विद्यात्मनि भिदा बोध इति भागवते हरिः
विद्याऽऽत्मनिभिदाबोधःइतिवाक्यार्थः
युक्तिमल्लिका
विद्यात्मनि भिदा बोध इति भागवते हरिः ।
विद्या केति पुरा पृष्टो भिदा बोधं किलोक्तवान् ॥ १४९७ ॥
सुरोत्तमटीका
आत्मपदार्थमाह ॥ चेतनेष्विति ॥ अथवा आत्मनि परमात्मनि जीवादिभ्यो भिदाबोध इति योजना ॥ १४९७ ॥
सत्यप्रमोदटीका
आत्मनि जीवसमुदायधर्मिकः परमात्मप्रतियोगिकः । यद्वा आत्मशब्देन परमात्मग्रहणे तद्धर्मिको वा भेदः ग्राह्यः । भिदा अबोध इति पदच्छेदे प्रश्नोत्तरयोः स्फुटाऽसङ्गतिरित्याह का इति ॥ १४९७ ॥
युक्तिमल्लिका
चेतनेष्वात्मसु भिदा जात्येकवचनादियम् ।
अबोध इति च च्छेदे बोधच्छेदो भविष्यति ।
बोधाभावं हि को बोद्धा विद्यां बुद्धिमते वदेत् ॥ १४९८ ॥
राजा तत्पुरुषो मेने नान्यस्य पदसेवनम् ।
बहुव्रीहेस्तु चोरस्य स्याच्चास्यान्यानुयायिता ॥ १४९९ ॥
सुरोत्तमटीका
च्छेदे पदच्छेदे । कथं बोधच्छेद इत्यत आह ॥ बोधाभावमिति ॥ का विद्येति प्रश्नस्य बोधाभावो विद्येत्युत्तरस्य च विद्याभाव एव विद्येत्यत्र पर्यवसानेन परस्परविरुद्धत्वादिति भावः । उपलक्षणं चैतत् । भेददृष्ट्येति प्रागुक्तसमाख्याबोधच्छेदोपि ग्राह्यः । ननु न बोधो ऽबोध इत्युक्ते भवत्येव विरोधः । न विद्यते बोधो यस्मात्स इति समासे कथं विरोध इति चेन् न । तथापि बोधाभाव प्रवेशस्यापरिहाराद्विरोध एव । अन्यपदार्थ प्रधान-बहुव्रीहेस्स्वपदमात्र प्रधानस्य तत्पुरुषस्य श्रेष्ठत्वाच्च नासौ समास इत्येतमर्थं साहित्यमुद्रयाऽऽह ॥ राजेति ॥ तत्पुरुषस्य श्रेष्ठत्वाद्राजेत्युक्तम् । अन्यस्य यस्य स तथेति वाक्यान्तरस्य । पदं यस्येति पदम् । यद्वा अन्यस्य प्रतिपादकं वा पदं तस्य सेवनम् । बहुव्रीहिवदन्यपदार्थप्रधानो न भवतीत्यर्थः । राजा यथाऽन्यपदानुसरणं न करोति तथेति ध्वनिना राजोपमा । चौर्येण बहुव्रीहि-मांश्चोरोपि भवतीत्यतश्चोरस्येति बहुव्रीहेर्विशेषणमुक्तम् । स्वस्मिन्धनाभावाच् चोरोप्यन्यानुयायी । अयमपि तथेति भावेनोक्तम् अन्यानुयायितेति ॥ १४९८,१४९९ ॥
सत्यप्रमोदटीका
बहुव्रीहिस्तु जघन्यत्वात् सम्भवति तत्पुरुषो नाश्रयणीय इति साहित्यमुद्रयाऽऽह राजेति । नान्यस्येति । स्वपदमात्र-मात्रप्रधानः । चोरस्य चौर्येण बहुव्रीहिमतः ॥ १४९८, १४९९ ॥
युक्तिमल्लिका
श्रेष्ठं पदं समारूढः कथं नीचो बुभूषति ।
शङ्कास्कन्दितमूर्तिस्सा विद्या नोर्ध्वं यियासति ॥ १५०० ॥
सुरोत्तमटीका
तथापि प्रकृते किमित्यत आह ॥ श्रेष्ठमिति ॥ समारूढश्शब्दः प्रधानसमासे सत्यप्रधान समासायोगादिति भावः । किं च तत्पुरुषपक्षे दमइन्द्रियनिग्रह इत्यादाविव प्राक्शङ्कितविद्यां विद्यापदेनानूद्य भिदा बोध इति भिदाबोधस्यैव विद्यात्वविधानं करोतीति वाक्यार्थः सम्भवति । अस्यैव विशेष्यपदत्वात् । बहुव्रीहौ त्वस्य विशेषणपदत्वाद् विशेष्यपदान्तर-मध्याहार्यम् । तथा अतोऽपि तत्पुरुष एव श्रेयान् । तथा च प्रायपाठविरोधः । तत्पुरुषयोश्चभवत्तत्पुरुषस्य विरुद्धत्वेनाभावघटिततया गुरुत्वेनासमर्थतया-क्लिष्टत्वेन चास्मत्तत्पुरुष एव श्लाघ्यः । नन्वनुवादकपदमेव विधायकवाक्येऽपि विशेष्यतया सम्बध्यत इति चेत् । तत्राह ॥ शङ्केति ॥ शङ्कायां शङ्काग्रन्थे आस्कन्दिता प्राधान्येन विद्यमाना मूर्तिर्यस्यास्सा तथोक्ता । सा विद्या तदनुवादरूपतयाऽस्मिन् वाक्ये विद्यमानाविद्या । विद्यापदमित्यर्थः । ऊर्ध्वं विधायक वाक्यमूर्धनि । आवृत्तेरपि दोषत्वाद् अयमपि पक्षो न साधीयानिति भावः । शङ्काग्रन्थादपि नावृत्ति तदनुवादरूपादस्माद्ग्रन्थादपि नावृत्तिरिति सूचनाय शङ्का स्कन्दितमूर्तिरित्युक्तम् ॥ १५०० ॥
सत्यप्रमोदटीका
दम इन्द्रियनिग्रह इत्यादिपूर्ववाक्येषु उद्देश्यवाचक-पदानां पूर्वं पाठात्तत्प्रायानुरोधेन विद्यामुद्दिश्य भिदा बोधत्वं विधीयते इति अवश्यं वाच्यम् । अन्यथा प्रायपाठविरोधापत्तेः । इन्द्रियनिग्रह इत्यादिषु तत्पुरुषत्वेन विधेयत्वं सम्भवति विशेष्यपदत्वात् । भिदाबोध इत्यत्र बहुव्रीह्या-श्रयणे तस्य विशेषणपदत्वापत्त्या विशेष्यं पदान्तरमध्याहार्यम् । तथा च अध्याहार एव दोषः । अनुवादकमेव विद्यापदं विधेयकोटौ विशेष्यत्वेन सम्बध्यते इति चेत्तत्राह श्रेष्ठमिति । अनुवादकं हि पदं श्रेष्ठम् । शङ्काऽ-स्कन्दित मूर्तित्वात् । तत्तादृशम् अनुवादपरम् ऊर्ध्वं विधेयपरस्य भिदाबोध इति पदस्य विशेष्यतां न यियासति । अन्वयायोग्यमिति भावः । विरुद्धत्रिक-द्वयापत्तेः ॥ १५०० ॥
युक्तिमल्लिका
स्थानान्तरेष्वदृष्टोऽस्या न स्थानद्वयसङ्गमः ।
स्त्रीपुंसयोश्च योगोऽयं सूते दोषकुमारकम् ॥ १५०१ ॥
सुरोत्तमटीका
अस्मिन्पक्षे दोषान्तरं चाह ॥ स्थानान्तरेष्विति ॥ जिह्वोपस्थजयोधृतिः । शमो मन्निष्ठताबुद्धेर्दम इन्द्रियनिग्रह इत्यादावदृष्टः । स्थानद्वयसङ्गमो ऽनुवादस्थानेविधिस्थाने च सङ्गमः । अस्या विद्यायाः । विद्यापदस्येत्यर्थः । नेति योजना । स्थलान्तरेष्वावृत्तेरदर्शनाद् अत्रैव कथ-मावृत्तिरिति भावः । दोषान्तरं चाह ॥ स्त्रीपुंसयोरिति ॥ स्त्रीलिङ्गपुल्लिङ्गयो-रित्यर्थः । बहुव्रीहेर्विशेष्यलिङ्गत्वनियमाद् विशेष्यस्य च स्त्रीलिङ्गत्वाद् भिदा बोधेति पदप्रयोगः स्यात् । तत्पुरुषे तु बोधस्यैव विशेष्यत्वात् तस्य च नित्यपुल्लिङ्गत्वान् न काप्यनुपपत्तिरिति भावः । स्त्रीपुरुषयोगे पुत्रोत्पत्तेरावश्य-कत्वाद् दोषकुमारकमित्युक्तम् ॥ १५०१ ॥
सत्यप्रमोदटीका
अध्याहारपक्षे दोषान्तरमाह स्थानान्तरेषु इति । पूर्वत्र शमो मन्निष्ठताबुद्धेर् इत्यादौ सर्वत्र केवलम् उद्देश्यपरपदानि विधेय-परपदेभ्यो नियमेन पूर्वमेव प्रयुक्तानि । अत्रैव पुनस् तस्य उभयत्र सङ्गमः विरुद्धः । किञ्चैवमपि बहुव्रीहेर्विशेषणपदत्वेन विशेष्य समानलिङ्गवत्त्वस्य नियतेः, भिदाया अबोधो यस्याः सा भिदाबोधा अविद्येत्येव स्यान् न पुनः भिदाबोध इति । दोषं साहित्यमुद्रयाऽऽह स्त्रीपुरुषयोरिति । योगः विशेषण-विशेष्यभावेन प्रयोगः ॥ १५०१ ॥
युक्तिमल्लिका
अध्याहारो बहुव्रीहिवृद्ध्यै किं स्याद्विचारय ॥ १५०२ ॥
सुरोत्तमटीका
क्रियापदादेरध्याहार सम्भवेऽपि रूढिं विना योग-मात्रेणैव प्रवृत्तस्य साकाङ्क्षविशेषणपदरूपबहुव्रीहेः प्रधानभूतविशेष्यपदस्यैवा-ध्याहारो महादोष इत्येतत्साहित्यमुद्रयोपपादयति ॥ अध्याहार इति ॥ यथा अधिकारारे क्रियमाणे गृहस्थित बहुव्रीहेरेव नाशो भवति । तथाऽध्याहारा-भावेपि पूर्वोत्तरवाक्य समाख्यया सम्भवत्प्रधानसमासे सति शाकाद्यध्याहारं विना प्रधानान्नस्यैवाध्याहारे बहुव्रीहिनाशवत्प्रधानपदाध्याहारसापेक्षो बहुव्रीहि-रेवायमनपेक्षस्स्यादिति भावः ॥ १५०२ ॥
सत्यप्रमोदटीका
‘यत्रानवसरोऽन्यत्र’ इत्युक्ताम् अध्याहारमर्यादामुल्लङ्घ्य कुतोऽयं स्वच्छन्दाध्याहारो बहुव्रीहिसमासपक्षस्य क्षपणकर एव न पोषक इति श्लेषेणाह बह्विति । अधिक आहारः सञ्चितस्य व्रीहेः क्षपणहेतुरेव यथा तथेति ध्वनिः ॥ १५०२ ॥
युक्तिमल्लिका
तर्हि सत्सदसच्चासन्न च कालजवोऽपि न ।
यदा शास्त्रं समाकृष्य शयीत सलिले हरिः ॥ १५०३ ॥
आरुवन्दे हि देवेषु वायुस्तस्य प्रसादतः ॥ १५०४ ॥
सुरोत्तमटीका
प्राग्भेदे प्रमाणतयोक्तश्रुतिगीतावाक्यस्य विस्तरेणार्थं वदंस्तत्समाख्याबलात्तेनैव कृतेऽस्मिन्नपि वाक्ये तदनुसारेणैवार्थो वक्तव्य इत्याह ॥ तर्हीति ॥ यदा शयीत तर्हीति सम्बन्धः । उभयमित्यस्यार्थ-स्सदसदिति । मूर्तामूर्तयोरेकत्वायोगात् सन्नित्यमसदनित्यमिति व्युत्पत्त्या नित्यानित्यपुराणादिकमनेन गृह्यते । शयीतेत्यस्य योग्यतया शेषपूरणं सलिल इति । अपकृष्येत्यस्यार्थकथनं स्वहृद्गुहां प्रवश्येति ॥ १५०३,१५०४ ॥
सत्यप्रमोदटीका
एतद्वाक्यस्य भेदपरत्वं पूर्वोदाहृतश्रुतिगीतिका-वाक्यविवरणेन द्रढयति तर्हीत्यादिभिः । अत्र भेदस्मरणस्य मुक्तिकालीनत्व-वर्णनेन भेदस्य तात्त्विकत्वम् । सदसन्नेति मूर्तामूर्तात्मकजगत्प्रलयोक्त्या परान्तकालत्वोक्तिः । सलिले ‘अप्रकेतं सलिलमासीत्’ इत्युक्तप्रलयोदधौ । महोदधिशयोन्तक इत्युक्तेः । सृतेर् गताः ‘अस्माल्लोकात्प्रेत्य’ इत्युक्त्या मुक्ताः । परमात्मनि जगज्जन्ममरणादिकारणत्वलक्षणं महिमानमनुसन्धाय स्वभावशक्त्या फलनैरपेक्ष्येण आत्मनि भिदां स्मरन्ति ॥ १५०३-१५०७ ॥
युक्तिमल्लिका
तदा प्रागसतो जन्म सतो मृतिमथात्मनि ।
भिदां च ये पणमृते स्मरन्तीशसृतेर्गताः ॥ १५०५ ॥
तेषामुपविशाम्नाय ध्वनिं वैकुण्ठवासिनाम् ।
इत्याह श्रुतिगीतायां भगवान्बादरायणः ॥ १५०६ ॥
मूर्तामूर्ताख्यभूतानां लयो ब्रह्मलयः किल ।
कालस्य रूपमात्रं तु तदाप्यस्ति जवोस्य न ।
जरामरणयोग्यस्य जवार्हजगतः क्षयात् ॥ १५०७ ॥
नित्यवेदात्मकं शास्त्रमपकृष्य स्वहृद्गुहाम् ।
प्रवेश्य शेते किल स वटपत्रपुटे प्रभुः ॥ १५०८ ॥
सुरोत्तमटीका
तदा प्रलयकाले । तर्हीत्यस्यार्थोऽयम् । ईशेति योग्यतया हरेस्संबोधनम् । प्रलये संसारिणां सुप्तत्वेन स्मरणासम्भवात् सृतेर्गता इत्युक्तम् । जनिमृतिपदाभ्यां भगवन्निष्ठं तत्कर्तृत्वं लक्ष्यते । जगज्जन्मादिकारणत्वम् । अत एव परमात्मनि भेदं च ये स्मरन्तीत्यर्थः । प्रकारान्तरेण पदच्छेदासम्भवान् निरवकाशमिदं पद्यम् ॥ १५०५-१५०८ ॥
सत्यप्रमोदटीका
अपकृष्य पदसमन्वयपरत्वं समापाद्य ॥ १५०८ ॥
युक्तिमल्लिका
एवं च ब्रह्मकल्पान्ते सन्ति सन्तस्स्मरन्ति च ।
जगतां जन्ममरणे परमात्मनि सर्वतः ॥ १५०९ ॥
भिदां चेत्यागतं स्पष्टं शयानस्य तु देहिता ।
स्मर्तृणां बहुता चार्थात्प्राप्ता शब्दार्थविन्मते ॥ १५१० ॥
सुरोत्तमटीका
एतद्वाक्यफलितमाह ॥ एवं चेति ॥ भिदां च स्मरन्तीति सम्बन्धः ॥ १५०९,१५१० ॥
सत्यप्रमोदटीका
देहिता इति मुक्तप्राप्यस्य साकारता, स्मरन्तीति बहुवचनेन मुक्तानां बहुत्वं यदेति शास्त्रमिति च कालो वेद इति जडद्वयस्य इत्यादिसिद्धिः । तेन ‘यत्र तु सर्वमात्मैवाभूत्’ इत्यत्र औतिभिः कल्पितो ऽद्वितीयतावादो निराकृतो ध्येयः ॥१५०९-१५११ ॥
युक्तिमल्लिका
यतो जडद्वयं मुक्तो मुक्ताश्च बहवो भवन् ।
तेनाद्वितीयतामुक्तौ शुक्तौ रूप्यमभूत्तव ॥ १५११ ॥
सुरोत्तमटीका
जडद्वयं वेदकालात्मकम् । तेन कारणेन । तव मते । मुक्तावद्वितीयता ॥ १५११ ॥
युक्तिमल्लिका
जीवन्मुक्तिर्हि देहादौ सति मुक्तिरियं परा ।
परान्तकालादपरो मुक्तेः कालो न यौक्तिकः ॥ १५१२ ॥
सुरोत्तमटीका
ननु जीवन्मुक्तिदशेयं भवत्वित्यत आह ॥ जीवन्मुक्ति-र्हीति ॥ देहादौ सति सत्येव जीवन्मुक्तिरङ्गीक्रियते । शुकनारदादौ तथा दर्शनात् । इयं चराचरसकलजगत्क्षयरूपापरममुक्तिः । परान्तकालाद् ब्रह्मणश्शतायुरात्मकपरस्यान्तकालात् ॥ १५१२ ॥
सत्यप्रमोदटीका
सकलप्रपञ्चनाशश्रवणान्नेयं जीवन्मुक्तिः किन्तु परम-मुक्तिरेव । जीवन्मुक्तौ देहादीनामवस्थितेरित्याह जीवदिति । मुक्तेः परममुक्तेर् अपरः कालो ऽपरमुक्तिकाल इति यावत् ॥ १५१२ ॥
युक्तिमल्लिका
तदापि भेदस्तद्बोधश्चास्ति श्रौतस्मृतेर्बलात् ॥ १५१३ ॥
सुरोत्तमटीका
भिदामित्युक्त्या भेदः स्मरन्तीत्युक्त्या तद्बोध इति विवेकः । श्रौतस्मृतेः श्रुतिमूलव्यासवाक्यात्मकस्मृतेः ॥ १५१३ ॥
सत्यप्रमोदटीका
बोधः स्मरन्तीत्युक्तः । सन्ततं हरिस्मरणं तद्धर्मिक-भेदस्मरणमेवेति हृदयम् । आधारता भेदव्याप्तलिङ्गम् । श्रौतस्मृतेः श्रुति-गीतिकायाः पञ्चमवेदस्य । तद्बोध एव भिदाबोधः न तु भिदाया अबोधः ॥ १५१३, १५१४ ॥
युक्तिमल्लिका
आत्मनीति हि सप्तम्या यद्भेदाधारतोदिता ।
अतस्तत्परमं तत्त्वं विद्या तद्बोध एव हि ॥ १५१४ ॥
सुरोत्तमटीका
यद् यस्मात् । उदिता परमात्मनः । अतः मुक्तावपि भेदस्मरणकथनात् । तद् भेदात्मकं तत्वम् । तद्बोधः भेदबोधः । तस्माद्भिदाया बोध इत्येव समासो वक्तव्यः नत्वपर इति भावः ॥ १५१४ ॥
युक्तिमल्लिका
भेददृष्ट्याऽभिमानेन निस्सङ्गेनापि कर्मणा ।
इत्याह स प्रभुर्व्यासो मोक्षसाधनबोधने ॥ १५१५ ॥
सुरोत्तमटीका
भेददृष्टेर्मोक्षसाधनविरक्तिभक्तिभ्यां सह भागवत एव पाठाद् भिदाबोध एव विद्या । नत्वबोध इत्याह ॥ भेददृष्ट्येति ॥ भेददृष्ट्या भगवति भेदापरोक्षज्ञानेन । अभिमानेन तस्मिन्भगवत्येव ममायं स्वामीति स्नेहेन । भक्तयेत्यर्थः । इतरत्स्पष्टम् । ज्ञानेनेत्येवोक्ते ऐक्य ज्ञानस्यापि प्राप्ते-स्तन्निरासाय भेददृष्ट्येति ज्ञानं विशिनष्टि । भक्तेस्स्वरूपापरिज्ञानाद् अभिमानेनेति तां च विशिनष्टि । कर्मणो प्रधानसाधनत्वात्तस्य ज्ञानभक्तिसाम्यं गर्हयितुमपि पदम् । अनेन वैराग्यमुपलक्ष्यते । एतदुपलक्षितवैराग्य समुच्चयाय वा अपि पदम् ॥ १५१५ ॥
सत्यप्रमोदटीका
मोक्षसाधनेषु प्राधान्येन भेदसाक्षात्कारस्य भागवते पठनादपि न अबोधः विद्याशब्दार्थ इत्याह भेदेति । दृशिर्हि साक्षात्कारः । ‘दृष्ट्वैव तं मुच्यते’ इत्युक्तब्रह्मसाक्षात्कारो ऽपि भेदसाक्षात्कार एव । भेदस्य तद्धर्मिकस्य तत्स्वरूपत्वात् ॥ १५१५ ॥
युक्तिमल्लिका
भगवत्यभिमानो हि भक्तिर्निस्सङ्गकर्म च ।
निवृत्तिस्सैव विद्वद्भिर्विरक्तिरिति चोच्यते ॥ १५१६ ॥
सुरोत्तमटीका
सैव निवृत्तिरेव ॥ १५१६ ॥
सत्यप्रमोदटीका
अभितो हरेर् मानेन बहुमानेन आग्रहेण च । निः-सङ्गेनापि कर्मणा फलाभिसन्धिरहितनिवृत्तकर्मणा च मुक्तः सन् ‘कर्तृत्वा-त्सगुणं ब्रह्म पुरुषं पुरुषर्षभम् । स सङ्गत्य’ इत्युत्तरवाक्येनान्वयः ॥१५१६॥
युक्तिमल्लिका
भेददृष्टिं च तत्पंक्तौ ज्ञानाख्यां यां पुरा जगौ ।
अकाराख्यकुठारेण किं तां हन्ति मुरान्तकः ॥ १५१७ ॥
सुरोत्तमटीका
यां ज्ञानाख्यभेददृष्टिम् । पुराभक्तेः पूर्वम् । अकाराख्य-कुठारेण अबोध इति पदच्छेदे भेददृष्टिनिन्दकोयमकारः । तेन कुठारेण । तां ज्ञानभक्तिविरक्त्याख्यमोक्षसाधनेषु प्रथमां भेददृष्टिम् ॥ १५१७ ॥
सत्यप्रमोदटीका
पुरा जगौ भागवते तृतीयस्कन्धे । तां भेददृष्टिम् । किं हन्ति । दशमस्कन्धे भिदाया अबोधेन इत्युक्तिकुठारेण कथं निषेधति । स्वव्याघातापातात् । मुरान्तकः । ऐक्यवादिनः मुरासुरस्य संहर्ता ॥१५१७॥
युक्तिमल्लिका
तदबोधस्तवैवासीद्भेदोयमकुतो भयः ॥ १५१८ ॥
सुरोत्तमटीका
तत् तस्माद् अबोधः पूर्वोत्तरवाक्यार्थाबोधः ॥१५१८॥
सत्यप्रमोदटीका
अबोधः विपरीतबोधः । तव अपव्याख्यातुः ॥ १५१८ ॥
युक्तिमल्लिका
द्विरूपाप्येकरूपाया रथिसारथितां व्यधात् ।
सेयं वाक्पार्थकल्पा मे त्वं चापार्थो भवो ध्रुवम् ॥ १५१९ ॥
सुरोत्तमटीका
इममेवार्थं साहित्यमुद्रयाऽलङ्करोति ॥ द्विरूपेति ॥ द्विरूपा अबोधबोधाख्यरूपद्वयानुकूलेव स्थितापि एकरूपा समास प्राधान्या-दिना बोध इत्येव रूपवती । रथिसारथिताम् अन्ततस्सिद्धरूपेण परं प्रतिरथित्वं स्वयुक्तिरूपेण सारथ्यं च । अथवा भेददृष्ट्या भिदां स्मरन्तीति निरवकाशरूपं भिदा बोध इति सावकाशरूपं च यस्या भागवत वाचः सा द्विरूपा । यद्वा आपाततो व्यावहारिकत्वशङ्कार्हा । साक्षान्मोक्षसाधनत्वसाक्षान्मोक्षकालीनत्व युक्त्या तदनर्हा चेति द्विरूपा । एतादृश्यपि या पुनरेकरूपा निरवकाश-वाक्यद्वयसमाख्यया अस्या अपि निरवकाशत्वप्राप्त्या सर्वापि निरवककाश-त्वाख्यैकरूपा । रथिसारथितां परं प्रतियुद्धाय प्रयुक्तत्वाद् भिदाबोध इति श्लोको रथी । निरवकाशसमाख्यारूपतया इमौ श्लोकौ सारथी । इमौ वा श्लोकौ भेदसाधकतया परं प्रत्यपि प्रयोक्तुं शक्यत्वाद्रथिनौ । मुक्तिकालीनत्व-मोक्षसाधनपङ्क्तिस्थत्वाख्ययुक्तिगर्भत्वात् सारथिनौ च । एवं च द्वेधा द्विरूपत्वमेकरूपत्वं च । त्रेधा रथिसारथित्वम् । एकं विचार्यवाक्यं समाख्यावाक्यद्वयं चेति त्रयश्च पार्था लब्धा इति द्रष्टव्यम् । अत एवाह ॥ सेयं वामिति ॥ पार्थकल्पा पार्थत्रयकल्पा । एकपार्थेनेव ईदृशनिरवकाशैकवाक्येनैव परो जेतुं शक्यते । बहुतरवाक्येषु सत्सु किं वक्तव्यमिति भावेन पार्थत्रय-कल्पेत्युक्तम् । अपार्थः प्रत्युत्तरासमर्थत्वाद्व्यर्थः । अस्माकमिव निरवकाश-वाक्यरूपपार्थरहितत्वाद् अपार्थश्च । पार्थस्यापि षण्डरूपेण सहप्राक् द्विरूपस्य पुनः पुंरूपस्यैव दर्शनाद् द्विरूपत्वमेकरूपत्वं च रथित्वं सारथित्वं च उत्तर-गोग्रहणे प्रसिद्धमेव ॥ १५१९ ॥
सत्यप्रमोदटीका
साहित्यमुद्रया रञ्जयति द्विरूपेति । अविमर्शकाले अबोध इति वस्तुगत्या बोध इति द्विरूपेत्यर्थः । उत्तरगोग्रहणकाले पार्थो ऽविवेकेन कुरूणां प्राक् सारथिवद् अनन्तरं रचितया यथेति ध्वनिः । वाक् भागवतवाक्यं पार्थकल्पा पार्थसदृशी ॥ अपार्थः प्रत्युत्तरासमर्थः ॥१५१९॥
युक्तिमल्लिका
अतो मम गृहान्नीता भवतोऽप्युत्तरा कृतीः ।
गा गृह्णामि न सन्देहस्त्वं तु दुर्योधनो भव ॥ १५२० ॥
सुरोत्तमटीका
अतः निरवकाशभगवद्वाक्यविरुद्धत्वात् । गास् तवैक्य-श्रुतीः । दुर्योधनः युद्धासमर्थः ॥ १५२० ॥
सत्यप्रमोदटीका
मे गृहात् सदागमान् नीता दुराग्रहेण अन्यथा योजिताः । उत्तररूपा गा वाक्यानि । गृह्णामि याथातथ्येन योजयामि । दुर्योधनः कथायामसमर्थः ॥ १५२० ॥