०४ विश्वं सत्यमित्यादिश्रुतिचर्चा

विश्वं सत्यमिति श्रुत्या सत्यत्वं स्पष्टमुच्यते

विश्वं सत्यमित्यादिश्रुतिचर्चा

युक्तिमल्लिका

विश्वं सत्यमिति श्रुत्या सत्यत्वं स्पष्टमुच्यते ।

प्रमाणसिद्धतां चास्य प्रमिनन्तीति सा जगौ ॥ १४७ ॥

अतः प्रमाणसिद्धत्वाद्ब्रह्मवत्परमार्थसत् ।

जगदेतदभूच्छ्रौतयुक्त्या स्पष्टश्रुतेरपि ॥ १४८ ॥

सोपपत्तिकवाक्यत्वाद्विश्वसत्यत्ववागियम् ।

स्वार्थे तात्पर्ययुक्तैव चाल्या नोक्तिशतैरपि ॥ १४९ ॥

सुरोत्तमटीका

‘‘विश्वं सत्यमि’’ति श्रुत्येत्यनेन विश्वं सत्यं मघवाना युवोरिदापश्चन प्रमिनन्ति व्रतं वाम् इति श्रुतिं गृह्णाति । हे मघवाना मघवानौ द्रव्यवन्तौ भगवन्तौ । भगवत एव रूपद्वयविवक्षया द्विवचनम् । युवोर् युवयोर् विश्वं भवत्सम्बन्धिविश्वमित्यर्थः । सम्बन्धश्च कर्तृकार्यभावः नियम्यनियामक-भावश्चेत्यादिरूपः । भगवतो विश्वस्य च भेदमपि सूचयितुमियमुक्तिः । सत्यं त्रिकालाबाध्यम् । इद् इत्थम् । वां युवयोः । व्रतं सत्यविश्वकर्तृत्वादि-रूपसम्बन्धनियमम् । आपो ऽबभिमानिदेवताः प्रमिनन्ति चन प्रमिनंत्येव । न तु मायावाद्युक्तरीत्या भ्रान्त्या जानन्तीत्यर्थः । प्रमिनन्तीत्युक्तयैवाप्पदेन तदभिमानिदेवानां ग्रहणम् । केवलानामपां जडत्वेन प्रमातृत्वायोगात् । तत्वाभिमानितयाऽतत्वज्ञानाभावस्य तत्वेषु च पावनीभूतजलाभिमानितयाऽ-तत्वज्ञानकारणदोषाभावस्य च सूचनायाभिमन्यमाननाम्नैव तेषां ग्रहणम् । अभिमन्यमाननामि्न च नियतबहुवचनान्तपदेनैवोपादानं ज्ञानस्य ज्ञानान्तर-संवादित्वेन प्रमिनन्तीत्युक्तप्रामाण्यदृढीकरणायेति ज्ञातव्यम् ।

विश्वं प्रमिनन्तीत्येतावदेवानुक्त्वा सत्यविश्वकर्तृत्वादिसम्बन्धनियमरूपं व्रतं प्रमिनन्तीत्युक्तिर्विशेषणीभूतविश्वसत्यत्वस्य विश्वस्य सम्बन्धपदोदितजगद्ब्रह्म-भेदस्य कर्तृत्वादिभगवद्धर्माणां धर्मिभूतब्रह्मणश्च प्रामाणिकत्वेन सत्यत्वं स्थिरीकर्तुम् । अत एव प्राग्विश्वपदेन जगतो जगन्निष्ठभेदस्य च साक्षाद्ग्रहणम् । ब्रह्मधर्मिकभेदस्य कर्तृत्वादिब्रह्मधर्माणां ब्रह्मणश्चोपलक्षणयाऽध्याहारेण वा सर्वेषां सत्यत्वं श्रुत्या प्रतिज्ञातम् । अथवा ब्रह्मगुणादेश्च मायिभिर्विश्वान्तः-पातितया मिथ्यात्वकथनाद्धर्मधर्मिभावसम्बन्धेन तमपि साक्षादेव जग्राह । ब्रह्म तु उभयवादिसम्प्रतिपन्नत्वादुपेक्षितवती । अन्यथोपसंहारस्यानुपक्रान्तोप-संहारत्वाख्यदोषापत्तेः । अत इयं श्रुतिर्वर्णतो वामनचरण इव सूक्ष्मरूपाप्यर्थ-तस्त्रिविक्रमचरण इव विश्वव्यापिनी मायिमताख्यखर्परं निर्भिद्य मध्वमतस्वर्धुनीं प्रद्योतयति ॥ १४७–१४९ ॥

सत्यप्रमोदटीका

‘विश्वं सत्यं मघवाना युवोरिदापश्चन प्रमिनन्ति व्रतं वां’ इत्यस्या अर्थः । हे मघवानौ धनवन्तौ, इन्द्रबृहस्पती । भगवत एव रूपद्वयविवक्षया द्विवचनम् । युवोर् युवयोर् अधीनं विश्वं सत्यमित् सत्यमेव । एवं कुतः । वां युवयोः सत्यं जगत्पालनादिकं व्रतं कर्म, आपश्चन सर्वा देवता अपि प्रमिनन्ति जानन्ति । न केवलमहमेव इति ॥

‘विश्वं सत्यं प्रमाणदृष्टत्वाद् ब्रह्मवत्’ इति प्रयोगः । न च साध्या-निरुक्तिः । अबाध्यतायाः साध्यत्वात् । ब्रह्मणश्च प्रामाणिकत्वाभ्युपगमान् न तत्र साधनावृत्तिः ॥ न च साध्याविशिष्टता । स्वपरासंमतेः । ब्रह्मणश्च प्रामाणिकत्वाभावे शशविषाणवदसत्त्वप्रसङ्गः’ । इत्यादिकं वादावल्युक्तमनु-सन्धेयम् । श्रौतेति । हेतोः पक्षधर्मता प्रमिनन्तीति श्रुत्यैवोक्तेति भावः । ‘चन’ शब्देन प्रत्यक्षादिप्रमाणसिद्धत्वमपि सूचितम् । देवा अपि जानन्ती-त्युक्त्या प्रत्यक्षादीनामतत्त्वावेदकता पराकृता । अन्यथा देवानां भ्रान्तत्वापत्तेः। बाध्यशुक्तिकारजतद्रष्टृवत् । श्रुत्यनुगृहीतत्वान्नाप्रयोजकता इत्याह श्रुतेरिति । तस्याश्च नार्थान्तरावकाश इत्याह स्पष्टेति ॥ १४७–१४९ ॥

युक्तिमल्लिका

व्यावहारिकतावाणीं वाणीयं धिक्करोति ते ।

कपोलकल्पिता यत्सा स्वयं सर्वैरकल्पिता ॥ १५० ॥

सुरोत्तमटीका

यद् यस्मात् । सा व्यावहारिकता वाणी । स्वयम-पौरुषेयश्रुतिरूपा । तस्माद् अकल्पिताया ममाग्रे स्वकपोलकल्पितकुवादि-वाक्यस्य कथं स्थितिः । न हि श्रुत्युक्तं जगत्सत्यत्वं व्यावहारिकमित्यपि काचिच्छ्रुतिरस्तीति धिक्करोति ॥ १५० ॥

सत्यप्रमोदटीका

‘व्यावहारिकं सत्त्वमत्रोच्यते इति चेन्न । निर्बीजत्वा-त्कल्पनायाः’ इति वादावल्यनुरोधेनाह व्यावहारिकतेति । व्यावहारिकपदस्य श्रुतावश्रवणात् । एवमेव कल्पनेऽतिप्रसङ्गात् ॥ ‘न हि अक्षरबाह्यो वाक्यार्थः’ इति स्वेनैवान्यत्र प्रतिषेधात् । ‘प्रमाणानि खलु स्वगोचरे प्रवर्तमानानि तत्त्वमित्येव प्रवर्तन्ते’ इति भामत्यां बौद्धोक्तसांवृतसत्यत्वस्य खण्डनात् (भे.प.ब्र.सू.भाग २ प १६) । एवं विद्यारण्येनापि एतद्वाक्यव्याख्यानावसरे सत्यम् इत्यस्य अनारोपितमिति अर्थोक्तेश्च ॥ १५० ॥

युक्तिमल्लिका

द्विसंबन्धित्वकथनादेकाज्ञानेन कल्पनाम् ।

निवारयति मिथ्यात्वमपि तेन न्यवारयत् ॥ १५१ ॥

भ्रान्तोऽर्थो न बहोरेको दृश्यो भवति तन्मते ।

मुक्तेरमुक्तिताऽऽपत्त्या यद्बहोस्सत्तदात्मवत् ॥ १५२ ॥

सुरोत्तमटीका

श्रौतपदान्तरेण लब्धमर्थमाह ॥ द्विसम्बन्धित्वेति ॥ युवोर्युवयोरिति मघवानाविति चोक्तचेतनद्वयसम्बन्धित्वकथनात् । तेन द्विचेतनसम्बन्धित्वेन ॥ एतदेवोपपादयति ॥ भ्रान्तोऽर्थ इति ॥ दृष्टिसृष्टिमते एकैकदृष्ट्या एकैकजगतस्सृष्टिं वदन्तो मायावादिनः मिथ्याभूतस्य द्विचेतनदृष्टतां न मन्यन्ते । अतो न कल्पितस्य द्विसम्बन्धित्वमिति भावः । दृष्टिसृष्टिपक्षस्य तन्मतत्वे ज्ञापकमाह ॥ मुक्तेरिति ॥ बाधमात्रेण चरितार्थत्वे श्रौतप्रलयाभावप्रसङ्गेन जगतो ब्रह्मज्ञानविनाश्यत्वस्याप्यङ्गीकारादेकस्य ज्ञानेन सर्वजगतोऽपि नाशे पुनरन्यस्य भ्रमायोगात् तत्तज्ज्ञानविनाश्यस्य तत्तद्भ्रम-विषयस्य च जगतो भिन्नस्यैव वक्तव्यत्वादिति भावः । ततः किं लब्धमित्यत आह ॥ यदिति ॥ यद्बहोरिति हेतुः । सदिति साध्यम् । तदिति धर्मी । आत्मवदिति दृष्टान्तः । एवं च जगतस्सत्यत्वं मिथ्यात्वाभावो वा अनेन सिद्ध इति भावः । एकचरणेनैव सविस्तरानुमानसङ्ग्रहादतिचमत्कारोऽयम् ॥ १५१,१५२ ॥

सत्यप्रमोदटीका

मघवा इति युवोरिति वामिति च द्विसंबन्धित्वकथनेन सत्यत्वसिद्धिप्रकारमाह यदिति । विमतं सत्यं बहुर्भिर्दृश्यमानत्वाद् आत्मवत् । न चासिद्धिः । द्विवचनेन द्विकर्तृकसृष्टित्वस्य प्रमिनन्ति इति बहुकर्तृकदर्शन-विषयत्वस्य च श्रुतिसिद्धत्वात् । न च भ्रमाणामनेकत्वेऽपि विश्वस्यैकत्व-मित्याह भ्रान्त इति भ्रमरूपोऽर्थ इत्यर्थः । अर्थज्ञानयोरभेदाभ्युपगमादिति भावः । तदुक्तं तन्मत इति । न चाप्रयोजकतेत्याह मुक्तेरिति । एकस्य अज्ञाननिवृत्तौ अपि बहुनां द्रष्टृणाम् अज्ञानानामनिवृत्तत्वेन बन्धस्य तदव-स्थत्वात् । तदज्ञानपरिकल्पितस्य प्रपञ्चस्यानपायेन अनेकप्रपञ्चाङ्गीकारापत्तेः । प्रपञ्चस्य प्रविलय एव हि तन्मते मुक्तिः । न च दृष्टान्तः साधनविकलः । प्रमिनन्तीति श्रुत्या पश्यन्ति ज्ञानचक्षुष इत्यादिस्मृत्या च हेतुसिद्धेः । शुक्तिरूप्यं वा व्यतिरेकदृष्टान्तः ॥ १५१,१५२ ॥

युक्तिमल्लिका

यतश्च तन्मते सुप्तौ लीनं देहादिकं तदा ।

द्रष्टुर्द्रष्टुर्दृष्टितोऽन्यः कल्प्यः कल्प्यः क्षणे क्षणे ॥ १५३ ॥

सुरोत्तमटीका

दृष्टिसृष्टिपक्षस्य तन्मतत्वे पुनरपि ज्ञापकान्तरमाह ॥ यतश्चेति ॥ अतोऽपि दृष्टिसृष्टिपक्षो मायिनां पक्ष इति योजनीयम् । एवं च विमतं जगन्न मिथ्या । द्विचेतनसम्बन्धित्वात् । बहुचेतनदृष्टत्वाद्वा । ब्रह्म-वद्व्यतिरेकेण शुक्तिरूप्यवद्वा । न च हेतुरसिद्धः । युवोरिति प्रमिनन्तीति द्वयोरपि श्रौतत्वादित्यनुमानद्वयं सिद्धमिति भावः ॥ १५३ ॥

सत्यप्रमोदटीका

यतश्चेति । विवृतमेन्न्यायामृते दृष्टिसृष्टिभङ्गे ‘चैत्रे सुप्ते तद्देहादिकं तं प्रति नास्त्येव । जाग्रतो मैत्रस्य तु तद्भ्रान्त्या भाति । प्रत्यभिज्ञा तु सोऽयं दीप इत्यादिवद्भ्रान्तिरि’ति ॥ १५३ ॥

युक्तिमल्लिका

सदा यद्यस्य तत्तस्य व्रतमित्युच्यते बुधैः ।

एवञ्च सत्यजगतः कर्तृता नियताऽभवत् ॥ १५४ ॥

अतो यावद्ब्रह्मभावित्वाच्च तत्सुखवज्जगत् ।

परमार्थसदेवासीत्सर्वं चानुमयाऽमुया ॥ १५५ ॥

सुरोत्तमटीका

श्रौतपदान्तरलब्धमप्यनुमानं दर्शयति ॥ सदेति ॥ अत श्रौतव्रतपदमहिम्ना जगतोऽपि यावद्ब्रह्मभावित्वलाभात् । तत्सुखवद् ब्रह्म-सुखवत् । सर्वं जगदिति सम्बन्धः ॥ १५४,१५५ ॥

सत्यप्रमोदटीका

नियमगर्भव्रतशब्दोक्त्या यावद्ब्रह्मभावित्वेन सत्यत्व-सिद्धिरित्याह सदेति ॥ नियमवाचकत्वे प्रयोगबाहुल्यम् उच्यते इति । पतिव्रता इत्यादौ प्रयोगे तथात्वदर्शनादिति भावः ॥ १५४,१५५ ॥

युक्तिमल्लिका

आप इत्युक्तितो लोकपावनीभूतदेवताः ।

अदुष्टकरणोपेता न भ्राम्यन्तीत्यसूचयत् ॥ १५६ ॥

तस्माददुष्टकरणजन्यत्वात्तद्दृशिः प्रमा ।

अन्त्यप्रमावदित्युक्तं साधकं चाप्यशोधयत् ॥ १५७ ॥

प्रमिनन्तीत्युक्तिरेव व्यावहारिकताप्रथाम् ।

न्यवारयद्यतो बाधशून्यार्थानुभवः प्रमा ॥ १५८ ॥

सुरोत्तमटीका

अनुमानान्तरं च श्रुत्यैव सूचितमित्याह ॥ आप इति ॥ तद्दृशिर् जगद्दृशिः । उक्तं पूर्वाचार्यैरुक्तम् । साधकम् अदुष्टकरणजन्य-त्वादिति हेतुमशोधयत् । द्रष्टॄणां निर्मलत्वोक्तयाऽसिद्ध्याख्यदोषरहितमकरोत् ॥ १५६–१५८ ॥

सत्यप्रमोदटीका

असामन्तात् पुनन्तीत्यापः ‘आपो वै सर्वा देवता’ इति श्रुतेर् अप्शब्दः देवतावाची ॥ न च तासां करणेषु दोषशङ्काऽवकाश-मासादयति । लोकपावनत्वात्तासाम् । तस्मात् प्रामाण्यापवादकसामग्री-समवधानाभावात् । करणानामदुष्टत्वोक्तेरपि अपवादनिरसन एव तात्पर्यम् । ज्ञानानां प्रामाण्यस्योत्सर्गत एव स्थितेः । तद्दृशिस् तासां देवतानां तस्य जगतो दृशिः । अन्त्यप्रमावत् तत्वमस्यादिवाक्योत्थपराभिमतचरमप्रमावत् । पररीत्या दृष्टान्तः । तस्याखण्डार्थनिष्ठत्वोपगमेन ज्ञानत्वमेव दुर्लभं दूरे प्रमात्व-मित्यन्यदेतत् ॥

अनुभवस्य याथार्थ्यं बाधेनैवापोद्यम् । न चात्र बाधः । देवतासाक्षि-विषयत्वात् । व्यावहारिकत्वं च प्रमाया अतत्वावेदकत्वं पराभिमतम् । अतत्वावेदकं प्रमाणं चेति व्याहतमित्याशयेनाह न्यवारयदिति ॥१५६–१५८॥

युक्तिमल्लिका

एवञ्च बाधशून्यत्वाज्जगच्च ब्रह्मवत्सदा ।

अव्यावहारिकञ्चासीदार्थिक्याऽनुमयाऽमुया ॥ १५९ ॥

सुरोत्तमटीका

आर्थिक्या अर्थात्सिद्धया । अनुमया बाधशून्यत्वा-दित्यनुमया ॥ १५९ ॥

सत्यप्रमोदटीका

न च बाधशून्यत्वमेव अव्यावहारिकत्वमिति साध्या-विशिष्टता । बाधः प्रातिभासिकसाधारणः । सामान्याभावेन विशेषाभाव-साधनाददोषः । परमार्थतया व्यवहर्तव्यत्वं वा साध्यम् ॥ १५९ ॥

युक्तिमल्लिका

यथा घटपटद्वित्वं नैवं ब्रह्मस्वरूपयोः ।

द्वितेत्यपि युवोरित्याद्युक्तिव्यत्यासतो जगौ ॥ १६० ॥

सुरोत्तमटीका

द्विवचनप्रयोगाद् भगवद्रूपयोरेव भेदमाशङ्क्य परिहरति ॥ यथेति ॥ आदिपदेन मघवाना इति पदं गृह्यते । युवयोरिति वक्तव्ये युवोरित्येव कथनान् मघवानाविति वक्तव्ये मघवानेत्येव कथनाच्च न भेद घटितं मुख्यद्वित्वमिदं किन्तु विशेषघटितमेवेत्यसूचयत् । पदव्यत्यासस्यार्थ-व्यत्याससूचकत्वादिति भावः । इदं च भगवद्रूपद्वयविषयत्वेन स्वरूपभेदा-भावस्य निर्णीतत्वाद् अस्पष्टप्रयोगपरिग्रहरूपतया ज्ञापकमात्रमुदितम् । वस्तुतस्तु छन्दसि व्यत्ययस्याकारादेशस्य च विहितत्वेन मुख्यप्रयोगत्वान् मुख्यस्य च बाधकाभावे मुख्यार्थप्रापकत्वनियमेन यादृश तादृशाश्श्रौत-द्विवचनबहुवचनान्तप्रयोगास्स्वरूपभेदस्यैव प्रापकाः । बाधके सति तु यथा योग्यं नीयन्ते । स्पष्टस्वरूपभेदज्ञापकसद्भावे तु सुतरां स्वरूपभेदस्यैव साधकाः । अत एव हि ‘‘द्वासुपर्णे’’ति प्रयोगबलाज्जीवेशयोर्भेदसाधनं बाधकाभावात् । अशनानशनाख्यविरुद्धधर्मस्य तयोरिति स्पष्टद्विवचनान्तरस्य भेदवाचकान्यपदस्य समाख्यास्मृतौ सुपर्णावेताविति तत्रैव स्पष्टद्विवचनस्य च साधकस्य सद्भावात् ॥ १६० ॥

सत्यप्रमोदटीका

युवोरिति छान्दसप्रयोगेण ‘द्वित्वं चैकस्य युज्यते’ इत्यनुव्याख्यानोक्तविशेषलाभोऽपीत्याह यथेति ॥ १६० ॥

युक्तिमल्लिका

चनेति वैदिकपदान्नान्यथात्वं कथञ्चन ।

इत्यवाधारयत्स्वार्थमनेकार्थं यदव्ययम् ॥ १६१ ॥

सुरोत्तमटीका

चन पदस्यार्थमाह ॥ चनेति ॥ अवाधारयत् प्रमिनन्त्येवेत्यवधारितवती । कथञ्चन अन्यथात्वं नेत्येवकारार्थकथनम् । चनपदस्य एवेत्यर्थः कथमित्यत आह ॥ अनेकार्थमिति ॥ यद् यस्मात् । किं च वैदिकमर्यादया च नेत्येवपदम् । तस्य चाप्रसिद्धपदत्वाद्यथायोग्यमर्थो वक्तव्यः । स च भगवत्कृतविश्वस्य सत्यत्वोक्तया तं स्तोतुकामायाश्श्रुते-स्स्वोक्तसत्यत्वस्थिरीकरणायोक्त एवेति भावः ॥ १६१ ॥

सत्यप्रमोदटीका

‘यदा त्वर्थित्वेन निश्चिचीषति तदा सजातीय-विजातीयसंवादविसंवादभावाभावलक्षणया परीक्षया तप्रामाण्यमवधारयती’ति वादावल्युक्तवर्त्मना प्रामाण्यावधारणप्रकारमाह चनेति । प्रमिनन्तीति अनेक-संवादः पूर्णैश्वर्यवाचिमघवपदप्रयोगेण ऐन्द्रजालादिकुहकनिराकरणेन, एवं नियमशंसिव्रतपदप्रयोगेण च विसंवादाभावो ज्ञापितो ध्येयः ॥ १६१ ॥

युक्तिमल्लिका

सार्वज्ञशस्तचित्तत्वपराभावनशक्तिभिः ।

स्वातन्त्र्येण च पूर्वा वाक्कर्त्रज्ञानं चकर्त हि ॥ १६२ ॥

सुरोत्तमटीका

पुनस्सिंहावलोकनन्यायेन कविर्मनीषीति श्रुतेः पदशोधनं करोति ॥ सार्वज्ञेति ॥ कविपदेन सार्वज्ञं मतुपः प्राशस्त्यार्थत्वान् मनीषा अस्य वर्तत इति मनीषिपदेन शस्तचित्तत्वम् । परिभवति परिभावयति वा सर्वमिति व्युत्पत्त्या परिभूपदेन पराभावनशक्तिः । स्वयमेव भवति । नत्वन्य-प्रेरित इति स्वयम्भूपदेन स्वातन्त्र्यम् । कर्तुर्व्यदधादिति पदोक्तजगत्कर्तु-र्नारायणस्याज्ञानम् । सार्वज्ञादिगुणभरितस्याज्ञानायोगादिति भावः ॥ १६२ ॥

सत्यप्रमोदटीका

‘शाश्चतीभ्यः सामाभ्यः’ इत्युक्तनित्यत्वेन ‘कवि-र्मनीषी’ति श्रुत्या सत्यत्वसिद्धिः पूर्वमुक्ता । न केवलमेवं किन्तु कवित्वादि-विशेषणैःसौरभचतुष्टयार्थसिद्धिरपीत्याह सार्वज्ञेति । ‘अज्ञताऽखिलसंवेत्तुर्घटते न कुतश्चेन’ति वचनात् सार्वज्ञेनाज्ञानाभावसिद्धिः । मनीषी इत्यस्यार्थद्वयं मनसामीशितृत्वं, प्रशस्तचित्तत्वं च ॥ ‘भूमनिन्दाप्रशंसासु भवन्ति मतुबादय’ इत्युक्तेः । तेन नियामकस्य तस्य ज्ञानस्य अबाधितत्वम् । ‘न हि द्रष्टुर्दृष्टे-र्विपरिलोपो विद्यते’ इति श्रुतेः । परिभूर् इत्यस्य, स्वेन धाम्ना सदा अखिल-दोषनिरसनशक्तिमान् इत्यर्थः । स्वतन्त्रार्थकस्वयम्भूशब्देन ‘सर्वधर्मोपपत्तेश्च’ इति नयोक्तरीत्या गुणपूर्णत्वदोषदूरत्वयोः सिद्धिः ॥ १६२ ॥

युक्तिमल्लिका

तेनाज्ञानामूलवस्तुत्वाच्चार्था ब्रह्मवत्सदा ।

परमार्था इति स्वोक्ते युक्तिं च प्रत्यपीपदत् ॥ १६३ ॥

सुरोत्तमटीका

तेन अज्ञाननिराकरणेन ॥ १६३ ॥

सत्यप्रमोदटीका

अज्ञाननिरासेनाविद्याकार्यत्वरूपमिथ्यात्वनिरासः ॥ १६३ ॥

युक्तिमल्लिका

किञ्चाधिष्ठानयाथात्म्यद्रष्टृदृश्यत्वतश्च सत् ।

जगद्ब्रह्मवदेवेति युक्तिं वक्ति कवेर्गुणः ॥ १६४ ॥

सुरोत्तमटीका

कवेर्गुणस्सार्वज्ञम् । सर्वमपरोक्षीकृत्य पश्यतः परमात्मनो ऽधिष्ठानयाथात्म्यदर्शनं जगद्दर्शनं चावश्यकमित्युक्तयुक्तिरप्यर्थाल्लब्धेति भावः ॥ १६४ ॥

सत्यप्रमोदटीका

‘अपरोक्षदृशो मिथ्यादर्शनं न क्वचिद्भवेत् । सर्वा-परोक्षविद्विष्णुर्विश्वदृक् तन्न तन्मृऽषा’ इति आगमिकयुक्तिः कविशब्देन ज्ञाप्यते इत्याह किञ्चेति ॥ १६४ ॥

युक्तिमल्लिका

अनीदृग्जगतो ब्रह्मभेदं सर्वेशतां गुणान् ।

दोषोद्धूननशक्तिं च वक्ति सर्वपदावली ॥ १६५ ॥

सुरोत्तमटीका

अनीदृग्जगतः सार्वज्ञादिगुणरहित जगतः सकाशात् । गुणान्सार्वज्ञादिगुणान् । सूचनया साक्षाज्जगत्सत्यत्वं हरेस्सकलजगद्भिन्नत्व-सर्वेश्वरत्वनिर्दोषत्वाख्यप्रमेयत्रयं चेयमेव श्रुतिर्युक्तिमुखेन श्रुतिमुखेन च साधयन्ती मनोहरपदचतुष्टया कामधेनुरिव सौरभचतुष्टयार्थमपि स्पष्टीकारेति भावः ॥ १६५ ॥

सत्यप्रमोदटीका

तदेवं ‘सर्वत्राखिलसच्छक्तिः स्वतन्त्रोऽशेषदर्शनः’ इति तत्त्वोद्योतपद्यगतविशेषणविवृतिः श्रुतिद्वयेन लब्धा । ‘नित्यातादृश-चिच्चेत्ययन्तेष्टो नो रमापतिः’ इत्युत्तरार्धस्य विवरणप्रकारं विशदयति अनीदृगिति । तेन मुक्तामुक्तनियामकत्वसिद्ध्या भेदसौरभार्थसिद्धिरिति ॥ १६५ ॥

युक्तिमल्लिका

अल्पज्ञत्वविहीनत्वात्सावद्यधिषणोज्खितेः ।

अपूर्णयत्नशून्यत्वादन्याधीनेच्छताच्युतेः ॥ १६६ ॥

जीवाभिन्नो निर्गुणश्च भावाज्ञानसमावृतः ।

अल्पेश्वरश्च घटवद्यस्मान्नासीन्महाप्रभुः ॥ १६७ ॥

तस्माच्छ्रुतिद्वयं युक्तिव्रातमण्डनमण्डितम् ।

अलङ्करोति वाङ्नारीवदनं बुधसंसदि ॥ १६८ ॥

सुरोत्तमटीका

अनयैव श्रुत्या परमतखण्डनप्रकारं चाह ॥ अल्पज्ञ-त्वेति ॥ नञः विशेषणचतुष्टयेनापि प्रत्येकं सम्बन्धः । ततश्च हरिर्जीवाभिन्नो नेति साध्येऽपि अल्पज्ञत्वविहीनत्वादित्यादिहेतुचतुष्टयस्यापि सम्बन्धः । घट एव सर्वत्र दृष्टान्तः । एवमुत्तरत्रोक्ते निर्गुणोनेत्यादिसाध्यत्रयेऽपि हेतुचतुष्टयस्य सम्बन्धः । तथा च हरिर्जीवाभिन्नो न भवति अल्पज्ञत्वविहीनत्वात् । सावद्य-बुद्धिविधुरत्वात् । अपूर्णयत्नशून्यत्वात् । अन्याधीनेच्छाशून्यत्वात् । घटवदित्या-द्याकारेण साध्यचतुष्टये षोडशानुमानानि जातानि । प्रागुक्तयोजनिकायां च विश्वसत्यत्वेऽनुमानद्वयम् । हरेर्जगद्वैलक्षण्ये ब्रह्मजगती भिन्ने विरुद्धधर्मा-क्रान्तत्वात् । दहनतुहिनवदित्येकमनुमानम् । जीवाद्भेदसाधने तु पूर्वपक्ष-निरासायोक्तम् । अल्पज्ञत्वविहीनत्वादित्यादिहेतु चतुष्टयमपि ग्राह्यम् । घटादिकमेव तदृष्टान्तः । असति भेदाभावमते वस्तुत्वे सतीति विशेषणं योजनीयम् । वैलक्षण्यमेव वा भेदो वक्तव्यः ।

सर्वेश्वरत्वे पूर्णगुणत्वे निर्दोषत्वेन सर्वज्ञत्वात् । निरवद्यबुद्धित्वात् । स्वतन्त्रत्वाच्च । व्यतिरेकेण घटवदित्येकैकस्मिन्साध्ये व्यतिरेक्यनुमानचतुष्टयं चतुष्टयमिति साध्यत्रये द्वादशानुमानानि । पूर्वोक्ते जगद्वैलक्षण्यसाध्येऽपि सर्वेशत्वादाविव सर्वज्ञत्वादित्यादिव्यतिरेकिहेतुचतुष्टयं द्रष्टव्यम् । शाश्वतीभ्य-स्समाभ्यो व्यदधादिति वाक्यशेषबलेन विमतं जगत् परमार्थसद् अवसान-शून्यत्वाद्ब्रह्मवदिति जगत्सत्यत्वे पुनरनुमानान्तरं च सूचितम् । मिलित्वा चत्वारिंशदनुमानानि । स्वपक्षसाधनेऽतिभारवत्त्वादनुमानबाहुल्यम् । एवं च ज्ञानयज्ञोपयुक्तबहुतरप्रमाणाख्यदुग्धानान्दोग्ध्रीयं वाक् माध्वी स्वर्धेनुरेवेति ग्रन्थकृतो हृदयम् । तस्मादुक्तरीत्या श्रुतिद्वयस्यापि बहुयुक्तिभरितत्वात्

॥ १६६–१६८ ॥

सत्यप्रमोदटीका

नित्यातादृशत्वलाभप्रकारमाह अल्पज्ञत्वेति । तदेतेन ‘चिच्चैत्ये; केनचिन्नियते अपर्याप्तशक्त्यादिमत्त्वात्’ इति प्रयोग उक्तो ज्ञेयः ॥ निर्गुणः निर्धर्मकः । तेन न साध्यवैकल्यम् ॥ १६६–१६८ ॥

युक्तिमल्लिका

यच्चिकेतेति वाक्चाह सत्यमेतज्जगत्रयम् ॥ १६९ ॥

अमोघत्वोक्तितश्चार्थक्रियाकारित्वयुक्तितः ।

ब्रह्मवत्सत्यता सर्वस्यापि साध्येत्यसूचयत् ॥ १७० ॥

सुरोत्तमटीका

यच्चिकेतेत्यनेन ‘‘यच्चिकेत सत्यमित्तन्न मोघं वसु स्पार्हमुत जेतोत दाता’’ इति श्रुतिं गृह्णाति । अस्या अर्थः । भगवान् । यद्वसु सदानिवसनशीलम् । अनाद्यनन्तजगदित्यर्थः । चिकेत चकार । धातूनामनेकार्थत्वेन चिकेतेत्यस्य चकारेत्यर्थेऽपि वर्तनात् । चकारेत्येवानुक्तिस्तु ‘‘कित निवासे रोगापनये चे’’ति कितिधातोः प्रसिद्धनिवासरोगापनयार्थाभ्यां सदा निवसनेन जगतो बाधाख्यरोगापहारं च सूचयितुम् । अत एव वस्वित्येव विशेष्यपदं निरदिक्षत् । सत्यमिति सत्यतां च व्यधत्त । तत् सत्यमित् सत्यमेव । मोघं व्यर्थं न । अर्थक्रियाकारीत्यर्थः । स्पार्हं स्पृहायोग्यम् । यच्च वसु स्वसृष्ठ्यनन्तरं जेता । महाबलिरावणहिरण्यकशिषुप्रभृतीन्जित्वा आनेता । उत तथा यथा आनीतं तथैवेत्यर्थः । दाता इन्द्रादीनां दाता । अनेन स्पृहा-विषयत्वमपि इन्द्रादिजीवानामेव । न पूर्णस्य स्वस्य । वामनावतारे त्रिपद-व्याजेनानीतस्य सर्वस्यापि जगत इन्द्रायैव प्रदानादिति सूचयति ॥ अमोघ-त्वोक्तितः प्राप्तायाः । सर्वस्य जगतः । सर्वं जगत्परमार्थसद् अर्थक्रियाकारि-त्वात् । ब्रह्मवत् । न च दृष्टान्ते हेतोरसिद्धिः । चिकेत जेता दातेति पद-त्रयेणास्यामेव श्रुतौ ब्रह्मणोऽर्थक्रियाकारित्वसमर्थनादित्यर्थः ॥ १६९,१७० ॥

सत्यप्रमोदटीका

‘यच्चिकेत सत्यमित्तन्न मोघं वसु स्पार्हमुत जेतोत दाता’ इति श्रुत्यन्तरेण विश्वसत्यत्वसिद्धिं सुबहुधा समर्थयते यदित्यादिभिः ॥ अस्यार्थो विष्णुतत्त्वनिर्णयटीकायामुक्तः । ‘स्पार्हं स्पृहणीयं हविरादिकं वसु भक्तेभ्यो जेतोत प्राप्ताऽपि तथा तेभ्यो स्पार्हं वसु फलं दातोत दाताऽपि परमेश्वरो यद्विश्वं चिकेत चकार तत्सत्यमित् सत्यमेव । कुतः । अर्थक्रिया-स्वनुपयुक्तं न भवति’ इति । पद्मनाभतीर्थीये तु बल्यादिदैत्यराज्याख्यं स्पार्हं वसु जेता इन्द्रादिभ्यो दाता च इत्यर्थान्तरमुक्तम् । ‘अर्थक्रियाकारित्वाच्च सत्यत्वसाधनं संभवति’ इति वादावल्युक्तं प्रयोगमाह अमोघत्वेति । विमतं सत्यम् अर्थक्रियाकारित्वाद् ब्रह्मवद् इति ॥ ‘न चात्मन्यर्थक्रियाकारित्वं नास्तीति वाच्यम् । तस्य निखिलप्रपञ्चकारणत्वेन श्रुतिशतसमधिगतत्वात् । सोऽपि पक्षनिक्षिप्तश्चेन्महायानिकपक्षपातः’ इति वादावल्याम् उक्तरीत्या साधनवैकल्यं न शङ्कनीयम् । अत्रैव वाक्ये चिकेत, दाता, जेता इति तदर्थ-क्रियाया वर्णनादिति भावः ॥ १६९,१७० ॥

युक्तिमल्लिका

स्पृहाविशेष्यतोक्त्या च सत्यत्वं प्रत्यबोधयत् ।

स्पृहणीयं यतो मोक्षसुखं सत्यं परस्य च ॥ १७१ ॥

सुरोत्तमटीका

भ्रान्तिदशायां रजतस्यापि बाधपर्यन्तमिच्छाविषयत्व-दर्शनात् स्पृहाविशेष्यतोक्तयेत्युक्तम् । तदापि विशेष्यत्वं शुक्तेरेव न रजतस्य । अतो न व्यभिचार इति भावः । अनेन जगत्परमार्थसत् । इच्छाविशेष्यत्वा-त्सुखमेव मे स्यादित्याकायमाणमौक्तसुखवदित्यनुमानं सूचयति ॥ १७१ ॥

सत्यप्रमोदटीका

तत्रैव प्रतिज्ञायां स्पृहाविशेष्यत्वरूपं स्पार्हपदोक्तं हेत्वन्तरमाह स्पृहेति । स्पृहाविषयत्वादित्युक्तौ भ्रान्तिकाले स्पृहाप्रकारे शुक्तिरूप्ये व्यभिचारः । अतः विशेष्यतापर्यन्तं धावनम् । पराभ्युपगममात्रेण मोक्षसुखं दृष्टान्त उक्त इत्याह परस्येति । वस्तुतो ऽहमर्थस्य परमते मोक्षेऽभावेन ‘अहं मोक्षसुखी स्याम्’ इति स्पृहाप्रकारत्वमपि मोक्षसुखे न संभवतीत्याशयः ॥ स्वमतेन तु पूर्वप्रयोग इव आत्मैव दृष्टान्तः । तस्यैव इष्टत्वेन इष्टसाधनत्वेन वा सर्वाधिकारिस्पृहाविशेष्यत्वात् ॥ १७१ ॥

युक्तिमल्लिका

विशिष्टकर्तृतायां च कर्तृत्वं चित एव हि ।

किं कुंभकारो मृद्दण्डौ यद्विशिष्टः करोत्यसौ ।

अतो निरुपमा ब्रह्मोपमा सत्यत्ववादिनाम् ॥ १७२ ॥

जेता दाता चिकेतेति ब्रह्मणोऽर्थक्रियाकृतिः ।

त्रिधाऽपि बोधिता यस्मात्तस्माद्ब्रह्मोपमा मम ॥ १७३ ॥

सुरोत्तमटीका

परमते मायाविशिष्टस्यैव जगत्कर्तृत्वाच्छ्रुद्धब्रह्मणि कर्तृत्वाभावेनार्थक्रियाकारित्वहेतौ दृष्टान्तस्य साधनवैकल्यमाशङ्क्यपरिहरति ॥ विशिष्टेति ॥ जगन् नासादरूपमायाविशिष्टचित्कर्तृतायामित्यर्थः । यद्विशिष्टः मृद्दण्डविशिष्टः । करोति कुम्भं करोति । असौ कुम्भकारः । यथा दण्ड-मृत्पिण्डविशिष्टकुम्भकारस्य कर्तृत्वेऽपि विशेष्यभूतकुम्भकारस्यैव कर्तृत्वं न विशेषणीभूतदण्डमृत्पिण्डयोः । तयोरपि कर्तृत्वे कर्त्रर्थककुम्भकारपदस्य तत्रापि प्रयोगप्रसङ्गात् । एवं जगदुपादानमायाविशिष्टचितः कर्तृत्वेऽपि कर्तृत्वं चित एव । अतः कुलालदृष्टान्तेन विशिष्टकर्तृतायामपि चित एव कर्तृत्वात् । निरुपमा असदृशी । ब्रह्मोपमा अर्थक्रियाकारित्वहेतौ ब्रह्मदृष्टान्तः ॥ १७२,१७३ ॥

सत्यप्रमोदटीका

ननु अत्र मायाविशिष्टं ब्रह्म वा दृष्टान्तः शुद्धचिन्मात्रं वा । नाद्यस् तस्य मिथ्यात्वेन साध्यवैकल्यात् । न द्वितीयः । उदासीन-स्वभावस्य तस्य कर्तृत्वायोगेन साधनवैकल्यादिति । मैवम् । पक्षद्वयेऽपि न दोषः । आद्ये मायाशब्देन ब्रह्माधीनप्रकृतिरेव मायाशब्दार्थः । तद्विशिष्टब्रह्मणि कर्तृत्वविधिः, विशेषणे जडप्रकृतौ इच्छाघटितकर्तृत्वस्य बाधेन, ‘विशिष्टविधिः सति विशेषणे बाधे विशेष्यमुपसंक्रामती’ति न्यायेन, प्राप्ताप्राप्तविवेकेन विशेष्यं ब्रह्मैवोपसंक्रामति । अतो ब्रह्मोपमा ब्रह्मदृष्टान्तः निरुपमा निर्दोषेत्याह अत इति । पूर्वोक्तन्यायस्योपपादनं किमिति । द्वितीयेऽपि ‘साधकत्वं सतस्तेन साक्षिणा सिद्धिमिच्छता स्वीकृतं’ इत्युक्तदिशा चिन्मात्रेऽप्यर्थक्रियायास्तेनाङ्गीकर्तव्यत्वादिति दूषणं बहिरेवोह्यम्॥१७२,१७३॥

युक्तिमल्लिका

मोघत्वोक्तेरयुक्तेश्च जगत्यर्थक्रियाकृति ।

अनुक्तेश्चाखिलैर्मोघपदमेव नञःपदम् ॥ १७४ ॥

सुरोत्तमटीका

मोघं नेत्येव नञो योगः कर्तव्यो नान्यथेत्याह ॥ मोघत्वोक्तेरिति ॥ अर्थक्रियाकृति जगतीति सम्बन्धः । सस्य दाहोप-शमाद्यर्थक्रियाकारिणि पृथिव्यादिजगति मोघत्वोक्तेरयुक्तेः । आविपालगोपालम् अन्नपानोपजीविभिरखिलैर्जगति मोघत्वानुक्तेश्च मोघं नेत्येव पदयोगः कर्तव्यो नान्यथेति भावः । नञःपदं नञस्स्थानम् ॥ १७४ ॥

सत्यप्रमोदटीका

न सत्यम् इति योजना तु सर्वथा न शङ्काऽर्हेत्याह नञः पदमिति । नञा योजनाऽर्हमित्यर्थः ॥ आकांक्षासन्निधियोग्यतानाम् अभावन्नञः न सत्यपदेनान्वयः किं तु मोघपदेनैवेति भावः ॥ १७४ ॥

युक्तिमल्लिका

सुशोभिपदविन्यासव्यत्यासं श्रुतिसुन्दरी ।

कदध्वनि सहेतापि न सहेत सदध्वनि ॥ १७५ ॥

सुरोत्तमटीका

यथास्थिपदविन्यासेनैवार्थसम्भवे ततो व्यत्यासं कृत्वा व्यवहितपदान्तरेण तद्योगकरणं चायुक्तमिति साहित्यमुद्रयाऽऽह ॥ सुशोभीति ॥ सुन्दरीविषये पादविक्षेपः पदविन्यासः । कदध्वनि यथास्थितार्थे बाधक-सहितवाक्यरूपा ध्वनिः । सुन्दरीविषये कण्टकसहिताध्वनीत्यर्थः ॥ १७५ ॥

सत्यप्रमोदटीका

‘यद्द्वैतं न पश्यति न तु तद्द्वितीयमस्ति’ इत्यादौ यत्र क्वचिद्विप्रकृष्टेनान्वयस्तु योग्यताविरहादिति साहित्यमुद्रयाऽऽह सुशोभीति । कदध्वनि योग्यतारहिते ॥ १७५ ॥

युक्तिमल्लिका

न चेत्स्पार्हत्ववाक्कुप्येदप्येति च मतं तव ।

स्तुतिश्रुतिरियं कुप्येत्तृप्येद्भुक्त्या कथं भवान् ॥ १७६ ॥

प्रागुक्तश्रुतियुग्मार्थतिग्मभानू च कुप्यतः ।

अतो नञोऽपकर्षे स्यादपकर्षो महांस्तव ॥ १७७ ॥

एकस्यामुपपत्तौ च वाक्यं तात्पर्यवत्किल ।

बहूपपत्तियुक्तेषु महातात्पर्यमेषु तत् ॥ १७८ ॥

सुरोत्तमटीका

न चेन् न मोघमित्येव पदयोगो न चेत् । मोघमित्येव पदं चेदित्यर्थः । व्यर्थस्य स्पृहणीयत्वायोगात्स्पार्हपदं कुप्येत् । त्वत्सिद्धा-न्तेऽपि जगत्येवार्थक्रियाकारित्वात्तव मतं चाप्येति नश्यतीत्यर्थः । स्तुतिश्रुतिः स्तुतिरूपा श्रुतिः । भगवत्स्तुत्यर्थं प्रवृत्ता श्रुतिस् तत्कृतजगतो मोघत्वं कथं वर्णयेत् । भुक्तयान्नभोजनेन । जगतो व्यर्थत्वे भुक्तया तव तृप्तिश्च कथं स्यात् । प्रागुक्तश्रुती कविर्मनीषी विश्वं सत्यमिति श्रुती । नञोपकर्षं कृत्वा पदद्वयव्यवहितेन सत्यमित्यनेन योगे कृते निरवकाशसत्यत्वप्रतिपादकप्रागुक्त-श्रुतिद्वयविरोधश्च स्यात् । अतोऽष्टदूषणदूषितत्वान् नञोपकर्षे विदुषां सदसि तवापि महानपकर्षस्स्यादिति भावः । उपलक्षणं चैतत् । निवसनशीलार्थक-वसुपदसूचिताज् जगत्परमार्थसद् ब्रह्मचरमसाक्षात्कारोत्तरकालेऽपि विद्यमान-त्वाद् ब्रह्मवदित्यनुमानादपि विश्वसत्यत्वसिद्धिः । न च हेतोरसिद्धिः । अपरोक्षज्ञानिनामपि शुकनारदादीनां जगत्येव सञ्चारात् । जगद्गुरोर्महाज्ञानिनो ब्रह्मण एव जगत्सर्जनादिव्यापाराच्च । चिकेतेत्यादिपदत्रयसूचितात् सृष्टत्वाद् आनयनयोग्यत्वाद् दानयोग्यत्वाच्च व्यतिरेकेण शुक्तिरूप्यवज् जगतस्सत्व-सिद्धिः । रजतावयवादेव रजतदृष्टिदर्शनेनाविद्यया तत्सृष्टिरसृष्टिरेवेत्यादियुक्तया विश्वसत्यत्वसिद्धेश्च न नञोपकर्ष इत्यपि द्रष्टव्यम् ॥ एषु उक्तवाक्येषु । तत्तस्मात् ॥ १७६–१७८ ॥

सत्यप्रमोदटीका

एवमपि न सत्यमित्यन्वयदुराग्रहे बहुविप्लवापत्तिमाह न चेदिति । अप्येति हीयते । व्यावहारिकस्य अर्थक्रियायाः स्वमतत्वात् । सत्यधर्मपराक्रम इत्यस्य व्याख्यानं, परेणापि विष्णुसहस्रनामभाष्ये सत्या अवितथा धर्मा ज्ञानादयो गुणाः, पराक्रमश्च यस्य स इत्येवं कृतमिति तद्विरोधश्च । स्तुतिश्रुतिरिति तदभिमानिनी दुर्गा इत्यर्थः । कुप्येत् स्तुतिपरां श्रुतिं भगवन्महिमापलापेन निन्दापरतया योजयितारं तमसि क्षिपेदित्यर्थः । कथमिति । भोजनस्य तृप्तिरूपार्थक्रियाऽनङ्गीकारादिति भावः ॥ श्रुतियुग्मम् । ‘कविर्मनीषी’ ‘विश्वं सत्यं’ इति श्रुतिद्वयम् । तिग्मभानू सूर्यौ । कुप्यतः मिथ्यासिद्धान्तदुर्ध्वान्तं निकृन्ततः । अपकर्षः नीचत्वम् ॥ १७६–१७८ ॥

युक्तिमल्लिका

अतः श्रुतिमहातात्पर्यस्य गोचरभावतः ।

ब्रह्मवज्जगदेतच्च परमार्थसदेव हि ॥ १७९ ॥

सुरोत्तमटीका

अतस्सोपपत्तिकश्रुतिप्रतिपादितत्वात् । गोचरभावतः गोचरत्वात् । अनयैव श्रुत्या ब्रह्म जगदभिन्नं न जगत्स्रष्टत्वात् । यो यत्स्रष्टा न स तदभिन्नः यथा पाचकः पक्वान्नेन । ब्रह्मबल्यादिराक्षसाभिन्नं न । तज्जेतृत्वात् । यो यज्जेता न स तदभिन्नः । यथापन्नगारिः पन्नगेन । ब्रह्म-इन्द्राद्यभिन्नं न इन्द्रादीनामैश्वर्यप्रदातृत्वात् । यो यदैश्वर्यदाता न स तदभिन्नः । यथा राजा राजपुरुषेणेति हेतूनां श्रुतिमूलत्वेनासिध्द्यादिदोषरहितं चेतन-जडात्मकप्रपञ्चभेदसाधकमनुमानत्रयं च सूचितम् ॥ १७९ ॥

सत्यप्रमोदटीका

गोचरभावतः विषयत्वात् ॥ १७९ ॥

युक्तिमल्लिका

युक्तीः पश्य श्रुतीः पश्य मिथ्यादृष्टिं परित्यज ।

सत्यं वद जगत्सर्वं भुक्तिं मुक्तिं यदीच्छसि ॥ १८० ॥

सुरोत्तमटीका

श्रुत्यर्थकथनमुपसंहरति ॥ युक्तीरिति ॥ १८० ॥

सत्यप्रमोदटीका

युक्तीः स्रष्टृसृज्यभावः जेतृजेतव्यभावः, दातृदेयभाव इत्यादिभेदसत्यत्वसाधिकाः । सर्वं पञ्चभेदात्मकम् ॥ १८० ॥

युक्तिमल्लिका

सद्युक्तिहस्तिरथ्यश्वपत्त्युत्पत्त्योत्तरोत्तरा ।

इयं वाणी मृडानी क्व क्वाऽऽनीतानीकिनी तव ॥ १८१ ॥

सुरोत्तमटीका

साहित्यमुद्रया बहुयुक्तिभरितनिरवकाशास्मच्छच्छ्रुती-नामग्रे सावकाशयुक्तिबाधितपरश्रुतीनां न प्रत्यवस्थानमित्याह ॥ सद्युक्तीति ॥ सद्युक्त्याख्यहस्तिरथ्यश्वपत्तीनाम् उत्पत्त्या । श्रौतपदपर्यालोचनायां क्षणे उत्पत्त्या युक्तीनां विचित्राकारत्वाच् चतुरङ्गतया वर्णनम् । उत्तरोत्तरा अतिशयेनोत्कृष्टा । वाण्येव मृडानी दुर्गा । दुर्गापि क्षणे नवनवसेनामुत्पादयितुं समर्था । श्रुतिरपि तथेति भावः । आनीता बलादानीता । अनीकिनी प्रत्यक्षादिबाधितयुक्तिश्रुत्याख्यसेना ॥ १८१ ॥

सत्यप्रमोदटीका

‘सूत्रस्यन्दनवृन्दाढ््या दुर्वारश्रुतिवारणा । सूपपत्ति-महामत्तिर्विचित्रस्मृतिसप्तिका’ इति अभियुक्तोक्तिदिशाऽऽह सद्युक्तीति । मृडानी दुर्गा । आनीता बाधिता । दुर्गाया हठादाकर्षणपरा कंसव्यापृतिरिवेति ध्वनिः ॥ १८१ ॥