३७ नेति नेतीत्यादिवाक्यार्थः

या श्रुतिर्नेति नेत्यात्मा गृह्य इत्यादिरूपिणी

नेति नेतीत्यादिवाक्यार्थः

युक्तिमल्लिका

या श्रुतिर्नेति नेत्यात्मा गृह्य इत्यादिरूपिणी ।

साऽप्यात्मानं जडाज्जीवाद्भिन्नं वर्णयति स्फुटम् ॥ १४८४ ॥

सुरोत्तमटीका

श्रुत्यन्तरमपि भेदे प्रमाणयति ॥ या श्रुतिरिति ॥१४८४॥

सत्यप्रमोदटीका

नेति नेति इति द्विरभिधानसार्थक्याय योग्य-मध्याहारमाह जडं न जीवचिच्च नेति । परार्थे तु तद्वैयर्थ्यमेवेत्याह तवेति

॥ १४८४, १४८५ ॥

युक्तिमल्लिका

जडं नात्मा जीवचिच्च नात्मेत्यर्थो भवेन्मम ।

तव द्विधा निषेधस्याभावेन द्वौ नञौ वृथा ॥ १४८५ ॥

सुरोत्तमटीका

योग्यशेषं पूरयित्वा श्रुतेरर्थमाह ॥ जडं नात्मेति ॥ एकमेवाद्वितीयं नेहनानेत्यादौ द्विधा निषेधस्याभावेन द्वौ नञौ वृथेति सम्बन्धः ॥ १४८५ ॥

युक्तिमल्लिका

यथा घटो नेति पटो गृह्य इत्युदिते सति ।

घटादत्यन्तभिन्नोऽसौ पटस्सिद्ध्येन्न चापरम् ॥ १४८६ ॥

सुरोत्तमटीका

जडं नेति आत्मागृह्य इत्युक्त्याभेदप्राप्तिर्भवतीत्यत्र दृष्टान्तमाह ॥ यथेति ॥ १४८६,१४८७ ॥

सत्यप्रमोदटीका

अनेन भेदस्यैव सिद्धिर्न मिथ्यात्वमित्यत्र दृष्टान्तमाह यथेति ॥ १४८६ ॥

युक्तिमल्लिका

तथा जडजगन्नेति गृह्यो जीवजगच्च न ।

इत्यात्मा गृह्य इत्युक्ते कथमत्यन्तभिन्नता ।

जडजीवाख्यजगतो न सिद्ध्येत्परमात्मनः ॥ १४८७ ॥

द्विर्निषेधबलाज्जीवजडयोश्च ग्रहो ध्रुवः ।

मिथ्यात्वाशानुपूर्वोक्तनिदर्शनपराहता ॥ १४८८ ॥

सुरोत्तमटीका

पूर्वोक्तनिदर्शनं यथा घटोनेति पटो गृह्य इति निदर्शनम् । घटोनेति पटो गृह्य इत्युक्ते यथा घटस्य मिथ्यात्वं नायाति । प्रत्युत तद्भेद एव पटस्यायाति । तथा जगन्नेत्यात्मागृह्य इति त्वद्रीत्योक्तेपि जगतो न मिथ्यात्वं किं तु जगद्भेद एव आत्मनि सिद्ध्यतीति भावः ॥ १४८८ ॥

सत्यप्रमोदटीका

प्रकृते सङ्गमयति तथेति ॥ १४८७,१४८८ ॥

युक्तिमल्लिका

अन्यमीशमिति प्राह जीवादन्यमधीश्वरम् ।

श्रुतिः प्राग्द्वासुपर्णेति प्रोक्तवाक्यसमाख्यया ॥ १४८९ ॥

सुरोत्तमटीका

भेदे श्रुत्यन्तरं चाह ॥ अन्यमीशमिति ॥ श्रुतिर् आथर्वणोपनिषत् । प्राक्पूर्वभागे ॥ १४८९ ॥

सत्यप्रमोदटीका

‘जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः’ इति श्रुतिं भेदे प्रमाणयति अन्यमिति ॥ १४८९, १४९० ॥

युक्तिमल्लिका

घटकुड््यवदन्यत्वे साम्यं स्यात्तेन तं श्रुतिः ।

ईशमाह गुणाख्यं च महिमानं पुनर्जगौ ॥ १४९० ॥

सुरोत्तमटीका

अतः जीवादन्यमित्युक्तं तं परमात्मानम् ॥ १४९० ॥

युक्तिमल्लिका

त्रितयज्ञानतो जीवो वीतशोको भवेत्किल ।

इतिशब्देन तज्ज्ञानं सप्रकारकमाह च ॥ १४९१ ॥

सुरोत्तमटीका

त्रितयज्ञानतो ऽन्यत्वसर्वेश्वरत्व सगुणत्वज्ञानतः । अन्यमीशम् अस्य परपरमात्मनः महिमानं च इति द्वासुपर्णेत्यादि वाक्योक्त प्रकारेण यो वेति सवीतशोको भवतीति वाक्यार्थलाभास्त्रितय ज्ञानत इत्युक्तम् ॥ १४९१ ॥

सत्यप्रमोदटीका

त्रितयम् अन्यम् ईशं महिमानं चेत्येतत्त्रितयं सप्रकारक-मिति । निष्प्रकारकज्ञानस्यालीकत्वादिति भावः ॥ १४९१ ॥

युक्तिमल्लिका

साक्षान्मोक्षप्रदत्वोक्त्या तत्त्वमासीदिदं त्रयम् ।

तस्मादभेदस्साम्यं च नैर्गुण्यं च निराकृतम् ॥ १४९२ ॥

सुरोत्तमटीका

तस्मादेतच्छ्रुतिबलात् ॥ १४९२ ॥

सत्यप्रमोदटीका

साम्यम् अत्यन्तसाम्यम् । परमं साम्यमित्यत्रोक्तं साम्यं च जरामरणादिराहित्येनैवेति सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च इति गीतायामेव विवरणात् ॥ १४९२ ॥

युक्तिमल्लिका

वीतशोक इति प्राह यतस्स ज्ञानिनः फलम् ।

ततो जीवेशभेदेऽस्यास्तात्पर्यं चावगम्यते ॥ १४९३ ॥

सुरोत्तमटीका

अस्याः श्रुतेः ॥ १४९३ ॥

सत्यप्रमोदटीका

तात्पर्यं फलरूपतल्लिङ्गोक्या ॥ १४९३ ॥

युक्तिमल्लिका

एष सर्वेश्वर इति काचिद्वक्ति तमीश्वरम् ।

स सर्वस्य वशी सर्वस्येशान इति चापरा ।

अतस्सयुक्तिकः स्वामिभृत्यभेदः श्रुतौ श्रुतः ॥ १४९४ ॥

सुरोत्तमटीका

काचिन् माण्डूकोपनिषत् । अपरा सर्वस्य वशी सर्वस्ये-शान इत्यादिरूपा बृहदारण्यकोपनिषत् । माण्डूकोपनिषदि एष सर्वेश्वर एष सर्वज्ञ एष सर्वान्तर्याम्येषयोनिस्सर्वस्येति सर्वेश्वरत्वे सर्वज्ञत्वादि युक्तित्रय कथनाद् बृहदारण्यके च सर्ववशित्वादि युक्तिकथनात् सयुक्तिक इत्युक्तम् ॥ १४९४ ॥

सत्यप्रमोदटीका

सयुक्तिक इति तत्रैव वाक्यशेषे सर्वज्ञत्वसर्व-वशित्वादियुक्तीनामुक्तत्वादिति भावः ॥ १४९४ ॥

युक्तिमल्लिका

य आत्मनि सदा तिष्ठन्नात्मनोऽन्तर इत्यपि ।

तेऽन्तर्याम्येष इत्याद्याः श्रुतयस्सूत्रसूचिताः ।

जगुर्जीवेशयोर्भेदं शतशोथ सहस्रशः ॥ १४९५ ॥

सुरोत्तमटीका

य आत्मनीत्यनेन य आत्मनि तिष्ठन्नात्मनोन्तरोय-मात्मानवेदेति बृहदारण्यक वाक्यं गृह्णाति । ते अन्तर्यामीत्यनेन एष त आत्मान्तर्यामीति तत्रत्यं वाक्यान्तरं गृह्णाति । एतेषां वाक्यानां शारीर-श्चोभयेपि हि भेदेनैनमधीयते अन्तर्याम्यधिदेवादिषु तद्धर्मव्यपदेशादिति सूत्रद्वयविषयवाक्यत्वात् सूत्रसूचिता इत्युक्तम् ॥ १४९५ ॥

सत्यप्रमोदटीका

‘य आत्मनि तिष्ठन्’ इति श्रुतिर् औतिभाष्येऽपि भेदपरत्वेनाङ्गीकृता (भे.प.ब्र.सू.प.४७) ॥ १४९५ ॥

युक्तिमल्लिका

उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः ।

यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ।

इति गीतासु भेदोऽयं सयुक्तिकमुदाहृतः ॥ १४९६ ॥

सुरोत्तमटीका

यो लोकत्रयमाविश्येति युक्तिकथनात्सयुक्तिकमित्युक्तम् ॥ १४९६ ॥

सत्यप्रमोदटीका

सयुक्तिकमिति । प्रवेशभरणकर्तृत्वादि भेदकधर्मोक्तेः ॥ १४९६ ॥