३६ मिथ्योपासनायाः खण्डनम्

अविद्यमानो भेदोऽयं यद्युपास्त्यर्थमुच्यते

मिथ्योपासनायाः खण्डनम्

युक्तिमल्लिका

अविद्यमानो भेदोऽयं यद्युपास्त्यर्थमुच्यते ।

तर्हि त्र्यक्षस्सहस्राक्षः सहस्राक्षस्त्रिलोचनः ॥ १३८८ ॥

कुतो न कीर्त्यते ध्यातुं तस्माद्यद्वस्तु यादृशम् ।

तत्तथैव वदेद्वेदो ध्यातुं वा द्रष्टुमेव वा ॥ १३८९ ॥

सुरोत्तमटीका

यच्चासम्भावनाविपरीतभावनानि वृत्त्यर्थं मननोपासने इति वदन्परः पुनरविद्यमानस्यैवोपासनां वक्ति । तच्च न केवलमुक्तविधया स्वमतविरुद्धं किं तु युक्तिश्रुतिस्मृति विरुद्धं चेत्याह ॥ अविद्यमान इति ॥ तस्मात् तत्तद्रूपवैपरीत्येन तेषां तेषां ध्यानाकथनात् । द्रष्टुमेवेति वदताऽतत्त्वो-पासनया तत्वदर्शनं च विरुद्धमिति सूचयति ॥ १३८८,१३८९ ॥

सत्यप्रमोदटीका

यदुक्तं विवरणे ‘श्रवणमङ्गि । प्रमाणस्य प्रमेयाद्यवगमं प्रत्यव्यवधानात् । मनननिदिध्यासने तु चित्तस्य तदेकाग्रवृत्तिकार्यद्वारेण ब्रह्मानुभवहेतुतां प्रपद्येते इति । तदेवम् अङ्गाङ्गीभावेन समानविषयकत्वा-वश्यम्भावेऽपि निदिध्यासनापरपर्यायध्यानस्य अविद्यमानविषयकत्वं श्रवणस्य विद्यमानविषयकत्वं चाहुः । भेदस्य च अविद्यमानत्वं केवलमुपासनार्थं तदुक्तिर्भेदश्रुतिषु इति सङ्गिरन्ते । तदेतदपाकर्तुम् उपक्रमते अविद्यमाने-त्यादिभिः । तस्मादिति तदुक्तमनुव्याख्याने (४१५) ‘न किञ्चिदन्यथा ज्ञेयं ध्येयं वा तेन कुत्रचित् । किमु सर्वोत्तमो विष्णुरि’ति ॥ १३८८, १३८९ ॥

युक्तिमल्लिका

सत्यं वदेति योऽन्यस्याऽप्यसत्योक्तिं निवारयेत् ।

स वेदः सर्वमर्यादारक्षको नानृतं वदेत् ॥ १३९० ॥

सुरोत्तमटीका

अनृतं ध्यानार्थमविद्यमानम् । परेषामनृतकीर्तनं निवारयन्वेदस्स्वयं कथमनृतं कीर्तयेदिति भावः ॥ १३९० ॥

सत्यप्रमोदटीका

नेति ‘नाविद्यमानं ब्रुवते वेदा ध्यातुं न वैदिकाः’ इति प्रमाणात् ॥ १३९०, १३९१ ॥

युक्तिमल्लिका

यो यो देवो यया कृत्या येन लिङ्गेन यैर्गुणैः ।

वर्तते श्रुतिरप्येषा तं तं ब्रूते तथा तथा ।

न व्यत्यासात्क्वचिद्वक्ति ततस्सत्यव्रतैव सा ॥ १३९१ ॥

सुरोत्तमटीका

ततः व्यत्यासेनाकथनात् । सा श्रुतिः ॥ १३९१ ॥

युक्तिमल्लिका

किञ्चोपास्त्यै भिदोक्तिश्चेदैक्योक्तिश्च कथं न ते ।

उपासीतेति तु पदं नोभयत्रापि दृश्यते ॥ १३९२ ॥

सुरोत्तमटीका

उभयत्र तत्त्वमसीत्यादौ द्वा सुपर्णेत्यादौ च ॥१३९२॥

सत्यप्रमोदटीका

उभयत्र ‘तत्त्वमसि द्वा सुपर्णेत्यत्र ॥ १३९२ ॥

युक्तिमल्लिका

कल्पना चेत्क्व सा न स्याद्वस्तुतस्त्वैक्यमेव ते ।

सर्वप्रत्यक्षतो बाधादुपास्यं स्यादसद्धि तत् ॥ १३९३ ॥

सुरोत्तमटीका

सा कल्पना । तत् प्रमाणबाधितमैक्यम् । अविद्यमान-स्यैवोपासनमिति मते ऐक्यस्यैवोपास्यत्वं न्याय्यम् । सर्वानुभवबाधितत्वेन तस्यैवाविद्यमानत्वात् । न तु भेदस्येति भावः ॥ १३९३ ॥

सत्यप्रमोदटीका

उपस्थितेति पदं द्वासुपर्णेति श्रुतौ कल्प्यते इति चेदैक्यवाक्येऽपि कल्प्यताम् । किञ्च ऐक्यवाक्य एव प्रमाणविरुद्धे तत् कल्पनं न्याय्यमित्याह सर्वेति ॥ १३९३, १३९४ ॥

युक्तिमल्लिका

अनृतात्पातकं वक्ति यो वेदो न स कुत्रचित् ।

वदेदनृतमन्यार्थमिति मन्यामहे वयम् ॥ १३९४ ॥

सुरोत्तमटीका

किं च नानृतात्पातकं परमित्यनृतस्य महापापरूपत्वं वदन्वेदः कथमनृतं वदेदित्याह ॥ अनृतादिति ॥ १३९४ ॥

युक्तिमल्लिका

न चेन्मोहार्थमनृतं वेदो वक्तीति वादिनः ।

बौद्धाद्याः केन दूष्यन्ते भूष्यन्ते वा श्रुतेर्गुणाः ॥ १३९५ ॥

सुरोत्तमटीका

न चेद् अनृतमवदन्नचेद् वेदस्याप्यनृतप्रतिपादकत्व-मस्त्विति चेत्यर्थः । गुणाः प्रामाण्यादयः ॥ १३९५ ॥

युक्तिमल्लिका

श्रुतेरनृततां क्वापि वदतीति वचस्तु यत् ।

श्रुतिप्रामाण्यरक्षायै तदन्यार्थं वदेद्बुधः ॥ १३९६ ॥

सुरोत्तमटीका

ननु नेदं यदिदमुपासत इति श्रुतिः स्वयमेवोपास्यमानम् अविद्यमानं वदति । अतः श्रुत्या कथितमपि कथं नानृतमित्यत आह ॥ श्रुतेरिति ॥ तन् नेदं यदिदमुपासत इति वाक्यम् ॥ १३९६ ॥

सत्यप्रमोदटीका

यत् ‘नेदं यदिदमुपासत’ इति वचः । तदित्यनेन सम्बन्धः ॥ १३९६ ॥

युक्तिमल्लिका

अतो नेदं यदिदमित्यादिवाक्यं न बाधकम् ।

वाच्योऽन्योर्थः श्रुतेर्गुप्त्यै त्वयापि च मयापि च ॥ १३९७ ॥

सुरोत्तमटीका

अतो ऽनुकूलार्थतया योजयितुं शक्यत्वेन सावकाश-त्वात् । प्रागुक्तश्रुतियुक्तीनां निरवकाशत्वाद्वा । श्रुतेर्गुप्त्यै श्रुतिप्रामाण्यरक्षायै । उपास्यमानस्याविद्यमानत्वे उपासनापादोक्त सकलश्रुतीनामप्रामाण्यप्रसङ्गाद् इदमेव वाक्यमन्यथा योजनीयमिति भावः ॥ १३९७ ॥

सत्यप्रमोदटीका

अतः श्रुतिप्रामाण्यरक्षायै । अन्योऽर्थ इति । तदुक्तं ता. चन्द्रिकायां (११७) श्रुतेः श्रद्धालुना श्रुत्योर्विषयभेदेन तात्त्विकविषय-त्वस्यैव वक्तव्यत्वाच्चेति ॥ १३९७ ॥

युक्तिमल्लिका

उपासनार्थं धनवान्किमनुश्रियते त्वया ।

अधनो वा नरः कश्चित्स्वानुभूतिं विचारय ॥ १३९८ ॥

विषनिर्हरणे शक्तो ध्यातव्यो गरुडस्त्वया ।

सर्पदष्टेन किमुत काकोलूकादिपक्षिणः ॥ १३९९ ॥

विघ्नध्वंसाय विघ्नेशो विद्याप्त्यै शारदा त्वया ।

मृत्युञ्जयो मृत्युजित्यै कुतस्संसेव्यते वद ॥ १४०० ॥

सुरोत्तमटीका

बहुधा स्वानुभवविरुद्धं चाविद्यमानस्योपासनमित्याह ॥ उपासनार्थमिति ॥ अविद्यमानोपासनेन फलप्राप्तिश्चेद् धनप्राप्त्यर्थमधनस्य सेवैवकर्तव्येति भावः ॥ १३९८-१४०० ॥

सत्यप्रमोदटीका

लोकानुभवविरुद्धा चैषा प्रक्रियेत्याह उपासनार्थमिति ॥ १३९८-१४०० ॥

युक्तिमल्लिका

अविद्यमानस्सविता सन्ध्योपास्त्यै किमीर्यते ।

स्वामानतां स्वयं कर्तुं किमुन्मत्तवचः श्रुतिः ॥ १४०१ ॥

सुरोत्तमटीका

स्वामानताम् । वेदामानतां स्वयं नेदं यदिदमित्यादि-रूपा ॥ १४०१ ॥

सत्यप्रमोदटीका

उन्मत्तवचः । अहं मूक इति वचः ॥ १४०१, १४०२ ॥

युक्तिमल्लिका

सत्यं वदेति या वाणी वक्ति धर्मानुशासनम् ।

असत्यं किल सा वक्ति ध्यातुं सर्वत्र सर्वदा ॥ १४०२ ॥

सुरोत्तमटीका

सत्यं वदेति वाक्यतात्पर्यविरोधाच्च नेदं यदिदमिति वाक्यं न स्वार्थपरमित्याह ॥ सत्यमिति ॥ सा नेदं यदिदमित्यादिरूपा

॥ १४०२ ॥

युक्तिमल्लिका

यन्न प्रतीके न हि स इत्थं सूत्रकृतैव हि ।

अविद्यमानस्योपास्तिर्न क्वाप्यस्तीति साधितम् ॥ १४०३ ॥

सुरोत्तमटीका

ब्रह्मसूत्रविरुद्धं चाविद्यमानोपासनमित्याह ॥ यन्नप्रतीक इति ॥ यद् यस्मात् ॥ १४०३ ॥

सत्यप्रमोदटीका

‘न प्रतीके न हि सः’ इति सूत्रकृता अविद्या-मानोपासना प्रतिषिद्धा चेत्याह यत इति ॥ १४०३ ॥

युक्तिमल्लिका

यतः प्रतीकं नैवात्मा तत आत्मत्वभावना ।

न तत्रेति हि सूत्रार्थस्तवापि च ममापि च ॥ १४०४ ॥

सुरोत्तमटीका

यतः स आत्मा परमात्मा प्रतीकं वागादिप्राणान्तप्रतिमा नैव ततः प्रतीकस्यात्मत्वाभावाद् आत्मत्वभावना परमात्मत्वभावना । तत्र प्रतीके ॥ १४०४ ॥

सत्यप्रमोदटीका

तत्रापि सो ऽर्थः मान्यः । यथाऽऽह ‘न प्रतीके-ष्वात्मममतिं बध्नीयात् । न हि उपासकः प्रतीकानि’ इति ॥१४०४,१४०५॥

युक्तिमल्लिका

तस्मादविद्यमानस्य भेदस्योत्कीर्तनं श्रुतौ ।

उपासनार्थमिति यन्मतं तत्त्वविगर्हितम् ॥ १४०५ ॥

सुरोत्तमटीका

तस्मात्प्रतीकेऽविद्यमानात्मत्वोपासनस्य नेति निषेधेन विद्यमानोपासनस्यैव सूत्रतात्पर्यसिद्धत्वात् ॥ १४०५ ॥

युक्तिमल्लिका

स्थूलोपास्तावरुन्धत्यास्ताराप्यारात्स्थितेक्ष्यताम् ।

भेदोपास्त्या त्वभेदस्य विरुद्धस्य कथं दृशिः ॥ १४०६ ॥

सुरोत्तमटीका

ननु स्थूलारुन्धतीन्यायेन शाखाग्रचन्द्रन्यायेन चाविद्य-मानस्याप्युपासनं विद्यमानप्राप्त्युपायभूतं दृष्टमिति चेत् । अत्र प्रष्टव्यम् । किं स्थूलताराया एवारुन्धतीत्वोपासनात् सूक्ष्मतारारूपारुन्धतीप्राप्तिर्दृष्टा । शाखाग्रस्यैव चन्द्रत्वोपास्त्या च चन्द्रत्वप्राप्तिर्दृष्टेति मन्यसे उत सूक्ष्म-तारायास्स्थूलतारा समीपस्थत्वात् सम्यग्दृश्यमानस्थूलतारां प्राक्प्रदर्श्य क्रमेण सूक्ष्मतारामपि दर्शयन्ति । चन्द्रस्य शाखाग्राभिमुख्येन सूक्ष्मतया स्थितत्वाद् द्व्रीभूतं स्थूलं शाखाग्रं प्राक्प्रदर्श्य पश्चात्तमपि दर्शयन्तीति ब्रूषे । नाद्यः । दृष्टान्तासिद्धेः । नहि स्थूलतारामेवारुन्धतीत्वेन कोप्युपदिशति । नवा-शाखाग्रमेव चन्द्रत्वेन । तथा सति तावतैव चरितार्थतया पुनस्सूक्ष्मतारा-दर्शनोत्कण्ठाया एव कुण्डितत्वात्तद्दर्शनप्रसक्तेरेवाभावप्रसङ्गात् । किं तु मन्त्रिदर्शनस्य राजदर्शनानुकूलत्ववद् एतद्दर्शनस्यापि दर्शनानुकूलत्वादेव प्रागिदमुपदिशन्ति । उपासते च । अतो नेदमविद्यमानोपासनस्य निदर्शनम् । अस्तु वा कथञ्चिदयं दृष्टान्तस्तथापि तव दार्ष्टान्तिकाननुगुण एव । त्वया स गुणे निर्गुणत्वोपासनस्य भेदेऽभेदत्वोपासनस्य चाप्यनङ्गीकारात् । अङ्गीकारे चाभेदस्यैवोपास्यत्व प्रसङ्गे न त्वदभिलषितासिद्धेश्च । द्वितीयेपि नेमौ दृष्टान्तौ तवानुगुणौ । स्थूलतारायाः शाखाग्रस्य च सूक्ष्मताराद्यविरुद्धत्वेन प्रत्युत पूर्वोक्त दृष्टान्तेन तद्दर्शनानुकूलत्वाच्च युक्तं तदुपासनम् । तव तु सगुणस्य निर्गुण विरोधित्वेन भेदस्य चाभेदविरोधित्वेन कथमेतदुपासनेन तत्प्राप्तिः । नह्यन्धकारदर्शनेन प्रदीपप्राप्तिः क्वापि दृष्टा । किं तु प्रदीपानुकूलवन्ह्युपास-नेनैव । अतस्तवादृष्टकल्पनमपहार्यमेवेत्याह ॥ स्थूलेति ॥ आरात्समीपे । उपलक्षणं चेदमविरुद्धा चेत्यपि ग्राह्यम् ॥ १४०६ ॥

सत्यप्रमोदटीका

यदपि जल्पितं सविशेषभेदोपासना निर्विशेषाभेद-साक्षात्कारस्य द्वारमिति । यथाऽऽह

‘निर्विशेषं परं ब्रह्म साक्षात्कर्तुमनीश्वराः ।

ये मन्दास्तेऽनुकम्प्यन्ते सविशेषनिरूपणैरि’ति

तदपि निराह स्थूलेति । तत्र समीपस्थत्वाद् द्वारत्वसम्भवेऽपि प्रकृते अभेदाभावात्मकस्य विरुद्धस्य द्वारत्वमसम्भवीत्याह विरुद्धस्येति ॥१४०६॥

युक्तिमल्लिका

सोपासनैव तां स्थूलां किमण्वीकृत्य दर्शयेत् ।

किं वा भिन्नकटाहस्याप्यभेदो भेदचिन्तया ॥ १४०७ ॥

सुरोत्तमटीका

विरुद्धोपास्त्या तद्विरुद्ध फलाप्तौ दृष्टान्तद्वयमाह ॥ सेति ॥ सा स्थूलतारोपासना । तां ताराम् । स्थूलत्वोपासनया सैव ताराऽण्वीभवति चेत् स गुणत्वोपास्त्या तदेव सगुणं निर्गुणीभवतीत्यस्येदं निदर्शनं स्यात् । न च तदस्ति । एवं भिन्नकटाहस्थ भेदस्यैव पौनः पुन्येन चिन्तया भागवद्वयस्यैकीभावाख्याभेदो यदि स्यात् तदाभेदोपास्त्या अभेद-प्राप्तिः संभाव्येतापि । नैतदपि दृष्टम् । अतो विरुद्धोपास्त्या तद्विरुद्ध-फलप्राप्तिरसम्भावितैवेति भावः ॥ १४०७ ॥

सत्यप्रमोदटीका

यदि पुनस्तदेव तदिति उपदेशस् तर्हि तथा ज्ञातवतो विरोचनस्येव सूक्ष्मज्ञानेच्छानिवृत्तिरेव स्यात् । सूक्ष्मोपदेशः पश्चादनाकांक्षित एव । तज्ज्ञानस्य तज्ज्ञानहेतुत्वासम्भव एव । न हि उपासना अघटितघटना-शक्तिमती येन स्थूलामपि स्वसामर्थ्येनाण्वीकुर्यादित्याह सेति । तथा सत्यति-प्रसङ्गमाह किमिति ॥ १४०७ ॥

युक्तिमल्लिका

उत्कर्षश्चेदुपास्य स्यान्मिथ्यार्थोऽपि मते तव ।

नीचजीवोच्चताहेतुस्तादृगैक्यं न नो भिदा ॥ १४०८ ॥

अविद्यमानभेदस्य नोपासा तेन शोभते ।

अविद्यमानमेवैक्यमुपास्यं स्यात्सुखेन ते ॥ १४०९ ॥

सुरोत्तमटीका

किं च मनुष्यस्येन्द्रत्वोपासनवन् नीचस्योत्कर्षप्राप्तौ मिथ्याभूतत्वेप्युपास्य इति ब्रह्मदृष्टिरुत्कर्षादित्यत्र भवद्भाष्यकृतैवभाषितम् । एवं च नीच जीवस्योच्च ब्रह्मत्वप्रापकमैक्यमेव मिथ्याभूतत्वेप्युपास्यं स्यात् । नीच-जीवस्य सुतरां नीचत्वप्रापकजीवब्रह्मभेदस्य कथं मिथ्याभूतस्याप्युपास्तिरित्याह ॥ उत्कर्ष इति ॥ उत्कर्षस्स्याच्चेदित्यर्थः । तादृक् उत्कर्षप्रापकम् । नोस्माकं भिदा न । तादृशीनेत्यर्थः । अतः कथं मिथ्याभूतस्याप्युपास्तिरिति भावः ॥ १४०८,१४०९ ॥

सत्यप्रमोदटीका

मते तवेति यदाह ‘क्षत्तरि खलु राजदृष्टिः क्रियते । नतु राज्ञि क्षत्तुदृष्टिरिति । तादृक् नीचे उच्चत्वबुद्धिः । नो ऽस्मदभिमता भिदा भेदोपासना न त्वदुक्तानुसारिणी । अतस् त्वत्प्रक्रियया ऐक्यस्यैवोपासनं तेन च मिथ्यात्वं युक्तमिति भावः

॥ १४०८, १४०९ ॥

युक्तिमल्लिका

यदि ध्यानाय मिथ्यार्थं प्रथयेत्प्रथिता श्रुतिः ।

तदा दृष्ट्यै तवैक्यं च मिथ्यार्थं न कुतो वदेत् ॥ १४१० ॥

सुरोत्तमटीका

किं च ध्यानायाविद्यमानभेदोक्तौ दर्शनायाप्यविद्यमान-मेवैक्यमैक्यश्रुत्या कथ्यताम् । द्विधा कल्पनायां गुरुत्वात् । कार्यकारणयोर्द्वै-रूप्यस्यायुक्तत्वादद्वितीयश्रुतेः पक्षपाताभावाच्च । घटवृत्त्याऽज्ञाननिवृत्त्यङ्गी-कारात् । मिथ्याभूतरजतदृष्ट्यापि तात्कलिकानन्ददर्शनाच्च । द्विविधमुक्तेश्च मिथ्याभूतैक्यदर्शनेनापि सम्भवात् । एवमप्येकस्य सत्यत्वे वक्तव्ये जगद्रक्षक-तया निर्वैरस्य भेदस्यैव तदस्तु । उपास्ततया प्रथमोपस्थितत्वेन लाघवाच्च । नत्वैक्यस्येत्याह ॥ यदीति ॥ तद्वृत्त्या ऐक्यापरोक्षज्ञानेन । तया मिथ्या-भूतैक्यस्य दृष्ट्या । प्रागुक्तयामिथ्याभूतभेदोपास्त्या । दृशिर् ऐक्यापरोक्ष-ज्ञानम् । मिथ्यार्थदर्शनस्य मोक्षासाधकत्वे न्यायसाम्यादेतदपि न स्यादिति भावः ॥ १४१०-१४१२ ॥

सत्यप्रमोदटीका

किञ्च मिथ्याभूतभेदोपासनेन सत्यैक्यदृष्टिर्भवतीति ते मतम् । तथा माऽस्तु कार्यकारणयोर्वैरूप्यप्रसङ्गात् । अद्वितीयश्रुतिर् भेदमिव अविद्यमानमेवैक्यमुपदिशतीत्यस्तु । तस्यान्यतरपक्षपाताभावात् । एवं च मिथ्याभेदोपासनेन मिथ्यैक्यदृष्टिस् तेन च अविद्यानिवृत्तिर् इत्यस्तु । घटवृत्त्या घटाविद्यानिवृत्तिरिव । तथा चोक्तवैरूप्यमपि परिहृतं भवति । कृतं भेदस्यैवा-विद्यमानत्वग्रहणदुर्व्यवसानेनेत्याह यदीत्यादिभिः ॥ १४१० ॥

युक्तिमल्लिका

घटवृत्त्येव तद्वृत्याऽप्यविद्यानाश इष्यताम् ।

मिथ्यार्थदृष्ट्याऽप्यानन्दः किं न तात्कालिको नृणाम् ।

अतस्तयाऽपि मुक्तिः स्याद्यथा प्रागुक्तया दृशिः ॥ १४११ ॥

सत्यप्रमोदटीका

न च मिथ्यादृष्ट्या फलसिद्धिरदृष्टेति शङ्क्यम् । मिथ्याभूतरूप्यदृष्ट्या तात्कालिकानन्दानुभवस्यापि दर्शनात् । इत्याह मिथ्येति ॥ १४११ ॥

युक्तिमल्लिका

द्वयोरेकस्य सत्यत्वे निर्वैरस्यास्तु लाघवात् ।

अभेदस्ते जगद्धन्ति भेदः सर्वं च रक्षति ॥ १४१२ ॥

सत्यप्रमोदटीका

एवमपि अन्यतरस्य सत्यत्वपक्षपाते भेदस्य सत्यत्व-मेवाङ्गीकारार्हं निर्वैरत्वात् । तत्कुत इत्यत आह अभेद इति॥१४१२ ॥

युक्तिमल्लिका

सर्वमस्मीत्युपासीतेत्यैक्योपास्तिस्तव श्रुता ।

भेदर्क्च नस्तथा नाह त्वन्नयस्त्वां निहन्त्यहो ॥ १४१३ ॥

सुरोत्तमटीका

किं च सर्वमस्मीत्युपासीत तद्व्रतमिति छान्दोग्योपनिषदि ऐक्यस्यैवोपास्यतया कथनाद् उपास्यतयोक्तस्य मिथ्यात्वमिति त्वदुक्तन्यायेनैव तवैक्यं मिथ्याभूत् । न तु भेदः । भेदर्चि तादृशपदाभावादित्याह ॥ सर्वमिति ॥ भेदकर्् भेदप्रतिपादिकाऋक् । तथा उपासीतेति ॥ १४१३ ॥

सत्यप्रमोदटीका

तव ऐक्योपास्तिः । त्वदभिमतैक्यस्यैवोपास्यत्वम् । श्रुता ‘सर्वमस्मीत्युपासीत तद्व्रतं’ इति छान्दोग्ये । नः भेदर्क्च अस्म-दभिमतभेदप्रतिपादिका ऋक् तु । तथा न श्रुता । ‘सर्वं भिन्नमित्युपासीत’ इत्येवंरूपाया ऋचः क्वाप्यभावात् । त्वन्न्याय उपास्यं मिथ्या इति न्यायः । त्वां निहन्ति त्वदभिमतैक्यस्यैव मिथ्यात्वं सम्पादयति ॥ १४१३ ॥

युक्तिमल्लिका

किञ्चोपास्या यदि भिया तया सिद्धं समीहितम् ।

तं यथोपासते देवं तथैव भवतीति हि ॥ १४१४ ॥

श्रुत्या मुक्तावुपास्यस्य यत्सत्त्वमवधार्यते ।

तस्मादुपास्यो भेदोऽयं मुक्तौ चासीन्निराकुलः ।

अत एव मृषोपास्तिर्न चकास्ति श्रुतेर्मते ॥ १४१५ ॥

सुरोत्तमटीका

अपि च तं ‘यथा यथोपासते तथैव भवतीति’ श्रुतौ उपास्यावस्थायास् तथैव भवतीति फलभूतमुक्तावप्यवधारणात् त्वदुक्तन्यायेनैव भेदस्य मुक्तिकालीनत्वप्राप्त्या मदभीष्टसिद्धिरर्थादनयैव श्रुत्या मिथ्याभूतोपास-नस्य निवारितत्वात् त्वदभीष्टासिद्धिश्चेत्याह ॥ किं चेति ॥१४१४,१४१५॥

सत्यप्रमोदटीका

किञ्चोपासनायाः फलविधायिनी ‘यथा यथा उपासते तथैव भवती’ति श्रुतिर् उपासनाफलयोरेकरूपतामवधारयति । एवं च भेदोपासनया सिध्यन् मोक्षकालीनः भेदः पारमार्थिक एव सेत्स्यतीत्याह निराकुल इति ॥ १४१४,१४१५ ॥

युक्तिमल्लिका

ततोनुपास्यं नैर्गुण्यं न कदापि भवेन्नृणाम् ।

सगुणं तु सदोपास्यं स्वयं च सगुणो भवेत् ॥ १४१६ ॥

सुरोत्तमटीका

तत उपास्यस्यैवमुक्तिकालीनत्व श्रवणात् । नैर्गुण्यमित्युपलक्षणमैक्यं चेत्यपि ग्राह्यम् । अनुपास्यमिति हेतुगर्भं विशेषणम् । तथैव भवति न त्वन्यथेत्यवधारणबलेनानुपास्याकारस्य मुक्तावसम्भवा-दनुपास्यत्वस्य परेणाङ्गीकाराच्चेति भावः॥१४१६ ॥

सत्यप्रमोदटीका

नैर्गुण्यं तत एव ऐक्यम् अनुपास्यम् । सगुणत्वे ऐक्यायोगात् । तेन प्रकृतोपसंहारः । अनुपास्यमिति हेतुगर्भं विशेषणम् । यस्मात् त्वया नैर्गुण्यं तत एवैक्यं चोपास्यतया नाङ्गीकृतं तस्मात् तदुभयं कदाऽपि मोक्षेऽपि न भवेत् । यथा यथोपासते तथैव भवतीति श्रुतेः । त्वयाङ्गीकृतभेदोपासनं तु सगुणोपासनमेव । अतस् तदुपासनेन मोक्षेऽपि श्रुत्यनुसारेण सगुण एव भवतीत्याह सगुण इति । सगुणः स्वरूपभूत-तत्तद्योग्यानन्दादि शुभगुणाविर्भाववान् ॥ १४१६ ॥

युक्तिमल्लिका

मुक्तौ च स्वस्य नैर्दोष्यं यदवश्यमपेक्षितम् ।

अतोऽज्ञानक्लेशनाशजन्माद्यं न स्मरेद्धरौ ।

इति सिद्धं ततोऽवद्य शून्योऽप्यासीद्रमापतिः ॥ १४१७ ॥

सुरोत्तमटीका

भगवतो जननादिदोषराहित्यं चैतच्छ्रुतिबलादेव सिद्ध-मित्याह ॥ मुक्तौ चेति ॥ अतः निर्दोषतयोपासितस्यैव हरेर्नैर्दोष्य प्रापकत्वस्याप्येतच्छ्रुतिसिद्धत्वात् ॥ १४१७ ॥

सत्यप्रमोदटीका

मुक्ताविति । ‘प्रीत्या मोक्षपरत्वाच्च तात्पर्यं नैव दूषणे’ इति भगवत्पादोक्तेः ॥ १४१७ ॥

युक्तिमल्लिका

अनुपास्यमतत्त्वं च कुतो वक्ति श्रुतिः क्वचित् ।

तस्मादापाततो दोषश्रुतिवद्भाति या श्रुतिः ।

साऽप्युपास्या गुणार्थैव न दोषार्थेति चागतम् ॥ १४१८ ॥

सुरोत्तमटीका

तस्मान्निर्दोषस्यैवोपास्यत्वात् । अनुपास्यस्य मोक्षैक फलश्रुतौ कथनायोगाच्च ॥ १४१८ ॥

सत्यप्रमोदटीका

तस्मादापातत इति । ‘चिन्त्या अचिन्त्याश्च तयैव दोषाः श्रुताश्च नाज्ञैर्हि तथा प्रतीताः’ । इति श्रुतेः ॥ १४१८ ॥

युक्तिमल्लिका

उपास्त्यनर्हमैक्यं ते न मोक्षे नापि संसृतौ ।

उपास्त्यभावान्मुक्तौ न नेदानीमावृतत्वतः ॥ १४१९ ॥

सुरोत्तमटीका

इदानीं संसारे । आवृतत्वतो ऽज्ञानावृतत्वात् ॥ १४१९ ॥

सत्यप्रमोदटीका

उपास्त्यनर्हत्वेन उपास्त्यभावात्, उपासानफलयोरेक-रूपतायाः स्थितेरैक्यं मुक्तौ न एवम् आवृतत्वात्संसारेऽपि नेति त्वद्रीत्यैव कदाऽपि ऐक्यस्य अनवस्थितिरेवेत्याह उपास्तीति ॥ १४१९ ॥

युक्तिमल्लिका

तस्मादुपास्यं सगुणं ब्रह्मैवासीद्धि निर्मलम् ।

मुक्तिदत्वाद्विमुक्तिश्च तस्यासादृश्यमित्यपि ॥ १४२० ॥

तथैवेति वदन्ती सा श्रुतिराह ततोऽपि मे ।

भिदैव सुस्था ब्रह्मैक्यं पदाहतमभूत्तव ॥ १४२१ ॥

सुरोत्तमटीका

ततः मुक्तावपि सादृश्यविधानात् । पदाहतं तथैवेति पदेन निराकृतम् । उपास्यादन्याकारस्य मुक्तौ तेन पदेन निराकरणात्

॥ १४२०,१४२१ ॥

सत्यप्रमोदटीका

निर्मलमित्यनेन शबलस्य व्यवच्छेदः ॥ १४२०, १४२१ ॥

युक्तिमल्लिका

उपास्योपासकत्वस्य मुक्तावप्यनुवर्तनम् ।

तथैवेति हि सर्वस्याप्यवधृत्या श्रुतिर्जगौ ॥ १४२२ ॥

सुरोत्तमटीका

अनयैव श्रुत्या मुक्तावुपास्योपासकभावस्यापि सिद्धि-रित्याह ॥ उपास्येति ॥ तं यथा यथोपासते तथैव भवतीति श्रुत्या सांसारि-कोपासनावस्था सदृशसर्वावस्थाया अपि सदृशार्थक तथैवेति पदेन मुक्तौ विधानाद् ध्यानाङ्गप्राकृतदेहसदृशाप्राकृतदेहस्य प्राकृतानन्दपुलकसदृशा प्राकृतानन्दपुलकादेः प्राकृतोपासना सदृशा प्राकृतोपासनस्य प्राकृततत्कृतत्व सदृशाप्राकृततत्कृतत्वस्य च मुक्तजीवेषु सिद्धेः । सर्ववेदान्तप्रत्ययं चोदनाद्य-विशेषाद् इति सूत्रात्सर्वश्रुत्यर्थोपासक ब्रह्मणस्तथैवेति श्रुतेर्मुक्तावप्यर्थात्प्रा-कृतोपासनयोपास्यत्ववदप्राकृतोपासनयापि भगवत उपास्यत्वसिद्धिश्चेति भावः । एवं च प्राकृत देहस्यापि मुक्तौ प्रसक्तिरिति शङ्कागर्भस्रावेणैव गता ॥ १४२२ ॥

सत्यप्रमोदटीका

‘तथैव भवती’ति श्रुतौ सादृश्योक्त्या मुक्तावपि स्वामिभृत्यभावेन उपास्योपासकभावोऽनुवर्तते इति एवं सादृश्यं, एवं देवानां बहुगुणैर् ब्रह्मणा त्वखिलैरित्येवम् उपासनायां तारतम्येन संसारिष्वानन्द-तारतम्यस्येव ‘श्रोत्रियस्य चाकामहतस्य’ इत्युक्तदिशा तत्रापि मुक्तौ तारतम्यं, इत्येवं प्रमाणाविरुद्धं सादृश्यम् ऊहनीयम् । तदेतदाह सर्वस्येति ॥ १४२२ ॥

युक्तिमल्लिका

यतस्सारूप्यमोक्षोऽयं सर्वोपास्ति कृतां श्रुतः ।

अतस्सालोक्यसामीप्यसायुज्येषु च स ध्रुवः ॥ १४२३ ॥

सुरोत्तमटीका

प्रमेयान्तरं च सिद्धमित्याह ॥ यत इति ॥ अयम् एतच्छक्तः । सारूप्यमोक्ष उपास्त्यनुसारेण स्वस्याप्याकार गुणादि सादृश्य-रूपफलश्रवणात् । सर्वोपास्तिकृतां सर्वेषामुपास्तिकृतामधिकारिणां यतश्श्रुतः । उपास्तिर्हि मुमुक्षूणां सर्वेषामपेक्षिता एवं चैतच्छ्रुत्यैव सर्वेषां सारूप्यमोक्षोऽपि श्रुत इत्यर्थः । अन्त इत्युत्तरेणान्वयः । सः सारूप्यमोक्षः ॥ १४२३ ॥

सत्यप्रमोदटीका

एवं ‘उपास्ते’ इति सामान्यप्रयोगेण चतुर्विधमोक्ष-भाजामपि ‘तथैव भवति’ इत्युक्तः पूर्वोक्त इत्थम्भावः साधारण इति ज्ञापितो भवतीत्याह यत इति ॥ १४२३ ॥

युक्तिमल्लिका

श्रुतिरेषा बलवती सर्वश्रुत्युक्तसम्पदम् ।

स्वज्ञातिरक्षणोद्युक्तानापहर्तुं विमुञ्चति ॥ १४२४ ॥

सुरोत्तमटीका

बलवती फलरूपतात्पर्यलिङ्गवत्त्वात्प्रबला । सर्ववेदान्त प्रत्ययं चोदनाद्यविशेषादिति सूत्रात् सर्वश्रुत्यर्थोपासक ब्रह्मणस्तथैवेति श्रुते-र्मुक्तावपि सर्वश्रुत्यर्थोपासकत्वावश्यंभावस्यापि सिद्धेः सर्वश्रुत्युक्त संपद-मित्युक्तम् । अपहर्तुम् अविद्यमानत्वोक्त्यानिराकुर्तुम् । उपासितगुणसदृशगुणानां मुक्तेषु श्रवणादुपास्ये सुतरान्तत्सिद्धिः । तत्वज्ञानस्यैव मौक्तफलहेतुत्वादिति भावः ॥ १४२४ ॥

सत्यप्रमोदटीका

बलवती सावधारणेन फलकथनरूपतात्पर्यलिङ्ग-वत्त्वेन च । सर्वा याः श्रुतय उपासने फले च तारतम्यम् अभिधात्र्यस् ताभिरुक्तां साधनफलयोस्तरतमभावेन सदृशरूपतां सम्पदम् अपहर्तुं मिथ्यार्थ-परतया अन्यथयितुं तदुक्तं भाष्ये (३,३,३)

‘ज्ञानं चोपासनं चैव मुक्तावानन्द एव च ।

यथाधिकारं देवानां भवत्येवोत्तरोत्तरं’ इति ॥ १४२४ ॥

युक्तिमल्लिका

उपासते हि यदिदं नेदं ब्रह्मेति तु श्रुतिः ।

उपास्यमानप्रतिमा नैव ब्रह्मेति शंसति ॥ १४२५ ॥

सुरोत्तमटीका

तर्हि नेदं यदिदमुपासत इति श्रुतेः कोऽर्थ इत्यत आह ॥ उपासत इति ॥ उपास्यमानप्रतिमा ध्यानार्थं रचिता मनोमयी भगवत्प्रतिमा । बाह्या च सुवर्णादिरचिता कृष्णरामादि भगवत्प्रतिमा । अर्चादिनोपास्यमाना साक्षाद्भगवतो ऽपरोक्षज्ञानात्पूर्वं द्रष्टुमशक्यत्वात् स्वबिम्बमूर्तेः प्रतिमामेव मनसा विरचय्य ध्यायन्ति ॥ १४२५ ॥

सत्यप्रमोदटीका

‘यन्मनसा न मनुते येनाऽऽहुर्मनो मतम् ।

तदेव ब्रह्मत्वं विद्धि नेदं यदिदमुपासते’

इति उमां प्रति शङ्करवाक्यम् । तत्र उपास्यस्य मिथ्यात्वं, ततश्च उपासनाया मिथ्याभूतार्थविषयकत्वं मुखतः प्रतीयते । तन्निराह उपासते इत्यादिभिः । प्रतिमा मानसवासनापरिणतवस्त्वित्यर्थः । सन्निधानाद् ब्रह्मप्रतिबिम्बभूतम् । नैव ब्रह्मेति ॐ तथाऽन्यत्प्रतिषेधात् ३.२.३७ इति सूत्रे प्रतिषेधात् ॥ १४२५ ॥

युक्तिमल्लिका

ब्रह्मणस्सन्निधानाच्च तदुपास्तिर्दिदृक्षताम् ।

राजद्वारोपास्तितोऽपि राज्ञः स्याद्धि प्रसन्नता ॥ १४२६ ॥

सुरोत्तमटीका

तत्प्रतिमारूपं ब्रह्मसन्निधानवदेव न तु साक्षाद्ब्रह्मेत्यर्थः । अन्योपास्त्याऽन्यप्रतीतौ दृष्टान्तमाह ॥ राजद्वारेति ॥१४२६ ॥

सत्यप्रमोदटीका

एवं तर्हि ब्रह्मसाक्षात्कारार्थिनः कुतस्तदुपासते इत्यतो ब्रह्मानुग्रहद्वारा तद्दर्शनोपायत्वादित्याह ब्रह्मण इति । तदुक्तं ‘ब्रह्मैव प्रतिबिम्बे यदतस्तेषां फलप्रदम्’ इति । तत्र लौकिकदृष्टान्तः राजेति ॥ १४२६ ॥

युक्तिमल्लिका

उपासते सदा भोगैर्नरा यदुदरम्भराः ।

जीवरूपमिदं ब्रह्म नेत्यर्थं चाह सा श्रुतिः ॥ १४२७ ॥

सुरोत्तमटीका

जीवब्रह्मणोर्भेदप्रतिपादकत्वाद् इयं श्रुतिरस्माकमेवानु-कूला । न तवेति भावेन श्रुतेरर्थान्तरमाह ॥ उपासत इति ॥ भोगैर् यज् जीवचैतन्यम् उपासते सेवन्ते तर्पयन्तीत्यर्थः । इदं जीवरूपं जीवचैतन्यम् ॥ १४२७ ॥

सत्यप्रमोदटीका

श्रुतेर् अनुगुणमर्थान्तरमाह उपासत इति । भोगैः फलपुष्पादिसमर्पणैः । यद् राजादिकं जीवचैतन्यम् । उदरम्भरा इति निन्दनेन मा गृधः कस्य चिद्धनम् इति निषेधो ज्ञाप्यते । तद् ब्रह्म न ॥ १४२७ ॥

युक्तिमल्लिका

तव त्वतिविरुद्धस्योपास्त्यैव स्यात्कथं फलम् ।

महाविरुद्धमग्न्यर्थी किमम्बुमथनं चरेत् ।

किं वा शुक्तेरुपास्त्यैव रूप्यप्राप्त्या धनी भवान् ॥ १४२८ ॥

सुरोत्तमटीका

भेदोपास्त्यादिना अभेदादि प्राप्तिर् विरुद्धत्वान्न भवतीत्ये तद्दृष्टान्तेनोपपादयति ॥ तव त्विति ॥ फलं विरुद्धफलम् । भेदोपास्त्याऽ-भेदप्राप्तिरित्यर्थः । महाविरुद्धमम्बुमथनमिति सम्बन्धः । अम्बुमथनेनाग्नि-प्राप्तेरदर्शनाद् विरुद्धोपास्त्या तद्विरुद्धफलं क्वापि न भवतीति भावः । निदर्शनान्तरमप्याह ॥ किं वेति ॥ १४२८ ॥

सत्यप्रमोदटीका

निर्विशेषसाक्षात्कारस्य सविशेषोपासनं द्वारामिति परप्रक्रियाऽत्यन्तं विरुद्धा इति सदृष्टान्तमाह अग्नीति शुक्तेरिति च ॥१४२८॥

युक्तिमल्लिका

किञ्च शाखाग्रचन्द्रैक्यं ध्यातव्यं किल ते मते ।

स्थूलैवारुन्धतीत्वेन ध्येया सूक्ष्मत्वसिद्धये ।

एवं चैक्यमुपास्यं वा भेदो वाभूद्विचारय ॥ १४२९ ॥

सुरोत्तमटीका

त्वद्दृष्टान्तेनैवाविद्यमानैक्यस्योपास्यत्वमागतं न तु भेदस्येत्याह ॥ किं चेति ॥ स्थूलातारा ॥ १४२९ ॥

सत्यप्रमोदटीका

स्थूलारुन्धतीदृष्टान्तस् त्वत्प्रतिकूल एव । यथा तत्र स्थूलताराया अरुन्धतीनक्षत्रस्यैक्यं चिन्त्यते तथा अत्रापि ऐक्यमेव उपासनाविषय इत्यापातादित्याह किं चेति ॥ १४२९ ॥

युक्तिमल्लिका

स्थूलभास्वरताराया ध्याने सूक्ष्माल्पभास्वरा ।

तारैव दृश्यते व्योम नीरूपं न हि दृश्यते ॥ १४३० ॥

सुरोत्तमटीका

सगुणोपास्त्या निर्गुणप्राप्तौ च नायं दृष्टान्तोऽभू-दित्याह ॥ स्थूलभास्वरेति ॥ १४३० ॥

सत्यप्रमोदटीका

स्थूलतारायाः सूक्ष्मनक्षत्रस्य चोभयेषां शुक्लभास्वरं रूपमस्तीति तद्दर्शनयोर् द्वारद्वारिभाव इति वक्तुं युक्तम् । एवं सगुणोपासनं सगुणदर्शनस्यैव द्वारं भवेत् । नत्वेव निर्गुणस्येत्याह स्थूलेति ॥ १४३०, १४३१ ॥

युक्तिमल्लिका

एवं च सगुणोपास्त्या निर्गुणेक्षोपमानसा ।

यद्ध्येयस्सगुणोऽत्रापि प्राप्योऽपि स गुणो यतः ॥ १४३१ ॥

सुरोत्तमटीका

सा स्थूलतारोपासनेन सूक्ष्मताराप्राप्तिः । यद् यस्मात् । अत्र स्थूलारुंधतीदृष्टान्ते ॥ १४३१ ॥

युक्तिमल्लिका

अस्माकं तु मनोरूपप्रतिमास्थूलभास्वरा ।

उपास्यमाना स्तान्तस्थां ज्ञानानन्दमयप्रभाम् ॥ १४३२ ॥

अतिसूक्ष्मां हरेर्मूर्तिं दर्शयेदिति वादिनाम् ।

तवोपमैवानुपमा बलमासीद्विवेचने ॥ १४३३ ॥

सुरोत्तमटीका

अतस्त्वद्दृष्टान्तोऽप्यस्माकमेवानुकूल इत्याह ॥ अस्माक- मिति ॥ ज्ञानानन्दमयी प्रभा यस्यास्सा ताम् । अप्राकृतकान्तिमतीमित्यर्थः । अनुपमा असदृशी तवोपमैव बलमासीदिति सम्बन्धः ॥ १४३२,१४३३ ॥

सत्यप्रमोदटीका

मन्मते नैष दोष इत्याह अस्माकमिति । अनुपमेति उद्देश्यभूतोपमाया विशेषणम् । न बलमिति विधेयस्य । तेन न स्त्रीलिङ्गा-नुपपत्तिः ॥ १४३२,१४३३ ॥

युक्तिमल्लिका

अरणीस्थानलप्राप्तिररण्योर्मथने यथा ।

तथानुकूलान्यसेवाऽप्यन्यप्राप्त्यै भवेन्मम ।

तुहिनानुसृतिः किं स्याद्दहनप्राप्तये वद ॥ १४३४ ॥

सुरोत्तमटीका

अनुकूलान्यप्राप्त्या तदनुगुणा फलप्राप्तिर्दृष्टा । न तु विरुद्धोपास्त्या तद्विरुद्धफलप्राप्तिरित्यत्र मन्दानामपि बोधाय पुनरपि दृष्टान्ता-वाह ॥ अरणीस्थेति ॥ १४३४ ॥

सत्यप्रमोदटीका

अनुकूलस्यैव द्वारभावः नतु प्रतिकूलस्येत्युभयत्र दृष्टान्तमाह अरणीति तुहिनेति च ॥ १४३४ ॥

युक्तिमल्लिका

गुरोश्चरणकैङ्कर्यं गुरुकैङ्कर्यमेव यत् ।

अतस्तत्प्रतिमाध्यानमपि तद्ध्यानमेव नः ॥ १४३५ ॥

सुरोत्तमटीका

किं च यथा गुरोश्चरण सेवापि देहाधिष्ठातृ गुरुसेवैव तथा हरिप्रतिमा सेवापि प्रतिमासन्निहितहरिसेवैव । अतोऽपि न कुचोद्याव-काश इत्याह ॥ गुरोरिति ॥ १४३५ ॥

सत्यप्रमोदटीका

तद्ध्यानमेव तस्य तत्र सन्निहितत्वेन फलप्रदत्वादिति भावः ॥ १४३५ ॥

युक्तिमल्लिका

एवं चात्मैव सेव्योऽभूद्ध्यातव्योऽभूत्स एव हि ।

श्रुतयः स्मृतयस्तस्मादुपास्यं प्राहुरीश्वरम् ॥ १४३६ ॥

सुरोत्तमटीका

स एव आत्मैव ॥ १४३६ ॥

सत्यप्रमोदटीका

श्रुतयः स्मृतयश्चेति ‘‘आत्मानमेव लोकमुपासीत’’ ‘‘नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासत’’ इत्यादयः ॥ १४३६ ॥

युक्तिमल्लिका

अधिष्ठानतया तत्र ह्युपास्यं यदमुख्यतः ।

न तद्ब्रह्मेति च प्राहुर्मुख्योपास्यं च तं जगुः ॥ १४३७ ॥

सुरोत्तमटीका

हि यस्मात् । तत्र साधिष्ठानभगवदुपासने । अमुख्यत उपास्यं यदधिष्ठानम् । तदधिष्ठानम् । तम् ईश्वरम् । एवं च यदधिष्ठानम् अमुख्यतयोपासते इदं ब्रह्म न । किं तु तदेव मुख्योपास्याधिष्ठातृ-भगवच्चैतन्यमेव त्वं ब्रह्मविद्धीति श्रुतेरर्थस्संपन्नः ॥ १४३७ ॥

सत्यप्रमोदटीका

‘न प्रतीके न हि सः’ इति सूत्रोक्तमाह अधिष्ठान-तयेति । तथा च नामि्न ब्रह्मेत्युपासीत इत्येवार्थः ॥ १४३७ ॥

युक्तिमल्लिका

वस्तुतस्सूक्ष्मतारायास्समीपस्थेति लौकिकः ।

स्थूलां तारां दर्शयन्ति तद्भावं तत्र को वदेत् ॥ १४३८ ॥

सुरोत्तमटीका

किं च स्थूलताराया अरुन्धतीत्वेन शाखाग्रस्य च चन्द्रत्वेनोपास्तौ मिथ्योपासनमाशास्येतापि सैव नास्तीत्याह ॥ वस्तुत इति ॥ तद्भावः सूक्ष्मतारात्वम् । तत्र स्थूलतारायाम् ॥ १४३८ ॥

सत्यप्रमोदटीका

द्वारमपि द्वारत्वेनैवोपदिशति न तु तदेव तदिति । अतो मिथ्योपास्तेर्न कोऽपि दृष्टान्त इत्याह वस्तुतस्त्विति ॥ १४३८ ॥

युक्तिमल्लिका

शाखाग्रदेशे नेन्दोश्च स्यादादेशो विवेकिनाम् ।

शाखाग्रैक्यं तु को वक्ति मिथ्योपास्तिः क्व तेऽस्ति तत् ॥ १४३९ ॥

सुरोत्तमटीका

तत् तस्मात् । इन्द्रचन्द्रेति यं कञ्चिद्राजानं स्तुवन्तोपि गौण्या इन्द्रादिवदैश्वर्य संपत्तिमेवाभिप्रयन्ति । इन्द्राद्यैक्यं तु मनसापि न स्मरन्ति । अतो मिथ्योपास्तौ न किञ्चिन्निदर्शनम् ॥ १४३९ ॥

सत्यप्रमोदटीका

क्वेति धनिकानाम् इन्द्रचन्द्राद्युक्तिस्तु प्रशंसामात्रं न तु द्वारतया तवैक्याभिप्रायेण इति भावः ॥ १४३९ ॥

युक्तिमल्लिका

किञ्चैवमप्युपास्येऽस्मिन्भेदे स्याद्ब्रह्मणोऽन्यता ।

मिथ्यात्वं तु कुतो हेतोरघटो नास्ति किं पटः ॥ १४४० ॥

सुरोत्तमटीका

अपि च इदमुपास्यं ब्रह्म नेति श्रुतिर् उपास्यस्य ब्रह्मणोन्यत्वरूपमब्रह्मत्वमेवाह । न तु मिथ्यात्वम् । एवं चैतच्छ्रुति बला-न्नोपास्यस्य मिथ्यात्वसिद्धिः । किं तु तव विवेकस्यैव मिथ्यात्वसिद्धिरित्याह ॥ किं चेति ॥ उपास्ये त्वयोपास्यतयोक्ते । अघटः घटादन्यः ॥ १४४० ॥

सत्यप्रमोदटीका

अस्तु वा भेद उपास्यः भिन्नस्य मिथ्यात्वं कुतः । अघटः पटः घटाद्भिन्न इति ज्ञात इत्येतावता पटस्य मिथ्यात्वमित्याह किञ्चेति ॥ १४४० ॥

युक्तिमल्लिका

उपासते तु यदिदं नेदं ब्रह्मेति तु श्रुतिः ।

यदुपास्यं न तद्ब्रह्मेत्याह तन्नास्तिता कुतः ॥ १४४१ ॥

सुरोत्तमटीका

तन्नास्तिता उपास्यनास्तिता ॥ १४४१ ॥

सत्यप्रमोदटीका

तथा च श्रुत्या उपास्यस्य ब्रह्मभिन्नत्वमेवायाति न मित्थात्वमित्याह उपासत इति ॥ १४४१ ॥

युक्तिमल्लिका

न चेत्तद्विदितादन्यदेवेति श्रुत्युपक्रमात् ।

ज्ञेयं च ब्रह्म नेति स्तां ज्ञानोपास्ती मृषार्थयोः ॥ १४४२ ॥

सुरोत्तमटीका

न चेद् उपास्यब्रह्मणोऽन्यत्वं न चेत् । अन्यत्वोक्त्या उपास्यस्य मिथ्यात्वमेवोच्यते चेदित्यर्थः । तद्विदितादन्यदेवेत्यनेन अन्यदेवत-द्विदितादथो अविदितादिति वाक्यं गृह्णाति । उपास्यं ब्रह्म नेतिवज् ज्ञेयं च ब्रह्म नाभूदिति हेतोर् ज्ञानोपास्ती द्वे अपि मृषार्थयोस् ताम् । मिथ्याभूत-स्योपासनवज् ज्ञानमपि मिथ्याभूतस्यैव स्यात् । उपास्यादन्यद्ब्रह्म विदितादन्यद् ब्रह्मेति वाक्ययोस्समानार्थकत्वात् । उपास्यं ब्रह्म नेत्युक्तेपि उपास्यादन्य-द्ब्रह्मेत्यर्थस्यैव पर्यवसानादिति भावः ॥ १४४२ ॥

सत्यप्रमोदटीका

नेदं यदिदम् उपासते इत्यत्र उपास्याद्भिन्नत्वोक्तिमात्रेण यदि उपास्यं मिथ्येति ब्रूषे तर्हि ‘अन्यदेव विदितात्’ इति तत्रैव ब्रह्मणः ज्ञेयादन्यत्वोक्त्या ज्ञेयस्यापि मिथ्यात्वप्राप्त्या ज्ञानोपासने उभे अपि मिथ्याभूतार्थविषयके स्यातामित्याह न चेत्

॥ १४४२ ॥

युक्तिमल्लिका

सामस्त्याज्ञानमात्रेण ज्ञेयादन्यद्यदीष्यते ।

तर्ह्युपास्यादन्यदस्तु समस्तोपास्त्यशक्तितः ॥ १४४३ ॥

सुरोत्तमटीका

शङ्कते ॥ सामस्त्येति ॥ उत्तरमाह ॥ तर्हीति ॥ १४४३ ॥

सत्यप्रमोदटीका

यदि अविदिताद् इत्यतः प्राक् साकल्येनेति पदम् अध्याहृत्य साकल्येनावेद्यं ब्रह्मेत्यर्थो वर्ण्यते तर्हि उपासते इत्यतः पूर्वमपि तत्पदाध्याहारेण साकल्येनोपास्यं नेत्येवम्भावो वर्ण्यताम् इत्याह समस्तोपास्त्य- शक्तित इति । सामस्त्येन ब्रह्मोपास्तावन्येषामशक्तित इत्यर्थः ॥ १४४३ ॥

युक्तिमल्लिका

आत्मा वेत्येकवाक्योक्ते ज्ञानोपास्ती कथं द्वयोः ।

अनन्तोपास्ति विधयो बाध्यं तेनोक्तिमात्रतः ॥ १४४४ ॥

सुरोत्तमटीका

आत्मा वेत्यनेन ‘आत्मावा ओ द्रष्टव्यश्श्रौतव्यो मन्तव्यो निदिध्यासितव्य’ इति वाक्यं गृह्णाति । द्रष्टव्य इत्यादि विशेषणपद चतुष्टयेपि आत्मेति विशेष्यपदस्यैवयोजनीयत्वादिति भावः । उक्तिमात्रतः केवलं त्वद्वचनमात्रेण । श्रौतानेकविधीनां वादिवाक्यमात्रेण बाधायोगादिति भावः ॥ १४४४ ॥

सत्यप्रमोदटीका

आत्मेति ‘आत्मा वाऽरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्य’ इत्येकस्मिन्वाक्ये दर्शनं निदिध्यासनं चेति ज्ञानोपास्ती विधीयेते । तत्र एकस्यैव आत्मशब्दवाच्यस्य ज्ञेयत्वे सत्यत्वम् उपास्यत्वे तु मिथ्यात्वम् इति विरुद्धं द्वैरूप्यं न घटते । अतो ऽनन्तानाम् उपासनाविधायक-वाक्यानां त्वदुक्तिमात्रेण मिथ्योपासनार्थकत्वं न युक्तमिति भावः ॥१४४४॥

युक्तिमल्लिका

अतः श्रुतिस्मृतिशतैर्विहितोपास्तिगौरवात् ।

अन्यार्थमनुकूलं वा भजेदर्थमियं श्रुतिः ॥ १४४५ ॥

सुरोत्तमटीका

अन्यार्थम् उक्तविधया जीवब्रह्मभेदार्थम् । अनुकूलम् उक्तविधया उपास्यमानसत्यत्वानुकूलमर्थं वा ॥ १४४५ ॥

सत्यप्रमोदटीका

इयं श्रुतिर् नेदं यदिदमुपासते इति श्रुतिः ॥१४४५॥

युक्तिमल्लिका

साक्षिसिद्धमिदं जीव ते रूपं ब्रह्म नोप ते ।

यदास तत्परं ब्रह्मेत्याह सेयं श्रुतिः किल ॥ १४४६ ॥

सुरोत्तमटीका

श्रुतेरर्थान्तरं चाह ॥ साक्षीति ॥ हे जीव साक्षिसिद्धम् इदं ते रूपं ब्रह्मन् । किं तु ते उप समीपे व्याप्ततया त्वद्धृधि तव परितश्च य आस तत्परं ब्रह्मेति श्रुतिराहेति सम्बन्धः । किलेत्यनेनास्मिन्नर्थे उपनिषद्भाष्य संमतिं सूचयति ॥ १४४६ ॥

सत्यप्रमोदटीका

तलवकारभाष्योक्तं श्रुतेरर्थान्तरमाह साक्षीति । हे जीव इदं दुःखित्वबद्धत्वादिना साक्षिप्रमितं जीवचैतन्यं ब्रह्म न । किन्तु यत् ते उप आस यत् ‘सयुजौ’ इति श्रुत्युक्तदिशा तव समीपे एकस्थानस्थितम् आस्ते तदेव परं ब्रह्मेति ॥ १४४६, १४४७ ॥

युक्तिमल्लिका

तस्माज्जीवेशभेदस्य साधिकेयमभूच्छ्रुतिः ।

उपास्यस्य तु मिथ्यात्वं निर्निमित्तमभूत्तव ॥ १४४७ ॥

सुरोत्तमटीका

तस्मादुक्तार्थस्य पदशक्तिलभ्यत्वात् ॥ १४४७ ॥

युक्तिमल्लिका

तृणं दग्धुं न शक्तोग्निर्मरुच्चालयितुं किल ।

गतागतोक्तिप्रत्युक्तिव्यापारैश्चेतनौ हि तौ ।

अशक्तमेवं चैतन्यं देवानामस्ति तद्धृदि ॥ १४४८ ॥

विलक्षणतमं ह्येतच्चैतन्यद्वितयं यदा ।

सुराणामपि हृद्यस्ति नराणां हृदि का कथा ॥ १४४९ ॥

सुरोत्तमटीका

किं च स्वशक्त्यैवदैत्याजिता इति देवमनसि स्थित-महंकारं मोचयितुं यक्षरूपेणागतं भगवन्तं विचारयितुम् अग्निः कोणाधि-पतिर्वायुश्चेति द्वौदेवौ प्रेषितौ तेन स्थापितं शुष्कतृणमपि दग्धुं चालयितुं च न शक्तौ किल । तौ च उत्तरप्रत्युत्तराभ्यां चेतनौ । एवं च एकत्रनिर्णीत-श्शास्त्रार्थोपरत्रापीति न्यायेन सकलजीवदेहेष्वपि अशक्तं जीवचैतन्यमस्तीति तलवकारोपनिषद्बलादेव सिद्धम् । बहुशोभमानामुमां हैमवतीं तां होवाच किमेतद्यक्षमिति ब्रह्मेति होवाच । ब्रह्मणो वा एतद्विजये देवा अमहीयध्व-मिति । पुनः पार्वत्युपदेशेन सर्वशक्तं देवासुरयुद्धे कृष्णरामादिवद्बहिर्योद्धृ-ब्रह्मरूपस्याश्रौतत्वेन सर्वदेवां तर्यामिरूपस्यैवा विष्टभूतवद्योद्धृत्वस्यार्थतः प्राप्तत्वाद् ईश्वरचैतन्यमपि सर्वदेहेष्वस्तीति तस्यामेवोपनिषदि प्रतिपादितम् । एवं च सुशक्ता शक्तचैतन्ययोर्द्वयोश्श्रुत्या श्रौतार्थापत्त्या च सिद्धं जीवेश्वरभेदं कथं तवोपास्तिर्हन्यादित्याह ॥ तृणमित्यादिना ॥ किलेत्यनेन तन्नशशाक-दग्धुं तन्नशशाकवातुमिति वाक्यंस्मारयति । तत् तस्माद् दाहादावसामर्थ्यात् । देवानां हृदि ॥ १४४८,१४४९ ॥

सत्यप्रमोदटीका

तलवकारोपनिषद्युक्ता कथा जीवब्रह्मभेदं संस्थाप-यतीत्याह । अग्निरित्यादिना । अग्निमरुदादिदेवा अपि तत्प्रेरणां विना तृणदाहचालनादावप्यशक्ताः । यक्षस्य परमात्मनो ऽन्तर्यामिणः प्रभावेणैव तैरसुराः पराजिता इति स्पष्टं तत्र वर्ण्यते । एवं श्रुतियुक्तिसिद्धो भेदः नोपास्यत्वमात्रेण बाधमर्हतीति भावः ॥ १४४८-१४५० ॥

युक्तिमल्लिका

विरुद्धार्थक्रियाकारि वैलक्षण्यमिदं तयोः ।

कथं ह्युपास्त्या मिथ्या स्यात्किमुपास्तिर्विषाङ्कुरः ॥ १४५० ॥

सुरोत्तमटीका

विरुद्धार्थक्रियाकारिशक्तत्वाशक्तत्वाख्यविरुद्धक्रिया-कारि । वैलक्षण्यं भेदः । उपास्त्येति मिथ्यात्वे उपास्तिमेव हेतुं कुर्वतां श्रुति-युक्त्यादिकं नास्तीति सूचितम् । मास्तु प्रमाणम् उपास्तिशक्त्यैव मिथ्यात्व-मस्त्वित्याशङ्कां सोपहासं परिहरति ॥ किमिति ॥ १४५० ॥

युक्तिमल्लिका

यथा यथा ज्ञानिनस्तमधीश्वरमुपासते ।

वस्तुस्थित्या तथैवासौ भवतीशो न चान्यथा ॥ १४५१ ॥

इत्येकवचनान्तस्य भवतीत्यस्य सत्त्वतः ।

अर्थोऽयमपि च श्रौतो मिथ्योपास्तिस्ततोऽपि न ॥ १४५२ ॥

सुरोत्तमटीका

अधुना तं यथा यथोपासत इति श्रुतेस्सयुक्तिकमर्थान्तरं वदन्साक्षादुपास्यस्यैव सत्यत्वं स्थिरीकरोति ॥ यथा यथेति ॥ उपासत इति बहुवचनबलाज्ज्ञानिन इत्युक्तम् । स इत्यस्यार्थकथनम् असावीश्वर इति । एवकारस्यार्थकथनं न चान्यथेति ॥ १४५१,१४५२ ॥

सत्यप्रमोदटीका

श्रुतेरर्थान्तरं वदन् उपास्यस्य सत्यत्वं स्थिरीकरोति यथेति । उपासते इति बहुवचनस्य भवति इत्येकवचनस्य चैककर्तृत्वेऽनुपपत्त्या उपासते इत्यत्र तम् इति भवतीत्यत्र असौ इति पदम् अध्याहृत्यार्थो वर्णनीय इत्याह तमिति असाविति च । तथैव उपासनानुसारेण भिन्नः सविशेष एव न तु पुनो ऽभिन्नो निर्विशेषश्चेत्याह वस्तुस्थित्या इति ॥ १४५१,१४५२ ॥

युक्तिमल्लिका

प्राग्विभक्तेर्विपरिणत्यर्थोऽत्र तु यथा श्रुतः ।

त्रयोर्थास्सर्ववेदेष्वित्यस्ति यद्व्यासशासनम् ॥ १४५३ ॥

सुरोत्तमटीका

संभावितानेकार्थकथनमपि पूर्वाचार्याभिप्रेतमेवेत्याह ॥ त्रय इति ॥ १४५३ ॥

सत्यप्रमोदटीका

त्रयोऽर्था इति ‘त्र्यर्थतां श्रुतिषु वित्त’ इति वचनात् ॥ १४५३ ॥

युक्तिमल्लिका

अहो न च रमन्त्येते तथैवात्महनश्च ते ।

उपासते ये त्वसत्यमित्याह श्रुतिगीतिका ॥ १४५४ ॥

सुरोत्तमटीका

न च रमंत्यहो असदुपासनया आत्महनो जना इति श्रुतिगीतावचनेनापि विनिन्दितमसदुपासनमित्याह ॥ अहो इति ॥ आत्महनः परमात्महनः ॥ १४५४ ॥

सत्यप्रमोदटीका

‘न च रमन्त्यहो असदुपासनया आत्महनो जनाः’ इति श्रुतिगीतिकायां मिथ्योपासनस्य निन्दितत्वाच्च न पराभिमतः श्रुत्यर्थ इत्याह अहो इति ॥ १४५४ ॥

युक्तिमल्लिका

अतो विनिन्दितामेतां कथं वक्ति श्रुतिस्सती ।

तेनोपास्यं समस्तं च सत्यमित्यागतं बलात् ॥ १४५५ ॥

सुरोत्तमटीका

श्रुतिर् नेदं यदिदमुपासत इति श्रुतिः । तेन असदुपासनाविनिन्दनेन ॥ १४५५ ॥

युक्तिमल्लिका

ध्यानाय मननं तस्मै श्रवणं दर्शनाय तत् ।

इति तेऽपि मतं तस्माद्दृष्टिध्यानेन भिन्नयोः ॥ १४५६ ॥

सुरोत्तमटीका

श्रवणमनननिदिध्यासनापरोक्षज्ञानानां त्वयाप्येक-विषयत्वाङ्गीकारादपसिद्धान्तश्चेत्याह ॥ ध्यानायेति ॥ तस्मै मननाय । तत् श्रवणम् ॥ १४५६ ॥

सत्यप्रमोदटीका

अपसिद्धान्तं च परस्याह ध्यानायेति । तस्मै मननाय’ श्रवणजं ज्ञानं पूर्ववृत्तं’ इति सुधोक्तेः । तत् श्रवणं दर्शनायेति ते मतम् इत्यन्वयः । स्वमते शब्दस्यापरोक्षज्ञानहेतुताया दूषितत्वात् (न्याया.३। ९। प.६३५) स्वमते तु निदिध्यासनमेवाङ्गि श्रवणं तु तदङ्गमित्यन्यदेतत् । श्रवणध्यानदर्शनानां समानविषयकत्वं हि परस्य सिद्धान्तः ॥ १४५६ ॥

युक्तिमल्लिका

न चेत्तवाश्रुतध्यानमश्नुते क्षणमेव वा ।

आपतेत द्वयं चापि न युक्तं नापि ते मतम् ॥ १४५७ ॥

सुरोत्तमटीका

न चेद् ध्यानापरोक्षज्ञाने एकस्य न चेत् । श्रवणदर्शन-योरेकविषयत्वे अश्रुतस्य ध्यानम् । सत्यार्थदर्शनानुगुणसत्यार्थ श्रवणस्या-सत्यार्थध्यानाननुगुणत्वात् । एवमेव श्रवणध्यानयोरेक विषयत्वे अश्रुतस्येक्षण-मिति भावः ॥ १४५७ ॥

सत्यप्रमोदटीका

न चेद् ध्यानापरोक्षयोः समानविषयकत्वं न चेत् ॥ १४५७ ॥

युक्तिमल्लिका

श्रवणं करणं तत्त्वसाक्षात्कारश्च तत्फलम् ।

श्रवणादेव च ध्यानं तत्रान्योऽर्थः कुतोऽपतत् ॥ १४५८ ॥

सुरोत्तमटीका

तत्र ध्याने ॥ १४५८ ॥

सत्यप्रमोदटीका

अन्यो ऽर्थः श्रवणाविषयः मिथ्याभूतः ॥१४५८॥

युक्तिमल्लिका

किञ्चासम्भावनोच्छित्यै मननं किल ते मते ।

ध्यानं च विपरीतार्थभावनोच्छित्तये किल ॥ १४५९ ॥

तद्ध्यानं विपरीतार्थविषयं चेत्कथं ततः ।

विपरीतार्थविषयभावनोच्छिद्यते वद ॥ १४६० ॥

सुरोत्तमटीका

प्रकारान्तरेणाप्यपसिद्धान्तमाह ॥ किं चेति ॥ १४५९,१४६० ॥

सत्यप्रमोदटीका

विपरीतेति । श्रवणाद्विपरीतेत्यर्थः ॥१४५९,१४६०॥

युक्तिमल्लिका

न चेदुन्मत्तवार्ता स्याच्छास्त्रवार्ता तवाखिला ॥ १४६१ ॥

सुरोत्तमटीका

नचेत्सत्यस्योपासनं न चेत् । पूर्वोत्तरविरुद्धभाषित्वा-दिति भावः ।एतदेवाभिप्रेत्य प्रागस्माभिस्संगतिकाले कथितम्॥१४६१ ॥

सत्यप्रमोदटीका

उन्मत्तवार्ता पूर्वोत्तरविरोधात् सकलप्रमाणविरोधा-दपसिद्धान्ताच्च ॥ १४६१ ॥

युक्तिमल्लिका

तन्निर्गुणार्थश्रवणे ध्यानं निर्गुणगोचरम् ।

त्वयापि सर्वथा वाच्यं न चेदङ्गाङ्गितैव न ॥ १४६२ ॥

सुरोत्तमटीका

तत् स्वग्रन्थ एवोक्तत्वाद् दूषणान्तरं चाह ॥ न चेदिति ॥ न चेद् ध्यानश्रवणयोरेकविषयता न चेत् । अङ्गाङ्गिता । ध्यान-स्याङ्गिता श्रवणस्याङ्गतेत्यर्थः ॥ १४६२ ॥

सत्यप्रमोदटीका

अङ्गाङ्गिता त्वन्मते श्रवणस्याङ्गिता ध्यानस्याङ्गता । वस्तुगत्या वैपरीत्यम् । सर्वथा समानविषयकत्वमावश्यकमेवेति भावः ॥ १४६२ ॥

युक्तिमल्लिका

यतः फलैक्ये सति सा बोध्यैक्ये च फलैकता ।

सत्यार्थश्रवणे तस्मात्सत्यार्थस्यैव भावना ॥ १४६३ ॥

सुरोत्तमटीका

एतदेवोपपादयति ॥ यत इति ॥ सा अङ्गाङ्गिता । फलवत्सन्निधावफलं ह्यङ्गम् अफलं फलान्तररहितमित्यर्थः । सर्वथाऽफलत्वेऽ-कार्यत्वप्रसङ्गादिति भावः । बोध्यैक्ये बोध्यस्य श्रवणविषयस्य ध्यानविषयस्य च ऐक्ये । विषयप्रतिपादनेनैव दार्ढ्याख्य फलजनकयोः प्रमाणद्वययोरेक-विषयत्वनियमदर्शनादिति भावः । तस्मात् श्रुतस्यैव भावयितुं शक्यत्वात्

॥ १४६३ ॥

सत्यप्रमोदटीका

फलं त्वन्मते निर्विशेषसाक्षात्कारः । बोध्यः निर्विशेषम् । तथा च श्रवणस्य तद्विषयकत्वे ध्यानस्यापि भेदोपासनं त्वन्मते दुर्घटम् । श्रवणस्य मिथ्यार्थत्वं व्यापकं, तच्च त्वया नाङ्गीकृतम् । तच्च व्यावर्त-मानं ध्यानस्य मिथ्यार्थकत्वं व्यावर्त्य सत्यार्थकत्वं व्यवस्थापयति । एवं च भेदस्योपास्यत्वेऽपि सत्यत्वमेव सिद्ध्यतीत्याह तस्मादिति ॥१४६३,१४६४॥

युक्तिमल्लिका

मिथ्यार्थश्रवणे तु स्यान्मिथ्यार्थस्यापि भावना ।

तस्मादुपास्यो भेदोऽस्तु सत्योऽप्यस्तु श्रुतीरितः ॥ १४६४ ॥

सुरोत्तमटीका

तस्मात्सत्यश्रवणे सतय्पासन नियमात् । मिथ्याश्रवणस्य त्वयाप्यनङ्गीकारात् ॥ १४६४ ॥

युक्तिमल्लिका

उपास्तेरेव बलतो मिथ्यात्वं तु तवापि न ।

अतः पूर्वोक्तवेदर्चोऽप्यापातार्थो न यौक्तिकः ॥ १४६५ ॥

सुरोत्तमटीका

उपास्तेर्विपरीतभावनानिवारकोपास्तेः । अतो ऽसत्यो-पासनस्यायोगात् । पूर्वोक्तवेदः नेदं यदिदमिति वेदः । आपातार्थ उपास्य-मिथ्यात्वम् ॥ १४६५ ॥

सत्यप्रमोदटीका

ऋक् ‘नेदं यदिदं’ इत्यादिका ॥ १४६५ ॥

युक्तिमल्लिका

योग्यार्थे तां निनीषोस्ते गुरुरासीज्जगद्गुरुः ।

अतो भेदश्रुतेरर्थं न भेत्तुं कोऽपि शक्नुयात् ॥ १४६६ ॥

सुरोत्तमटीका

तां श्रुतिं जगद्गुरुः श्रीमुख्यप्राणः । योग्यार्थस्य त्वयापि वक्तव्यत्वाद् अस्मदाचार्योक्तप्रकारेणैव श्रुतेरर्थं वदेति भावः ॥१४६६,१४६७ ॥

सत्यप्रमोदटीका

ते गुरुर् इति तेन त्वया अकामेनापि मद्भाष्यकृदुक्तो ऽर्थ एव उपेय इति भावः ॥ १४६६ ॥

युक्तिमल्लिका

पदद्वयाविरुद्धोऽयं श्रुत्यर्थः केन चाल्यते ।

तत्पदाभ्यां विरुद्धं तु तदैक्यं चलनोचितम् ॥ १४६७ ॥

सत्यप्रमोदटीका

तत्त्वमसीति वाक्यस्य भेदे निरवकाशत्वं, ऐक्ये तु सादृश्यादिपरत्वेन सावकाशत्वम् इत्याह पदद्वयेति ॥ १४६७ ॥

युक्तिमल्लिका

पश्येज्जीवो यदा रुग्मवर्णं कर्तारमीश्वरम् ।

पुरुषं ब्रह्मपितरं तदा त्यक्त्वा तमोऽञ्जनम् ।

विधूय सकलं कर्म परं साम्यमुपैति च ॥ १४६८ ॥

सुरोत्तमटीका

अधुना ‘यदा पश्यः पश्यते रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम् । तदाविद्वान्पुण्यपापेविधूयनिरंजनः परमं साम्यमुपैती’ति श्रुतेरर्थ-पर्यालोचनायां सर्वं मध्वमत रहस्यं तस्य पारमार्थिकता च सिद्धेत्याह ॥ पश्येदिति ॥ कर्तृपदसूचित कर्तृकार्यभावेन ईशपदसूचितस्वामिभृत्यभावेन च सकलजीवभेदस्य ब्रह्मयोनिपदे न च चतुर्मूखाख्यजीवभेदस्य च श्रुत्यैव सयुक्तिकं साधितत्वाज्जीवेश भेदस्येत्युक्तम् ।भेदसापेक्षसाम्यस्यैव फलतया कथनान् मुक्तस्यापि च भिन्नतामित्युक्तम्॥१४६८,१४६९ ॥

सत्यप्रमोदटीका

‘यदा पश्यः पश्यते रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्म-योनिम् । तदा विद्वान्पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति’ इति श्रुतिम् अर्थतोऽनुवदति पश्येदिति ॥ १४६८ ॥

युक्तिमल्लिका

इति जीवेशभेदस्य साक्षात्कारेण हि श्रुतिः ।

परमं मोक्षमाचष्ट मुक्तस्यापि भिन्नताम् ॥ १४६९ ॥

न ह्यञ्जनाख्यतमसः कर्मणोः पुण्यपापयोः ।

क्षयः परमसाम्यं च महामोक्षमृते भवेत् ॥ १४७० ॥

सुरोत्तमटीका

अवान्तरमोक्षत्वशङ्कां परिहरति ॥ नहीति ॥ १४७० ॥

सत्यप्रमोदटीका

अनया श्रुत्या सिद्धान्तसकलप्रमेयसिद्धिप्रकारमाह इतीत्यादिभिः । भेदस्येति । कर्तृत्वईशत्वपुरुषत्वलक्षणपूर्णत्वचतुर्मुखयोनि-त्वादिविरुद्धधर्मकथनेनेति भावः । मोक्षस्य परमत्वसिद्धिप्रकारमाह न हीति अञ्जनम् अविद्याख्यं तमः । पुण्यपापविधूनने विशेषः ‘तदधिगम’नय-भाष्यटीकाऽनुसारेणावसेयः ॥ १४६९,१४७० ॥

युक्तिमल्लिका

साकारस्य सवर्णस्य कर्तुस्सर्वेश्वरस्य च ।

साक्षात्कारोऽस्य भेदादेः किं न साक्षात्कृतिर्वद ॥ १४७१ ॥

सुरोत्तमटीका

भेदादेरस्येति सम्बन्धः । अस्याकारवर्णकर्तृत्वेशत्व ब्रह्मपितृत्वाख्य धर्मसमुदायस्य । विशिष्टसाक्षात्कारे विशेषण साक्षात्कार-स्याप्यवश्यकत्वादिति भावः ॥ १४७१ ॥

सत्यप्रमोदटीका

अस्य भिन्नस्य । भेदादेर् आदिपदेन अकारादि भेदकधर्माणां ग्रहणम् । किं न इति । तेषां तत्स्वरूपत्वादिति भावः ॥१४७१॥

युक्तिमल्लिका

यदा तदेतिशब्दाभ्यां पारम्पर्यनिषेधनात् ।

साक्षान्मोक्षोपयोगित्वं ज्ञानस्यास्य निगद्यते ॥ १४७२ ॥

सुरोत्तमटीका

यस्मिन्काले दर्शनं तस्मिन्काले साम्यमुपैतीत्युक्त्यादर्शन मोक्षकालयोरव्यवधानलाभात् पारंपर्यनिषेधनादित्युक्तम् । अस्य ज्ञानस्य भेदाकारादिज्ञानस्य ॥ १४७२ ॥

सत्यप्रमोदटीका

साक्षादिति । ‘स्वोदयात्फलदं ज्ञानं’ इत्युक्तेः । प्रसादस्तु ईश्वरगतः न अधिकारिनिष्ठ इति भावः ॥ १४७२ ॥

युक्तिमल्लिका

अतस्साकारतावर्णः कर्तृत्वेशत्वपूर्वकः ।

महिमा ब्रह्मपितृता भिदा चाबाध्यतामगात् ॥ १४७३ ॥

यतस्साम्यं द्वयोरेव ततो मोक्षेऽपि भिन्नता ॥ १४७४ ॥

सुरोत्तमटीका

अतः साक्षान्मोक्षोपयोगि ज्ञानविषयत्वात् ॥ १४७३,१४७४ ॥

सत्यप्रमोदटीका

अतः मोक्षोपयोगिज्ञानविषयत्वात् ॥१४७३,१४७४॥

युक्तिमल्लिका

एवं च तत्त्ववाद्युक्ततत्त्वसर्वस्वमेव हि ।

तत्त्वमासीदतत्त्वस्य दर्शनान्न हि मुक्तता ।

अतोऽपि शङ्का पङ्कस्य नावकाशोऽत्र कश्चन ॥ १४७५ ॥

सुरोत्तमटीका

शङ्कापङ्कस्य बाधादिशङ्कापङ्कस्य । अत्र द्वासुपर्णेति श्रुत्याप्रतिपादितभेदे । एतच्छ्रुतिसमाख्यया साप्यबाधितभेदपरैवेति भावः ॥ १४७५ ॥

सत्यप्रमोदटीका

अत्र भेदे तत्पारमार्थ्ये च ॥ १४७५ ॥

युक्तिमल्लिका

भिन्नाभिन्नादिकल्पोक्तदूषणैर्भेददूषणम् ।

जात्युत्तरं हि तत्सर्वं यत्खण्डनकृताकृतम् ।

व्यावहारिकभेदस्याप्यपलापप्रसङ्गतः ॥ १४७६ ॥

सुरोत्तमटीका

प्राक् भेदे क्रियमाणभिन्नादिविकल्पस्य दूषणस्य च ऐक्येपि वक्तुं शक्यत्वात् स्वव्याहतिरित्युक्तम् । अधुना एवं विकल्प्य भेददूषणे कृते स्वाङ्गीकृत व्यावहारिकत्वस्यापि भङ्गप्रसङ्गात् स्वव्याहतिरित्याह ॥ भिन्नाभिन्नादीति ॥ १४७६ ॥

सत्यप्रमोदटीका

पूर्वम् अभेदपक्षेऽपि समानः प्रसङ्ग इत्युक्तम् । व्यावहारिकभेदपक्षेऽपि इत्युक्तेः पूर्वोक्ताद्भेदः ॥ १४७६ ॥

युक्तिमल्लिका

भेदभेदेऽनवस्थानमभेदे चैकशेषता ।

भेदाभेदे विरोधश्चेत्येतद्धि तव दूषणम् ॥ १४७७ ॥

सुरोत्तमटीका

प्राग्विकल्पानां दूषणानां च स्पष्टमनुक्तत्वाद् इदानीमाह ॥ भेदभेद इति ॥ भेदस्य धर्मिणस्सकाशाद् भेद इत्यर्थः॥१४७७ ॥

सत्यप्रमोदटीका

तद्दूषणप्रकारं खण्डनसौकर्यायानुवदति भेदभेद इति तदुक्तं वादावल्यां ‘तत्तद्भेदस्य भेदान्तरभेदेऽनवस्थानादि’ति । एकशेषता । इत्युपलक्षणम् । सम्बन्धितया प्रतीतिर् अपर्यायशब्दवाच्यत्वम् इत्यादि सकल-भेदव्यवहारानुपपत्तयो ग्राह्याः । अतश् चतुर्थप्रकारस्य अनिर्वचनीयत्वस्य सिद्धिरिति परस्य हृदयम् ॥ १४७७ ॥

युक्तिमल्लिका

आत्माश्रयानवस्थाद्यैर्दोषैर्भेदस्य दूषणे ।

व्यावहारिकताऽप्यस्य कथं स्याद्या मता तव ॥ १४७८ ॥

सुरोत्तमटीका

भेदभिन्नधर्मिणः पुनर्भेदाद् भिन्नत्वकथने आत्माश्रय-प्रसक्त्या अभेदपक्षे आत्माश्रयदोषस्यापि सत्त्वाद् आत्माश्रयानवस्थादि दूषणै-रित्युक्तम् । अस्य भेदस्य । या व्यावहारिका ॥ १४७८,१४७९ ॥

सत्यप्रमोदटीका

यदि भेददर्शनं वास्तवं स्यात् तर्हि अन्योन्याश्रयादिकं स्याद् इति खलु आपादनीयम् । तत्र च व्याप्तिवैधुर्यमिति वादावल्युक्तदूषणे स्थिते तस्य स्फुटत्वाद्दोषान्तरमाह । व्यावहारिकतेति । तथा च प्रतितर्क-पराहतिः ॥ १४७८ ॥

युक्तिमल्लिका

किं घटः पटहेतुस्ते पटो वा घटहेतुकः ।

किं स्वयं स्वोपरिघटः किं स्याद्घटपरम्परा ॥ १४७९ ॥

तद्व्यावहारिकेऽप्यर्थे दोषा न स्युरिमे कथम् ॥ १४८० ॥

सुरोत्तमटीका

तत् तस्माद् घटादि व्यावहारिकपदार्थेष्वप्यात्माश्रयादे-र्दोषत्वस्य त्वयाप्यङ्गीकारात् । अर्थे भेदरूपेऽर्थे ॥ १४८० ॥

सत्यप्रमोदटीका

व्यावहारिकत्वेऽपि उक्तदोषाणां न परिहार इत्याह । किं घट इति । उत्पत्तौ दोषमुक्त्वा प्रवृत्तावप्याह किं स्वयमिति

॥ १४७९-१४८१ ॥

युक्तिमल्लिका

अतस्ते व्यवहाराय समाधानं हि यद्भवेत् ।

तदेव पारमार्थ्येऽपि समाधानं भविष्यति ॥ १४८१ ॥

सुरोत्तमटीका

व्यवहाराय भेदे व्यावहारिकत्वव्यवहाराय । पारमार्थ्ये भेदपारमार्थ्ये । भेदस्य मिथ्यात्वाद् अनवस्थादिकं न दोष इति त्वयापि न वक्तुं शक्यम् । मिथ्याभूतघटेष्वेव एषां दोषत्वाङ्गीकारात् । प्रकारान्तरेण परिहारे ममापि स एव परिहारो भविष्यतीति भावः ॥ १४८१ ॥

युक्तिमल्लिका

किञ्च ते परमार्थैक्ये विकल्पो दूषणानि च ।

भवन्त्येतानि सर्वाणि ततस्तच्च मरिष्यति ॥ १४८२ ॥

सुरोत्तमटीका

प्रागुक्तस्वव्याहतिं च स्मारयति ॥ किं चेति ॥ तद् ऐक्यम् ॥ १४८२ ॥

सत्यप्रमोदटीका

स्वाभिलषितस्याभेदस्याप्यसिद्धेरिति उक्तं स्मारयति इदं चोपलक्षणम् । ब्रह्मण्यपि प्रपञ्चाद्भिन्नम् अभिन्नं वा इत्यादि विकल्पदोषाः समा एवेति वादावल्युक्तं च ग्राह्यम् । ततश्च ब्रह्मापि अनिर्वचनीयं स्यादिति ॥ १४८२ ॥

युक्तिमल्लिका

मृतसञ्जीवनं तत्र यत्स्याद्भेदेऽपि तद्भवेत् ।

अतो यत्किञ्चिदेवैतदिति सर्वं मनोरमम् ॥ १४८३ ॥

सुरोत्तमटीका

तत्रैक्ये । एतद् विकल्पो दूषणं च ॥ १४८३ ॥

सत्यप्रमोदटीका

यद् विशेषः । यत्किञ्चिदिति तदुक्तम् उदयनेन ‘एतामेव जातिमवष्टभ्य शुष्कतर्कवादिनम् । बौद्धचार्वाकवेदान्तिनां बालव्यामोहहेतवः कण्ठकोलाहलाः’ इति ॥ १४८३ ॥