०८ प्रतिकर्मव्यवस्थाभङ्गः

एकस्य भ्रमनाशस्स्यादेकाज्ञानविनाशने

प्रतिकर्मव्यवस्थाभङ्गः

युक्तिमल्लिका

एकस्य भ्रमनाशस्स्यादेकाज्ञानविनाशने ।

तत्रैव पुनरन्येषां स्वस्वाज्ञानैर्भ्रमः किल ॥ ४९० ॥

एवं च तत्तद्भ्रान्त्यर्थं बह्वज्ञानप्रकल्पने ।

अतिस्थिरतरे वस्तुन्यनन्ताज्ञानकल्पना ॥ ४९१ ॥

सुरोत्तमटीका

किं च घटादावविद्यानिवृत्तावाविद्यकघटादीनां साक्षाच्चा-विद्यकभूधरादीनां च भ्रम एव भवति किल । शुक्तिरजतादावविद्यकरजतादीनां भ्रमनिवृत्तिस्स्यादिति यत्परो वक्ति तदपि पूर्वोत्तरविरुद्धमिति सूचयितुं तमपि भ्रममत्रैव प्रसञ्जयन्नुभयत्रापि तत्तद्वृत्तिनिवर्त्यानन्ताज्ञानपक्षे दोषमाह ॥ एक-स्येति ॥ भ्रमनाश इत्युपलक्षणम् । घटादौ भ्रमानुवृत्तिश्च ग्राह्या । उत्तरत्रापि भ्रमपदं घटादौ भ्रमाभावस्याप्युपलक्षणम् । भ्रान्त्यर्थं भ्रान्त्यभावार्थं च । कल्पनाऽपेक्षिता । अन्यथा एकाज्ञाननाशेऽपसरणे वा सर्वेषामपि भ्रमप्रसङ्गाद् भ्रमनिवृत्तिप्रसङ्गाच्च ।

न च तत्तद्वृत्त्यभावान्न सर्वेषां भ्रमादिकमिति वाच्यम् । अविद्यानिवृत्त्यर्थ-मेव हि वृत्त्यनुसरणम् । अविद्यायाश्चैकत्वे एकस्य वृत्त्या च तन्निवृत्तौ कथं न सर्वेषां भ्रमः । न हि देवदत्तगृहदीपेनान्धकारनाशे तस्यैव घटप्रतीतिर्नान्य-स्येत्यस्ति । न च तत्तच्चितामभेदघटनाय तत्तद्वृत्त्युपयोगः । घटनशब्दस्य संपत्त्यर्थकत्वेऽभेदसंपत्तेरनादित्वेन वृत्तेरनुपयोगात् । उपस्थित्यर्थत्वे घटवृत्ते-श्चितश्चिदन्तराभेदाविषयकत्वेन घटव्यवसायस्य पटं प्रतीव ज्ञानस्य स्वाविषये उपस्थापकत्वस्यैवायोगेन पुनर्वृत्तेर्वैयर्थ्यात् । चिद्रूपचिदन्तराभेदबोधस्याप्य-नादित्वेन तद्धेतुतयापि वृत्तेरनुपयोगादावरणनिवर्तकतयैवोपयोगो वाच्यः । स चाज्ञानैकत्वपक्षे एकवृत्त्या जात एवेति कथं न तदधिष्ठानचैतन्यं सर्वेषां भ्रमः । सौभर्यादियोगिनामेकैकत्र स्थितानां बहुदूरस्थनानादेहगस्वांशैरभेदानुभवदर्शनेन विद्यमानाभेदानुभवाय तत्र गमनस्यानपेक्षितत्वाच्च वृत्तेरुपयोगः । सर्वगत-जीवपक्षे तु नितरामनुपयोगः । तस्मात् तत्तद्वृत्तिनिवर्त्यानेकाज्ञानपक्ष एव परेणादरणीयः ॥ ४९०,४९१ ॥

सत्यप्रमोदटीका

‘विषयाश्रितं चेदज्ञानं निवर्तते तदैकेन ज्ञातस्य घटस्य अन्यैरज्ञातत्वं न स्यादि’ति तत्त्वोद्योतोक्तदोषपरिहाराय यद्यनेकाज्ञानानि अङ्गीक्रियन्ते तर्हि एकस्यैव स्थिरस्य वस्तुनः प्रतिपुरुषनियतानन्तभाव-रूपाज्ञानावृतत्वापत्त्या अणुरपि पदार्थो ऽद्रिसम आपद्यते इत्याह एकस्ये-त्यादिभिः । तदुक्तं न्यायामृते प्रतिकर्मव्यवस्थाभङ्गे । इष्टसिद्धिरीत्या अनेकाज्ञानाङ्गीकारपक्षे । ‘एकया वृत्त्या किं सर्वतदज्ञानानां निवृत्तिः । उतैकैकतदज्ञानस्य । आद्ये शुक्तेः पुनः कदाऽप्यप्रकाशो न स्यात् । अन्त्ये तदापि प्रकाशो न स्यात् । एकावरणनिवृत्तावपि अन्यस्य सत्त्वादिति । अथैतद्दोषपरिहाराय प्रतिपुरुषनियताज्ञानाङ्गीकारे दोषमाह एवं चेति । अत्र इयं परप्रक्रियाऽनुसन्धेया । ‘इदं रूप्यं’ इति ज्ञानं प्रातिभासिकपदार्थविषयकं यथा भ्रमस् तथैव अयं घट इत्यादि व्यावहारिकपदार्थविषयकमपि ज्ञानं भ्रम एव । आद्यो ऽल्पकालीनो ऽपरस्तु दीर्घकालीन इति विवेकः । आद्ये शुक्त्यवच्छिन्नचैतन्यावरणनिवृत्तौ भ्रमनिवृत्तिः । द्वितीये घटावच्छिन्न-चैतन्यावरणनिवृत्तौ अयं घट इति भ्रान्त्युत्पादः । आद्यपक्षे तत्तद्भ्रान्त्यर्थम् इत्यस्य एकस्य भ्रान्तिनिवृत्तावपि अपरेषां भ्रान्त्यनुवृत्त्यर्थम् इत्यर्थः । द्वितीये तस्य तस्य भ्रान्त्युपादानार्थम् इत्यर्थः । पक्षद्वयेऽपि प्रतिपुरुषनियतानेका-ज्ञानकल्पनं दुष्परिहरमिति हृदयम् ॥ ४९०,४९१ ॥

युक्तिमल्लिका

भावरूपं च तेऽज्ञानं तेन स्यादणुरद्रिवत् ॥ ४९२ ॥

सुरोत्तमटीका

सोऽप्ययुक्त इत्याह ॥ भावरूपमिति ॥ तेन भावरूप-निबिडावयवानन्ताज्ञानैरावृतत्वेन ॥ ४९२ ॥

सत्यप्रमोदटीका

भावरूपं चेति । अभावरूपत्वे आवरणानुपपत्तेर् अनेकत्वेऽपि परिमाणमहत्त्वानापत्तेश्च ॥ ४९२ ॥

युक्तिमल्लिका

बहिष्ठं तद्धि चैतन्यं जीवस्त्वन्तस्स्थितस्सदा ।

ज्ञात्रन्यद्व्यवहर्ताऽन्यस्तस्मात्किं केन सङ्गतम् ॥ ४९३ ॥

ऐक्यात्तेनैव दृष्टेऽर्थे यद्यस्य व्यवहर्तृता ।

यज्ञदत्तेन दृष्टार्थव्यवहारं तथैव हि ॥ ४९४ ॥

देवदत्तोऽपि तद्गात्रमात्रदर्शी करोत्वयम् ।

व्यावहारिकभेदादेरैक्यस्य च समत्वतः ॥ ४९५ ॥

सुरोत्तमटीका

अधिष्ठानचैतन्यस्य घटप्रकाशत्वे दोषान्तरं चाह ॥ बहिष्ठमिति ॥ तद्घटाद्यधिष्ठानचैतन्यम् । न च वाच्यं जीवचैतन्यमेव स्पष्टायामपरोक्षवृत्तौ प्रतिफलितं सद्घटनिकटं गत्वाऽधिष्ठानचैतन्येनैकीभूय न तदनुभवमेव स्वानुभवीकरोतीति । अरूपद्रव्यस्यात्मनः कालस्य दर्पण इव प्रतिफलनस्यैवायोगात् । रूपवति दर्पणादावेव प्रतिफलनदर्शनेन रूपायाश्च वृत्तेः प्रतिफलनोपाधित्वायोगाच्च । अन्यथा वृत्त्यभिमुखनयनादेरपि प्रतिफलन-प्रसङ्गात् । किञ्च लिङ्गदेहनयनगोलकादिना मध्ये प्रतिरुद्धस्यात्मनः कथं तत्र प्रतिफलनम् । न हि कुड्यव्यवहितमुखस्य बहिष्ठदर्पणे प्रतिफलनं दृष्टम् । न वा महाप्रकाशस्य सूर्यस्य तरुपत्रादिना प्रतिरुद्धस्य जले प्रतिफलनं दृष्टम् । वृत्तिप्रतिफलितचैतन्यस्य वृत्तिविशिष्टतया घटाधिष्ठानचैतन्यस्य घटविशिष्टतया विशिष्टयोस्तयोरैक्यायोगाच्च । उपाधेः प्रतिबिम्बपक्षपातित्वेन प्रतिमुखगत-मालिन्यस्य मुख इव प्रतिफलितचैतन्यस्य बिम्बभूतचैतन्ये स्वकार्यासमर्प-कत्वाच्च । घटाधिष्ठानचैतन्येऽनारोपितवृत्तेरस्तदज्ञाननिवर्तकत्वाय त्वयापि कस्मिंश्चित्सम्बन्धे वक्तव्ये तेनैव सर्वसामञ्जस्याद् बकबन्धस्यास्य निर्निबन्धन-त्वापाताच्च ॥ प्रबलं दूषणान्तरं चाह ॥ ऐक्यादिति ॥ तेन अधिष्ठानचैतन्येन । अस्य जीवस्य । तद्गात्रमात्रदर्शी अत्र मात्रपदेन तदनुभूतसुखदुःखादे-स्तद्वचनद्वारा श्रवणं व्यवच्छिद्यते ॥ ४९३–४९५ ॥

सत्यप्रमोदटीका

ज्ञानव्यवहारयोः समानकर्तृत्वनियमः सार्वजनीनः । सोऽपि परप्रक्रियायां विरुध्यते इत्याह । बहिष्ठमिति । तद् घटाद्यधिष्ठान-चैतन्यम् । बहिर् देहादिति शेषः । जीवचैतन्यं व्यवहर्तृ । अन्तः देहस्य । सदा मरणपर्यन्तम् । अन्यद् अधिष्ठानचैतन्यं ज्ञातृ । अध्याससंबन्धस्य तत्रैव सद्भावात् । व्यवहर्ता अभिलपनादिव्यवहारकर्ता । तथा च ज्ञानव्यवहारयोर् जन्यजनकभावघटकं सामानाधिकरण्यं भग्नमित्याह किमिति । ननु नैष दोषः । वृत्तौ ज्ञातृचैतन्यप्रतिफलनस्य, प्रतिबिंबितस्य च अनावृताधिष्ठान-चैतन्येनैकीभावस्य चोपगमादिति चेन्न । वृत्तौ चैतन्यप्रतिबिंबनस्यैवाशक्यत्वात् । तदुक्तं न्यायामृते अनुद्भूतरूपान्तःकरणे शब्दान्यप्रतिबिम्बनोपाधिताया अचाक्षुषे चैतन्ये प्रतिबिम्वनस्य चायोगाद् इति । (१/२४) दोषान्तरं चाह ऐक्यादिति । तेन अधिष्ठानचैतन्येन । अन्यस्य ज्ञातृचैतन्यस्य । सन्तमपि व्यावहारिकभेदमवधीर्य स्वरूपैक्यदर्शनमात्रेण व्यवहाराङ्गीकारेऽतिप्रसङ्गमाह यज्ञदत्तेनेति । तद्भाव ऐक्यम् । मात्रेति अवच्छेदकभेदस्य त्वयैवाप्रयोजकी-करणादिति भावः ॥ ४९३–४९५ ॥

युक्तिमल्लिका

अवच्छेदकभेदश्च तत्रात्रापि च यत्समः ।

वृत्तिद्वारा बहिर्यात्रा तेनैक्यं चापि यत्समम् ॥ ४९६ ॥

सुरोत्तमटीका

यद् यस्मात् । न च वाच्यं देहव्यवहितत्वान् न देह-वृत्त्या यज्ञदत्तचैतन्यानुभव इति । घटव्यवहितचैतन्येऽपि साम्यात् । योग्य-घटवृत्त्याऽयोग्यस्यापि घटावच्छिन्नचैतन्यस्योल्लेखे योग्यदेहवृत्त्या देहावच्छिन्न-चैतन्योल्लेखस्यापि सम्भवात् । न हि वृत्तेः पक्षपातोऽस्ति । प्रत्युत-यज्ञदत्तोऽयमिति वृत्तेरुपनीतजीवसहितदेहोल्लेखित्वस्यायं घट इति वृत्तौ चैतन्यासहितघटमात्रोल्लेखित्वस्य च सर्वानुभवसिद्धत्वेन वैपरीत्यस्यैव वक्तुं शक्यत्वाच्च ॥ ४९६ ॥

सत्यप्रमोदटीका

बहिर् यज्ञदत्तावच्छिन्नप्रदेशं प्रति ॥ ४९६ ॥

युक्तिमल्लिका

घटोपस्थापिका वृत्तिर्ब्रह्मोपस्थापिकैव न ।

तदुल्लेखप्रकारस्य नतरां स्थापिका हि सा ॥ ४९७ ॥

सुरोत्तमटीका

अस्तु तर्हि वृत्तिरेवाधिष्ठानचैतन्यविषयिणी सती तद्दृष्टं सर्वं स्वस्वामिजीवस्योपस्थापयतीति शङ्कामुक्तविधया दूषितामपि दोषान्तरेण दूषयितुमाह ॥ घटोपस्थापिकेति ॥ घटविषयकोऽपि हि व्यवसायो घटमात्र-मुपस्थापयेन तु तत्कार्यं जलाहरणादिकम् । यस्य तदुल्लेखेऽपि सन्देहः किमु वाच्यं तस्य तत्कार्यानुपस्थापकत्वमिति भावः ॥ ४९७ ॥

सत्यप्रमोदटीका

अस्तु तर्हि वृत्तिरेव घटविषयिणी सती अधिष्ठानं ब्रह्म उल्लिखति तद्व्यवहारं च करोति इति तत्राह घटेति । नेति । रूपादिहीनस्य आसंसारमज्ञानावृतस्य ब्रह्मणश् चाक्षुषवृत्तिविषयत्वासम्भवादेवेति भावः । दूरे तद्व्यवहारनिष्पादकत्वमित्याह नतरामिति ॥ ४९७ ॥

युक्तिमल्लिका

यद्यधिष्ठानचैतन्यं तस्य तस्य भ्रमस्तव ।

घटोऽहमिति वा तस्याकारोऽयं घट इत्युत ॥ ४९८ ॥

सुरोत्तमटीका

दूषणान्तरं चाह ॥ यदीति ॥ ४९८ ॥

सत्यप्रमोदटीका

तवेति । मम तु अयं घट इति वृत्तिरूपं प्रमा च इति विशेषः । घटोऽहमिति इति । अध्यस्तस्य अधिष्ठानसम्भिन्नतया भान-नियतेः । घटोऽयमिति कल्पस्तु अनुभवानुसारी ॥ ४९८ ॥

युक्तिमल्लिका

आद्ये किं तेन देहस्थव्यवहर्तुः प्रयोजनम् ॥ ४९९ ॥

सुरोत्तमटीका

तस्य भ्रमस्य । तेन ज्ञानेन । परेणापि व्यावहारिक-भेदाङ्गीकारेण जीवचैतन्यस्य ततो भिन्नत्वादिति भावः ॥ ४९९ ॥

सत्यप्रमोदटीका

देहस्थव्यवहर्तुर् अधिष्ठानचैतन्याद् व्यावहारिकभेदवतः ॥ ४९९ ॥

युक्तिमल्लिका

वृत्तिद्वारा बहिर्गत्वा तेनैकीभावमेत्ययम् ।

अतस्तज्ज्ञानमेवास्य ज्ञानं व्यवहृतिर्यदि ।

देहान्तस्तर्हि जीवस्याभावान्निर्जीवता तनोः ॥ ५०० ॥

अणुर्निरंशो जीवोऽयं कथमन्तर्बहिश्चरेत् ।

दूरस्थसूर्यचन्द्राप्तिर्मरणादतिरिच्यते ॥ ५०१ ॥

सुरोत्तमटीका

चैतन्यप्रतिफलनस्य दूषितत्वात् पक्षान्तरमाशङ्कते ॥ वृत्तीति ॥ अयं देहस्थो जीवः । स्वयमेव न तु प्रतिफलनमुखेन । उपलक्षणं चैतत् । वृत्तेर्मृत्युदूतत्वाभावे जीवापकर्षकत्वासम्भवाच्चेत्यपि द्रष्टव्यम् ॥ ५००,५०१ ॥

सत्यप्रमोदटीका

बहिर्गच्छन्निति । अनेन प्रतिफलनपक्षाद्वैलक्षण्यम् उक्तम् ॥ ननु व्याप्तत्वाद्देहान्तरपि अवस्थितिः संभवतीति तत्राह अणुरिति । देहावच्छिन्नस्य व्याप्तत्वासंभवादिति भावः । व्याप्तस्य बहिर्निर्गमनाद्यनु-पपत्तेश्च । अंशेनैव बहिर्निर्गमनान् न देहस्य निर्जीवत्वापत्तिरिति तत्राह निरंश इति ॥ ५००,५०१ ॥

युक्तिमल्लिका

किञ्चैवं सति देहान्तः पुनरागत्य देहिनः ।

घटोऽहमित्येव तेन जन्या व्यवहृतिर्भवेत् ॥ ५०२ ॥

कुतो घटोऽयमित्येवमाकारा सा प्रजायते ।

जलस्यानयनार्थं च स्वोदरे पूरयेज्जलम् ॥ ५०३ ॥

सुरोत्तमटीका

वृत्तिद्वारा बहिर्गमनमेवासम्भावितमित्युक्तम् । गमनेऽपि दोषमाह ॥ किञ्चेति ॥ एवं सति घटोऽहमिति ज्ञाने सति । तेन ज्ञानेन । सा व्यवहृतिः । अपहसति ॥ जलस्येति ॥ स्वस्यैव घटत्वादिति भावः ॥ ५०२,५०३ ॥

सत्यप्रमोदटीका

पुनर्देहप्रवेशेऽपि अधिष्ठानचैतन्येनैकीभूतस्य ज्ञातृ-चैतन्यस्य अहं घट इत्याकारिकैव धीर् नत्वेव अयं घट इति ॥ सा तज्जन्या व्यवहृतिः । अपहसति जलेति । इदमुपलक्षणम् । गले दृढरज्जुबन्धनेन श्वासनिरोधेनानर्थोऽपि स्यादिति ध्येयम्॥५०२,५०३ ॥

युक्तिमल्लिका

अनुभूत्यनुसारेण व्यवहारादि जायते ।

न चैवं व्यवहारोऽस्ति तस्मादनुभवोऽपि न ।

अतो नैतादृशारोप इत्यनारोपितं जगत् ॥ ५०४ ॥

सुरोत्तमटीका

एवं व्यवहारः घटोऽहमिति व्यवहारः । अनुभवः घटोऽहमित्यनुभवः । इति हेतोः ॥ ५०४ ॥

सत्यप्रमोदटीका

एवमीदृशादनर्थाद्विभ्यता आरोपपक्षपरित्याग एव श्रेयानिति हितोक्त्या उपसंहरति अत इति ॥ ५०४ ॥

युक्तिमल्लिका

द्वितीये त्विदमंशेऽस्मिन्नाधिष्ठानप्रतीतिता ।

स्वात्मानमहमित्येव ह्युल्लिखेत्साक्षिचित्सदा ।

अयमित्युल्लिखन्नंशं तं पृथक्कुरुते स्वतः ॥ ५०५ ॥

सुरोत्तमटीका

अस्मिन् अयमित्युल्लिख्यमाने । अयमित्युल्लेखो अधिष्ठानोल्लेखो न भवतीत्यर्थः । कुत इत्यत आह ॥ स्वात्मानमिति ॥ साक्षिचित् सर्वसाक्षिभूता ब्रह्मचित् । ब्रह्मचिदित्येव वक्तव्ये साक्षिचिदिति वचनम् अहमित्युल्लेखमनुभावयितुम् । अंशम् अयं घट इति प्रतीतेः प्रथमांशम् । स्वतः स्वस्माद् अधिष्ठानचैतन्यादित्यर्थः । अयमित्युल्लिख्यमानो ऽंशः नाधिष्ठानचैतन्यम् । तस्य स्वस्वरूपेऽहमित्युल्लेखस्यैवोचितत्वात् । न ह्यनिदम्पदार्थभूतमात्मचैतन्यं स्वेनैव स्वयमिदमित्युल्लिख्यमानं क्वापि दृष्टमिति भावः ॥ ५०५ ॥

सत्यप्रमोदटीका

तस्मादनुभवानुसारी अयं घट इत्येव प्रतीतेराकार उररीकार्यः । तत्र च अधिष्ठानभूताहमर्थसंभेदाभावान् निरधिष्ठानकभ्रमस्या-सम्भवादनुपगमाच्च प्रतीतेः प्रमात्वं विषयस्य च सत्यत्वं निराबाधमित्याह द्वितीय इति ॥ ५०५–५०६ ॥

युक्तिमल्लिका

स्वयमेव ह्यधिष्ठानं नासावंशोऽपि यः पृथक् ।

अधिष्ठानोल्लेखशून्यं घटज्ञानं न तद्भ्रमः ।

निरधिष्ठानकभ्रान्तिर्बाह्यानामेव नावयोः ॥ ५०६ ॥

सुरोत्तमटीका

असौ अयमित्युल्लिख्यमानः । अंशः देशकालरूपः । यो ऽंशः । पृथक् अहमित्युल्लिख्यमानचैतन्यादन्यत् । तत् तस्मात् । अयमित्यंशस्याधिष्ठानचैतन्यानुल्लेख्यत्वात् ॥ ५०६ ॥

युक्तिमल्लिका

अथ वृत्तिरियं तर्हि घटारोपकथा गता ।

घटापरोक्षवृत्तिस्स्याद्घटस्येन्द्रिययोगतः ।

घटस्येन्द्रिययोगश्च घटे सत्येव नान्यथा ॥ ५०७ ॥

अतो वृत्तेः पुरा सन्निकर्षस्य घटको घटः ।

अस्त्येवेति कथं तस्य वृत्त्या स्यात्कल्पना वद ॥ ५०८ ॥

सुरोत्तमटीका

अयं घट इति प्रतीतेश्चैतन्यरूपत्वपक्षे प्रमात्वं प्रसाध्य वृत्तिरूपत्वपक्षेऽपि द्वेधा तत्साधयति ॥ अथेति ॥ ५०७,५०८ ॥

सत्यप्रमोदटीका

‘चैतन्याविषयत्वेऽपि बाधकाभावाद् वृत्तिविषयत्वेनैव व्यवहारोपपत्तेः’ इति वादावलीं हृदि कृत्वाऽऽह अथेति । इयं खलु अपरोक्षा वृत्तिः । सा चेन्द्रियसन्निकर्षजन्या । सन्निकर्षश्च न मिथ्याभूतेन । अतः सत्यत्वं विषयस्य सिद्धमेवेत्याह घटस्येति ॥ स्वस्याः प्रागेव विद्यमान-वस्तुविषयिणी वृत्तिस् तदारोपरूपा न भवतीत्याह अत इति ॥५०७,५०८॥

युक्तिमल्लिका

वृत्तेर्भ्रमत्वे दृश्यस्य तत्रारोपो न ते मते ।

यद्दृशोऽन्यत्र नारोप इत्यनारोपितं जगत् ॥ ५०९ ॥

सुरोत्तमटीका

यद् यस्मात् । दृश्यस्य दृशि आरोपेण हि मिथ्यात्व-मुच्यते परेण । अयं घट इति दृशश्च वृत्तिरूपत्वे तदारोपस्य परेणाप्यनङ्गी-काराद् घटादेरनारोपितत्वमिति भावः ॥ ५०९ ॥

सत्यप्रमोदटीका

किं च वृत्तिविषयत्वाङ्गीकारे वृत्तेर्मिथ्यात्वेना-धिष्ठानत्वासम्भवाद् आध्यासिकसम्बन्धानुपपत्त्या सत्यत्वमेव जगतः सेत्स्यती-त्याह वृत्तेरिति । अन्यत्रेति चैतन्यारोपपक्षस्य प्रतीतिविरोधेन दूषितत्वादिति भावः ॥ ५०९ ॥

युक्तिमल्लिका

दृग्दृश्ययोगायोगेन मिथ्यात्वाशापि ते गता ॥ ५१० ॥

सुरोत्तमटीका

दोषान्तरं चाह ॥ दृग्दृश्येति ॥ उपलक्षणं चेदम् । वृत्त्याऽयमित्युल्लिख्यमानयोर्देशकालयोरधिष्ठानत्वानङ्गीकारान् निरधिष्ठान-भ्रमस्यायोगाच्च न वृत्तेर्भ्रमत्वमित्यपि द्रष्टव्यम् । नन्वयमिति न कालादेरु-ल्लेखः । किं त्वधिष्ठानचैतन्यस्यातो नैष दोष इति चेन्न । प्रागुक्तदोषत्रयस्या-परिहारात् । सर्वानुभवविरोधात् । क्षणिकत्ववादिनं प्रति घटादेस्स्थैर्य-साधकप्रत्यभिज्ञाभावप्रसङ्गाच्च ॥ ५१० ॥

सत्यप्रमोदटीका

योगेति त्वदभिमताध्यासयोगेत्यर्थः ॥ ५१० ॥

युक्तिमल्लिका

न चेयं वृत्तिरेवास्मिन् घटे तद्ब्रह्मताभ्रमः ।

चक्षुर्वृत्तावरूपस्य चैतन्यस्याप्रकाशनात् ॥ ५११ ॥

सुरोत्तमटीका

वृत्तौ चैतन्योल्लेखोऽप्ययमनुपपन्न इत्याह ॥ न चेति ॥ तद्ब्रह्मताभ्रमो ऽधिष्ठानचैतन्याख्यब्रह्माभेदभ्रमः । अयमित्यधिष्ठानचैतन्य-मुल्लिख्य तस्य घट इति घटरूपत्वं न वृत्तिरुल्लिखतीति भावः ॥ ५११ ॥

सत्यप्रमोदटीका

वृत्तिरेव घटस्य ब्रह्मण्यारोपरूपा इत्येतन्निराह न चेति । अरूपस्येति आसंसारमज्ञानावृतस्येत्यपि ध्येयम् । अन्यथा सद्यो मोक्षापत्तेरिति भावः ॥ ५११ ॥

युक्तिमल्लिका

न हीदमिति वा गन्धरसाद्यं भासते दृशि ।

अतोऽधिष्ठानविज्ञानशून्योऽयं स्याद्भ्रमः कथम् ॥ ५१२ ॥

सुरोत्तमटीका

दृशि चाक्षुषज्ञाने ॥ ५१२ ॥

सत्यप्रमोदटीका

ब्रह्मणश्चाक्षुषत्वाभावे गन्धरसादिदृष्टान्ताः । गन्ध-रसाद्येति । विज्ञानेति सामान्यज्ञानेत्यर्थः । याथात्म्यज्ञाने भ्रमासंभवात् । तदुक्तं वादावल्यां ‘किं चाध्यस्तत्वेन जीवेऽध्यासपक्षे सर्वदा प्रपञ्चः प्रकाशेत । ब्रह्मण्यध्यासे न कदाचिदि’ति ॥ ५१२ ॥

युक्तिमल्लिका

घटाक्षसन्निकर्षोत्था या वृत्तिस्तं घटं हि सा ।

प्रागेव सन्तमन्यत्र स्व(स्यांवा) स्मिन्वा कल्पयेत्कथम् ॥ ५१३ ॥

सुरोत्तमटीका

अस्मिन्नपि पक्षे प्रागुक्तदोषद्वयं च स्मारयति ॥ घटेति ॥ ५१३ ॥

सत्यप्रमोदटीका

अन्यत्र स्वसंबन्धेन निवृत्तावरणेऽधिष्ठानचैतन्ये । स्वस्यां वृत्तौ । कथमित्याक्षेपे । अयं प्रयोगः । घटः सर्वथाऽकल्पितः सत्यत्वेन प्रमितत्वात् । ब्रह्मवदिति । नासिद्धिः । प्रातिभासिकेतरत्वात् तद्वदेव इति प्रयोगो ध्येयः ॥ ५१३ ॥

युक्तिमल्लिका

वृत्त्याऽज्ञाने विनष्टे हि स्यादधिष्ठानदृग्भ्रमः ।

वृत्तिश्चोक्तप्रकारेण घटे सत्येव नान्यथा ।

भ्रमात्पूर्वं च सन्नर्थो ब्रह्मवन्न भ्रमोद्भवः ॥ ५१४ ॥

सुरोत्तमटीका

चैतन्यभ्रमपक्षेऽप्येनं दोषमुपपादयति ॥ वृत्त्येति ॥ उक्तः वृत्तिभ्रमपक्षे ॥ ५१४ ॥

सत्यप्रमोदटीका

भ्रमात् पूर्वम् इति । प्रातिभासिकेतर इत्याशयः॥ ५१४ ॥

युक्तिमल्लिका

किञ्चाहं घट इत्येव चैतन्यं चेद्घटभ्रमः ।

गौरोऽहमितिवत्तर्हि भ्रान्तिस्सा प्रातिभासिकी ॥ ५१५ ॥

न चेतनो घट इति बाधस्याद्यैव दर्शनात् ।

व्यावहारिकता तस्माद्घटादेर्जगतो गता ॥ ५१६ ॥

सुरोत्तमटीका

चैतन्यभ्रमपक्षे दोषान्तरं चाह ॥ किञ्चेति ॥ सा अहं घट इत्यादिरूपा । घटश्चेतनो नेति सम्बन्धः । औव ब्रह्मज्ञानात्पूर्वमेवे-त्यर्थः । तस्माद् इदानीमेव बाधितभ्रान्तिविषयत्वात् ॥ ५१५,५१६ ॥

सत्यप्रमोदटीका

यदि अनुभवविरुद्धम् अतिप्रसङ्गपराहतमपि घटोऽह-मिति भ्रमस्याकारं मन्वीत तर्हि गौरोऽहमिति प्रतीतिविषयगौरत्वमिव घटादिक मपि प्रतिभासिकमेव स्यान् न तु त्वद्रीत्या व्यावहारिकमित्याह किं चेति ॥ औव ब्रह्मज्ञानात् पूर्वमेव ॥५१५,५१६ ॥

युक्तिमल्लिका

इदमित्यन्यदुल्लिख्य तदभेदं घटे यदि ।

उल्लिखेद्ब्रह्मचैतन्यं सा भ्रान्तिरपि पूर्ववत् ।

नासावयमिति स्पष्टं बाधस्यैवाद्यदर्शनात् ॥ ५१७ ॥

सुरोत्तमटीका

अन्यज्जडान्तरं चैतन्यान्तरं वा । सा भ्रान्तिर् अधिष्ठान-चैतन्यरूपा अयं घट इति भ्रान्तिः । पूर्ववत् प्रातिभासिकीत्यर्थः । असौ अयमित्युल्लिख्यमानो देशकालादिः । अयं घटः ॥ ५१७ ॥

सत्यप्रमोदटीका

ननु भ्रमस्याकारो ऽहं घट इति नाङ्गीक्रियते । येनोक्तदोषः । किन्तु अयं घट इत्येव । न चाधिष्ठानाननुवेधो दोषः । इदं-शब्देन ब्रह्मण एवोल्लेखाभ्युपगमादित्यतश् चाक्षुषज्ञाने ब्रह्मणोऽप्रतिभासरूप-प्रागुक्तदोषे सत्येव दोषान्तरमाह इदमिति । अद्य त्वदभिमतभ्रमकाल एव । तदुक्तं वादावल्यां ‘यदि जगदात्मन्यारोपितं स्यात् तदाऽऽत्मनो भिन्नत्वेन न दृश्येत । दृश्यते च जगदिदानीम् आत्मनो भिन्नत्वेन । तस्मान्न तत्रारोपित-मि’ति इति ॥ ५१७ ॥

युक्तिमल्लिका

स्वस्मिन् वा देशकाले वा घटोऽस्तीत्युल्लिखेद्यदि ।

नायं तर्हि घटारोपः प्राक्सिद्धस्य विशिष्टधीः ॥ ५१८ ॥

सुरोत्तमटीका

नन्वधिष्ठानचैतन्यं स्वाभेदमन्याभेदं वा नोल्लिखति । किं त्वयं देशकालसम्बन्धीमत्सम्बन्धी वेति देशकालाद्याश्रितत्वमेवोल्लिखति । तच्चेदानीमबाधितमेवेति कथं प्रातिभासिकत्वमिति चेत् । सत्यम् । एवं तर्हि प्रमात्वमेव स्यान् न भ्रान्तित्वमित्याह ॥ स्वस्मिन्निति ॥ देशसहितः कालः देशकालः । विशिष्टधीर् मयि मुकुटमितिवद् भूतले घट इतिवद्वा विशिष्ट-मानमेवेत्यर्थः ॥ ५१८ ॥

सत्यप्रमोदटीका

यदि पुनः मयि घट इति वा अत्र घट इति वा भ्रमस्य आकारस्तर्हि इयं घटस्य चैतन्येन वा देशकालाभ्यां वा संसर्गधीरेव स्यान् न तु त्वदभिमतो ऽधिष्ठानतादात्म्यावभासो भ्रम इत्याह स्वस्मिन्निति ॥ ५१८ ॥

युक्तिमल्लिका

अधिष्ठानोल्लेखशून्यत्वाच्च नायं भ्रमस्तव ।

न हि देशाद्यधिष्ठानं नाप्यत्रायमिति भ्रमः ॥ ५१९ ॥

सुरोत्तमटीका

देशादीत्यत्रादिपदेन आधारतया प्रतीयमानं चैतन्यं च गृह्यते । धर्मिणस्तादात्म्यारोपं वदता परेण तस्याप्यधिष्ठानत्वानङ्गीकारात् ॥ ५१९ ॥

सत्यप्रमोदटीका

देशादीति । देशकालयोर्मिथ्यात्वेनाधिष्ठानत्वायोगात् । नापीति तादात्म्याध्यासत्वाभावात् ॥ ५१९ ॥

युक्तिमल्लिका

अतस्मिंस्तदिति ज्ञानं भ्रमः किल भवन्मते ।

इदं रजतमित्येव भ्रमस्सर्वत्र दृश्यते ॥ ५२० ॥

सुरोत्तमटीका

भ्रमस्सर्वत्र दृश्यत इत्यत्र भ्रमपदेन धर्म्यारोपो ग्राह्यः ॥ ५२० ॥

सत्यप्रमोदटीका

सर्वत्र तादात्म्यायोपस्थले ॥ ५२० ॥

युक्तिमल्लिका

अथेयं मानसी वृत्तिरधिष्ठानचितं हि ताम् ।

इदमित्युल्लिखन्त्यस्या घटाभेदं च पश्यति ।

अयमेव घटारोप इति पक्षो न शोभते ॥ ५२१ ॥

अधिष्ठानदृगेवाध्यस्तस्यारोपो हि ते मते ।

अतीन्द्रियं रूपशून्यं कथं चाक्षुषधीस्स्पृशेत् ॥ ५२२ ॥

सुरोत्तमटीका

प्रातिभासिकत्वदोषं परिहर्तुं पुनर्वृत्तिपक्षमालम्बते ॥ अथेति ॥ तस्या अधिष्ठानचितः । सामान्यत एव चैतन्याभेदग्रहणान् न प्रातिभासिकत्वमिति भावः ॥ ५२१,५२२ ॥

सत्यप्रमोदटीका

अथ मतम् । नायं भ्रमश्चैतन्यरूपः । येन अहं घट इत्युल्लेखापत्तिर् घटस्य प्रातिभासिकत्वापत्तिश्च । किं नाम वृत्तिरूप एव । न चाधिष्ठानानुल्लेखो दोषः । अयं घट इत्यत्र इदंशब्देन वृत्त्या चैतन्यम् उल्लिख्य चैतन्यस्य घटाभेदो विषयीक्रियते इत्यङ्गीकारादित्यत आह नेति ॥ वृत्ते-रनधिष्ठानत्वेनाध्यासिकसंबन्धानुपपत्तिस्तावदित्याह अधिष्ठानेति । इदंशब्देन चाक्षुषवृत्त्या चैतन्योल्लेखानुपपत्तिश्चेत्याह अतीन्द्रियेति ॥ ५२१,५२२ ॥

युक्तिमल्लिका

यदि स्पृशेत्तदाऽज्ञानं विनाश्य स्पष्टमेव तत् ।

उल्लिखन्ती जडाभेदं चेतने कथमुल्लिखेत् ॥ ५२३ ॥

सुरोत्तमटीका

अस्मिन्नपि पक्षे प्रागुक्तं दूषणद्वयं स्मारयन्प्राति-भासिकत्वमेव स्थापयति ॥ अधिष्ठानेति ॥ अज्ञानम् अधिष्ठानचैतन्यावरका-ज्ञानम् । तद् अधिष्ठानचैतन्यम् ॥ ५२३ ॥

युक्तिमल्लिका

इदानीमेव बाधेन स्यात्तदा प्रातिभासिकी ।

एवञ्च घटकुड््यादेर्व्यावहारिकता गता ।

भिक्षाजिघृक्षया यान्तं श्वा जग्राह पदे किल ॥ ५२४ ॥

सुरोत्तमटीका

तदा स्पष्टं चैतन्यमुल्लिख्य घटाभेदस्याप्युल्लेखे नहि स्पष्टदृष्टे शुनि अयमश्व इति सामान्यतः प्रतीतावपि बाधो नेत्यस्ति । एवं चेदमाभाणकमागतं परस्येत्याह ॥ भिक्षेति ॥ व्यावहारिकत्वाख्यस्वेष्टलाभाय प्रयत्नमानस्य प्रातिभासिकत्वाख्यमहादोषप्राप्तेरिति भावः ॥ ५२४ ॥

सत्यप्रमोदटीका

तुष्यत्विति न्यायेन उल्लेखाङ्गीकारेऽपि वृत्तेरज्ञान-विरोधित्वेन इदानीमेव भ्रमनिवृत्त्या घटस्य व्यावहारिकत्वहानिः । तथा चेदमाभाणकं तवापन्नमित्याह भिक्षामिति । भिक्षा अध्यासः जिघृक्षा वृत्त्या उपपादनेच्छा । श्वा उक्तदोषकलापः । पदे जग्राह तव सिद्धान्तमूलमेव निकृन्तितमभूदिति भावः ॥ ५२३,५२४ ॥

युक्तिमल्लिका

अतो देशे च काले च घटोऽस्तीत्येव सोल्लिखेत् ।

अयं च न घटारोपः प्राक्सिद्धस्य विशिष्टधीः ॥ ५२५ ॥

सुरोत्तमटीका

सा अयं घट इति वृत्तिः ॥ ५२५ ॥

सत्यप्रमोदटीका

इत्येव अत्र घटोऽस्तीत्येव । सा वृत्तिः । अयम् अत्र घट इति ज्ञानम् । न घटारोप इति । आरोप एव न भवति । तथात्वेऽपि घटसंसर्गारोप एव । उभयथाऽपि न घटस्य मिथ्यात्वसिद्धिः ॥ ५२५ ॥

युक्तिमल्लिका

यद्यज्ञानान्न वैकल्यं ब्रह्मणस्तर्हि न भ्रमः ।

यद्यज्ञानेन वैकल्यं ब्रह्मणस्तर्हि न भ्रमः ।

प्रमाणस्य ह्यवैकल्ये दोषाभावाद्ग्रहः प्रमा ।

प्रमाणस्य हि वैकल्याद्घटस्याग्रहणं तव ॥ ५२६ ॥

सुरोत्तमटीका

उभयतः पाशारज्ज्वा च भ्रमं वारयति ॥ यदीति ॥ एतदेवोपपादयति ॥ प्रमाणस्येति ॥ घटप्रमाणभूताधिष्ठानचैतन्यस्येत्यर्थः । अवैकल्ये अज्ञानेन वैकल्याभावे । दोषाभावाद् अप्रामाण्यकारणीभूतदोषा-भावात् । ग्रह अयं घट इति ज्ञानम् । प्रमा प्रमैव स्यान् न भ्रमः । अप्रामाण्यपरतस्त्ववादिना त्वयापि दोषादेव जगद्भ्रम इति वक्तव्यम् । दोषश्चाज्ञानमेव तेन चाधिष्ठानचैतन्यस्य वैकल्याभावेनासौ तस्य दोष इति तच्चैतन्यं घटादिप्रमैव स्यान् न भ्रम इति भावः । प्रमाणस्याधिष्ठानचैतन्यस्य । वैकल्याद् अज्ञानकृतवैकल्यात् । तव मते प्रमाणवैकल्याद् घटादीनामग्रहणं वदतो मते वैकल्ये सति कथं घटादि ग्रहणरूपो भ्रमः स्याद् एवं च प्रमाणस्याज्ञानकृतवैकल्याभावे दोषाभावान्न भ्रमः । वैकल्ये चार्थग्रहण-शक्त्यभावान्न भ्रम इति नोभयथापि जगद्भ्रम इति भावः ॥ ५२६ ॥

सत्यप्रमोदटीका

घटादौ प्रमाणाभिमतस्य अधिष्ठानब्रह्मचैतन्यस्य अज्ञानेन वैकल्यं भवति न वा । न द्वितीयः । दोषाभावेन घटज्ञानं प्रमैव स्यादित्याह दोषाभावाद्ग्रहः प्रमेति । नाद्यः । वैकल्याद् घटस्य ग्रह एव न स्यात् । दूरे तस्य ज्ञानस्य भ्रमत्वम् इत्याह अग्रहणं तवेति । तवेत्यनेन प्रमाणवैकल्यादग्रहणमिति तन्मतप्रक्रियां स्मारयति । तथा च उभयथाऽपि न जगद्भ्रमः । तव इत्येतद् दोषाभावाद्ग्रहः प्रमा इति पक्षेऽपि योज्यम् । तेन प्रामाण्यस्य स्वतस्त्वाङ्गीकारः परस्य द्योत्यते ॥ ५२६ ॥

युक्तिमल्लिका

यद्यारोपं विनाऽपि स्याद्घटादीनामवस्थितिः ।

तर्ह्यनारोपितं सर्वं जगद्ब्रह्यवदेव हि ॥ ५२७ ॥

सुरोत्तमटीका

प्रकारान्तरेणाप्युभयतः पाशारज्जुमाह ॥ यद्यारोपमिति ॥ ५२७ ॥

सत्यप्रमोदटीका

किं च आरोपाभावेऽपि घटादिकं प्रकाशते उत आरोपसद्भावदशायामेव । नाद्यः घटादेरनारोपितत्वमेव स्यादित्याह ब्रह्मवदिति ॥ ५२७ ॥

युक्तिमल्लिका

यद्यारोपं विना न स्यात्सर्वं प्रातीतिकं भवेत् ।

प्रमाणस्य हि वैकल्यात्कस्याग्रहणमुच्यते ।

अज्ञानाद्येव कस्मात्ते प्रातीतिकमभून्मते ॥ ५२८ ॥

सुरोत्तमटीका

प्रातीतिकं प्रतीतिदशायामेव विद्यमानम् ॥ ५२८ ॥

सत्यप्रमोदटीका

न द्वितीयः । सर्वस्यापि अज्ञानादिवत् प्राति-भासिकत्वस्यैवापत्तेः । व्यावहारिकस्यैवाभावेन प्रमाणवैकल्याद्व्यावहारिका-ग्रहणम् इति त्वत्प्रक्रियाहानिरित्याह प्रातीतिकमिति । कस्येति च । कस्मा-दिति । उभयेषां प्रतीतिमात्रसमयपरिवर्तित्वसाम्यादिति भावः ॥ ५२८ ॥

युक्तिमल्लिका

आरोपकुण्ठनं चेत्स्यात्तदा घटनिवर्तने ।

निर्घटं जगदेतत्स्यात्सन्निकर्षाद्यसम्भवात् ॥ ५२९ ॥

चक्षुर्वृत्तेरयोगेन कुण्ठने नास्ति कुण्ठनम् ।

अतः पुनर्भ्रमायोगादघटं भूतलं भवेत् ॥ ५३० ॥

सुरोत्तमटीका

आरोपकुण्ठनं प्रातीतिकत्वपरिहाराय घटादीनां कदाचि-दारोपाभाव इत्यर्थः । निर्घटम् आरोपाभावदशायाम् आरोपितस्याप्यभावा-वश्यम्भावेन घटरहितम् । कुण्ठने आरोपकुण्ठने । कुण्ठनं परिहारः । प्रातीतिकत्वपरिहारायाङ्गीकृतारोपकुण्ठनस्य पुनरारोपोपायाभावेन कदापि परिहारो न स्यादिति भावः।अतः घटाभावेन घटापरोक्षवृत्तिजनकसंयोग-स्याप्यभावात्॥५२९,५३० ॥

सत्यप्रमोदटीका

प्रातीतिकत्वपरिहाराय घटारोपश्चेन्नङ्गीक्रियते तर्हि घटस्यैवाभावापादेन निर्घटमेव जगत् स्यादित्याह आरोपेति । कुण्ठने तदभावाङ्गीकारे । ननु पुनरारोपेण घटसिद्धिरस्तु इति चेन् नैतत्सम्भवतीत्याह सन्निकर्षासम्भवादिति । आरोपाभावेन घटस्यैव प्रागभावाद् अविद्यमानेन सन्निकर्षस्यासम्भवात् सन्निकर्षापेक्षारोपस्य पुनरुत्पत्तेरेवायोगेन न घटप्रत्या-वृत्तिप्रत्याशेत्याह कुण्ठने इति । आरोपाभावे इत्यर्थः । कुण्ठनं परिहारः । सन्निकर्षजन्यवृत्त्यैव आरोपाभावस्य परिहारः पुनरारोपोत्पत्तिरिति यावत् । एष्टव्या । सैव न संभवतीत्युक्तमिति भावः ॥ ५२९,५३० ॥

युक्तिमल्लिका

आरोपकुण्ठने चेत्स्यात्तर्ह्यनारोपितो घटः ।

नारोपितो हि सोऽश्वस्स्याद्योऽश्वाभावेऽपि तिष्ठति ॥ ५३१ ॥

सुरोत्तमटीका

आरोपकुण्ठने आरोपकुण्ठनदशायामपि । स्याद् घटस्स्याच्चेदित्यर्थः । आरोपाभावे स्थितस्यानारोपितत्वमेवेत्यत्र दृष्टान्तमाह ॥ न चेति ॥ अश्वाभावे अश्वारोपाभावे ॥ ५३१ ॥

सत्यप्रमोदटीका

आरोपाभावाङ्गीकारे निर्घटं स्यादिति पररीत्यैवोक्तम् । वस्तुतस् तथात्वे घटस्यानारोपितत्वरूपं सत्यत्वमेव सेत्स्यतीति सदृष्टान्तमुप-पादयति नेति । अश्वाभावेऽपि अश्वस्यारोपाभावेऽपि ॥ ५३१ ॥

युक्तिमल्लिका

घटोऽज्ञानेन जन्यश्चेत्तर्हीदंपूर्वता कुतः ।

अज्ञानस्य ब्रह्मणश्च सदा सर्वत्र वर्तनात् ॥ ५३२ ॥

सुरोत्तमटीका

घटस्य भ्रमजन्यत्वे दोषान्तरमप्याह ॥ घट इति ॥ अज्ञानेन ज्ञानेन चेति द्वेधा पदच्छेदः । ज्ञानेन ब्रह्मज्ञानेन । घटादीनाम-ज्ञानसहितब्रह्मभ्रममात्रसम्भूतत्वे तयोरुभयोरप्यनादित्वाद्घटादीनामप्यनादित्वं स्यादित्यर्थः ॥ ५३२ ॥

सत्यप्रमोदटीका

अध्यस्तं हि रूप्यादिकम् अधिष्ठानाज्ञानजन्यं, तत्प्रति-भासात्मकं च परेणाङ्गीक्रियते । तदुभयं साधारणदोषेण दूषयति घट इति । अज्ञानेन जन्य इति पदच्छेदः । ज्ञानरूपं चेदित्यप्युपस्कर्तव्यम् । कुत इति । घटादीनामनादित्वमेव स्यादिति यावत् । तत्र हेतुर् अज्ञानस्येति घटादि-कारणस्य । ब्रह्मणः घटावभासात्मकचैतन्यस्य । न हि सामग्री कार्यं व्यभिचरति नापि प्रतिभासः प्रतिभासिकं विनाऽवतिष्ठत इति भावः ॥५३२॥

युक्तिमल्लिका

मृदाद्यभावान्नाभूच्चेत्तत्किमज्ञानजं न ते ।

यदि तत्सर्वमन्यस्माद्घटस्तस्माद्भविष्यति ॥ ५३३ ॥

सुरोत्तमटीका

तन्मृदादिकम् । ते मते । घटादिवन्मृदादीनामप्यज्ञान-ब्रह्मभ्रममात्रजन्यत्वेन तेऽप्यनादिकालमारभ्यस्युरिति भावः । अन्यस्माद् अज्ञानब्रह्मव्यतिरिक्तात् कुलालादेः ॥ ५३३ ॥

सत्यप्रमोदटीका

अथाज्ञानमात्रं न सामग्री किन्तु मृदादिकमपि । तद-भावाद् घटादेर् नानदित्वं दोष इति चेत्तत्र प्रष्टव्यम् । तन्मृदादिकमपि कस्य कार्यमिति । अज्ञानस्येति चेदुक्तदोषानिस्तारः । मृदादीनामपि अनाद्यज्ञान-जन्यत्वादनादित्वेन तत्कार्यघटादेरनादित्वापातस्य तदवस्थत्वादिति । यदि पुनर्मृदादेरज्ञानातिरिक्तकार्यत्वं तर्हि तस्य सत्यत्वापत्तिरिति दोषे सत्येव दोषान्तरमाह घट इति । तस्मात् कारणान्तरात् । तथा चैकविध्यसम्भवेन किं घटादिमात्रस्य अप्रामाणिकाज्ञानजन्यत्वकल्पनयेति भावः ॥ ५३३ ॥

युक्तिमल्लिका

यद्यज्ञानेन ते ब्रह्म घटं भ्रान्त्यैव कल्पयेत् ।

मठान्तर्घटसन्तानैः कुतो नापूर्यते स्थली ॥ ५३४ ॥

सुरोत्तमटीका

बाधकान्तरं चाह ॥ यदीति ॥ मठान्तः मायि-मठान्तः । ब्रह्मभ्रमजन्यत्वस्य तैरेवाघोषितत्वादिति भावः ॥ ५३४ ॥

युक्तिमल्लिका

किं कुलालस्य शालैव ब्रह्मणः क्षीरसागरः ।

किं दीर्घादीर्घबाधाभ्यां विशेषो बाध्यवस्तुनोः ॥ ५३५ ॥

सुरोत्तमटीका

स्वाज्ञानेन स्वभ्रमेण च घटशारावोदं चनादिकं कुला-लशालायामेव सृजतीति परेणाङ्गीकारात्तमपि हसति ॥ किमिति । ब्रह्मणः परकीयब्रह्मणः । मायिमते प्रातिभासिकस्थलीयस्य सर्वस्य भ्रमजत्वेऽपि प्रातिभासिकं यत्राज्ञानं तत्रैव सृजति । न तु व्यावहारिकमिति मन्दाशङ्कां परिहरति ॥ किं दीर्घेति ॥ बाधे चिरकालीनत्वाल्पकालीनत्वविशेष सद्भावेऽप्यारोप्योभयत्रसाम्यात् सृष्टौ साम्यमपरिहार्यमेवेति भावः ॥ ५३५ ॥

सत्यप्रमोदटीका

दण्डादिनैरपेक्ष्येण अज्ञानेनैव ब्रह्म घटादीन् सृजतीति पक्षेऽतिप्रसङ्गमाह यदीति । कुलालशालातः मठस्य मृद्दण्डाद्यभाव एव विशेषो वाच्यः । स च त्वयैवाप्रयोजकीकृत इत्याशयः । कुलालशालामधिष्ठायैव ब्रह्म घटादिकं कल्पयति इति क्षुद्रशङ्कां परिहरति क्षीरसागर इति । स्यादेतत् । व्यावहारिकं घटादिकं ब्रह्म मृदादिसापेक्षमेव कल्पयति । प्रातिभासिकम् अज्ञानादिकं तु तन्निरपेक्षमेव । अतो नोक्तो दोष इति । अत्र विवेक्तव्यम् । को नाम व्यावहारिकप्रातिभासिकयोर्विशेषः । उभयोर् वाङ्मात्रत्वेन अकिञ्चि-त्करत्वादित्याह किमिति । दीर्घादीर्घेति । दीर्घादीर्घकालानन्तरभावीत्यर्थः । विशेषः सृष्टौ अज्ञानेतरसापेक्षत्वतन्निरपेक्षत्वरूपः । यथोक्तं सुधायां ‘बाध-विलम्बस्त्वप्रयोजकः । अर्थतादवस्थ्यानिवृत्ते’रिति ॥ ५३५ ॥

युक्तिमल्लिका

अन्वयव्यतिरेकाभ्यां दृष्टं कारणचक्रतः ।

तत्तत्कार्यस्य जन्मास्तु तेऽज्ञानं तव तिष्ठतु ॥ ५३६ ॥

सुरोत्तमटीका

दृष्टं जन्मेति सम्बन्धः । अन्वयव्यतिरेकाभ्यामिति वदताऽऽज्ञानस्य घटादौ तददर्शनात्तस्मादजन्म च सूचयति ॥ ५३६ ॥

सत्यप्रमोदटीका

किं च अज्ञानोपादानकत्ववादिनाऽपि तत्तदुचिता-सङ्कीर्णव्यवहारनिर्वाहार्थं तत्तदुपादानभूतमृदादिकार्यत्वं स्वीकार्यम् । अन्वय-व्यतिरेकसिद्धत्वात् । तथा च आनुभाविकैस् तत्तदुपादानमृदादिभिरेवालम् । किम् अनर्थयाऽज्ञानकल्पनयेत्याह तत्तदिति । अज्ञानं तु त्वत्कुकपोलकल्पनाया निमित्तकारणमेवास्तु इत्याह तवेति ॥ ५३६ ॥

युक्तिमल्लिका

यदीदमंशो ब्रह्म स्यादनिदंरूपता कथम् ।

स्थैर्यासिद्धिः पदार्थानां देशकालाविवक्षणे ॥ ५३७ ॥

सुरोत्तमटीका

अयं घट इति ज्ञानस्येदमंशेन चैतन्योल्लेखाङ्गीकारे पुनरपि दूषणद्वयमाह ॥ यदीति ॥ ब्रह्मणः परेणाङ्गीकृतमनिदं पदार्थत्वम् । सोऽयं घट इति प्रत्यभिज्ञया तद्देशकालस्थितस्यैव तद्देशकालेऽपि स्थिति-बोधनात् । घटादीनां स्थैर्यमिति क्षणिकत्ववादिनं प्रति परेणाप्युच्यते । तदपि न स्यादिति भावः ॥ ५३७ ॥

सत्यप्रमोदटीका

यदि अयं घट इत्यत्र इदंशब्देन अधिष्ठानं ब्रह्मोच्यते, तर्हि तस्य त्वदङ्गीकृतानिदंरूपता विरुध्यते इत्याह यदीति । घटादेस् तदिदंपदाविषयत्वे सोऽयं घट इत्यादिप्रत्यभिज्ञया स्थैर्यासिद्ध्या क्षणिकत्व-निराकरणं न स्यादित्याह स्थैर्येति ॥ ५३७ ॥

युक्तिमल्लिका

घटं ताडयता दण्डैः प्रायो ब्रह्मापि ताडितम् ।

यदौपनिषदत्वे स्वे छलं त्यक्त्वैव दृश्यते ॥ ५३८ ॥

सुरोत्तमटीका

घटोत्पत्तिसमये घटं भ्रान्त्या पश्यन्कुम्भकारोऽधिष्ठानभूतं ब्रह्माप्ययमिति पश्यतीति परस्य प्रक्रिया । तत्र ब्रह्मणो नीरूपद्रव्यत्वान्न चाक्षुषत्वमिति दूषणं प्रागुक्तम् औपनिषदत्वाच्च तस्य न चाक्षुषत्वमिति साहित्यमुद्रयाऽऽह ॥ घटमिति ॥ ताडयता कुलालेन ॥ ५३८ ॥

सत्यप्रमोदटीका

औपनिषदं ब्रह्म न चाक्षुषवृत्तौ विषय इत्येत-त्साहित्यमुद्रया रञ्जयति घटमिति ॥ ५३८ ॥

युक्तिमल्लिका

किं लोकानुभवस्सूत्रं येन भाष्यमपेक्षते ।

देशकालस्थमेवेदं तदित्याहुर्हि लौकिकाः ॥ ५३९ ॥

सुरोत्तमटीका

अयं घट इत्यत्रेदमंशस्य ब्रह्मपरत्वे सार्वजनीनानुभव-विरोधाख्यदोषं च साहित्यमुद्रयाऽऽह ॥ किमिति ॥ सूत्रं सूत्रस्थानीयम् । यथासूत्रस्य भाष्येण व्याख्यानं क्रियते तथानुभवस्यापि कुतो व्याख्यानं क्रियत इति भावः ॥ ५३९ ॥

सत्यप्रमोदटीका

अनुभवो नापलापार्ह इत्येतत्साहित्यमुद्रयाऽऽह किं चेति । तदुक्तमभियुक्तैः ‘न हि प्रतीतिर्व्याख्यानमपेक्षते’ इति ॥ ५३९ ॥

युक्तिमल्लिका

घटोऽयमिति धीर्भ्रान्तिः किल लोकस्य संमता ।

यद्ब्रह्म घटतादात्म्यधीत्वं तस्याः परो वदेत् ॥ ५४० ॥

सुरोत्तमटीका

प्रकारान्तरेणाप्यनुभवविरोधमाह ॥ घट इति ॥ यद् यस्मात् । तस्या घटोऽयमिति धियः ॥ ५४० ॥

सत्यप्रमोदटीका

लोकसिद्धभ्रमबाधयोर्वैपरीत्यं चैवं सति स्यादित्याह द्वाभ्यां घट इत्यादिना ॥ ५४०,५४१ ॥

युक्तिमल्लिका

घटे नायं घट इति या भ्रान्तिस्सा प्रमा किल ।

यद्घटो ब्रह्म नेत्यर्थस्तस्याः परमते भवेत् ॥ ५४१ ॥

सुरोत्तमटीका

घटे पुरोवर्तिनि तस्मिन्घटे । यद् यस्मात् । तस्या नायं घट इति प्रतीतेः ॥ ५४१ ॥

युक्तिमल्लिका

यस्य ह्यभ्रमकालेऽपि सिद्धिस्स्वमतसंमता ।

अनारोपितमेवेदं ब्रह्मवद्धि घटादिकम् ॥ ५४२ ॥

सुरोत्तमटीका

सन्निकर्षघटकतया घटादीनां प्राक्सत्त्वमिति पूर्वमुक्तम् । इदानीं घटादेरप्रातीतिकत्वमङ्गीकुर्वतः परस्य प्रक्रिययैव सिद्धमित्याह ॥ यस्येति ॥ यस्य घटादेः । स्वमतसंमता मायावादिमतसंमता । अज्ञान-सुखादिवद् घटादेः प्रातीतिकत्वानङ्गीकारादिति भावः ॥ ५४२ ॥

युक्तिमल्लिका

अनानुभविकं स्वस्य सर्वानुभवबाधितम् ।

मिथ्यात्वे बहुकल्प्यं स्यात्ततस्सत्यमिदं जगत् ॥ ५४३ ॥

सुरोत्तमटीका

किञ्च मिथ्यात्वाङ्गीकारे सर्वानुभवविरुद्धं बहुप्रमेयं कल्पनीयम् । सत्यत्वाङ्गीकारे तु न कापि कल्पना । अतो लाघवाख्यतर्कानु-गृहीतत्वात्सत्यत्वप्रमाणान्येव सुदृढानीत्याह ॥ अनानुभविकमिति ॥ ततः कल्पनागौरवाभावात् ॥ ५४३ ॥

सत्यप्रमोदटीका

अभ्रमकाले भ्रमात्पूर्वं सन्निकर्षनिर्वाहार्थम् । स्वेति । अन्यथा वृत्तेस् तत्र प्रतिबिम्बनमित्यादि तत्प्रक्रियाऽनुपपत्तेः ॥ ५४३ ॥