३५ भेदवाक्यानाम् अनुवादकत्वनिरासः

यद्यन्यतः सिद्धभेदस्यानुवादेन मे श्रुतिः

भेदवाक्यानाम् अनुवादकत्वनिरासः

युक्तिमल्लिका

यद्यन्यतः सिद्धभेदस्यानुवादेन मे श्रुतिः ।

न भेदसाधिका तर्हि स्वप्रकाशत्वशक्तितः ॥ १३३८ ॥

सिद्धस्य ब्रह्मसत्त्वस्याप्यनुवादपरा श्रुतिः ।

अस्ति ब्रह्मेत्यादिरूपा न तत्सत्त्वं प्रसाधयेत् ॥ १३३९ ॥

सुरोत्तमटीका

मानान्तरसिद्धभेदस्यानुवादकतया भेदश्रुतेर्न भेदे तात्पर्यमिति शङ्कां प्रतिबन्द्या परिहरति ॥ यदीति ॥ अन्यतः मानान्तरात् । तत्सत्त्वं ब्रह्मसत्त्वम् ॥ १३३८,१३३९ ॥

सत्यप्रमोदटीका

अनुवादकत्वेन भेदवाक्यानां दौर्बल्यम् इत्येतन्निराह तर्हीति ॥ १३३८-१३४० ॥

युक्तिमल्लिका

असिद्धबोधकं शून्यवाक्यं स्यादैक्यवाक्यवत् ।

अतोऽपि ब्रह्मभेदोऽयं ब्रह्मसंमित एव हि ॥ १३४० ॥

सुरोत्तमटीका

अतोऽपि उक्तन्यायादपि ॥ १३४० ॥

युक्तिमल्लिका

यदि प्रत्यक्षसिद्धस्य सा भेदस्यानुवादिनी ।

तर्हीशधर्मिको भेदो भीमसेनगदा भवत् ।

यतोन्यपदयुग्मेन भेदौ द्वावप्युदीरितौ ॥ १३४१ ॥

सुरोत्तमटीका

दोषान्तरं चाह ॥ यदीति ॥ सा भेदश्रुतिः । भीमसेन-गदा भीमसेनगदावदभेद्य इत्यर्थः । ईश्वरधर्मिकभेदस्य प्रत्यक्षासिद्धत्वेन अनुवादकत्व शङ्काया अपि तत्राभावादिति भावः । नन्वीश्वरधर्मिको भेद-श्श्रुत्या नोक्त इत्यत आह ॥ यत इति ॥ द्वौ ईश्वरधर्मिकजीवधर्मिकौ

॥ १३४१ ॥

सत्यप्रमोदटीका

‘न च जीवेश्वरभेदः सिद्ध इत्यनुवादकत्वं भेद-वाक्यानाम् । आगमं विनेश्वरस्यैवासिद्धेः’ इति तत्त्वनिर्णयानुरोधेनाह यदीति ईश्वरस्य अत एव तद्धर्मिकस्य तत्स्वरूपस्य भेदस्य प्रत्यक्षेण सिद्ध्यसम्भवात् । ‘अन्यो ऽत्ती’ति जीवधर्मिकः, ‘अन्यो ऽनश्नन्नि’त्यनेनेश्वरधर्मिक इति द्वयोरपि लाभो ज्ञेयः ॥ १३४१ ॥

युक्तिमल्लिका

अथ प्रत्यक्षसिद्धस्य जीवभेदस्य च श्रुतिः ।

कुतोऽनुवादं कुरुते तूष्णीं वा दूषणाय वा ॥ १३४२ ॥

आद्ये द्विर्बद्धभेदोऽसौ सुबद्धोऽभून्न संशयः ।

न चेत्स्वोक्तार्थनिर्णीत्यै शासनानुसृतिर्वृथा ॥ १३४३ ॥

सुरोत्तमटीका

कुत इत्युक्तप्रश्नं विशदयति ॥ तूष्णीं वेति ॥ पक्षद्वयं च दूषयति ॥ आद्य इत्यादिना ॥ न चेन्मानान्तरसंवादो दार्ढ्याय न चेत् । शासनं शिलाशासनम् ॥ १३४२,१३४३ ॥

सत्यप्रमोदटीका

तूष्णीं समानविषयकत्वमात्रेण । सुबद्धस् तदुक्तं ‘बहुप्रमाणसंवादश्च दाढर्््यहेतुरेवे’ति । निर्णीत्यै न्यायालयादिषु । शासनं शिलाशासनम् ॥ १३४२,१३४३ ॥

युक्तिमल्लिका

मानस्य मानसंवादे प्रामाण्यावधृतिः किल ।

चित्रसत्वौषधेनाभूत्काचच्छेदेक्ष्णितीक्ष्णता ।

अतोतिबलवद्वैरात्स्यादैक्यस्य पलायनम् ॥ १३४४ ॥

सुरोत्तमटीका

मानान्तरसंवादेन भेदस्य बलवत्त्वात् ॥ १३४४ ॥

सत्यप्रमोदटीका

काचच्छेदे अक्षिदोषनिरासे । तथा अत्रापि अप्रामाण्य शङ्कानिरासः दाढर्््यहेतुरेव । यथोक्तम् । ‘तच्च यावद्यावदधिकं प्रमीयते तत्तदनुसारिणीं निःशङ्कां क्षिप्रप्रवृत्तिं प्रसूते इत्यनुभवसिद्धम् । तथा च प्रामाण्यमेव स्वकार्यातिशयवशेनातिशयवदुच्यते इति । पलायनं बाधः । यथोक्तं ‘बहुप्रमाणनिषेधादेवैकस्याप्रामाण्यं दृष्टं शुक्तिरजतादौ’ इति ॥ १३४४ ॥

युक्तिमल्लिका

द्वितीये दूषणं किं तदैक्यवाक्यं यदीष्यते ।

तदाऽन्योन्याश्रयो दोषो वैर्याश्लेषोपमस्तव ॥ १३४५ ॥

सुरोत्तमटीका

द्वितीये दूषणार्थमनुवाद इति पक्षे । तद् यदर्थमनुवादस् तत् । तदा ऐक्यवाक्यस्य दूषणत्वे ॥ १३४५ ॥

सत्यप्रमोदटीका

द्वितीये दूषणार्थम् अनुवाद इति पक्षे । किं तद्दूषणम् ॥ १३४५ ॥

युक्तिमल्लिका

दूषणार्थानुवादित्वे सिद्धभेदपरश्रुतेः ।

निरङ्कुशैक्यवागैक्यमुक्त्वा तां दूषयेत्स्वयम् ॥ १३४६ ॥

सिद्धेऽस्या दूषकत्वे च दूषणार्थानुवादिनी ।

सा स्यादिति न कस्य स्यादन्योन्याश्रयदूषणम् ॥ १३४७ ॥

सुरोत्तमटीका

अन्योन्याश्रयमेव दर्शयति ॥ दूषणेति ॥ निरङ्कुशा विरोधिभेद श्रुत्याख्यांकुशरहिता ॥ तां भेदश्रुतिम् ॥ अस्या ऐक्यश्रुतेः । सा भेदश्रुतिः ॥ १३४६,१३४७ ॥

सत्यप्रमोदटीका

भेदश्रुतेर् अनुवादित्वे तत एव दुर्बलत्वे सिद्धे सति, ऐक्यवाक्यं भेदवाक्याबाधेन निरङ्कुशं सत् स्वार्थपरं स्यात् । ततश्च भेदवाक्यस्य दूषकं स्यात्।सिद्धे तस्य दूषकत्वे भेदवाक्यमनुवादकं स्यादिति अन्योन्याश्रय इत्याह दूषणार्थेति॥१३४६,१३४७ ॥

युक्तिमल्लिका

श्वानं गृहाण भिक्षा मे मास्त्वित्याभाणकं स्मर ।

यदन्योन्याश्रयशुना दंष्ट्रा परशुनार्दिते ।

दूरेऽभूद्दूषणार्थानुवादित्वान्नस्य भोजनम् ॥ १३४८ ॥

सुरोत्तमटीका

तथा च भिक्षा मास्तु श्वानं गृहाणेत्याभाणकमनुकरोषी-त्याह ॥ श्वानमिति ॥ अर्दितेत्वयि ॥ १३४८ ॥

सत्यप्रमोदटीका

तथा च श्वानदशनभिया भिक्षाया इव अन्योन्या-श्रयभिया अनुवादित्वोक्तिस्त्वया त्याज्येत्याह श्वानमिति ॥ १३४८ ॥

युक्तिमल्लिका

दृढप्रत्यक्षवैरोऽपि श्रुतिरैक्यं कथं वदेत् ।

अबाधितो हि वाक्यार्थो योग्यतावश्यकी न किम् ॥ १३४९ ॥

सुरोत्तमटीका

किं च प्रत्यक्षबाधाच्च ऐक्यश्रुतिर्न स्वार्थपरा । अतोऽपि न भेदश्रुतिदूषणायालमित्याह ॥ दृढेति ॥ योग्यता अर्थाबाधरूपयोग्यता

॥ १३४९ ॥

सत्यप्रमोदटीका

‘न च प्रत्यक्षसिद्धम् अन्येन केनापि बाध्यं दृष्टं’ इति तत्त्वोद्योतं हृदि कृत्वाऽऽह दृढेति । वाक्यप्रामाण्यस्य प्रमाणविरोधाभाव-लक्षणयोग्यताघटितत्वादिति भावः ॥ १३४९ ॥

युक्तिमल्लिका

यदा प्रत्यक्षबाधायाप्यैक्यवाक्यं व्रजेत्तव (प्रवर्तते) ।

तदा बलवती भेदश्रुतिर्हन्याद्धि पृष्ठतः ॥ १३५० ॥

सुरोत्तमटीका

ऐक्यश्रुत्यैव प्रत्यक्षस्यापि बाध इति चेत् । तत्राह ॥ यदेति ॥ बलवती प्रत्यक्षसहायवत्त्वेन बलवती ॥ १३५० ॥

सत्यप्रमोदटीका

‘प्रत्यक्षानुमानसिद्धत्वे भेदस्य तद्विरोधादेवाप्रामाण्य-मभेदागमस्य । तेन च तस्याप्रामाण्ये नानुवादकत्वं भेदवाक्यानाम् । न हि बलवतोऽनुवादकत्वं दाढर्््यहेतुत्वात्’ इति तत्त्वनिर्णयमनुरुध्याह यदेति । प्रवर्तते अपौरुषेयत्वाभिमानेन बलवती । तदा न्यायसाम्येन बलवती भेदश्रुतिर् दैवादागत प्रत्यक्षादिप्रमाणान्तरसंवादेन ऐक्यवाक्यापेक्षया बलीयसी च । हन्याद् अभेदश्रुतिं स्वार्थात्प्रच्यावयेत् ॥ १३५० ॥

युक्तिमल्लिका

अथ भेदश्रुतिं रोद्धुं यदा निववृते ततः ।

तदा तां पृष्ठतो हन्यात्स साक्षी बलवत्तरः ॥ १३५१ ॥

सुरोत्तमटीका

ततः प्रत्यक्षबाधकरणात् । ताम् ऐक्यश्रुतिम् । सः भेदग्राही बलवत्तरः ॥ १३५१ ॥

सत्यप्रमोदटीका

निववृते प्रत्यक्षस्य स्वभावप्राबल्यनिमित्ताद् बलवत्तरा भेदश्रुतिसंवादेन सुदृढा च ॥ १३५१ ॥

युक्तिमल्लिका

तस्मादुभाभ्यां युद्धेन क्लिश्येदैक्यश्रुतिस्तव ।

अतस्तां क्लेशनाशाय शीघ्रमर्थान्तरे नय ॥ १३५२ ॥

सुरोत्तमटीका

तस्माच्छ्रुत्या युद्धे प्रत्यक्षेण ताडनात् प्रत्यक्षेण युद्धे च श्रुत्या ताडनादित्यर्थः । यथा उभाभ्यां प्रबलभटाभ्यां युद्धकारिभटस्य एकं प्रति प्रत्यवस्थाने अपरो हन्यात् । अपरं प्रति च प्रतिवस्थाने पुनस्स एव हन्यात् । तथा तवैक्यवाक्यस्यापि प्रबलप्रमाणद्वयविरोधेन स्वार्था साधकत्वरूप-सङ्कट-मागतमिति भावः । अत उक्तरीत्या प्रमाणद्वयविरोधेन स्वमुख्यार्थकथन-सामर्थ्याभावात् ॥ १३५२ ॥

सत्यप्रमोदटीका

शीघ्रं प्रामाण्यरूपप्राणरक्षणाय । अर्थान्तरं सादृश्याद्यैक्ये ॥ १३५२ ॥

युक्तिमल्लिका

किञ्च प्रत्यक्षबाधाय नालं वाक्यशतान्यपि ।

अन्योन्याश्रयदोषेण तथा दोषान्तरेण च ॥ १३५३ ॥

सुरोत्तमटीका

ऐक्यश्रुतेः प्रत्यक्षबाधकत्वे पूर्ववदन्योन्याश्रयं लक्षणा-वृत्तेरुच्छेदं च दोषमाह ॥ किं चेति ॥ १३५३,१३५४ ॥

सत्यप्रमोदटीका

किञ्चेति उक्तं हि परेणापि गीताभाष्ये (अ.१८) अग्निर् अनुष्णः, अग्निर् न प्रकाशते इति ब्रुवत् श्रुतिशतम् अपि प्रामाण्यं नाश्नुते । अतीन्द्रियविषयकत्वात्तत्प्रामाण्यस्ये’ति ॥ १३५३ ॥

युक्तिमल्लिका

प्रत्यक्षबाधे वाक्यं तदैक्यं वक्ति ह्यबाधितम् ।

वाक्येनैवाक्षबाधे च कथं नान्योन्यसंश्रयः ॥ १३५४ ॥

वाक्येनैव यदाक्षस्य दृढस्यापि प्रबाधनम् ।

गङ्गयां घोष इति वाक्कुर्याद्घोषवतीं नदीम् ।

साक्षाद्बाधेन तत्त्यागे गतमैक्यं भवत्करात् ॥ १३५५ ॥

सुरोत्तमटीका

घोषानर्हत्वप्रत्यक्षस्य गङ्गायां घोष इत्याप्तवाक्येनैव बाधितुं शक्यत्वाद् ऐक्यवाक्यात्प्रत्यक्षबाधितमैक्यमिव गङ्गायां घोष इति वाक्यात्प्रत्यक्षबाधितमपि घोषाधारत्वं प्रवाहस्यैव सिद्ध्येदिति वाक्येनैव प्रत्यक्षबाधने लक्षणावृत्तेरुच्छेद एव स्यादिति भावः ॥ १३५५ ॥

सत्यप्रमोदटीका

अन्योन्यसंश्रय इति । न च वैपरीत्यं शक्यम् । प्रत्यक्षस्य जात्या अनुपसञ्जातविरोधित्वात् शीघ्रगामित्वाद् विशेषविषयत्वान् निरवकाशत्वाद् बहुप्रमाणसंवादित्वाच्च प्राबल्यादिति भावः । विस्तरः न्यायामृते (११०) । एवं प्रत्यक्षस्य शब्दबाध्यत्वे बाधकानि तत्रैव (११३) प्रकरणे व्युत्पादितान्यनुसन्धेयानि । तदुक्तं

‘यजमानप्रस्तरत्वं यथा नार्थः श्रुतेरभूत् ।

ब्रह्मत्वमपि जीवस्य प्रत्यक्षस्याविशेषतः’

इति । अनु ॥ १३५४,१३५५ ॥

युक्तिमल्लिका

त्यज वा लक्षणावृत्तिं भज वा तत्त्वविन्मतम् ।

व्रज वाऽन्यत्र वाणीमुत्सृज वा बुधसंसदि ॥ १३५६ ॥

सुरोत्तमटीका

एतदेव संगृह्याह ॥ त्यज वेति ॥ वाक्यस्यैव प्रत्यक्ष-बाधकत्वे उक्तरीत्या वाक्यबलादेव घोषाधारत्वस्यैव प्रवाहे वक्तुं शक्यत्वेन लक्षणावृत्तिं त्यज वा लक्षणावृत्तिरक्षणाय प्रत्यक्षस्यैव वाक्यबाधकत्वमङ्गीकृत्य बाधितमुख्यार्थत्यागेन वाक्यस्यार्थान्तरे प्रापणे तद्वदैक्यवाक्यस्यापि प्रत्यक्ष-बाधितं मुख्यैक्यं परित्यज्यामुख्यलोकसिद्धसादृश्यैक्यरूपार्थान्तरेऽवश्यं प्रापणीयत्वात् तत्वविन्मतं भज वा । एकत्र प्रत्यक्षबाधेन वाक्यमर्थान्तरे नीत्वा न्यायसाम्येपि पुनरेकत्र न नयसि चेद् अर्धजरतीयकारिणं त्वां पण्डिता हसेयुः । अतोन्यत्र देशान्तरे व्रज वा । देशान्तरगमने हास्यार्धजरतीयकथने चालसश्चेद् बुधसंसदि वाणीमुत्सृज वेति योजना । अनुप्रासश्शब्दालङ्कारः । उभयतः पाशारज्जुरर्थालङ्कारः । वक्तुराप्तत्वनिश्चये सति हि तद्वाक्येऽ-प्रामाण्यासम्भवेन मुख्यार्थबाधेऽबाधितमर्थान्तरं वदन्ति । अन्यथा आकाशे घोष इतिवद् गङ्गायां घोष इति वाक्यमप्युन्मत्तप्रलपितमेवेति ब्रूयुः । एवं च निश्चितप्रामाण्यतया प्रबलस्यैव वाक्यस्य बाधकं प्रत्यक्षं श्रुतेरपि कथं न बाधकमिति भावः । यजमानप्रस्तरादिभेदविषयप्रत्यक्षेणैव तदभेदश्रुतीनां बह्वीनामपि बाधदर्शनात् श्रुतित्वेनापि न कश्चिद्विशेषः॥१३५६ ॥

सत्यप्रमोदटीका

वैदिकत्वाभिमानेन कथाप्रवेशमभिलषतो द्वयी गतिः परस्य । प्रत्यक्षापेक्षया शब्दस्य दौर्बल्यं वा इति अन्यतरपक्षाश्रयणम् । दौर्बल्ये लक्षणापक्षमवधीर्य विशिष्टयोरैवैक्यमङ्गीकर्तव्यम् । तच्च तवानिष्टम् ।

‘कथमेकत्वमनयोर्घटते विपरीतयोः ।

प्रत्यक्षेण विरोधोऽयमुभयोरुपलभ्यते’

इति त्वद्भाष्यकारवचनात् । प्राबल्ये तदविरोधाय तत्त्ववाद्युक्तदिशा सादृश्यैक्यमर्थं स्वीकुरु । तथा च दत्तजलाञ्जलिः स्वरूपैक्यवादः । तथा चागतिकतया छद्मवैदिकवेषनिर्मोकेन वैदिकसभाया बहिष्कृतो भूयारित्याह त्यजेति ॥ १३५६ ॥

युक्तिमल्लिका

दृढभेदश्रुतेर्वैराद्दृढप्रत्यक्षवैरतः ।

नाभेदमागमो वक्ति जीवस्य परमस्य च ॥ १३५७ ॥

सुरोत्तमटीका

उक्तमर्थमुपसंहरन्सर्वत्र प्रत्यक्षेणैव श्रौतार्थबाधनेऽज्ञ-प्रत्यक्षेण भगवतस्स्वातन्त्र्यादिकमपि बाध्यं स्यादित्यतो विवेकं च दर्शयति ॥ दृढेति ॥ १३५७ ॥

सत्यप्रमोदटीका

‘निर्दोषश्रुतिसाक्षिभ्यां प्रमिते ब्रह्मजीवयोः ।

सर्वशक्त्यल्पशक्तित्वे मिथ्येति च न युज्यते’

इत्याह दृढेति ॥ १३५७ ॥

युक्तिमल्लिका

अतः प्रत्यक्षयोग्यार्थे प्रत्यक्षं बलवत्सदा ।

अतीन्द्रियार्थमात्रे तु प्रबला वागिति स्थितम् ॥ १३५८ ॥

सुरोत्तमटीका

अतः गङ्गायां घोष इत्यादौ लौकिकेऽर्थे प्रत्यक्षस्यैव प्राबल्यदर्शनात् । स्तंभे पिशाचतादात्म्याभाववत् स्वस्मिन्नीश्वरतादात्म्या-भावस्य च प्रत्यक्षयोग्यत्वेन योग्ये च स्वार्थे आगमादपि प्रत्यक्षस्यैव प्रबलत्वम् । लोकमोहनायान्याननुसरति गुरुमुखात्पठति च कृष्णे मायया निगूहित-स्वातन्त्र्यसार्वज्ञादेरस्मदादिप्रत्यक्षायोग्यत्वान् न तत्र प्रत्यक्षस्य बाधकतेति भावः

॥ १३५८ ॥

सत्यप्रमोदटीका

एवं च ‘प्राबल्यमागमस्यैव जात्या तेषु त्रिषु स्मृतम् इति वचनम् अतीन्द्रियार्थविषय एव वा बहुविषयकत्वेन वा इति निष्टङ्कित-मि’त्याह अत इति तदुक्तं तत्त्वनिर्णये ‘प्रत्यक्षादिरागमस्य प्राबल्येऽपि नोपजीव्यविरोधे प्रामाण्यं’ इति । ‘न चानुभवविरोधे आगमप्रामाण्यम् । आगमप्रामाण्यानुभवस्यैवाप्रामाण्यप्राप्तेरि’ति च ॥ १३५८ ॥

युक्तिमल्लिका

अक्षसिद्धानुवादेऽपि का हानिरिति चिन्त्यते ।

याथार्थ्यमेव मानत्वं तस्य हानिर्न काचन ।

न चेत्स्मृतिरमानं स्यात्स्मृतिकर्तृव्यपेक्षया ॥ १३५९ ॥

सुरोत्तमटीका

प्रकारान्तरेणापि प्रत्यक्षानुवादत्वपक्षं दूषयति ॥ अक्षसिद्धेति ॥ न चेद् अनुवादेऽपि याथार्थ्यस्य हानिश्चेत् । स्मृतिर् मन्वादि-स्मृतिः । स्मृतिकर्तॄणां मन्वादीनां व्यपेक्षया । स्वसाक्षिणार्थमुपलभ्य हि वाक्यं रचयन्ति । अतस्तासां प्रत्यक्षसिद्धानुवादरूपत्वाद् अप्रामाण्यं स्यादिति भावः

॥ १३५९ ॥

सत्यप्रमोदटीका

अपि च अनुवादः कथं दोषः । याथार्थ्यस्याहानेः । अन्यथा स्मृतीनां श्रुत्यर्थानुवादित्वेनाप्रामाण्यं प्रसज्यते इत्याह न चेदिति

॥ १३५९ ॥

युक्तिमल्लिका

एकस्यामानमन्यस्य कथं मानं भवेद्वद ।

प्रमात्वमप्रमात्वं च न ह्येकत्रैव धर्मिणि ॥ १३६० ॥

सुरोत्तमटीका

ननु स्मृतिकर्तॄणामप्रमाणमऽपि अन्येषां प्रमाणं भविष्यतीत्यत आह ॥ एकस्येति ॥ एकस्य प्रत्यक्षेण भेदसिद्धिमतः पुरुषस्य

॥ १३६० ॥

सत्यप्रमोदटीका

समानविषयकत्वे द्वयोरपि प्रामाण्यं वा स्याद् अप्रामाण्यमेव वा । न तु अन्यतरस्य प्रामाण्यम् अपरस्य चाप्रामाण्यम् । धर्मिणि विषयसप्तमी । समानविषयकत्वे इत्यर्थः । वस्तुनो द्वैरूप्यत्वापत्तिरन्यथा इति भावः ॥ १३६० ॥

युक्तिमल्लिका

अनपेक्षितमेकस्य परस्यान्नत्वमानता ।

परबोधनकाले तु तस्यापि तदपेक्षितम् ॥ १३६१ ॥

सुरोत्तमटीका

तस्यापि भेदसिद्धिमतोपि । तद् वचनम् ॥ १३६१ ॥

सत्यप्रमोदटीका

अनुवादे कथञ्चिद्वैयर्थ्यमेव स्यात् । न त्वेवामानत्वमित्याह अनपेक्षितमिति । तदपि न सर्वत्र । तदुक्तं ‘सर्वाविवादस्थल एव कथञ्चिदनुवादकत्वम्’ । अत्र तु औतवादिनाम् एव विवाददर्शनान्न तदित्याह परेति ॥ १३६१ ॥

युक्तिमल्लिका

प्रत्यक्षसिद्धभेदस्याप्यपलापे कृतोद्यमम् ।

परं बोधयितुं भेदवादी वादोऽप्यपेक्षते ।

अक्षसिद्धानुवादात्तन्न दोषः वोऽपि दृश्यते ॥ १३६२ ॥

सुरोत्तमटीका

अपेक्षाप्रकारमेवाह ॥ प्रत्यक्षेति ॥ परं प्रतिवादिनम् । अदः भेदबोधकश्रुतिवचनम् । यथा भेदवादी तं प्रत्यनुमानादिना कथायां भेदं साधयति तथा वचनेनापि आग्रहमोचनाय भेदो बोध्यते चेत् कथमनपेक्ष्यत्व-मिति भावः । तत्तस्माद् उक्तविधया सार्थक्यात् ॥ १३६२ ॥

सत्यप्रमोदटीका

वा अद इति पदच्छेदः । न दोष इति । तदुक्तं ‘प्रत्यक्षादिना भेदो येनानिश्चितस्तदर्थपरं वाक्यमित्युत्तरमि’ति (तत्त्वनिर्णय ४३९) ॥ १३६२ ॥

युक्तिमल्लिका

दूषणार्थानुवादे तु दूषणेनैव दूष्यता ।

अक्षसिद्ध्या न दोषोऽभूत्किं शून्यत्वं न दूष्यते ॥ १३६३ ॥

सुरोत्तमटीका

दूषणेनैवेत्येवकारेणाक्षसिद्धेर्दूष्यत्वे हेतुतां व्यवच्छिनत्ति । तदेवोपपादयति ॥ अक्षेति ॥ यतः प्रत्यक्षासिद्धमपि शून्यत्वं केवलदूषणेनैव दूष्यते । अतोऽक्षसिद्धिरप्रयोजिकेत्यर्थः ॥ १३६३ ॥

सत्यप्रमोदटीका

किं चानुवादित्वं कुतो दोषः । किं प्रबलदूषण-सद्भावाद् उत तद्विषयस्यान्येनैव सिद्धत्वात् । आद्ये तेनैव दुष्टत्वे किं सिद्ध-त्वोक्तिदुर्व्यसनेन । द्वितीये प्रबलदूषणाभावाद् उत्सर्गेन एव प्रामाण्यसिद्धेर् अनुवादित्वेनापि कीदृशो दोषः स्यादित्याह दूषणेति । शून्यत्वमिति । अक्षासिद्धमपीत्युपस्कर्तव्यम् ॥ १३६३ ॥

युक्तिमल्लिका

दूषणं नैव भेदेऽस्ति भेदं तत्साधयेच्छ्रुतिः ।

अक्षासिना छिन्नपदा यद्भग्नाऽभूत्परश्रुतिः ॥ १३६४ ॥

सुरोत्तमटीका

ननु तर्हि दूषणेनैव भेदो दूष्योऽस्त्वित्यत आह ॥ दूषणमिति ॥ सर्वज्ञा सर्वज्ञयोर्भेदस्य यौक्तत्वेन वाक्यातिरिक्तदूषणं किंचिदपि नास्ति । वाक्यं च प्रत्यक्षबाधितस्वार्थपरं नेत्युक्तम् । अत एव नैवेत्यव-धारणम् । एतदेव दर्शयति ॥ अक्षासिनेति ॥ छिन्नपदा अतत्त्वमसीति पदच्छेदवती ॥ १३६४ ॥

सत्यप्रमोदटीका

इदं च कृत्वाचिन्तया अनुवादस्यादोषत्वसमर्थना-योक्तम् । वस्तुतस्तु नात्र बाधकमस्त्यपीत्याह दूषणमिति ॥ १३६४ ॥

युक्तिमल्लिका

अपि चामानतस्सिद्धिर्दूषणेनाप्यपेक्ष्यते ।

दृढमानेन सिद्धिस्तु भवेद्दूषणदूषणम् ॥ १३६५ ॥

सुरोत्तमटीका

किमर्थं तर्ह्यनूद्यदूषयन्तीत्यत आह ॥ अपि चेति ॥ अमानतः वादिवाक्यप्रत्यक्षाभासादिना । दूषणदूषणं दूषणस्यैव स्वयं दूषणं भवतीत्यर्थः ।न हि निर्दोषप्रत्यक्षेण निश्चितो घटः केनापि वादिना नेति निषिध्य पटीकर्तुं शक्यत इति भावः॥१३६५ ॥

सत्यप्रमोदटीका

अपि च प्रमाणाभासेन प्रतिवादिसिद्धोऽर्थो भवति दूषणाधिकारी । सुदृढप्रमाणेन सिद्धत्वे तु तन्निरसनाय प्रवृत्तं दूषणं स्वयमेव तेन दूषितं भवतीत्याह दृढेति ॥ १३६५ ॥

युक्तिमल्लिका

दूषणेनैव मानस्यामानत्वेऽन्योन्यसंश्रयः ।

अतोऽक्षसिद्ध्या दोषोक्तिरदोषज्ञत्वसाधिका ॥ १३६६ ॥

सुरोत्तमटीका

अत उभयथाप्यक्षसिद्धेर्दोषादर्शनात् । अदोषज्ञत्वम् अपण्डितत्वं तस्य साधिकेत्यर्थः ॥ १३६६ ॥

सत्यप्रमोदटीका

वैपरीत्ये प्रागुक्तमन्योन्याश्रयं स्मारयति दूषणेनैवेति ॥ १३६६ ॥

युक्तिमल्लिका

विरज्येतोत्तमश्लोकगुणानामनुवादतः ।

क इत्यादिव्यासवाक्यान्यनुवादं स्तुवन्ति हि ॥ १३६७ ॥

सुरोत्तमटीका

किं च ‘निवृत्ततर्षैरुपगीयमानाद्भवौषधाच्छ्रोत्रमनोभि-रामात् । क उत्तमश्लोक गुणानुवादात्पुमान्विरज्येत विनाऽतिमुग्धात्’ इति भागवतेऽपरोक्षज्ञानि प्रत्यक्षसिद्धभगवद्गुणानामनुवादस्य महाप्रमाणतयोक्तत्वाच्च नानुवादोदूषणमित्याह ॥ विरज्यतेति

॥ १३६७ ॥

सत्यप्रमोदटीका

अनुवादो न केवलं न दोषः किन्तु मोक्षहेतुरित्यत्र भागवतं प्रमाणयति विरज्येतेति ।

‘निवृत्ततर्षैरुपगीयमानाद्भवौषधाच्छ्रोतृमनोऽभिरामात् ।

क उत्तमश्लोकगुणानुवादात् पुमान्विरज्येत विनाऽतिमुग्धात्’

इति भागवते अनुवादः स्तूयते ॥ १३६७ ॥

युक्तिमल्लिका

निवृत्ततर्षप्रेयस्त्वं भवस्यौषधता तथा ।

मनःश्रोत्रप्रियत्वं च मिथ्याज्ञान्यतिदूरता ॥ १३६८ ॥

सुरोत्तमटीका

एते निवृत्ततर्षैरित्यादि विशेषणैरुक्ताः । निवृत्तस्तर्षो-विषयतृष्णा येभ्यस्ते निवृत्ततर्षास् तैः । अतिमुग्धान् मिथ्याज्ञानिनः

॥ १३६८,१३६९ ॥

सत्यप्रमोदटीका

स्तुतिपरधर्मानाह निवृत्तेति ॥ १३६८ ॥

युक्तिमल्लिका

महामानत्व एवैते युज्येरन्धर्मराशयः ।

अमानत्वे तु भज्येरन्निति मन्यामहे वयम् ॥ १३६९ ॥

अतः प्रमाणसंवादादनुवादो महत्तरम् ।

मानमित्येव जानीहि न लुनीहि सतां मतम् ॥ १३७० ॥

सुरोत्तमटीका

अतः शुकव्यासादिभिस्स्तुतत्वात् ॥ १३७० ॥

सत्यप्रमोदटीका

तथा च अनुवादस्य परमप्रामाण्यसिद्धिर्दुर्वारेत्याह ॥ १३६९, १३७० ॥

युक्तिमल्लिका

स्यादेकैकमते शङ्का सर्वस्याभिमते तु न ।

अन्नं हि कस्य वा नान्नं प्रत्यक्षं मानमेव तत् ॥ १३७१ ॥

सुरोत्तमटीका

एकैकवादिनां शुष्कयुक्त्यादिनाभिमतेऽर्थेतत्तत्प्रतिवादिनां विवाददर्शनात् सर्वप्रत्यक्षेणान्नतया सिद्धेऽन्ने कस्यापि विवादादर्शनात् प्रत्यक्षमेव प्रबलप्रमाणमित्याह ॥ स्यादिति ॥ १३७१ ॥

सत्यप्रमोदटीका

सर्ववादिसम्प्रतिपत्तेरपि प्रत्यक्षं बलवत्तरं प्रमाण-मित्याह स्यादिति । तत्सिद्धमन्नं केनाप्यन्येन प्रमाणेन अपोद्यत इत्याह अन्नं हीति । तदुक्तं ‘न हि अन्नत्वे दुर्घटे तस्यानन्नत्वं भवति । दृष्ट्यबाधितदृष्टस्य । न हि युक्तिपरा जितः क्षुधिते नान्नमत्ती’ति (तत्वो) ॥ १३७१ ॥

युक्तिमल्लिका

अतोऽनादिमतप्राप्ततदैक्यस्यानुवादनम् ।

तद्धैक आहुरसदेवेदमग्र इति श्रुतौ ।

ब्रह्मासत्त्वानुवादाभं दोषार्हमिति शोभते ॥ १३७२ ॥

सुरोत्तमटीका

अतः प्रमाणप्राप्तानुवादस्य दोषानर्हत्वात् । अनादिमत प्रवाहतोनादिमायावाद्यादिमतम् । दोषार्हं दूषणार्हम् । प्रमाणाप्राप्तत्वेन दूषयितुं शक्यमिति भावः ॥ १३७२ ॥

सत्यप्रमोदटीका

अतो भेदश्रुतिभिर्निषेधार्थमैक्यस्यैवानुवाद इति युक्तम् । अनादौ वेदे कथं सादिमतप्राप्तमनूद्यत इति चेन्न । मतानामप्य-नादित्वात् । तदुक्तम् अनादिकालतो वृत्ताः समया हि प्रवाहत’ इति (अनु. २२१) अन्यथा त्वयाऽखण्डवादानारम्भप्रसङ्गः । ‘तद्धैक आहुर् असदेवेदमग्र आसीदिति’ इति बौद्धमतानुवादस्य वेदे दर्शनाच्च इत्याह अत इति ॥१३७२॥

युक्तिमल्लिका

दोषानर्हाक्षसिद्धस्य त्वनुवादोऽपि वादवत् ।

न चेद्बहुमहावाक्याशास्यमैक्यं परस्परम् ।

अनुवक्ति भिदा श्रुत्या भेत्तुं सुन्दोपसुन्दवत् ॥ १३७३ ॥

सुरोत्तमटीका

न चेत् प्रमाणानुवादोप्यदोषो न चेत् । उत्तरवाक्य-स्यानुवादकत्वेपि पूर्ववाक्यस्य कथमनुवादकत्वमित्यत उक्तम् ॥ सुन्दोपसुन्द-वदिति ॥ यथा समबलौ सुन्दोपसुन्दौ मिथः कलहं कुर्वाते तथाऽनादितया पूर्वोत्तरविभागायोगात् समबलं वाक्यद्वयमन्योन्यमनुवादं कृत्वा दूषणार्हं करोतीति भावः । तद् ऐक्यस्याप्यनुवादेन दूष्यत्वापातात् । न च वाच्यं प्रत्यक्षप्राप्तस्यैवानुवादो दोषो न वाक्यप्राप्तस्येति । तद्धैक आहुरसदेवेदमग्र आसीदिति वाक्यप्राप्तस्यापि कथमसतस्सज्जायेतेति दूषणदर्शनात् । किं च मानान्तरप्राप्तस्य मानान्तरेणापि प्रमापने संवादेन प्रामाण्यं दृढीक्रियते । एकवाक्येनोक्तस्यार्थस्य पुनर्वाक्यान्तरेण कथने वैयर्थ्यस्य पौनरुक्त्याख्य-शब्ददोषस्य चापातेन महादोषत्वाच्च । प्रमाणसमुदायरूपत्वेनादोषत्वम् उभयत्रापि समम् ॥ १३७३,१३७४ ॥

सत्यप्रमोदटीका

दोषानर्हेति । तदुक्तं तर्कताण्डवे (१४७५) ‘द्वारिणा द्वारं सत्त्वेनार्थविषयकग्रहणे द्वारिणोऽपि सत्त्वेनार्थविषयते’ति । अनुवादमात्रस्य दोषत्वेऽतिप्रसङ्गमाह न चेदिति । नवकृत्व उक्तानां तत्त्वमसिवाक्यानां वा महावाक्यानां वा परस्परम् अनुवादकत्वेन भेदश्रुत्या बाधानापत्तेः । अनुवादत्वे पूर्वापरीभावस्याप्रयोजकत्वात् । प्रत्यक्षप्राप्तानुवादः श्रुतिप्राप्तानुवाद इति तु वैषम्यमात्रम् ॥ १३७३ ॥

युक्तिमल्लिका

इत्यैक्यमपि शोच्यं स्यात्तन्मानान्तरसिद्धता ।

दाढर्््यायैवेति वक्तव्यं सर्वैरपि विवेकिभिः ॥ १३७४ ॥

सत्यप्रमोदटीका

शोच्यं स्याद् इति तदुक्तं तत्त्वनिर्णये (४३०) तथा सति अभ्यासादेरप्यप्रामाण्यहेतुत्वं स्यादिति ॥ १३७४ ॥

युक्तिमल्लिका

सर्वार्थान्स्वत एवाह प्रलयेऽपि सती श्रुतिः ।

सृष्टो तदुदितानर्थान्सर्वे वेदानुसारतः ॥ १३७५ ॥

अनुमिन्वन्ति पश्यन्ति वदन्ति च ततस्ततः ।

अतोऽन्यदनुवादि स्याच्छ्रुतिस्त्वन्यानपेक्षिणी ॥ १३७६ ॥

सुरोत्तमटीका

यच्च श्रुतेरनुवादकत्वमुक्तम् । तदपि न युक्तियुक्तमित्याह ॥ सर्वार्थानिति ॥ स्वतः प्रमाणान्तरमनपेक्ष्यस्वशक्त्यैव । अपौरुषेयत्वादिति भावः ॥ सर्वज्ञेश्वर प्रत्यक्षसिद्धत्वमात्रेणानुवादित्वे ऐक्यश्रुतेरप्यनुवादित्वं स्यादिति चोह्यम् । अतश्श्रुतेरेव पूर्वप्रमाणत्वात् ॥ १३७५,१३७६ ॥

सत्यप्रमोदटीका

लौकिकप्रमाणप्रवृत्तेः पुरा प्रलय एव सर्वार्थप्रतिपादिका श्रुतिर् नानुवादित्वशङ्काऽर्हा इत्याह सर्वार्थाविति ॥ १३७५,१३७६ ॥

युक्तिमल्लिका

किञ्चानुवक्ति यन्नित्यं नानित्यमनुवर्तते ॥ १३७७ ॥

सुरोत्तमटीका

यद् यस्मात् ॥ १३७७ ॥

सत्यप्रमोदटीका

किञ्चेति अनित्यं नित्यमनुवक्ति नित्यं नानित्य-मनुवर्तते इति योजना ॥ १३७७ ॥

युक्तिमल्लिका

ये केऽन्य इति वा साऽन्यप्रोक्ततामपि यत्स्फुटम् ।

दूष्यानुवादे वदति तत्स्वोक्तं न निषेधति ॥ १३७८ ॥

इति मन्यामहे दूष्यं दूषणं चैकवाक्यगम् ।

करोति शाखान्तरगा तच्छाखान्तरवर्तिनाम् ।

न दूषणाय यतते वाक्यानामिति मे मतिः ॥ १३७९ ॥

सुरोत्तमटीका

भेदश्रुतेरनुवादित्वाभावे युक्त्यन्तरं चाह ॥ एक इति ॥ यद् यस्मात् । तद्धैक आहुरिति स्वप्नमायासरूपेति सृष्टिरन्यैर्विकल्पितेत्यादौ दूष्यानुवादे । तत्तस्माद् दूष्यानुवादत्वेऽन्यप्रोक्तत्व ज्ञापक पदस्य सर्वत्र दर्शनात् । स्वोक्तं तादृशपदं विना स्वमततयैवोक्तम् । युक्त्यन्तरं चाह ॥ दूष्यमिति ॥ यस्मात् तद्धैक आहुरसदेवेदमग्र आसीत्कथमसतस्सज्जायेतेति वाक्ये स्वप्नमायासरूपेति सृष्टिरन्यैर्विकल्पिता । ‘देवस्यैष स्वभावोऽय-माप्तकामस्य का स्पृहेति’ वाक्ये च दूष्यं दूषणं चैकवाक्यगं करोति । यस्मि-न्स्थले दूष्यमनुवदति तत्रैव दूषणमपि स्पष्टं वदति । अन्यथा सिद्धान्तत्व-भ्रान्त्यापादकतया स्वस्य विप्रलंभकत्वप्रसङ्गात् । तत्तस्मात् । शाखान्तरगा सामशाखोपनिषदि विद्यमाना तत्त्वमसीत्यादिका । शाखान्तरवर्तिनाम् आर्थर्वणोपनिषदि ऋक्संहिता वामनसूक्ते च विद्यमानानां वाक्यानां द्वासुपर्णेत्यादि वाक्यानाम् ॥ १३७८, १३७९ ॥

सत्यप्रमोदटीका

‘यद्वदन्तीति वचनं परिहारे विशेषयुक्तिं च विना अनुवादकत्वायोगात्’ इति वादावलीं हृदिकृत्वाऽऽह ये के इति । अनुवादक-लिङ्गाभावे सोक्तत्वस्यैव प्राप्त्या न तन्निषेध इत्याह तदिति । किञ्चैकस्मिन्नेव महावाक्ये अनुवादनिषेधौ दृष्टौ । न तु शाखान्तरस्य शाखान्तरस्थेन निषेध इत्याह करोतीति ॥ १३७८, १३७९ ॥

युक्तिमल्लिका

तस्मादृक्संहितावाक्ये सयुक्तिकमुदीरितम् ।

कुतस्सा दूषयेत्स्वार्थं सूक्तेऽस्मिन्नास्ति दूषणम् ॥ १३८० ॥

सुरोत्तमटीका

तस्माच्छाखान्तरोक्तस्य शाखान्तरे दूषणायोगात् । स्वार्थम् अन्य इत्याद्यन्योक्तित्व ज्ञापकं विनैवोक्तमर्थम् । दूष्यस्थल एव दूषणं च नात्रास्तीत्याह ॥ सूक्त इति ॥ १३८० ॥

सत्यप्रमोदटीका

प्रकृते तु भेदवाक्यानि शाखान्तरस्थसूक्तगतानि । अतोऽपि न निषेध इत्याह तस्मादिति । सूक्तनाम्नाऽपि न तदुक्तस्य निषेधार्ह-तेत्याह सूक्तेति । अन्यथा दुरुक्ततैव तस्य स्यादित्याह व्याहतम् इति ॥ १३८०,१३८१ ॥

युक्तिमल्लिका

सूक्तं चेदं तदैव स्यात्तत्त्वमेव वदेद्यदि ।

अतत्त्वकथकं सूक्तमिति च व्याहतं वचः ॥ १३८१ ॥

सुरोत्तमटीका

युक्त्यन्तरं चाह ॥ सूक्तं चेदमिति ॥ १३८१ ॥

युक्तिमल्लिका

उदितेऽनुदिते होमविधात्र्यपि न दूष्यते ।

अविरुद्धा त्वियं वाणी कुतो वा दूष्यतां व्रजेत् ॥ १३८२ ॥

सुरोत्तमटीका

भेदवाक्यस्यादूष्यत्वे कैमुत्यमाह ॥ उदित इति ॥ उदिते जुहोति अनुदिते जुहोतीति स्पष्टं विरुद्धापि वाङ्नदूष्यते । किंतु शाखाभेदेन समाधीयते । तद्वद्द्वासुपर्णा न द्वासुपर्णेति वाक्यद्वयाभावाद् अविरुद्धा स्पष्टं विरोधरहिता ॥ १३८२ ॥

सत्यप्रमोदटीका

एकत्रैवोदितयोरपि शाखाभेदाश्रयणेन मीमांसकैर-विरोधो व्यवस्थाप्यते । भेदवाक्यानि तु भिन्नस्थानस्थितानि अविरुद्धानि च । अत एषां दूषणम् अनुचिततरमित्याह उदित इति ॥ १३८२ ॥

युक्तिमल्लिका

अतो भेदश्रुतेरग्रे क एकः प्रतितिष्ठति ।

विरुद्धधर्मौ नीचोच्चौ जीवेशौ द्वाविमौ विना ॥ १३८३ ॥

सुरोत्तमटीका

साहित्यमुद्रयोपसंहरति ॥ अत इति ॥ उक्तविधया बहुयुक्तिभरितत्वादित्यर्थः । यथा वीरभटाग्रे द्वावेव स्थातुं शक्तौ न त्वेकः । एवमस्याश्श्रुतेरग्रे जीवेशयोर्द्वयोरेव चेतनतया प्रबलयोस्स्थितिर्युक्ता । न तु परोक्तकुयुक्त्या एकस्य जीवस्य नापि दुर्बलयोर्बुद्धिजीवयोर्वेति भावः॥१३८३॥

सत्यप्रमोदटीका

साहित्यमुद्रया भेदश्रुतेरप्रतिभटनां रञ्जयति अत इति । यथा वीरभटस्याग्रे एकमात्रस्य नावस्थितिस् तथा भेदाख्यभीमस्याग्रे नैक्यवाक्यस्यावस्थितिः ॥ जीवेशाविव कृष्णार्जुनौ तु अनुकूलावेवेति ध्वनिः ॥ १३८३ ॥

युक्तिमल्लिका

अनुवादादिरूपोऽयमित्याकारास्ति न श्रुतिः ।

त्वद्वाक्येन ममाश्वासः कल्पनाबीजमुच्यताम् ॥ १३८४ ॥

सुरोत्तमटीका

प्रकारान्तरेणापि अनुवादकत्वव्यावहारिकत्वादि पक्षं दूषयति ॥ अनुवादेति ॥ अनुवादरूप आदिपदेन व्यावहारिकभेदप्रतिपादक-रूप इति गृह्यते । अयं भेदप्रतिपादकश्रुतिसमुदायः । तद्वाक्ये तव प्रतिवादिनो ऽनुवादरूपेयं श्रुतिरिति स्वकपोलकल्पितवाक्ये ॥ १३८४ ॥

सत्यप्रमोदटीका

किञ्चानुवादे बीजं किं तथात्वप्रतिपादकश्रुतिः, त्वद्वाक्यं, उत ऐक्यवाक् । नाद्यस् तदभावादित्याह नेति । न द्वितीयः मम त्वयि अनाश्वासात् । न तृतीयः । पदद्वयस्य सावकाशितत्वेन तदसाधक-त्वात् । अन्यत्र पादद्वयेति ध्वनिः । मुख्यार्थस्य ‘अग्निना सिञ्चती’ति शक्ये वाक्ये इव प्रत्यक्षेण बाधादिति भावः ॥ १३८४-१३८६ ॥

युक्तिमल्लिका

ऐक्योक्तेरन्यथायोगात्परं कल्प्यमिदं त्वया ।

सा त्वद्यापि रणोद्योगादव्यावृत्तपदद्वया ॥ १३८५ ॥

वृत्त्यन्तरे क्षिप्तपदा मानत्रयभयार्दिता ।

मुख्यार्थेनाकरोच्छ्रद्धामग्न्या सेचनवागिव ॥ १३८६ ॥

सुरोत्तमटीका

पराभिप्रायमुद्घाट्य दूषयति ॥ ऐक्योक्तेरित्यादिना ॥ सा ऐक्यश्रुतिः । अव्यावृत्तपदद्वया अव्यावृत्तं वाग्युद्ध मध्य एव स्थितं पदद्वयं तत्त्वमिति पदद्वयं यस्यास्सा तथोक्ता । पादविन्यासद्वयवतीति ध्वनिः । अतदिति पदच्छेदस्य सम्भवेन स्वानुकूलपद एव सन्देहः । ऐक्यप्रतिपादनं दूरापास्तमिति भावः । उपलक्षणं चैतत् । उक्तरीत्या निरवकाशभेदश्रुतेर-न्यथानुपपत्त्या ऐक्यश्रुतेरेव कुतो न व्यावहारिकैक्यपरता कल्प्या । अतो नेदं कल्पनाबीजमित्यपि द्रष्टव्यम् ॥ १३८५,१३८६ ॥

युक्तिमल्लिका

अतो यथाश्रुतो वाक्यस्यार्थो वाच्यो मनीषिभिः ।

अविरुद्धः स्वपरतस्तथा मानान्तरादपि ॥ १३८७ ॥

सुरोत्तमटीका

उपसंहरति ॥ अत इति ॥ अतः व्यावहारिकत्वादि कल्पनादि कल्पनाबीजाभावात् । स्वपदतः वाक्यस्थितपदात् प्रत्यक्षादि प्रमाणान्तराच्च अविरुद्धो यो वाक्यस्यार्थः स यथाश्रुत एववाच्यः । विरुद्धस्तु न यथाश्रुत एववाच्यः । किं तु वाक्यस्य वृत्त्यन्तरमङ्गीकृत्याविरुद्धो यथा भवति तथैव वाच्यः । अप्रामाण्यापादकानुवादकत्व व्यावहारिकत्वादिकं तु न कुत्रापि वाक्ये वाच्यमिति भावः ॥ १३८७ ॥

सत्यप्रमोदटीका

अविरुद्ध इति । ऐक्यं तु स्वपरविरुद्धं सकलप्रमाण-विरुद्धं चेति भावः ॥ १३८७ ॥