मायाविनो न चेद्भ्रान्तिर्विश्वमासीदनाकुलम्
मायामयत्वखण्डनम्
युक्तिमल्लिका
मायाविनो न चेद्भ्रान्तिर्विश्वमासीदनाकुलम् ।
मायाविनो यदि भ्रान्तिर्विश्वं नारोपितं मम ॥ ४६४ ॥
सुरोत्तमटीका
मायाविनो जगदीश्वरस्य भ्रान्तिर्न चेत् । विश्वं सर्वज्ञस्य तस्य प्रमाविषयीभूतविश्वम् । तथा चोभयतः पाशारज्जुरित्याह ॥ मायाविन इति ॥ प्रथमपक्षे मायाया अविद्यात्वपातेन तदावृत्तेश्वरचैतन्यस्योक्तविधया जगद्भ्रमत्वायोगादिति भावः । द्वितीयपक्षस्य तु भावः पूर्वपद्य एवोक्तः ॥ ४६४ ॥
सत्यप्रमोदटीका
किञ्च मायावी ईश्वर एव तवाभिमतः । तस्य भ्रान्तिर् मायिकवस्तुदर्शनम् अस्ति न वा । न चेत् तस्य ज्ञानस्य प्रमात्वापत्त्या तद्विषयस्य विश्वस्य सत्यत्वमेव स्यादित्याह विश्वमिति । अस्ति चेत् तथाऽपि विश्व-सत्यत्वमेव सेत्स्यतीत्याह नारोपितमिति । भ्रान्तेः सत्याधिष्ठानप्रधानसादृश्य-द्रष्टृतद्देहेन्द्रियदोषसंस्कारबाधकाज्ञानादिपूर्वकत्वनियमात् । देहेन्द्रियादीनां च पृथिव्यादिकार्यत्वात् तेषामपि सत्यत्वमावश्यकम् । न चैतेषाम् अपि भ्रान्ति-विषयता । अन्योन्याश्रयात् । भ्रान्तिसिद्धौ देहेन्द्रियादिसिद्धिस् तत्सिद्धौ च भ्रान्तिसिद्धिरिति । अत्र विस्तरः न्यायामृते प्रतिकूलतर्कपराहतिप्रकरणे (प्र.२५) ॥ ४६४ ॥
युक्तिमल्लिका
किञ्च मायाविनस्स्थूलदेहेन्द्रियगुणादिकम् ।
ब्रह्मगाज्ञानपरिणामात्मकं तेन चेष्यते ॥ ४६५ ॥
सुरोत्तमटीका
दूषणान्तरं चाह ॥ किञ्चेति ॥ तेन मायावादिना ॥ ४६५–४६९ ॥
सत्यप्रमोदटीका
बकबन्धनन्यायपराहता चेयं परप्रक्रियेत्याह त्रिभिः किञ्चेत्यादिना । ब्रह्मणोऽज्ञानपरिणामात्मकं व्यावहारिकम् । न तु प्राति-भासिकम् । तथा च जगदपि तथैव आविद्यकम् अस्तु किं मायिकत्वदुर्व्यसनेन । लाघवाद् ऐकरूप्याच्चेति भावः ॥ ४६५ ॥
युक्तिमल्लिका
एवं चेज्जगदेतच्च ब्रह्म स्वाविद्यया सृजेत् ।
अतदाकारपरिणामाख्यविक्षेपशक्तया ॥ ४६६ ॥
सत्यप्रमोदटीका
देहेन्द्रियादीनामिव विश्वस्यापि अतदाकारपरिणाम-रूपया अविद्याशक्त्यैव सृष्टिस् तन्मते सुलभैवेत्याह एवमिति ॥ ४६६ ॥
युक्तिमल्लिका
अज्ञानापगमे चाधिष्ठानदृक्चास्तु तस्य दृक् ।
बकबन्धाय निर्बन्धो निर्निबन्धन एव ते ॥ ४६७ ॥
सत्यप्रमोदटीका
कथं तर्हि विश्वस्य दर्शनमित्यतः मोक्तं विस्मार्षी-रित्याह अज्ञानापगम इति ॥ ४६७ ॥
युक्तिमल्लिका
तस्मादज्ञानकलिलं ब्रह्म वा मायया वृतः ।
महेश्वरो वा सर्वार्थांस्तया पूर्वं द्विरूपया ॥ ४६८ ॥
अतदाकारपरिणामाख्यविक्षेपशक्तया ।
करोत्येव ततः पश्चात्सन्निकृष्टेन्द्रियैश्शुभैः ।
पश्यन्ति सर्वे सर्वत्रेत्येव वाच्यं त्वयाऽपि हि ॥ ४६९ ॥
सत्यप्रमोदटीका
कलिलम् आवृतम् । माययेत्यनास्थया । स्रष्टा यो वा को वाऽस्तु आविद्यकैव सृष्टिस्त्वयोच्यतां न मायिका इत्यत्र नैर्भर्यम् । अतदाकारपरिणामशक्तेर् अविद्यायामेव सम्भवात् । सन्निकृष्टेन्द्रियैरिति । अन्यथा प्रतिकर्मव्यवस्थाऽयोगात् ॥ ४६८–४६९ ॥
युक्तिमल्लिका
मायारूप्यं शुक्तिरूप्यं दोषशक्त्यैव केवलम् ।
दृष्टं स्यात्सन्निकृष्टत्वं तत्र नेष्टं द्वयोरपि ।
अतस्तदारोपितं स्याद्दोषयुक्तेन चक्षुषा ॥ ४७० ॥
सुरोत्तमटीका
तत्र रजतसृष्टौ मायासृष्टौ च । तन्मायिकं शुक्ति-रजतादिकं च ॥ ४७० ॥
सत्यप्रमोदटीका
प्रतिभासिकदर्शने सन्निकर्षासम्भवाद् दोष एव तत्कार्यकर इत्याह मायेति ॥ ४७० ॥
युक्तिमल्लिका
व्यावहारिकविश्वं तु सन्निकर्षेऽक्षगोचरः ।
नो चेन्नेति मतं यस्मात्तवापि च ममापि च ।
तस्मादनारोपितत्वं तत्त्वमासीज्जगत्त्रये ॥ ४७१ ॥
सुरोत्तमटीका
नो चेत् सन्निकर्षो नो चेत् । तस्मात्सन्निकृष्टकरण-ग्राह्यत्वेनारोपितवैलक्षण्यात् । एवं च जगदनारोपितं सन्निकृष्टकरणग्राह्यत्वात् । व्यतिरेकेण शुक्तिरूप्यवदित्यनुमानमप्यनेन सूचितम् । प्राक्सन्निकर्षलब्धार्थ-सत्तयाऽऽरोपो नेत्युक्तम् । अधुना सन्निकर्षबलादेवेति विशेषः । इदमुक्तं भवति । विवरणोक्तरीत्या ब्रह्माश्रिताविद्यया जगत्सृष्टिपक्षे महीमहीधरादि-जगदधिष्ठानभूतब्रह्मचैतन्यस्य घटाद्यधिष्ठानचैतन्यवन्मानसापरोक्षवृत्त्या-स्वावरकाज्ञानापगमपर्यन्तं जगद्भ्रमत्वायोगाद् अनारोपितमेव जगत्स्यात् । अत एव ह्यविद्यावृतशुक्त्यवच्छिन्नचैतन्यस्य स्वावरकाविद्योपादानकरजतभ्रमत्वानु-पपत्तेरान्तरसाक्षिचैतन्यस्यैव तद्भ्रमत्ववर्णनं मायावादिनां घटाद्यधिष्ठान-चैतन्येऽप्यज्ञानापगमानुसरणं च । एकत्रावरणस्याकिञ्चित्करत्वेऽन्यत्राप्य-किञ्चित्करत्वस्यापरिहारात् ।
किञ्च घटादिचैतन्यानामपि साक्षाद्ब्रह्मचैतन्यत्वेन तद्भ्रमप्रतिरोधकस्या-ज्ञानस्य कथं न जगद्भ्रमप्रतिरोधकत्वं मायासृष्टिपक्षेऽपि मायायास्स्वाश्रया-व्यामोहकत्वेन सर्वज्ञेश्वरस्य मायिकत्वेनाभिमतजगदज्ञानाभावप्रसङ्गात् । सर्वज्ञत्वरक्षणाय ईश्वरज्ञानविषयत्वाङ्गीकारे च माययाऽव्यामुग्धतया प्रमाभूत-दृग्विषयत्वेन सत्यत्वापरिहाराच्च ईश्वरदेहगेहादेर्द्रष्टृजीवदेहेन्द्रियादेश्च सत्यत्व-प्रसङ्गात् । भगवद्देहादेर्जीवदेहादेश्चाविद्यकत्वे तत्कल्पकत्वेनाभिमतब्रह्मणोऽपि पूर्वोक्तरीत्या तद्भ्रमत्वायोगेन तेषां सत्यत्वापरिहारात् । जगतोऽपि तद्वत्सृष्टि-सम्भवेन कल्पनाद्वयवैयर्थ्यापाताच्च । मायिककरितुरगादिवदसन्निकृष्टानामेव घटपटादीनां दर्शनप्रसङ्गात् परेणापि सन्निकृष्टानामेवैषां दर्शनाङ्गीकारेणा-रोपात्पूर्वं सन्निकर्षघटकतया सत्त्वप्रसङ्गात् । सन्निकृष्टकरणग्राह्यत्वाख्य-व्यतिरेक्यनुमानेन च सत्यत्वप्रसङ्गात् । मायाविनो जगदीश्वरस्यापि भ्रम-सम्पादकत्वे च स्वाश्रयाव्यामोहकत्वाभावेन मायाया अज्ञानत्वापातेनाज्ञान-पक्षोक्तदोषेणैव दुष्टत्वप्रसङ्गात् । नापि जगद्द्रष्टृनानाजीवानामपरोक्षवृत्तिरेव तत्तद्भ्रमः । तस्याश्चक्षुरादीन्द्रियसन्निकर्षजन्यत्वनियमेन सन्निकर्षघटकघट-पटादीनां प्रागेव सत्यत्वप्रसङ्गात् । दृग्दृश्ययोगायोगं वदता परेण तस्या जगद्भ्रमत्वानङ्गीकाराच्चेति ॥ ४७१ ॥
सत्यप्रमोदटीका
तस्माद् व्यावहारिकवस्तुदर्शनस्य अन्वयव्यतिरेकाभ्यां सन्निकर्षसापेक्षताऽध्यवसायात् सन्निकर्षस्य च पूर्वं वस्तुसद्भावनियतेर् भ्रान्तेः पुरैव विद्यमानस्य भ्रान्तिकल्पितताऽसम्भवाच्चेति भावः ॥ ४७१ ॥
युक्तिमल्लिका
अतस्त्वत्प्रक्रियाम्बैव सूतेऽनारोपितं जगत् ।
या जलाञ्जलिना स्वेनैवारोपाग्निमशीशमत् ॥ ४७२ ॥
सुरोत्तमटीका
आरोपानुपपत्तिकथनमुपसंहरति ॥ अत इति ॥ या प्रक्रिया । जलाञ्जलिना प्रमेयाख्यजलाञ्जलिना । पूर्वोत्तरपर्यालोचनायां तदीयप्रमेयस्यैवारोपविरुद्धतया जगद्रक्षणोपयोगित्वाज् जलाञ्जलिनेत्युक्तम् ॥ ४७२ ॥
सत्यप्रमोदटीका
अतः संप्रतिपन्नभ्रान्तपदार्थेतरत्वरूपस्य प्रातिभासि-केतरत्वस्य त्वयैव वियदादौ विश्वेऽभ्युपगमात् । स एव वादावल्युक्तो हेतुः । अनारोपितं तत्त्वावेदकप्रमाणदृष्टत्वं तत एव पारमार्थिकसत्यत्वं च सूते निराबाधतया साधयति । ब्रह्मणोऽन्वयदृष्टान्तस्य, शुक्तिरूप्यादेर्व्यतिरेक-दृष्टान्तस्य च जागरूकत्वादिति भावः । जलाञ्जलिना व्यावहारिकत्वाभ्युप-गमेन ॥ ४७२ ॥
युक्तिमल्लिका
अतो मूलस्य शोधे तु मिथ्यात्वे नास्ति कारणम् ।
सत्यत्वसाधकान्येव सन्दृश्यन्ते सहस्रशः ॥ ४७३ ॥
सुरोत्तमटीका
मूलस्य जगत्सृष्टेः ॥ ४७३ ॥
सत्यप्रमोदटीका
मूलस्य । चिद्वेद्यत्वे वा वृत्तिवेद्यत्वे वा प्राक् सन्निकर्षसम्पादकतया सत्यत्वापेक्षारूपस्य । तथा प्रातिभासिकत्वपक्षेऽपि द्रष्टृदेहेन्द्रियादिसत्यत्वरूपस्य । कारणं साधकम् । संदृश्यन्ते । उपजीव्यत्व-निरवकाशत्वादिसमस्तन्यायैः प्राबल्योपेतानि प्रत्यक्षादीनि उपलभ्यन्ते । सहस्रशः बहुत्वनिमित्तकबलवन्ति च ॥ ४७३ ॥
युक्तिमल्लिका
तदधिष्ठानचैतन्यं प्राग्विश्वाकारविक्रियम् ।
तत्कल्पकभ्रमत्वं तु तस्य न स्यात्कदाचन ॥ ४७४ ॥
सुरोत्तमटीका
तत् तस्मात् । प्राक्सृष्टिदशायाम् । विश्वाकारविक्रियं विश्वाकारेण विक्रियाऽविद्यापरिणामो यस्मिंस्तत्तथोक्तम् । तस्य जगदुपादाना-विद्यावृतब्रह्मणः ॥ ४७४ ॥
सत्यप्रमोदटीका
तदिति विश्वेत्यर्थः । तदाकारविक्रियं विश्वाकारेण विकारवत् । तत्कल्पकं तद्विषयकभ्रमरूपम् । कदाचन प्राक् प्रतीतेर् आवरणसद्भावेन उत्पादस्यैवाभावात्, पश्चादुत्पद्यमानायाश्च सन्निकर्षसम्पादक-तया स्वोपजीव्यपदार्थसत्यत्वं प्रति बाधकत्वासंभवात् ॥ ४७४ ॥
युक्तिमल्लिका
वृत्तिश्च सन्निकृष्टार्थभवा सिद्धस्य वेदनम् ।
तत्कल्पकभ्रमत्वं च तस्या अपि न कर्हिचित् ॥ ४७५ ॥
सुरोत्तमटीका
सन्निकृष्टार्थभवा इन्द्रियार्थसन्निकर्षजन्येत्यर्थः । तस्या वृत्तेः ॥ ४७५ ॥
युक्तिमल्लिका
तस्मादभ्रमसिद्धत्वं सत्यतासाधकं दृढम् ॥ ४७६ ॥
सुरोत्तमटीका
स्वसाधितप्रमेयस्य प्रकृतोपयोगं दर्शयति ॥ तस्मादिति ॥ ४७६ ॥
सत्यप्रमोदटीका
तस्मात् तत्वावेदकप्राणदृष्टत्वात् ॥ ४७६ ॥
युक्तिमल्लिका
तत्र तत्र स्थितं ब्रह्म स्वाज्ञानकलिलं किल ।
घटोऽहमित्यादिरूपैर्भ्रान्तं सर्वत्र सर्वदा ।
इत्थं तद्भ्रान्तिमात्रस्य विवर्तोऽयं भवः किल ॥ ४७७ ॥
यदि स्वाज्ञानतो ब्रह्म घटं कल्पयति भ्रमात् ।
कुलालमृत्तिकादण्डचक्राद्यैः किं प्रयोजनम् ॥ ४७८ ॥
सुरोत्तमटीका
पुनरपि किञ्चिन्मूलं संशोध्यसत्यतामनुभावयन्मुद्गरादि-जन्य जगदग्ररूपसंहारशोधनेऽपि सत्यत्वमेवेत्याह ॥ तत्र तत्रेति ॥ यत्र यत्र यदा यदाऽपरोक्षवृत्तिस्तत्र सर्वत्र सर्वदेत्यर्थः । चैतन्यस्य स्वस्मिन्नहमित्येवो-ल्लेखसम्भवेनायं घटत इति भ्रमाकारो न स्यादित्यभिनवं मूलशोधनम् । विवर्तः विपरीताकारपरिवर्तनम् । भ्रान्तिसिद्धविपरीताकार इत्यर्थः । भवस्संसारः
॥ ४७७,४७८ ॥
सत्यप्रमोदटीका
‘ॐ उदासीनानामप्येवं सिद्धिः’ इति सूत्रोक्तम् अति-प्रसङ्गं विवक्षुः परप्रक्रियामनूद्य अपहसति तत्र तत्रेति । अधिष्ठानस्य चैतन्यस्य अहमिति धीविषयतया भ्रमाकार ‘अयं घट’ इत्यनुक्त्वा ‘अहं घट’ इत्येवाह अहमिति । विवर्तो ऽतदाकारावभासः । भवः घटादिप्रपञ्चः ॥ ४७७ ॥
युक्तिमल्लिका
किं कारुदार्वपेक्षास्ति गन्धर्वपुरसर्जने ।
किं वा सर्पस्य मिथुनाद्रज्जुसर्पजनिस्तव ॥ ४७९ ॥
सुरोत्तमटीका
प्रयोजनाभावमेव दृष्टान्तमुखेन दर्शयति ॥ किङ्कार्विति ॥ तवमते । इदमप्यभिनवं मूलशोधनम् ॥ ४७९ ॥
सत्यप्रमोदटीका
कुलालेति तदुक्तमनुव्याख्याने । ‘कार्यार्थी कारणं सच्च नोपादद्यात् कथंचन’ इति । रज्जुसर्पः गन्धर्वनगरं चेत्यादिकम् असदेव । न तयोः सर्जनम् । नतरां तदर्थम् उपादाननिमित्तादिकारणापेक्षा इत्याह किमिति । तदुक्तं वादावल्यां ‘पदार्थस्य असत्त्वेन तदुत्पाद्यताया असम्भवित्वादि’ति ॥ ४७९ ॥
युक्तिमल्लिका
मुद्गरस्य प्रहारेण भ्रमं मुञ्चति नान्यथा ।
अहो दुर्जनसङ्गत्या दौर्जन्यं ब्रह्मणोऽप्यभूत् ॥ ४८० ॥
सुरोत्तमटीका
परप्रक्रियामपहसन्नग्रमपि शोधयति ॥ मुद्गरस्येति ॥ ब्रह्मणोभ्रमे सति घटनाशायोगान् मुद्गरप्रहारे च घटनाशदर्शनाद् ब्रह्मापि भ्रमं मुञ्चतीत्युक्तम् ॥ ४८० ॥
सत्यप्रमोदटीका
किञ्च मुद्गरप्रहारादिना जायमानो नाशः किं घटस्य उत तदधिष्ठानभूतब्रह्मचैतन्यसमवेतभ्रमस्य । नाद्यस् तथा सति ध्वंसप्रतियोगिनो घटस्य सत्यत्वापत्तेः । न हि शशविषाणादेर् असतो ध्वंसः सम्भवति । न द्वितीयः । प्रहारेण भ्रमं मुञ्चतस्तव ब्रह्मणः राजदण्डेन भ्रमं त्यजतस् तस्कर-स्येव दौर्जन्यापत्तेर् इत्यपहसति अहो इति ॥ ४८० ॥
युक्तिमल्लिका
विपरीतप्रमाबाध्यो भ्रमस्सर्वत्र दृश्यते ।
मुद्गरेण भ्रमोच्छेदस्त्वद्भ्रमस्यानुमापकः ॥ ४८१ ॥
सुरोत्तमटीका
अस्तुमुद्गरेण भ्रमनाशः को दोष इत्यत आह ॥ विपरीतेति ॥ ४८१ ॥
सत्यप्रमोदटीका
विपरीतप्रमेति । अधिष्ठानयाथात्म्यज्ञानेत्यर्थः । अनुमापक इति । मायावादी भ्रान्तः, प्रमाणविरुद्धार्थभाषित्वादित्यनुमान-सौलभ्यादिति भावः ॥ ४८१ ॥
युक्तिमल्लिका
अज्ञाने ज्ञाननाश्यत्वभ्रमं च तव मुद्गरः ।
मोचयामास तद्वादी मुद्गरस्तत्त्ववादिनाम् ॥ ४८२ ॥
सुरोत्तमटीका
तवाज्ञाने ज्ञाननाश्यत्वभ्रममिति सम्बन्धः । मुद्गरेणा-ज्ञानोपादानकघटनाशे उपादानभूताज्ञाननाशस्याप्यावश्यकत्वादिति भावः । तत् तस्माद् बाधं विना घटभ्रमं मोचयता मुद्गरेण घटादावबाध्यत्वरूपसत्यत्व-साधनाज् ज्ञानेनैवाज्ञाननाश इति परमतदूषणाच्चेत्यर्थः ॥ ४८२ ॥
सत्यप्रमोदटीका
अज्ञानस्य स्वकार्येण सह ज्ञानेन निवृत्तिर्बाध इति परप्रक्रियाऽपि तद्भ्रममूलैव इत्येतदप्यनेनैव सिद्धमित्याह अज्ञानेति । मुद्गरस् तव भ्रमं मोचयामास इत्यन्वयः । भ्रमस्य विषयप्रदर्शनम् अज्ञाने ज्ञाननाश्यत्व-मिति । चशब्देन कार्यस्य घटादेर् ज्ञानेन विनाश्यत्वभ्रमं पूर्वोक्तं समुच्चिनोति । तत् तस्मात् । यस्मादिति अध्याहारः । मुद्गरस् तव भ्रमं तथा तव ब्रह्मणश्च भ्रमम् इत्युभयं भ्रमं मोचयन् सन् तव प्रक्रियाद्वयमपि दूषयति तस्मादिति संबन्धः । तत्त्ववादिनां वादी परपक्षदूषणेन तदभिमतसाधकः । अयं भावः । मुद्गरप्रहारेण ‘अहं घटः’ इति तव ब्रह्मणो भ्रमस्य नाश इत्युपपादितम् । तेनैव घटोपादानस्य अज्ञानस्यापि विनाशः मुद्गरेणैवेत्येतदपि सिध्यति । यद्यपि लोके उपादाननाशेन विनाऽपि कार्यनाशो दृष्टस् तथाऽपि नैषा तव प्रक्रिया । अन्यतरावशेषे तस्य सत्यत्वापत्तेः । तथा च कार्यस्य उपादानेन सह ज्ञानेन निवृत्तिर्भवतीति त्वत्प्रक्रिया भ्रममूलैवेति सिध्यतीति ॥ ४८२ ॥
युक्तिमल्लिका
नष्टस्यापि पुनर्ज्ञानेनापि नाशो यदीष्यते ।
तदा नाशस्य नाशेन जगदुन्मज्जनं भवेत् ॥ ४८३ ॥
सुरोत्तमटीका
बाधाभावे युक्तयन्तरं चाह ॥ नष्टस्येति ॥ इष्यते मुक्तिकाले ॥ ४८३ ॥
सत्यप्रमोदटीका
‘अज्ञानस्य स्वकार्येण प्रविलीनेन वा सह ज्ञानेन निवृत्तिर् बाध’ इति परप्रक्रियायां, प्रविलीनेन सह इत्येतदंशं दूषयति नष्ट-स्येति । ध्वंसप्रतियोगिनो घटस्य पुनर्नाशः न तावद् घटस्य प्रतियोगिनो पुन-र्नाशेन निर्वाह्यः । घटस्य मुद्गरप्रहारेण पूर्वमेव नाशात् । अतः प्राप्ताप्राप्त-विवेकेन नाशस्य नाशेनैव निर्वाह्यः । अस्तु इति चेत्तत्रातिप्रसङ्गमाह तदेति । मोक्षो हि बन्धध्वंसः । तदुक्तं मायिना ‘अविद्याऽस्तमयो मोक्षः’ इति । ध्वंसस्यापि ध्वंसाङ्गीकारे अविद्यारूपसंसारस्य पुनरुन्मज्जनप्रसङ्गः । तदुक्तं वादावल्यां ‘न हि सहस्राक्षोऽपि क्षयं क्षेप्तुं क्षम इति उन्मत्तवादश्च स्यादि’ति ॥ ४८३ ॥
युक्तिमल्लिका
दग्धे पटे कारणेन सह कार्यं विनश्यति ।
एवं निश्शेषनष्टस्य पुनर्नाशोऽष्टमो रसः ॥ ४८४ ॥
सुरोत्तमटीका
निश्शेषनष्टस्य कारणशेषं विना नष्टस्य ॥ ४८४ ॥
सत्यप्रमोदटीका
असमवायिकारणस्य तन्तुसंयोगस्य नाशेन नष्टस्य घटस्य पुनर्नाशः सप्तमो रसः । समवायिकारणानां तन्तूनामेव नाशेन अत एव निश्शेषनष्टस्य पुनर्नाशस्तु अष्टमो रस इत्याह दग्ध इति ॥ ४८४ ॥
युक्तिमल्लिका
अतो ज्ञानाविनाश्यत्वात्सत्या घटपटादयः ।
सत्यत्वादेव नारोप्यास्सर्वे ब्रह्मवदेव हि ॥ ४८५ ॥
सुरोत्तमटीका
अतः नष्टस्य पुनर्नाशायोगात् ॥ ४८५ ॥
सत्यप्रमोदटीका
अत इति । तथा च प्रयोगः । वियदादिकं न आरोपितं सत्यत्वाद् ब्रह्मवत् । न चासिद्धिः । वियदादिकं सत्यं ज्ञानानाश्यत्वात् तद्वदेव । असिद्धिस्तु परिहृतेति भावः ॥ ४८५ ॥
युक्तिमल्लिका
या चक्षुःप्रभवा वृत्ती रूपवद्घटगोचरा ।
नीरूपब्रह्मगाज्ञानं सा निवर्तयते कथम् ॥ ४८६ ॥
सुरोत्तमटीका
घटवृत्त्या घटावच्छिन्नचैतन्याज्ञाने निवृत्ते तदधिष्ठान-चैतन्यमेव घटभ्रमः । एवं पटभ्रमादयोऽपि । अतस्सर्वस्य चैतन्यारोपितत्व-साम्येऽपि यदज्ञाननिवृत्तौ सत्यां यच्चैतन्यं यदुल्लिखति । स एव तस्य विषयो नापर परकीयप्रतिकर्मव्यवस्था । तत्र घटादिज्ञानेन चैतन्याज्ञाननिवृत्तिस्ताव-दनुपपन्नेत्याह ॥ या चक्षुरिति ॥ तद्विषयकज्ञानस्यैव तदज्ञाननिवर्तकत्वाच् चाक्षुषघटवृत्तेश्च रूपवद्द्रव्यविषयत्वनियमेन नीरूपब्रह्माख्यद्रव्यगोचरत्वा-योगादिति भावः ॥ ४८६ ॥
सत्यप्रमोदटीका
चक्षुःप्रभवा चक्षुरिन्द्रियमार्गोद्गता वृत्तिस् तत्तद्वस्त्वा-त्मना परिणतान्तःकरणोपरिणामात्मिका । रूपवदिति हेतुगर्भं विशेषणम् । महत्वसमानाधिकरणेद्भूतरूपवत्त्वस्य चाक्षुषताप्रयोजकत्वात् । नीरूपेत्युप-लक्षणम् । निराकारेत्यपि ग्राह्यम् । तेन तदाकारेणान्तःकरणपरिणामस्य अशक्यशङ्कत्वात् । ब्रह्मविषयकवृत्तेरेवैवम् असंभवेन तत्र ज्ञातृचैतन्यस्य प्रतिफलनम् इत्यादिकं गर्भस्रावेणैव निरस्तमिति भावः ॥ ४८६ ॥
युक्तिमल्लिका
तप्तवारिस्थितस्याग्नेरज्ञानं किं तया गतम् ।
घटस्थरसगन्धादेरज्ञानं वा ततो गतम् ॥ ४८७ ॥
सुरोत्तमटीका
चक्षुषो रूपपुरस्कारेणैव द्रव्यग्रहणमनुभावयति ॥ तप्तेति ॥ तया तप्तवारिविषयकचाक्षुषवृत्त्या । रूपाभिभवमात्रेणापि स्वयोग्यं तेजोऽगृह्णदत एव तदज्ञानं चानिवर्तयच्चक्षुः सर्वथा रूपरहितम् अत एव स्वायोग्यं च ब्रह्म कथं गृह्णीयात् । कथं च तदज्ञानं ज्ञानं निवर्तयेदिति भावः । अयोग्यस्यापि ब्रह्मणो योग्यघटावच्छिन्नत्वाच् चक्षुषा दर्शनमिति शङ्कां च पूर्वदृष्टान्तेनैव दूषितामपि दृष्टान्तान्तरमुखेन निराकरोति ॥ घटस्थेति ॥ ततश् चक्षुषः ॥ ४८७ ॥
सत्यप्रमोदटीका
अथैवमपि चक्षुरिन्द्रियजन्यया वृत्त्या ब्रह्मणोऽज्ञान-निवृत्तिरङ्गीक्रियते तर्हि तयैव घटगतरसस्पर्शगुरुत्वादेरपि अज्ञाननिवृत्तिर् आपद्यते । तच्च अनानुभविकम् । नीरूपत्वादेर्न तथेति चेद् ब्रह्मण्यपि समानः प्रसङ्ग इत्याशयः । तप्तवारिस्थाग्ने रूपस्य अनुद्भूतत्वेन तस्यापि न चाक्षुष-वृत्तिविषयत्वम् ॥ ४८७ ॥
युक्तिमल्लिका
योग्यावच्छेदकबलादयोग्यस्यापि दर्शनम् ।
इति पक्षोऽपि नैव स्याद्रसादौ तददर्शनात् ॥ ४८८ ॥
सुरोत्तमटीका
दृष्टान्तान्तरकथनस्य भावं स्वयमेव दर्शयति ॥ योग्येति ॥ ४८८ ॥
सत्यप्रमोदटीका
एतेनैतदपि निरस्तम् । ब्रह्मणो नीरूपत्वादिना स्वरूपेण चाक्षुषत्वायोग्यत्वेऽपि रूपवद् घटाद्यवच्छेदेन तदुपपत्तिरिति । स्वरूपत एवायोग्यस्य उपाध्यवच्छेदेऽपि प्रत्यक्षत्वासंभवात् । न हि घटाद्य-वच्छेदेनापि नीरूपस्य स्वरूपतोऽयोग्यस्य प्रत्यक्षत्वं संभवति । न च राहोः शुक्लभास्वरचन्द्रावच्छेदेनेव प्रत्यक्षतोपपत्तिः । विषमो हि दृष्टान्तः । राहोरपि नीलरूपवत्वेन स्वरूपतो योग्यत्वात् । एतदाशयेनैव रसगन्धादेरिति दृष्टान्तोक्तिः ॥ ४८८ ॥
युक्तिमल्लिका
चक्षुर्योग्यघटस्थोऽपि किं रसश्चक्षुषेक्ष्यते ।
अतस्स्वाविषयाज्ञानं कथं वृत्त्या निवर्त्यताम् ॥ ४८९ ॥
सुरोत्तमटीका
अतः रसादौ चक्षुषाऽज्ञाननिवृत्त्यदर्शनात् ॥ ४८९ ॥
सत्यप्रमोदटीका
अतः स्वरूपत एवायोग्यस्य योग्योपाध्यवच्छेदेऽपि प्रत्यक्षताऽसम्भवात् । स्वाविषयाज्ञानं वृत्त्यव्याप्यचैतन्यावरकम्॥ ४८९ ॥