ब्रह्मचिन्न घटारोपो यदज्ञाननिवर्तनम्
ब्रह्मण्यारोपनिरासः
युक्तिमल्लिका
ब्रह्मचिन्न घटारोपो यदज्ञाननिवर्तनम् ।
साऽपेक्षते तच्च साक्षात्कारिवृत्तिमसौ पुरा ॥ ४५६ ॥
अवश्यमर्थसंबन्धं स चार्थानामवस्थितिम् ।
एवं च प्राक्सतोऽर्थस्य कथं स्यादन्त्यजाज्जनिः ॥ ४५७ ॥
सुरोत्तमटीका
पक्षद्वयोक्तप्रमेयं संगृह्याह ॥ ब्रह्मचिदिति ॥ सा ब्रह्मचित् । तदज्ञाननिवर्तनम् । सो ऽर्थसम्बन्धः । अन्त्यजाद् अर्थसत्त्वा-दुत्तरकालीनसम्बन्धजात् ॥ ४५६,४५७ ॥
सत्यप्रमोदटीका
उक्तमेव स्मारयति द्वाभ्यां ब्रह्मेत्यादिना ॥ ४५६,४५७ ॥
युक्तिमल्लिका
मर्त्यापरोक्षवृत्तिश्च तत्तेऽभून्न जगद्भ्रमः ।
यतोऽर्थसन्निकर्षोत्था सा सर्वत्र विचारणे ॥ ४५८ ॥
सुरोत्तमटीका
मर्त्या परोक्षवृत्तिश्चेत्यत्र चशब्देन चैतन्यरूपं ज्ञानं समुच्चीयते । तत् तस्माच् चैतन्यस्याज्ञानावरणवशेन जगद्भ्रमत्वायोगाद् अज्ञाननिवर्तकापरोक्षवृत्तेश्च स्वजनकसन्निकर्षाय प्रागेव जगत्सत्त्वसापेक्षत्वान् नोभयोरपि जगद्भ्रमत्वमिति भावः ॥ ४५८ ॥
सत्यप्रमोदटीका
अनेनैव वृत्तिज्ञानस्यापि भ्रमरूपता परास्तेत्याह मर्त्येति । अन्तःकरणनिर्गमनादेर्वृत्तिहेतोर् मर्त्येष्वेव संभवादेवमुक्तम् ॥४५८॥
युक्तिमल्लिका
मायामयस्य चारोपो द्रष्टृणां दुष्टचक्षुषा ।
अमायिकेनैव भवेद्रजतस्येव स भ्रमः ।
दोषशक्त्यैव सर्वत्र नाक्षयोगमपेक्षते ॥ ४५९ ॥
सुरोत्तमटीका
ईश्वरमायासृष्टत्वाज्जगदारोपस्स्यादिति शङ्कां निराकरोति ॥ मायामयस्येति ॥ मायामयस्य करितुरगादेः । दुष्टचक्षुषा मायाविनो मन्त्रौष-धादिना भ्रमानुकूलीकृतचक्षुषा । अमायिकेन मायाविनो माययाऽनिर्मितेन सत्यभूतचक्षुषेत्यर्थः । सः मायिकपदार्थविषयः ॥ ४५९ ॥
सत्यप्रमोदटीका
जगतो मायामयत्वपक्षमपि ‘न च मायाविना माया दृश्यते विश्वमीश्वरः । सदा पश्यति तेनेदं न मायेत्यवधार्यतामि’ति तत्त्वोद्योतोदाहृतप्रमाणानुसारेण निराह मायामयस्येति । एवं हि परप्रक्रिया । अज्ञानं द्विविधं माया अविद्या चेति । परव्यामोहकरी माया । तत्कल्पितं चाम्बरादिकम् । स्वाश्रयव्यामोहकरी अविद्या । तत्कल्पितं च दुःखादिकम् । मायिकानाम् असत्त्वेन सन्निकर्षासम्भवात्, तत्स्थाने दोष एव दर्शनहेतुरभि-षेक्तव्यः । स च न मायिकः किन्तु सत्य एव । लोके ऐन्द्रजालिकपदार्थद्रष्टृषु तथा दर्शनात् । अतो दोषस्य तावत् सत्यत्वं सेत्स्यतीत्याह दोषेति ॥४५९॥
युक्तिमल्लिका
सर्वं मायामयं यस्य तस्य देहेन्द्रियादिकम् ।
कस्य वा मायया सृष्टं न हि मायाविनि भ्रमः ॥ ४६० ॥
सुरोत्तमटीका
तस्य जगदीश्वरस्य ॥ ४६० ॥
सत्यप्रमोदटीका
एवं लोके ऐन्द्रजालिकस्येव जगत्स्त्रष्टुर् मायाविनोऽपि देहेन्द्रियादिकस्य सत्यत्वसिद्धिर्निष्प्रत्यूहेत्याह सर्वमिति । मायाविना दृश्यमानत्वादिति भावः ॥ ४६० ॥
युक्तिमल्लिका
मायाविनो महेशस्य यदि भ्रान्तिर्निगद्यते ।
तर्हि माया न सा तस्याप्यासीदज्ञानमेव तत् ॥ ४६१ ॥
सुरोत्तमटीका
सा जगद्धेतुभूतमाया । तस्य जगदीश्वरस्य माया न । मायायास्स्वाश्रयाव्यामोहकत्वनियमात् । तत् तस्मात् स्वाश्रयव्यामोहकत्वात् ॥ ४६१ ॥
सत्यप्रमोदटीका
एवमपि तस्य मायिकत्वाङ्गीकारे स्वाश्रयव्यामोह-करत्वापत्त्या मायालक्षणव्याघात इत्याह तर्हीति ॥ अज्ञानमेव अविद्यैव
॥ ४६१ ॥
युक्तिमल्लिका
एवञ्चाज्ञानाप्तिवैकल्याख्यशल्योद्धृतेः पुरा ।
नोल्लिखेदैश्वरी वा चिद् ब्राह्मी चिद्वा जगत्त्रयम् ।
चिन्मात्रेऽप्यस्ति वैकल्यं न चेज्जीवचितोऽपि न ॥ ४६२ ॥
सुरोत्तमटीका
पुरा पूर्वम् । उक्तविधया उभयोरप्यज्ञानाख्यदोषेण शक्तिविकलत्वादिति भावः । चिन्मात्रे सर्वस्यां चिति । जीवचितः जीवज्ञान-त्वेनाभिमतघटाद्यधिष्ठानचैतन्यस्य ॥ ४६२ ॥
सत्यप्रमोदटीका
अविद्यापक्षे प्रागुक्तं दोषं स्मारयति एवमिति । चिन्मात्रे इत्यत्र मात्रशब्दः कार्त्स्न्यार्थः । दोषस्य सर्वत्र साम्यात् ॥ ४६२ ॥
युक्तिमल्लिका
दृग्दृश्ययोगायोगेन वृत्तिश्च न जगद्भ्रमः ।
यत्साऽर्थयोगवत्साभा तस्माच्च न जगद्भ्रमः ।
तस्मान्नारोपयेदैशी ब्राह्मी वा चिज्जगन्मम ॥ ४६३ ॥
सुरोत्तमटीका
दृग्दृश्ययोगायोगेन दृश आन्तरमानसज्ञानस्य दृश्यस्य बाह्यघटादेः । योगायोगेन संयोगसमवायविषयविषयिभावादिसम्बन्धायोगेन । वृत्तिर्मानसापरोक्षवृत्तिः । यद् यस्मात् । सा अपरोक्षवृत्तिः । अर्थयोगवत्साभा अर्थसन्निकर्षस्य वत्ससदृशी अर्थसन्निकर्षजन्येत्यर्थः । तस्मात्पक्षद्वयेऽप्युक्त-विधया दोषस्य जागरूकत्वात् । चिदित्युपलक्षणम् । वृत्तिरपि ग्राह्या ॥४६३॥
सत्यप्रमोदटीका
वृत्तिज्ञानपक्षेऽपि प्रागुक्तं दोषं स्मारयति दृगिति । योगवत्साभा सन्निकर्षजन्या ॥ ४६३ ॥