०३ स्वप्रमायासरूपेति इत्यादिश्रुतिविचारः

अतोऽवसानं तन्नित्ये न ब्रह्मणि जगत्यपि

स्वप्रमायासरूपेति इत्यादिश्रुतिविचारः

युक्तिमल्लिका

अतोऽवसानं तन्नित्ये न ब्रह्मणि जगत्यपि ।

एकं स्वरूपतो नित्यमन्यन्नित्यं प्रवाहतः ॥ ६७ ॥

सुरोत्तमटीका

तद्भारतादिवाक्यबलात् । एकं ब्रह्म । अन्यज्जगत् । जगत्यपि कालाकाशप्रकृत्यादिकं ब्रह्मवत्स्वरूपतो नित्यमित्यपि द्रष्टव्यम् ॥ ६७ ॥

सत्यप्रमोदटीका

एकमिति आकाशवर्णादिकं व्याप्तं वस्तुजातं स्वरूपत एव नित्यम् । ‘अविनाशि तु तद्विद्धि येन सर्वमिदं ततमि’ति गीतोक्तेः ॥ ६७ ॥

युक्तिमल्लिका

स्वप्रमायासरूपेति सृष्टिरन्यैर्विकल्पिता ॥ ६८ ॥

सुरोत्तमटीका

विश्वर्मिथ्यात्वब्रह्मपरिणामादिपक्षान्पूर्वपक्षीकृत्य श्रुत्यैव तत्सत्यत्वस्य स्वसिद्धान्ततया कथनाच्च विश्वं सत्यमित्याह ॥ स्वप्नमायेति ॥ यद्यपि विभूतिप्रसवं त्वन्ये मन्यन्ते सृष्टिचिन्तका इति श्रुतिः प्राचीना । तथापि ब्रह्मणो विविधतया घटपटाद्यात्मना भूतिं भवनं प्रसवं सृष्टिं मन्यन्त इति परिणामपक्षस्यैवोक्तत्वात्तस्य च विश्वसत्यत्ववादिनां साक्षाद्विरुद्धपूर्वपक्षत्वा-भावाद् अस्यैव ग्रहणम् ॥ ६८ ॥

सत्यप्रमोदटीका

श्रुत्यैवानूद्य स्वयं खण्डितत्वेन न मिथ्यात्वमित्याह स्वप्नेत्यादिना । विकल्पिता भ्रान्त्या कल्पिता ॥ ६८ ॥

युक्तिमल्लिका

मिथ्यासृष्टिकथा येयं साऽन्येषां कल्पना किल ।

इत्यन्यमतमाक्षिप्य श्रुतिस्स्वमतमाह च ॥ ६९ ॥

सुरोत्तमटीका

श्रुतेरभिप्रायमाह ॥ मिथ्यासृष्टीति ॥ स्वप्नमायास-रूप्येत्यस्य तात्पर्यकथनं मिथ्येति । विशेषेण कल्पिता विकल्पितेत्यस्याभि-प्रायः कल्पना किलेति । अन्यमतं मिथ्यासृष्टिमतम् । आक्षिप्य स्वकपोल-कल्पितत्वेनान्यमतत्वेन च निराकृत्य ॥ ६९ ॥

सत्यप्रमोदटीका

आक्षिप्य निराकृत्य ॥ ६९ ॥

युक्तिमल्लिका

इच्छामात्रं प्रभोस्सृष्टिरिति सृष्टौ विनिश्चिताः ।

स्वेच्छयैव प्रभुस्सर्वं सृजतीशो न मायया ॥ ७० ॥

विशिष्य निश्चितं सृष्टौ येषां तेषां त्विदं हृदि ।

इति स्तुत्योत्तरार्धोक्तमेव स्वमतमाह सा ॥ ७१ ॥

सुरोत्तमटीका

श्रुतेरभिप्रायमाह ॥ स्वेच्छयेति ॥ मात्रपदस्यार्थमाह ॥ एवेति ॥ तेनापि व्यवच्छेद्यमाह ॥ नमाययेति ॥ विनिश्चितपदस्यार्थकथनं विशिष्येति ॥ निश्चितं निश्चयः । भावे क्तप्रत्ययः स्तुत्या एवं वदन्तो विशिष्य निश्चयवन्त इति स्तुत्या । उपलक्षणं चैतत् । अन्य इत्याद्यनुक्तया चेत्यपि द्रष्टव्यम् ॥ ७०,७१ ॥

सत्यप्रमोदटीका

सिद्धान्तमाह इच्छेति । विनिश्चिता विमर्शपूर्वकं निश्चयवन्तः । मायया अनिर्वचनीयया ॥ ७० ॥

युक्तिमल्लिका

सृष्टौ निश्चयवन्तो ये पक्षमेनं वदन्ति ते ।

सन्दिग्धमनसस्त्वन्यान्पक्षानाचक्षते किल ॥ ७२ ॥

सुरोत्तमटीका

विनिश्चितपदस्याभिप्रायान्तरमप्याह ॥ सृष्टाविति ॥७२॥

युक्तिमल्लिका

यतः पक्षान्तरे सर्वत्रान्य इत्याह सा श्रुतिः ।

कालचिन्तकपक्षत्वमेकपक्षे जगाद च ॥ ७३ ॥

सुरोत्तमटीका

एकपक्षे कालात्प्रसूतिं भूतानां मन्यन्ते कालचिन्तका इति पक्षे ॥ ७३ ॥

सत्यप्रमोदटीका

सिद्धान्तार्थे तात्पर्यज्ञापकम् अर्थवादमाह स्तुत्येति । परपक्षे निन्दां दर्शयति सन्दिग्धेति । प्रमाणनिर्णीतार्थनिश्चयहीनेत्यर्थः । ‘व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन । बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसा-विनां’ इति गीतोक्तेः ॥ ७१–७३ ॥

युक्तिमल्लिका

अतोऽपि पक्षास्ते सर्वे स्वपक्षा नेति शंसति ।

अत्र कर्तुः प्रभुत्वोक्त्याऽप्यभिप्रैति स्वपक्षताम् ॥ ७४ ॥

सुरोत्तमटीका

प्रभुत्वोक्तया प्रभोरिति महासामर्थ्योक्तिरूपप्रशंसया । उपलक्षणं चैतत् । महासमर्थस्य ऐन्द्रजालिकसृष्ट्ययोगात् । हीनजगदाकारेण परिणामायोगाज् जडे काले प्राधान्यादानायोगाच्च मिथ्यासृष्ट्यादिपक्षाणां पूर्वपक्षतां च सचयतीत्यपि द्रष्टव्यम् ॥ ७४ ॥

सत्यप्रमोदटीका

सपक्षे उपपत्तिं चाह प्रभुत्वेति । सत्यसृष्टौ सामर्थ्ये-त्यर्थः । विमता सृष्टिः, न मायिका, समर्थकर्तृकत्वाद् व्यतिरेकेण ऐन्द्र-जालिकसृष्टिवद् इति प्रयोगः । ‘अशक्ताः सत्यसृष्टौ हि मायासृष्टिं वितन्वते’ इति विपक्षे बाधकमुन्नेयम् ॥ ७४ ॥

युक्तिमल्लिका

यतः फलविकल्पेऽपि सर्वान्पक्षानुपेक्ष्य सा ।

देवस्यैष स्वभावोऽयमाप्तकामस्य का स्पृहा ॥ ७५ ॥

इत्येकमेव स्वमतं निर्णिनाय ततोऽपि तत् ॥ ७६ ॥

का स्पृहेति यतः क्रीडाभोगपक्षौ सहेतुकम् ।

आचिक्षेप स्वभावेन कर्तुः पूर्णस्य च प्रभोः ॥ ७७ ॥

सुरोत्तमटीका

‘‘भोगार्थं सृष्टिरित्यन्ये क्रीडार्थमिति चापरे । देवस्यैष-स्वभावोयमाप्तकामस्य का स्पृहे’’ति फलपरीक्षाग्रन्थे का स्पृहेति पक्षद्वयं स्पष्टं दूषयित्वा एकस्यैव स्वपक्षत्वेनोक्तत्वाद् अत्रापि प्राचीनपक्षद्वयं पूर्वपक्ष एवेत्याह ॥ यत इति ॥ तत्पूर्वोक्तं प्रमेयम् । यथा आनन्दोद्रेकान्नर्तन-गानादिकं कुर्वतो न तदुद्देश्यं किंत्वानन्दोद्रेकादेव केवलं सा लीला । तथा भगवतोऽप्यानन्दोद्रेकादेव जगत्सृष्ट्यादिलीला । न पुनरुद्देश्यापि सा अपूर्णत्वा- पातात् । अतः क्रीडार्थं क्रीडोद्देशेन सृष्टिरित्यपि पूर्वपक्ष एव । अत एव हि सूत्रकारोऽपि लोकवत्तुलीलाकैवल्यमिति केवलं लीलेत्याह ॥ ७५–७७ ॥

सत्यप्रमोदटीका

फलविकल्प इति । प्रयोजनं क्रीडा वा भोगो वा इति विकल्प इत्यर्थः । उपेक्ष्य तिरस्कृत्य । अयं सृष्ट्यादिविषय एष इच्छा-पूर्विका प्रवृत्तिः । स्वभाव आनन्दोद्रेकरूपा लीलैव केवलम् । न तु तदर्था । तत्र हेतुर् आप्तकामस्येति । पूर्णकामस्येत्यर्थः । का स्पृहा । का स्वप्रयोज-नेच्छा ॥ ७५,७६ ॥

युक्तिमल्लिका

का फलस्य स्पृहा तेन पूर्वौ द्वौ पूर्वपक्षिणाम् ।

प्रभुत्वदूषकौ विष्णोर्न मत्पक्षावुभावपि ।

तृतीय एव पक्षो मे प्रभुतापोषकः प्रभोः ॥ ७८ ॥

सुरोत्तमटीका

विष्णोः प्रभुत्वदूषकौ पूर्वौ द्वौ पक्षौ पूर्वपक्षिणामिति सम्बन्धः ॥ ७८ ॥

सत्यप्रमोदटीका

प्रभोः का फलस्य स्पृहेत्युत्तरेणान्वयः ॥ ७७,७८ ॥

युक्तिमल्लिका

मामानयत्तमोजिद्यः पुत्रायोपदिदेश च ।

परार्थकर्ता कृत्यज्ञस्स्वार्थकृत्यसदोज्खितः ॥ ७९ ॥

कोऽन्वर्थस्तस्य तेनाभूत्पूर्णस्स्वफलवान्न तत् ।

अन्वभावि मयैवेदं तेनानुभवबाधितौ ॥ ८० ॥

तौ पूर्वौ नैव पक्षौ मे किन्तु गन्तुस्तमांसि तौ ।

इत्यर्थः प्रबलाक्षेपलभ्यो ह्यत्रोपलभ्यते ॥ ८१ ॥

सुरोत्तमटीका

भगवतस्स्वप्रयोजनाभावे श्रुतेरनुभवं विशेष्यनिर्देशव्याजेन वासुदेवसहस्रनामस्थनामानि च प्रमाणयति ॥ मामिति ॥ ब्रह्मणस्सदना-त्तमोनामकदैत्येन नीतां श्रुतिरूपां मां तस्य ब्रह्मादीनां बुद्ध्यगोचरकौशलाभि-ज्ञस्य सर्वज्ञस्य । तेन श्रुतीनामानयनेन । अर्थाभावमेव विशदयति ॥ पुत्रा-येति ॥ पुत्रभूतब्रह्मणः प्रयोजनार्थमेवानीतवान् । न स्वार्थम् । तथा सति परस्मै प्रदानायोगादिति भावः । तत्तस्मात् । पश्वादेर्वेदेन प्रयोजनाभावस्य लोकसिद्धत्वात् स्वस्यापि वेदानयनेन प्रयोजनाभावं स्फोरयितुं ह्यश्वरूपेण मत्स्यरूपेण चानीतवान् । अन्यथा नररूपेणैवानेष्यत् । एतदप्यभिप्रेत्योक्तं तस्येति । अश्वस्य मत्स्यस्य चेत्यर्थः । इदं स्वप्रयोजनराहित्यम् ॥७९–८१॥

सत्यप्रमोदटीका

हरिः स्वप्रयोजनशून्य इत्यत्र श्रुतिः स्वानुभवं प्रमाणयति मामिति ॥ दैत्यं निहत्य वेदानयनं मत्स्यरूपस्य हरेश् चतुर्मुखा-योपदेशार्थमेवेति भावः । तदुक्तं भागवते ‘प्रलयपयसि धातुः सुप्तशक्तेर्मुखेभ्यः श्रुतिगणमपनीतं प्रत्युपादत्त हत्वा । दितिजमि’ ति ॥ ७९–८१ ॥

युक्तिमल्लिका

अतः फलपरीक्षायामेकस्यैव स्वपक्षताम् ।

साऽभिप्रैति तथा पूर्वत्राप्येकस्य स्वपक्षताम् ॥ ८२ ॥

सुरोत्तमटीका

सा श्रुतिः ॥ ८२ ॥

सत्यप्रमोदटीका

एकस्यैव स्वभावत्वेन प्रयोजनराहित्यस्य । एकस्य इच्छामात्रत्वस्य ॥ ८२ ॥

युक्तिमल्लिका

देवस्य ह्याप्तकामस्य प्रागुक्ता प्रभुतोचिता ।

अतस्समाख्यया पक्षौ तावेवाभिमतौ जगौ ॥ ८३ ॥

स्वभावतोक्तितश्चान्ते मायासृष्टिं निषेधति ।

अत्रोक्तं निःस्पृहत्वं च तथेशस्याप्तकामता ॥ ८४ ॥

सृष्टेरिच्छामात्रतोक्त्या यत्तत्रापि निरूप्यते ।

अतोऽपि पक्षौ द्वावेतौ श्रुतेस्स्वमततां गतौ ॥ ८५ ॥

सुरोत्तमटीका

तृतीयपक्षयोरेवोभयत्रापि सिद्धान्तत्वेन सूचकान्तरं चाह ॥ देवस्येति ॥ समाख्यया महार्महमर्पतपादकत्वेन समानाख्यया यद् यस्मात् । तत्र ‘‘इच्छामात्रं प्रभोस्सृष्टिरि’’ति पक्षे ॥ ८३–८५ ॥

सत्यप्रमोदटीका

श्लोकद्वयस्य परस्परसंवादरूपतां स्फोरयति देवस्येति ॥ निषेधप्रकारमेव दर्शयति अत्रेति । न हि मायावी आप्तकामः संभवति इति भावः । तत्रापि ‘स्वप्नमाया सरूपे’ ति पूर्व श्लोकेऽपि ॥ पक्षौ स्वभावत्वं निःस्पृहत्वं चेति ॥ ८३–८५ ॥

युक्तिमल्लिका

नानाजीवादिभावेन क्रीडाभोगादिलब्धये ।

यतस्सृष्टिपरीक्षायामपि पक्षद्वयं प्रभोः ॥ ८६ ॥

सृष्टिमाह ततस्तच्च पक्षद्वयमियं श्रुतिः ।

फलस्याक्षेपिका न्यायसाम्यादाक्षिपदेव हि ॥ ८७ ॥

का स्पृहेति श्रुतिस्तस्मात्स्थानद्वितयगौ च तौ ।

द्वौ द्वौ पक्षौ फलापेक्षापक्षपर्यवसायिनौ ।

धिक्कृत्य तत्र चात्रापि तृतीयं पक्षमाददे ॥ ८८ ॥

सुरोत्तमटीका

किञ्च परिणामसृष्टिपक्षे मिथ्यासृष्टिपक्षे च ब्रह्मण एव सकलसांसारिकभोगक्रीडयोरुक्तेस्तयोरपि पक्षयोर्भोगार्थं सृष्टिरिति क्रीडार्थमिति च दूष्यपक्षद्वयपर्यवसायितया दूष्यत्वावश्यंभावेन पूर्वपक्षत्वस्याप्यपरिहार्यत्व-मेवेत्याह ॥ नानेति ॥ ८६–८८ ॥

सत्यप्रमोदटीका

लब्धये प्रयोजनाय । इयम् आप्तकामस्येति श्रुतिः ॥ द्वौ द्वौ स्वाप्नी, मायामयी, इति द्वौ तथा क्रीडार्था भोगार्था इति च द्वौ । तृतीयम् आनन्दोद्रेकादेवेति पक्षम् ॥ ८६–८८ ॥

युक्तिमल्लिका

चतुर्मुखस्य वाणीव वाणीयं शोभतेतराम् ।

एकाकारापि या पक्षचतुष्कं शुष्कमातनोत् ॥ ८९ ॥

सुरोत्तमटीका

इयं वाणी का स्पृहेति वाणी । यथा चतुर्मुखस्य वाणी एकदैव मुखचतुष्टयेनोत्थितपक्षचतुष्टयमपि प्रत्याक्षिपति । तथा इयमेकैव वाणी पक्षचतुष्टयमपि धिक्करोति । अतश्चतुर्मुखस्य वाणीवेत्युक्तम् । वस्तुतस्तु सा विविधा । इयमेकैव । अतो निरुपमेति भावेनोक्तं शोभतेतरामिति । अभूतो-पामा वा इयमिति भावेनाह ॥ एकाकारेति ॥ या ब्रह्मणो वाणी पक्ष-चतुष्टयनिराकरणायैकाकारं नानार्थकं ब्रह्मापि प्रयुङ्क्ते चेत्सा वाणी अस्या उपमा स्यादिति भावः ॥ ८९ ॥

सत्यप्रमोदटीका

शोभतेतरामित्युक्तस्य उपपादनम् एकाकारेति । चतुर्भ्यो मुखेभ्यो निःसृता वाणी अनेकाकारा । यथोक्तं ‘युगपद्रचयन्नेनां’ इति । इच्छामात्रमित्येकया उक्त्यैव पक्षचतुष्टयमपि निराचष्टेति अत्र तरप्प्रत्यय-बोध्योऽतिशयः ॥ ८९,९० ॥

युक्तिमल्लिका

इच्छामात्रमितीशस्य सृष्टीच्छैवास्ति केवलम् ।

न फलेच्छेत्याह तत्तान्पक्षानेषाऽप्यदूषयत् ॥ ९० ॥

सुरोत्तमटीका

का स्पृहेति श्रुतेरिच्छामात्रमिति श्रुतेश्चैकार्थतामुपपाद-यति ॥ इच्छेति ॥ तत् फलाक्षेपकत्वात् । तान् स्थानद्वयस्थचतुष्पक्षान् । एषा इच्छामात्रमिति श्रुतिः ॥ ९० ॥

युक्तिमल्लिका

अतस्स्थानद्वयगतावप्येकार्थपरायणौ ।

शब्दौ विधिप्राणसमौ सत्यं लोकमरक्षताम् ॥ ९१ ॥

सुरोत्तमटीका

शब्दौ उक्तवाक्यद्वयरूपशब्दौ । उक्तविधया उभयो-रेकार्थत्वप्रतिपादकत्वादेकार्थपरायणौ सिंहासनद्वयगतयोर्विधिप्राणयोरपि सत्य-लोकाख्यैकार्थपरिपालकत्वाद्विधिप्राणसमावित्युक्तम् । ‘‘स्वप्नमायासरूपे’’ति मिथ्यासृष्टिपक्षादिपक्षचतुष्टयस्य प्रतिषेधाल्लोकं सत्यं कृत्वाऽरक्षताम् । विधिप्राणपक्षे तु सत्याख्यं लोकमिति योजना ॥ ९१ ॥

सत्यप्रमोदटीका

शब्दौ इच्छामात्रम् इति स्वभावोऽयम् इति च शब्दौ । स्थानद्वयगतौ पूर्वोत्तरश्लोकगतौ । एकार्थः हरेः प्रभुत्वं, तत्र परायणौ तात्पर्यातिशयवन्तौ । सत्यं लोकं जगत्सत्यत्वम् । अरक्षतां समर्थयामासतुः । विधिप्राणपक्षे स्थानद्वयं प्रदेशद्वयम् । सत्यं तदाख्यं लोकम् ॥ ९१ ॥

युक्तिमल्लिका

किञ्चाविकाररूपस्य ब्रह्मणो जगदात्मना ।

विकारापादकं विश्वोपादानत्वमतं पुरा ।

अन्य इत्यन्यपक्षत्वं वदन्ती नान्वमंस्त सा ॥ ९२ ॥

विभूतिं प्रसवं त्वन्य इति यच्छयते श्रुतौ ।

विविधाकारभवनं विभूतिर्हि विदां मते ॥ ९३ ॥

सुरोत्तमटीका

अधुना समस्तश्रुतेरिभिप्रायं वर्णयन्श्रौतपदपर्यालोचनायां मिथ्यासृष्टिपक्षस्य विरुद्धनानापक्षावलम्बनेन संशयमूलमततयाऽतिविनिन्दितत्व-लाभात्साक्षात्सूत्रविरुद्धतया च विश्वसत्यत्वमेव श्रुतिसूत्रयोरभिप्रेतार्थ इत्याह ॥ किञ्चेत्यादिना ॥ सा श्रुतिः । यद् यस्मात् । यस्माच्च विविधाकारभवनं विभूतिः । तस्मान्नान्वमंस्तेति पूर्वेणान्वयः

॥ ९२,९३ ॥

सत्यप्रमोदटीका

अविकाररूपस्येति तदुक्तमनुव्याख्याने ‘इच्छामात्रं प्रभोः सृष्टिरविकारस्य सर्वदा । ‘स्वभावोऽयमनन्तस्य रजो येनाभवज्जगदि’ ति । ‘न चेतनविकारः स्याद्यत्र क्वापि ह्यचेतनमि’ति च ॥ यद् इति । तन् नान्वमंस्तेति पूर्वेणान्वयः । तत्र हेतुर् विविधेति । विकारपर्यवसानादिति भावः ॥ ९२–९३ ॥

युक्तिमल्लिका

सर्वमिथ्यात्ववादं च मध्ये साऽतिविगर्हितम् ।

सोपहासं दूषयितुं पुनराहेति मे मतिः ॥ ९४ ॥

सुरोत्तमटीका

मध्ये परिणाममतस्वमतयोर्मध्ये । अत एवं दृष्टान्त-विभ्रान्तस्वान्ता इत्यादि योजना । दृष्टान्तविभ्रान्तस्वान्ता इत्यनेनेदमभिप्रैति । स्वप्ने चक्षुरादीन्द्रियाणामभावेऽपि चाक्षुषत्वादिना दृश्यमानाः पदार्थास्संतु मिथ्या । जाग्रदवस्थायां तैस्तैरिन्द्रियैर्दृश्यमानास्ते ते पदार्थाः कुतो मिथ्येति वैषम्याद्भीतस्स्वप्नदृष्टान्तमुपेक्ष्य मायादृष्टान्तमूचिवान् । तेऽपि मायाविनाऽ-परमेश्वरेण दृश्यमानमिदं जगत्कथं मायाविनाऽदृश्यमानमायिकपदार्थवदिति शङ्काकलङ्कितधीस्तमपि जहौ । रज्जुभुजङ्गीशुक्तिरूप्यादिकमुक्तवान् । इहाप्यर्थक्रियानर्हेभ्यस्तदर्हे जगति पुनर्वैषम्यदर्शनाद्भीतः दृष्टान्तान्तरमचक्षाण-श्चेदमदो वेत्यद्यापि विभ्राम्यतीति ॥ ९४–९८ ॥

सत्यप्रमोदटीका

मध्ये विकारपक्षस्वभावपक्षयोर्मध्ये । पुनस् तात्पर्य-द्योतनाय ॥ ९४ ॥

युक्तिमल्लिका

अन्यैरित्यन्यमततां यदत्राप्याह सा स्फुटम् ।

विकल्पितत्ववाचा च सर्वे सन्दिहते परम् ॥ ९५ ॥

सत्यप्रमोदटीका

सन्दिहते स्वस्वपक्षेषु निश्चयवन्तोऽपि प्रमाण-निर्णीतार्थनिश्चयवन्तो न भवन्ति ॥ ९५ ॥

युक्तिमल्लिका

नैव निर्णयवन्तस्त इति तानाह सा श्रुतिः ।

विरुद्धकल्पनारूपो विकल्पः संशयो यतः ॥ ९६ ॥

सत्यप्रमोदटीका

श्रुतौ विकल्पिता इत्यस्य विपरीतनिश्चयवन्त इत्यर्थ इत्याह विरुद्धेति ॥ ९६ ॥

युक्तिमल्लिका

यतः स्वप्नवदित्येको वक्ति मायावदित्यपि ।

अन्यो रज्जुभुजङ्गीवदिति वक्ति तथापरः ॥ ९७ ॥

सत्यप्रमोदटीका

रज्जुभुजङ्गीवदिति । रज्जुरेव भुजङ्गात्मना विवर्तते इति ‘विभूति प्रसवं चेति’ वदन्तो विवर्तवादिनः ॥ ९७ ॥

युक्तिमल्लिका

एवं दृष्टान्तविभ्रान्तस्वान्तास्ते सर्वखण्डने ।

दृष्टान्तं क्वाप्यपश्यन्तस्सदा संशेरते किल ॥ ९८ ॥

सत्यप्रमोदटीका

दृष्टान्तेति दृष्टान्ताभासेत्यर्थः । स्वप्नदृष्टान्तः ‘वैधार्म्याच्च न स्वप्नादिवत्’ इति सूत्रेण दूषितः । तदुक्तं शाङ्करभाष्ये ‘किं पुनर्वैधर्म्यं बाधाबाधाविति ब्रूमः’ इति । मायादृष्टान्तस्तु ‘न च मायाविना माया दृश्यते विश्वमीश्वरः । सदा पश्यति तेनेदं न मायेत्यवधार्यतां’ इति आगमपराहतः । अधिष्ठाने कारणत्वाव्यवहारात्, निर्विशेषस्य ब्रह्मणोऽ-धिष्ठानत्वासम्भवाच्च विवर्तवादः निराकृतः । स्थितेऽप्येवं दृष्टान्ताभासान् दृष्ट्वा ‘तमसा मुष्टदृष्टयः’ इत्यर्थः । संशेरते इत्यस्य प्राग्वदर्थः ॥ ९८ ॥

युक्तिमल्लिका

अन्ये तु वादिनो विश्वसत्यत्वद्रोहिणो न हि ।

इति तांस्तानुपेक्ष्यान्ते श्रुतिस्स्वमतमाददे ॥ ९९ ॥

यतोऽन्यमतताशंसिपदं नात्र प्रदृश्यते ।

अतः स्वमतमेवैतदिति मन्यामहे वयम् ॥

विनिश्चितत्वस्तुत्या च तथाऽन्ते कथनादपि ॥ १०० ॥

सुरोत्तमटीका

अन्ये तार्किकसाङ्ख्यादयः । तांस्तान् तार्किकसाङ्ख्या-दीन् । स्वमतातिविरुद्धत्वान्मतद्वयमेव दूषयित्वाऽविरुद्धं मतमतिदूष्यमतपङ्क्ता-वुपेक्ष्येति यावत् ॥ ९९,१०० ॥

सत्यप्रमोदटीका

तार्किकाणां तु अनुमानाभासपरिकल्पितो ऽशरीर ईश्वरो न जगत्सर्जनस्येष्टे । एवं सांख्यपरिकल्पितं ज्ञानेच्छाविधुरम् अचेतनं प्रधानं न जगत्कर्तृ संभवति । इति उपलक्षणतया तावपि दूषयित्वेत्यर्थः । जगत्सत्यत्वमङ्गीकुर्वाणानामपि तेषां सृष्टिकथा अपहसनीयैवेति श्रुतेराशयः ॥ अनुवादकत्वलिङ्गाभावाद् अन्ते सिद्धत्वाच्च ‘इच्छामात्रं प्रभोः सृष्टिः’ इत्युक्त एव श्रुतेः सिद्धान्त इत्याह यत इति ॥ ९९,१०० ॥

युक्तिमल्लिका

कालचिन्तकपक्षं तु स्वानुकूलत्वतः श्रुतिः ।

पुनर्जगाद सिद्धान्तः स एवेति मतिर्मम ॥ १०१ ॥

सुरोत्तमटीका

प्रकृतिकारणताप्रतिपादकसाङ्ख्यमतस्येश्वरकारणता-प्रतिपादकतार्किकमतस्य कालकर्मादिकारणताप्रतिपादककालचिन्तकादिमतस्य चैतावन्मात्रेण स्वानुकूलत्वेऽपि तत्स्वातन्त्र्यस्य तार्किकोक्तपरमाणुप्रेरकत्व-मात्रस्य च स्वानभिमतत्वेनानुकूलमतान्येतानि पूर्वपङ्क्तौ स्वपङ्क्तौ च निर्दिश्य सर्वथा स्वानुकूलत्वशङ्कानिरासायान्ते निर्देष्टुकामा श्रुतिर्ग्रन्थगौरवभयादुप-लक्षणयैकं मतमन्ते निर्दिष्टत्वेन स्वमतत्वभ्रान्तिं निवारयितुं स्वास्वरसबीजं च सूचयन्ती नानादुर्मतप्रवर्तनाय स्पष्टमदूषयन्ती चाहेत्याह ॥ कालचिन्तकेति ॥ तुशब्दोऽवान्तरविशेषद्योतनार्थः । स चोक्त एव । स एव इच्छामात्रमिति वाक्योक्त एव ॥ १०१ ॥

सत्यप्रमोदटीका

साङ्ख्यमतनिराकरणेन तत्समानयोगक्षेमाः काल-चिन्तकादिपक्षा अपि निराकृता वेदितव्या इत्याह कालेति ॥ जगत्सत्यता-मात्रमभ्युपगच्छन्तोऽपि कालकर्मादिकस्याचेतनस्य स्वातन्त्र्याभ्युपगमान्निन्द्या एव ते सर्वे वादा इत्याशयेनाह पुनरिति उपलक्षणतया निन्द्यत्वज्ञापनायेति भावः ॥ तदुक्तं भगवत्पादैः ‘न च कर्मविमामलकालगुणप्रभृतीशमचित्तनु तद्धि यतः । चिदचित्तनु सर्वमसौ तु हरिर्यमयेदिति वैदिकमस्ति वचः’ इति ॥ स एव इच्छामात्रम् इत्युक्त एव ॥ १०१ ॥

युक्तिमल्लिका

यतः स्वप्नादिवैधर्म्यं जगतः सूत्रकृत्स्वयम् ।

स्पष्टमाह ततोऽप्येष पक्षो न श्रुतिसूत्रयोः ।

मतस्तत्पूर्वपक्षोऽसावासीन्नास्त्यत्र संशयः ॥ १०२ ॥

सुरोत्तमटीका

तत् तस्मात् श्रुतिसूत्रविरुद्धत्वात् ॥ १०२ ॥

सत्यप्रमोदटीका

वैधर्म्यं बाधाबाधरूपम् । उक्तं हि परभाष्ये ‘बाध्यते हि स्वप्नोपलब्धं वस्तु प्रतिबुद्धस्य । एवं मायादिष्वपि भवति यथायथं बाधः । नैवं जागरितोपलब्धं वस्तु स्तम्भादिकं कस्यांचिदवस्थायां बाध्यते’ । इति । (भे.प.ब्र.सू.भाग.२ प.१०) सिद्धान्ते स्वाप्नपदार्थानां सत्यत्वेन स्वाप्न-जाग्रत्त्ववदिति वैधर्म्यं मन्तव्यम् ॥ १०२ ॥

युक्तिमल्लिका

तस्मात्स्वप्नादिसारूप्यान्मायासृष्टिं वदन्नयम् ।

मायावादी श्रुतेर्हार्दवेदी नैवाभवत्कुधीः ॥ १०३ ॥

अतः सर्वस्य सत्यत्वसिद्धान्तोऽभूच्छ्रुतेर्बलात् ।

मिथ्यात्वं पूर्वपक्षत्वादुपेक्ष्यमिति च स्थितम् ॥ १०४ ॥

सुरोत्तमटीका

तस्माच्छ्रुतिसूत्रविरुद्धमतावलम्बित्वात् । श्रुतेरत्युप-लक्षणम् । सूत्रस्येत्यपि द्रष्टव्यम् ॥ १०३,१०४ ॥

सत्यप्रमोदटीका

मायासृष्टिम् अज्ञानोपादानकत्वेन मिथ्याभूतसृष्टिम् । वदन् ‘स्वप्नमाये यथा दृष्टे गन्धर्वनगरं यथा । तथा विश्वमिदं दृष्टं वेदान्तेषु विचक्षणैः’ इति ग्रन्थेन । हार्दम् अनित्यत्वविकारित्वपारतन्त्र्यरूपेणैव साम्यम् । न तु बोधनिवर्त्यता’ इत्येवंरूपम्

॥ १०३,१०४ ॥

युक्तिमल्लिका

इच्छामात्रे तु सा सृष्टिर्यस्मादव्यवधानतः ।

स्यादेव तत्क्षणे तस्मात्तां तत्त्वेन श्रुतिर्जगौ ॥ १०५ ॥

यथा सत्या हरेरिच्छा तथा सृष्टिश्च सा सती ।

इति प्रबोधनायापि तां तत्त्वेन जगौ श्रुतिः ॥ १०६ ॥

सुरोत्तमटीका

तां सृष्टिम् । तत्त्वेन इच्छामात्रत्वेन । यथालीलामात्रेण शत्रून्संहरतो लीलैव शत्रुहरणमिति व्यपदेशस् तथेत्यर्थः॥ १०५,१०६ ॥

सत्यप्रमोदटीका

इच्छामात्रं सृष्टिरिति सामानाधिकरण्येन स्वातन्त्र्यैक्य-मेव विवक्षितम् । तेन अस्वतन्त्रकारणान्तरसद्भावोऽनुमत इत्याह इच्छेति । स्यादेवेति स्वातन्त्र्यमभिहितम् । ‘स्वेच्छानुसारितामेव स्वातन्त्र्यं हि विदो विदुरि’त्युक्तेः ॥ अभेदव्यपदेशे सादृश्यैक्यमपि निमित्तम् । सादृश्यं च सत्त्वेनैवेत्याह यथेति ॥ १०५,१०६ ॥

युक्तिमल्लिका

प्रभोस्सकाशाद्या सृष्टिस्तस्यां सृष्टावियं स्थितिः ।

प्रभोस्सकाशाद्यासृष्टिर्मत्स्यकूर्मादिरूपिणी ॥ १०७ ॥

सा त्विच्छामात्रमेवेति भावाद्वा प्राह तां तथा ।

द्वयोरप्यनुकूलाय मन्ये सामान्यकीर्तनम् ॥ १०८ ॥

सुरोत्तमटीका

या सृष्टिर् जगत्सृष्टिः । मुख्यैक्यस्य सर्वमते बाधितत्वात् । प्रयोजनान्तरायाप्येवं प्रयोग इत्याह ॥ प्रभोरिति ॥ तां सृष्टिम् ॥ १०७,१०८ ॥

सत्यप्रमोदटीका

इयं पारमार्थिकीति, स्वभाव इति प्रयोजननिरपेक्षतया इति च पूर्वोक्ता । स्वरूपैक्यं सामानाधिकरण्यार्थ इति स्वीकृत्य तदनुगुणं श्रुतेरर्थान्तरमाह मत्स्यकूर्मादिरूपिणीति । द्वयोर् ईशसृष्टेः प्रपञ्चसृष्टेश्च । अनुकूलाय संग्रहाय । सामान्येति उभयसाधारणसृष्टिशब्देनेत्यर्थः ॥ १०८ ॥

युक्तिमल्लिका

इच्छाऽधीनं यतस्सर्वमुपादानादिकारणम् ।

अतस्तस्याः प्रधानत्वात्सैव सृष्टिरितीरितम् ॥ १०९ ॥

सुरोत्तमटीका

प्रयोजनान्तरं चाह ॥ इच्छाधीनमिति ॥ १०९ ॥

सत्यप्रमोदटीका

मात्रशब्देनेतरकारणनिषेधः स्वातन्त्र्यरूपधर्मान्तरेणैव न स्वरूपेणेत्याह इच्छेति ॥ १०९ ॥

युक्तिमल्लिका

स्वज्ञानतो जगत्सृष्टिं तस्याः स्वानिष्टरूपताम् ।

न्यवारयत् प्रभुपदमिच्छामात्रपदं च तत् ॥ ११० ॥

स्वाज्ञानञ्च प्रभुत्वञ्च यतो नैकत्र युज्यते ।

यतो नेच्छति सर्वोऽपि स्वानिष्टं किमुत प्रभुः ।

तस्मात्प्रकृतितः सृष्टिर्जीवानां सुखदुःखदा ॥ १११ ॥

यतश्च का स्पृहेत्यन्ते स्वफलञ्च निषेधति ।

ततः स्वविफलाप्त्यै तां सृष्टिं कः कोविदो वदेत् ॥ ११२ ॥

आप्तकामत्वमपि च कथं सङ्गच्छते तदा ।

अतः श्रुतिपदार्थज्ञो न तद्व्याख्यातुमर्हति ॥ ११३ ॥

सत्यपीतांबरालाभे मायापीतांबरं सृजेत् ।

लब्धे तु सत्यवसने मायासृष्टौ यतेत कः ॥ ११४ ॥

मायासृष्टिं निराचष्टे प्रभुत्वोक्तिरतः प्रभोः ।

स्वप्नमायासरूपेति ततोऽपि स्वमतं न तत् ॥ ११५ ॥

सुरोत्तमटीका

श्रौतपदावल्या सिद्धप्रमेयान्तराणि च विस्तरेणाह ॥ स्वाज्ञानत इत्यादिना ॥ तस्मास्सृष्टेर् इच्छामात्रेण सृष्टिर्न त्वज्ञानादित्यर्थ-स्येच्छामात्रेण सृष्टत्वादायासाभावस्य च सिद्धेः प्रभोश्चाज्ञानायासासम्भवादिति भावः । तस्मादज्ञानाद्यसम्भवात् ॥ ११०–११५ ॥

सत्यप्रमोदटीका

स्वरूपतो व्यावर्त्या तु पराभिमतमायामयी सृष्टि-रेवेत्याह स्वज्ञानेति । स्वस्यैवाज्ञानापादकत्वे स्वानिष्टरूपता स्यादेवेति भावः । अज्ञानस्य सर्वानिष्टमूलत्वं ‘अविद्याक्षेत्रत्वमुत्तरेषां’ इति प्रमितम् । ‘मग्नस्य हि परेऽज्ञाने किं न दुःखतरं भवेत्’ इत्युक्तेः ॥

नैकत्र युज्यते सर्वधर्मोपपत्त्यधिकरणोक्तरीत्या । नेच्छतीति जिहासा, प्रभुरिति तत्प्रहाणसामर्थ्यं चोच्यते । तस्मादिति । ‘स्रक्ष्ये हि चेतनगणा-न्सुखदुःखमध्यसंप्राप्तये’ इति भगवत्पादवचनात् ॥ प्रभोः सत्यसर्जनसमर्थस्य । ‘धाम्ना स्वेन सदा निरस्तकुहकमि’त्युक्तेः ॥ ११०–११५ ॥

युक्तिमल्लिका

यतश्च सूत्रे वैधर्म्याच्च न स्वप्नादिवत्त्विति ।

स्वप्नवैधर्म्यमुदितं तस्मादपि न तन्मतम् ॥ ११६ ॥

यतश्च पदशक्त्या तन्मतं श्रुतिरगर्हयत् ।

ततोऽप्यन्यमतं मन्ये नान्यत्वोक्त्यैव केवलम् ॥ ११७ ॥

सुरोत्तमटीका

प्रागर्थतो गृहीतं सूत्रं स्पष्टं च दर्शयति ॥ यतश्चेति ॥ स्वप्नवैधर्म्यं स्वप्नादिवैधम्यम् । आदिपदेन मायाशुक्तिरूप्यादिकं गृह्यते ॥ ११६,११७ ॥

सत्यप्रमोदटीका

स्वप्नवैधर्म्यं बाधितस्वप्नादिवैधर्म्यम् अबाधितत्वरूपम् ॥ पदशक्त्या विरुद्धकल्पनाबोधकविकल्पपदशक्त्या ॥ ११६,११७ ॥

युक्तिमल्लिका

यतः स्वभावतैवोक्ता कर्तृत्वादेः परात्मनि ।

स्वभावस्यानपायादियुक्त्या तन्नित्यतोदिता ।

अज्ञानोपाधिकत्वञ्च तद्धर्माणां निवारितम् ॥ ११८ ॥

सुरोत्तमटीका

तन्नित्यता कर्तृत्वादिनित्यता । तद्धर्माणां भगवद्धर्माणाम् । स्वभावस्यौपाधिकत्वायोगादिति भावः ॥ ११८ ॥

सत्यप्रमोदटीका

स्वभावहानौ स्वरूपहानिप्रसङ्गरूपयुक्त्या । आदि-पदेन अनौपाधिकत्वसङ्ग्रहः ॥ ११८ ॥

युक्तिमल्लिका

तेन लक्षणताटस्थ्यं नानुमेने परात्मनि ।

देवसम्बन्धितोक्त्या च नान्वमंस्त तदन्यगम् ॥ ११९ ॥

सुरोत्तमटीका

देवसम्बन्धितोक्तया ‘‘देवस्यैष’’ इति भगवत्सम्बन्धि-तोक्तया । तज् जगत्सृष्टिकर्तृत्वम् ॥ ११९ ॥

सत्यप्रमोदटीका

तेनेति । स्वरूपानन्तर्गतस्य, व्यावृत्तिधीकाले अविद्यमानस्यैव तटस्थत्वात् ॥ तदन्यगं मायागतम् ॥ ११९ ॥

युक्तिमल्लिका

यच्च सृष्ट्यादिकरणक्रियैवोक्ता स्वभावतः ।

तत्क्रियानित्यता चोक्ता शक्तिव्यक्त्यात्मता हरौ ॥ १२० ॥

यतः क्रियानित्यतोक्त्या कार्यस्यापि प्रवाहतः ।

नित्यत्वमुदितं सर्वलयं तेन न्यवारयत् ॥ १२१ ॥

भाविबाधकशङ्कां च तत एव निराकरोत् ।

पारमार्थिकसत्यत्वं जगतस्तेन सा जगौ ॥ १२२ ॥

सुरोत्तमटीका

यद् यस्मात् । तत् तस्मात् क्रियायाश्च स्वभावत्वेनोक्त-त्वात् । शक्तिव्यक्त्यात्मता च उक्ता अर्थादुक्तप्राया जगत्सृष्ठ्यादिक्रियाया-स्सर्वदा व्यक्त्यभावेन शक्त्यात्मना सत्त्व एव तन्नित्यत्वस्य निर्वाह्यत्वादिति भावः ॥ १२०–१२२ ॥

सत्यप्रमोदटीका

सृष्ट्यादेः करणरूपा क्रिया सर्जनक्रियेति यावत् । शक्तिव्यक्त्यात्मतेति । ‘सविशेषोऽपि क्रियाशक्त्यात्मना स्थिरः’ इत्यनु-व्याख्यानोक्तेः ॥ न्यवारयत् ‘न चाशेषनृनाशस्तु दृष्टो दृश्योऽस्ति वा क्वचित्’ इत्यनुव्याख्यानोक्तेः ॥ १२०–१२२ ॥

युक्तिमल्लिका

तस्मात्सृष्टेः स्वभावत्वकीर्तनात्सृज्यवस्तुतः ।

स्वभावतैव प्राप्तेति तदभावो न कर्हिचित् ॥ १२३ ॥

सुरोत्तमटीका

तदभावः जगतस्सर्वथाऽभावः ॥ १२३ ॥

सत्यप्रमोदटीका

तदभावः जगतः स्वरूपेण त्रैकालिकनिषेधः ॥१२३॥

युक्तिमल्लिका

स्वेच्छयैव च सृष्ट्युक्तेः कर्तृतां घटकर्तृवत् ।

आहोपादानतां तेन प्रत्याह परमात्मनः ॥ १२४ ॥

सुरोत्तमटीका

तेन इच्छापूर्वकसर्जनेन ॥ १२४ ॥

सत्यप्रमोदटीका

प्रत्याह ‘करोति पितृवद्विश्वं पूर्णाशेषगुणात्मकः’ इत्युक्तरीत्या ॥ १२४–१२६ ॥

युक्तिमल्लिका

तदपि प्रभुतामाह यतश्च परमात्मनः ।

सर्वतोऽत्यन्तभेदं च सर्वेशत्वं च वक्ति तत् ॥ १२५ ॥

सुरोत्तमटीका

तत्तस्मात् ॥ १२५ ॥

युक्तिमल्लिका

स्वप्नमायासरूपेति सृष्टिं वाचा वदन्ति ते ।

अर्थतस्तद्विरोधात्तैः कल्पिता जगतो जनिः ॥ १२६ ॥

सुरोत्तमटीका

प्रकारान्तरेणापि श्रौतपदमर्यादयैव परस्याकौशलं प्रदर्श-यति ॥ स्वप्नमायेति ॥ स्वप्नमायासरूपा स्वप्नमाययोस्समानरूपा । विकल्पितेत्यस्यार्थमाह ॥ अर्थत इति ॥ १२६ ॥

युक्तिमल्लिका

स्वप्नेऽपि द्रष्टृदेहोऽस्ति शय्याभूवसनादिकम् ।

अन्ये च जाग्रतः सन्ति स्वाप्नं तन्नास्ति किञ्चन ॥ १२७ ॥

सुरोत्तमटीका

विरुद्धकल्पनामेव विविच्य दर्शयति ॥ स्वप्नेऽपीति ॥ द्रष्टुर्जीवस्य देहः । सुप्तौ सर्वलयाङ्गीकारेऽपि स्वप्ने तदनङ्गीकारात् । जाग्रतः जाग्रदवस्थापन्नाः पुरुषाः । स्वाप्नं स्वप्ने दृश्यमानं करितुरगादिकम् । किञ्च न स्थूलरूपम् । तत्रापि सृष्टिकथनात् सूक्ष्मरूपेण करितुरगादिकमस्तीति भावः ॥ १२७ ॥

सत्यप्रमोदटीका

चशब्देन स्वप्नदृष्टा वासनामयाः करितुरगादयश्च ग्राह्याः । किञ्चन स्वाप्नजाग्रत्त्वं बाह्यपदार्थोपादानकत्वं च ॥ १२७ ॥

युक्तिमल्लिका

मायायां च स्वदेहोऽस्ति चक्षुरादीन्द्रियाणि च ।

भूर्द्रष्टारश्च ते सर्वे मायिकं नास्ति किञ्चन ।

तत्सरूपा स्वसृष्टिश्चेत्सर्वं मिथ्या कथं भवेत् ॥ १२८ ॥

सुरोत्तमटीका

किञ्चनेत्यनेन मायिकेऽपि मायानिदानभूतम् औषधादिकं वा तृणादिकं वा किञ्चिदस्तीति सूचयति ॥ तत्सरूपा स्वप्नमायासरूपा । स्वसृष्टिः स्वाभिमतजगत्सृष्टिः । सर्वं चैतन्यव्यतिरिक्तं भूभूधरादिकम् ईश्वर-देहगेहवसनालङ्कारादिकं च ॥ १२८ ॥

सत्यप्रमोदटीका

‘अधिष्ठानं च सदृशं सत्यवस्तुद्वयं विना । न भ्रान्ति-र्भवति क्वापि स्वप्नमायादिकेष्वापि’ इत्युक्तिमनुरुध्याह मायायामिति । सरूपत्वमुपेत्याप्याह सर्वेति ॥ १२८ ॥

युक्तिमल्लिका

किञ्च मायासरूपत्वं कथमस्ति विचार्यताम् ।

मायया कल्पितं वस्तु मायाकालेऽपि नास्ति हि ॥ १२९ ॥

सुरोत्तमटीका

प्रकारान्तरेण मायावैसादृश्यमाह ॥ किञ्चेति ॥ १२९ ॥

सत्यप्रमोदटीका

वस्तुतः प्रपञ्चस्यार्थक्रियाकारितायाः साक्षिसिद्धत्वेन अतथाभूतमायासरूपता नास्त्येवेत्याह किञ्चेति ॥ १२९ ॥

युक्तिमल्लिका

भ्रान्त्या प्रतीयतेऽस्तित्वं तत्कार्यस्यापि विभ्रमः ।

जलञ्च मिथ्या परितस्स्यन्दनं पानमेव च ॥ १३० ॥

मिथ्यैव दृश्यते पानजनितं तु सुखं तदा ।

साक्षिणा वीक्ष्यते नैव बाधात्पूर्वं च किञ्चन ॥ १३१ ॥

जगतस्तत्सरूपत्वे ब्रह्मज्ञानात्पुरा जलम् ।

जलकार्यं च पानान्तं मृषाऽस्तु जलपानतः ।

तन्निवृत्तिस्सुखं चात्र साक्षिणा वीक्ष्यते कथम् ॥ १३२ ॥

सुरोत्तमटीका

नैवेत्यनेन मिथ्याभूतमपि तन्नानुभूयत इति सूचयति । अत्र जगति ॥ १३०–१३२ ॥

सत्यप्रमोदटीका

मायाकालेऽपि नास्ति । वियदादेस्तु भ्रान्तिकाले व्यावहारिकसत्यत्वमभ्युपगतम् । बाधात्पूर्वमपि तत्र जले स्यन्दनं पानं च न । पानेन दुःखाभावस्य सुखस्य च अनुभवस्तु दूरे ॥ प्रपञ्चस्तु ब्रह्मज्ञानात्पूर्वं साक्षिपर्यन्तपरीक्षया अर्थक्रियावत्त्वेन निश्चित इत्येवं बहुधा वैषम्यमाह बाधात् पूर्वं चेति ॥ १३०–१३२ ॥

युक्तिमल्लिका

बाधदूरत्वसामीप्यान्न विशेषोऽस्ति कश्चन ।

बाधात्प्राग्भ्रान्तिकाले स्यान्मिथ्यात्वे समतोभयोः ॥ १३३ ॥

सुरोत्तमटीका

समता पानजन्यसुखानुभवाभावसाम्यम् । एकत्र सुखानुभवः । अपरत्र सुखानुभवाभाव इति वैषम्यं न स्यात् । अस्ति च वैषम्यम् । अतश्चमायासरूपत्वं जगतो न युक्तमिति भावः ॥ १३३ ॥

सत्यप्रमोदटीका

बाधविलम्बमात्रं नार्थक्रियां प्रयोजयतीत्याह बाधेति । तदुक्तमनुव्याख्याने ‘‘दीर्घभ्रान्तिकरी चेत् स्यादतत्वावेदकप्रमा । रज्जु-सर्पादिविज्ञानादप्याधिक्यादमानता’’ इति ॥ १३३ ॥

युक्तिमल्लिका

सत्यज्ञानोद्भवं सौख्यं मायायामपि दृश्यते ।

मिथ्यार्थजनितं सौख्यं नैव तत्रास्ति किञ्चन ॥ १३४ ॥

सुरोत्तमटीका

सत्यज्ञानोद्भवं सत्यं यज्ज्ञानं मिथ्याभूतपशुपक्ष्यादि-विषयभ्रमरूपदर्शनम् । अर्थस्य मिथ्यात्वेऽपि दर्शनमात्रस्य तत्रापि सत्त्वात् । मिथ्यार्थजनितं मिथ्याभूतकदलीपक्वजलादिना जनितं सौख्यं क्षुन्निवृत्ति-तृण्णिवृत्त्यादि सौख्यम् । तत्र मायास्थले । तत्रेति वदता जगति तु भ्रमकाल एव तदस्तीति सूचितम् ॥ १३४ ॥

सत्यप्रमोदटीका

‘सर्पभ्रमादावपि हि ज्ञानमस्त्येव तादृशम् । तदेवार्थ-क्रियाकारि तत्सदेवार्थकारकमि’ त्यनुव्याख्यानोक्तं प्रकृते सङ्गमयति सत्येति ॥ १३४–१३६ ॥

युक्तिमल्लिका

अतो मायाविरूपत्वाज्जगत्सत्यमभूद्बलात् ॥ १३५ ॥

सुरोत्तमटीका

अतः विषयजन्यसुखसद्भावेन मायावैरूप्यात् ॥१३५॥

युक्तिमल्लिका

सत्यस्य सुखहेतुत्वं मिथ्याभूतस्य नेति च ।

अन्वयव्यतिरेकाभ्यां यतस्सिद्धमतोऽपि च ॥ १३६ ॥

इत्थं सत्यस्य जगतस्सृष्टेर्मिथ्यात्वमाग्रहात् ।

विरुद्धं कल्पितं यस्मात्तस्मात्सृष्टिर्विकल्पिता ॥ १३७ ॥

अतः स्वोक्तविरुद्धोक्त्या न मत्पक्षो भवेदयम् ।

अन्येषामेव पक्षोऽसौ नाहं व्याहतभाषिणी ॥ १३८ ॥

तस्मान्निदर्शनाभावात्सर्वमिथ्यात्ववादिनः ।

दुरदृष्टानुसारास्ते नैव दृष्टानुसारिणः ।

पदानां शोधने त्वेवं श्रुतेर्भावोऽवसीयते ॥ १३९ ॥

सुरोत्तमटीका

सत्यस्य कौतुकदर्शनस्य । मिथ्याभूतस्य मायिक-जलादेः । सिद्धं मायिकसृष्टावेव दृष्टम् । कौतुकदर्शनजन्यसुखं ज्ञानैककार्य-त्वाज्ज्ञानस्य च सत्यत्वात्तत्राप्यस्ति । जलाद्यर्थकार्यसुखं तु अर्थस्य मिथ्यात्वान्नियमेन भ्रममात्रे नास्ति । तस्मादन्वयव्यतिरेकाभ्यां सुखहेतुत्वं सत्यस्यैवेति भावः । अतस्सत्यस्यैव सुखहेतुत्वात् ॥ १३६–१३९ ॥

सत्यप्रमोदटीका

इत्थं सरूपत्वहेतोरसिद्धत्वात्, उक्तरीत्या सत्यजग-द्द्वयाङ्गीकारापत्त्या विरुद्धत्वाच्च ॥ निदर्शनाभावात् सर्वत्र भ्रान्तौ, अधिष्ठानस्य, प्रधानस्य, द्रष्टुः,तद्देहेन्द्रियादिकस्य, दोषस्य, बाधस्य, इत्येतदादीनां सत्यत्वा-वश्यम्भावादित्याशयः

॥१३७–१३९ ॥

युक्तिमल्लिका

अतस्सर्वं जगदिदं सत्यसङ्कल्पतः प्रभोः ।

जायमानं सदा सत्यमित्याहोत्तरवागियम् ॥ १४० ॥

सुरोत्तमटीका

उत्तरवाक् इच्छामात्रमिति वाक् । अतः मायासृष्टिमतस्य व्याहतत्वात् । प्रभोस्सत्सङ्कल्पतः जायमानमिदं सर्वं सदा सत्यमित्याहेति योजना ॥ १४० ॥

सत्यप्रमोदटीका

सत्येति समर्थप्रवृत्तिप्रयोजकेत्यर्थः ॥ १४० ॥

युक्तिमल्लिका

स्वप्नमायासरूपत्वे त्वीषन्मिथ्या जगद्भवेत् ।

सर्वमिथ्यात्ववादोऽयं न श्रौतो नापि यौक्तिकः ।

इत्याह पूर्ववाक्ये सा शब्दशब्दार्थवेदिनाम् ॥ १४१ ॥

सुरोत्तमटीका

पूर्ववाक्ये स्वप्नमायासरूपेति वाक्ये ॥ १४१ ॥

सत्यप्रमोदटीका

यौक्तिक इति ‘एकदेशापवादेन कल्प्यमाने तु बाधके । न सर्वबाधनं युक्तमिति न्यायविदः स्थिताः’ इति युक्तिसंमतः

॥ १४१ ॥

युक्तिमल्लिका

वागीशयोग्या वागेषा यदनेकैर्मुखैस्स्वकैः ।

प्रतिवक्ति परान्सर्वान् वक्ति विष्णोर्गुणानपि ॥ १४२ ॥

एवञ्च सर्वमिथ्यात्ववादस्ते नैव शोभते ।

विश्वसत्यत्ववादो नः श्रुत्युक्तः शोभतेतराम् ॥ १४३ ॥

सुरोत्तमटीका

वागीशयोग्या चतुर्मुखयोग्या । नानाभावभरितश्रुति-वचनानामर्थं चतुर्मुख एव वदेन् नापर इति भावः ॥ १४२,१४३ ॥

सत्यप्रमोदटीका

वागीशः भाविचतुर्मुखः श्रीमध्वः ॥ १४२–१४३ ॥

युक्तिमल्लिका

स्वप्नमायादिदृष्टान्तैर्जगन्मिथ्यात्वसाधनम् ।

उक्तश्रुत्या बाधितत्वान्नैव शक्यं परस्य तत् ॥ १४४ ॥

सुरोत्तमटीका

जगन्मिथ्यात्वसाधनमनुमानेन मिथ्यात्वसाधनमित्यर्थः । तत् तस्मात् श्रुतौ मिथ्यात्वस्य निन्दितत्वात् ॥ १४४ ॥

सत्यप्रमोदटीका

बाधितत्वान् निन्दामुखेनेति भावः ॥ १४४ ॥

युक्तिमल्लिका

शश्वद्यथार्थतो ह्यर्थान् व्यदधात्परिभूः कविः ।

इत्यर्थानां यथार्थत्वं श्रुतिरन्या जगाद ह ॥ १४५ ॥

सुरोत्तमटीका

अन्या । कविर्मनीषीपरिभूस्स्वयंभूर्याथातथ्यतोऽर्थान् व्यदधाच्छाश्वतीभ्यस्समाभ्य इति निरवकाशा अपरा ॥ १४५ ॥

सत्यप्रमोदटीका

‘कविर्मनीषी परिभूः स्वयंभूर्याथातथ्यतोऽर्थान् व्यदधाच्छाश्वतीभ्यः समाभ्यः’ इति श्रुतिम् अर्थतोऽनुवदति शश्वदिति । ‘‘अनाद्यनन्तं जगदेतदीदृक् प्रवर्तते नात्र विचार्यमस्ति । तच्चान्यथा क्वापि न कस्य चेदम् अभूत्पुरा नापि तथा भविष्यत्’’ इति तत्त्वनिर्णयोदाहृतश्रुत्यनु-सारेणार्थमाह यथार्थत्वम् इति । याथातथ्यतः याथार्थ्येनैव सत्यानेव इति तट्टीकायां व्याख्यातम् । ‘न क्वाप्यनीदृशं विश्वं तत्तत्कालानुसारतः’ इत्युक्त-रीत्या शाश्वतत्वं ज्ञेयम् ॥ १४५,१४६ ॥

युक्तिमल्लिका

अतो यथार्थसृष्ट्युक्तेर्भ्रमजत्वकथा गता ।

शाश्वतत्वोक्तितश्चास्य बाधोऽभूद्बाधितस्तव ॥ १४६ ॥

सुरोत्तमटीका

अस्य विश्वस्य ॥ १४६ ॥