यथैषा पुरुषेच्छाया एतस्मिन्नेतदाततम्
बिम्बप्रतिबिम्बभावोक्त्याभेदसमर्थनम्
युक्तिमल्लिका
यथैषा पुरुषेच्छाया एतस्मिन्नेतदाततम् ।
इति श्रुत्या यतो बिम्बप्रतिबिम्बत्वमुच्यते ॥ १५२१ ॥
सुरोत्तमटीका
बिम्बप्रतिबिम्बभावेन च जीवपरमयोर्भेदसाधिकं श्रुति-मेवोपादत्ते ॥ यथैषेति ॥ १५२१ ॥
सत्यप्रमोदटीका
बिम्बप्रतिबिम्बभावस्वरूपं निर्धारयन् तच्छ्रुत्या भेदसिद्धिप्रकारं दर्शयति यथेति ।
‘छाया यथा पुंसदृशी पुमधीना च दृश्यते ।
एवमेवात्मकाः सर्वे ब्रह्माद्याः परमात्मनः’
इति वाक्यशेषः ॥ १५२१ ॥
युक्तिमल्लिका
श्रुत्या सर्वोपसंहारी दृष्टान्तोयमुदीरितः ।
उपमा शास्त्रतत्त्वज्ञा मुख्यां तामुपमां विदुः ॥ १५२२ ॥
सुरोत्तमटीका
सर्वोपसंहारी सर्वप्रकारैस्साम्यं दाष्टान्तिके उपसंहरन् । अयं पुरुषरूपश् छायारूपश्च । पुरुषो देहः ॥ १५२२ ॥
सत्यप्रमोदटीका
सर्वोपसंहारी असति प्रमाणविरोधे सर्वधर्मैर् दार्ष्टा-न्तिक साम्यस्य उपसंहारपरा ॥ १५२२ ॥
युक्तिमल्लिका
छाया हि पुरुषाकारा पुरुषाधीनचेष्टिता ।
भिन्ना च जीवे तादृक्त्वं सिद्धं दृष्टान्तशोधने ॥ १५२३ ॥
सुरोत्तमटीका
का सा सृष्टान्तगतसर्वोपमा । यस्या दार्ष्टान्तिके उपसंहार इत्यत आह ॥ छायेति ॥ तत्समाकारत्वं तदधीनसर्वचेष्टावत्त्वं तद्भिन्नत्वं च छायायां दृष्टम् । अतस्तस्या दार्ष्टान्तिके जीवेपि तादृक्त्वम् ईश्वराकार सदृशाकारत्वम् ईशाधीन सर्वचेष्टावत्त्वम् ईश्वरभिन्नत्वं च सर्वोपसंहारि दृष्टान्तसाधने सिद्धमिति भावः ॥ १५२३ ॥
सत्यप्रमोदटीका
छायाशब्देन उक्तः भेदः पुन एतस्मिन् इति ब्रह्मण आधारत्वेन एतदिति जीवजातस्य च आधेयत्वेन उक्त्या सतात्पर्यं ज्ञाप्यते इत्याह सतात्पर्यमिति ॥ १५२३,१५२४ ॥
युक्तिमल्लिका
छायाख्यतमसः पुंसो भिन्नता सर्वसंमता ।
पुनराधेयतोक्त्या सा सतात्पर्यमुदीर्यते ॥ १५२४ ॥
सुरोत्तमटीका
दृष्टान्ते भेदसिद्धिप्रकारं विवेचयंस्तदुपमयैव सिद्धस्य जीवेश्वरभेदस्य एतस्मिन्ब्रह्मणि एतज्जीवादिकं जगदाततमाहितमिति आधाराधेय- भावेनापि साधनात् श्रुतेर्भेदे महातात्पर्यं चास्तीत्याह ॥ छायाख्येति ॥ पुंसस्सकाशादित्यर्थः । सा भिन्नता
॥ १५२४,१५२५ ॥
युक्तिमल्लिका
जीवस्य भृत्यता चायाच्छायाशब्दप्रयोगतः ।
अनुकूलं प्रियं भृत्यं छायेत्याहुः प्रियंवदाः ॥ १५२५ ॥
सत्यप्रमोदटीका
आहुरिति आर्षरामायणे सीताया रामं वनगमनोद्यतं प्रति वचनं ‘पादच्छाया भविष्यामि’ इति । तवानुकूला प्रिया सेवापरा च इति हि तत्र छायाशब्दार्थः ॥ १५२५ ॥
युक्तिमल्लिका
प्रतिबिम्बत्वमप्यस्य तच्छब्दादेव सिद्ध्यति ।
प्रतिबिम्बं प्रतिच्छायेत्याहुर्यदनुशासने ॥ १५२६ ॥
सुरोत्तमटीका
अस्य जीवस्य । तच्छब्दाद् उपमाबलागतच्छाया शब्दात् । अविरोधे सर्वोपसंहारिदृष्टान्तस्थले राजेव राजते चन्द्र इत्यादाविव शब्दसाम्यमप्यायातीति भावः । यद् यस्मात् । अनेन भगवत्प्रतिबिम्बत्वाच्च जीवस्य छायापदवाच्यत्वमस्तीति सूचितम् । अतोपि छायाशब्द इति युक्तम्
॥ १५२६ ॥
युक्तिमल्लिका
साम्यं यत्किञ्चिदेवेति दृष्टं दृष्टान्त एव हि ।
न हि ज्ञानबलादेश्च च्छाया पुरुषसंमिता ॥ १५२७ ॥
सुरोत्तमटीका
ननु सर्वोपसंहारिदृष्टान्तात्सर्वसाम्ये ज्ञानबलादिनापि जीवपरमयोस्साम्यं स्यादित्यत आह ॥ साम्यमिति ॥ यत्किञ्चिदल्पं प्रमाण-विरुद्धसाम्यं विहायाविरुद्धं सर्वसाम्यमिति भावः । ज्ञानबलादे र्ज्ञानबलादि-सहकारित्वात् । यथा देहे ज्ञानबलादिसहकारित्वमस्ति तथा छायायामभावाद् अविरुद्धसर्वसाम्यमेवेति भावः ॥ १५२७ ॥
सत्यप्रमोदटीका
बिम्बप्रतिबिम्बयोरपि सर्वत्र यथायोग्यमेव साम्यं न तु सर्वथा । अतश् छाया ज्ञानबलादेर् न हि पुरुषसंमिता इति योजना । अतः पूर्वोक्तं प्रियत्वं सेवकत्वं च सात्त्विकजीवापेक्षयैवेति विवेको बोध्यः । इतरेषां तु सादृश्यं तदधीनत्वतत्सदृशत्वादिनैवेति भावः ॥ १५२६,१५२७ ॥
युक्तिमल्लिका
आधारता स्वामिता च तथा साकारता हरेः ।
सिद्धा पुरुषदृष्टान्तात्तच्छब्दात्पूर्णताऽपि च ॥ १५२८ ॥
सुरोत्तमटीका
छायादृष्टांतेन जीवे सिद्धं प्रकारमुक्त्वा पुरुषदृष्टान्तेन जगदीश्वरे सिद्धं प्रकारमप्याह ॥ आधारतेति ॥ तच्छब्दाद् उपमाबलेन परमात्मन्यागतपुरुषशब्दात् ॥ १५२८ ॥
सत्यप्रमोदटीका
दृष्टान्तगतं पुरुषपदं दार्ष्टान्तिकेऽपि आवर्तनीयम् । तस्य एतस्मिन् इति दार्ष्टान्तिकगतेन पदेनान्वयः । अत्र तस्य पुरुसनोतीति व्युत्पत्त्या पूर्ण इत्यर्थः । एतद् आततमिति जीवजातस्य तस्मिन्नाश्रित-त्वोक्तेः । अन्नात्पुरुष इत्यत्र पुरुषशब्दस्य देहपरत्वेऽपि स वा एष पुरुषोऽन्नरसमयः’ इत्यत्र रसशब्देन विशेषणात् सारभूतविष्णुप्रतिपादकत्वमिव एकस्य अर्थद्वयं योग्यतया युक्तम् । तेन च दृष्टान्तबलेन दार्ष्टान्तिके सिद्धान्गुणानाह साकारतेति ॥ १५२८ ॥
युक्तिमल्लिका
यद्विशेष्यपदं दार्ष्टान्तिकेऽप्यावर्त्यमेव तत् ॥ १५२९ ॥
सुरोत्तमटीका
प्रकारान्तरेणापि पुरुषशब्दस्य दार्ष्टान्तिके आवृत्तिमुप-पादयति ॥ यदिति ॥ यद् यस्मात् । दार्ष्टान्तिके एतस्मिन्नितिवाक्येति । तत् पुरुषपदमेव विशेष्यपदम् । तस्माद् आवर्त्यमेव । एतस्मिन्नितिविशेषणपदस्य किंचिद्विशेष्यपदमपेक्षितम् । तच्चाध्याहारादप्यावृत्तेरेवान्तरङ्गत्वात्पुरुषपदमेवेति भावः ॥ १५२९ ॥
युक्तिमल्लिका
यथा तथेत्युक्तसाम्यं शब्दसाम्येति शोभते ।
छायाख्योपमया जीवमेवैतदिति वाग्जगौ ॥ १५३० ॥
सुरोत्तमटीका
ननु राजेव चन्द्र इत्यत्रापि कुतश्शब्दसाम्यमित्यत आह ॥ यथा तथेति ॥ नन्वेतदाततमित्यत्रैतत्पदेन जीवस्य कुतः कथनमित्यत आह ॥ छायेति ॥ एतत्पदस्य सामान्यपदत्वेपि तस्य छायोपमाबलाज् जीव-वाचकत्वनिर्णय इत्यर्थः॥ १५३० ॥
सत्यप्रमोदटीका
शब्दसाम्ये एतस्मिन् पुरुषे=पूर्णे परमात्मनि एतच् छाया छायोपमं जीवजातम् इत्येवम् उभयत्र पुरुषशब्दस्य छायाशब्दस्य च साम्ये इत्यर्थः ॥ १५३० ॥
युक्तिमल्लिका
साकारस्य सदृक्षो यत्साकारः स्यान्न चापरः ।
न चेद्यथातथाशब्दौ वितथाविति मे मतिः ॥ १५३१ ॥
सुरोत्तमटीका
छायास्थानीयत्वेऽपि कुतो जीव इत्यत आह ॥ साकारस्येति ॥ पुरुषपदसामर्थ्येन बिम्बस्य साकारत्वे सिद्धे सारारस्य तस्य छाया स्थानीयोपि साकारो जीव एव भवेदिति भावः ॥ १५३१ ॥
सत्यप्रमोदटीका
साकारः जीवः । जीवचितां साकारत्वं मौक्त-भोगादिना गुणसौरभे प्रागुपपादितमिति भावः ॥ १५३१ ॥
युक्तिमल्लिका
बाधितं तु विना सर्वं साम्यं तौ नैव मुञ्चतः ।
किं न सर्पोपमारज्जौ सर्पाकारेण केवलम् ॥ १५३२ ॥
सुरोत्तमटीका
तौ यथातथाशब्दौ । उपमायाकारसाम्यस्याप्यावश्यकत्वे दृष्टान्तमाह ॥ किं नेति ॥ १५३२ ॥
सत्यप्रमोदटीका
केवलम् इति । न तु अभिसर्पणादिता । तथा च सादृश्याभिव्यञ्जको धर्मः प्रमाणाविरुद्ध एव क्लृप्त इति भावः ॥ १५३२ ॥
युक्तिमल्लिका
रूपं रूपं प्रतीन्द्राख्यहरेर्जीवस्तनौ तनौ ।
प्रतिरूपो बभूवेति स्पष्टं तद्रूपरूपिता ॥ १५३३ ॥
उक्ता श्रुतौ ततोऽप्येतौ साकारौ तत्कृतोपमौ ।
इति सिद्धं तथा तत्र बिम्बस्येन्द्रत्वमीरितम् ॥ १५३४ ॥
परमैश्वर्यरूपं तज्जीवाः सर्वेऽप्यतादृशाः ।
अतो विसदृशत्वं च तयैव प्रोक्तमेतयोः ॥ १५३५ ॥
सुरोत्तमटीका
जीवस्य ब्रह्मसदृशाकारत्वे श्रुतिमप्याह ॥ रूपं रूपमिति ॥ अनेन रूपं रूपं प्रतिरूपो बभूव तदस्य रूपं प्रति चक्षणायेति श्रुतिं गृह्णाति । इन्द्राख्य हरेः रूपं रूपं प्रतीति सम्बन्धः । तत्कृतोपमौ तेन बिम्बप्रतिबिम्बभावेन कृतोपमौ । तत्र श्रुतौ । इन्द्रत्वम् इन्द्रो मायाभिरिति श्रवणात् । तद् इन्द्रत्वम् । तया श्रुत्या । एतयोर् बिम्बप्रतिबिम्ब-भूतेन्द्रजीवयोः ॥ १५३३-१५३५ ॥
सत्यप्रमोदटीका
तद्रूपरूपिता । तस्य इन्द्रस्य परमैश्वर्यशालिनः हरेर् आकारेण किञ्चित्सदृशाकारवत्त्वम् ॥ १५३३-१५३५ ॥
युक्तिमल्लिका
एवं च प्रतिरूपोऽयं रूपाद्विसदृशत्वतः ।
भिन्नश्छायावदित्यच्छारत्नच्छायापि हृत्तमः ।
तिरस्करोति तेनोक्ताप्युपमाऽसकलोपमा ॥ १५३६ ॥
सुरोत्तमटीका
अत एव बिम्बप्रतिबिम्बयोर्भेदश्रुतिमूलमनुमानमप्य-भूदित्याह ॥ एवं चेति ॥ छायावत्पुरुषाद्भिन्नच्छायावत् । रत्नच्छाया अनुमानाख्यारत्नच्छाया । असकलोपमेति पदच्छेदः ॥ १५३६ ॥
सत्यप्रमोदटीका
बिम्बप्रतिबिम्बभावोक्त्या भेदस्यानुमानेन सिद्धौ प्रयोगप्रकारमाह एवं चेति । ज्ञानच्छाया अनुमानाख्या । हृत्तम ऐक्यविषयकम् अन्यथाज्ञानम् । असकलोपमा न अत्यन्तसादृश्यपरा ॥ १५३६ ॥
युक्तिमल्लिका
विष्णोश्च बिम्बता तस्माद्भिन्नस्यैवात्र वर्ण्यते ॥ १५३७ ॥
किञ्चित्साम्यादधीनत्वाज्जीवस्य प्रतिबिम्बता ।
विष्णोश्च बिम्बता किं न भिन्नयोरेव वर्ण्यते ॥ १५३८ ॥
सुरोत्तमटीका
तस्मात्परमैश्वर्यस्य विष्णोरन्यत्रासम्भवात् ॥ १५३७,१५३८ ॥
सत्यप्रमोदटीका
तस्मात् परमैश्वर्यवाचीन्द्रशब्दप्रयोगबलात् ॥ १५३७, १५३८ ॥
युक्तिमल्लिका
बिम्बस्य प्रतिबिम्बैक्यं न स्मरोक्तं न विस्मर ॥ १५३९ ॥
सुरोत्तमटीका
उक्तं यथैषा पुरुष इति प्राचीनश्रुतावुक्तम् ॥ १५३९ ॥
सत्यप्रमोदटीका
उक्तं छायाशब्देन उक्तं भेदम् ॥ १५३९ ॥
युक्तिमल्लिका
छायापुरुषदृष्टान्ताद्बिम्बस्य परमात्मनः ।
प्रतिबिम्बात्मकाज्जीवाद्भेदस्योक्तश्रुतौ श्रुतेः ॥ १५४० ॥
सुरोत्तमटीका
तदेव विशिनष्टि ॥ छायापुरुषेति ॥ उक्तश्रुतौ प्रागुक्त-श्रुतौ । उपलक्षणं चैतत् । अस्यामपि श्रुताविन्द्रशब्देन वैसादृश्यसूचनादित्यपि द्रष्टव्यम् ॥ १५४० ॥
सत्यप्रमोदटीका
तदेव विवृणोति छायेति ॥ १५४० ॥
युक्तिमल्लिका
प्रत्यक्पराग्भावतो हि विषयो विषयी न ते ।
मूलभाष्ये कथं तर्हि पराक्प्रत्यगभिन्नता ॥ १५४१ ॥
सुरोत्तमटीका
बिम्बप्रतिबिम्बयोर्भेदपरप्रक्रिययैव युक्तिमाह ॥ प्रत्यगिति ॥ ते मूलभाष्ये । युष्मदस्मत्प्रत्ययगोचरयोर्विषयविषयिणोस्तमः प्रकाशयोरिव नेतरेतराभाव इति संकरभाष्ये । प्रत्यक्पराग्भावतः विषयिणो ऽस्मत्पदोक्तप्रत्यग्भावात् । विषयस्य युष्मदस्मत्पदोक्त पराग्भावादित्यर्थः । कथं प्रत्यग्भूतमात्मतत्वं पराग्भूतं विषयतत्वं स्यादिति तट्टीकायां व्याख्यानाद् युष्मदस्मच्छब्दौ पराक्प्रत्यग्भावपरौ । एवं च प्रत्यक्प्रराग्भावाख्य युक्त्या-विषयोविषयीनेति भवद्भाष्य एव साधितत्वात् । पराक्प्रत्यगभिन्नता पराक्प्रत्यग्भूतबिम्बप्रतिबिम्बयोरभेदः कथं स्यात् । तत्र भेदसाधकहेतोरत्र व्यभिचार प्रसङ्गान्न कथञ्चित् । अतो बिम्बप्रतिबिम्बयोरैक्यं वदन्पूर्वोत्तर-विवेकशून्य इति भावः ॥ १५४१ ॥
सत्यप्रमोदटीका
किञ्च त्वयाऽप्यध्यासभाष्ये विषयविषयिणोर्भेदसाधने युष्मदस्मत्पदोक्तः पराक् प्रत्यग्भावः हेतूकृतः । स एव च मया बिम्ब-प्रतिबिम्बयोर् भेदेऽपि हेतूक्रियते । अतो न केवलं विसदृशत्वतः, किन्तु त्वदुपगतेन अनेनापि हेतुना भेदसिद्धिर्निष्प्रत्यूहेत्याह अत इति ॥ १५४१, १५४२ ॥
युक्तिमल्लिका
अतः प्रत्यक्पराग्भावात्प्रतिबिम्बस्तु बिम्बतः ।
भिन्नो विसदृशत्वाच्च ज्ञानज्ञेयवदेव हि ॥ १५४२ ॥
सुरोत्तमटीका
एवं च बिम्बप्रतिबिम्बभेदे परप्रक्रिया मूलं श्रुतिमूलं चेत्यनुमानद्वयमासीदित्याह ॥ अत इति ॥ ज्ञानज्ञेयवद् विषयविषयिव-दित्यर्थः । प्रत्यकक्पराग्भावेन वैसादृश्यस्यापि तत्रैव विद्यमानत्वात् हेतुद्वयस्याप्येक एव दृष्टान्तः ॥ १५४२ ॥
युक्तिमल्लिका
सत्यश्चायमबाध्यत्वाद्ब्रह्मवत्प्रतिबिम्बकः ।
न हि सादृश्यमप्यस्य कात्स्नर्येनैक्ये तु का कथा ॥ १५४३ ॥
सुरोत्तमटीका
प्रागुक्तभेदानुमाने प्रतिबिम्बस्य मिथ्यात्वमपि युक्ति-विरुद्धमित्याह ॥ सत्यश्चेति ॥ अयं प्रतिबिम्बः । अबाध्यत्वान् नायं प्रतिबिम्ब इति बाधाभावात् । नेदानीं प्रतिबिम्ब इति प्रत्ययस्तु नेदानीं घट इतिवत्प्रागभावस्य नाशस्य वा साधकः । न तु त्रैकालिकनिषेधरूपबाधस्य । अनुकूलतर्कमाह ॥ नहीति ॥ अस्य प्रतिबिम्बस्य । कार्त्स्न्येन सादृश्यमपि हि यस्मान्न । तस्मादैक्ये का कथेति योजना । अनेन यदि बिम्बप्रतिबिम्बयोरैक्यं स्यात्तर्हि वैसादृश्यमेव न स्यादिति तर्कस्सूचितो भवति ॥ १५४३ ॥
सत्यप्रमोदटीका
अबाध्यत्वान् न चासिद्धिः । नायं प्रतिबिम्ब इति वा नास्त्यत्र प्रतिबिम्ब इति वा बाधस्याननुभवादेव । कालान्तरे देशान्तरे निषेधस्तु न त्रिकालसर्वदेशस्थनिषेधं साधयतीति भावः । विसदृशत्वहेतुर् न भेदेऽप्रयोजकः । हेतूच्छित्तिरूपबाधकसद्भावादित्याह न हि इति ॥१५४३॥
युक्तिमल्लिका
किं विमर्दो मृगमदे दर्पणप्रतिबिम्बिते ॥ १५४४ ॥
सुरोत्तमटीका
वैसादृश्यमेव विस्तरेण दर्शयति ॥ किं विमर्द इति ॥ विमर्दः परिमलः ॥ १५४४ ॥
सत्यप्रमोदटीका
विसदृशधर्मा न्यायामृते (२/३२ प.६०७) एकीकृत्य उक्ताः । न्यूनाधिकपरिमाणत्वचलत्वाचलत्वउपाधिसंयुक्तत्वा-संयुक्तत्वत्वगादिग्राह्यत्वाग्राह्यत्वप्रत्यक्त्वपराक्त्वरूपेण कस्तूरी तत्प्रति-बिम्बयोः सौरभतदभावरूपेण गुडतत्प्रतिबिम्बयोर्माधुर्यतदाभरूपेण वह्नि-तत्प्रतिबिम्बयोरौष्ण्यतदभावरूपेण पर्वततत्प्रतिबिम्बरूपयोर्गुरुत्वतदभावरूपेण इत्यादिना सङ्गृह्योक्ता अनुसन्धेयाः । ते च भेदसाधकाः । तथा च भेदे अनेकानि अनुमानानि प्रमाणयति किमित्यादिभिः । विमर्दः परिमलः ॥
युक्तिमल्लिका
परिमाणस्पर्शगन्धगुरुत्वैकत्वतोऽन्यता ।
व्योमाग्निपुष्पगिर्यर्केष्वस्त्येव प्रतिरूपतः ॥ १५४५ ॥
सुरोत्तमटीका
परिमाणस्पर्शगन्धगुरुत्वैकत्वत इति पञ्चमी बहुवचना-न्तात्तसिल् । परिमाणात् परममहत्परिमाणाद् व्योमि्न तद्रहितस्वप्रतिबिम्बा-दन्यता । एवं स्पर्शादुष्णस्पर्शात् । अग्नौ गन्धात्पुष्पे । गुरुत्वाद्भाराद्गिरौ । एकत्वादर्के । बहुतटाकजलादिषु शतशः प्रतिबिम्बनेऽपि बिम्बस्यार्कस्यैक-त्वात् । एतैः पञ्चभिः प्रतिबिम्बविरुद्धगुणैर् बिम्बभूतव्योमादिषु स्वस्व प्रतिबिम्बेभ्यो ऽन्यतेत्यर्थः । व्योमदर्पणाप्रतिबिम्बितव्योम्नोऽत्यन्तभिन्नम् । ततो विसदृशत्वाद् घटवद् इत्याद्यनुमानपञ्चकमनेनोक्तं भवति ॥ १५४५ ॥
सत्यप्रमोदटीका
परिमाणादि भेदकधर्मेभ्यः हेतुभ्यः क्रमेण व्योमादिषु प्रतिरूपतः प्रतिबिम्बप्रतियोगिकवैसादृश्यस्य विद्यमानत्वात् त्वदन्यता अस्त्येव इति योजना ॥ १५४५ ॥
युक्तिमल्लिका
रूपमात्रेण सादृश्यं वैसादृश्यं त्वनेकधा ।
किं ते वार्यन्तरस्थाब्दस्तनितैर्वनिता हताः ॥ १५४६ ॥
सुरोत्तमटीका
तर्हि सादृश्यं केनेत्यत आह ॥ रूपमात्रेणेति ॥ आकारमात्रेणेत्यर्थः । परं परिहसन्नेव पुनरपि बिम्बप्रतिबिम्बयोर्वैसादृश्य मनुभावयति ॥ किन्तु इति ॥ अब्दो मेघस् तस्य स्तनितैर्निर्घोषैः । बिम्ब-भूतमेघवत्प्रतिबिम्बितमेघस्य निर्घोषाभावाद्वैसादृश्यमिति भावः ॥ १५४६ ॥
सत्यप्रमोदटीका
रूपमात्रेण आकारमात्रेण । वैसादृश्यं तूक्तरीत्यासु बहुधा । अतो ऽत्यल्पमेव सादृश्यम् । शब्दतदभावाभ्यां वैसादृश्ये दृष्टान्तो ऽब्दस्तनितैर् मेघगर्जनैः ॥ १५४६ ॥
युक्तिमल्लिका
किञ्चिद्वैसादृश्यतो हि न गौर्गवयतामियात् ।
वैसादृश्ये त्वनेकस्मिन्दृश्ये पश्यैकता कुतः ॥ १५४७ ॥
सुरोत्तमटीका
अस्तु वैसादृश्यं तथापि भेदो मास्त्विति वदतः प्रतिकूलतर्कमाह ॥ किं चिदिति ॥ अनेकस्मिन्वैसादृश्ये सतीति सम्बन्धः । यदि वैसादृश्येऽप्येकता स्यात् तर्हि गोगवययोरप्येकता स्यादिति तर्क-मनेनोत्थापयति ॥ १५४७ ॥
सत्यप्रमोदटीका
‘यदा पश्यः पश्यते’ इत्यत्र पश्यतीति पश्यो जीवः । दृष्यः रुक्मवर्णादिर् ईशः । अतः मुक्तावपि तथैव भवतीत्यत्रोक्तं सादृश्यं निर्दुःखत्वादिरूपेणात्यल्पमेव । जगद्व्यापारवर्जमित्यादिनोक्तं वैसादृश्यं त्वनेकप्रकारम् । अतो मुक्तावपि जीवेशयोरपि भेद एव ॥ १५४७ ॥
युक्तिमल्लिका
वृत्तिवैचित्र्यतश्शब्दमात्रेणैक्यं विरुद्धयोः ।
किं गङ्गापदसङ्गेऽपि तीरस्य स्यात्प्रवाहिता ॥ १५४८ ॥
सुरोत्तमटीका
नन्विदं मुखमिति प्रतिबिम्बेऽपि मुखशब्दप्रयोगान्मुख-प्रतिमुखयोरैक्यमिति शङ्कां परिहरति ॥ वृत्तीति ॥ वैचित्र्यतः मुख्यगौणी-लक्षणादिवैचित्र्यात् । यथा तीरे गङ्गापदप्रयोगेपि न गङ्गैक्यम् । तथात्रापि मुखसादृश्यान्मुखपदप्रयोगेपि न मुख्यैक्यम् । तीरे गङ्गापदप्रयोगवद् ऐक्या-भावेपि पदप्रयोगमात्रस्य वृत्त्यन्तरेणापि सम्भवात् । अत एव प्रतिमानं प्रतिरूपं प्रतिबिम्बं च प्रतिमुखं प्रतिच्चायेत्यादौ प्रतिमुखं प्रतिरूपं प्रतिबिम्बमित्येव तेषामनुशासनम् । मुखपदस्यापि मुख्यतस्तद्वाचकत्वे तस्यापि तत्रानुशासनं स्यादिति भावः ॥ १५४८ ॥
सत्यप्रमोदटीका
एवं विरुद्धधर्मेषु सत्स्वपि, यत्र क्वचित्प्रतिमुखे मुखशब्दप्रयोगः सः, तीरे गङ्गापदमिव अमुख्यवृत्यैव नेय इत्याह वृत्तीति
॥ १५४८ ॥
युक्तिमल्लिका
द्वाविमाविति विस्पष्टदृष्टेरपि तयोर्भिदा ।
द्वाविमाविति पार्श्वस्थो यतः पश्यति तौ सदा ।
अतः प्रत्यक्षतोऽप्यत्र भेदस्सिद्धो विवेकिनाम् ॥ १५४९ ॥
सुरोत्तमटीका
बिम्बप्रतिबिम्बभेदे प्रत्यक्षमपि प्रमाणयति ॥ द्वाविमाविति ॥ तयोर् बिम्बप्रतिबिम्बयोः । तौ बिम्बप्रतिबिम्बौ । स्वस्य स्पष्टं मुखप्रत्यक्षाभावेन द्वाविमाविति प्रतीत्यभावेपि पार्श्वस्थस्य सदापि तथैव प्रतीतिरस्ति । एकमिदमिति तु न कदापि प्रतीतिः । एवं च बिम्बप्रतिबिम्ब-भेदः प्रत्यक्षेणापि सिद्ध इति भावः ॥ १५४९,१५५० ॥
सत्यप्रमोदटीका
द्वाविमौ बिम्बप्रतिबिम्बौ न त्वेक इति पार्श्वस्था-बाधितप्रत्यक्षेणापि तयोरत्यन्तभेदसिद्धिरित्याह द्वाविति ॥ १५४९ ॥
युक्तिमल्लिका
न द्वाविमावेक एवेत्यैक्यधीरस्ति किं क्वचित् ।
तस्मादबाधितं भेदप्रत्यक्षमभवद्धि तत् ॥ १५५० ॥
सत्यप्रमोदटीका
अबाधमुपपादयति नेति ॥ १५५० ॥
युक्तिमल्लिका
तदेवेदं मुखमिति व्यवहारस्तु साम्यतः ।
स एवायं राम इति यथा चित्रस्थिताकृतौ ॥ १५५१ ॥
चित्रसिंहो यथा सिंहो मुखं प्रतिमुखं तथा ॥ १५५२ ॥
सुरोत्तमटीका
दर्पणे मुखमिति प्रतिमुखे मुखपदप्रयोगस्य पुनरपि निदर्शनद्वयं दर्शयन्गतिमाह ॥ तदेवेदमिति ॥ साम्यतः सादृश्यात् । चित्रस्थिताकृतौ चित्रलिखितरामप्रतिमायाम् । पुराणादौ जीवेष्वपि हरिरेवायं कृष्ण एवायं राम एवायमित्यादिना तत्रोच्यमानैक्यव्यपदेशानामपि इयमेव गतिरिति सूचनाय स एवायं राम इति प्राचीननिदर्शनं ज्ञातव्यम् ॥ १५५१,१५५२ ॥
सत्यप्रमोदटीका
यत्र क्वापि प्रतिमुखे तदेवेदं मुखम् इति व्यवहारः स तु चित्रलिखितरामे रामशब्द इव रूढोपचार इत्याह तदिति ॥१५५१,१५५२॥
युक्तिमल्लिका
कथं न दह्यते वक्त्रं तप्तवार्यन्तराविशत् ।
कथं च न व्रणं वक्त्रे कांस्यादर्शप्रवेशिनि ॥ १५५३ ॥
सुरोत्तमटीका
बिम्बस्यैव प्रतिबिम्बत्वे सर्वानुभवसिद्धं बाधकान्तरं चाह ॥ कथमिति ॥ तप्तवार्यन्तस् तप्तोदकस्यान्तः । प्रतिमुखस्यैव मुखत्वेपि जठरस्थोष्णोदके स्वमुखं पश्यतो मुखस्यैव तज्जलान्तःप्रवेशाद्दाहोऽपि स्यात् । न चेतदस्ति । अतस्तप्तजलान्तस्स्थ प्रतिमुखाद् अन्यदेव मुखमिति भावः ॥ १५५३ ॥
सत्यप्रमोदटीका
ऐक्ये बाधकान्तराण्याह कथमिति । तप्तवार्यन्तरा-विशद् इति वाक्यविशेषणम् ॥ १५५३ ॥
युक्तिमल्लिका
करस्थे दर्पणे हस्ती यद्यष्टैश्वर्यतो विशेत् ।
कथं शिशुस्तं बिभृयाद्गजशालोद्यमो वृथा ॥ १५५४ ॥
अष्टाशीतिसहस्राणि विस्तीर्णो योजनस्य यः ।
दर्पणेऽल्पप्रमाणेऽसौ कथं विशति चन्द्रमाः ॥ १५५५ ॥
सुरोत्तमटीका
अल्पपरिमाणे दर्पणे ततोप्यतिस्थूलस्य गजस्य प्रवेशोऽष्टैश्वर्यशक्तौ सत्यामेव स्यात् । न च साऽस्ति । अतोऽपीदमयुक्तमिति परपरिहासायाष्टैश्वर्यत इत्युक्तम् । रात्रौ दर्पण एव प्रविश्यस्थातुं शक्यत्वाद् गजशालोद्यमोपि वृथेत्यर्थः ॥ १५५४,१५५५ ॥
सत्यप्रमोदटीका
परिमाणवैसादृश्यानङ्गीकारे बाधकमाह करस्य इति कथं विशेदिति अणिमैश्वर्याभावेनेति भावः । कथं तं बिभृयादिति प्रसङ्गान्तरम् । अणिमैश्वर्यमन्तरेति भावः । वृथेति दर्पण एवास्थानसम्भवात् । औश्वर्य इति परिहासः ॥ १५५४,१५५५ ॥
युक्तिमल्लिका
यदि तप्तोदकेऽत्युष्णे वक्रमेव विशेन्नृणाम् ।
तदा दाहो भवेत्तस्य कवोष्णादपि यस्य भीः ॥ १५५६ ॥
सुरोत्तमटीका
प्रागुक्तमपि तप्तोदकदृष्टान्तमल्पदाहे तापकारणाभावा-द्विशदयितुं पुनराह ॥ यदीति ॥ अग्निस्तम्भनशक्त्यभावसूचनाय नृणा-मित्युक्तम् । तस्य मुखस्य ॥ १५५६ ॥
सत्यप्रमोदटीका
नृणाम् अग्निस्तम्भाद्यैश्वर्यविकलानाम् ॥ १५५६ ॥
युक्तिमल्लिका
यद्यम्बुनि चिरं नृणां वक्रमेव विशेत्तदा ।
शिक्षा स्यात्तस्करस्येव यद्बिभेत्यघमर्षणात् ॥ १५५७ ॥
सुरोत्तमटीका
शीतोदकेऽपि बहुकालं स्वमुखदर्शने तावत्कालं मुख-स्यापि जले प्रवेशात्परस्य दूषणं स्यादित्याह ॥ यद्यम्बुनीति ॥ तस्करस्येव यथा तस्करं शिक्षितुं बहुकालं जले मज्जयंति तद्वदित्यर्थः । यन् मुखम् ॥ १५५७ ॥
सत्यप्रमोदटीका
अम्बुनि शीताम्बुनि । अतः पूर्वस्माद्विशेषः । अघमर्षणाद् अल्पशीतस्पर्शात् ॥ १५५७ ॥
युक्तिमल्लिका
नैमित्तिकं हि तत्कार्यं निमित्ते सति जायते ।
तदपाये नाशवच्च सूर्यात्पद्मविकासवत् ॥ १५५८ ॥
त्रपुसीसस्वर्णसर्पिश्चन्द्रकान्तद्रवत्ववत् ।
जलौष्ण्यवद्ग्रहग्रस्तमर्त्यसत्वविशेषवत् ॥ १५५९ ॥
सुरोत्तमटीका
प्रतिबिम्बादुत्पन्नकार्यत्वे बिम्बापगमेऽपि कुतो न स्थितिरिति शङ्कां बहुभिर्दृष्टान्तैर्धिक्करोति ॥ नैमित्तिकमिति ॥ पिशाचावेशे सति बहुतर भारवहनादिशक्तेरपि दर्शनात्सत्वविशेषवदित्युक्तम् ॥ एतानि-सर्वाण्यपि स्वनिमित्ते सति सन्ति निमित्तापायेन सन्ति । तद्वदिदमपि बिम्बे सत्यस्ति बिम्बापगमे नाशान्नास्तीति काऽत्र(त्र•नुपपत्तिरिति भावः ॥ १५५८-१५६० ॥
सत्यप्रमोदटीका
नैमित्तिक प्रतिमुखनाशे मुखसन्निधिरूपनिमित्त-कारणनाशः प्रयोजकः । तत्र अनेकानि निदर्शनानि सूर्याद् इत्यादीनि । सावित्रतेजोऽपगमात् पद्मविकासनाशवदिति भावः ॥ द्रवत्वं त्रपुसीसादिभिः प्रत्येकं सम्बध्यते । अग्निसन्निधानं तत्र निमित्तम् । मर्त्यस्य बलविशेषे ग्रहावेशः निमित्तम् ॥ १५५८, १५५९ ॥
युक्तिमल्लिका
औपाधिकं प्रतिमुखं मुखे सत्येव दृश्यते ।
मुखस्यापगमे चास्य नष्टत्वाद्दृष्टता च न ॥ १५६० ॥
सत्यप्रमोदटीका
दार्ष्टान्तिके योजयति औपाधिकमिति । अस्य मुखसन्निधिरूपनिमित्तस्य । नष्टत्वाद् दृष्टता न । नाशे सति नाशाद् अनन्तरं दृष्टता न ॥ १५६० ॥
युक्तिमल्लिका
निमित्तं बिम्बसान्निध्यं कर्ता नारायणः प्रभुः ।
उपादानमुपाधिश्चेत्कार्यं वार्यमिदं कथम् ॥ १५६१ ॥
सुरोत्तमटीका
कारणासम्भवात्प्रतिबिम्बस्य कार्यत्वं नेति शङ्कां निवारयति ॥ निमित्तमिति ॥ १५६१ ॥
सत्यप्रमोदटीका
मुखव्यतिरेकेण प्रतिमुखं, मिथ्या, प्रत्येकं तत्कारणाभावादिति केचित्समास्थिताः । तान् असिद्धियुक्त्या दूषयति निमित्तमिति । वार्यम् अपलापार्हम् ॥ १५६१ ॥
युक्तिमल्लिका
कार्यात्मना विवरणाद्विकारो दर्पणस्य च ।
तन्तोरिवानुमन्तव्यो हन्तव्योऽर्थः कथं वद ॥ १५६२ ॥
सुरोत्तमटीका
ननु दर्पणे मृत्पिण्डादेरिव विकारादर्शनात्कथ-मुपादानत्वमित्यत आह ॥ कार्यात्मना विवरणादिति ॥ प्रागविद्यमान-प्रतिबिम्बाकारस्य विवरणादित्यर्थः । तंतोरिव यथा तन्तोस्स्पष्टविकाराभावेऽपि सूक्ष्मतरविकारमादाय यथा पटोपादानत्वं तथा दर्पणस्यापि सूक्ष्मविकारोऽनु-मन्तव्यः । अर्थः प्रमाणदृष्टोऽर्थः ॥ १५६२ ॥
सत्यप्रमोदटीका
विकरणाद् विक्रियादर्शनात् । विकारः सूक्ष्मोऽपीति शेषः । तत्र दृष्टान्तस् तन्तोरिवेति । मृदादेरिव स्थूलविकारस्य तत्राप्यदर्शनात् । अर्थः प्रमितः । हन्तव्यो ऽपलपनीयः ॥ १५६२ ॥
युक्तिमल्लिका
बहिर्विकारशून्यस्य जठरस्य यथान्तरे ।
गुल्मग्रन्थिविकारः स्यात्तथा यं च भविष्यति ॥ १५६३ ॥
सुरोत्तमटीका
बहिर्विकारादर्शनेऽप्यन्तर्मुखसमानाकारविवरणा-द्दर्पण-स्यापि विकारित्वं भवतीत्यत्र दृष्टान्तमाह ॥ बहिरिति ॥ १५६३ ॥
सत्यप्रमोदटीका
आन्तर एवायं विकार इत्यत्र दृष्टान्तो गुल्मेति ॥ १५६३ ॥
युक्तिमल्लिका
घटात्मना विकरणं मनसो योऽनुमन्यते ।
प्रतिबिम्बात्मनोपाधेर्विकारोऽयं कुतोऽस्य न ॥ १५६४ ॥
सुरोत्तमटीका
किं च केदारघटाद्याकारेणानानुभविको मनः परिणामो येनाङ्गीक्रियते तस्य दृश्यमानेऽस्मिन्विकारे कुतो द्वेष इत्याह ॥ घटात्मनेति ॥ अस्य मायावादिनः ॥ १५६४ ॥
सत्यप्रमोदटीका
अन्तःकरणं निर्गत्य घटाद्यात्मना परिणमते । अतो घटे वृत्तिव्याप्यत्वमेव दृश्यत्वमिति हि मायिनो मतम् । अणुनो मनसो घटात्मना विकारो ऽसम्भवी अपि स्वमताग्रहमात्रेण स्वीकृतः । तस्य तादृशस्य तव प्रमितदर्पणविकारानङ्गीकारो निर्निबन्धन इत्याह घटेति ॥ १५६४ ॥
युक्तिमल्लिका
द्वारं विना यत्प्रवेष्टुं नालं मृण्मयभित्तिषु ।
कथं कांस्यं दृढद्रव्यं तद्विशेन्मृदुलं मुखम् ॥ १५६५ ॥
सुरोत्तमटीका
प्रागुक्तं दूषणान्तरं चोपपादयति ॥ द्वारं विनेति ॥ १५६५ ॥
सत्यप्रमोदटीका
पूर्वं व्रणः स्यादिति दूषितम् । इदानीं प्रवेश एव दुर्लभ इति दूषयति द्वारमिति ॥ १५६५ ॥
युक्तिमल्लिका
यदि वक्त्रं जलस्यान्तःप्रविष्टं सत्प्रदृश्यते ।
पराग्भावस्तर्हि कुतो न हि मज्जन्मुखेऽस्त्यसौ ॥ १५६६ ॥
सुरोत्तमटीका
मुखस्यैव जलान्तः प्रवेशाङ्गीकारे पुनरपि दोषद्वय-माह ॥ यदिवक्त्रमिति ॥ मज्जन्मुखे स्नानार्थं जलान्तः प्रवेशं कुर्वति । असौ पराग्भावः ॥ १५६६ ॥
सत्यप्रमोदटीका
प्रत्यक् पराग्भावरूपं वैसादृश्यम् ऐक्ये बाधकमाह यदीति । मज्जन्मुखे बिम्बे ॥ १५६६ ॥
युक्तिमल्लिका
जलस्थं चेद् बहिर्न स्याद् बहिस्स्थं च जले कुतः ।
मज्जन्मुखमिवैकत्वादेकत्रैव भवेद्धि तत् ॥ १५६७ ॥
सुरोत्तमटीका
तन् मुखम् ॥ १५६७ ॥
सत्यप्रमोदटीका
पार्श्वस्थस्य द्वे इमे इति प्रागुक्तं प्रत्यक्षबाधम् ऐक्यस्य स्मारयति जलस्थेति ॥ १५६७ ॥
युक्तिमल्लिका
यद्यादर्शे मुखं सत्ते दोषोऽयं दुस्तरस्तदा ।
न चेत्तदाधारता धीर्भ्रमत्वान्नैव साधिका ॥ १५६८ ॥
सुरोत्तमटीका
उक्तमेव दूषणं विकल्पमुखेन दृढयति ॥ यद्यादर्श इति ॥ सद् यथार्थतया विद्यमानम् । ते मते । न चेद् यथार्थतया विद्यमानं न चेत् । भ्रमत्वाद् दर्पणे मुखमिति प्रतीतेर्भ्रमत्वात् । साधिका प्रतिमुखस्य मुखत्व-साधिका ॥ १५६८ ॥
सत्यप्रमोदटीका
न चेदिति । आदर्शे मुखं वस्तुगत्या विद्यमानं न चेत् । धीर् आदर्शे मुखम् इति मुखाधारता धीः । साधिका ऐक्यस्येति शेषः
॥ १५६८ ॥
युक्तिमल्लिका
या च दर्पणसम्बन्धाच्चक्षुषः पृष्ठतो गतिः ।
मुखस्यैवेक्षणं चोक्तं तच्चित्रमिति मे मतिः ॥ १५६९ ॥
नयच्छैलान्निववृते न क्रूरादनलादपि ।
तच्चक्षुः पश्यतस्स्वास्यं जलात्किल निवर्तते ॥ १५७० ॥
सुरोत्तमटीका
दर्पणसंयोगे सति दारुप्रोतशरवत्तदाघातवशात्परावृत्त्यै-वागतं नयनं मुखं पश्यतीति च मायिनो वदन्ति तदनूद्य दूषयति ॥ याचेत्यादिना ॥ यच्चक्षुः शैला च्छिलामयादतिकठिनात्पर्वतात् । किलेत्य-पहासः । कठिनद्रव्यत्वाद्दर्पणान्निवर्तते चेन् मृदुलाज्जलान्निवृत्तिर्नस्यात् । शैलाग्न्यादेश्च सुतरां निवृत्त्या तत्रापीदं मुखमित्येव प्रतीतिस्स्यात् । अयं गिरिरित्यादि प्रतीतिः कदापि न स्यात् । कठिनाद्वा मृदुलाद्वा निवृत्ति स्वभावादेव निवर्तते चेत्तर्हि दूरस्थ तटाकजलादपि निवर्तेत । किं चैवं सति चक्षुषा सकलपदार्थदर्शनेपि मुखमित्येव प्रतीतिस्स्यात् । तत्तदर्थप्रतीतिः कदापि न स्यात् । एवं च त्वमन्धो वा स्या महोन्मत्तो वा स्या इत्यपहास-स्यावर्जनीयत्वात् ॥ १५६९,१५७० ॥
सत्यप्रमोदटीका
दर्पणाभिहता दृष्टिः परावृत्य स्वमाननम् ।
व्याप्नुवन्त्यभिमुख्येन व्यत्यस्तं दर्शयेन्मुखम् ।
इति परस्य ऐक्ये प्रक्रियान्तरमपि दूषयति या चेत्यादिभिः
॥ १५६९, १५७० ॥
युक्तिमल्लिका
यतः शिलाया योगेऽपि दारुप्रोतमुखश्शरः ।
यथागतं तथा याति पृष्ठं पृष्ठं मुखं मुखम् ॥ १५७१ ॥
सुरोत्तमटीका
दूषणान्तरं चाह ॥ यत इति ॥ १५७१ ॥
सत्यप्रमोदटीका
अस्मिन्पक्षे प्रत्यक् पराग्भावे । दुरुपपाद इत्याह यत इति ॥ १५७१ ॥
युक्तिमल्लिका
ततश्चक्षुः परावृत्तिरपि स्यादीदृशी परम् ।
पुंवत्किं वक्तुमुचिता निवृत्तिः स्वेच्छया जडे ॥ १५७२ ॥
सुरोत्तमटीका
ईदृशी दारुप्रोतशरवद् यथागतमेव निवृत्तिस्स्यात् । न तु मुखाभिमुख्येन । एवं च मुखप्रतीतिरपि न स्यादिति भावः । असम्भावितं च जडस्य चक्षुषो विषयाभिमुख्येन प्राग्गतस्य मुखाभिमुख्येन पुनरागमन-मित्याह ॥ पुंवदिति ॥ १५७२ ॥
सत्यप्रमोदटीका
परावर्तनं पुंधर्मो ऽचेतने चक्षुषि न घटते इत्याह स्वेच्छयेति ॥ १५७२ ॥
युक्तिमल्लिका
एवं चेत्कुड््यकुम्भादि दृष्ट्वा दृष्ट्वा निवृत्तिमत् ।
किं चक्षुरीक्षते स्वास्यं तस्ये इह नतपोधिकम् ॥ १५७३ ॥
सुरोत्तमटीका
असम्भावितमपीदं निवर्तनमङ्गीक्रियते चेत्तर्हि घटकुड्यादितोपि निवर्तमानं चक्षुस्त्वन्मुखं पश्येत्किमिति पृच्छति ॥ एवं चेदिति ॥ अन्यत्र सर्वत्र स्वचक्षुषस्स्वमुखमयोग्यं चेदत्रैव कथं योग्यमित्याह ॥ तस्येति ॥ तस्य चक्षुषः । इह दर्पणस्थले॥१५७३ ॥
सत्यप्रमोदटीका
एवं चेत्=अचेतनस्यापि सतः येन केनचित्प्रति-हतस्य परावृत्तिरङ्गीक्रियते चेत् । स्वास्यं स्वाधारभूतं मुखम् । इह दर्पणविषये । तप इत्यपहासः ॥ १५७३ ॥
युक्तिमल्लिका
किञ्चैवं सति तद्बुद्धेराकारः स्यादिदं मुखम् ।
इत्येव दर्पणादीनां सत्येवं दर्शनं च न ।
दर्पणे मुखमित्येवमाकारस्त्वष्टमो रसः ॥ १५७४ ॥
सुरोत्तमटीका
दूषणान्तरं चाह ॥ किं चेति ॥ तद्बुद्धेर् दर्पणा-न्निवृत्तचक्षुर्जन्यबुद्धेः । सत्येवम् एवं सतीत्यर्थः । दर्पणादितो निवृत्त चक्षुषा पुनर्दर्पणादि दर्शनायोगादिति भावः । आकारः बुद्धेराकारः । दर्पणस्यैव दर्शनाभावे दर्पणे मुखमिति दर्शनं सुतरां न स्यादिति भावः ॥ १५७४ ॥
सत्यप्रमोदटीका
एवं सति मुखमात्रस्य दर्शने सति । (इदं मुखम् इत्याकारः) । तद्बुद्धेः=परावृत्य मुखमात्रं विषयीकुर्वत्या बुद्धेः स्यात् । न तु दर्पणे मुखम् इति सार्वजनीन आकारः ।दर्पस्य बुद्ध्या उल्लेखः सप्तमो रसः ।मुखाधारतया उल्लेखस्तु अष्टमो रसः॥१५७४ ॥
युक्तिमल्लिका
अथार्धार्धाभिसम्बन्धाद्द्विधाभूतस्य चक्षुषः ।
धीद्वयं यदि जायेत हीयेत तव धीस्तदा ॥ १५७५ ॥
सुरोत्तमटीका
पक्षान्तरमुत्थाप्यदूषयति ॥ अथेति ॥ धीद्वयम् इदं दर्पणमिदं मुखमिति दर्पणधीर्मुखधीश्च । तव धीर्हीयेत । एवं वदंस्त्वं बुद्धिमान्न भवसीत्यर्थः ॥ १५७५ ॥
सत्यप्रमोदटीका
ननु चक्षुषि भागद्वयमङ्गीक्रियते । एकेन भागेन परावृत्य मुखस्य अपरेण च दर्पणस्य च दर्शनं सम्भवतीति चेन् न अनानु-भविकं धीद्वयं कल्पयतस् तव धीरेव हीयेत ॥ १५७५ ॥
युक्तिमल्लिका
विरुद्धदिग्द्वयस्थार्थसम्बन्धस्त्वेकचक्षुषः ।
यतो न दृश्यते नृणां ततोऽप्येतदसङ्गतम् ॥ १५७६ ॥
सुरोत्तमटीका
विरुद्धदिग्द्वयं दर्पणदिक् मुखदिक् । एकदिग्गत-योर्योग्ययोरर्थयोरेकदैव चक्षुस्सम्बन्धो दृष्टः । न तु विरुद्धदिक्स्थयोः । अतोऽपीदमसम्भावितमित्यर्थः ॥ १५७६ ॥
सत्यप्रमोदटीका
किं च चक्षुषा एकस्यां दिशि सतोर्द्वयोर्युगपद्दर्शन-सम्भवेऽपि विरुद्धदिक्संस्थितयोर् मुखदर्पणयोः सहैव दर्शनमसम्भावितमित्याह विरुद्धेति ॥ १५७६ ॥
युक्तिमल्लिका
किञ्चैवमपि धीर्द्वन्द्वं कथं स्यान्मनसाणुना ।
समूहालम्बना धीश्चेत्स मोहालम्बनो वदन् ॥ १५७७ ॥
सुरोत्तमटीका
चक्षुर्द्वारा मनसोपि बर्हिर्निस्सरणं वदतस्तव मते अणोर्मनसो द्विधाभूतचक्षुर्भागसंयोगायोगाच्चेदमसङ्गतमित्याह ॥ किं चैवमिति ॥ पक्षान्तरमुत्थाप्यदूषयति ॥ समूहेति ॥ सवदन्निति सम्बन्धः । दर्पणे मुखमिति धियस्समूहालम्बनतांवदन्नित्यर्थः । मोहालम्बनं मोहस्य मिथ्याज्ञानस्यालम्बनः मिथ्याज्ञानीत्यर्थः । अणुमनसो विरुद्धभागद्वय संयोगानुपपत्तेरपरिहारात् । मोहोऽज्ञानं वा ॥ १५७७ ॥
सत्यप्रमोदटीका
इदं धीद्वन्द्वं न मनसा उत्पत्तुं युक्तम् । चक्षुषा सह मनसोऽपि बहिर्निर्गमनमङ्गीकुर्वतस्तव अजोर्मनसो धीद्वयजननाय द्विधाभावा-योगात् । समूहालम्बनमेकमेवेदं ज्ञानमिति तु मोहमूलम् । तथा सति इमौ मुखदर्पणौ इति तदाकारः स्याद् इत्याह किञ्चेति ॥ १५७७ ॥
युक्तिमल्लिका
किञ्चावाङ्मुखपुंसोक्षिपरावृत्येक्षतां मुखम् ।
तद्रुद्धबहुदूरस्थमित्रमैत्री कुतो वद ॥ १५७८ ॥
सुरोत्तमटीका
अपि च मध्याह्नकाले तटाकजलादाववाङ्मुखतया स्वमुखं पश्यतस्तत्रैव मुखदर्शनं सूर्यमण्डलदर्शनं च जायते । तत्र त्वदुक्तरीत्या परावृत्तमपि चक्षुर्मुखं पश्यतु । मुखेन प्रतिरुद्धां स्वशिखामप्यपश्यत् तत्प्रतिरुद्धं मुखोपरिभागे बहुदूरस्थितं सूर्यमण्डलं कथं पश्यतीत्याह ॥ किं चेति ॥ तद्रुद्धस्य तेन मुखेन प्रतिरुद्धस्य । बहुदूरस्थस्य मित्रस्य सूर्यस्य । मित्रदर्शन-मिति यावत् ॥ १५७८ ॥
सत्यप्रमोदटीका
अवाङ्मुखस्य जले स्वमुखं सूर्यमण्डलं चेति द्वयमपि दृश्यते इत्यविवादम् । तत्र तव प्रक्रियया परावृत्त्य स्वमुखस्य दर्शनमिति कथञ्चिद्वक्तुं शक्यत्वेऽपि सूर्यमण्डलदर्शनं दुःशकम् । तत्र हेतुस् तद्रुद्धस्य मुखेन प्रतिबद्धस्य बहुदूरस्थस्य चेति । मित्रमैत्री सूर्यदर्शनम् ॥ १५७८ ॥
युक्तिमल्लिका
किञ्चैवं सति भूषास्थरत्नलक्षेषु बिम्बितम् ।
मुखं स्वमीक्षमाणस्य धीः स्यादेकं मुखं त्विति ॥ १५७९ ॥
सुरोत्तमटीका
दूषणान्तरं चाह ॥ किं चेति ॥ भूषातः परावृत्यागतेन चक्षुषा एकस्यैव स्वमुखस्य दर्शनादिति भावः ॥ १५७९ ॥
सत्यप्रमोदटीका
अनेकोपाधिस्थले अनेके प्रतिबिम्बास्तावद् दृश्यन्ते । तदपि अशक्यमापन्नम् । बिम्बस्यैकत्वादेव । न हि रत्नरूपोपाधिभेदे मुखस्यापि भेद इत्याह किञ्चैवमिति ॥ १५७९ ॥
युक्तिमल्लिका
कपोलः कल्पकस्तत्ते दोष्णो योग्यो न चक्षुषः ॥ १५८० ॥
सुरोत्तमटीका
ननु दोषादनेकत्वदर्शनमित्यत आह ॥ कपोल इति ॥ तत् तस्मात् परावृत्यागते चक्षुषि उपाधिसंयोगाख्यदोषस्याप्यभावात् । चक्षुषो दोषयोगः कल्पको न । किं तु ते कपोल एव कल्पकः । स च दोष्णः हस्तस्य योग्यस् त्वद्धस्तेनैव ताडनयोग्यः । चक्षुषस् त्वच्चक्षुषः योग्यो न । स्वकपोलस्य स्वेनादर्शनादित्यर्थः ॥ १५८० ॥
सत्यप्रमोदटीका
इयं द्वैधीभावप्रक्रिया स्वकपोले कल्पयितुं न शक्या । स्वकपोलस्य स्वचक्षुदर्शनायोगात् । अत इयं सर्वाऽपि कल्पना स्वकल्पना-मूलैव । एतादृशस्य कुकल्पकशीलस्य तव कपोलस्य न चक्षुःसंयोगः किन्तु स्वहस्तेन ताडनरूपाभिघात एव समुचित इत्याह कपोल इति । तदुक्तं भगवत्पादैः ‘कशावेत्रादिकं तस्य तस्करस्योत्तरं भवेत्’ इति ॥ १५८० ॥
युक्तिमल्लिका
अतस्तत्तादृशं वस्तु लघुभूतं हि जन्यते ।
बिम्बोपाध्योः सन्निधानात्कथं स्याद्धि तदेव तत् ॥ १५८१ ॥
सुरोत्तमटीका
अतः मुखस्यैव स्वप्रतिमुखत्वायोगात् । तत् प्रतिमुखम् । बिम्बोपाध्योर्मुखदर्पणयोः । तदेव मुखमेव । तत् प्रतिमुखम्
॥ १५८१ ॥
सत्यप्रमोदटीका
तथा च प्रतिबिम्बो बिम्बाद्भिद्यते तत्कारणविलक्षण-कारणजन्यत्वाद् यवाङ्कुरात्कलमाङ्कुरवद् इति प्रयोगोऽभिमतः । न चासिद्धिर् इत्याह बिम्बोपाध्योः सन्निधानादिति । तदेव निमित्तकारणम् अदृश्यादिकं च । दर्पण उपादानं त्विति समर्थितम् । न चाप्रयोजकतेत्याह तादृशं तदधीनत्वे सति तेन सदृशं कथं तदेव स्यात् । विरुद्धधर्माधिकरणत्वात् ॥ १५८१ ॥
युक्तिमल्लिका
प्रतिबिम्बस्य मिथ्यात्वे सत्यबिम्बाद् भवेद्भिदा ।
प्रतिबिम्बस्य सत्यत्वे द्विस्वभावत्वतो भिदा ॥ १५८२ ॥
सुरोत्तमटीका
कुत इत्यतः पक्षद्वयेऽपि प्रागुक्तरीत्या संगृह्य तस्यो-भयतः पाशारज्जुं करोति ॥ प्रतिबिम्बस्येति ॥ द्विस्वभावत्वतः परिमला-परिमलादिना द्विस्वभावत्वात् ॥ १५८२ ॥
सत्यप्रमोदटीका
मिथ्याभूतस्यापि साधकत्वसाधनावसरे, असत्येन प्रतिबिम्बेन बिम्बानुमानमुदाहरन्तो मायावादिनः क्वचित्प्रतिबिम्बो मिथ्येत्यभि-प्रयन्ति । क्वचिदभेदाशयेन सत्य इति । तत्र आद्ये दोषमाह प्रतिबिम्बस्येति । तथा च तयोरभेदोक्तिः स्वव्याहता । द्वितीयस्तु तयोर् विरुद्धस्वभाव-त्वादनुचित इति वदति द्विस्वभावत्वादिति ।तथा च सर्वथा तयोर्भेदो निराबाधः॥१५८२ ॥
युक्तिमल्लिका
कथं च प्रतिबिम्बस्य मिथ्यात्वं यौक्तिकं विदाम् ।
न ह्यस्ति बाधिका नायं प्रतिबिम्ब इति प्रमा ॥ १५८३ ॥
सुरोत्तमटीका
मिथ्यात्वे बाधकान्तरं चाह ॥ कथमिति ॥ नायं प्रतिबिम्ब इति बाधिका प्रमा न ह्यस्तीति सम्बन्धः । उपलक्षणं चैतत् । नेदानीं प्रतिबिम्ब इति तु प्रमा न बाधिका चेत्यपि द्रष्टव्यम् ॥ १५८३ ॥
सत्यप्रमोदटीका
बाधाभावान्मिथ्यात्वं न युक्तम् इत्याह विदां प्रामाण्य-स्वतस्त्ववादिनाम् ॥ १५८३ ॥
युक्तिमल्लिका
दृष्टा बाधितकार्यस्याप्यन्यथानुपपत्तितः ।
कल्प्यं स्यात्कारणं सर्वं यथेशः कलमाङ्कुरात् ॥ १५८४ ॥
सुरोत्तमटीका
ननूपादानकारणादर्शनान्मिथ्यात्वमिति शङ्कां यथावस्तु-कथनेन परिहृतामपि परमुखेनैवकारणं वाचयितुं प्रतिबन्दीमुखेन पुनः परिहरति ॥ दृष्टेति ॥ अन्यथा कर्तुरदर्शनात्क्षित्यादेरपि मिथ्यात्वं स्यादिति भावः ॥ १५८४ ॥
सत्यप्रमोदटीका
दर्पणस्य उपादानत्वाभावमुपेत्यापि प्रतिबन्द्या प्रतिबिम्बसत्यतां परेणैवाङ्गीकारयति दृष्टेति । तदुक्तं भगवत्पादैः ‘न हि अन्नत्वे दुर्घटे तस्यानन्नत्वं भवति’ इति । प्रपञ्चितं च प्राग्गुणसौरभे
‘प्रमाणदृष्टघटना कार्या सैव यथामति ।
न शक्यते चेत्सर्वेशाचिन्त्यशक्त्यैव सेत्स्यति’ इति ॥ १५८४ ॥
युक्तिमल्लिका
अस्तूपाधिविकारोऽसौ तद्गरूपरसादिवत् ।
निमित्तमात्रजन्यो वा भावोऽप्येकोऽस्त्वभाववत् ॥ १५८५ ॥
सुरोत्तमटीका
विकारादर्शनात्कथमुपाधिरुपादानमिति शङ्कामपि प्रतिबन्दी सूचनेन परिहरति ॥ अस्त्विति ॥ तद्गरूपरसादिवद् दर्पणस्थ-रूपरसादिवत् । यथा बीजादङ्कुरवद् दर्पण रूपरसादीनां दर्पणात्पार्थक्येना-विकारेऽपि दर्पणविकारत्वं तथा स्यादिति भावः । किं च यथा एकस्य प्रध्वंसस्यैवोपादानादर्शनान्निरुपादानक कार्यत्वमङ्गीक्रियते तथा स्याप्यङ्गी-क्रियताम् । कल्पकन्यायस्योभयत्र साम्यादित्याह ॥ निमित्तमात्रेति ॥ भावः प्रतिबिम्बः ॥ १५८५ ॥
सत्यप्रमोदटीका
कार्यस्य प्रमितत्वेन दर्पणस्य स्पष्टं विकारदर्शनेऽप्यु-पादानत्वं कथञ्चिदुपपाद्यमित्याह तद्गरूपरसादिवद् इति । अस्तु इत्यनेन सिद्धान्ते द्रव्यस्य स्वगुणादीन्प्रति उपादानत्वाभावेनानास्थां द्योतयति । नायमस्ति च नियमे । यत्कार्यमात्रं सोपादानकमेवेत्याह अभाववदिति । प्रध्वंसरूपकार्यस्य निरुपादानत्वदर्शनात् ॥ १५८५ ॥
युक्तिमल्लिका
उपादानस्य चादृष्ट्या कार्यदृष्ट्या च तादृशी ।
अवस्था कल्प्यतेऽभावे भावे किं न तथाविधे ॥ १५८६ ॥
सुरोत्तमटीका
तादृशी निमित्तमात्रजन्यत्वरूपा । आदौ अभाव इति पदच्छेदः । पश्चाद्भाव इति ॥ १५८६ ॥
सत्यप्रमोदटीका
तत्र प्रमितत्वात्कार्यस्य तथा भावो ऽगत्या कल्पनीय इति चेत्सममत्रापीत्याह कल्प्यते अभावे इति । तथा विधे = प्रमिते
॥ १५८६ ॥
युक्तिमल्लिका
सर्वथा दृष्टकार्यस्य ह्यपलापो न युज्यते ।
न चेदीशप्लुतं त्याज्यं नारिकेलफले जलम् ॥ १५८७ ॥
सुरोत्तमटीका
न चेत् कार्यान्यथानुपपत्त्याऽदृष्टकारणकल्पनं न चेत् ॥ १५८७ ॥
सत्यप्रमोदटीका
न चेत् प्रमितस्य कथञ्चिदुपपादकान्तरं कल्पयित्वा निर्वाहो न क्रियते चेत् । त्याज्यम् अपलपनीयम् ॥ १५८७ ॥
युक्तिमल्लिका
अतः स्वाप्नपदार्थस्य प्राहुः संस्कारजन्यताम् ।
न स्वप्न इति बाधस्याभावादर्थक्रियाकृतेः ॥ १५८८ ॥
सुरोत्तमटीका
अतः दृष्टकार्यस्यापलापायोगादेव ॥ १५८८ ॥
सत्यप्रमोदटीका
प्राहुर्
मनोगतांश्च संस्कारान्स्वेच्छया परमेश्वरः ।
प्रदर्शयति जीवाय स स्वप्न इति गीयते
इत्यादिश्रुतिस्मृतयः । उक्तं च परैरपि वासनामयी सृष्टिः श्लिष्टेति उत्तरमाह उच्यते इति (बृ.शां. आनन्द ४।३।१०) (भे.प.ब्र.सू.१ प.१९४) ॥१५८८॥
युक्तिमल्लिका
मुखशब्दः प्रतिमुखे सोपचारः कथं न ते ।
मुखं प्रति स्थितं यत्स्यात्तद्धि प्रतिमुखाभिधम् ॥ १५८९ ॥
सुरोत्तमटीका
प्रतिमुखे मुखशब्दस्यौपचारिकत्वे निदर्शनान्युक्तानि । निमित्तं चाह ॥ मुखशब्द इति ॥ ते मते । तन् मुखं प्रतिस्थितत्वेन प्रतिमुखशब्दवाच्यम् ॥ १५८९ ॥
सत्यप्रमोदटीका
प्रतिमुखमिति संज्ञाभेदेनापि मुखात्तस्य भेदसिद्धि-रित्युपपादयति प्रतिस्थितम् आभिमुख्येन पराक्त्वेन स्थितम् । यत्र क्वचित् प्रतिमुखे यः मुखशब्दप्रयोगः स उपचारादेवेति सुबहुधा प्राङ् निदर्शितमिति भावः ॥ १५८९ ॥
युक्तिमल्लिका
कथं तदेव च मुखं तस्मात्प्रत्यक्पराक्स्थितेः ।
संज्ञाभेदात्कर्मभेदाद्बिम्बोऽन्यः प्रतिबिम्बतः ॥ १५९० ॥
सुरोत्तमटीका
मुखं मुखशब्दवाच्यं मुखाभिन्नं च । मुखप्रतिमुखयो-र्विरुद्धार्थत्वेनोभयोरप्येकत्रमुख्यवृत्त्ययोगात् स्वस्यैव प्रतिस्थितत्वायोगाच्चेति भावः । बिम्बप्रतिबिम्बवादमुपसंहरति ॥ तस्मादिति ॥ तस्या तस्मादुक्त-न्यायात् । कर्मभेदात् शब्दव्यवहारदाहादिकर्मभेदात् । परिमाणगुरुत्वादि गुणभेदाच्चेत्यपि द्रष्टव्यम् ॥ १५९० ॥
सत्यप्रमोदटीका
सौरभार्थमुपसंहरति कथमिति । तदेव प्रतिमुखमेव । तथा हि । प्रतिमुखमेवमुख इति किमत्यन्तसादृश्यधीरुपन्यस्ता प्रत्यभिज्ञा वा । नाद्यः । तयैक्यासिद्धेः । अन्त्ये असिद्धिः । चैत्रप्रतिबिम्बमेव दृष्टं न तु चैत्र इति भेदानुभवबाधितत्वात् । स्वनेत्रगोलकादौ स्वस्याभिज्ञाभावेन प्रत्यभि-ज्ञाऽयोगात् (न्या.२ । ३२ प.६०७) । तस्मादित्यस्यैव विवरणं प्रत्यगित्यादि हेतुत्रयेण । प्रत्यक्पराग्भावादित्यनेन पार्श्वस्थस्य इमौ बिम्बप्रतिबिम्बौ इति भेदे प्रत्यक्षं प्रमाणयति । संज्ञाभेदाद् बिम्बः प्रतिबिम्ब इति च नामभेदात् । अङ्गीकृतं च मीमांसकैर् नामभेदः स्वाभिधेयभेदं प्रयोजयतीति । ज्योतिरित्यादिनामधेयेन तन्नामकयागस्य प्रकृतज्योतिष्टोमादियागाद्भेदः ‘संज्ञा चोत्पतिसंयोगा-दि’त्यत्रोक्तः । (तर्कताण्डव द्वि.प.प.३६९) । कर्मभेदाद् दाहशेष= शब्दव्यवहारादिकर्मभेदात् । प्रतिबिम्बस्य बिम्बाधीनैव क्रिया इत्येवं कर्मभेदाच्च । यथोक्तं गीताभाष्ये ‘न हि प्रतिबिम्बस्य स्वातन्त्र्येण क्रिया’ इति । दार्ष्टान्ति-कस्य एतत्सौरभपरमप्रमेयस्य जीवेश्वरभेदस्य समर्थनपरतयाऽपि श्लोकोऽयं योजनीयः । तथा हि मुखशब्दस्य उत्तमपरत्वात्परमात्माऽर्थः । ‘मणिर्मुखं प्रधानं चेत्युत्तमस्य वचो भवेत्’ इति स्मृतेः । तथा च ‘कथं तदेव च मुखं’ इति वचनविन्यासेन ‘अर्थाच्छ्रुतेश्च गुणतो निजरूपतश्च नित्यान्य एव कथमस्मि स इत्यपि स्यात्’ इति भगवत्पादोक्तिं संवादयति । प्रत्यगिति अन्तर्यामीत्यर्थः । अस्य भेदव्यवस्थापकत्वम् अन्तर्यामिनये व्यक्तम् । अत्र च विशदीकृतम् (श्लो.२१२-२८५) संज्ञाभेदो ऽनन्त आनन्दमय आत्मा, इत्यादिभिर् भगवदसाधारणसंज्ञाभिर्ज्ञापितो भेदः । (श्लो.११३३) कर्मभेदः स्थित्यद-नाभ्यामिति सूत्रोक्तः पिप्पलादनानदनरूपः । एतेभ्यो हेतुभ्यः बिम्बः विष्णुः । प्रतिबिम्बतः । बहुवचनात्पञ्चम्यर्थे तसिर् जीवेभ्यः ॥ १५९० ॥