वेन सह दृष्टदृश्यत्वस्यापि जगति सत्यत्वेन सहदर्शनाख्यवैपरीत्यस्य वक्तुं शक्यत्वेन सत्यं जगदभूदिति सम्बन्धः । द्वितीयपक्षेऽप्यारोप्यमाणाधिकसत्ताकद्रष्टृदेहेन्द्रियगेहभूम्यादीनां दर्शनेन जगद्भ्रमेऽपि तत्सारूप्यावश्यम्भावेन देहगेहादिजगतस्सत्त्वसिद्धेरिति भावः ॥ ५९७ ॥
सत्यप्रमोदटीका
वैरूप्ये सत्यत्वसिद्धिप्रकार उक्तः । सारूप्ये लोके अधिष्ठान, प्रधान, सादृश्य, दोष, देहेन्द्रिय, बाधकज्ञानसंस्कारभ्रमादीनाम् आरोप्यादधिकसत्ताकत्वस्वैव दृष्टत्वेन तेषां, तत्समानन्यायेन जगतः, सत्यत्व-सिद्धिरित्युभयतः पाशारज्जुः परस्येत्याह दृष्टेति ॥ ५९७ ॥
युक्तिमल्लिका
घटोऽहमिति न भ्रान्तिरनानुभविकत्वतः ।
घटोऽयमिति चेद्भ्रान्तिस्स्वस्मिन्नासौ घटभ्रमः ॥ ५९८ ॥
स्वस्याहंत्वेन भास्यत्वनियमादावयोर्मते ।
अन्यत्र नैक्यभ्रान्तिस्सा तद्भेदस्य स्फुटत्वतः ॥ ५९९ ॥
सुरोत्तमटीका
असौ अयमित्याकारकः । स्वस्मिन्न स्वस्मिन्नय-मित्युल्लेखस्याप्यनानुभविकत्वादित्यर्थः । उभयत्राप्यनानुभविकत्वस्यैव दूषण-त्वाद् इयमप्युभयतः पाशारज्जुः । तदेव दर्शयति ॥ स्वस्येति ॥ प्रमेयस्य प्रागुपपादितत्वेऽपि सङ्गृह्य कथनार्थं किञ्चिद्विशेषकथनार्थं च पुनरारम्भः । सा अयं घट इति प्रतीतिः । अन्यत्र चैतन्यादन्यत्र देशकालादौ । तद्भेदस्य देशकालादिभेदस्य । ऐक्याविषयत्वेच न भ्रान्तिः । धर्म्यारोपस्य धर्म्यन्तरा-भेदविषयत्वनियमादिति भावः ॥ ५९८,५९९ ॥
सत्यप्रमोदटीका
प्रतीतेः स्वरूपं त्रेधा विविच्य सर्वथा तस्या भ्रान्तित्वं दुर्घटमित्याह घट इति । घटोऽहमिति प्रतीतिरनुभवपराहता । अयं घट इति प्रतीतिस्तु अधिष्ठानचैतन्यमनुल्लिखन्ती न चैतन्ये घटस्यारोपितत्वे प्रमाण-मित्याह स्वस्मिन्निति । असौ अयं घट इत्याकारकः । स्वस्मिन् चैतन्ये ॥
चैतन्यस्य अहंशब्देनैवोल्लेख उभयवादसिद्ध इत्याह स्वस्येति । अत इदंशब्दो देशकालावेवोल्लिखति न चैतन्यम् । अन्यत्र देशकालयोः । स्फुट-त्वतः भ्रमकाल एव प्रतीयमानत्वात् । तथात्वेऽपि भ्रमत्वे भ्रमस्यानिवृत्ति-प्रसङ्गः ॥ ५९८,५९९ ॥
युक्तिमल्लिका
अन्यत्र सत्त्वमर्थश्चेन्न भ्रान्तिस्सा प्रमैव हि ।
अभ्रान्तिसिद्धा सत्ता स्यात्स्वस्मिन्नेव घटस्य हि ॥ ६०० ॥
सुरोत्तमटीका
अन्यत्र देशकालादौ । सत्त्वमेवार्थः प्रतीतेर्विषयः । अभेदोल्लेखित्वं माऽस्त्विति भावः । मम मते अधिष्ठानादन्यत्र सत्त्वं नास्त्ये-वातः सोऽपि भ्रम एवेत्यत आह ॥ अभ्रान्तीति ॥ स्वस्मिन्नधिष्ठानचैतन्ये । अस्ति तावदधिष्ठानचैतन्ये घटः । तस्य चोक्तविधया त्रेधाऽपि भ्रान्त्य-योगेनाभ्रान्तिसिद्ध एव स घटोऽभूदिति भावः ॥ ६०० ॥
सत्यप्रमोदटीका
अतः ‘अयं घट’ इति प्रतीतिर् देशकालयोः सत्तामेव घटस्योल्लिखति । सा च प्रमैवेत्याह अन्यत्रेति । चैतन्ये घट इति प्रतीतिरपि सामानाधिकरण्यस्याभावेन न धर्म्यारोपविषयिणी ॥ ६०० ॥
युक्तिमल्लिका
अहमर्थे ह्यधिष्ठाने यतो नायमिति भ्रमः ।
अयं घट इति भ्रान्तिः कथं तामुल्लिखेत्ततः ॥ ६०१ ॥
घटोऽयमिति वृत्तिश्चेद्दृश्याध्यासो गतो दृशि ।
नीरूपब्रह्मणश्चक्षुर्वृत्तौ भानविरोधतः ॥ ६०२ ॥
अधिष्ठानब्रह्मघटभ्रमरूपा न साऽप्यभूत् ।
घटावच्छिन्नमप्यभ्रं चक्षुषा न हि दृश्यते ॥ ६०३ ॥
सुरोत्तमटीका
अस्तु वा धर्म्यन्तरस्य घटादेस्स्वनिष्ठ(घटा)तदभेद-विषयिणी अधिष्ठानचैतन्यरूपैवायं घट इति भ्रान्तिः । तथापि स्वानुल्लेखित्वेन पराभिमतस्य स्वस्मिन्नारोपितत्वस्य नेयं साधिकेत्याह ॥ अहमर्थ इति ॥ अहमर्थे अहमित्येवोल्लिख्यमानार्थे । ततो ऽधिष्ठान अयमित्युल्लेखायोगात् । ताम् अधिष्ठानचितम् । अधिष्ठानदृग्रूपभ्रान्तिर् अधिष्ठानदृग्रूपा स्वस्मिन्घट-भ्रान्तिः । अधिष्ठानोल्लेखशून्यत्वाच्च नायं चिति घटभ्रम इति भावः । इदमभिनवं दूषणम् । उत्तरं तु श्लोकद्वयं व्याख्यातप्रायम् ॥ ६०१६०३ ॥
सत्यप्रमोदटीका
अयमिति प्रतीतौ चैतन्यस्योल्लेखो नास्त्येवेत्याह कथमिति ॥ वृत्तिरेवायं घट इत्येवमाकारा चैतन्यघटयोरभेदमुल्लिखतीति पक्षे प्रागुक्तं दोषं स्मारयति दृशीति । तथा च दृग्दृश्ययोराध्यासिकसम्बन्धस्या-तन्त्रत्वापातः । भानविरोधतः भानासम्भवात् ॥ रूपवद्वस्त्ववच्छेदेनापि नीरूपब्रह्मणो न चक्षुर्वृत्तौ भानम् आकाशे तददृष्टेरित्याह अभ्रमिति ॥ ६०१६०३ ॥
युक्तिमल्लिका
वृत्त्याऽज्ञानविनाशे हि ब्रह्मणस्स्फुरणं तव ।
वृत्तिः प्रथमसम्भूता कालाद्येवावलम्बते ॥ ६०४ ॥
सुरोत्तमटीका
अभिनवं दूषणान्तरं चाह ॥ वृत्येति ॥ अविद्या-निवर्तकत्वेन प्रागेवोत्पन्नाऽयं घट इत्यपरोक्षवृत्तिर् आवृतं चैतन्यं कथमय-मित्युल्लिखेत् । नीरूपब्रह्मोल्लेखस्य दुराग्रहगृहीतेन त्वयाऽङ्गीकारेऽप्यावृत-पदार्थस्य चाक्षुषापरोक्षप्रतीतावुल्लेखायोगात् । अतस्सर्वानुभवसिद्धैतद्देशकाल-वृत्तित्वमेव सा अयमित्युल्लिखेत् । एवं चायं घट इति वृत्तिरपि न ब्रह्मणि घटारोपे प्रमाणम् ॥ ६०४ ॥
सत्यप्रमोदटीका
तव अज्ञानस्य विषयाश्रितत्वेनावरकत्वमिति वादिनः। तथा च वृत्तेरुत्पत्तिसमये चैतन्यस्यावृतत्वेन न सा तद्विषयिणी । कालाद्येव साक्ष्युन्नीतौ देशकालावेव । अवलम्बते विषयीकरोति ॥ ६०४ ॥
युक्तिमल्लिका
इत्यारोपकुठाराग्रे क्रूरा धारैव दुर्घटा ।
स्वच्छविश्वद्रुमच्छेदः कर्तुं तत्केन शक्यते ॥ ६०५ ॥
सुरोत्तमटीका
साहित्यमुद्रयोपसंहरति ॥ इतीति ॥ धारा अधिष्ठान-चैतन्यविषयत्वरूपधारा ॥ तत् तस्मात् ॥ ६०५ ॥
सत्यप्रमोदटीका
चैतन्यस्य निर्धर्मकस्याधिष्ठानत्वमेव दुर्घटम् । दूरे वृत्तेरधिष्ठानविषयत्ववार्ता । अत आरोपरूपकुठार एव नास्ति । कुत-स्तस्याग्रधारा । कुतस्तरां तस्याः क्रूरत्वरूपबाधकत्वम् । विश्वद्रुमस्य छेदलक्षणबाध इति भावः ॥ ६०५ ॥
युक्तिमल्लिका
घटोऽयमिति धीर्दृक्चेन्नाधिष्ठानभ्रमस्तव ।
घटोऽयमिति वृत्तिश्चेन्नाधिष्ठानभ्रमस्तव ॥ ६०६ ॥
सुरोत्तमटीका
अत्राप्युभयतः पाशरज्ज्वा परं बध्नाति ॥ घटोयमिति ॥ दृक् अधिष्ठानचैतन्यरूपा दृक् । अधिष्ठानभ्रमो ऽधिष्ठाने स्वस्मिन्भ्रमः । युक्तिस्तूभयत्रापि प्रागुक्तैव ॥ ६०६ ॥
सत्यप्रमोदटीका
दृक् चेच् चैतन्यं चेत् । अयम् इत्युल्लेखोऽनुभव-विरुद्धः । वृत्तिश्चेन् न नीरूपचैतन्यस्य तद्विषयत्वम् ॥ ६०६ ॥
युक्तिमल्लिका
अनारोपितवस्तुत्वाद्विश्वं स्यात्परमार्थसत् ।
ब्रह्मवद्बाधकोक्तीनामन्यार्थत्वं च तद्बलात् ॥ ६०७ ॥
सुरोत्तमटीका
बाधकोक्तीनां नेहनानेत्यादिबाधकोक्तीनाम् । ब्रह्मवद् असदेवेदमग्र आसीदिति बाधकोक्तिग्रस्तब्रह्मवत् । तद्बलाद् अनारोपितत्व-बलात् ॥ ६०७ ॥
सत्यप्रमोदटीका
अनारोपितवस्तुत्वात् सम्प्रतिपन्नभ्रान्तपदार्थेतरत्वात् । बाधकोक्तीनां बाधकत्वेन पराभिमतानां नेहनानाऽस्ति किञ्चनेत्यादीनाम् । वस्तुतो बाधकत्वमेव न सम्भवति । ‘न हि प्रत्यक्षसिद्धमन्येन केनापि बाध्यं दृष्टं’ इति तत्त्वोद्योतवचनात् । ‘दृष्टस्य वस्तुनो बलवद् दृष्टिं विना नान्य-द्बाधकमि’ति च । अन्यार्थत्वं स्वगतभेदराहित्यरूपम् ॥ ६०७ ॥
युक्तिमल्लिका
चक्षुरादीन्द्रियैर्बाह्यैर्बहिष्ठोऽर्थो यदीक्ष्यते ।
घटोऽयमित्यादिरूपं तदा ज्ञानं विदुर्बुधाः ॥ ६०८ ॥
इदमंशो नानुमितौ न शाब्द्यामपि विद्यते ।
अपरोक्षे परं स स्याद्बाह्याक्षैर्बाह्यवस्तुनः ॥ ६०९ ॥
स्वाङ्गस्थभूषणादीनां चक्षुषा वीक्षणेऽपि हि ।
ममेदमिति वा ज्ञानं मयीदमिति वा भवेत् ॥ ६१० ॥
साक्षाच्च साक्षिणा वेद्ये साक्ष्याधारे च वस्तुनि ।
अहं सुखी मम सुखमहं जानाम्यहं यते ॥ ६११ ॥
अहमिच्छामीति वा धीस्सर्वानुभवशोधने ।
गौरोहमित्यादिरूपो भ्रमोऽपि किल ते मते ॥ ६१२ ॥
सुखवानहमित्येव सुप्तावपि मतिः किल ।
अज्ञोऽहमिति हि भ्रान्तिरज्ञानस्यापि ते मते ॥ ६१३ ॥
तस्मात्प्रमायां भ्रान्तौ वा जाग्रत्स्वप्नसुषुप्तिषु ।
अहमित्युल्लिखेत्साक्षी स्वात्मानं नान्यथा क्वचित् ॥ ६१४ ॥
अतोऽयं घट इत्याद्या वृत्तिः प्रात्यक्षिकी ध्रुवम् ।
दृग्दृश्ययोगायोगाद्यैस्सा भ्रान्तिर्नाभवत्तव ॥ ६१५ ॥
अधिष्ठानचिदात्मैव भ्रमो वाच्यो भवन्मते ।
स चाहं घट इत्याद्याकारवांत्स्यान्न चान्यथा ॥ ६१६ ॥
सुरोत्तमटीका
अयमित्यनुभवस्य प्रात्यक्षिकघटपटादिविषयतां चैतन्यस्य चाहमित्येवानुभवविषयतां च बहुशः प्रयोगं प्रदर्श्यानुभवारूढं करोति ॥ चक्षुरादीति ॥ ६०८–६१६ ॥
सत्यप्रमोदटीका
अयमित्युल्लेखः बाह्यवस्त्वपरोक्षज्ञानैरेव । साक्षिणा त्वान्तरपदार्थानाम् अहं सुखी इति मम सुखम् इत्याद्युल्लेखः । अतः ‘अयं घटः’ इति घटस्य देशकालसम्बन्धमेव गृहणाति न तु चैतन्ये घटस्य तादात्म्यारोपं येन घटस्य मिथ्यात्वप्रत्याशा इति समर्थनाय उभयत्र बहून् लौकिकप्रयोगा-नभिनीय दर्शयति चक्षुरादीत्यादिभिः । इदमंशो नानुमिताविति अयं वह्निरिति साध्यसिद्धेरननुभवात् । शाब्द्यामिति इदं ‘सत्यं ज्ञानमनन्तमि’ति अनुल्लेखात् । स इदमिति निर्देशः ॥
कथं तर्हि बाह्यप्रत्यक्षेऽपि गौरोऽहमिति धीरित्यत औपचारिकोऽयं प्रयोगः मन्मते कृष्णं वस्त्रमितिवत्प्रमैव । तदुक्तं न्यायामृते (१/५७) ‘कृशोऽहं कृष्ण इत्यादौ कार्श्यादिर्देहसंस्थितः । पुत्रादिस्थितकार्श्यादिवदात्मन्युपचर्यते’ इति । त्वन्मते तु प्रत्यक् चैतन्य एव देहधर्मः गौरत्वमध्यस्तमिति सर्व-थाऽऽन्तरविषयकप्रत्यय एव अहमित्युल्लेख इत्यनेकनिदर्शनैर्द्रढयति सुख-वानित्यादिभिः ॥ प्रात्यक्षिकी बाह्येन्द्रियजन्या । दृगिति अधिष्ठानचित एव दृग्रूपत्वात् ॥ ६०८–६१६ ॥
युक्तिमल्लिका
अनानुभविकत्वाद्यैर्भ्रमोऽप्येष न शोभते ।
अनारोपितमेवातो जगदासीन्न संशयः ॥ ६१७ ॥
सुरोत्तमटीका
अतः वृत्तेर्भ्रमत्वस्य परेणानङ्गीकारात् । चैतन्यरूपत्व-स्यानानुभविकत्वाच्च ॥ ६१७ ॥
सत्यप्रमोदटीका
अतः वृत्तावारोपानङ्गीकाराच् चैतन्ये तदननुभवाच्च ॥ ६१७,६१८ ॥
युक्तिमल्लिका
घटोऽहमिति या भ्रान्तिस्सा पशोश्च न दृश्यते ।
नाहं घट इति ज्ञानं मूढस्याप्यस्ति चेतसि ।
किं ब्रह्म मूढतो मूढं घटोऽहमिति यस्य धीः ॥ ६१८ ॥
पशोरप्यहमित्यस्ति सदा ज्ञानमनाकुलम् ।
घटब्रह्म सदाऽज्ञानकलङ्काद्विकलं किल ॥ ६१९ ॥
पशुश्च स्वगृहं वेत्ति वत्सं वनतृणादिकम् ।
घटब्रह्म घटं वेत्ति न पटं वेत्ति कर्हिचित् ।
पटब्रह्म पटं वेत्ति नान्यत्किल कदाचन ॥ ६२० ॥
सुरोत्तमटीका
परप्रक्रियाया अनानुभविकत्वमेव प्रपञ्चयति ॥ घटोऽह-मित्यारभ्यदोषे भीतिः कथं न त इत्यन्तेन ग्रन्थेन । यस्य ब्रह्मणः
॥ ६१८–६२० ॥
सत्यप्रमोदटीका
पशोरपि निकृष्टं मायिब्रह्म इत्येतत्प्रपञ्चयति पशोर-पीत्यादिभिः । अज्ञानातिशयान्निकृष्टत्वमाह न पटमिति॥ ६१९,६२० ॥
युक्तिमल्लिका
तत्र तत्र स्थितं ब्रह्म तं तमर्थं किलोल्लिखेत् ।
नैवान्यदुल्लिखेत्स्वार्थोल्लेखनं च न सर्वदा ॥ ६२१ ॥
स्वयोग्यबहुवेत्तृत्वं बालानां च सदैव हि ।
किं ब्रह्म सर्वतः श्रेष्ठं बालादपि च बालिशम् ॥ ६२२ ॥
सुरोत्तमटीका
तत्र तत्र स्थितं तत्तत्पदार्थाधिष्ठानतया स्थितम् । स्वार्थोल्लेखनं स्वार्थभूतघटाद्युल्लेखनम् ॥ ६२१,६२२ ॥
सत्यप्रमोदटीका
घटमात्रोल्लेखिनो घटब्रह्मणः स्वविषयकस्य घटान्यपट विषयकस्य च ज्ञानस्याभावाद्बालेभ्योऽपि बालिशत्वमित्याह तत्रेति
॥ ६२१,६२२ ॥
युक्तिमल्लिका
तुच्छानां पशुपक्ष्यादिजीवानां कृपया किल ।
तस्याज्ञानं विनाश्यं स्यात्तदोन्मिषति नान्यदा ॥ ६२३ ॥
सुरोत्तमटीका
तस्य घटाद्यधिष्ठानभूतब्रह्मणः । पशुपक्ष्यादीनामपरोक्ष-वृत्त्या ब्रह्मणोऽज्ञाननिवृत्त्यङ्गीकारादिति भावः ॥ ६२३ ॥
सत्यप्रमोदटीका
वृत्तिरेवाज्ञानविरोधिनी न चैतन्यमिति प्रक्रियां गर्हयति तुच्छानामिति । कृपया तत्तदन्तःकरणवृत्त्या ॥ ६२३,६२४ ॥
युक्तिमल्लिका
जडैव मानसी वृत्तिर्जडार्थविषया सती ।
तदज्ञानं तिरस्कुर्यात्स्वच्छा न ब्रह्मचित्किल ॥ ६२४ ॥
सुरोत्तमटीका
तदज्ञानं ब्रह्माज्ञानम् ॥ ६२४ ॥
युक्तिमल्लिका
शुकादयो यं प्रपन्नास्स प्रपन्नो जडं किल ।
अहो जडस्य विज्ञानादजडाज्ञानभीर्भवेत् ।
अजडं तु दृढज्ञानं नाज्ञानं भीषयेत्किल ॥ ६२५ ॥
वेदा एव ज्ञापयन्ति नेन्द्रियाणीति यं श्रुतिः ।
स्तौति ब्रह्मादिदेवाश्च नेक्षन्ते यं स्वचक्षुषा ।
स मूढैः पशुपक्ष्याद्यैश्चक्षुषा दृश्यते किल ॥ ६२६ ॥
श्रुतिस्मृतिविरुद्धेयं सर्वानुभवबाधिता ।
प्रक्रिया विक्रिया कस्मादुररीक्रियते त्वया ॥ ६२७ ॥
किं ब्रह्मणाऽपराद्धं ते नीचादपि च नीचताम् ।
यत्तस्य सर्वदा ब्रूषे दोषे भीतिः कथं न ते ॥ ६२८ ॥
सुरोत्तमटीका
जडं मानसापरोक्षज्ञानम् । प्रपन्नः स्वाज्ञाननिर्हरणाय शरणं प्राप्तः ॥ ६२५–६२८ ॥
सत्यप्रमोदटीका
प्रपन्नः स्वाज्ञाननिर्हरणाय तदपेक्षावान् । विज्ञानाद् इत्यस्य विपरीतलक्षणया करणमात्रत्वेनोपचारेणैव ज्ञानपदविषयादित्यर्थः । दृढज्ञानं ज्ञप्तिरूपत्वेन ज्ञानपदमुख्यविषयः ॥ स्वचक्षुषा स्वातन्त्र्येणेति पूरणीयम् । चक्षुषा दृश्यते तज्जनितवृत्त्या विषयीक्रियते । अन्यथा तया तदा-वरणापगमासम्भवात् ॥ कस्मादिति तामसस्वरूपजृम्भितं परतत्वप्रद्वेषं विना इति शेषः
॥ ६२५–६२८ ॥
युक्तिमल्लिका
नमस्तुभ्यं भगवते ब्रह्मणे परमात्मने ।
न यत्र श्रूयते माया लोकदृष्टिविकल्पना ॥ ६२९ ॥
त्वमाद्यः पुरुषस्साक्षादीश्वरः प्रकृतेः परः ।
मायां व्युदस्य चिच्छक्त्या कैवल्ये स्थित आत्मनि ॥ ६३० ॥
इति भागवते प्रोक्ता माया भ्रमकरीश्वरे ।
यस्मान्निषिद्धा तेनेदं कथं मायामयं जगत् ॥ ६३१ ॥
सुरोत्तमटीका
अर्थसन्निकर्षजन्यापरोक्षवृत्तेरपरोक्षवृत्त्येकनिवर्त्या-ज्ञानावृतब्रह्मचैतन्यस्य च प्रागेवापेक्षिततत्तदर्थारोपरूपत्वस्य युक्तिविरुद्धत्वा-द्विश्वं सत्यमित्यादिश्रुतिविरुद्धत्वाच्च न जगतो मिथ्यात्वमित्युक्तम् । इदानीं मायाख्याविद्याया एव स्मृत्या स्पष्टं ब्रह्मणि निषेधान् न ब्रह्मचैतन्यस्य जगदारोपरूपत्वम् । नापि जगतो मायिकत्वाविद्यकत्वापरपर्यायं मिथ्यात्व-मित्याह ॥ नमस्तुभ्यमिति ॥ तत्राद्यं दशमस्कन्धस्थं वरुणवाक्यम् । द्वितीयं प्रथमस्कन्धस्थमर्जुनवाक्यम् । प्रोक्ता लोकदृष्टिर्विकल्पनेति वाक्यशेषेण प्रोक्ता । निषिद्धा न यत्र श्रूयत इति निषिद्धा । भागवत इत्येतदत्रापि सम्बध्यते । अथवा प्रोक्ता ब्रह्मभ्रमहेतुत्वेन परेण प्रोक्ता भागवते निषिद्धेत्येव योजना । मायामयमित्युपलक्षणम् । आविद्यकमित्यपि द्रष्टव्यम् ॥ ६२९–६३१ ॥
सत्यप्रमोदटीका
माया भ्रमकरी इति पदच्छेदः । अत्र श्लोकत्रयेण प्रागुक्तः श्रुतिस्मृतिविरोधो निरूप्यते । श्रूयते इत्यनेन स्मृतिः श्रुतिसंवाद-पुरस्सरं मायां निषेधति । प्रोक्ता इत्यतः पूर्वम् अत्रैव वाक्यशेषे इति वा परेणेति वा पूरणीयम् । ‘नमस्तुभ्यं’ इतीदं दशमस्कन्धे वरुणवाक्यम् । ‘त्वमाद्यः’ इति प्रथमस्कन्धे अर्जुनवचनम् । अत्र भ्रमकरीति सामान्योक्त्या स्वाश्रयव्यामोहकरी परव्यामोहकरी चेत्यज्ञानसामान्यलाभः । तेनाविद्यकत्व-स्यापि निरासः । ‘साक्षादीश्वरः प्रकृतेः परः’ इत्यनेन ‘मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरं’ इति प्रमाणोक्तदिशाऽमायिकत्वलाभः । चिच्छक्त्या नतु परोक्तप्रकारेण वृत्त्युपरागमहिम्ना । कैवल्ये सर्वोत्कृष्टे स्वे महिमि्न । ‘ब्रह्मेशानादिभिर्देवैर्यत्प्राप्तुं नैव शक्यते । तद्यत्स्वभावः कैवल्यं’ इति श्रुतेः ॥ ६२९–६३१ ॥
युक्तिमल्लिका
न श्रूयत इति प्राह यत्स्वयं स्मृतिरूपिणी ।
स्वशक्त्या तन्मृतां मायां श्रुतिशक्त्याऽप्यमीमरत् ॥ ६३२ ॥
सुरोत्तमटीका
यद् यस्मात् । तत् तस्मात् । सर्वापेक्षितप्रमाणभूत-स्मृतिरूपत्वात् ॥ ६३२ ॥
युक्तिमल्लिका
यद्वा चिच्छक्तिनिर्दग्धमायाशङ्कास्थिभस्मनोः ।
उद्धाराय प्रभोस्तस्य दास्यौ मन्ये श्रुतिस्मृती ॥ ६३३ ॥
सुरोत्तमटीका
प्रकारान्तरेणापि श्रुतिस्मृत्योस्सङ्गतिमाह ॥ यद्वेति ॥ चिच्छक्त्या मायां व्युदस्येत्युक्तत्वाद् भगवतस्स्वभूतज्ञानशक्त्यैव मायाया भस्मीकृतत्वान् न तन्निरासाय प्रमाणान्तरमपेक्षितम् । तर्हि श्रुतिस्मृत्योः किं कृत्यमित्यत आह ॥ चिच्छक्तीति ॥ चिच्छक्त्या निर्दग्धा या माया तस्या मायिनं तु महेश्वरमिति तद्ग्रन्थोक्तशङ्का सैवास्थि । श्रुत्यर्थभ्रममूलत्वेनेष-त्प्रबलत्वात् । स्वरूपज्ञानस्याज्ञानाविरोधित्वेन भगवत्येव माया वर्तत इति या मायिनां शङ्का सैव भस्म । स्वकपोलकल्पितत्वेनातिदुर्बलत्वात् । न यत्र श्रूयत इति स्मृतौ तदुपात्तश्रुतौ च भ्रमहेतुमायाया एव भगवति निवारितत्वेन सृष्ट्यर्थं जगदुपादानप्रकृतिं कुलालो मृदमिव दोर्भ्यां गृह्णतो भगवतो मायित्वोक्ते-स्सूचितत्वेन प्राथमिकशङ्काया निरस्तत्वान् मायां व्युदस्येति वाक्ये स्वरूप-ज्ञानस्यैवाज्ञानविरोधित्वकथनेन द्वितीययशङ्काया अपि निरस्तत्वादुद्धाराये-त्युक्तम् । निवृत्तरजस्काः पञ्च स्त्रियस्संचिन्वन्तीति गृह्योक्तेः कर्त्रा दाहे कृतेऽप्यस्थिसञ्चयनादेः स्त्रीकार्यत्वादिदमुक्तम् । श्रुतित्वस्मृतित्वजात्या द्वयो-रपीतिहासपुराणः पञ्चमो वेदानां वेद इति वचनादन्तर्भेदविवक्षया पञ्चता चोचितेति हृदयम् । भगवतस्सर्वज्ञत्वाख्ययुक्तिशक्त्यैव मायाऽभावे सिद्धेऽपि दुर्जनशङ्कानिरासार्थमेव श्रुतिस्मृत्युदाहरणमिति भावः ॥ ६३३ ॥
सत्यप्रमोदटीका
‘निरनिष्टो निरवद्यः’ ‘यः सर्वज्ञः सर्ववित्’ इति-प्रभृतिश्रुतिभिः ‘अज्ञाताऽखिलसंवेत्तुर्घटते न कुतश्चने’ति भगवत्पादीयवचनेन च प्रागेव निर्दग्धैव परमात्मन्यज्ञानशङ्कापिशाची । ‘निवृत्तरजस्काः पञ्च स्त्रियः सञ्चिन्वन्ति’ इति गृह्योक्तेर् अस्थिभस्मसंचयः कार्यः । अस्थिभस्म-नामपि उत्सारणेन शङ्कानिश्शेषनिर्मूलनमेव उदाहृतश्रुतिस्मृतिरूपवाक्य-पञ्चकस्योद्देश इति साहित्यरसेन निरूपितप्रमेयं मधुरयति यद्वेति । दास्यौ गृह्योक्तदिशा पञ्च स्त्रियः ॥ ६३३ ॥
युक्तिमल्लिका
ब्रह्माण्डान्तर्बहिर्भ्रान्तं किं महान्तो महेश्वरम् ।
संमानयन्ति ध्यायन्ति शृण्वते मन्वते सदा ॥ ६३४ ॥
एकैकार्थभ्रान्तिमन्तमपि सन्तस्सभान्तरात् ।
निष्कासयन्ति निन्दन्ति किं ते स्वान्ते स्मरन्ति तम् ॥ ६३५ ॥
सुरोत्तमटीका
पुनरपि भगवतो भ्रान्त्यसम्भवे स्मृत्युपस्कारकयुक्तीराह ॥ ब्रह्माण्डेति ॥ अन्तश्चतुर्दशलोकादिरूपेण बहिरावरणरूपेण च ब्रह्मण एव भ्रान्तिरिति परस्य सिद्धान्तः । अत एवमुक्तम् । महान्तः जीवन्मुक्तत्वेन ज्ञानवत्त्वात् पूज्यास्सनकादयः । तं महाभ्रान्तं महेश्वरम् ॥ ६३४,६३५ ॥
सत्यप्रमोदटीका
भ्रान्तम् अहं घटादिब्रह्माण्डकोशो ऽहम् आवरणम् इत्येवं भ्रान्तिस्वरूपम् । महान्तः योगसिद्धा ब्रह्मादयः । तथा च, ब्रह्म भ्रमसामान्यशून्यम् अखिलयोगिध्यानादिविषयत्वाद् इति युक्तिः कथिता । विपक्षे हेतूच्छित्तिं बाधकमाह एकैकेति ॥६३४,६३५ ॥
युक्तिमल्लिका
सर्वार्थान्विपरीतांश्च बुद्धिस्सा पार्थ तामसी ।
इति गीतासु यः प्राह किं भ्रान्त्यै स्पृहयत्यसौ ॥ ६३६ ॥
सुरोत्तमटीका
असौ विपरीतार्थदर्शनस्य तमोगुणकार्यत्वं वदन् सत्वगुणप्रवर्तकः कृष्णः ॥ ६३६ ॥
सत्यप्रमोदटीका
असौ विपरीतज्ञानं तामसत्वेन गर्हयन् श्रीकृष्णः । एवं ‘न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यते’ इति बाधशून्यत्वेन प्रमितयथार्थज्ञान-स्वरूपश्च ॥ न हि कोऽप्यनुन्मत्तः स्वयं निन्दिताय स्पृहयति इति भावः ॥ ६३६ ॥
युक्तिमल्लिका
क्वापि योगोऽर्थसंयोगो योगिनां सर्वदर्शने ।
सोऽप्यर्थसत्तासापेक्षः किं तेषां नरि शृङ्गदृक् ॥ ६३७ ॥
सुरोत्तमटीका
योगिनोऽपि प्राग्विद्यमानार्थतत्वज्ञानवन्तो न भ्रान्ताः । किमु ब्रह्मेति भावेनाह ॥ क्वापीति ॥ सर्वदर्शने सर्वार्थदर्शने । बहुशोऽर्थ-सन्निकर्ष एव तदिन्द्रियस्याप्यस्ति । क्वापि व्यवहितपदार्थदर्शने अतीन्द्रिय-पदार्थदर्शने च योग एवार्थसंयोग इत्यर्थः । सोऽपि योगोऽपि । ध्यानमेव हि योगः । तस्यापि प्रागर्थोऽपेक्ष्यत इति भावः । तत्र व्यतिरेकदृष्टान्तमाह ॥ किमिति ॥ तेषां योगिनाम् । नरि मनुष्ये । अर्थसत्ताभावादेव हि नशृृङ्गादि-ज्ञानाभावः । अतस्तज्ज्ञानमपि अर्थसत्तासापेक्षमिति हृदयम् ॥ ६३७ ॥
सत्यप्रमोदटीका
क्वापि व्यवहितातीतानागतविप्रकृष्टादिविषये । योग एवार्थसंयोगः । समाधिलब्धपरिपाकातिशयः योगः । सर्वेति स्वयोग्यसर्वेत्यर्थः । सापेक्ष इति सम्बन्धसामान्यस्य सम्बन्धिद्वयसत्तासापेक्षत्वनियमात् । नियममेव व्यतिरेकमुखेनोपपादयति किमिति । दृक् ज्ञानम् ॥ ६३७ ॥
युक्तिमल्लिका
तत्त्वज्ञानाय धर्मोऽस्तु युक्तिश्शक्तिश्च वर्तताम् ।
मिथ्यादृष्टिर्न तपसा किं कौर्मे रोम्णि दृङ्मुनेः ॥ ६३८ ॥
सुरोत्तमटीका
धर्मादिसाधनसम्पन्नत्वाच्च न तेषां मिथ्यादृष्टिरित्याह ॥ तत्वज्ञानायेति ॥ शक्तिस् तपश्शक्तिः । न हि मिथ्याज्ञानसंपादनाय धर्मा-द्याचरणं कुर्वन्ति । तत्रापि व्यतिरेकदृष्टान्तमाह ॥ किमिति ॥ कौर्मे कूर्म-सम्बन्धिनि । भगवद्भक्तानामपि योगिनां यदा न मिथ्यादृष्टिः । किं वाच्यं तदा भगवतो योगीश्वरस्येति भावः ॥ ६३८ ॥
सत्यप्रमोदटीका
तत्त्वम् अनारोपितं प्रमितिविषय इति यावत् तेन कूर्मरोमज्ञानव्यवच्छेदः । तपसेति प्रकृतापेक्षया । सार्वत्रिक एवायां नियम इति भावः ॥ ६३८ ॥
युक्तिमल्लिका
सत्यार्थ एव सन्मान्यो मिथ्यार्थो न महत्प्रियः ।
किं रज्जुसर्पालङ्कारः शुक्तिरूप्याचले शिवः ॥ ६३९ ॥
सुरोत्तमटीका
किमाक्षेपे । सत्यसर्पालङ्कारः । सत्यरजताचलवर्ती । अतस्सत्यार्थ एव सन्मान्य इति भावः ॥ ६३९ ॥
सत्यप्रमोदटीका
मान्य उत्कर्षसिद्ध्यर्थमपेक्षणीयः । आरोपित-शङ्खचक्रादिप्रदर्शनेन पौण्ड्रकोऽपहसनीय एव जातो न मान्य इति व्यतिरेकोऽ-प्यनुसन्धेयः ॥ ६३९ ॥
युक्तिमल्लिका
अयं घट इति ज्ञानं सर्वेषामस्तु मानसम् ।
देशकालस्थतेदन्ता तत्र त्वखिलसंमता ॥ ६४० ॥
इयं धीश्च प्रमैवास्तु ब्रह्म श्रुत्युक्तसाधनैः ।
अन्ते निरीक्ष्यमेवास्तु किमप्रामाणिकोक्तिभिः ॥ ६४१ ॥
सुरोत्तमटीका
सर्वेषामयं घट इति ज्ञानमिति सम्बन्धः । तत्र ज्ञाने । इदंता अखिलसंमता देशकालस्थताऽत्स्विति सम्बन्धः । अखिलसम्मतेत्यनेन इदमंशस्य ब्रह्मपरत्वोक्तौ सर्वानुभवविरोधं च दोषं सूचयति ॥ ६४०,६४१ ॥
सत्यप्रमोदटीका
मानसं न तु चिद्रूपम् । तथा सत्यहं घट इत्यु-ल्लेखापत्तेः । अत एव इदंशब्देन नाधिष्ठानब्रह्मानुवेधः । देशेति पुरोदेश-वर्तमानकालसम्बन्धिता ॥ प्रमैव बाधाभावात् । ब्रह्म नीरूपत्वाच्चाक्षुष-वृत्त्यविषयः । किमित्याक्षेपे । अनुभवानादरणे, असन् नृशृङ्गमित्यादौ असच्छब्देनाधिष्ठानानुवेधः कल्पनीयः स्यादिति भावः ॥ ६४०,६४१ ॥