आदिसृष्टौ ततः कुर्यात्कल्पे कल्पे महाप्रभुः
ज्ञाननिवर्त्यत्वभङ्गः
युक्तिमल्लिका
आदिसृष्टौ ततः कुर्यात्कल्पे कल्पे महाप्रभुः ।
सत्यं प्रकृत्युपादानं सर्वं जगदिति स्थितम् ॥ १८२ ॥
सुरोत्तमटीका
ततः यच्चिकेतेति श्रुतौ यच्चिकेत तत्सत्यमिति व्याप्तया सर्वत्र भगवतः सत्यजगत्कर्तृत्वस्य श्रूयमाणत्वात् । कल्पे कल्पे दैनंदिनसृष्टौ चेत्यर्थः ॥ १८२ ॥
सत्यप्रमोदटीका
सर्वं ‘स इदं सर्वमसृजदि’ति श्रुतेः ॥ १८२ ॥
युक्तिमल्लिका
एवं मृदाद्युपादानैर्निमित्तैर्दण्डपूर्वकैः ।
कुम्भकारकुविन्दाद्याः कुर्युर्घटपटादिकम् ॥ १८३ ॥
सुरोत्तमटीका
अज्ञानोपादानकत्वेन जगतो मिथ्यात्वं परकीयभाष्ये प्रतिपादितम् । तत्राज्ञानोपादानकत्वमनुभवविरुद्धं युक्तिविरुद्धं चेत्याह ॥ एवमिति ॥ एवमादिसृष्टिवत् । दैनन्दिनसृष्टिवच्च । दृष्टवददृष्टस्याप्युन्नेय-त्वेनादिसृष्टेरपीदृशत्वनिर्णीतेस्सैव दृष्टान्ती कृता ॥ १८३ ॥
सत्यप्रमोदटीका
शून्यवादे संवृत्यैव औतब्रह्मवादे अज्ञानेनैव सर्व-कार्योत्पत्त्यङ्गीकारे घटादितत्तत्कार्यार्थिभिः कुलालादिभिर् नियतदण्डमृदादि-तत्तत्करणानुसरणं विरुध्यते । तदुक्तम् अनुव्याख्याने ‘कार्यार्थी कारणं सच्च नोपादद्यात्कथंचन । न प्रवर्तेत चेष्टाय शून्यादेवेष्टसंभवात्’ इति । कार्य-कारणात्मकविश्वस्य सत्यत्वाङ्गीकारे तु नैष दोष इत्याह एवमिति ॥१८३॥
युक्तिमल्लिका
यद्यज्ञानमुपादानं मृदानयनयत्नवत् ।
तदर्थमपि किं कोऽपि यत्नं कुर्यान्न कुत्रचित् ॥ १८४ ॥
सुरोत्तमटीका
तदर्थम् अज्ञानार्थम् । घटपटस्तम्भकुड्यादिनानाकार्य-कर्तृभिर्लोकैस्तत्तदुपादानेषु क्रियमाणयत्नवद् अज्ञानसंपादनवार्ताया अपि केनाप्यकरणात् सर्वानुभवविरुद्धमज्ञानोपादानकत्वम् । दृष्टानुसारेणैवादृष्टस्यापि कल्प्यत्वान् मृदादिपरम्पराया मूलोपादानभूतपृथिवीत्वादिजात्याक्रान्तमूल-प्रकृत्यंशा एव जगदुपादानं नाविद्येति भावः ॥ १८४ ॥
सत्यप्रमोदटीका
यत्नवद् यत्नमिव ‘तत्र तस्येवे’त्यस्य प्रायिकत्वात् ॥ १८४ ॥
युक्तिमल्लिका
अन्वयव्यतिरेकाभ्यां कार्यकारणतेयते ।
अन्यथा रासभस्यापि कारणत्वं कथं न ते ॥ १८५ ॥
अज्ञानोपादानकत्वं तदसिद्धं घटादिषु ।
कथं मिथ्यात्वसिद्ध्यै स्यान्न ह्यसिद्धस्य हेतुता ॥ १८६ ॥
सुरोत्तमटीका
ईयते ज्ञायते । अन्यथा अन्वयव्यतिरेकाभावेऽपि कारणत्वे ॥ १८५,१८६ ॥
सत्यप्रमोदटीका
मृदादेर् घटादिकारणतायामिव अज्ञानस्य प्रपञ्च-कारणतायाम् अन्वयव्यतिरेकौ न स्तः । एवमपि कारणत्वाभ्युपगमेऽतिप्रसङ्गमाह अन्यथेति ॥ तथा च प्रयुज्यते प्रपञ्चः न अविद्याकार्यस् तदन्वयव्यतिरेकाननु-विधायित्वात् । यथा घटः न तन्तुकार्यः । सामान्यव्याप्तिः ॥ १८५–१८६ ॥
युक्तिमल्लिका
अधिकार्याद्यभावस्य परिहाराय सूत्रितम् ।
यत्सूत्रं तत्र सर्वस्याभावे भावः कथं वद ॥ १८७ ॥
सुरोत्तमटीका
अध्ययनवैराग्यमोक्षेच्छादिसाधनसंपन्नस्य गुरुशिष्यदेश-कालपुस्तकादिसम्पत्तिमतश्चाधिकारिणोऽभावात् परमते वेदान्तवाक्यं हि विषयस् तदभावाद् विचारसाध्यतत्वज्ञानादिप्रयोजनाभावाच्च न ब्रह्मजिज्ञासेति पूर्वपक्षिते तस्य सर्वस्य सद्भावं प्रतिपादयितुं प्रवृत्तस्याथातो ब्रह्मजिज्ञासेत्यादिमसूत्रस्य जगन्मिथ्यात्वं नाभिमतमित्याह ॥ अधिकारीति ॥ तत्र सूत्रे । अभावः मिथ्यात्वम् । भावो ऽभिप्रायः । अतस्सूत्रभाष्ये प्रवृत्तस्य मिथ्यात्वकथन-मसङ्गतमेवेति भावः ॥ १८७ ॥
सत्यप्रमोदटीका
प्रथमं खलु सूत्रम् अधिकार्यादिसद्भावं समर्थ्य तत एव जिज्ञासायाः कर्तव्यतां संसाध्य शास्त्रारम्भं प्रयोजयति । अधिकार्यादिकस्य मिथ्यात्वे सूत्रस्यैवानारंभणीयत्वापत्त्या तद्भाष्यकरणोद्यमः स्वव्याहत इत्याह अधिकारीति ॥ १८७ ॥
युक्तिमल्लिका
अथ बन्धनिवृत्तिर्हि प्रयोजनमिहोदितम् ।
बन्धस्य ज्ञानतो नाशः श्रुत्या सूत्रेण चोच्यते ॥ १८८ ॥
सुरोत्तमटीका
जगन्मिथ्यात्वस्य परोदीरितसूत्रसङ्गतिं दूषयितुं तत्प्रक्रिया- मनुवदति ॥ अथेति ॥ श्रुत्या । ‘‘दृष्ट्वैव तं मुच्यत’’ इत्यादिश्रुत्या । सूत्रेण आदिसूत्रेण ॥ १८८ ॥
सत्यप्रमोदटीका
सौत्रप्रयोजनाक्षिप्तं बन्धमिथ्यात्वमिति परमतमनुवदति अथेति । श्रुत्या ‘तमेवं विद्वानमृत इह भवति’ इत्यादिकया । सूत्रेण ज्ञानेन बन्धनिवृत्तिं प्रतिपादयता प्रथमसूत्रेण ॥ १८८ ॥
युक्तिमल्लिका
तच्चासम्भवि यज्ज्ञानमज्ञानस्यैव नाशकम् ।
इति व्याप्तिस्तदज्ञानोपादानत्वमपीष्यते ॥ १८९ ॥
सुरोत्तमटीका
तज् ज्ञानेनैव बन्धनिवर्तनम् । यद् यस्मात् साक्षाज्ज्ञानेन बन्धनिवृत्त्ययोगात् । इष्यते । बन्धस्य ज्ञाननिवर्त्त्यत्वघटनाय अङ्गीक्रियते । बन्धस्याज्ञानोपादानकत्वे हि ज्ञानेनाज्ञाननिवृत्तौ तदुपादानकबन्धस्यापि उपादाननिवृत्त्या निवृत्तिर्वक्तुं शक्या । अन्यथा श्रुत्युक्तापि ज्ञानेन बन्ध-निवृत्तिर्ज्ञानमज्ञानस्यैव निवर्तकमिति व्याप्तिविरोधादयुक्ता स्यात् । अतो बन्धस्याज्ञानोपादानकत्वमप्यर्थाल्लभ्यत इति भावः ॥ १८९ ॥
सत्यप्रमोदटीका
तच्च ज्ञाननिवर्त्यत्वं च । असंभवि बन्धस्य वस्तु-कृतत्वे इति शेषः । तत् तस्माद् बन्धस्येति पूर्वश्लोकादनुकर्षः । इष्यते आक्षिप्यते ॥ १८९ ॥
युक्तिमल्लिका
इदमेव च मिथ्यात्वमतस्तच्छ्रुतिसूत्रयोः ।
यद्यार्थिकमिति ब्रूषे तर्हि दोषेषु मज्जसि ॥ १९० ॥
सुरोत्तमटीका
इदमज्ञानोपादानकत्वम् । तदज्ञानोपादानकत्वरूप-मिथ्यात्वम् । दूषयति ॥ तर्हीति ॥ १९० ॥
सत्यप्रमोदटीका
आर्थिकम् अर्थाक्षिप्तम् ॥ दोषेषु आक्षेपकस्य अप्रमि-तत्वं, अन्यथैवोपपत्तिर् अन्यथाऽप्युपपत्तिर् आक्षेप्यस्य अनुपपादकत्वं प्रमाणविरुद्धत्वं च इत्येवंरूपेषु अर्थापत्तिदोषेषु ॥ १९० ॥
युक्तिमल्लिका
अनादिः किल संसारस्तवापि च ममापि च ।
यदनादि न तत्कार्यमिति व्याप्तिर्बलीयसी ॥ १९१ ॥
तवार्थिकार्थमत्यर्थमनर्थीकुरुते न किम् ।
इदं तु भाष्यकारस्य महदासीदकौशलम् ॥ १९२ ॥
सुरोत्तमटीका
यदनादि न तत्कार्यं यथा ब्रह्मेति व्याप्तिर्बलीयसी अतिशयेन बलवती । अस्याव्याप्तेस्सर्वैर्वादिभिरङ्गीकारात् । ज्ञानमज्ञानस्यैव निवर्तकमिति व्याप्तिस्तु त्वयैवाङ्गीक्रियते । परस्तु ज्ञानाभावरूपाज्ञानवादी ज्ञानमज्ञाननिवृत्तिरूपमेव वक्ति । न तु निवर्तकम् । अभावाभावस्य भाव-रूपतायास्सर्वैरङ्गीकारात् । अतः परकीयव्याप्तिरेवायुक्तेति सूचनाय बलीयसी-त्युक्तम् । आर्थिकार्थम् अनादेर्बन्धस्याज्ञानोपादानकत्वम् अज्ञानकार्यत्वमिति यावत् । इदं प्रशिथिलमूलव्याप्त्या स्वरीत्यैवानादेः कार्यत्वकथनम् ॥ १९१,१९२ ॥
सत्यप्रमोदटीका
बन्धस्य अज्ञानोपादानकत्वलक्षणं मिथ्यात्वं हि आक्षेप्यम् । तच्च प्रमाणविरुद्धमित्याह अनादिरिति । अनादि च कार्यं चेति विरुद्धम् । इदम् अनादेः कार्यताकल्पनम् ॥ १९१,१९२ ॥
युक्तिमल्लिका
अनादृत्य श्रुतिं व्याप्तिमसतीमनुसृत्य च ।
मनोरथसुतस्स्वस्य यतो गर्भस्रुतोऽपतत् ॥ १९३ ॥
सुरोत्तमटीका
एतदेव विशदयति ॥ अनादृत्येति ॥ असतीं दृष्टान्ता-भावेन प्रशिथिलमूलाम् । मनोरथसुतः मन एव रथो यस्य सः मनोरथः । मनसि निहितो बन्धस्याज्ञानोपादानकत्वरूपाभिप्राय इत्यर्थः । स एव सुतः । वचनद्वारा बहिर्निस्सारितत्वाद् गर्भस्रुतः गर्भे मनसा संकल्प एव स्रुतः । अनादेः कार्यत्वायोगेन मृतः ॥ १९३ ॥
सत्यप्रमोदटीका
श्रुतिं ज्ञानस्य साक्षाद् बन्धनिवृत्तिप्रतिपादनपराम् । अनादृत्य अपलप्य । असतीं व्याप्तिम्। ज्ञानमज्ञानस्यैव निवर्तकम् इत्येवम् असाधुभूताम् । मनोरथसुतो ऽज्ञानोपादानकत्वरूपमिथ्यात्वं साधयामीत्येवं सङ्गल्पः । गर्भस्स्रुतः प्रतिज्ञाया एवासम्भावितत्वेन साधनानर्हः । यदुक्तं ‘संभावितः प्रतिज्ञाया अर्थः साध्येत हेतुना । न तस्य हेतुभिस्त्राणम् उत्पतन्नेव यो मृतः’ इति ॥ १९३ ॥
युक्तिमल्लिका
अज्ञानोपादानकत्वं मिथ्यात्वं भवबन्धने ।
आनेतुं किल तद्यत्नस्सोऽनादिस्सहते न तत् ।
तद्रीत्यैव न मद्रीत्या चित्रा भाष्यस्य सङ्गतिः ॥ १९४ ॥
सुरोत्तमटीका
गर्भस्रावप्रकारमेव दर्शयति ॥ अज्ञानेति ॥ तद्यत्नः मायावादिप्रयत्नः । स बन्धः । तद् अज्ञानोपादानकत्वम् ॥ १९४ ॥
सत्यप्रमोदटीका
असम्भावितत्वमेव विवृणोति अज्ञानेति ॥ १९४ ॥
युक्तिमल्लिका
युक्तिः श्रुतिं जयति चेद्विरुद्धैक्यमतं गतम् ।
युक्तिं श्रुतिर्जयति तेद्बन्धं छिन्द्यादृशिस्स्वयम् ॥ १९५ ॥
सुरोत्तमटीका
प्रकारान्तरेण परस्योभयतः पाशां रज्जुमाह ॥ युक्ति-रिति ॥ युक्तिर् ज्ञानमज्ञानस्यैव निवर्तकमित्यादियुक्तिः । जयति । अन्यथी-करोति चेत् । विरुद्धैक्यमतं विरुद्धयोस्सर्वज्ञाल्पज्ञत्वादिना विलक्षणयोर्जीव-ब्रह्मणोरैक्यमतम् । भेदसाधकविरुद्धधर्माक्रान्तत्वाख्ययुक्तिभयेन स्वरूपैक्यमतं त्यक्त्वा सिंहो देवदत्त इत्यादाविव तवैक्यवाक्यं सादृश्यैक्यपरमेव कुर्वित्यर्थः । श्रुतिर् दृष्ट्वैव तं मुच्यत इत्यादिश्रुतिः । छिन्द्यात् साक्षाद्बन्धनिवर्तकतया स्वेनोदितज्ञानेनैव नाशयेदित्यर्थः । एवं च युक्तेस्सत्त्वेऽपि तवैव मतं गतम् । युक्तेरसत्त्वेऽपि तवैव मतं गतम् । अतोऽपि तव प्रक्रिया विक्रियैवेति भावः
॥ १९५ ॥
सत्यप्रमोदटीका
युक्तिर् ज्ञानमज्ञानस्यैव निवर्तकम् इत्येवंरूपा । श्रुतिं दृष्ट्वैव तं मुच्यते इति ज्ञानेन साक्षादेव बन्धनिवृत्तिम् अभिदधतीम् । जयति चेद् बाधते चेत् । ऐक्यमतं तत्त्वमसिश्रुतिसिद्धत्वेनाभिमतम् । गतं बाधितम् । तत्र हेतुर्विरुद्धेति । विरुद्धधर्माधिकरणत्वरूपयुक्तिविरुद्धम् । त्वयैव युक्तेः प्राबल्योक्तेः । पक्षान्तरं शङ्कते युक्तिम् इति । दूषयति दृशिरिति । ‘दृष्ट्वैव तं मुच्यते’ इत्युक्तः साक्षात्कारश् छिन्द्यात् साक्षादेव नाशयेत् । अतो न मिथ्यात्व- प्रत्याशा इति उभयतः पाशारज्जुः । ऐक्यं सन्धित्सतो मिथ्यात्वस्य च्यवनात् ॥ १९५ ॥
युक्तिमल्लिका
यदि श्रुतिरपेक्ष्या ते भावोऽनादिर्विनश्यतु ।
यदि श्रुतिरुपेक्ष्या ते भावोऽनादिर्न नंक्ष्यति ॥ १९६ ॥
सुरोत्तमटीका
पुनरपि प्रकारान्तरेणोभयतः पाशारज्जुमाह ॥ यदीति ॥ अपेक्ष्या । युक्तिमुपेक्ष्यापि श्रुतिरेव रक्षणीयेत्यर्थः । तर्हि अनादिर्भवस्संसारः विनश्यतु । यदनादिभावरूपं न तन्निवर्तते ब्रह्मवदिति व्याप्तेस्संकोचं कृत्वा श्रुतिबलादनादिभावस्यापि भवस्य निवृत्तिरस्त्वित्यर्थः । उपेक्ष्या युक्तिमेव प्रबलीकृत्य युक्तिविरोधे सत्यन्यथैव योज्येत्यर्थः । तर्ह्यनादिभावो ऽनादि-भावरूपः । भवः न नंक्ष्यति । श्रुतेरुपेक्षणीयत्वे युक्तेरेवापेक्षणीयत्वे च यदनादिभावरूपं न तन्निवर्तत इति प्रागुक्तयुक्तिबलेन श्रौतोऽपि बन्धविनाशो न स्यादिति भावः ॥ १९६ ॥
सत्यप्रमोदटीका
किं च तिष्ठतु तत्वमसिश्रुतिः । श्रुतिर् दृष्ट्वैवेति श्रुतिः । भावोऽनादिरिति अविनाशकयुक्तिमाभासीकृत्य बन्धः विनश्यतु साक्षादेव ज्ञाने-नेति पूरणीयम् । न नंक्ष्यति । त्वयैव श्रुतेराभासीकरणेन नाशो प्रमाणाभावादेवेति भावः ॥ १९६ ॥
युक्तिमल्लिका
उपादानमुपादेयसमानाश्रयमेव यत् ।
अनादिबन्धस्याधारो जीव एव ततस्तव ।
अज्ञानाधारतां प्राप्त इत्यप्यासीद्धि सङ्कटम् ॥ १९७ ॥
सुरोत्तमटीका
बन्धस्याज्ञानोपादानकत्वाङ्गीकारे परस्यानिष्टान्तरमप्याह ॥ उपादानमिति ॥ यद्यस्माद् उपादानमुपादेयसमानाश्रयम् । यत्र कुलालशा-लायाम् उपादेयो घटस्तिष्ठति तत्रैव मृत्पिण्डस्यापि स्थितिर्दृष्टा । न तूपादेय-घटाश्रयभूतलादन्यत्र तदुपादानमृत्पिण्डस्य स्थितिर्दृष्टेत्यर्थः । तत उपादा-नोपादेययोस्सामानाधिकरण्यनियमात् । इतिहेतोः संकटं ब्रह्माश्रिताज्ञान-प्रतिक्षेपः ॥ १९७ ॥
सत्यप्रमोदटीका
भ्रमोपादानत्वमज्ञानस्य लक्षणम् इति हि त्वन्मतम् । उपादानोपादेययोः समानदेशता स्थिता । कपालघटादिषु तथाभावदर्शनात् । भ्रमश्च जीवाश्रितः । तथा चाज्ञानस्यापि जीवाश्रितत्वम् आस्थेयम् । तच्च ‘पूर्वसिद्धतमसो हि पश्चिमो नाश्रयो भवती’ति त्वत्प्रक्रियाविरुद्धमित्याह उपादानेति ॥ १९७,१९८ ॥
युक्तिमल्लिका
कुम्भकारस्य शालैव कपालस्य घटस्य च ।
आधारो दृश्यते स्थानभेदो न ह्यनयोः क्वचित् ॥ १९८ ॥
सुरोत्तमटीका
एतदेवोपपादयति ॥ कुम्भकारस्येति ॥ १९८ ॥
युक्तिमल्लिका
यस्मादनादि तेऽज्ञानं स्वोपादाने न तिष्ठति ।
तस्माच्छालावदुभयोरप्याधारस्स एव हि ॥ १९९ ॥
सुरोत्तमटीका
घटस्य कपालोऽप्याधारः कुलालशाला च । अज्ञानस्य त्वनादित्वेनोपादानान्तराभावात् कुलालशालावदुभयोरपि जीव एवाधार इत्याह ॥ यस्मादिति ॥ स एव जीव एव ॥ १९९ ॥
सत्यप्रमोदटीका
स्वोपादानस्यैवाभावेन तत्र स्थितिरसंभाविनीत्याह नेति । अतो भ्रान्त्या सहैव स्थातव्यम् । स एव जीव एव । तच्च त्वत्प्रक्रिया-विरुद्धमित्युक्तम् ॥ १९९ ॥
युक्तिमल्लिका
अनादिभावरूपं ते यदज्ञानमभीप्सितम् ।
अनादिभावरूपं च वस्तु नैव निवर्तते ॥ २०० ॥
इति व्याप्तिश्च तज्ज्ञानमज्ञानं नाशयेत्कथम् ।
उपसर्पसि सर्पस्य बिलं वृश्चिकभीतितः ॥ २०१ ॥
सुरोत्तमटीका
अधुना यदनादिभावरूपं न तन्निवर्तत इति प्रागुक्त-व्याप्तिं श्रुत्युपेक्षकमते प्रबलीकृत्य तदभिप्रेतं जगतो ज्ञानविनाश्यत्वं खण्डयति ॥ अनादिभावरूपमिति ॥ तत्तस्मात् । ज्ञानेन बन्धनिवृत्तौ युक्तितो भीतेन परेणाङ्गीक्रियमाणाया ज्ञानादज्ञाननिवृत्तेरतिप्रबलयुक्तिविरुद्धत्वाद् वृश्चिक-भीतितः सर्पस्य बिलमुपसर्पसीत्युक्तम् ॥ २००,२०१ ॥
सत्यप्रमोदटीका
‘अनादिभावरूपस्य विज्ञानविलापनाऽसंभवाच्च ब्रह्म-वत्’ इति वादावल्युक्तमाह अनादीति ॥ वृश्चिकः ज्ञानेन साक्षादेव बन्धनाशः । सर्पो ऽज्ञानस्य सर्वथा नाशाभावः ॥ २००,२०१ ॥
युक्तिमल्लिका
अनादेरपि बन्धस्य नाशः स्याद्धि श्रुतेर्बलात् ॥ २०२ ॥
सुरोत्तमटीका
तर्हि भवतां मतेऽपि कथमनादिभावरूपबन्धनिवृत्ति-रित्यत आह ॥ अनादेरिति ॥ श्रुतौ कृतरतीनामस्माकं श्रुतिबलादनादि-भावस्यापि बन्धस्य निवृत्तिस्स्यात् । युक्तिबलाच्छ्रुतिमेवान्यथीकुर्वतस्तव कथं युक्तिविरुद्धोऽयं नाशस्स्यादिति भावः ॥ २०२ ॥
सत्यप्रमोदटीका
स्वमते श्रुतेः शरणीकरणान्न कोऽपि दोष इत्याह अनादेरिति ॥ २०२ ॥
युक्तिमल्लिका
अयं तु यौक्तिको नाशः प्रतियुक्तिहतो यतः ।
अतो व्याप्तिद्वयबलादभावाज्ञानमस्तु तत् ॥ २०३ ॥
सुरोत्तमटीका
व्याप्तिद्वयबलाज् ज्ञानमज्ञानस्यैव निवर्तकम् अनादिभावो न निवर्तत इति व्याप्तिद्वयबलात् । तद् विनाश्यमज्ञानम्
॥ २०३ ॥
सत्यप्रमोदटीका
ज्ञानमनादेरपि ज्ञानप्रागभावस्य नाशकमित्यत्रानु-पपत्त्यभावाद्व्याप्तिद्वयमपि रक्षितं भवतीति भावः ॥ २०३ ॥
युक्तिमल्लिका
अनादिभावो ब्रह्मैव नैव नाश्यो यतो ध्रुवम् ।
अतो विनश्यदज्ञानमभावाज्ञानमेव हि ॥ २०४ ॥
सुरोत्तमटीका
स्वोक्तव्याप्तेर्दृष्टान्तं दर्शयन्नुक्तमर्थं दृढीकरोति ॥ अनादीति ॥ अतो ऽनादिभावस्य विनाशायोगात् ॥ २०४ ॥
सत्यप्रमोदटीका
भावरूपत्वे तु अविनाशो दोषो वज्रलेप इत्याह अनादीति ॥ २०४ ॥
युक्तिमल्लिका
उपादानं तु नाभावस्ततस्तन्नाशनेऽपि ते ।
संसारनाशो नैवेति व्यर्थाऽर्थापत्तिरापतेत् ॥ २०५ ॥
सुरोत्तमटीका
अस्त्वभावाज्ञानं प्रकृते किमित्यत आह ॥ उपादान-मिति ॥ तन्नाशने अज्ञाननाशने । ते उपादाननाशद्वारा बन्धनाश इति वदत-स्तव मते । अर्थापत्तिर् ज्ञानस्य बन्धनिवर्तकत्वान्यथानुपपत्त्याऽर्थान् मध्ये अज्ञानस्या-पत्तिः । अज्ञानकल्पनेऽप्युक्तविधया तस्याऽनिर्वाहाद् व्यर्था ॥ २०५ ॥
सत्यप्रमोदटीका
अस्त्वज्ञानं ज्ञानाभावः, कीदृशो दोष इत्यत आह उपादानं त्विति । एवं च बन्धस्य ज्ञाननिवर्त्यत्वं न सिद्ध्यतीति आक्षेपकस्य अप्रमितत्वम् अर्थापत्तिदोष इत्याह व्यर्थेति ॥ २०५ ॥
युक्तिमल्लिका
यद्याग्रहस्ते भावत्वे नाशस्याशां तदा त्यज ।
अनष्टाज्ञानतोऽपि स्यान्मोक्षः पाशात्पशोरिव ॥ २०६ ॥
सुरोत्तमटीका
भावत्वे भावाज्ञानत्वे । नाशस्य अज्ञाननाशस्य । अनादिभावो न निवर्तत इति व्याप्तिं पुरस्कृत्याऽज्ञाननाशो नाङ्गीकार्य इत्यर्थः । तर्हि मोक्षः कथमित्यतस्तत्रोपायमाह ॥ अनष्टेति ॥ काञ्चिदाशां दत्वा-परेणाप्यज्ञाननाशाभावमङ्गीकारयितुमिदमुक्तम् । वस्तुतस्तु पशुपाशसंयोगस्येवा-ज्ञानसंयोगस्याप्यनादिभावतया विनाशायोगेन मोक्षानुपपत्तेरपरिहार एवेति ज्ञातव्यम् ॥ २०६ ॥
सत्यप्रमोदटीका
अज्ञाननाशाभावे कथं मोक्ष इत्यतो ऽज्ञानापसरणत एवेत्यवेहि । तत्र दृष्टान्तः पाशादिति ॥ २०६ ॥
युक्तिमल्लिका
एवं च ज्ञाननाश्यत्वं गतं त्रिजगतो मम ।
यतो जगदुपादानमज्ञानं च न नश्यति ॥ २०७ ॥
सुरोत्तमटीका
एवं जगदुपादानभूताज्ञाननाशाभावे ॥ २०७ ॥
सत्यप्रमोदटीका
तथा च जगतो रक्षणं निष्प्रत्यूहमिति मदिष्टसिद्धि-रित्याह एवं चेति ॥ २०७ ॥
युक्तिमल्लिका
बन्धनाशस्तु विज्ञानादज्ञानापसृतेः परम् ।
वाच्यस्त्वया यतोऽनादिर्भावार्थो न निवर्तते ॥ २०८ ॥
सुरोत्तमटीका
ततो वाच्य इति पूर्वेणान्वयः ॥ २०८ ॥
सत्यप्रमोदटीका
नाशस्यासम्भवादपसृतिरेव गतिरज्ञानस्येत्याह बन्धेति ॥ २०८ ॥
युक्तिमल्लिका
किञ्चाज्ञानापसरणं तत्संयोगविनाशनम् ।
बन्धश्चाज्ञानसंयोग इति वाच्यं खलु त्वया ।
स चानादिस्ततोऽप्यासीत्प्रक्रिया विक्रियैव ते ॥ २०९ ॥
सुरोत्तमटीका
प्रागुपेक्षितं च दूषणमिदानीं स्पष्टमाह ॥ किञ्चेति ॥ २०९ ॥
सत्यप्रमोदटीका
उपेत्यैवापसृतिरुक्ता । वस्तुतः साऽपि त्वत्प्रक्रियायां न सम्भवत्येव । अपसृतिर् बन्धसंयोगनाश एवैष्टव्यः । संयोगोऽपि अज्ञान-वदनादिरिति तव प्रक्रिया । ‘अविद्यातच्चितोर्योगः षडस्माकमनादयः’ इति त्वद्वचनात् । तथा च भावरूपत्वादज्ञानस्येव संयोगस्यापि नाशोऽप्ययुक्त एवेत्याह किं चेति ॥ २०९,२१० ॥
युक्तिमल्लिका
पक्षद्वयेऽप्यनिष्टं ते रूक्षमासीद्विचारय ।
विचार्यमाणेऽनादित्वं भावत्वं च द्वयोश्च यत् ॥ २१० ॥
सुरोत्तमटीका
पक्षद्वये अज्ञानस्य तत्संयोगस्य च संसारत्वपक्षे । यद् यस्मात् ॥ २१० ॥
युक्तिमल्लिका
व्याप्त्येकशरणोऽपि त्वं व्याप्तिश्चात्र बलीयसी ।
श्रुतेः पादानुसरणे हता ते व्याप्तिसुन्दरी ॥ २११ ॥
सुरोत्तमटीका
श्रुतेः पादानुसरणे श्रुतिबलेन व्याप्तिमुपेक्ष्यानादिभावस्य विनाशाङ्गीकार इत्यर्थः । ते व्याप्तिसुन्दरी ज्ञानमज्ञानस्यैव निवर्तकमिति व्याप्तिसुन्दरी । हता श्रुत्यैव निराकृता ॥ २११ ॥
सत्यप्रमोदटीका
हता श्रुतिविरोधरूपहृदयाघातेन । व्याप्तिसुन्दरी ज्ञानमज्ञानस्यैव निवर्तकमित्येवंरूपा । सुन्दरीति विपरीतलक्षणया । दृष्टान्ता-भावाद्रूपविकलेति हृदयम् ॥ २११ ॥
युक्तिमल्लिका
ममत्वनादेर्बन्धस्यापि स्यान्नाशः श्रुतेर्बलात् ।
ततो नात्रैव सा व्याप्तिरिति सिद्ध्येन्मनोरथः ॥ २१२ ॥
ये तु श्रुतिमनादृत्य व्याप्तः पृष्ठमुपासते ।
तेभ्यो मदुक्तयुक्तीनां पृष्ठं कस्मान्न रोचते ॥ २१३ ॥
सुरोत्तमटीका
नात्रैव अत्रैव न । एतदतिरिक्तस्थले । अनादिभावो न निवर्तत इति व्याप्तेस्संकोच इति भावः ॥ २१२,२१३ ॥
सत्यप्रमोदटीका
अत्रैव न । श्रुत्या नाशस्य प्रमितेस्तत्रानुमानस्या-प्रसरात् । अन्यत्र श्रुतिविरोधाभावे वर्णाकाशादिस्थले नाशाभावोऽङ्गीक्रियत एवेति भावः ॥ सत्यत्वप्रतिपादके श्रुतिसूत्रे अनादृत्य स्वच्छन्दं प्रवर्तमानस्य तव तु अन्यत्रादृष्टस्यानादेर्बन्धस्य नाशो नाङ्गीकारार्हः । अदृष्टकल्पनाऽऽपत्ते-रित्याह ये त्विति । मदुक्तेति अनादिभावो न निवर्तते इत्युक्तेत्यर्थः ॥ २१२,२१३ ॥
युक्तिमल्लिका
अनादिभावनाशोऽयं यद्यदृष्टस्त्वयेष्यते ।
ज्ञानाद्बन्धस्यैव नाशस्तर्ह्यदृष्टः कुतो न ते ॥ २१४ ॥
सुरोत्तमटीका
अदृष्टो ऽन्यत्रादृष्टः ॥ २१४ ॥
सत्यप्रमोदटीका
तर्हीति अदृष्ट इत्यापाततः । श्रुतिसूत्रदृष्टत्वादित्यनु-पदम् उक्तेः ॥ २१४ ॥
युक्तिमल्लिका
तपोऽतप्यत किं किञ्चिद्भवतोऽदृष्टकल्पना ।
सौमङ्गल्यमियं धत्ते श्रुतिसूत्रार्थपोषणात् ॥ २१५ ॥
सुरोत्तमटीका
भवतो ऽदृष्टकल्पना अनादिभावनाशकल्पना । अन्यत्रादृष्टं ज्ञानस्य बन्धनिवर्तकत्वं नाङ्गीक्रियते । अनादिभावनिवर्तनं तु अदृष्टमप्यङ्गीक्रियत इति विशेषकल्पनायां न किञ्चित्कारणमिति भावः । इयम् अस्मदुक्ताज्ञानस्यैव बन्धनिवर्तकत्वरूपा । सौमाङ्गल्यं सुवासिनीत्वम् । श्रुति-सूत्रार्थपोषणात् ‘‘दृष्ट्वैव तं मुच्यत’’ इति श्रुतेः ‘‘अथातो ब्रह्मजिज्ञासे’’ति सूत्रस्य चार्थपोषणात् । यथाश्रुतश्रुतिसूत्रार्थरक्षणादित्यर्थः । सुवासिन्यपि श्रुत्यर्थं कर्णभूषणं सूत्रार्थं कण्ठलग्नसूत्रानुस्यूतनीलमणिं च पोषयति । अत उभयोस्सादृश्यम् । श्रुतिसूत्रोपेक्षकस्य तवान्यत्रादृष्टा अनादिभावनाशकल्पना श्रुतिसूत्रार्थपोषणाया अनुक्तत्वात् प्रत्युतोक्तव्याप्तिरक्षणायैवोक्तत्वात् तव रण्डा । अस्माकं तु सापि श्रुतिसूत्रसङ्गत्यर्थमेव कथनात् सुवासिनी ॥ २१५ ॥
सत्यप्रमोदटीका
तप इति । व्याप्तेस्त्वदुक्तो विशेषभावस्तु अव्यभि-चारादिसंपत्त्यभावेऽकिञ्चित्करोऽतिप्रसङ्गावहश्चेति सुधोक्तमत्रानुसन्धेयम् । अतस् तव कल्पना दृष्टान्तरूपभर्तुरभावात्, श्रुत्या बन्ध एव व्यभिचरितत्वाद् विधवा व्यभिचारिणी च । मम व्याप्तिस्तु श्रुतिसूत्रार्थानुसारिणी, कर्णभूषण-सौमङ्गल्यसूत्रालंकृता सुवासिनीत्याह इयमिति ॥ २१५ ॥
युक्तिमल्लिका
तत्रैव चेयं दृष्टार्था नाभूच्चादृष्टकल्पना ।
भवतः कल्पनामूलं न चाक्षं नागमोऽनुमा ॥ २१६ ॥
सुरोत्तमटीका
अङ्गीकृत्येदमुदितम् । वस्तुतोऽस्माकमुभयत्रापि नादृष्ट-कल्पनेत्याह ॥ तत्रेति ॥ तत्र श्रुतिसूत्रयोः । ननु तर्हि ममापि व्याप्तिरेव कल्पनामूलं भविष्यतीति चेन् न । कल्पनाघातकव्याप्तेरप्युक्तत्वेन तुल्याय व्ययत्वात् । कल्पनामूलत्वद्व्याप्तेर्निर्मूलत्वाच्च नोक्तकल्पनामूलत्वमित्याह ॥ भवत इति ॥ कल्पनाया अदृष्टकल्पनामूलव्याप्तिकल्पनायाः ॥ २१६ ॥
सत्यप्रमोदटीका
कल्पनाया अदृष्टत्वं नाम प्रमाणामूलत्वम् । तच्च सकलप्रमाणविरुद्धत्वात् तव कल्पनाया एव । नत्वेवं श्रुतिसूत्रमूलाया मम व्याप्तेरित्याह तत्रेति । श्रुतिसूत्रयोरित्यर्थः ॥ २१६ ॥
युक्तिमल्लिका
ज्ञानाभावस्य तु ज्ञानं नाशकं नाश एव वा ।
भावरूपं तवाज्ञानं ज्ञानान्नश्यत्क्व दृश्यते ॥ २१७ ॥
सुरोत्तमटीका
अक्षाभावमेवोपपादयति ॥ ज्ञानाभावस्येति ॥ ज्ञाना-भावरूपाज्ञानस्य ज्ञानं नाशकं वा तन्नाशरूपं वा सर्वत्रदृष्टम् । भावरूपा-ज्ञानस्य तु ज्ञानं नाशकं वा तन्नाशरूपं वा न क्वापि दृष्टम् । अतस्त्वद्व्याप्तेः प्रत्यक्षं न मूलमिति भावः ॥ २१७ ॥
सत्यप्रमोदटीका
ज्ञानं ज्ञानोत्पत्तिक्षण इत्यर्थः । न हि भावः स्व-प्रागभावनिवर्तकः । अपि तु भावोत्पत्तिरेव तत्प्रागभावनिवर्तिका । इति वादावल्युक्तेः । नाश इति । अभावविपत्तिरेव प्रतियोग्यापत्तिरिति स्थितेः । पक्षद्वयेऽपि ज्ञानाभावपक्षे तन्नाशः सूपपादः । भावपक्षे तु सर्वथा नाशो दुर्घट इत्याह भावरूपमिति ॥ २१७ ॥
युक्तिमल्लिका
शब्दसाम्येन तु व्याप्तिस्स्वर्गशृङ्गित्वसाधिका ।
शब्दसाम्यं च नास्त्यत्र यत्तेऽज्ञानं परस्य न ॥ २१८ ॥
सुरोत्तमटीका
ननु ज्ञानभावस्य ज्ञानविनाश्यत्वे शब्दसाम्याद्भावरूपा-ज्ञानस्यापि ज्ञाननाश्यत्वसिद्धिरित्यत आह ॥ शब्दसाम्येनेति ॥ गोशब्द-वाच्यत्वेन(गृ)घृष्टिवत् स्वर्गस्यापि शृृङ्गित्वप्रसङ्गात् शब्दसाम्येन न व्याप्ति-र्वाच्येति भावः । दोषान्तरं चाह ॥ शब्दसाम्यमिति ॥ यद् यस्मात् । अज्ञानं भावरूपाज्ञानम् । परस्य तार्किकादेः प्रतिवादिनः । ज्ञानमज्ञानस्यैव नाशकमित्याकारकवाक्यादर्शनेन सेतुदर्शनात्पापनिवृत्तिदर्शनेन चागमानुमाना-भावस्स्पष्टत्वान्नोक्तः ॥ २१८ ॥
सत्यप्रमोदटीका
अज्ञानं निवर्तते अज्ञानत्वाज् ज्ञानाभाववदिति शब्द-साम्यमाश्रित्य प्रयुज्यते इति चेदतिप्रसङ्गमाह स्वर्ग इति । तत्रापि स्वर्गस्य गृष्टेश्च गोशब्दसाम्यसद्भावादिति भावः । नास्त्यपि च प्रकृते शब्दसाम्यम् अभिधानाभावेन प्रतिवाद्यसंमतेरित्याह ते अज्ञानमिति ॥ २१८,२१९ ॥
युक्तिमल्लिका
यतस्साधकमानाख्यपतिर्व्याप्तेर्मृतोऽभवत् ।
अतस्ते विधवासङ्गान्महान्दोषो भविष्यति ॥ २१९ ॥
सुरोत्तमटीका
प्रमाणामूलव्याप्तिमङ्गीकुर्वन्तं परं साहित्यमुद्रयाऽप-हसति ॥ यत इति ॥ २१९ ॥
युक्तिमल्लिका
व्याप्तिभङ्गाज्जगद्भङ्गं दोषं मन्ये महत्तरम् ॥ २२० ॥
सुरोत्तमटीका
किं च जगद्भंजकव्याप्तिभङ्गकरणमेव न्याय्यमित्याह ॥ व्याप्तिभङ्गादिति ॥ २२० ॥
सत्यप्रमोदटीका
महत्तरमिति ‘त्यजेदेकं कुलस्यार्थे’ इति न्यायादिति भावः ॥ २२० ॥
युक्तिमल्लिका
नित्यं स्वरूपविज्ञानं स्वकार्यैस्सह वर्तते ।
इति तेऽभिमतं तस्मात्तत्रावरणवाग्वृथा ॥ २२१ ॥
सुरोत्तमटीका
अन्योन्याश्रयाच्च नेयं व्याप्तिर्वक्तुं शक्येत्याह ॥ नित्य-मिति ॥ स्वरूपविज्ञानं जीवस्वरूपविज्ञानं स्वकार्यैः स्वविषयविषयीकरणाद्यैः । स्वरूपज्ञानस्य नित्यत्वाज् ज्ञानं ज्ञानकार्यं च सर्वदा वर्तत इति मायावादिनां मतम् । तस्मात्स्वरूपज्ञाने आव्रियमाणस्याभावेनावरणकृत्याभावात् ॥ २२१ ॥
सत्यप्रमोदटीका
किं च तवाज्ञानं न तावत्स्वरूपज्ञानम् आवृणोति । तस्य नित्यं स्वप्रकाशत्वात् । नापि मनोवृत्तिज्ञानम् । आवरणनिवृत्त्युत्तर-कालीनाया वृत्तेरावरणनाशकत्वायोगात् । तदङ्गीकारे चान्योन्याश्रय इत्याह नित्यमिति ॥ २२१,२२२ ॥
युक्तिमल्लिका
आवृणीते मनोवृत्तिज्ञानमित्येव तत्त्वया ।
वाच्यमावरणं तस्मात्कथं नान्योन्यसंश्रयः ॥ २२२ ॥
सुरोत्तमटीका
तद् अज्ञानम् ॥ २२२ ॥
युक्तिमल्लिका
यदावरणनाशे स्यादपरोक्षप्रमा तव ।
तयैव तस्य नाशे च कथं नान्योन्यसंश्रयः ॥ २२३ ॥
सुरोत्तमटीका
यद् यस्मात् । तया अपरोक्षप्रमया । तस्याज्ञानस्य ॥ २२३ ॥
सत्यप्रमोदटीका
उपपादयति यदिति ॥ २२३ ॥
युक्तिमल्लिका
सत्येवावरणे दृष्टिरपूर्वेति मतिर्मम ।
यतः कुड््यावृतघटे न कस्याप्यपरोक्षधीः ।
अन्येनावरणच्छेदे पश्चादेव हि तस्य दृक् ॥ २२४ ॥
सुरोत्तमटीका
तस्य कुड्यावृतघटस्य ॥ २२४ ॥
सत्यप्रमोदटीका
तदावरणे सत्येव तदपरोक्षप्रकाशे न दृष्टचर इत्याह सतीति । आव्रियमाणेनैवावरणनाशोऽपि दुर्घट इत्याह अन्येनेति॥२२४ ॥
युक्तिमल्लिका
अदृष्टकल्पना चेत्स्याद्गता व्याप्तिर्दिगन्तरम् ।
अकल्पितं जगदभूत्सूत्रमासीन्निराकुलम् ॥ २२५ ॥
सुरोत्तमटीका
व्याप्तिर् ज्ञानमज्ञानस्यैव निवर्तकमिति व्याप्तिः । अन्यत्रादृष्टस्य बन्धनाशकत्वस्यैव ज्ञाने वक्तुं शक्यत्वादिति भावः
॥ २२५ ॥
सत्यप्रमोदटीका
निराकुलं ज्ञानेन साक्षादेव बन्धनिवृत्तिसिद्धेः ॥२२५॥
युक्तिमल्लिका
ब्रह्मण्यखण्डे तच्छब्दैस्तेऽस्त्यथाप्यपरोक्षधीः ।
अज्ञानस्य निवृत्तिर्न कथं तत्तस्य नाशकम् ॥ २२६ ॥
सुरोत्तमटीका
प्रकारान्तरेणापि ज्ञानस्याज्ञाननाशकत्वं न घटत इत्याह ॥ ब्रह्मणीति ॥ तच्छब्दैर् अखण्डब्रह्मप्रतिपादकशब्दैः । अपरोक्षधीर् ब्रह्मा-परोक्षधीः । ब्रह्मणि यदा यदा तत्प्रतिपादकशब्दप्रयोगस् तदा तदा ब्रह्मा-परोक्षधीरस्ति । अज्ञाननिवृत्तिश्च नास्तीति मायिनो मतम् । अतश्चरमज्ञानादपि नाज्ञानानिवृत्तिरिति भावः ॥ २२६ ॥
सत्यप्रमोदटीका
‘तत्त्वमस्यादिवाक्योत्थसम्यग्धीजन्ममात्रतः । अविद्या सहकार्येण नासीदस्ति भविष्यति’ इति मायिप्रक्रिया । जातायामपीदानीं तादृशधियाम् अज्ञाननाशो नानुभूयते इत्यतोऽपि तव व्याप्तिरनानुभाविकीत्याह ब्रह्मणीति ॥ २२६ ॥
युक्तिमल्लिका
गुरूपसत्तिवेदान्तश्रवणाद्यैरुपस्कृतम् ।
नाशकं चेत्तर्हि घटे कथं वृत्त्यैव तत्क्षयः ॥ २२७ ॥
सुरोत्तमटीका
शङ्कते ॥ गुर्विति ॥ उत्तरमाह ॥ तर्हीति ॥ तत्क्षयः घटाधिष्ठानचैतन्यावरकाज्ञानक्षयः ॥ २२७ ॥
सत्यप्रमोदटीका
ननु सम्यग्धीरेवाज्ञाननाशिका । सम्यक्त्वं च गुरूप-सत्त्यादिसहकृतत्वमिति चेद् एवं तर्हि अतादृश्या घटवृत्त्याऽज्ञाननाशो न स्यादित्याह गुर्विति ॥ २२७ ॥
युक्तिमल्लिका
श्रुतेर्बलादिहैवं चेत्तर्ह्यध्वनि समागतम् ॥ २२८ ॥
सुरोत्तमटीका
इह चरमापरोक्षज्ञाने ॥ २२८ ॥
सत्यप्रमोदटीका
इह चरमवृत्तौ । एवं गुरुपसत्त्यादिसहकारः ॥ २२८ ॥
युक्तिमल्लिका
दृष्ट्वैव मुच्यत इति श्रुतिर्बलवती हि नः ।
अतो ज्ञानादेव बन्धनाशोऽप्यस्तु श्रुतेर्बलात् ॥ २२९ ॥
सत्यप्रमोदटीका
एवं श्रतौ श्रद्धालुना ‘दृष्ट्वैव’ इति श्रुतावपि दीयतां दृष्टिरित्याह दृष्ट्वेति ॥ २२९ ॥
युक्तिमल्लिका
विलक्षणा हि सामग्री कार्यं कुर्याद्विलक्षणम् ।
तस्माद्विलक्षणार्थत्वाद्बन्धो ज्ञानेन नश्यतु ॥ २३० ॥
सुरोत्तमटीका
विलक्षणा श्रवणादिजन्यत्वेन नाज्ञाननिवर्तक घटवृत्तितो विलक्षणा । विलक्षणार्थत्वाद् अज्ञानतो विलक्षणार्थत्वात् ॥ २३० ॥
सत्यप्रमोदटीका
विलक्षणा श्रवणाद्युपस्कृतचरमवृत्तिलक्षणा । विलक्षणम् आवरणनिवृत्तिलक्षणम् । तस्माद् ब्रह्मज्ञानस्यैव बन्धविनाशकसामग्रीत्वेन प्रमितत्वात् । तथा च विनाशरूपकार्यस्य प्रमाणेन क्लृप्ता या विनाशकसामग्री तस्याः समवधानमेव प्रयोजकम् । अन्यत्र क्वचिददर्शनमात्रं न नियामकमिति भावः ॥ २३० ॥
युक्तिमल्लिका
दृष्टानुसरणत्यागो यथा तत्र तथाऽत्र च ।
गुण एवास्तु दोषस्ते मिथ्यात्वस्यैव कल्पनम् ॥ २३१ ॥
सुरोत्तमटीका
तत्र चरमापरोक्षज्ञानस्याज्ञाननिवर्तकत्वे । अत्र तस्यैव ज्ञानस्य बन्धनिवर्तकत्वे । यथा अज्ञाननिवर्तकब्रह्मज्ञाने घटवृत्त्यादावदृष्टं श्रवणादिजन्यत्वं त्वया अङ्गीक्रियते तथाऽन्यत्रादृष्टं साक्षाद्बन्धनिवर्तकत्वमेव कुतो नाङ्गीक्रियत इति भावः ॥ २३१ ॥
सत्यप्रमोदटीका
दृष्टस्य श्रवणादिनिरपेक्षज्ञाननिवर्त्यत्वस्य घटाद्यज्ञाने दृष्टस्य अनुसरणत्यागो यथा तत्र चरमवृत्तिनिवर्त्यप्रपञ्चोपादानाज्ञाने तथा अत्र ज्ञानस्य साक्षाद्बन्धनिवर्तकत्वम् इत्यत्र त्यागः गुण एव ‘दृष्ट्वैव तं मुच्यते’ इति श्रुतेरादरणात् । अस्तु इति पराभ्युपगमस्य तत्राप्यप्रामाण्यसूचकः । श्रवणादिना अखण्डार्थपरचरमवृत्त्यजननात् तादृशवृत्त्याऽज्ञाननाशासंभवात् समानप्रकारकयोरेव ज्ञानज्ञानयोर्निवर्त्यनिवर्तकभावक्लृप्तेरिति हृदयम् ॥ २३१ ॥
युक्तिमल्लिका
यस्मादसङ्गतं ह्येतदयुक्तं चोक्तवर्त्मना ।
अनादिभेदमिथ्यात्वाप्राप्त्या व्यर्थं च तेऽन्ततः ॥ २३२ ॥
सुरोत्तमटीका
एतद् अज्ञानोपादानकत्वरूपमिथ्यात्वम् । दोषान्तरं चाह ॥ अनादीति ॥ २३२ ॥
सत्यप्रमोदटीका
असङ्गतम् अनादेर्बन्धस्य निरुपादानकत्वात् । अयुक्तं ज्ञानस्य स्वावरणनिवर्तकत्वायोगात् । व्यर्थं त्वदभिमतैक्यस्य कथमप्यसिद्धेः
॥ २३२ ॥
युक्तिमल्लिका
ऐक्यस्य सिद्धये भेदमिथ्यात्वे ते महान्भरः ।
तस्यैतेनाप्यसिद्धिश्चेज्जगन्मिथ्यात्वतोऽपि किम् ॥ २३३ ॥
सुरोत्तमटीका
तस्य भेदमिथ्यात्वस्य । एतेन मध्ये अज्ञानकल्पनेन ॥ २३३ ॥
सत्यप्रमोदटीका
किमिति सार्वज्ञादिमिथ्यात्वेऽपि भेदबाधासिद्धेर् इति भावः । तथा च भक्षितेऽपि लशुने न शान्तो व्याधिरिति न्यायपतितोऽ-सीत्याशयः ॥ २३३ ॥
युक्तिमल्लिका
अतस्सूत्रार्थकथनान्निवर्तस्व सुखी भव ।
यद्वा सूत्रार्थकुशलानुपास्स्व नृहरेर्भटान् ॥ २३४ ॥
सुरोत्तमटीका
अतः जगन्मिथ्यात्वस्य सूत्रासङ्गतत्वादिदोषात् ॥२३४॥
सत्यप्रमोदटीका
निवर्तस्व अहम् अवैदिक इत्येव छद्मना विना ख्यापय । सुखी भव । वाक्यलिङ्गकानुमा । प्रतारणेन सात्त्विकान् दुःखिनो मा कृथा इति भावः ॥ २३४ ॥
युक्तिमल्लिका
किञ्च ज्ञानेन दुष्कर्मनाशस्साक्षाच्छ्रुतौ श्रुतः ।
तदा विद्वान् पुण्यपापे विधूयेति न किं श्रुतिः ॥ २३५ ॥
इयं विधूयेति पूर्वं कर्मनाशमुदीर्य हि ।
पश्चान्निरञ्जन इति वक्त्यज्ञानस्य नाशनम् ॥ २३६ ॥
सुरोत्तमटीका
श्रुतिसूत्रबलाद् अज्ञानातिरिक्तकर्मण एव साक्षाज्ज्ञान-नाश्यत्वसिद्धेर् ज्ञानमज्ञानस्यैव निवर्तकमिति व्याप्तिरसिद्धा श्रुतिसूत्रविरुद्धा चेत्याह ॥ किञ्चेति ॥ २३५,२३६ ॥
सत्यप्रमोदटीका
सत्यस्यैव साक्षाज्ज्ञाननाशे सोपपत्तिकं श्रुत्यन्तरमाह तदेति । ‘यदा पश्यः पश्यते रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम् । तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति’’ इति श्रुतिमनेनोपादत्ते ॥ इयं च श्रुतिरुपलक्षणम् । ‘क्षीयन्ते चास्य कर्माणि’ ‘ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा’ इत्यादिश्रुतिस्मृतयोऽपि ग्राह्याः ॥ २३५,२३६ ॥
युक्तिमल्लिका
अतस्साक्षाज्ज्ञाननाश्यं कर्म नासीत्कथं वद ।
सूत्रकृच्चोत्तराघस्य ज्ञानेनाश्लेषमञ्जसा ॥ २३७ ॥
पूर्वाघस्य विनाशञ्च स्वयमेव वदिष्यति ।
अतोऽर्थोऽयमनर्थस्ते श्रुतिसूत्रविरोधतः ॥ २३८ ॥
सुरोत्तमटीका
वदिष्यति ‘‘तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशावि’’ति सूत्रे वदिष्यति ॥ २३८ ॥
सत्यप्रमोदटीका
सूत्रेति । ‘तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशौ’ इति सूत्रेत्यर्थः । त्रैकालिकनिषेधप्रतियोगित्वे अश्लेषविनाशौ कथं ब्रूयादिति भावः ॥ २३८ ॥
युक्तिमल्लिका
व्याप्तिः कन्यैव यज्जाता कर्मणा खण्डितव्रता ।
तदुद्वाहप्रयत्नस्ते कथं दोषाय नेष्यते ॥ २३९ ॥
सुरोत्तमटीका
स्वोक्तदोषं साहित्यमुद्रयाऽलङ्करोति ॥ व्याप्तिरिति ॥ कन्यैव विदुषाङ्करे प्रदानात्पूर्वं विद्यमानैव । यद् यस्मात् । खण्डितव्रता खण्डितनियमा । अज्ञानस्यैव निवर्तकमिति नियमस्य उक्तविधया कर्मणैव त्याजितत्वात् । कर्मणा कन्यादशायामेव पुरुषपरिग्रहाख्यकर्मणा । खण्डितव्रता खण्डिताचारेति ध्वनिः । उद्वाहप्रयत्नस् तस्या व्याप्तेर् ऊर्ध्वं ब्रह्मज्ञाने प्रापणप्रयत्नः । विद्वत्करे प्रदानप्रयत्नो वा । विवाहप्रयत्न इति ध्वनिः । दोषाय अविवेकित्वाख्यदोषाय । पापायेति ध्वनिः ॥ २३९ ॥
सत्यप्रमोदटीका
कन्या दृष्टान्तरूपपत्यभावात् । कर्मणेति ज्ञानेन साक्षा-न्नाश्यत्वेन श्रुते सत्ये पुण्यपापकर्मणि व्यभिचरिता । तदुद्वाहप्रयत्नस् तदुपष्टम्भेन ब्रह्मणः सार्वज्ञाद्यपलापदुःसाहसम् । दोषाय तमःपाताय ॥ २३९ ॥
युक्तिमल्लिका
यज्ज्ञानं तदनित्यं च यत्सुखं तद्विनाशवत् ।
न चेदेतादृशव्याप्त्या नित्ये ज्ञानसुखे त्यज ॥ २४० ॥
यदि व्याप्तिविरोधेऽपि श्रुतत्वात्तदपेक्षितम् ।
तदा ज्ञानाद्बन्धनाशः श्रुतः कस्मादुपेक्ष्यते ॥ २४१ ॥
सुरोत्तमटीका
व्याप्त्येकशरणस्य दोषान्तरमप्याह ॥ यज्ज्ञानमिति ॥ न चेत् श्रुतिपुरस्कारी न चेत् ॥ २४०,२४१ ॥
सत्यप्रमोदटीका
‘सहदर्शनमात्रेण न व्यप्तिरवसीयते’ इत्यनुव्याख्यानं हृदि निधायाह यदिति ॥ श्रुत्या यत्रापवादस्तत्र, अन्यत्र सहदर्शनमात्र-मनादरणीयमेवेत्याह यदीति ॥ २४०,२४१ ॥
युक्तिमल्लिका
त्रिक्षणस्थायि यत्कर्म तस्य कालान्तरे भवन् ।
स्वर्गस्तदैव साध्यस्स्यान्मध्येऽन्यद्यदि न विद्यते ॥ २४२ ॥
सुरोत्तमटीका
यथा यज्ञस्वर्गयोर्मध्येऽदृष्टं कल्प्यते तथाज्ञानबन्धध्वंसयो-र्मंध्येऽश्रुतस्याप्यज्ञानध्वंसस्य कल्पनमिति परेण स्वग्रन्थे लिखितम् । तत्र दृष्टान्तदार्ष्टान्तिकयोर्वैषम्यं दर्शयति ॥ त्रिक्षणेति ॥ कर्म यागरूपम् ॥ २४२ ॥
सत्यप्रमोदटीका
‘यथा वा श्रुतस्यैव यागस्य स्वर्गसाधनत्वस्योप-पत्तयेऽपूर्वं कल्प्यते । तथा श्रुतोपपत्त्यर्थमेव बन्धमिथ्यात्वकल्पनमिति मैवम् । वैषम्यात् । युक्तं हि तत्रापूर्वकल्पनम् । यत्कालान्तरभावि न तत्कारणम् इति नियमात् । न चेह तथाऽस्ति ।’ इति सुधामनुरुध्याह त्रिक्षणेति ॥ २४२,२४३ ॥
युक्तिमल्लिका
असतः कारणत्वं तु श्रुतेस्सूत्रकृतोऽपि न ।
असतस्सत्कथं जायेतेति वेदोदितं स्मर ।
अन्तराऽनुपपत्त्यैव ततस्तत्रान्यकल्पना ॥ २४३ ॥
अतस्तवैष दृष्टान्तो दृष्टान्तस्त्वदकौशले ।
यद्बाह्यव्याप्तिवैरेण श्रुत्युक्तं त्वं जिहाससि ॥ २४४ ॥
सुरोत्तमटीका
न अभिमतं न । तत्र यागस्वर्गयोर्मध्ये ॥२४३,२४४॥
सत्यप्रमोदटीका
जिहाससि इत्यनेन नास्माकं परस्येव श्रुत्युक्तत्याग इति ज्ञापितम् । यागरूपकरणस्य व्यापारतयैवापूर्वकल्पनात् । विस्तरस् तर्कताण्डवे ‘स्वमतेऽपूर्वस्य कल्प्यत्वसमर्थनभङ्गे’ ॥ २४४ ॥
युक्तिमल्लिका
येयं बाह्या च सन्दिग्धा स्खलद्व्याप्तिसहोदरी ।
श्रुतिसूत्रामतां तां तु जरद्वाराङ्गनां त्यज ॥ २४५ ॥
सुरोत्तमटीका
या इयं व्याप्तिः । बाह्या श्रौतार्थानुपपत्त्याऽप्राप्ता किंतु श्रुतिबहिर्भूतेत्यर्थः । स पक्षाभावात् संदिग्धा । स्खलद्व्याप्ती यज्ज्ञानं तदनित्यं यत्सुखं तदनित्यमिति व्याप्ती । तयोस्सहोदरी । ते यथा स्वकपोलकल्पिते तथा इयमपि स्वकपोलकल्पितेत्यर्थः । तत्कुलपरंपराप्राप्तत्वात् खण्डित-व्रतत्वाच्च जरद्वाराङ्गनामित्युक्तम् ॥ २४५ ॥
सत्यप्रमोदटीका
इयम् अर्थापत्तिः । बाह्या अन्यथैव सत्यत्वेनैवोपपन्ना । सन्दिग्धा आक्षेपकस्य प्रमितत्वनिश्चयशून्या । स्खलदिति आभाससमान-योगक्षेमा । श्रुतिसूत्रामता प्रमाणविरुद्धमाक्षिपन्ती । व्यभिचारशीलत्वाद् वाराङ्गना । अङ्गविकलत्वान् मिथ्यात्वप्रसूतियोग्यताविकलत्वाज् जरती ॥ २४५ ॥
युक्तिमल्लिका
ज्ञानाद्द्वयोश्च नाशोऽस्तु व्याघ्राद्गोमृगयोरिव ॥ २४६ ॥
सुरोत्तमटीका
किञ्च ज्ञानमज्ञानस्यैव नाशकमिति नियमस्तूक्तविधया कर्मणैव खण्डितः । अज्ञाननाशकत्वमात्रस्य दर्शनेऽपि नास्माकमनिष्टमित्याह ॥ ज्ञानादिति ॥ द्वयोर् अज्ञानबन्धयोः ॥ २४६ ॥
सत्यप्रमोदटीका
अज्ञानस्यैव नाशकमित्यत्र कर्मादिषु व्यभिचारा-पादकैवकारपरित्यागे नास्माकमनिष्टम् । बन्धमिध्यात्वासिद्धेरित्याह ज्ञानादिति ॥ २४६ ॥
युक्तिमल्लिका
अभावज्ञाननाशात्म न ज्ञानं तस्य नाशकम् ।
किं घटप्रागभावस्य घट एव विनाशकः ॥ २४७ ॥
सुरोत्तमटीका
अधुनाऽज्ञाननाशकत्वमात्रमपि नास्तीत्याह ॥ अभावेति ॥ अभावरूपाज्ञानमभावाज्ञानम् । तस्य अभावज्ञानस्य ॥ २४७ ॥
सत्यप्रमोदटीका
परित्यागेऽपि परेण तु व्याप्तिर्दुरुपपादैवेत्याह अभावेत्यादिभिः । नाशात्म नाशस्वरूपम् । नाश्यनाशकभावे खलु सहा-वस्थानमपेक्षितम् । ‘नाजात एकोन्यं हन्ति नाप्यन्यमन्याधार’ इति वचनात् । न हि प्रागभावप्रतियोगिनोः सहावस्थानमस्ति । येन नाश्यनाशकभावः । तदुक्तं वादावल्यां ‘भावाभावयोः सहावस्थानविरोधादि’ ति ॥ २४७ ॥
युक्तिमल्लिका
मन्यते नान्यदज्ञानं प्रतिवादी ततस्तव ।
अज्ञाननाशकत्वं च ज्ञाने क्वापि न दृश्यते ॥ २४८ ॥
सुरोत्तमटीका
अन्यज् ज्ञानाभावव्यतिरिक्तम् । ततो ऽभावाज्ञानाति-रिक्ताज्ञानाभावात् तस्य ज्ञानविनाश्यत्वाभावाच्च ॥ २४८ ॥
सत्यप्रमोदटीका
प्रतिवादी तार्किकः ॥ २४८ ॥
युक्तिमल्लिका
तस्यैव नाशकत्वं तु कुत्र वा दृश्यते वद ।
अस्याः प्रसाधनं तस्मादयश्चणकचर्वणम् ॥ २४९ ॥
अभावस्य विनाशस्तु प्रतियोगीति यन्मतम् ।
तत्तवापि मतं सर्ववादिनामपि संमतम् ॥ २५० ॥
सुरोत्तमटीका
तस्यैव अज्ञानस्यैव । अज्ञाननाशकत्वमेव ज्ञानेन दृश्यते । अज्ञानस्यैव नाशकत्वं तु सुतरां नेति भावः । अस्या व्याप्तेः । तस्मादुक्तदोषैरशक्यत्वात् ॥ २४९,२५० ॥
सत्यप्रमोदटीका
तस्य नाशकत्वम् एव नास्ति । तस्यैव नाशकत्वं तु सुदूरे । साधनमशक्यमिति सदृष्टान्तमाह अस्या इति ॥ १४९–२५१ ॥
युक्तिमल्लिका
तन्निदर्शनशून्यत्वादन्योन्याश्रयतश्च ते ।
व्याप्तिः प्रसाध्याङ्गिकापि नाभूद्गर्भस्रुताऽभवत् ॥ २५१ ॥
सुरोत्तमटीका
तत् तस्मात् ॥ २५१ ॥
युक्तिमल्लिका
किञ्च सर्वस्य कार्यस्य जन्मस्थितिविनष्टिषु ।
निमित्तमीश्वरज्ञानमस्तीत्यखिलसंमतम् ॥ २५२ ॥
दैनन्दिने च प्रलये नाज्ञानस्य विनाशनम् ।
तस्मात्साक्षादेव जगन्नाशकं जगदीशितुः ॥ २५३ ॥
ज्ञानमासीदतो ज्ञानमज्ञानस्यैव नाशकम् ।
इति व्याप्तिर्महालोकमध्येऽभूद्व्यभिचारिणी ॥ २५४ ॥
सुरोत्तमटीका
अपि च सर्वोत्पत्तिमन्निमित्तकारणमीश्वरज्ञानं दैनंदिन-त्रैलोक्यनाशस्यापि कारणमिति तवापि मतम् । अज्ञाननिवृत्तेरत्र प्रसङ्गोऽपि न । अतोऽपि ज्ञानमज्ञानस्यैव निवर्तकमिति व्याप्तिरनुपपन्नेत्याह ॥ किञ्चेति ॥ २५२–२५४ ॥
सत्यप्रमोदटीका
‘‘नन्वीश्वरज्ञानेन प्रपञ्चस्य निवृत्तिस्त्वयाऽपीष्यत एव । अन्यथा तस्य संहारकर्तृत्वानुपपत्तेर् ज्ञानादिमत एव कर्तृत्वात् । सत्यम् । नैवं ज्ञाननिवर्त्यत्वं परस्याभिप्रेत् । अपि तर्हि अज्ञानोपादानकस्य समाने विषये विरोधिना ज्ञानेनोपादाने निवृत्ते स्वयमेव विलपनम्’’ इति सुधोक्तवर्त्मना दूषयति किञ्चेति ॥ नेति । अज्ञानिनां संसारिणामनुवृत्तेः ॥ २५२–२५४ ॥
युक्तिमल्लिका
किञ्च साक्षाज्ज्ञाननाश्यं भवत्वज्ञानमेव ते ।
पारंपर्येण तन्नाश्यं ततोऽन्यच्च भवेत्किल ॥ २५५ ॥
न चेज्ज्ञानविनाश्यत्वं कथ्यते जगतः कथम् ।
परंपरानाशकं च द्विविधं भुवि दृश्यते ॥ २५६ ॥
किञ्चिद्विनाश्यैव किञ्चित्ततोऽन्यस्य विनाशकम् ।
किञ्चिच्च किञ्चित्कृत्वैव पश्चादन्यस्य नाशकम् ॥ २५७ ॥
सुरोत्तमटीका
अस्तु वा त्वदुक्तव्याप्तिबलाज् ज्ञानमज्ञानस्यैव साक्षा-द्विनाशकं तथापि जगतो ज्ञानविनाश्यत्वं वदता त्वयापि परंपरया ज्ञानस्यान्य-विनाशकत्वमप्यङ्गीकृतम् । परंपरया नाशकं च द्विविधं साक्षात्किञ्चिद्विनाश्य किञ्चिदुत्पाद्य वा । तत्र द्वितीयपक्षरीत्या ज्ञानेन बन्धविनाशस्य श्रुतिसूत्रयो-रभिप्रेतत्वे त्वदभिलषिताज्ञानोपादानकत्वरूपमिथ्यात्वस्य सर्वथाऽसङ्गति-रेवेत्याह ॥ किं च साक्षादिति ॥ २५५–२५७ ॥
सत्यप्रमोदटीका
किलेति परंपरया बन्धनाशकत्वं परेणापि स्वीकृत-मिति प्रसिद्धिमाह ॥ न चेत् परंपरा नाङ्गीक्रियते चेत् ॥ २५५–२५७ ॥
युक्तिमल्लिका
योऽयं तन्तुविभागेन तत्संयोगस्य नाशने ।
पटस्य नाशो भवति तदाद्यस्य निदर्शनम् ॥ २५८ ॥
सुरोत्तमटीका
तत् तन्तुविभागाख्यं नाशकम् ॥ २५८ ॥
सत्यप्रमोदटीका
आद्यम् अभिनीय दर्शयति योऽयमिति । तथा च तन्तुविभागः पटस्य परम्परया नाशकः ॥ २५८ ॥
युक्तिमल्लिका
यत्तु पर्णतृणारण्याद्युत्पाद्याग्निशिखां पुरा ।
तया तमो नाशयति तद्द्वितीयनिदर्शनम् ॥ २५९ ॥
एवं च ब्रह्मणो ज्ञानं विनाश्यैव विनाशकम् ।
यदि स्यात्तर्हि ते व्याप्तिः प्रतिरोधं करोतु वा ॥ २६० ॥
सुरोत्तमटीका
पर्णतृणारण्यादि पर्णतृणारणिप्रभृतीत्यर्थः ॥२५९,२६०॥
सत्यप्रमोदटीका
द्वितीयं निदर्शयति यत्त्विति । अरण्यादि कर्तृ । आदिपदेन मणिग्रहणम् । तृणफूत्कारसंयोगः, अरणिमथनसंयोगः, मणिकिरण- संयोग इति त्रिभिर्विजातीयाग्नीनामुत्पत्तेस्तार्किकैरङ्गीकारः ॥ तर्हि बन्धस्या-ज्ञानोपादानकत्वप्राप्त्या । प्रतिरोधं बन्धसत्यत्वस्य । वेत्यनास्थां सूचयति । तथात्वेऽपि सत्यत्वस्य समर्थितत्वात् ॥ २५९,२६० ॥
युक्तिमल्लिका
यदि तद्भगवद्भक्तिमुत्पाद्य दृढया तया ।
बन्धं विनाशयेत्तर्हि व्याप्तेः क्वावसरो वद ॥ २६१ ॥
सुरोत्तमटीका
तद् ब्रह्मापरोक्षज्ञानम् । तया भक्त्या । क्वावसरः । न क्वापि । भक्तिमुत्पाद्य बन्धं नाशयतो ज्ञानस्याज्ञानातिरिक्तपदार्थ साक्षा-न्नाशकत्वादर्शनेन त्वद्व्याप्तेरत्रानव(ता)सरादित्यर्थः ॥ २६१ ॥
सत्यप्रमोदटीका
क्वावसर इति । अज्ञानातिरिक्तप्रसादादेरुत्पादस्यैव प्राप्तेर्नाशस्याप्राप्तेरेवेति भावः ॥ २६१ ॥
युक्तिमल्लिका
ज्ञानान्नाश्ये तु नियमस्तज्जन्ये तु तवापि न ।
यत्प्रवृत्तिनिवृत्त्यर्थालापार्तिप्रीतिकृद्धि तत् ॥ २६२ ॥
सुरोत्तमटीका
तज्जन्ये ज्ञानजन्ये । यद् यस्मात् । पितृमरणश्रवणे सति आर्तिदर्शनात् पुत्रोत्पत्तिश्रवणे सति प्रीतिदर्शनाद् आर्तिप्रीतिकृदित्युक्तम् । अन्यत्स्पष्टम् । तज् ज्ञानम् । तस्मादिति पूर्वेणान्वयः । अतो ज्ञानमेकस्यैव जनकं नापरस्येति नियमो नास्तीति भावः ॥ २६२ ॥
सत्यप्रमोदटीका
नियमो ऽज्ञानस्यैवेति नियमः । उत्पादकत्वं तु अनेकेषामपि अनुभवसिद्धमिति निदर्शयति प्रवृत्तीति ॥ २६२ ॥
युक्तिमल्लिका
भक्तिश्च भगवत्स्नेहस्सा च तद्दर्शनाद्भवेत् ।
यतो रागस्य जनकं प्राहुर्विषयदर्शनम् ॥ २६३ ॥
भक्त्या च बन्धविच्छेदः श्रूयते यौक्तिकश्च सः ।
यतः प्रियस्य निगडबन्धं भिन्दन्ति मानवाः ॥ २६४ ॥
सुरोत्तमटीका
ज्ञानस्य भक्तिजनकत्वं भक्तेश्च बन्धनाशकत्वं सुप्रसिद्ध-मित्याह ॥ भक्तिश्चेति ॥ २६३,२६४ ॥
सत्यप्रमोदटीका
ज्ञानस्य प्रसादसाधनभक्तिजनकत्वमपि सार्वजनी-नानुभवसिद्धम् । स्मृतिसिद्धं चेत्याह प्राहुरिति । ‘ध्यायतो विषयान्पुंसः सङ्गस्तेषूपजायते’ इति स्मृतेः ॥ श्रूयते ‘भक्तिरेवैनं नयति’ इति भाष्यो-दाहृतश्रुतौ । मानवाः प्रभवः राजादयः ॥२६३,२६४ ॥
युक्तिमल्लिका
न सा ज्ञानं सैव बन्धं छिन्द्याच्चेत्किं गतं तव ।
तत्सर्वविप्लवायोक्ता प्रक्रिया विक्रियैव ते ।
अतोऽप्यसङ्गतैवाभून्मिथ्यात्वप्रस्तुतिस्तव ॥ २६५ ॥
सुरोत्तमटीका
सा भक्तिः । सैव भक्तिरेव । तत् तस्मात् । असङ्गता सूत्रासङ्गता ॥ २६५ ॥
सत्यप्रमोदटीका
किं गतं तव त्वदभिमतव्याप्तेरहानेः । असङ्गतैव अन्यथैवोपपन्ना । प्रसादनिवर्त्यनिगडबन्धे सत्यत्वस्यैव दर्शनात्
॥ २६५ ॥
युक्तिमल्लिका
अथ ज्ञानेन सत्यस्य नाशे ब्रह्मापि नंक्ष्यति ।
तेन नाश्यत्वघटकं मिथ्यात्वं यदि कथ्यते ॥ २६६ ॥
तर्हि मिथ्यार्थनाशे स्याच्छशशृङ्गस्य नाशनम् ।
तेन नाश्यत्वघटिकां ब्रूमो बन्धस्य सत्यताम् ॥ २६७ ॥
त्रैकालिकनिषेधाख्यबाधायोग्यस्य सत्यता ।
तद्योग्यस्य च मिथ्यात्वमिति सर्वस्य संमतम् ॥ २६८ ॥
पारिभाषिकमिथ्यात्वं शशशृृङ्गे न चेत्तव ।
जडत्वे सत्यबाध्यत्वं सत्यत्वं ब्रह्मणो न मे ॥ २६९ ॥
सुरोत्तमटीका
प्रकारान्तरेण सङ्गतिमाशङ्कते ॥ अथेति ॥ उत्तरमाह ॥ तर्हीति ॥ ननु सदसद्वैलक्षण्यमेव मिथ्यात्वं तच्च । शशशृृङ्गे नास्ति । अतो नातिप्रसङ्ग इति शङ्कां प्रतिबन्द्या परिहरति ॥ त्रैकालिकेति ॥ तस्मा-न्मिथ्याभूतस्य नाशेऽप्यतिप्रसङ्गसाम्यात् ॥ २६६–२६९ ॥
सत्यप्रमोदटीका
ननु सत्यस्यापि बन्धस्य नाशे आत्मनोऽपि नाशः प्रसज्यते । अतो नाशे मिथ्यात्वमेव प्रयोजकीभूतमेष्टव्यम् । मैवम् । तथा सति ज्ञानस्य येन केनापि निवृत्तिः कस्मान्नेष्यते । किं ज्ञाननियमेन । किं चैवं मिथ्याभूतस्य शशविषाणस्य निवृत्तिरङ्गीकार्या । तथा सति ‘सतो हि घटा-देरुत्पत्तिर्विनाशो वा दृष्टः । नायतेः शशविषाणादेरि’ ति त्वदुक्तिर्व्याहन्यते । न च बन्धो न असन् किन्तु मिथ्यैवेति वाच्यम् । व्याहतेः । ‘‘नासीदस्ति भविष्यच्च तदिति ज्ञानमेयता । यदि बाधस्तदाऽसत्त्वं तेनैवाङ्गीकृतं पुनः’’ इत्युक्तेः । सत्येऽपि बन्धे मिथ्याशब्दस्य परिभाषामात्रत्वापातः । परिभाषाऽऽश्रयणेन विरोधपरिहारे ब्रह्मण्यपि परिहारसौलभ्यात् । निवृत्तौ प्रयोजकं सत्यत्वं नाम बाध्यत्वे सति जडत्वम् । तच्चास्ति बन्धे, नास्ति च ब्रह्मणि, इति परिहारसम्भवाद् इति सोपपत्तिकमाह अथेत्यादिभिश् चतुर्भिः ॥ २६६–२६९ ॥
युक्तिमल्लिका
अतो नातिप्रसङ्गोऽस्ति तवापि च ममापि च ।
तस्मादनाशे नाशे च सत्यत्वादेर्न सङ्गतिः ॥ २७० ॥
सत्यप्रमोदटीका
अतः दर्शनादर्शनमात्रस्य व्याप्त्यनियामकत्वात् । तव शशविषाणमपि निवर्तेत इति अतिप्रसङ्गः मम ब्रह्मापि निवर्तेत इत्येवंरूपः । सत्यत्वादेरिति । आदिपदेन जडत्वग्रहणम् ॥ २७० ॥
युक्तिमल्लिका
कार्यताऽकार्यते एव नाशानाशप्रयोजिके ।
क्कचिन्नाशकसामग्री नाश्यतायाः प्रयोजिका ॥ २७१ ॥
इति वाच्यं यतोऽनादिर्बन्धो ज्ञानाद्विनाशवान् ।
तत्सत्यबन्धनाशेऽपि ब्रह्मनाशः कुतो वद ॥ २७२ ॥
सुरोत्तमटीका
कार्यत्वमनित्यत्वे प्रयोजकमिति सार्वत्रिकी स्थितिः । क्वचिदपवादोऽप्यस्तीत्याह ॥ क्वचिदिति ॥ तत् तस्मात् कार्यत्वस्य नाशक-सामग्य्रा वा नाश्यत्वप्रयोजकत्वात् ॥ २७१,२७२ ॥
सत्यप्रमोदटीका
कार्यता घटादौ । अकार्यता आकाशादौ । ‘अविनाशि तु तद्विद्धि येन सर्वमिदं ततम्’ इत्युक्तेः । ध्वंसे अपवादादाह क्वचिदिति ‘न हि सहस्राक्षोऽपि क्षयं क्षेप्तुं क्षमः’ इति वचनात् ॥ नाशवान् प्रमित इति शेषः । तन् नाशके प्रमाणाभावात् ॥२७१,२७२ ॥
युक्तिमल्लिका
यच्च दृष्टबलाज्ज्ञानं सत्यबन्धनिवर्तकम् ।
इत्युक्ते नीलविज्ञानान्नैल्यादेर्न निवर्तनम् ॥ २७३ ॥
दृष्टं ततो दृष्टबलं कथं स्यादिति चोदितम् ।
तच्च जात्युत्तरं मन्ये नैव जातिमदुत्तरम् ॥ २७४ ॥
सुरोत्तमटीका
यच्च परेण ज्ञानस्य सत्यबन्धनिवर्तकत्वं दृष्टबलाद्वा श्रुतिबलाद्वेति विकल्प्याद्ये दूषणमुक्तं नीलज्ञानान्नीलादिनिवृत्तेरदृष्टत्वादिति । तदनूद्य दूषयति ॥ यच्चेति ॥ जात्युत्तरम् । स्वव्याघातकत्वात् । तदेव विशदयति ॥ यत इति ॥ २७३,२७४ ॥
सत्यप्रमोदटीका
विवरणकारोक्तमनूद्य सुधाऽनुरोधेन दूषयति यच्चेति । निवर्तनं न दृष्टमित्युत्तरेणान्वयः । जात्युत्तरं युक्ताङ्गहीनेन प्रत्यवस्थानात् स्वव्याघातकरम् ॥ २७४ ॥
युक्तिमल्लिका
यतो दृष्टबलादेकभावे भावान्तरानुमा ।
न स्यात्स्वाभिमता रासभादौ वह्न्याद्यदर्शनात् ॥ २७५ ॥
सुरोत्तमटीका
एकभावे एकस्य धूमस्य सद्भावे भावान्तरानुमा वह्न्यनुमा स्वाभिमता स्वस्य मायावादिनोऽभिमता । दृष्टबलेन हि धूमे सति वह्न्यनुमानं परस्याप्यभिमतम् । तदपि न स्यात् । रासभे सति वह्नेर्दृष्ट्यभावेन दृष्टबलाभावादिति त्वद्वदेव परेणापि वक्तुं शक्यत्वात् । अतस्स्वव्याघातकत्वाज् जात्युत्तरमिति भावः ॥ २७५ ॥
सत्यप्रमोदटीका
व्याप्तिविकलं परस्य प्रत्यवस्थानमिति निदर्शनेन दर्शयति रासभेति ॥ २७५ ॥
युक्तिमल्लिका
अथ व्याप्यस्य सद्भावे व्यापकान्तरसङ्गतेः ।
दृष्टिर्दृष्टबलं नैव यस्य कस्यापि दर्शनम् ।
इति तत्र समाधाने समाधानं समं मम ॥ २७६ ॥
सुरोत्तमटीका
शङ्कते ॥ अथेति ॥ तत्र अनुमाने । उत्तरमाह ॥ समाधानमिति ॥ २७६ ॥
सत्यप्रमोदटीका
व्याप्यस्य अनुपपद्यमानस्य सद्भावे समुचितदेशे इति शेषः । दृष्टिर् अविनाभावदर्शनम् ॥ २७६ ॥
युक्तिमल्लिका
भूयो भूयस्साहचर्याद्यद्धि यस्य विनाशकम् ।
दृष्टं तादृक्पदार्थो यस्स सत्यस्यापि नाशकः ।
इति सर्वैश्च वक्तव्यं शैत्ये सत्यनलार्थिभिः ॥ २७७ ॥
सुरोत्तमटीका
तादृक्पदार्थः नाशकतया भूयो भूयो दृष्टपदार्थः॥२७७॥
सत्यप्रमोदटीका
भूय इति । भूयोदर्शनं व्यभिचारादर्शनम् उपाध्यभाव-निश्चय इत्येते व्याप्तिनिश्चये सहकारिण इति भावः । सत्यस्यापि शैत्यस्य विरोधिना अनलेन निवृत्तिर्व्याप्तिबलेनैव सिद्धेत्याह शैत्य इति ॥ २७७ ॥
युक्तिमल्लिका
ज्ञानं चेदृग्दृश्यते चेत्तच्च सत्यं विनाशयेत् ।
यतस्स्वसुहृदां दृष्ट्या मनोदुःखं निवर्तते ।
महच्चरणदृष्ट्या च पापं सर्वं निवर्तते ॥ २७८ ॥
सुरोत्तमटीका
नन्वर्थे अस्त्वेवं दृष्टफलम् । ज्ञाने नास्तीत्यत आह ॥ ज्ञानं चेति ॥ ईदृक् सत्यस्यैव नाशकतया भूयो भूयो दृष्टम् । तज् ज्ञानम् ॥ २७८ ॥
सत्यप्रमोदटीका
ईदृक् विरोधि । महच्चरणेति । ‘दृष्टमात्राः पुनन्त्येते’ इत्युक्तेः ॥ २७८ ॥
युक्तिमल्लिका
यथैव नृपतेर्दृष्ट्या भूयो भूयो निवृत्तिमान् ।
बन्धो दृष्टो भटाद्येषु तथा भगवदीक्षणम् ।
बन्धस्य शिक्षकं दृष्टं भूयोभूयश्शुकादिषु ॥ २७९ ॥
अतो व्याप्तिमतो ब्रह्मज्ञानात्सत्यभवच्युतौ ।
साधितायां व्याप्तिशून्यनीलनीलधियोरपि ॥ २८० ॥
नाश्यनाशकताचोद्यं कथं हृद्यं भवेत्सताम् ।
तस्मान्मिथ्यात्वकथनं न कथञ्चन सङ्गतम् ॥ २८१ ॥
सुरोत्तमटीका
सामान्यतो दृष्टान्तद्वयमुक्त्वाऽन्तरङ्गमपि दृष्टान्तमाह ॥ यथैवेति ॥ सुहृद्दर्शनाद् गुरुदर्शनाद् राजदर्शनाच्च नाश्यतया व्याप्यस्य नाश-दृष्टेर्भगवद्दर्शनादप्यतीतानन्तभक्तेषु भूयो भूयो भगवद्दर्शननाश्यतया व्याप्तबन्धस्य भक्तान्तरेऽपि सत्यस्यैव निवृत्तिर्दृष्टबलादेवोच्यत इति मयापि वक्तुं शक्यत्वात् समं समाधानम् । नीलज्ञानस्य नीलनिवर्तकतया क्वाप्यदृष्टस्य तदनिवर्तकत्वे निवर्तकतया दृष्टस्याप्यनिवर्तकत्वं शङ्कमानो ऽमेध्यस्य भोज्यत्वादर्शनाद्दृष्ट-मप्यन्नस्य भोज्यत्वं त्यजन्क्षुधितो म्रियेत । अतो न वचनतस्स्वव्याहतिमात्रं किन्तु स्वदेहव्याहत्यापि स्वव्याहतिरिति भावः ॥ २७९–२८१ ॥
सत्यप्रमोदटीका
‘यथा दृष्ट्या प्रसन्नः सन् राजा बन्धापनोदकृत् । एवं दृष्टं स भगवान् कुर्याद्बन्धविभेदनमि’ त्यनुव्याख्यानमनुरुध्याह यथैवेति । शुकादिषु ‘बहवो ज्ञानतपसा पूता मद्भावमागता’ इत्युक्तमुक्तेषु ॥ नील-नीलधियोरपीति । ज्ञानेन सत्यभूतस् तद्विषयो निवर्तते इति व्याप्त्यभावात् । सूत्रे तदनुक्तेश्चेति भावः । न सङ्गतमिति । प्रयोजनाक्षिप्तं न भवतीति भावः
॥ २७९–२८१ ॥
युक्तिमल्लिका
किञ्च दृष्टबलात्स्वार्थं यः सिषाधयिषत्यसौ ।
ज्ञानात्सत्यस्यापि नाशं यत्र यत्राभिपश्यति ॥ २८२ ॥
तदेव दृष्टं दृष्टं च स्वबलं वष्ट्यभीष्टदम् ।
पूर्वोक्तवर्त्मना तच्च स्थानस्थानेषु वर्तते ॥ २८३ ॥
सुरोत्तमटीका
अत्रायं प्रयोगः । विमतो ब्रह्मसाक्षात्कारः बन्ध-निवर्तकः। बन्धनिवृत्त्यन्वयव्यतिरेकानुविधायित्वात् । यो यन्निवृत्त्यन्वय-व्यतिरेकानुविधायी स तन्निवर्तकः । यथा सुहृद्दर्शनादिकं दुःखादेरिति वा यो बन्धनिवृत्त्यन्वयव्यतिरेकानुविधायी स बन्धनिवर्तकः यथा राजसाक्षात्कारो निगडबन्धस्येति विशिष्यैव वा अन्वयव्यतिरेकपुरस्कारेण प्राक्समाधानमुक्तम् । इदानीं तद्वार्ताभावेऽपि समाधानकौशलं दर्शयति ॥ किं वीप्सा चेति ॥ दृष्टं दृष्टमिति । वष्टि वक्ति । तन् निवर्तकं ज्ञानम् ॥ २८२,२८३ ॥
सत्यप्रमोदटीका
प्रतिबन्द्याऽऽह किं चेति । अन्वयव्यतिरेकावनादृत्य दर्शनमात्राभिमाने, परेण पराक्रान्तम् । तदाह दृष्टबलादिति । अन्वय-व्यतिरेकशून्यदर्शनमात्रबलादित्यर्थः । यत्र यत्रेति सुहृद्दर्शनादिना दुःख-निवृत्त्यादौ । तदेव स्वबलं वष्टि । एवकारेण व्याप्तिसापेक्षतां वारयति ॥ २८२,२८३ ॥
युक्तिमल्लिका
एवं दृष्टबलस्यास्य का नष्टिः क्वाप्यदृष्टितः ।
तेनासङ्गतसंबन्धि सर्वमासीदसङ्गतम् ॥ २८४ ॥
सुरोत्तमटीका
दृष्टं दृष्टमेव बलं यस्य सः दृष्टबलस् तस्य । क्वापि नीलज्ञानादौ । असङ्गतसम्बन्धि सूत्रासङ्गतमिथ्यात्वसम्बन्धि । सर्वं सङ्गत्युप-पादकग्रन्थसन्दर्भः ॥ २८४ ॥
सत्यप्रमोदटीका
का नष्टिः क्वचिद्व्यभिचारदर्शनेऽपीति भावः । कापि चित्रावयविनि नैल्यादौ । सर्वं परस्य पर्यनुयोगेन प्रत्यवस्थानादिकम् । असङ्गतं ‘यत्रोभयोः समो दोषः’ इति न्यायादिति भावः ॥ २८४ ॥
युक्तिमल्लिका
श्रेष्ठेष्टदृष्ट्याऽनिष्टस्य नष्टेर्दृष्टबलं च मे ।
अस्ति त्वदुक्तदुर्व्याप्त्युच्छित्त्या मानबलं च मे ॥ २८५ ॥
सुरोत्तमटीका
पूर्वविकल्पोत्तरमनुवदन्नुत्तरविकल्पस्याप्युत्तरमाह ॥ श्रेष्ठेति ॥ व्याप्तिबलाद्धि श्रुतेरर्थप्रच्यावने श्रुतिबलं न स्यात् । व्याप्तेश्चोक्त-विधया उच्छेदे यथाश्रुतश्रुत्यर्थे बाधकाभावात् श्रुतिबलं चास्तीति भावः
॥ २८५ ॥
सत्यप्रमोदटीका
श्रेष्ठेष्टः प्रसन्नः प्रभुः । दुर्व्याप्तीति । ज्ञानमज्ञानस्यैव निवर्तकमिति विशेषव्याप्तिरिति बलीयस्त्वेनाभिमतेत्यर्थः । उच्छित्त्या सुबहुत्र व्यभिचारप्रदर्शनेन दूषणेनेन । मानबलं व्याप्तिविरोधशून्यानां ‘दृष्ट्वैव तं मुच्यते’ इत्यादिनिरवकाशागमानां बलम्
॥ २८५ ॥
युक्तिमल्लिका
तत्ते विकल्पोऽप्याकल्पकल्पः पश्य ममाभवत् ।
मनस्सङ्कल्पमाकल्पमप्यल्पीकुरुते तव ॥ २८६ ॥
सुरोत्तमटीका
तत् तस्माद् विकल्पद्वयस्यापि मदनुकूलत्वात् । आकल्पकल्प आभरणसमानः । आकल्पं कल्पपर्यन्तम् । कल्पपर्यन्तमेवं विकल्पे कृतेऽपि त्वदभीष्टमिथ्यात्वसङ्गतिर्न भवेदिति भावः ॥ २८६ ॥
सत्यप्रमोदटीका
विकल्पः ज्ञानेन सत्यस्य नाशः किं दृष्टबलेन उत आगमबलेन इत्येवंरूपः । आकल्पकल्प आभरणसदृशो मदनुकूल एवेति यावत् । पक्षद्वयेनापि मत्सिद्धान्तस्यैव सिद्धेः । आकल्पं सर्वकल्पेषु । आङ् अभिविधौ । अल्पीकुरुते व्यर्थीकरोति॥२८६ ॥
युक्तिमल्लिका
अज्ञानोपादानकस्य मिथ्यार्थस्य विनाशनम् ।
ज्ञानेन जायमानं यन्न दृष्टं नापि च श्रुतम् ॥ २८७ ॥
सुरोत्तमटीका
न केवलमिष्टकारीविकल्पोऽयं मायिनः किन्तु स्वप्रमेय-स्यैव दृष्टबलाभावेनानिष्टकारी चेत्याह ॥ अज्ञानेति ॥ शुक्तिरजतादेर-ज्ञानोपादानकत्वाभावात् तन्नाशाभावाच्च भवद्भाष्यकाराभिलषितमेव प्रमेय-मदृष्टमश्रुतं च । अतस्त्वद्विकल्पस्तव गुरुमेव हन्तीति भावः ॥ २८७ ॥
सत्यप्रमोदटीका
कुत इत्यत आह अज्ञानेति । विकल्पद्वयस्यापि त्वत्प्रतिकूलत्वादित्याह नेति । नापीति च ॥ २८७ ॥
युक्तिमल्लिका
सत्यं सर्वं स्वस्वदृष्ट्या नश्यत्येवेति वक्तरि ।
चित्रावयविनो वार्ताप्रस्तावस्तु प्रशास्तिकृत् ॥ २८८ ॥
दृष्ट्या सत्यस्यापि नाशो दृष्टोऽस्तीति तु वक्ति यः ।
नैल्यानाशकथा स्वस्य नैल्यानाशाय तं प्रति ॥ २८९ ॥
सुरोत्तमटीका
किं च चित्रावयविग्रन्थस्य प्रस्तावोऽप्यस्मान्प्रत्यसङ्गत इत्याह ॥ सत्यमिति ॥ दृष्टोऽस्ति क्वचित्क्वचिद्दृष्टोऽस्ति । नीलज्ञानेन नैल्या-नाशकथा सर्वं सत्यं वस्तु स्वस्वज्ञानेन निवर्तत इति कश्चिदुन्मत्तो वदति चेत्तं प्रति कथनीया स्यात् । सति कल्पके सत्यमपि वस्तुक्वचित्क्वचिज्ज्ञानेनापि निवर्तितुमर्हतीति वदन्तं प्रति नीलज्ञानानैल्यमपि नश्येदिति वचनमसङ्गतत्वाद् वक्तुरास्य नैल्यायैव स्यादिति भावः ॥ २८८,२८९ ॥
सत्यप्रमोदटीका
अनुक्तानुपालम्भोऽपि दोषः परस्येत्याह सत्यमिति । सर्वम् इति । विरोधि वा भवतु मा वा इत्यसङ्कोचेनेति भावः । इति वक्तरीति । ज्ञानं, स्वविषयं सर्वं सत्यं निवर्तयतीत्येवं यदि नाम यः कोऽपि ब्रूयात् तं प्रतीत्यर्थः । वार्ताप्रस्ताव इति । वार्तामात्रमेव । वस्तुतस्तं प्रत्यपि त्वदुक्त-दूषणस्यानवकाश एवेति भावः । ज्ञानेनाज्ञानस्य आरोपितस्य वा निवृत्तिरिति त्वत्पक्षेऽपि उक्तविकल्पदोषप्रसरात् । विस्तरोऽत्र न्यायामृते ज्ञाननिवर्त्यत्वभङ्गे । ‘एकमेवहि चित्रं नाम रूपमाश्रयव्याप्यवृत्तीति पदार्थविदः’ इति सुधोक्त-दोषाच्च ॥ सत्यस्यापि विरोधिन इत्युपस्कारः । नैल्यानाशायेति । पराभव-प्राप्तमुखगतनैल्यस्य अनपगमायेत्यर्थः ॥ २८८,२८९ ॥
युक्तिमल्लिका
ज्ञानात्स्वविषयस्तस्य धर्मो वा तद्विरोधि वा ।
निवर्तते स्वाश्रयस्थमुभयस्थमथापि वा ॥ २९० ॥
इति पृष्ट्वा परो यत्तु दूषयामास दूषणैः ।
अनुक्तोपालंभनेन तत्स्वात्मानं हि दूषयेत् ॥ २९१ ॥
सुरोत्तमटीका
असङ्गतिमेव स्पष्टयति ॥ ज्ञानादित्यादिना ॥ स्व-विषयः ज्ञानविषयः । तस्य विषयस्य । तद्विरोधि विषयगतधर्मविरोधि । स्वाश्रयस्थं निवर्तते वा उभयस्थं निवर्तते वेति पूर्वक्रियावृत्त्या योजनीयम् । तद्ग्रन्थस्थसकलविकल्पानामुदाहरणमिदम् । दूषणैर् नीलज्ञानेन नीलस्य नील-गुणस्य तद्विरुद्धपीतगुणस्य चानिवृत्तेरात्मगतधर्मादेरनिवृत्तेरात्मविषयसम्बन्धस्य चानिवृत्तेरित्यादिदूषणैः । अनुक्तोपालम्भेन अनुक्तोपालम्भाख्यनिग्रहस्थानेन । तद्दूषणम् । परानुक्तप्रमेयस्यैव विकल्प्य दूषितत्वेन स्वाकौशलद्योतकमित्यर्थः ॥ २९०,२९१ ॥
सत्यप्रमोदटीका
परोक्तान्सर्वविकल्पाननुवदति ज्ञानादिति ॥ सर्वेऽपि परानुक्ता एवेत्याह तदिति ॥ २९०,२९१ ॥
युक्तिमल्लिका
किं ब्रह्मज्ञानतो ब्रह्म तद्धर्मस्तदिद्वषोऽसुराः ।
जीवत्वं वा ब्रह्मजीवभेदो वा द्वित्वमेतयोः ।
निवर्त्यत इति ब्रूते त्वदग्रे कोऽपि मानुषः ॥ २९२ ॥
सुरोत्तमटीका
अनुक्तत्वमेव दर्शयति ॥ किं ब्रह्मज्ञानत इति ॥ तद्धर्मः ब्रह्मधर्मः सार्वज्ञादिः । तद्द्विषः ब्रह्मद्विषो ब्रह्मधर्मद्विषश्च । विषय-विषयधर्मतद्विरोधिनां सङ्ग्रहोऽयम् । जीवत्वमिथ्याश्रयनिष्ठधर्मग्रहणम् । एतयोर् ब्रह्मजीवयोर् द्वित्वमित्युभयगतस्योदाहरणम् ॥ २९२ ॥
सत्यप्रमोदटीका
उपपादयति किमिति । असुरा इति पर्यन्तं विषय-गतपक्षस्य अनुक्तत्वम् । जीवत्वं ब्रह्मप्रतियोगिकजीवधर्मिको भेद इति आश्रयगतपक्षस्य, द्वित्वमित्यनेनोभयगतपक्षस्य च अनुक्तत्वमुपपादितम् ॥ २९२ ॥
युक्तिमल्लिका
किन्तु ज्ञानविनाश्यत्वं यस्य मानेन मीयते ।
तदज्ञानातिरिक्तं च नश्यज्ज्ञानेन दृश्यते ॥ २९३ ॥
सुरोत्तमटीका
तज् ज्ञाननिवर्त्यतया प्रमितम् । ज्ञानेन नश्यदिति सम्बन्धः ॥ २९३ ॥
सत्यप्रमोदटीका
यथाप्रमाणं सत्यस्यापि विरोधिनो ज्ञानेन नाश इति पक्षे न कोऽपि दोष इत्याह किं त्विति । दृश्यते इत्यस्य इतीत्युत्तरेणान्वयः ॥२९३॥
युक्तिमल्लिका
उत्तरज्ञानतः पूर्वज्ञानस्य विनिवर्तनात् ।
प्रमया भ्रमनाशाच्च सूर्यादीनां च दर्शनात् ॥ २९४ ॥
दुरितध्वंसदृष्टेश्च सुहृद्दर्शनतो नृणाम् ।
चिन्ताज्वरादिनाशस्य दृष्टत्वात्तत्र तत्र च ।
इति ब्रूते परस्तत्र कुचोद्यावसरः क्व ते ॥ २९५ ॥
सुरोत्तमटीका
कुचोद्यं कुत्सितविकल्पः । तस्यावसरः ॥२९४,२९५॥
सत्यप्रमोदटीका
भ्रमेति । तस्य सत्यत्वं च एतावन्तं कालं मम भ्रम आसीदित्यनुभवेन सिद्धिमिति भावः ॥ २९४,२९५ ॥
युक्तिमल्लिका
त्वदुक्तदूषणानां च व्रणं विवरणव्रणे ।
द्रष्टव्यं विस्तरभयान्नेह तच्च वितन्यते ॥ २९६ ॥
सुरोत्तमटीका
दूषणानां विकल्पदूषणानाम् । तद्दूषणदूषणम् ॥२९६॥
सत्यप्रमोदटीका
व्रणं दूषणम् ॥ २९६ ॥
युक्तिमल्लिका
किञ्चैवमपि ते बन्धमात्रस्याज्ञानकार्यता ।
अस्तु सर्वस्य जगतो मिथ्यात्वं तु कुतो वद ।
न हि सर्वस्य च ज्ञानान्नाशः सूत्रेण सूत्रितः ॥ २९७ ॥
सुरोत्तमटीका
अपि चैवमपि ब्रह्मज्ञानाद्बन्धमात्रनिवृत्तिश्रवणात् तस्यैवाज्ञानकल्पितत्वं स्यात् । सर्वस्य जगतोऽज्ञानकल्पितत्वकथायाः का सङ्गतिरित्याह ॥ किञ्चेति ॥ २९७ ॥
सत्यप्रमोदटीका
एवं सौत्रप्रयोजनाक्षिप्ततया । अस्त्विति अभ्युपगमः । सर्वस्य बन्धातिरिक्तस्य ॥ २९७ ॥
युक्तिमल्लिका
अधिकार्यादिसद्भावाद्गुरुशिष्यादिसंभवात् ।
वक्तृश्रोतृमनोदेहगेहादेरनुपद्रवात् ॥ २९८ ॥
स्वयोग्यदेशकालान्नसद्भावात्फलसंभवात् ।
मीमांस्यवेदसद्भावान्मीमांसाशास्त्रसंभवात् ॥ २९९ ॥
कार्यैव ब्रह्ममीमांसा सदेत्यादावसूत्रयत् ।
यस्सूत्रकारस्स जगन्मिथ्यात्वं नैव मन्यते ॥ ३०० ॥
सुरोत्तमटीका
न केवलं सूत्रे जगन्निवृत्तेरश्रवणमात्रम् । किंत्वधिकार-सम्पत्तेरानन्तर्यार्थकाथशब्देन जगत्सत्यत्वमपि सूत्राभिप्रेतमित्याह ॥ अधिकारीति ॥ २९८–३०० ॥
सत्यप्रमोदटीका
जिज्ञासाकर्तव्यत्वे हेतुत्वेन सूत्रितानाम् अधिकार्यादीनां सत्यत्वमेव सूत्रकृदभिप्रेतम् अन्यथाऽसिद्ध्यापत्तेरित्याह अधिकार्यादीति
॥ २९८–३०० ॥
युक्तिमल्लिका
जगज्जन्मादिहेतुत्वं यः प्रदीपमदीपयत् ।
स्वदत्तदीपतैलस्याभावं स मनुते कथम् ॥ ३०१ ॥
सुरोत्तमटीका
द्वितीयसूत्रार्थपर्यालोचनयापि जगत्सत्यत्वमेव सूत्रकार-स्याभिमतमित्याह ॥ जगदिति ॥ लक्षणस्यार्थनिर्णायकत्वात्प्रदीपमित्युक्तम् । जगतोऽभावे जगत्कारणत्वस्याप्यभावप्रसङ्गाद् दीपतैलस्येत्युक्तम् ॥ ३०१ ॥
सत्यप्रमोदटीका
प्रदीपं लक्षणम् । वस्तुस्वरूपप्रकाशकत्वात् । तैलस्य तत्सत्यत्वस्य । तैलेन विना दीपस्येव, सत्यत्वेन विना जन्माद्यष्टकानुपपत्तेः ॥ ३०१ ॥
युक्तिमल्लिका
अन्त्यावयविनो नाशः पूर्वं घटविनाशने ।
कपालं तदुपादानं किं नश्यति तदा वद ॥ ३०२ ॥
कार्यात्मना विनष्टोऽसौ घटः कारणरूपतः ।
अस्त्येवेति मतं सर्वे पूर्वेऽङ्गीकुर्वते तव ॥ ३०३ ॥
सुरोत्तमटीका
किञ्च नदीमुभयतो वाहामित्यादिप्रमाणबलाद्विपर्ययेण लयं वक्ष्यन्सूत्रकार उपादाननाशप्रक्रियया जगन्नाशं नाभिप्रैति । किंत्वन्त्या-वयविनामेव प्राङ्नाशस् ततस्तदुपादानस्येत्येवाधोधः क्रमेण प्राथमिकोपादाने प्रकृतौ विकृतिनाशस्य पर्यवसानं वदति । मूलप्रकृतेस्त्वनाद्यनन्तजग-न्मूलोपादानभूतायाः प्रकृतित्वादविनाश एव श्रुतिसूत्रादीनामभिमतः । एवं चोपादाननाशद्वारा जगन्नाशाभावाच्च न ज्ञाननिवर्त्यत्वाख्यं मिथ्यात्वं जगती-त्याह ॥ अन्त्येति ॥ ३०२,३०३ ॥
सत्यप्रमोदटीका
उपाद्यज्ञाननाशे उपादेयबन्धो विनश्यतीति त्वत्प्रक्रिया लोकदृष्टिविरुद्धा । वैपरीत्यस्यैव दर्शनादित्याह अन्त्यावयविन इति ॥ त्वत्सिद्धान्तविरुद्धाचेत्याह तव पूर्वे अङ्गीकुर्वते इति । अन्यथा स्वाप्नपदार्थ-नाशेऽपि तदुपादानाद्युपलब्धिः स्यादिति तदापादनविरोधः ॥ ३०२,३०३ ॥
युक्तिमल्लिका
कपालस्य तु नाशे तु घटस्यात्यन्तनाशनम् ।
रूपद्वयेनापि नाशात्पुनः कारणरूपतः ।
कपालानामेव सत्ता घटवार्ता गता तदा ॥ ३०४ ॥
एवं प्रकृतिपर्यन्तं नाशोधोऽधः क्रमात्किल ।
भूभूधरादेरप्येवमेव नाशं विदुर्बुधाः ॥ ३०५ ॥
इमां प्रलयमर्यादां वदन्त्यखिलवादिनः ।
एवञ्चोपादाननाशात्कार्यनाशः कदा वद ॥ ३०६ ॥
सुरोत्तमटीका
रूपद्वयेन कार्यरूपेण साक्षात्स्वकारणरूपेण च ॥ ३०४–३०६ ॥
सत्यप्रमोदटीका
तुशब्देन पश्चान्नाशपक्षं व्यवच्छिनत्ति । पूर्वमेव नाश इत्यर्थः । अत्यन्तेत्यस्यैव व्याख्यानं रूपद्वयेनापीति । तदा कारणरूपतस् तत्ता इति घटवार्ता गता इत्यन्वयः । किन्तु कारणरूपतः कपालानामेव सत्ता इति वार्ता अवशिष्यते इति आवृत्त्या योज्यम् ॥ अधोऽध इति । ‘नदी-मुभयतोवाहामि’ ति भगवते ‘विपर्येण तु क्रमो लयेऽत उपपद्यते च’ इति सूत्रे च तथोक्तेरिति भावः
॥ ३०४–३०६ ॥
युक्तिमल्लिका
तस्मादनादितोऽनन्तब्रह्माण्डानां लये लये ।
अज्ञानच्छेदतश्छेदो न द्वेधाऽपीति धीर्मम ।
अद्याप्यज्ञानावशिष्टेर्नष्टेश्चोक्तविधत्वतः ॥ ३०७ ॥
यस्ते सर्वलयो मुक्त्यै तत्राप्येष लयक्रमः ।
पृथिव्यप्सु विलीना स्यात्तास्तेजस्यनिले च तत् ॥ ३०८ ॥
स व्योमि्न तदहङ्कारे महत्तत्त्वे स लीयते ।
तन्मायायां सा च मायाऽज्ञाने लीना भवेत्तव ॥ ३०९ ॥
मम तु प्रलये सर्वा विकृतिः प्रकृतिं विशेत् ।
सा च प्रकृतिरेवास्या लयो नेति परं मतम् ।
एवञ्चाज्ञाननाशेन नाशो देशान्तरं गतः ॥ ३१० ॥
सुरोत्तमटीका
द्वेधा विपर्ययेण तु लय इति सूत्रे उपादाननाशद्वारा जगन्नाशस्याप्रस्तुतत्वात् । अज्ञाननाशद्वारा नाशस्य सुतरामभावाच्च । द्वेधेत्य-स्याभिप्रायान्तरमाह ॥ अद्यापीति ॥ अनादिकालतो जगतः कल्पे कल्पे विनष्टत्वाद् अज्ञानस्य चाद्याप्युर्वरितत्वादित्यर्थः । छेदो जगन्नाशः ॥ ३०७–३१० ॥
सत्यप्रमोदटीका
न द्वेधाऽपीति । अज्ञानस्योपादानत्वाभावाद् उपा-दानस्य पूर्वमनाशाच्चेति भावः । अभिप्रायान्तरमाह अद्यापीति पूर्वकल्पीय-जगन्नाशेऽपि । अज्ञानावशिष्टेर् अन्यथेदानीं तदुपादानकसंसारानुपलम्भः स्यादिति भावः । उक्तविधत्वतो ऽधोऽध इति पूर्वोक्तविधत्वतः ॥ ते मुक्त्यै निष्प्रपञ्चताऽऽपत्त्यै । मम तु परान्तकाले । एषः क्ष्माम्भोनलानिलेत्यादि-स्मृत्युक्तः ॥ मायायां प्रकृतौ । अज्ञाने इति । प्रकृतेरपि अज्ञानकार्यत्वोप-गमादिति भावः ॥ विकृतिः कार्यजातम् । विशेत् तदात्मना अवतिष्ठते । अस्याः प्रकृतेर्लयो न । ‘नासतो विद्यतेऽभावः’ इति परं मतं गीतासंमतम् । असतः कारणस्य प्रकृतेर् अभावः प्रागभावः प्रध्वंसश्च न विद्यते इति तद्वाख्यानात् ॥ ३०७–३१० ॥
युक्तिमल्लिका
भूयश्चान्ते विश्वमायानिवृत्तिरिति हि श्रुतिः ।
अतो न लौकिकी नापि वैदिकीऽयं स्थितिस्तव ॥ ३११ ॥
सुरोत्तमटीका
तदभिमतश्रुत्यैव जगन्नाशोत्तरकालमज्ञाननाशं प्रतिपाद-यति ॥ भूय इति ॥ विश्वमाया विश्वोपादानभूतमाया । तस्याश्चान्ते निवृत्ति-श्रवणात् तन्नाशोत्तरकाले जगन्नाशस्त्वयापि वक्तुं न शक्यत इति भावः ॥ ३११ ॥
सत्यप्रमोदटीका
श्रुतिरपि अन्ते एवाज्ञाननाशं श्रावयतीत्याह भूय इति ॥ ३११ ॥
युक्तिमल्लिका
त्वत्प्रक्रियालयव्याप्ता यस्मात्सर्वे महालयाः ।
तत्सूत्रसूत्रितार्थाख्यरत्नमालापकर्षणम् ।
यः करोति नराकारो वानरस्स न संशयः ॥ ३१२ ॥
विपर्ययेण तु लयं यस्सूत्रे सूत्रयिष्यति ।
सोऽधुनोपादाननाशात्कार्यनाशं न बोधयेत् ॥ ३१३ ॥
सुरोत्तमटीका
त्वत्प्रक्रियालयव्याप्तास् त्वत्प्रक्रियाया लयेन नाशेन वैपरीत्येनेत्यर्थः । व्याप्ताः सर्वेऽपि महालयाः । सृष्टिवैपरीत्येनैव लयो न त्वेकोऽपि लयस्त्वदुक्तरीत्या उपादाननाशद्वारेत्यर्थः । यथा महालयश्राद्धं लयव्याप्तं तथेति सूचनाय महालया इत्युक्तम् । सूत्रसूत्रितार्थः ज्ञानस्यैव बन्धनिवर्तकत्वम् ॥ ३१२,३१३ ॥
सत्यप्रमोदटीका
तव प्रक्रियाया लयेन वैपरीत्येनैव व्याप्ताः सर्वे महालयाः । यथा महालयश्राद्धं लयव्याप्तं तथेति ध्वनिः । वानर इति अव्यवस्थितचित्त इत्यर्थः । तदुक्तमभियुक्तैः ‘मणिस्रजं वा प्लवगोऽव्यवस्थः’ इत्यादि ॥ ३१२,३१३ ॥
युक्तिमल्लिका
अर्थस्यास्यानर्थदस्य तस्मात्सूत्रं न सूचकम् ।
त्रिलोकीसूचको यस्ते गुरुरास्ते स सूचकः ॥ ३१४ ॥
सुरोत्तमटीका
त्रिलोकीसूचकस् त्रिलोक्याः पैशुन्यकारी ॥ ३१४ ॥
सत्यप्रमोदटीका
तस्मात् तदुक्तार्थापत्तेः सर्वदोषावकुण्ठितत्वात् । अस्य जगन्मिथ्यात्वरूपस्य । अनर्थदस्य परतत्वप्रद्वेषपर्यवसायित्वेन तमः-फलकस्य । सूचकम् आक्षेपकम् । सूचकः पिशुनः । सूचकः साधनदुरुप-क्रमवान् ॥ ३१४ ॥
युक्तिमल्लिका
अज्ञानकार्यता चास्य समस्तस्य न युज्यते ।
यद्यज्ञानमुपादानं वृत्त्याऽज्ञाननिवर्तने ।
तदुपादेयकार्यस्य ह्यनिवृत्तिः कथं वद ॥ ३१५ ॥
सुरोत्तमटीका
तद्रीत्यैव जगतोऽज्ञानानुपादानकत्वं च समर्थयते ॥ अज्ञानकार्यतेति ॥ ३१५ ॥
सत्यप्रमोदटीका
वृत्त्या चरमवृत्त्या । त्वद्रीत्या ‘तत्त्वमसि’ वाक्य-श्रवणोत्थया । अनिवृत्तिर् इदानीमपि संसारोपलम्भादिति भावः ॥ ३१५ ॥
युक्तिमल्लिका
घटवृत्त्या घटाज्ञाननाशे न हि घटक्षयः ।
तवाप्यस्ति मते तस्मात्तदुपादेयतापि न ॥ ३१६ ॥
सुरोत्तमटीका
घटक्षयो नास्ति हीति सम्बन्धः ॥ ३१६ ॥
सत्यप्रमोदटीका
व्यावहारिकं घटं प्रति ब्रह्मैवाधिष्ठानम् । ब्रह्माज्ञानमेव चोपादानमिति परस्याभ्युपगमः । घटवृत्त्या घटाज्ञाननाशेऽपि घटस्यानाशा-दित्याह घटेति । नाशे नेति पदच्छेदः ॥ ३१६ ॥
युक्तिमल्लिका
उपादानस्य संबन्धनाशेनापि विनश्यतः ।
उपादानस्यैव नाशे कथं नाशो न जायते ।
अतोऽज्ञानमुपादानमिति रिक्तं वचस्तव ॥ ३१७ ॥
सुरोत्तमटीका
उपादानस्य तन्तोस्सम्बन्धनाशे संयोगाख्या समवायि-कारणनाशे । एवं च तत्प्रक्रिययैवाज्ञाननाशेऽपि घटादिकार्याणामनाशा-न्मृत्पिण्डनाशान्मृदादिकमेव घटाद्युपादानमिति भावः ॥ ३१७ ॥
सत्यप्रमोदटीका
संबन्धः कपालद्वयसंयोगादिर् असमवायिकारणम् । विनश्यतः घटादिप्रपञ्चस्य । उपादानस्यैव त्वद्रीत्या ब्रह्माज्ञानस्यैव । अतो ऽन्वयव्यतिरेकाभ्यां मृदादिकमेव घटाद्युपादानं नाज्ञानमिति निष्टङ्कितम् ॥ ३१७ ॥
युक्तिमल्लिका
तदज्ञानानुपादानवस्तुत्वाद् ब्रह्मवज्जगत् ।
सदा सत्स्यान्न चेन्न स्यात्प्रतिकर्मव्यवस्थितिः ॥ ३१८ ॥
सुरोत्तमटीका
परप्रक्रिययैव सिद्धत्वात् प्राक्सूचितस्याप्यनुमानस्य पुनर्वचनम् ॥ ३१८ ॥
सत्यप्रमोदटीका
सदा मुक्तावपि । तेन पारमार्थिकत्वलाभः । प्रतिकर्मव्यवस्थितिः सर्वस्यापि दृश्यस्य ब्रह्मात्मैकदृगध्यस्तत्वेऽपि कस्यचित् कदाचित् कंचित् प्रति प्रकाश इति व्यवस्था ॥ ३१८ ॥
युक्तिमल्लिका
शुक्तेरावरणेऽज्ञाने नष्टे बाधप्रमा पुनः ।
इयं शुक्तिर्न रजतमित्याकारा हि जायते ॥ ३१९ ॥
सुरोत्तमटीका
किञ्चाज्ञानातिरिक्तस्यैव लोके ज्ञानविनाश्यत्वदर्शना-त्साक्षाद्बन्धस्यैव ज्ञानविनाश्यत्वमुचितमित्याह ॥ शुक्तेरिति॥ ३१९ ॥
सत्यप्रमोदटीका
विषयावच्छिन्नचैतन्यावरकमज्ञानं न पुरुषगतमिति मते ज्ञानेनाज्ञाननिवृत्तिर्न सम्भवति । अन्योन्याश्रयादित्याह शुक्तेरिति । आवरणनिवृत्तौ प्रमा, प्रमयैव चाज्ञाननिवृत्तिरिति ॥ ३१९,३२० ॥