इत्यैक्यनिन्दनाद्ग्रन्थे स्पष्टं ग्रन्थकृतैव हि
तात्पर्यार्थस्यैव ग्राह्यत्वसमर्थनम्
युक्तिमल्लिका
इत्यैक्यनिन्दनाद्ग्रन्थे स्पष्टं ग्रन्थकृतैव हि ।
क्वचिदापाततः प्राप्तं नैक्यं वाक्यार्थ इष्यते ॥ ११९० ॥
सुरोत्तमटीका
इति भागवते गीतासु चोक्तप्रकारेण ॥ ११९० ॥
सत्यप्रमोदटीका
स्पष्टं निरवकाशम् । तदुक्तं वादावल्लयां ‘असत्य-मप्रतिष्ठं ये जगदाहुरनीश्वरं’ इति निरवकाशस्मृतिविरोधश्चेति । तदुक्तं ‘शास्त्रं हि असन्निकृष्टेऽर्थे शब्दविज्ञानं’ इति ‘असन्निकृष्टशब्देन द्वयमत्र जिहासितम् । ताद्रूप्येण परिच्छेदस् तद्विपर्ययतोऽपि चे’ति च ॥ ११९० ॥
युक्तिमल्लिका
अविरुद्धे तु वाक्यार्थे यथा श्रुतपरिग्रहः ।
विरुद्धे सति वाक्यार्थे वृत्तिवृत्त्यन्तरे सताम् ॥ ११९१ ॥
सुरोत्तमटीका
आपातप्रतीतमैक्यमर्थो न चेत् कस्तर्हि वाक्यार्थ इत्यत आह ॥ अविरुद्ध इति ॥ अनेन द्वासुपर्णेत्यादि भेदश्रुतीनां प्रतीतार्थ एव ग्राह्य इति च सूचयति ॥ ११९१ ॥
सत्यप्रमोदटीका
वृत्त्यन्तरम् इति ‘पूर्वायोगे परग्रह’ इत्युक्तेः ॥११९१॥
युक्तिमल्लिका
एवं च भवदद्वैतभिक्षू राक्षसमन्दिरे ।
भैक्षार्थमागमत्तेषां नाशे चानशनो पतत् ॥ ११९२ ॥
सुरोत्तमटीका
भागवते गीतायां च सर्वत्रैक्यस्यासुरपक्षत्वश्रवणादैक्य-मपहसति ॥ एवं चेति ॥ ११९२ ॥
सत्यप्रमोदटीका
एवं चेति श्रुतिस्मृतिषु कुत्रापि तदभीप्सितैक्यभिक्षाया अलाभात् ततो बहिष्कृतत्वाच्च ॥ ११९२ ॥
युक्तिमल्लिका
सुपर्णौ द्वौ सहयुजौ सखायौ देहपिप्पलम् ।
ब्रह्मजीवाभिधौ नित्यं स स्वजाते परावरौ ॥ ११९३ ॥
तयोर्मध्ये ब्रह्मणोऽन्यो यस्तु जीवाभिधः खगः ।
स पुण्यपापकर्मोत्थं फलमत्ति सुखासुखम् ॥ ११९४ ॥
जीवादन्यस्तु यः पक्षी परमात्माभिधो महान् ।
सोऽनश्नन्नभितो नित्यं चाकशीति महाप्रभुः ॥ ११९५ ॥
इति श्रुतिस्तयोर्भेदं स्पष्टमाह स युक्तिकम् ।
अन्यावकाशशून्या सा मान्या केन न वादिना ॥ ११९६ ॥
सुरोत्तमटीका
इदानीं द्वासुपर्णेति श्रुतेस्सविस्तरमर्थमाह ॥ सुपर्णा-विति ॥ तयोरन्य इत्यत्र साकाङ्क्षान्यपदस्य योग्यतया शेषपूरणं ब्रह्मण इति । अनश्नन्नन्य इत्यत्र च जीवादिति । चाकशीति अतिशयेन प्रकाशते ॥ ११९३-११९६ ॥
सत्यप्रमोदटीका
द्वा सुपर्णेति श्रुतिं ‘ॐ स्थित्यदनाभ्यां च’ इति सूत्रभाष्योक्तदिशा सपरिकरं व्याख्याति । सुपर्णावित्यादिभिः । वृक्ष-मित्यस्यार्थः देहपिप्पलमिति । परीत्यस्यार्थः नित्यमिति । तयोः । मध्ये इति शेषः । अन्यः परमात्मन इति पूरणीयम् । जीवाभिध इति । पिप्पलं कर्मफलं सुखासुखम् । अनश्नन् भोगनिरपेक्षम् । अभि अभितः नित्यम् ॥ ११९३-११९६ ॥
युक्तिमल्लिका
यस्माज्जीवेशयोर्भेदव्याप्य द्वित्वाख्ययुक्तितः ।
प्राक्प्रसाध्य भिदां पश्चादशनानशनाख्यया ।
विरुद्धधर्मयुक्त्या च बलीयस्यात्तयोर्भिदाम् ॥ ११९७ ॥
पुनः प्रसाध्या पश्चाच्च श्रुतिस्स्पष्टं द्विधर्मिणीम् ।
अन्यो सावयमन्यश्चेत्याह जीवेशयोर्भिदाम् ॥ ११९८ ॥
सुरोत्तमटीका
अन्यावकाशशून्यत्वमेव विशदयति ॥ यस्मादित्या-दिना ॥ जीवेशयोर्भिदामिति सम्बन्धः । तयोर्जीवेशयोः । तयोरन्य इत्यत्र ब्रह्मप्रतियोगिक जीवधर्मिकभेदकथनाद् अनश्नन्नन्य इत्यत्र च जीवप्रतियोगि-केश्वरधर्मिकभेदकथनाद् द्विधर्मिणीमित्युक्तम् ॥ ११९७-११९९ ॥
सत्यप्रमोदटीका
अन्यावकाशशून्या इत्येतदुपपादयति यस्मादित्यादि-भिः । द्वित्वाख्ययुक्तितः द्वित्वस्य उत्सर्गतः भेदव्याप्तत्वेऽपि’द्वित्वं चैकस्य युज्यते’ इत्युक्तेः क्वचिदपवादाद् आह विरुद्धेति । बलीयस्या इति च ॥ ११९७,११९८ ॥
युक्तिमल्लिका
तस्माद्द्विरूपया युक्त्या श्रुत्या चोभयरूपया ।
साधयन्ती तयोर्भेदं केन मान्या न वादिना ॥ ११९९ ॥
अभ्यासश्चोपपत्ती च तात्पर्यद्योतकं त्रयम् ।
लिङ्गं यतोऽस्ति तत्स्वार्थान्नैव चाल्या कथञ्चन ॥ १२०० ॥
सुरोत्तमटीका
अन्यो ऽन्य इत्येकप्रकारासकृदुक्तिरूपोऽभ्यासः । तत्तस्मात् तात्पर्यद्योतकलिङ्गत्रयवत्त्वात् ॥ १२०० ॥
सत्यप्रमोदटीका
द्विधर्मिणीं भिदा तयोरन्य इति जीवधर्मिकं भेदम् ॥ ११९९, १२०० ॥
युक्तिमल्लिका
तद्विरुद्धा सावकाशा श्रुतिरैक्यं कथं वदेत् ।
प्रबलाया विरोधेन दुर्बलार्थान्तरं भजेत् ॥ १२०१ ॥
सुरोत्तमटीका
तया भेदश्रुत्या विरुद्धा तद्विरुद्धा । सावकाश-निरवकाशयोर्मध्ये निरवकाशं बलीय इति न्यायादिति भावः ॥ १२०१ ॥
युक्तिमल्लिका
द्वौ बुद्धिजीववित्याहुस्साङ्ख्यास्त्वत्पूर्वपक्षिणः ।
त्वं तु जीवपरात्मानौ द्वौ हृदीति प्रसाधयन् ॥ १२०२ ॥
सुरोत्तमटीका
‘गुहां प्रविष्टावात्मानौ हि तद्दर्शनादिति’ ब्रह्म-सूत्राधिकरणे कर्मफलभोक्तारौ हृदयगुहाप्रविष्टौ बुद्धिजीवाविति कापिलमतं पूर्वपक्षीकृत्य जीवात्मपरमात्मानावेवेति मायिभिरेव सिद्धान्तितत्वाज् जीवपरमावेवेमौ सुपर्णौ नान्यावित्याह ॥ द्वौ बुद्धिजीवावित्यादिना ॥ १२०२ ॥
सत्यप्रमोदटीका
अत्रोक्तौ पक्षिणौ जीवपरावेव कुतः बुद्धिजीवौ किं न स्यातामित्याशङ्कां परसंमतिप्रदर्शनेन युक्तिभिश्चापाकरोति द्वावित्यादिभिः । पूर्वपक्षिणः गुहां प्रविष्टावात्मानौ हि तद्दर्शनात्’ इति नये साङ्ख्याः ॥१२०२॥
युक्तिमल्लिका
तज्जीवपरमात्मानौ खगौ तव ममापि च ।
तद्भेदबोधिका सेयं श्रुतिरित्यपि संमतम् ॥ १२०३ ॥
सुरोत्तमटीका
तत्तस्माद्बुद्धिजीवपक्षस्य त्वयैव दूषितत्वात् । तयो-र्जीवेशयोर्भेदबोधिका । व्यावहारिकभेदपरेयं श्रुतिरिति वदता परेणापि भेदप्रतिपादकत्वस्याङ्गीकृतत्वादिति भावः । उपलक्षणं चैतत् । आत्मानं परमात्मानम् आत्मानं चेत्येतच्छ्रुतेर्निरुक्तौ जीवात्मपरमात्मनोरेव स्पष्टं कथना-च्चेत्यपि द्रष्टव्यम् । किञ्च पररीत्या भेदवाक्यस्यास्य बुद्धिजीवविषयतां कुर्वता स्वरीत्यैव सर्वाण्यप्यैक्यवाक्यानि जहदजहल्लक्षणया ब्रह्मविशेषणीभूता-विद्याख्योपादानस्य जीवविशेषणीभूतदेहान्तःकरणाद्युपादेयस्य चैक्यपराणि कुतो न क्रियन्ते । नागृहीतविशेषणान्यायेनापि विशेषणैक्यस्यास्य न्याय्यत्वात् । मयापि जगत्स्रष्टुर्ब्रह्मणः करस्थप्रकृतेर्दण्डवद्विशेषणता वक्तुं शक्यत एव । उपादानोपादेययोरभेदश्चावयोस्संमत एव । उभयोरपि जडतया अविरुद्धे अबाधिते उभयवादिसम्प्रतिपन्ने चास्मिन्नैक्ये सति किमर्थमनीदृशमैक्यं परिकल्प्यते । एवं च तवाभिलषितमैक्यं वाक्याभावात्प्रमाणान्तरस्य सुतराम-भावाद् वेदारण्यकं विहायारण्यमेव गच्छेत् । भेदस्तूक्तरीत्या स्वविरोधि-प्रमाणस्य निर्मूलितत्वेन द्वासुपर्णेति श्रुतावेव लब्धावसरो भिन्नोऽचिन्त्यःपरमो जीवसंघादित्यादिवाक्यशतानुगृहीतो वेदारण्यक एव सुखं निवसेत् । सार्व-जनीनप्रत्यक्षानुगतो नगरे वा प्रचरेत् । किञ्च एकादशेन्द्रिय पञ्चभूतात्मक-प्रकृतिविकारविशेषस्य देहतया वृक्षपदेनैव बुद्धेर्गृहीतत्वात् तदालिङ्गनकर्ता अत्ता अन्य एव भवेत् । न हि स्वयमेव स्वात्मानमालिङ्गति । किञ्च बुद्धेर्जडदेहाभिन्नतया जीवस्य च ततोऽत्यन्तविलक्षणतया कथमुभयो-स्समानोऽयं देहः । कथं च चेतनासाधरणधर्मस्सख्यं जडाजडयोरुभयोः । अपि च भागवतीयसमाख्यावचने अत्तुस्सुपर्णस्य एकस्यैव ममांशस्य जीवस्यैवं महामत इति कदाचिन्मुक्तजीवतया अनत्तुश्च विद्यामयो यस्सतु नित्यमुक्त इति नित्यमुक्तब्रह्मतया स्पष्टं निरूपणाच्च जीवपरमावेव सुपर्णौ । अपि च भवदाचार्यकृताथर्वणोपनिषद्भाष्य एवाविद्यां शरीरद्वयरूपिणीं वृक्षत्वेन परिकल्प्य तत्त्वंपदार्थौ च पक्षित्वेनास्मान्बोधयितुं मन्त्र आह । द्वा द्वौ, उभौ, सुपर्णा सुपर्णौ सुष्टु पर्णौ पक्षौ ययोस्तौ सुपर्णौ । जीवस्य धर्माधर्मौ पक्षौ । ईश्वरस्याविद्यातत्सम्बन्धाविति निरूपणाज् जीवपरमावेव सुपर्णौ ॥ १२०३ ॥
सत्यप्रमोदटीका
तत् तस्मात् । तयोरिति वा । स भेदः व्यावहारिक इति तु कुकल्पना निर्मूलेत्यन्यदेतत् ॥ किञ्च तत्र यथा बुद्धिजीवाविति पररीत्योक्तं तथा तत्त्वमसीत्यत्र सिद्धान्तेऽपि उपादानस्य अविद्यारूपप्रकृतेर् उपादेयस्य देहेन्द्रियादेश्चाभेद एवार्थः व्याख्यायताम् । किं जहदजहल्लक्षणया चिन्मात्रैक्य-कल्पनादुर्व्यसनेन । अविद्या हि ब्रह्म विशेषणं, देहाद्युपाधिस् तदुपादानको जीवस्य । तथा च नागृहीतविशेषणान्यायेन विशेष्यांशे बाधे विशेषणयोर् अविद्यातत्कार्ययोरभेदो न्यायप्राप्तः । उभयोरपि जडत्वादुपपन्नश्च ।
अपि च वृक्षस्य प्रकृतिरूपतया बुद्धेरपि तद्विकारत्वेन तदेकदेशत्वेन च नात्रोक्तः परिष्वङ्गे युक्तः । बुद्धिजीवयोर्जडाजडयोः सख्यं च दुर्घटम् । सुपर्णावेतौ सयुजौ सखायौ’ इत्यत्र भागवते स्पष्टं जीवपरमात्मपरत्वेन व्याख्यानात् तद्विरोधश्च । आथर्वणभाष्ये अस्यैव वाक्यस्य जीवपरमात्मपरत्वेन भाषितत्वेन तद्विरोधश्च । तदेतदभिप्रेत्योक्तं तवापि च ममापि चेति ॥१२०३॥
युक्तिमल्लिका
सुखदुःखाद्यनुभवो जीवसाक्षी किलावयोः ।
बुद्धिस्तु घटपूर्वार्थबुद्धिर्न सुखदुःखधीः ॥ १२०४ ॥
सुरोत्तमटीका
युक्त्यापि पिप्पलं कर्मफलं सुखदुःखादिकं स्वादु यथा भवति तथा अत्तीत्युक्ते अत्ता जीव एव भवेदित्याह ॥ सुखदुःखेति
॥ १२०४ ॥
सत्यप्रमोदटीका
युक्त्यन्तरेणापि अत्र कर्मफलं सुखदुःखम् अत्ति इत्युक्तः जीव एव न बुद्धिरित्याह सुखेति । ‘स दुःखी स सुखी चैव, स जीव इति कीर्तितः’ इति परमश्रुतौ तस्य तत्तल्लक्षणत्वेनोक्तेः । मनोवृत्तिस्तु बाह्यार्थविषयिण्येवेत्याह बुद्धिरिति ॥ १२०४ ॥
युक्तिमल्लिका
अतोत्ता जीव एवात्र न बुद्धिर्बुद्धिमन्मते ।
यत्पिप्पलं कर्मफलं सुखदुःखे च ते स्मृते ॥ १२०५ ॥
अदनं च तयोस्साक्षादीक्षणं निजसाक्षिणा ।
अनश्नन्परमात्मैव योभितोपि प्रकाशते ॥ १२०६ ॥
सुरोत्तमटीका
अतः बुद्धेःसुखदुःखानुभवत्वाभावात् । पिप्पल-मत्तीत्यनेन सुखदुःखानुभव एव ग्राह्यो न घटाद्यनुभव इत्याह ॥ यदीति ॥ यद् यस्माद् देहाख्य वृक्षफलरूपत्वात् । अतोऽत्ता जीव एवेति पूर्वेणान्वयः ॥ १२०५, १२०६ ॥
सत्यप्रमोदटीका
अदनं च रससाक्षात्कारः साक्षिणैवेत्याह अदनं चेति ॥ १२०५, १२०६ ॥
युक्तिमल्लिका
सोऽनश्नन्पारमार्थ्येन सोऽत्ति चापरमार्थतः ।
इति शङ्का पिशाचीं तु हन्ति युक्ति नृकेसरी ॥ १२०७ ॥
सुरोत्तमटीका
परकीयमन्दाशङ्कामाशङ्क्य निषेधति ॥ सोऽनश्नन्निति ॥ १२०७ ॥
सत्यप्रमोदटीका
नन्वत्र अपारमार्थ्येन अत्ति पारमार्थ्येन अनश्नन् इति पदद्वयम् अध्याह्रियते । अतो न भेदसिद्धिरिति मन्दाशङ्कां हिनस्ति स इत्यादिभिस्त्रिभिः । अत्र अन्यो ऽन्य इति सुस्पष्टं द्वयोरेव श्रवणाद् अनुपपत्तिरेव नास्ति ॥ १२०७ ॥
युक्तिमल्लिका
य एवात्ति स वानश्नंश्चेति श्रूयते यदि ।
तदोत्थानं भवेदस्य नैवमाह श्रुतिस्सती ॥ १२०८ ॥
सुरोत्तमटीका
अस्याश्शङ्कायाः ॥ १२०८ ॥
सत्यप्रमोदटीका
यच्छमनाय अध्याहारप्रयास इत्याह य इति ॥ १२०८ ॥
युक्तिमल्लिका
अत्त्यन्योयमनश्नंश्च तथान्य इति सा जगौ ।
अतस्तच्छ्रुतमन्यत्र जीवे त्वश्रुतमेव हि ।
अभूदनशनं तेन वदनं मुद्रितं तव ॥ १२०९ ॥
सुरोत्तमटीका
सा श्रुतिः । अतो ऽन्योऽसौ अन्योयमिति विविच्य कथनात् । तद् अनशनम् । अन्यत्र परमात्मनि । हीत्यनेनाभिचाक-शीतीत्युक्तमभितः प्रकाशमानत्वलिङ्गं परमात्मन एव प्रसिद्धमिति सूचयति । अतो जीवे त्वश्रुतमेवेत्युक्तम् । तेन अनशनस्य जीवे तश्रुतत्वेन ब्रह्मण्येव श्रुतत्वेन च श्रुतहान्यश्रुतग्रहाख्य दोषद्वयापातेन यद्वा तद्वा जल्पतस्तव वदनं मुद्रितमिति भावः ॥ १२०९ ॥
सत्यप्रमोदटीका
तद् अनदनम् अभिचाकशनं च ॥ १२०९ ॥
युक्तिमल्लिका
यदेतच्छ्रुतमिथ्यात्वमश्रुतस्य च सत्यता ।
वदेत्तद्वैदिकं मन्यस्त्वन्न्यायेन न किं शुभा ॥ १२१० ॥
सुरोत्तमटीका
दोषान्तरं चाह ॥ यदेतमिति ॥ जीव एव श्रुतस्या-शनस्य यन्मिथ्यात्वम् अपारमार्थ्येनाशनमिति वदता परेणाङ्गीकृतं तदिति सम्बन्धः । वैदिकं मन्य इति विरोधप्रदर्शनायोक्तम् । साक्षाद्वेदोक्तस्य मिथ्यात्वं तदनुक्तस्य च सत्यत्वं वदतो वैदिकत्वस्य विरुद्धत्वात् ॥ १२१० ॥
सत्यप्रमोदटीका
एवं वदतः जीवे श्रुतस्य अशनस्य हानिर् अश्रुतस्य अनशनस्य च स्यादित्याह यदिति ॥ १२१० ॥
युक्तिमल्लिका
न चेच्छङ्का पिशाचीयं व्याहति प्रमदाकुलम् ।
हन्यादन्यायवाक्सा च त्वन्न्यायेन न किं शुभा ॥ १२११ ॥
सुरोत्तमटीका
न चेद् एवमपि स्वोक्तं न मुञ्चसि चेत् । त्वन्न्यायेन एकस्य पारमार्थ्यम् अपरस्यापारमार्थ्यमिति विरुद्धयोरेकत्र घटनाख्यन्यायेन अपरमार्थतोमातृत्व ब्राह्मणत्वादिकं परमार्थतो वन्ध्यात्वाब्राह्मणत्वमिति कल्पनया व्याहति मात्रोच्छेदप्रसङ्गः ॥ १२११ ॥
सत्यप्रमोदटीका
इयम् अश्रुतपदाध्याहारेण प्रमाणविरुद्धार्थघटना । व्याहति प्रमदाकुलं, कर्म हन्यादिति योजना । ‘मे माता वन्ध्या’ इत्यादिके सर्वत्रापि अपरमार्थतः माता, परमार्थतः वन्ध्या इति समाधानस्य सुकर-त्वादिति भावः । तथा च ईदृशी व्याहतिग्रस्ता अन्यायवाक् सर्वाऽपि शुभैव स्यात् ॥ १२११ ॥
युक्तिमल्लिका
किञ्चानश्नन्नितिपदमशनाभाववाचकम् ।
अश्नन्नित्यशनं वक्ति कथमेकत्र ते वद ॥ १२१२ ॥
सुरोत्तमटीका
दोषान्तरं चाह ॥ किं चेति ॥ ते अनशनाशने ॥ १२१२ ॥
युक्तिमल्लिका
भावाभावविरोधस्य न चेच्छान्तिर्भविष्यति ।
ततश्च भावरूपं ते नैवाज्ञानं प्रसिद्ध्यति ॥ १२१३ ॥
सुरोत्तमटीका
न चेद् अनशनाशने भिन्नभिन्नस्थले न चेत् । अस्तु भावाभावयोर्विरोध शान्तिः । तथापि मम का हानिरित्यत आह ॥ ततश्चेति ॥ ततः भावाभावविरोधाभावेन प्रतियोगिज्ञाने सत्येव ज्ञानाभावस्यापि वक्तुं शक्यत्वात् । ते मते ॥ १२१३ ॥
सत्यप्रमोदटीका
एवं भावाभावविरोधस्यैवापलापे तव भावरूपाज्ञाना-सिद्धिरेव स्यादित्याह ततश्चेति । स्वप्रकाशेन चैतन्येन आध्यात्मिकसम्बन्धस्य विद्यमानत्वेऽपि ज्ञानाभावघटनाय खलु भावरूपमज्ञानमावरणं त्वयैष्टव्यम् । न च तदुक्तम् । इदानीं त्वदुक्तरीत्या ज्ञाने सत्यपि ज्ञानाभावस्य अन्यतरस्य मिथ्यात्वकल्पनेनैवोपपत्तौ अज्ञानरूपावरणकल्पनस्य क्वावकाश इति भावः
॥ १२१३ ॥
युक्तिमल्लिका
अभावाज्ञानवादो हि भावाभावविरोधतः ।
निवार्यते त्वया तस्याभावेऽसौ केन वार्यते ॥ १२१४ ॥
सुरोत्तमटीका
भावाभावविरोधतः प्रतियोगिज्ञानस्य तदभावस्य चैकत्र विरोधात् । तस्य भावाभावविरोधस्य भावरूपाज्ञानमते प्रतियोगिज्ञाने सत्येव भावरूपं तदज्ञानं वक्तुं शक्यते । भावयोर्विरोधाभावात् । अभावरूपमज्ञानं तु न वक्तुं शक्यम् । भावाभावयोरेकत्र विरोधादिति हि परस्य मतम् । तद्गतमिति भावः ॥ १२१४ ॥
युक्तिमल्लिका
जगच्च ब्रह्मणि सदा सदेव स्यादखण्डितम् ।
तदभावाख्यबाधोऽपि स्यात्तयोरविरोधतः ॥ १२१५ ॥
सुरोत्तमटीका
अनिष्टान्तरं चाह ॥ जगच्चेति ॥ तयोर् जगद्भावा-भावयोः ॥ १२१५ ॥
सत्यप्रमोदटीका
सदेव परमार्थतः । बाधोऽपि अपरमार्थतः ॥१२१५॥
युक्तिमल्लिका
भावाभावविरोधोऽतो वाच्यस्सर्वात्मना त्वया ।
अभावेन सह स्थित्या मिथ्यात्वाशाप्यतो गता ॥ १२१६ ॥
सुरोत्तमटीका
अतः पूर्वोक्तबाधकद्वयात् । अभावेन सहस्थित्या स्वात्यन्ताभावसामानाधिकरण्येनेत्यर्थः । अतः भावाभावविरोधस्यावश्यकत्वात्
॥ १२१६ ॥
सत्यप्रमोदटीका
भावाभावरूपत्वस्य तृतीयप्रकारस्यैवं सम्भवेन मिथ्यात्वरूपचतुर्थप्रकारोऽपि न सिद्ध्येदिति आह मिथ्यात्वेति ॥ १२१६ ॥
युक्तिमल्लिका
विरोधेऽप्यविरोधेऽपि ततस्सा घटते न ते ॥ १२१७ ॥
सुरोत्तमटीका
एवं च परस्योभयतः पाशारज्जुरेवेत्याह ॥ विरोध इति ॥ सा मिथ्यात्वाशा ॥ १२१७ ॥
सत्यप्रमोदटीका
विरोधे अन्यतरत्वस्यैव अविरोधे उभयात्मकत्वस्य सम्भवेन, सा मिथ्यात्वाशा ॥ १२१७ ॥
युक्तिमल्लिका
भावाभावविरोधे हि स्वोक्तमिथ्यात्ववाग्गता ।
स्वाभावेन सह स्थित्या यतो मिथ्यात्वमुच्यते ॥ १२१८ ॥
सुरोत्तमटीका
कथमित्यत आह ॥ भावाभावेति ॥ कस्मान्मिथ्यात्व-वाग्गतेत्यत आह ॥ स्वाभावेनेति॥ततो गतेति पूर्वेणान्वयः॥१२१८ ॥
सत्यप्रमोदटीका
विरोधे स्वात्यन्ताभावसमानाधिकरणत्वरूपमिथ्यात्व-लक्षणमेव व्यासज्यत इत्याह स्वोक्तेति ॥ १२१८ ॥
युक्तिमल्लिका
अविरोधे जगत्सत्स्याद्भावाज्ञानं च भर्जितम् ॥ १२१९ ॥
सुरोत्तमटीका
अविरोधेऽपि मिथ्यात्वाशागमनप्रकारमाह ॥ अविरोध इति ॥ जगदभावाख्याभावेऽपि जगतो भावसम्भवाज् जगत्सत्स्यात् । अतोऽपि मिथ्यात्वाशा गतेति भावः । रज्ज्वन्तरं चाह ॥ भावेति ॥ १२१९ ॥
सत्यप्रमोदटीका
अविरोधे अत्यन्ताभावस्यापारमार्थिकत्वे मिथ्याभूत-मिथ्यात्वकत्वेन जगत् सत्स्यात् । भर्जितं प्रागुक्तदिशैव ॥ १२१९ ॥
युक्तिमल्लिका
तथापि लोकतो भीत्या भावज्ञानरिरिक्षया ।
विरोध एव श्लाघ्यस्ते यो योग्यो बुधसंसदि ॥ १२२० ॥
सुरोत्तमटीका
तथापि पक्षद्वये दोषप्रसङ्गेऽपि । विरोध एव भावाभाव-विरोध एव ॥ १२२० ॥
सत्यप्रमोदटीका
तथाऽपि पक्षद्वयेऽपि त्वत् सिद्धान्तहानावपि । विरोधपक्ष एव श्लाघ्यः । तत्र हेतुद्वयं लोकत इति भावाज्ञानेति च । भावा-ज्ञानं खलु त्वन्मतजीवातुः । तदसम्भवे त्वन्मतमखिलमपाकृतं स्यादिति भावः ॥ १२२० ॥
युक्तिमल्लिका
अतो धर्मद्वयस्यास्य भिद्येते धर्मिणावपि ॥ १२२१ ॥
सुरोत्तमटीका
अतः भावाभावविरोधस्यैव श्लाघ्यत्वात् ॥ १२२१ ॥
सत्यप्रमोदटीका
अतः विरोध्यङ्गीकारस्यावश्यकत्वात् । धर्मद्वयस्य अशनानशनरूपस्य । धर्मिणौ जीवपरमात्मानौ ॥ १२२१ ॥
युक्तिमल्लिका
यथास्थितपदस्यार्थायोगेऽध्याहार इष्यते ।
जीवेशयोर्द्वयोस्सत्त्वादर्थो युक्ततरोऽभवत् ।
अतोऽध्याहार एवैष दोषाध्याहार एव ते ॥ १२२२ ॥
सुरोत्तमटीका
दोषान्तरं चाह ॥ यथास्थितेति ॥ १२२२ ॥
सत्यप्रमोदटीका
प्रमाणसिद्धघटनाय खलु अध्याहारः । त्वदुक्तस्तु तद्विघटनायैव जात इति दोष एवेत्याह यथास्थितेति ॥ १२२२ ॥
युक्तिमल्लिका
यद्येवमपि ते प्रीतिरध्याहारे महीयसी ।
तदाध्याहर भावार्थपरमेकं हि लाघवात् ॥ १२२३ ॥
सुरोत्तमटीका
लाघवाद् एकस्य भावस्यैव चाध्याहारेण लघुत्वादित्यर्थः ॥ १२२३ ॥
सत्यप्रमोदटीका
अपीत्यनेन अध्याहारपक्षं गर्हयति । बाधकाभावेन पारमार्थस्य स्वतःसिद्धेः । एकं पदं पारमार्थ्येनेति पदम् ॥ १२२३ ॥
युक्तिमल्लिका
ततश्च पारमार्थ्येन तौ धर्मौ धर्मिणोर्द्वयोः ।
धर्मभूतौ तयोर्भेदं स्थिरीकुरुत एव हि ॥ १२२४ ॥
सुरोत्तमटीका
तदेव पदं सूचयन्फलितमाह ॥ ततश्चेति ॥ ततो ऽध्याहारात् । अनेन पारमार्थ्येनेति पदस्याध्याहारस्सूचितो भवति । तौ धर्मौ अशनानशनरूपौ । तयोर्धर्मिणोः । उभयत्रापि पारमार्थ्येनेति पदाध्याहारे द्वयोरपि विरुद्धधर्मयोस्स्थिरत्वाद् भेदस्यापि स्थैर्यमिति भावः ॥ १२२४ ॥
सत्यप्रमोदटीका
स्थिरीकुरु भेदकधर्माणां पारमार्थ्यकथनेनेति भावः ॥ १२२४ ॥
युक्तिमल्लिका
मुक्तोऽपि ब्रह्मणा साकं सर्वान्कामान्किलाश्नुते ।
पारमार्थ्यं च तदशने युक्तं नापरमार्थता ॥ १२२५ ॥
सुरोत्तमटीका
अशने पराध्याहृतपदस्य दूषणान्तरं चाह ॥ मुक्त इति ॥ किलेत्यनेन सोश्नुते सर्वान्कामानिति श्रुतिं सूचयति । तत्तस्माद् अशनस्य मुक्तिकालीनत्वात् ॥ १२२५ ॥
सत्यप्रमोदटीका
सोऽश्नुते इति मुक्तावपि अशनस्य श्रुतत्वात् तदपारमार्थ्यम् अश्रौतं चेत्याह मुक्त इति ॥ १२२५ ॥
युक्तिमल्लिका
अतो जीवेशयोर्भेदः श्रुत्यर्थस्सुतरामभूत् ।
श्रुतेः प्रच्यावनं तस्माच्छ्रुतप्रच्यावनं तव ॥ १२२६ ॥
सुरोत्तमटीका
एवं चात्ता जीव एवाभूत् । न तु बुद्धिरित्याह ॥ अत इति ॥ अशनस्य मुक्तिकालीनत्वाद् बुद्धेश्च परमते मुक्तावभावाज् जीव एवात्तेति जीवेशयोरेवायं श्रुत्युक्तो भेदो न बुद्धिजीवयोरिति भावः । प्रच्यावनं जीवेशयोरन्यत्रापकर्षणम् । तस्माद्बुद्धेरत्तृत्वकथनात् । श्रुतप्रच्यावनं मोक्षपर-वेदान्तवाक्यश्रवणस्यैव प्रच्यावनम् ॥ १२२६ ॥
सत्यप्रमोदटीका
अतः बुद्धिजीवपरिग्रहपक्षस्य दूषितत्वात् ॥ आविद्यक बुद्धेर्मुक्तावभावात् । तत्परतयाऽर्थकथने श्रुतिप्रच्यावनं ततश्च तव श्रुतप्रच्यावनं वेदान्तश्रवणरहितेति व्यवस्थापकं च ॥ १२२६ ॥
युक्तिमल्लिका
अतो यथाश्रुतश्रुत्या तवानर्थस्स्थिरोऽभवत् ।
अध्याहारे तु सोऽनर्थो ह्यनिवर्त्यो भवेत्तव ॥ १२२७ ॥
कथं द्वितैकदैकत्र वृथेवमपि कल्पने ।
किमेकस्मिन्नपि घटे धर्मद्वित्वाद् द्वितोच्यते ॥ १२२८ ॥
सुरोत्तमटीका
अतः यथाश्रुतस्यानर्थरूपत्वात् । अध्याहारेप्यनर्थोक्तेः ॥ प्रबलं दोषान्तरं चाह ॥ कथमिति ॥ द्विता द्वाविति द्विवचनमित्यर्थः । एवं कल्पने पारमार्थ्यापारमार्थ्याभ्यां जीवस्यैवाशनानशने इति कल्पने । कुतो न घटत इत्यत आह ॥ किमेकस्मिन्निति ॥ रूपरसाख्य धर्मभेदेपि एकस्मिन्घटे द्वाविति प्रयोगादर्शनाद् यथा कथं चिज् जीवस्यैव ग्रहणे द्विवचनायोगात् । नहि दण्डकुण्डलभेदेप्येकस्मिन्नेव देवदत्ते द्वाविमौदण्डकुण्डलिनाविति प्रयोगोपि दृश्यत इति भावः ॥ १२२७,१२२८ ॥
सत्यप्रमोदटीका
अपि च अस्तु कथञ्चिद्धर्मयोरेकत्र घटना । सर्वथा धर्मिणि द्वित्वानुपपत्तिरेवेत्याह किमिति ॥ १२२७,१२२८ ॥
युक्तिमल्लिका
किन्तु रूपरसादीनां बहुत्वे द्वित्व एव च ।
रसवान्रूपवांश्चैको घट इत्यवकीर्त्यते ॥ १२२९ ॥
सुरोत्तमटीका
कथं तर्हि प्रयोग इत्यत आह ॥ किं त्विति ॥१२२९॥
सत्यप्रमोदटीका
अविरुद्धधर्माणामेकत्र वृत्तिरविरुद्धैवेत्याह रूपेति ॥ १२२९ ॥
युक्तिमल्लिका
नचेत्सौन्दर्यधैर्याभ्यां भार्ये द्वे भवतस्तव ।
अतः पुनर्विवाहार्थमपुत्रस्य वृथा श्रमः ॥ १२३० ॥
सुरोत्तमटीका
विपक्षे बाधकं वदन्परपक्षमपहसति ॥ न चेदिति ॥ नचेद् धर्माद्वित्वेप्येकस्यैकता नचेत् । द्वेभवत एकैवभार्याद्वेभवत इत्यर्थः
॥ १२३० ॥
सत्यप्रमोदटीका
अन्यथाऽतिप्रसङ्गोक्त्या परमपहसति न चेदिति ॥ १२३० ॥
युक्तिमल्लिका
विद्यामयो नित्यमुक्तो वेदात्मानं किल प्रभुः ।
पिप्पलादं स्वतोऽन्यं स वेदाविद्यान्धचक्षुषम् ॥ १२३१ ॥
सुरोत्तमटीका
आत्मानमन्यं च सवेदविद्वानपिप्पलादो न तु पिप्पलादः । योऽविद्ययांधस्सतुनित्यबद्धो विद्यामयोयस्सतुनित्यमुक्त इत्ये तच्छ्रुति समाख्या-रूपभागवतवचनाल्लब्धमर्थमाह ॥ विद्यामय इत्यादिना ॥ अत्ति अनश्नन्नित्य-नेनाविद्यामयत्वं बद्धत्वं जीवस्य विद्यामयत्वं नित्यमुक्तत्वं च भगवतस्सूचितम् । तदेव स्मृत्यास्पष्टीकृतमिति ज्ञातव्यम् । अनुमा जीवेशयोः पारमार्थिक-भेदानुमा । आगमानुगा अनुमतेति सम्बन्धः ॥ १२३१ ॥
सत्यप्रमोदटीका
‘आत्मानमन्यं च स वेद विद्वानपिप्पलादो न तु पिप्पलादः ।
योऽविद्ययान्धः स तु नित्यबद्धो विद्यामयो यः स तु नित्यमुक्तः’
इति भागवतश्लोकम् अर्थतो ऽनुवदति विद्यामय इति ॥ १२३१ ॥
युक्तिमल्लिका
इति भागवतोक्तिस्सा यतो वक्ति ततोऽनुमा ।
विमतो जीवपरयोर्भेदोऽयं परमार्थसत् ॥ १२३२ ॥
संसारोन्मुक्तचैतन्योल्लेख्यत्वान्मौक्तसौख्यवत् ।
इति जीवब्रह्मभेदं साधयत्यागमानुगा ॥ १२३३ ॥
सत्यप्रमोदटीका
तत उक्तितः लब्धा भेदपारमार्थसाधिका अनुमा आगमाऽनुगा आगमानुसारिणीति उत्तरेणान्वयः । उल्लेख्यत्वात् सम्बन्धि-त्वात् । मौक्तसौख्यवत् ‘श्रोत्रियस्य चाकामहतस्य’ इत्यत्र तारतम्येनोक्त-मौक्तानन्दवत् ॥ १२३२, १२३३ ॥
युक्तिमल्लिका
तर्कं च कर्कशं सा वाग्वैलक्षण्यमलक्षयत् ।
यत्र त्वस्येतिवाक्यस्याप्यापातार्थमपाकरोत् ॥ १२३४ ॥
सुरोत्तमटीका
वैलक्षण्यम् अत्तृत्वानत्तृत्वाविद्यांधत्वविद्यामयत्व बद्धत्व-मुक्तत्वाख्य विरुद्धलक्षणभरित्वम् । आपातार्थं सर्वथाज्ञानशून्यत्वार्थः । आत्मानमन्यं च स वेदेति मुक्तस्य स्वपरज्ञानकथनात् । विज्ञातारमरे केन विजानीयादित्यादि श्रुतेः स्वपरज्ञानाभावो नार्थ इति सिद्धमिति भावः
॥ १२३४ ॥
सत्यप्रमोदटीका
विपक्षे बाधकं विरुद्धलक्षणयोगित्वानुपपत्तिरूपं नित्यबद्धत्वनित्यमुक्तत्वादि विरुद्धलक्षणोक्त्या अलक्षयद् अज्ञापयत् । आपातार्थं स्वपरज्ञानाभावरूपम् । ‘आत्मानमन्यं च वेद’ इति निरूपणात् ॥ १२३४ ॥
युक्तिमल्लिका
तस्माद्वित्वाख्ययुक्तेश्च भोगाभोगाख्ययुक्तितः ।
अन्यत्वश्रुतितश्चाभूदन्योन्याभाववागियम् ॥ १२३५ ॥
सत्यप्रमोदटीका
अन्योन्याभाववाक् परमार्थतो भेदसाधिका वाक् । इयं द्वा सुपर्णेति श्रुतिः ॥ १२३५ ॥
युक्तिमल्लिका
न केवलं स्थानबुद्धिभेदमात्रेण भिन्नता ।
किन्तु स्वरूपभेदोऽयमिति साधयितुं श्रुतिः ।
सखायौ सयुजौ चेति पदद्वयमुदाहरत् ॥ १२३६ ॥
सुरोत्तमटीका
स्थानभेदेन मतिभेदेन वा जीवेश्वरयोर्भेदोक्तिरियमस्तु । स्वरूपभेदः किमर्थं वाच्य इति शङ्काया मत्यैक्यस्थानैक्यप्रतिपादकपदाभ्यां निवारितत्वात् स्वरूपभेदपरैवेयं श्रुतिरित्याह ॥ न केवलमिति ॥ १२३६ ॥
सत्यप्रमोदटीका
ननु यथा भवद्भिरैक्यवाक्यानि सादृश्यादैक्यपरतया योज्यन्ते तथाऽस्या अपि श्रुतेः स्थानभेदपरतया मतिभेदपरतया सावकाशनं स्यात् । न स्यात् । अत्रैव सयुजाविति स्थानभेदस्य सखायाविति मतिभेदस्य च प्रतिषेधादित्याह नेति ॥ १२३६ ॥
युक्तिमल्लिका
तौ चेतनौ स्थिरीकर्तुं सुपर्णावित्यरूरुपत् ।
स्वतोभिकाशनोक्त्यात तत्रैकमकरोत्प्रभुम् ॥ १२३७ ॥
सुरोत्तमटीका
सुपर्णपदस्य चेतनवाचकत्वाद् बुद्धिजीवाविमाविति शङ्कापि श्रुत्यैव निराकृत्येत्याह ॥ तौ चेतनाविति ॥ घटपटयोर्भेद इव न जीवेश्वरयोर्भेदमात्रमत्राभिप्रेतं किं तु हरेः प्रभुत्वं चाभिप्रेतमित्याह ॥ स्वत इति ॥ अशनादिकमनपेक्ष्य स्वाभाविकसामर्थ्येनेत्यर्थः । उपलक्षणं चैतत् । समाख्यास्मृतौ विद्यामयत्वनित्यमुक्तत्वकथनाच्चेत्यपि द्रष्टव्यम् ॥१२३७ ॥
सत्यप्रमोदटीका
चेतनौ न बुद्धिजीवौ । स्वतो ऽभिकाशनेति दुःखानत्तृत्वं, विषयान्विनाऽपि पूर्णत्वं, स्ववशेनैवादनं, इत्याद्यर्थस् तत्त्व-प्रदीपोदाहृतप्रमाणैरवसेयः ॥ १२३७ ॥
युक्तिमल्लिका
यदिमौ द्वौ च संयोगात्सयुजाविति शब्दितौ ।
अतोऽन्ते यद्धि सायुज्यं तच्च योगात्मकं जगौ ॥ १२३८ ॥
सुरोत्तमटीका
एकदेहे उभयोः प्रविष्टत्वेन सयुजाविति सायुज्यवाचक-पदप्रयोगान् मुक्तावपि सायुज्यमीदृशमेव न स्वरूपैक्यमिति लब्धमित्याह ॥ यदिमाविति ॥ योगात्मकं परस्परसंयोगात्मकम् ॥ १२३८ ॥
सत्यप्रमोदटीका
मोक्षे सायुज्यशब्दस्यापार्थकत्वं वदन्तो रामानुजीया अपि अनेनैव निरस्ता इत्याह संयोगादिति सह युज्येते इति व्युत्पत्त्येति भावः । तदुक्तं ‘आदत्ते हरिहस्तेन, हरिदृष्ट्यैव पश्यति’ इत्यादि भाष्ये ॥ १२३८ ॥
युक्तिमल्लिका
अतश्शङ्का पिशाचीः सा श्रुतिरेव न्यवारयत् ॥ १२३९ ॥
सुरोत्तमटीका
अतः समाख्यासमेतत्वात् हेतुगर्भविशेषणभरितत्वाच्च । शङ्कापिशाचीर् मुक्तौ ज्ञानाभावव्यावहारिकभेदपरत्वादिशङ्कापिशाचीः
॥ १२३९ ॥
युक्तिमल्लिका
एकं भाविभवच्चैकमित्याशां हन्ति लड्द्वयम् ।
मुक्तस्याप्यवृतोक्तेश्च नैराश्यं परमं सुखम् ॥ १२४० ॥
सुरोत्तमटीका
एकम् अनशनं भावि । एकम् अशनं च भवद्वर्तमानम् । लड्द्वयम् अनश्नन्निति शत्रंतपदस्यापि लडर्थत्वाद् लड्द्वयमित्युक्तम् । सोश्नुत इति मुक्तस्याप्यत्तृतोक्तेश्च एकं वर्तमानमित्याशा निरस्ता । तेन परस्य शङ्कामात्रस्यानवकाशान्नैराश्यमेव सुखम् । नैराश्यं परमं सुखमिति भागवत-वाक्यमपि मायिनां परिहासार्थमेव प्रवृत्तमिति ध्वनिं सूचयितुं तदेव वाक्य-मुदाहृतम्
॥१२४० ॥
सत्यप्रमोदटीका
एकम् अनशनम् । भावि मुक्तिकालीनम् । एकम् अशनं भवत् संसारकालीनम् । लड्द्वयम् अत्ति अनश्नन् इति । मुक्तस्यापि ‘सोऽश्नुते सर्वान् कामान्’ इति श्रुतौ कथितस्य । नैराश्यं स्वमतसमर्थनाशापरित्यागः । ‘नैराश्यं परमं सुखमिति पिङ्गलया । शिक्षितस्य भागवतोक्तस्य धर्मस्य तव परिहारार्थमेव प्रवृत्तिरिति ध्वनिः ॥ १२४० ॥
युक्तिमल्लिका
स्याद्रक्तिमेति श्यामत्वदशायामपि किं घटः ।
रक्त इत्युच्यते सद्भिस्ततोऽप्येतदपार्थकम् ॥ १२४१ ॥
सुरोत्तमटीका
भाव्यनशनमपेक्ष्येदानीमनश्नन्निति प्रयोगो नोचित इत्यत्र दृष्टान्तमाह ॥ स्यादिति ॥ १२४१ ॥
सत्यप्रमोदटीका
भाविनिवर्तमानत्वप्रयोगं निदर्शनेन खण्डयति स्यादिति ॥ १२४१ ॥
युक्तिमल्लिका
किञ्चैक्यवाक्यवाक्यस्य वृथैवं क्लिष्टकल्पना ।
ऋजोर्यथा श्रुतार्थस्य त्यागे हेतोरभावतः ॥ १२४२ ॥
सुरोत्तमटीका
अपि चास्य वाक्यस्य बुद्धिजीवविषयत्वकल्पनमवस्था-भेदेन जीवमात्रविषयत्वकल्पनं च प्रकारद्वयेनापि मायावादिनां व्यर्थमित्याह ॥ किं चेति ॥ ऐक्यवाक्यस्य प्राबल्ये साक्षाज्जीवेश्वरभेदपरत्वेऽप्यस्याश्श्रुतेर्बाधितुं शक्यत्वात् क्लिष्टकल्पना व्यर्था ॥ १२४२ ॥
सत्यप्रमोदटीका
ऐक्यवाक्यं प्रबलमस्ति न वा । उभयथाऽपि अस्य वाक्यस्य बुद्धिजीवपरत्वेन अवस्थाभेदपरत्वेन वा क्लिष्टकल्पना न युक्तेत्याह किञ्चेति । बाधसम्भवान् न हि प्रमाणबाधितस्याग्न्यनुष्णत्वस्योपपत्तये उपपादकं क्लेशेन क्लप्यत इति भावः
॥ १२४२ ॥
युक्तिमल्लिका
दौर्बल्ये चैक्यवाक्यस्य वृथैवं क्लिष्टकल्पना ।
ऋजोर्यथा श्रुतार्थस्य त्यागे हेतोरभावतः ॥ १२४३ ॥
सुरोत्तमटीका
ऐक्यश्रुतेर्दौर्बल्ये बाधकाभावेन यथा श्रुतार्थस्यैवाङ्गीकर्तुं शक्यत्वात् क्लिष्टकल्पनावैयर्थ्यमेवेति भावः ॥ १२४३ ॥
सत्यप्रमोदटीका
हेतोरभावत इति बाधकाभावे उत्सर्गतः सिद्धस्य त्यागायोगादेवेति भावः ॥ १२४३ ॥
युक्तिमल्लिका
व्यावहारिकभेदं ते का वा वक्ति श्रुतिस्तयोः ।
वाक्यस्यास्य कुसृष्ट्यैवमन्यथाकरणे वद ॥ १२४४ ॥
सुरोत्तमटीका
क्लिष्टकल्पनायां बाधकान्तरं चाह ॥ व्यावहारिकेति ॥ तयोर्जीवपरमयोः । अस्याश्श्रुतेर्बुद्धिजीवपरत्वे यथाकथंचिज्जीवमात्रपरत्वे चाङ्गीकृते स्वग्रन्थेऽस्याश्श्रुतेर्व्यावहारिकजीवेश्वरभेदपरत्वाङ्गीकारविरोधश्चेति भावः ॥ १२४४ ॥
सत्यप्रमोदटीका
सिध्यतु भेदः । किन्तु स व्यावहारिक इति चेत् स किं सत्यो मिथ्या वा । आद्ये अनुज्ञया वर्तामहे । व्यावहारिकत्वविशेषणं व्यर्थं च । न द्वितीयः निर्मूलत्वात्कल्पनाया इत्याह का वेति ॥ १२४४ ॥
युक्तिमल्लिका
सिद्धभेदानुवादश्च कस्मिन्वाक्ये प्रकथ्यते ।
भेदोपास्तेश्च किं मूलमतश्चायं वृथा श्रमः ॥ १२४५ ॥
सुरोत्तमटीका
पुनरपि विरोधद्वयमाह ॥ सिद्धेति ॥ वादाभावेऽनु-वादायोगात् श्रुतौ सर्वथा जीवेश्वरभेदाकथने उपासनार्थं भेदोक्तिरिति परिहारा-योगाच्चेति भावः ॥ १२४५ ॥
सत्यप्रमोदटीका
अनुवाद एवायं भेदस्येति चेत् स किं श्रुतिसिद्धस्य अथ प्रमाणान्तरेण । नाद्यः ‘तद्धैक आहुः’ इत्यत्रेव अनुवादलिङ्गाभावा-दित्याह कस्मिन्निति । सर्वथा श्रुत्यसिद्धत्वे उपायनार्थत्वगतिकथनायोगादिति आह भेदेति । प्रमाणान्तरसिद्धत्वे च तद्विरोधादेवाप्रामाण्यमभेदागमस्य । तेन च तस्या प्रामाण्याभावे नानुवादकत्वं भेदवाक्यानां’ इत्यादि तत्त्वनिर्णयोक्त-दोषापातात् ॥ १२४५ ॥
युक्तिमल्लिका
परप्रयोजनार्थं हि परमात्मा प्रवर्तते ।
सुरां सुधां च दुस्साध्यां किं संसाध्य स्वयं पपौ ।
असुरांश्च सुरांश्चैव यथायोग्यमपाययत् ॥ १२४६ ॥
सुरोत्तमटीका
अमृतमथनकथया च भगवत एवानशनं जीवदेहेष्वा-विष्टतया पृथगेव वर्तनं च सम्भावितमित्याह ॥ परप्रयोजनेति॥१२४६ ॥
सत्यप्रमोदटीका
परमात्मनः सर्वत्र प्रवृत्तिर् आनन्दोद्रेकेण परप्रयोज-नार्था, ‘पूर्णानन्दस्य तस्येह प्रयोजनमति; कुतः’ इति भाष्योक्तं पुराणसंवादेन द्रढयति सुरां सुधां चेति । एतेनाशनानशने सुरां सुधां चेति । एतेनाशना-नशने श्रुत्युक्ते समर्थिते ॥ १२४६ ॥
युक्तिमल्लिका
स हि सर्वं जगदिदं व्याप्य नारायणः स्थितः ।
तत्रैव देवदैत्यादिष्वावेशस्य प्रकीर्तनात् ॥ १२४७ ॥
सोऽनश्नन्देहिनां देहेऽप्यश्चंश्चान्यस्तथैव हि ।
प्रेरकप्रेर्यरूपौ तौ कथं न द्वौ तनौ तनौ ॥ १२४८ ॥
सुरोत्तमटीका
तत्रैव अमृतमथन एव । तथाऽसुरानाविशदासुरेण रूपेण तेषां बलवीर्यमीरयन् । ‘उद्दीपयन्देवगणांश्च विष्णुर्दैवेन नागेन्द्रमथा-परेणेति’ श्लोकेन कीर्तनात्, व्याप्य नारायणस्स्थित इति सम्बन्धः । अन्त-र्बहिश्च तत्सर्वं व्याप्य नारायणस्स्थित इति श्रुतिं च सूचियितुमेवं साध्यनिर्देशः ॥ १२४७,१२४८ ॥
सत्यप्रमोदटीका
तत्रैव मथनसमय एव । आवेशस्येति ‘तेषां बल-वीर्यमीरयन् । उद्दीपयन्देवगणांश्च विष्णुरिति कीर्तनात् । एतेन समानं वृक्षमिति श्रुत्युक्तस्य संवाद उक्तः ॥ १२४७, १२४८ ॥
युक्तिमल्लिका
ईश्वरस्सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति ।
भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया ॥ १२४९ ॥
सुरोत्तमटीका
गीतावाक्येनापि हरेर्देहिदेहेषु स्थितिं दुःखाशनहेतुभूत-कर्माभावेन कर्मफलस्पृहाभावेन अनशनं च सम्भावयति ॥ ईश्वर इत्यादिना ॥ १२४९ ॥
सत्यप्रमोदटीका
श्रुत्युक्तार्थे गीतावाक्यं संवादयति ईश्वर इति ॥ १२४९ ॥
युक्तिमल्लिका
न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा ।
इति गीतासु हरिणा गीतां गाथामनुस्मर ॥ १२५० ॥
सत्यप्रमोदटीका
अनश्नन्नित्युक्तशुभाशुभलेपाभावे गीतां प्रमाणयति न मामिति ॥ १२५० ॥
युक्तिमल्लिका
अन्ते संहृत्य योऽनेकान्विप्रर्षिविबुधादिकान् ।
न लिप्यते पापकेन कनीयान्न स कर्मणा ॥ १२५१ ॥
सुरोत्तमटीका
हरेर्दुःखमूलपापलेपाभावे युक्तिं वदन् श्रुतेश्च सूचनाय श्रौतपदेन फलितमाह ॥ अन्त इति ॥ अनेन न कर्मणा लिप्यते पापकेन न कर्मणा वर्धते नो कनीयानिति श्रुतिद्वयं सूचयति ॥ १२५१ ॥
सत्यप्रमोदटीका
अन्ते प्रलये । न लिप्यते । हत्वा स इमांल्लोकान् न हन्ति न निबध्यते इति गीतोक्तेः । कनीयान्नेत्यनेन न कर्मणा वर्धते नो कनीयान्’ इति श्रुतेः ॥ १२५१ ॥
युक्तिमल्लिका
यो सक्तस्सन्विविक्तश्च साक्षी किल नृणां हृदि ।
स पापमूलदुःखानि नैव भुंक्त इति स्मृतेः ॥ १२५२ ॥
सुरोत्तमटीका
उक्तार्थे स्मृतिं च सूचयति ॥ यो सक्त इति ॥ अनेन द्रष्टुर्नदृश्यस्य गुणैर्विषज्यते तस्मै नमो सक्तविविक्तसाक्षिणे इति भागवतवाक्यं गृह्णाति । उत्तरार्धेन च न वै स आत्मात्मवतामधीश्वरोभुङ्क्ते हि दुःखं भगवा-न्वासुदेव इति वाक्यं गृह्णाति । स्मृतेर् गीताभागवतरूपस्मृतेः ॥ १२५२ ॥
सत्यप्रमोदटीका
‘योऽसक्तः सन्’ इत्यनेन ‘नमोऽसक्तविविक्त-साक्षिणे’ इति भागवते वाक्यं, नैव भुंक्ते’ इत्यनेन न वै स आत्माऽऽत्मवतां महेश्वरो भुंक्ते हि दुःखम् इति वाक्यं च सूचयति ॥ १२५२ ॥
युक्तिमल्लिका
श्रुतेश्च युक्तितश्चेशस्सिद्धो विद्वज्जनप्रियः ।
यश्च स्वकृतपापौघैर्नरकाननुगच्छति ॥ १२५३ ॥
आधिना व्याधिना देहेऽप्यनीशः क्लेशभाक्सदा ।
उभावश्नदनश्नन्तौ कथं नेमौ तनौ तनौ ॥ १२५४ ॥
सुरोत्तमटीका
श्रुतेः प्राक्सूचितायाः । युक्तितः प्रागुक्तयुक्तेः । सिद्धो ऽनश्नन् सिद्धः । श्रुतिस्मृत्युक्तजीवस्वभावदर्शने सति अत्ता च जीव एवेत्याह ॥ यश्चेति ॥ इमौ जीवपरमौ ॥ १२५३, १२५४ ॥
सत्यप्रमोदटीका
नित्याऽतादृशस्तु जीवाख्यपक्षी इत्याह य श्चेति । आधिव्याधीति च ॥ १२५३, १२५४ ॥
युक्तिमल्लिका
उद्गते सति जीवाख्यचैतन्यांशे कलेवरात् ।
देहव्यापि तदाऽप्यन्यचैतन्य किल ते मते ॥ १२५५ ॥
सुरोत्तमटीका
पररीत्यापि जीवदेहे चैतन्यद्वयं साधयति ॥ उद्गत इति ॥ १२५५ ॥
सत्यप्रमोदटीका
परप्रक्रिययैव प्रतिदेहं चैतन्यद्वयसिद्धिप्रकारं दर्शयति उद्वते इत्यादिभ्याम् । चैतन्यांशे बुद्ध्युपाधिके ॥ १२५५ ॥
युक्तिमल्लिका
न चेदनारोपितोऽसौ देहस्स्यात्पतितो भुवि ।
नाधिष्ठानं विनाऽध्यासो न चैतन्यं विना च तत् ॥ १२५६ ॥
सुरोत्तमटीका
न चेच् चैतन्यांशो न चेत् । तदधिष्ठानम् ॥ १२५६ ॥
सत्यप्रमोदटीका
न चेद् उत्क्रमणानन्तरं ब्रह्मचैतन्यमधिष्ठानभूतं देहे नास्ति चेत् । पतितः स्वरूपेण अत्यन्ताभावप्रतियोगी । अधिष्ठानाभावे मृतकलेवरस्याप्यवस्थानायोगादिति ध्येयम् । नाधिष्ठानमिति । शून्यवादे इव मायावादे निरधिष्ठानकभ्रमानङ्गीकारात्
॥ १२५६ ॥
युक्तिमल्लिका
एवं चाश्नदनश्नन्तो चिदंशौ द्वौ यतो बलात् ।
तच्छ्रुतिस्तत्परैवास्तु किमर्था क्लिष्टकल्पना ॥ १२५७ ॥
सुरोत्तमटीका
तत्तस्माद् अश्नदश्ननतोश्चिदंशयोरावश्यकत्वात् ॥ १२५७ ॥
सत्यप्रमोदटीका
तच् चैतन्यम् । अन्यस्य मिथ्यात्वेन अधिष्ठानत्वा-योगात् ॥ १२५७ ॥
युक्तिमल्लिका
श्रावयन्ती भिदां तस्य व्यावहारिकतादिकम् ।
कपोलक्लृप्तमश्रौतधिक्कृत्यैव श्रुतिर्द्वयोः ॥ १२५८ ॥
सायुज्यसख्या सादृश्यस्वातन्त्र्यादिविशेषणैः ।
उपसर्गेण च व्याप्तिं प्रबोध्यैक्यगिरां गतिम् ॥ १२५९ ॥
सगुणत्वं च संसाध्य लिटा मिथ्याश्रुतेर्गतिम् ।
लटा तद्बाधकं चोक्त्वा माध्वराद्धान्तमुद्दधे ॥ १२६० ॥
सुरोत्तमटीका
एवं जीवेशयोरेवैतच्छ्रुतिप्रतिपाद्यत्वं संसाध्य श्रौतपद-महिम्ना इयमेव श्रुतिस्सकलमाध्वराद्धान्तरहस्यसाधिकेत्याह ॥ श्रावयन्तीति ॥ द्वयो र्जीवेशयोर्भिदामिति सम्बन्धः । तस्या भिदायाः । आदिपदेनौपाधि-कत्वादिकं गृह्यते । कपोलक्लृप्तं स्वकपोलक्लृप्तम् । अश्रौतं श्रुतौ कुत्राप्यनु-दितम् । इदं च धिक्कारे हेतुगर्भं विशेषणद्वयम् । जीवेश्वरभेदव्यावहारि-कत्वादेश्श्रुतौ कुत्राप्यप्रतिपादितत्वात् केवलं स्वकपोलकल्पनामात्रस्य विदुषां संसदि उपन्यासानर्हत्वादिति भावः । विशेषणैः सयुजौ सखायौ समानं वृक्षं परिषस्वजाते । अनश्नन्नन्यो अभिचाकशीतीति विशेषणैः । क्रियापदस्यापि विशेष्य गुणप्रतिपादकत्वेन विशिनष्टि विशेष्यमिति व्युत्पत्त्या विशेषणत्व-मस्त्येवेति भावः । सायुज्यसख्यसादृश्यस्वातन्त्र्यादि प्रबोध्येति सम्बन्धः । आदिपदेन नित्यमुक्तत्वादिकं गृह्यते । अभितस्सर्वत इति व्युत्पत्त्या व्याप्त्यर्थकाभीत्युपसर्गेण व्याप्तिं च प्रबोध्य ऐक्यगिरां गतिं भगवतस्सगुणत्वं च संसाध्य । ऐक्यवाक्यानां स्थानैक्यमत्यैक्यसादृश्यैक्यव्याप्त्यैक्यपरत्वाख्यगतेः श्रौतपदमहिम्ना प्रदर्शितत्वात् सकलजीवदेहगतत्वसखित्वादिभगवद्गुणानामपि प्रदर्शितत्वादिति भावः । लिटा सस्वजाते इति देहालिङ्गनस्यातीतत्व प्रतिपादकलिटा । मिथ्याश्रुतेर् मिथ्यात्वप्रतिपादकश्रुतेः । गतिम् अनित्यत्वेनैव मिथ्यात्वोक्तिरिति गतिम् । लटा अत्ति अनश्नन्निति अशनादीनां वर्तमानत्व प्रतिपादकलटा । तद्वाधकं त्रिकालासत्त्वरूपमिथ्यात्वबाधकं माध्वराद्धान्तम् उद्दधे । उक्तविधया भेदजगत्सत्यत्वसगुणत्वानां साधनाद् अभेदमिथ्यात्व-निर्गुणत्वानां बाधनाच्च इयमेकैव श्रुतिः सकलमध्वमतरहस्यसाधिकेति भावः ॥ १२५८-१२६० ॥
सत्यप्रमोदटीका
एतस्याः श्रुतेः सकलसिद्धान्तप्रमेयसाधकत्वप्रकारं विविनक्ति त्रिभिः श्रावयन्तीत्यादिना । द्वौ, अन्यः, अन्य इत्यादिशब्दैः ॥ धिक्कृत्य मोक्षेऽपि सहभावादिभेदकधर्मकथनेन । विशेषणैः सयुजौ, सखायौ, अनश्नन्, इत्यादिभिः । सायुज्यसख्यसादृश्यस्वातन्त्र्यादि इति द्वितीयान्तम् । प्रबोध्य इत्यनेनान्वयः । उपसर्गेण अभीत्यनेन, व्याप्तिं च प्रबोध्य प्रतिपाद्य यद्वा स्वातन्त्र्यादिविशेषणैर् इत्येकं पदम् । व्याप्तिं गुणतो व्याप्तिं प्रबोध्ये-त्यर्थः । ऐक्यगिरां गतिं सादृश्यैक्येत्यादिकं संसाध्य । लिटा सस्वजाते इत्यत्र प्रत्ययेन मिथ्याश्रुतेर्गतिं ‘असदि चेत्र धर्मान्तरेण वाक्यशेषादि’ति सूत्रोक्तां गतिम् । लटा अनश्नन्, अत्ति इत्यत्रत्येन तद्वाधकं स्वरूपेण निषेध-रूपमिथ्यात्वबाधकम् उक्त्वा । उद्दधे समर्थयामास
॥ १२५८-१२६० ॥
युक्तिमल्लिका
व्यावहारिकभेदस्य साधिका भेदवाग्यदि ।
तवैक्यवाक्यं किं न स्यात्तादृगर्थपरं तदा ॥ १२६१ ॥
सुरोत्तमटीका
स्वकपोलकल्पनामात्रमूलत्वेन परिहृतामपि श्रुते-र्व्यावहारिकभेदपरत्वशङ्काम् ऐक्यप्रतिबन्द्या च परिहरति ॥ व्यावहारिकेति ॥ तादृगर्थपरं व्यावहारिकैक्य परम् ॥ १२६१ ॥
सत्यप्रमोदटीका
तादृगर्थपरं व्यावहारिकैक्यपरम् । तदा तद्बोधक-पदाभावेऽपि तथाभावकल्पने ॥ १२६१ ॥
युक्तिमल्लिका
न चेत्प्रत्यक्षसाहित्यबाधाभ्यां किं विधीयताम् ।
मृतस्य प्रेतकर्म स्याज्जीवतस्तु कथं वद ॥ १२६२ ॥
सुरोत्तमटीका
ऐक्यस्यैव व्यावहारिकत्वमुचितमित्याह ॥ न चेदिति ॥ न चेद् ऐक्यस्यैव व्यावहारिकत्वं न चेत् । प्रत्यक्षस्य साहित्यं बाधश्च ताभ्यां प्रत्यक्ष बाधादैक्यस्यैव व्यावहारिकत्वमुचितं न तु भेदस्य । तस्य श्रुति-प्रत्यक्षाख्य प्रमाणद्वयसिद्धस्य पारमार्थ्यमेवोचितमिति भावः । तत्र दृष्टान्त-माह ॥ मृतस्येति ॥ प्रत्यक्षबाधितत्वादैक्यं मृतं तत्साधितत्वाद्भेदो जीवन्निति भावः ॥ १२६२ ॥
सत्यप्रमोदटीका
प्रत्यक्षं ‘नाहं निर्दुःखः’ इत्यादि साक्षिप्रत्यक्षं, साहित्यं मोक्षेऽपि ‘सहाश्नुते’, ‘उपसङ्क्रम्य’ इति श्रुत्युक्तं भेदकधर्मानुमानं, एताभ्यां निर्दोषश्रुतिसाक्षिभ्यां यौ बाधौ ताभ्यां किं विधीयतां कस्य प्रतिषेध उच्यताम् । मृतस्य अप्रामाणिकस्य ऐक्यस्यैव प्रेतकर्म बाधः । जीवतः सकलप्रमाणप्रमितस्य बाधानर्हस्य । तथा च उपेत्य ऐक्यप्रतिबन्दी प्रागुक्ता । वस्तुतस्तु ऐक्यस्यैव व्यावहारिकत्वेन त्वदभिमतबाधो युक्त इत्युक्तं भवति ॥ १२६२ ॥
युक्तिमल्लिका
यदि ब्रह्मप्रमामात्रबाध्यो भेदस्ततः पुरा ।
व्यवहारपदं प्राप्तो व्यावहारिक इष्यते ॥ १२६३ ॥
तर्हि नाहं सर्ववेत्ता न सर्वेशोऽहमित्यपि ।
प्रत्यक्षबाधादधुना स्यादैक्यं प्रातिभासिकम् ॥ १२६४ ॥
सुरोत्तमटीका
ननु भेदस्य ब्रह्मप्रमान्याबाध्यत्वे सति ब्रह्मप्रमैक-बाध्यत्वाद्व्यावहारिकत्वमुचितम् । ऐक्यस्य तु ब्रह्मप्रमायामप्यबाध्यस्य कथं व्यावहारिकत्वमिति चेत् । न । ‘यदा पश्यः पश्यते रुग्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिमिति’ श्रुतौ कर्तृतया ईशतया च ब्रह्मणो दर्शनोक्तेः कार्यभूतादनी-शाच्च जीवाद्ब्रह्मणि भेदस्यैव प्रतीयमानत्वेन तस्य बाधाभावात् । प्रत्युत एतादृशदर्शने ऐक्यस्यैव बाधदर्शनाच्च । पररीत्यैव दूषणान्तरं चाह ॥ यदीति ॥ अधुना संसारदशायाम् ॥ १२६३,१२६४ ॥
सत्यप्रमोदटीका
ननु ब्रह्मप्रमाबाध्यो भेदो ऽतो व्यावहारिकः । ऐक्यं तु न तथेति चेन् न । ‘यदा पश्यः पश्यते रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयेनिं’ ‘तमेवं विद्वानमृत इह भवति’ इत्यादिमोक्षहेतुब्रह्मप्रमापकैर्वाक्यैः कर्तृत्वेशत्वब्रह्मयोनित्वादिना भेदस्यैव श्रावणाद्विरुद्धो हेतुरिति दोषे सत्येव दोषान्तरमाह यदीति । प्रत्यक्षेति ब्रह्मप्रमान्येति भावः ॥ १२६३,१२६४ ॥
युक्तिमल्लिका
ब्रह्मप्रमाऽन्यबाध्यं यत्तद्धिते प्रातिभासिकम् ।
नचेद्रज्जुभुजङ्गाद्यं कथं स्यात्प्रातिभासिकम् ॥ १२६५ ॥
रज्जुप्रत्यक्षवद्भेदप्रत्यक्षं किं न बाधकम् ॥ १२६६ ॥
सुरोत्तमटीका
ननु संसारदशायामेव बाध्यत्वेऽप्यैक्यस्य कुतः प्राति-भासिकत्वमित्यत आह ॥ ब्रह्मप्रमान्येति ॥ ते मते एतदेव विपक्षेबाधक-प्रदर्शनेनोपपादयति ॥ न चेदिति ॥ भेदप्रत्यक्षस्याबाधकत्वशङ्कामपि प्रतिबन्द्यैव परिहरति ॥ रज्ज्विति ॥१२६५, १२६६ ॥
सत्यप्रमोदटीका
ब्रह्मप्रमाऽन्येन बाध्यत्वं प्रातिभासिकत्वम् इति परपरि-भाषा । अत एव रज्जुभुजङ्गादिकं प्रातिभासिकं तेनोच्यते । ‘नायं सर्पः किन्तु रज्जुरि’ति प्रत्यक्षं निर्दोषत्वाद्यथा बाधकं तथैव नाहं निर्दुःख ईश्वरः किन्तु दुःखी जीव एवेति साक्षिप्रत्यक्षं नित्यनिर्दोषत्वाद्बाधकमेवेत्याह किं न बाधकमिति ॥ १२६५,१२६६ ॥
युक्तिमल्लिका
अतो वृश्चिकतो भीत्या पलायनपरस्य ते ।
महोरगबिले स्थूले पातो जातो विचारय ।
यद्भेदसाम्यतो भीतस्यासीदैक्येति नीचता ॥ १२६७ ॥
सुरोत्तमटीका
एवं च वृश्चिकभयात्पलायमानस्याशीविषमुखे निपात इति लौकिकाभाणकं त्वमेवानुकरोषीत्याह ॥ अत इति ॥ भेदैक्ययोस्साम्या-द्भीतस्य परस्य स्वाभिमतैक्ये प्रातिभासिकत्वाख्यातिनीचदशाप्राप्तेरित्यर्थः ॥ १२६७ ॥
सत्यप्रमोदटीका
ततोऽपहसनीयाभाणकविषयता परस्यापतितेत्याह वृश्चिकेति । यद् यस्मात्कारणात् साम्यतः भेदस्यापि पारमार्थिकत्वे ऐक्य-साम्यम् आपद्यते इति असहनतया तस्य व्यावहारिकत्वसाधने प्रवर्तमानस्य ऐक्ये स्वसिषाधयिषित एव अतिनीचता भेदापेक्षया अतिनीचता प्रातिभासिकता आपतिता । अतः साधूक्तं भागवते ‘महदवज्ञा कार्त्स्येनात्मन एव प्रतिफलति’ इति ॥ १२६७ ॥
युक्तिमल्लिका
व्यावहारिकमानं हि प्रातिभासिकमानतः ।
बलवत्ते मते तस्मादैक्यं स्याद्धि बहिष्कृतम् ॥ १२६८ ॥
सुरोत्तमटीका
एवं च व्यावहारिकभेदपराद् भेदप्रमाणात् प्रातिभासि-कार्थकं तवैक्य प्रमाणमेव दुर्बलमासीदित्याह ॥ व्यावहारिकेति॥१२६८ ॥
सत्यप्रमोदटीका
निष्प्रमाणकं सत्त्रैविध्यं तत्र च अवान्तर-बलाबल-कल्पनस्य अयम् अनर्थविपाक इत्याह व्यावहारिकेति ॥ १२६८ ॥
युक्तिमल्लिका
व्यावहारिकतायां च बाधाभावो यदीष्यते ।
सिद्धं समीहितं तर्हि न चेदतिविगर्हितम् ॥ १२६९ ॥
अतत्वावेदकत्वाप्त्या यच्छ्रुतेर्मानता गता ।
इदं च बौद्धराद्धान्तवार्धिमध्यप्रवेशनम् ॥ १२७० ॥
सुरोत्तमटीका
व्यावहारिकत्वपक्षे दोषान्तरं चाह ॥ व्यावहारिक-तायामिति ॥ न चेद् बाधाभावो न चेद् अतिविगर्हितं तव मतमासीदित्यर्थः ॥ कथमित्यत आह ॥ अतत्वेति ॥ यद् यस्मात् । इदं श्रुतेरमानत्वप्रापणम् ॥ १२६९, १२७० ॥
सत्यप्रमोदटीका
किञ्च व्यावहारिकं नाम तत्त्वमेव चेद् व्यर्थं तेन सत्यविशेषणम् । न हि कश्चिल्लौकिको वैदिको वा भेदस्य व्यावहारिकतां नाभ्युपैति । अप्राप्ते शास्त्रमर्थवदिति न्यायात् । अतत्त्वं चेद् अतिविगर्हितम् अवैदिकं मायामतम् आपन्नम् । श्रुतेरप्रामाण्यापातात् । तदुक्तं वादावल्यां ‘अतत्वावेदकं प्रमाणं चेद्व्याघातः’ इति । बौद्धेति तदुक्तं वार्तिके ‘सत्यं चेत् संवृतिः केयं मृदा चेत्सत्यता कथम् । वञ्चनार्थमुपन्यासः’ इति ॥ १२६९, १२७० ॥
युक्तिमल्लिका
उभयोर्मानतासिद्ध्यै यो यतेत स वैदिकः ।
अतो मुख्यामुख्यवृत्त्या वयं गुप्त्यै यतेमहि ।
न चेद्वेदघ्न एवासौ गवोरेकघ्नगोघ्नवत् ॥ १२७१ ॥
सुरोत्तमटीका
उभयोर्वैदिकवाक्ययोः । गुप्त्यै वाक्यद्वयरक्षणाय । न चेद् वाक्यद्वयरक्षको न चेत् । गवोर् गोद्वयस्य मध्ये ॥ १२७१ ॥
सत्यप्रमोदटीका
वैदिकः वेदवेदानुसारेषु विरोधेऽन्यार्थकल्पना’ इति वचनात् । गोघ्नवद् इति व्यक्तमेतद्गुणसौरभे ॥ १२७१,१२७२ ॥
युक्तिमल्लिका
यद्यमानत्वमेकस्या वक्तुं युक्तं श्रुतावपि ।
तर्हि मीमांसकाचार्याः पुर्याः कार्यास्त्वया बहिः ॥ १२७२ ॥
सुरोत्तमटीका
श्रुत्योः परस्परविरोधे एकस्या अप्रामाण्यं वदतो दोषान्तरं चाह ॥ यदीति ॥ तर्ह्यविरुद्धार्थकथनरूपमीमांसावैयर्थ्यमिति भावः
॥ १२७२ ॥
युक्तिमल्लिका
पौरुषेयेषु पुरुषविप्रलिप्सादिकारणात् ।
युक्ता द्विविधता बुद्धाद्युक्ताविव न सा श्रुतौ ॥ १२७३ ॥
सुरोत्तमटीका
पुराणयोर्मिथो विरोधे एकाप्रामाण्यवदिदमपि कुतो न स्यादित्यत आह ॥ पौरुषेयेष्विति ॥ आदिपदेन भ्रमप्रमादादिकं गृह्यते । सा द्विविधता ॥ १२७३ ॥
सत्यप्रमोदटीका
‘इतराविरुद्धानि प्रलम्भभ्रमजान्यपि’ इति स्मृत्युक्त-माह पौरुषेयेषु इति ॥ १२७३ ॥
युक्तिमल्लिका
विप्रलिप्सा प्रमादश्च भ्रमश्च स्याद्धि पुंसु यत् ।
अपौरुषेयवचने मुख्यामुख्यार्थतैव तत् ॥ १२७४ ॥
सुरोत्तमटीका
तदेवोपपादयति ॥ विप्रलिप्सेति ॥ यद् यस्मात् । तत् पुरुषाभावात् ॥ १२७४ ॥
सत्यप्रमोदटीका
तन् निर्दोषत्वेन सर्वथाऽप्रामाण्यस्याशक्यत्वात् ॥ १२७४ ॥
युक्तिमल्लिका
किञ्च त्वच्छ्रुतिबाधात्सा व्यावहारिकवाग्भवेत् ।
अपौरुषेयवचने मुख्यामुख्यार्थतैव तत् ॥ १२७५ ॥
सुरोत्तमटीका
ऐक्यश्रुतिबाधाद् भेदश्रुतेर्बाधितार्थत्वमिति चेत् तर्ह्य-न्योन्याश्रय इत्याह ॥ किं चेति ॥ सा भेदश्रुतिः । सा व्यावहारिकवाक् बाधितार्थकवाक्वेत् । तच्छ्रुतिस् त्वदभिमता श्रुतिस् तव श्रुतिस् तवापेक्षितैक्य श्रुतिः प्राबल्येन बाधकत्वसिद्धौ भेदश्रुतेर्व्यावहारिकार्थपरत्वसिद्धिः । तत्सिद्धौ च तत्वावेदकतया ऐक्यश्रुतेस्ततोऽपि प्रबलतया बाधकत्वसिद्धिरित्यन्योन्याश्रय इति भावः ॥ १२७५ ॥
सत्यप्रमोदटीका
त्वच्छ्रुतिबाधात् तवैक्यश्रुत्या बाधे सति । सा भेदश्रुतिः । व्यावहारिकवाक् व्यावहारिकभेदप्रतिपादिका । तवश्रुतिस् त्वदभिलषितैक्यप्रतिपादिका । तथा चान्योन्याश्रयः ॥ १२७५ ॥
युक्तिमल्लिका
व्यावहरिकता चेयं न युक्ता या त्वयोदिता ॥ १२७६ ॥
सुरोत्तमटीका
व्यावहारिकतामेव विकल्प्य दूषयति ॥ व्यावहारि-कतेति ॥ १२७६ ॥
सत्यप्रमोदटीका
न युक्ता विकल्पासहत्वात् । तथा हि किम् इदं व्यावहारिकत्वम् । ब्रह्मज्ञानेतरज्ञानाबाध्यत्वे सति ब्रह्मज्ञानबाध्यत्वम् उत ब्रह्म-प्रमेतराबाध्यत्वे सति तद्बाध्यत्वम् ॥ १२७६,१२७७ ॥
युक्तिमल्लिका
ब्रह्मज्ञानेतरज्ञानाबाध्यत्वे सति तद्धिया ।
यद्बाध्यं तस्य भावो हि व्यावहारिकता तव ॥ १२७७ ॥
सुरोत्तमटीका
तद्धिया ब्रह्मज्ञानेन ॥ १२७७ ॥
युक्तिमल्लिका
यतो सत्त्वास्थिरत्वादिब्रह्मणः प्रमयैव हि ।
ब्रह्मण्यारोपितं बाध्यं तच्च ते प्रातिभासिकम् ॥ १२७८ ॥
सुरोत्तमटीका
असत्त्वास्थिरत्वादिकं ते मते ॥ १२७८ ॥
सत्यप्रमोदटीका
नाद्यः ब्रह्मण्यारोपिते प्रतिभासिके क्षणिकत्वे असत्त्वे चातिव्याप्तेरित्याह यत इति ॥ १२७८ ॥
युक्तिमल्लिका
प्रमापदप्रवेशेऽपि नोक्तदोषप्रतिक्रिया ।
प्रमा यथार्थधीरेवं नोचेद्व्यर्थं विशेषणम् ॥ १२७९ ॥
सुरोत्तमटीका
प्रमापदप्रवेशे ज्ञानपदस्थाने प्रमापदप्रवेश इत्यर्थः । उक्तदोषः ब्रह्मण्यारोहितासत्त्वादावतिव्याप्तिः । तस्य प्रतिक्रिया परिहारः । ननु वेदान्तजन्यब्रह्मज्ञानमेव प्रमा । इदं तु ज्ञानं न प्रमा । अतो नोक्तदोष इत्यत आह ॥ प्रमेति ॥ नो चेद् यथार्थज्ञानं प्रमा नोचेत् । निर्विकल्पक-ज्ञानमेव प्रमा चेदित्यर्थः । ब्रह्मप्रमेतरशुक्तिप्रमयाऽबाध्ये सर्वं बाधकतयाऽङ्गी-कृतचरम प्रमया चाबाध्ये शुक्तिरजतादावतिव्याप्तिपरिहाराय हि तद्विशेषणम् । शुक्तिज्ञानादेरप्रमात्वे तस्यापि ब्रह्मप्रमान्यप्रमयाऽबाध्यत्वस्यैव सत्त्वेनाति-व्याप्तिपरिहारकत्वायोगाद् व्यर्थं विशेषणम् । मध्ये प्रमापदस्य परित्यागे ब्रह्म-प्रमान्येन मुद्गरादिना बाध्ये घटादावव्याप्तिः । ननु चाभावमात्रं न बाधः किं त्वत्यन्ताभाव एवेति चेन्न । तस्यापि स्वतस्सिद्धत्वेन प्रमाप्रयोज्यत्वायोगात् । तदुल्लेखस्य च तव मते निष्प्रकारकप्रमाया असम्भवात् । न च पुनः प्रमा-नुत्पादो बाधः । जीवन्मुक्तानामपि भिक्षाटनादिभ्रमदर्शनेन पुनरसम्भवात् । शुक्तिज्ञानस्याप्रमात्वे बाध्यबाधकभावस्यैवायोगेन ब्रह्मप्रमान्याबाध्यत्वस्य शुक्तिरजतादावपि सत्त्वेन पुनर्विशेषणवैयर्थ्यं निर्विकल्पकज्ञानस्य बाधकत्वा-योगेनासम्भवश्चेत्यपि द्रष्टव्यम् ॥ १२७९ ॥
सत्यप्रमोदटीका
न द्वितीयः । दोषतादवस्थ्याद् ब्रह्म स्थिरं सत्यम् इत्यस्यापि प्रमात्वादेव । आह यथार्थधीरिति । एवं नोचेत् प्रमा यथार्थ-धीर्नयेनोक्तदोषः । किन्तु वेदान्तजन्या निर्विकल्पा चरमप्रमैवेति चेद् एवं तर्हि ब्रह्मप्रमान्येनाबाध्यत्वविशेषणं व्यर्थम् । अस्मिन्पक्षे इयं शुक्तिरिति ज्ञानस्या-प्रमात्वेन शुक्तिरजते प्रमेतरप्रमाऽबाध्यत्वस्यैव सत्त्वेन विशेषणनिवेशेऽपि अतिव्याप्त्यपरिहारात् ॥ १२७९ ॥
युक्तिमल्लिका
देहात्मैक्यं नभो नैल्यं प्रातिभासिकमेव ते ।
ब्रह्मप्रमान्याबाध्यं च बाध्यं चरमतद्धिया ॥ १२८० ॥
सुरोत्तमटीका
पररीत्यैवस्थलान्तरे अतिव्याप्तिमाह ॥ देहात्मैक्य-मिति ॥ ते मते । तद्धिया ब्रह्मधिया ॥ १२८० ॥
सत्यप्रमोदटीका
देहात्मैक्यभ्रमः नभोनैल्यभ्रम इत्येतयोर् ब्रह्मप्रमयैव बाध्यत्वम् इति परो मनुते । तथाऽपि तयोः प्रातिभासिकत्वम् अङ्गीकरोति । तत्रोक्तलक्षणस्यातिव्याप्तिरित्याह देहेति ॥ १२८० ॥
युक्तिमल्लिका
नियमेनेतरज्ञानाबाध्ये तद्बाधयोग्यता ।
कथं स्यान्न हि तत्तस्य योग्यं यन्न कदाचन ॥ १२८१ ॥
ब्रह्मप्रमान्याबाध्यत्वे सति तज्ज्ञानबाध्यता ।
कथमुक्तेष्वतिव्याप्ता व्यावहारिकता वद ॥ १२८२ ॥
सुरोत्तमटीका
तद्बाधयोग्यता इतरज्ञानबाधयोग्यता । यत् कदाचन कदापि न भवति । तत्तस्य योग्यं न हीति योजना । कदापि फलनिष्पत्त्यभावे यवांकुरस्य कलमाङ्कुरजनकत्वयोग्यत्ववद् योग्यताया एवायोगादिति भावः
॥ १२८१,१२८२ ॥
सत्यप्रमोदटीका
इतरज्ञानाबाध्यत्वेऽपि बाधयोग्यता तयोरस्ति अतो नोक्तदोष इत्यत आह न हि तदिति । सहकारिविरहप्रयुक्तफलानुपधानं हि योग्यता । यदा कदाऽपि वा तेन फलनिष्पत्तौ तस्य तज्जननयोग्यता कल्प्यते । अत्र तु न कदाऽपि बाधो दृष्ट इति बाध्यत्वयोग्यताकल्पनाया अवकाश एव न । तथा सति यवबीजेऽपि कलमाङ्कुरजननयोग्यता कल्प्येतेति भावः
॥ १२८१, १२८२ ॥
युक्तिमल्लिका
किञ्च ब्रह्मप्रमान्याबाध्यत्वमात्रं न सोचिता ।
ब्रह्मणो बाध्यतापत्तेस्तत्प्रमा बाध्यतापि च ॥ १२८३ ॥
सुरोत्तमटीका
उक्तेषु देहात्मैक्यादिषु व्यावहारिकत्वलक्षणस्याति-व्याप्तिमसम्भवं सूचयन् भेदादेरबाध्यतां स्थिरीकरोति ॥ किं चेति ॥ सा व्यावहारिकता ॥ १२८३,१२८४ ॥
सत्यप्रमोदटीका
मात्रपदेन ब्रह्मप्रमाबाध्यत्वरूपविशेष्यदलस्य व्यवच्छेदः । सा व्यावहारिकता । ब्रह्मणः सर्वथाऽबाध्यत्वेन तत्र लक्षण-स्यातिव्याप्त्यापत्तेरित्याह ब्रह्मण इति । तर्हि ब्रह्मप्रमाबाध्यत्वं लक्षणमस्तु इति च नेत्याह तदिति ॥ १२८३ ॥
युक्तिमल्लिका
बाधश्च नास्तिताबोधो नाप्रतीतिस्तु केवला ।
असतो बाध्यतापत्तेरपसिद्धान्ततोऽपि च ॥ १२८४ ॥
सत्यप्रमोदटीका
कुत इत्यतः बाधस्यैव त्वया दुर्निरुपत्वादित्याह बाध इति । स किं नास्तिताबोधः, ‘अविद्या सहकार्येण नासीदस्ति भविष्यति’ इति तदुक्तेः । उत अप्रतीतिमात्रम् आद्ये वक्ष्यामः । द्वितीय आह असत इति तथा च तत्रातिव्याप्तिः । अपसिद्धान्ततोऽपि चेति । नासत्त्वस्यास्ति बाधक-मित्यात्मवचनविरोधात् ॥ १२८४ ॥
युक्तिमल्लिका
सर्वप्रकारशून्यैव निर्विकल्पकधीस्तव ।
ब्रह्मप्रमा तया कस्य साधनं बाधनं वद ॥ १२८५ ॥
सुरोत्तमटीका
निर्विकल्पकस्य साधकबाधकत्वायोगादिति भावः ॥ १२८५ ॥
सत्यप्रमोदटीका
ज्ञानत्वे सविषयकत्वं तन्त्रम् । इदमित्थम् इति हि सर्वा धीः । चरमं ज्ञानं च निर्विषयकं परस्याभिमतम् । तथा च तस्य ज्ञानत्व-मेवासम्भवि कुतस्तेन साधनं बाधनं वा शक्यनिरूपणमित्याह कस्येति ॥
युक्तिमल्लिका
अतो भेदाख्यरत्नस्य जगत्कल्पद्रुमस्य च ।
पारमार्थिकतापन्ना बाधाभावाद्धि सर्वदा ।
त्वद्रीत्यैव न मद्रीत्या चित्रा ते शास्त्रकर्तृता ॥ १२८६ ॥
सुरोत्तमटीका
अतः निर्विकल्पकस्य बाधकत्वायोगात् । ते स्ववचन-विरोधमजानतस्तव ॥ १२८६ ॥
सत्यप्रमोदटीका
शास्त्रकर्तृता अखण्डार्थपरम् इति वाचो भङ्ग्या शास्त्र-मबोधकमिति निरूपणाच् चित्रा । लोकबहिष्कृता ॥ १२८६ ॥
युक्तिमल्लिका
निष्प्रकारकधीर्या ते भेदाभेदप्रमा न सा ।
तत्त्वं किल तथाप्येकमतत्वमपरं किल ॥ १२८७ ॥
सुरोत्तमटीका
प्रकारान्तरेणापि परप्रक्रियामपहसति ॥ निष्प्रकारकेति ॥ १२८७ ॥
सत्यप्रमोदटीका
ज्ञानमेव न दूरे तस्य प्रमात्वम् इत्याह नेति । तथा च अबोधकेन बोध्यं तत्त्वम् ऐक्यं प्रमापकैः सकलप्रमाणैः साधितो भेदो ऽतत्त्वम् इति अपहास इत्याह किलेति ॥ १२८७ ॥
युक्तिमल्लिका
यदि बाधस्तेन नाशस्तदा दण्डादिनाश्यता ।
दृष्टा घटादौ यत्तस्मान्न स्युस्ते व्यावहारिकाः ॥ १२८८ ॥
सुरोत्तमटीका
पक्षान्तरमाशंक्य दूषयति ॥ यदीति ॥ तेन ज्ञानेन । आदिपदेन मुद्गरो गृह्यते । यद् यस्मात् । ते घटादयः ॥ १२८८ ॥
सत्यप्रमोदटीका
तन्नाश्यत्वमेव तद्बाध इति चेद्घटे ब्रह्मज्ञानानाश्ये मुद्गरप्रहारादिना नाश्ये अव्याप्तिरित्याह यदीति ॥ १२८८ ॥
युक्तिमल्लिका
अपादानाज्ञाननाशद्वारा ज्ञानं हि नाशकम् ।
अनादेरस्य भेदस्य तन्न स्याज्ज्ञाननाश्यता ॥ १२८९ ॥
सुरोत्तमटीका
दोषान्तरं चाह ॥ उपादानेति ॥ हीत्यनेन ज्ञानमज्ञान-स्यैव नाशकमिति परप्रसिद्धिं सूचयति । तत्तस्माद् अज्ञानोपादानकत्वाभावात् ॥ १२८९ ॥
सत्यप्रमोदटीका
किञ्च ज्ञानस्य न साक्षात्प्रपञ्चनाशकत्वमभिमतं किन्तु उपादानाज्ञाननाशनद्वारैव । यथाऽऽह ‘अज्ञानस्य स्वकार्येण प्रविलीनेन वा सह ज्ञानेन निवृत्तिर्बाधः’ इति । तथा च अनादेरत एव निरुपादानकस्य भेदस्य न बाध इति तत्राव्याप्तिः ॥ १२८९ ॥
युक्तिमल्लिका
अज्ञानोपादानके ते रूप्यादौ प्रातिभासिके ।
अस्त्येव ज्ञाननाशत्वमतोऽप्येतदलक्षणम् ॥ १२९० ॥
सुरोत्तमटीका
ज्ञाननाश्यत्वमात्रं व्यावहारिकत्वं ब्रह्मज्ञाननाश्यत्वं वा ब्रह्मज्ञानेतरज्ञानानाश्यत्वे सति ब्रह्मज्ञाननाश्यत्वं वेति विकल्पं मनसि निधाय क्रमेण दूषयति ॥ अज्ञानोपादानकेति ॥ अतः प्रातिभासिकेति व्याप्तेः ॥ १२९० ॥
सत्यप्रमोदटीका
ज्ञाननाश्यत्वं व्यावहारिकत्वं चेत्प्रातिभासिके रूप्यादावतिव्याप्तिरित्याह अज्ञानोपादानके इति ॥ १२९० ॥
युक्तिमल्लिका
शुक्त्यवच्छिन्नचिज्ज्ञानं ब्रह्मज्ञानं च तत्तव ॥ १२९१ ॥
सुरोत्तमटीका
तत् शुक्तिज्ञानम् । तव मते ॥ १२९१ ॥
सत्यप्रमोदटीका
ननु तथापि रूप्यस्य शुक्तिज्ञानेनैव नाश्यत्वं न ब्रह्मज्ञानेन इत्यतस् तव मते तदवच्छिन्नचैतन्यज्ञानमेव तज्ज्ञानं, आध्यासिक-सम्बन्धाभ्युपगमात् तच्च ब्रह्मज्ञानमेव ‘सर्वप्रत्ययवेद्ये च ब्रह्मरूपे व्यवस्थिते’ इति सुरेश्वरवार्तिकोक्तेरित्याह शुक्तीति ॥ १२९१ ॥
युक्तिमल्लिका
ज्ञानान्नाशेऽपि मिथ्यात्वे हेतुरज्ञानकार्यता ।
सा चास्ति शुक्तिरूप्यादौ नास्ति भेदाद्यनादिषु ॥ १२९२ ॥
सुरोत्तमटीका
किं च ज्ञानान्नाशेनापि मिथ्यात्वं वदता परेणाज्ञान-कार्यत्व एव भरो दातव्यः । नाशमात्रस्य मिथ्यात्वासाधकत्वात् । तत्र शुक्ति-रजतादावतिव्याप्तम् अव्याप्तं च भेदाद्यनित्यपदार्थेष्वित्याह ॥ ज्ञानादिति ॥ १२९२ ॥
सत्यप्रमोदटीका
तथा च पूर्वोक्तदोषद्वयानिस्तार एवेत्याह ज्ञाना-न्नाशेऽपि इति ॥ १२९२ ॥
युक्तिमल्लिका
ब्रह्मज्ञानेतरज्ञानानाश्यत्वस्य प्रवेशने ।
घटादिवृत्तिनाश्येषु तूलाज्ञानेषु लक्षणम् ।
अव्यापकं स्यात्तद्योगे मूलस्यापसृतौ भवेत् ॥ १२९३ ॥
सुरोत्तमटीका
तूलाज्ञानेषु घटाद्यवच्छिन्नचैतन्यावरकाज्ञानेषु । लक्षणं व्यावहारिकत्वलक्षणम् । अव्यापकं विशेषणाभावात् । तद्योगे अज्ञानयोगे । मूलस्य मूलाज्ञानस्य । ज्ञानात् तूलाज्ञाननाशपक्षे तूलाज्ञानेष्वव्याप्तिः । मूला-ज्ञानापसरणपक्षे ज्ञाननाश्ये तत्संयोगेऽव्याप्तिरित्यर्थः । उक्तविशेषणदानेन शुक्तिज्ञाननाश्यरूप्यादावतिव्याप्तिपरिहारेऽपि घटवृत्तिनाश्ये तूलाज्ञाने मूला-ज्ञानसंयोगे वाऽव्याप्तिरपरिहार्येति भावः ॥ १२९३ ॥
सत्यप्रमोदटीका
ननु मन्मते अज्ञानं द्विविधम् । तूलाज्ञानं मूलाज्ञानं चेति । तत्र संसारमूलाज्ञानं निवर्तयद् ब्रह्मज्ञानं चरमज्ञानमेव । न तु शुक्त्य-वच्छिन्नचैतन्यविषयकम् । तन्निवृत्तिद्वारा निवर्त्यत्वमेव च बाधः । ब्रह्म-ज्ञानेतरज्ञानानाश्यत्वं च लक्षणे विशेषणं निवेश्यते । शुक्तिरूप्यं च तदितरेण युक्त्यवच्छिन्नचैतन्यज्ञानेनापि निवर्तते । अतो नातिव्याप्तिरिति चेत् । तथाऽपि अनादिभेदादिष्वव्याप्तेरपरिहार एव । दोषान्तरं चाह घटादीति । ब्रह्मज्ञानेन तन्निवृत्त्यनङ्गीकारात् । तद्योगे मूलाज्ञानसम्बन्धे । मूलाज्ञानस्य तदाऽ-नाशेऽपि, भीरुभटवदपसरणाभ्युपगमेऽपीति भावः, मूलाज्ञानसम्बन्ध एवा-व्याप्तिः । मूलाज्ञानसम्बन्धस्य ब्रह्मज्ञानेतरज्ञाननाश्यत्वस्यैव प्राप्त्या विशेषणाभावेनाव्याप्तिरित्याशयः ॥ १२९३ ॥
युक्तिमल्लिका
किञ्च ब्रह्मज्ञाननाश्यं ब्रह्मज्ञानं तवापि न ।
आत्माश्रयादतस्तत्रैवाव्याप्तिरभवद्ध्रुवा ॥ १२९४ ॥
सुरोत्तमटीका
प्रकारान्तरेण समुदितलक्षणस्यापि स्थलान्तरेऽ-व्याप्तिमाह ॥ किं चेति ॥ आत्माश्रयपरिहाराय ज्ञाननाश्याज्ञानस्य मध्ये प्रवेशे त्रिक्षणावस्थायिज्ञानस्याज्ञाननाशदशायां स्वत एव नाशेनाज्ञाननाश-प्रणाड्यापि ज्ञाननाश्यत्वाभावेन पुनरव्याप्तिः । अत एव ध्रुवेत्युक्तम् ॥१२९४॥
सत्यप्रमोदटीका
स्वाभाववतिकाले स्वस्य भावरूपव्याघातपर्यवसान-भिया, स्वस्य स्वनाशकत्वं नाङ्गीकृतम् । न हि नखाग्रेण स्वनखाग्रमेव छेद्यमुपलब्धं’ इति परेणोक्तेः प्रागभावः प्रतियोगिहेतुरिति पक्षे तन्मात्रस्या-हेतुत्ववत् प्रतियोगी ध्वंसहेतुरिति पक्षेऽपि अतिप्रसङ्गेन तन्मात्रस्याहेतुत्वात् । दग्धदाह्यदहनस्यापीशेच्छादिनैव नाशात् (न्या.४।३।६३५) । अतः ब्रह्मज्ञान एव लक्षणस्याव्याप्तिः । न च तदपि अलक्ष्यम् औतहान्यापत्तेः । नापि प्रत्यक् स्वरूपं वेदान्तजन्यत्वानुपपत्तेः । नापि च अज्ञाननिवृत्तिद्वारा स्वनिवर्तकत्वम् । त्रिक्षणावस्थायिनस् तृतीयक्षणे स्वयमेव नष्टत्वेन नाशकत्वायोगात् । तदे-तदभिप्रेत्योक्तं ध्रुवेति ॥ १२९४ ॥
युक्तिमल्लिका
बाध्यत्वे निर्विकल्पा धीर्न जगद्भीषयेन्मम ।
नाश्यत्वे स्वविनाश्या धीर्न जगद्भीषयेन्मम ॥ १२९५ ॥
सुरोत्तमटीका
एवं चोभयतः पाशारज्जुरित्याह ॥ बाध्यत्व इति ॥ ज्ञानबाध्यत्व इत्यर्थः । नाश्यत्वे ज्ञाननाश्यत्वे । जगदन्तःपातिज्ञानस्यैवो-र्वरितत्वादिति भावः ॥ १२९५ ॥
सत्यप्रमोदटीका
तथा च निवृत्तिर्बाधश्चेन् निर्विकल्पकस्य बाधकत्वा-योगेन न तद्बाधधीः । नाशश्चेत् स्वस्मिन्नेवाव्याप्तिः । रूप्यादौ निवृत्ते नष्टमित्यननुभवेन तत्राप्यव्याप्तिः ॥ अधिष्ठानवत्सत्येऽज्ञानेऽतिव्याप्तिश्च तदुक्तं न्यायामृते ‘विज्ञाननाश्यता मिथ्यारूप्यादौ नानुभूयते । किं त्वदधिष्ठानवत्सतो तदज्ञानेऽनुभूयते इति (१। १। प.४०) ॥ १२९५ ॥
युक्तिमल्लिका
किञ्च प्रारब्धकर्माणि ब्रह्मज्ञानादनन्तरम् ।
स्थायीनि भोगक्षय्याणि तेष्वव्याप्तिर्द्विधाऽप्यभूत् ॥ १२९६ ॥
सुरोत्तमटीका
स्थलान्तरे विशेषणाभावाद्विशेषणाभावाद्विशेष्याभावाच्च प्राप्तामव्याप्तिमाह ॥ किं च प्रारब्धेति ॥ भोगक्षय्याणि सुखदुःखानुभवरूप-भोगनाश्यानि । तेषु ब्रह्मज्ञानानाश्येषु । ब्रह्मज्ञानेतरसुखदुःखज्ञाननाश्येषु । द्विधा उक्तविधया प्रकारद्वयेन ॥ १२९६ ॥
सत्यप्रमोदटीका
द्विधाऽपि बाधः नाश इति पक्षद्वयेऽपि । अविद्यालेशसंस्कारादिकमपि समानयोगक्षेमम् । तस्यापि भोगनाश्यत्वेन तत्रापि अव्याप्तिः ॥ १२९६ ॥
युक्तिमल्लिका
अर्थक्रियाकारितैव व्यावहारिकता यदि ।
शशशृङ्गमभूत्तत्वं परमार्थतरं तदा ॥ १२९७ ॥
सुरोत्तमटीका
प्रकारान्तरेण व्यावहारिकत्वलक्षणमनूद्य दूषयति ॥ अर्थक्रियेति ॥ अर्थक्रियाकारित्वरूपव्यावहारिकत्वशङ्काया अप्यभावा-त्परमार्थतरमित्युक्तम् ॥ १२९७ ॥
सत्यप्रमोदटीका
परमार्थतरम् इति तस्य लक्षणसद्भावशङ्काया अप्य-विषयत्वात् ॥ १२९७ ॥
युक्तिमल्लिका
उपादानं निमित्तं वा भ्रमाधिष्ठानमेव वा ।
ब्रह्मत्वपरमार्थत्वादुपेक्ष्यमभवत्तव ॥ १२९८ ॥
सुरोत्तमटीका
तवमते । जगतो निमित्तत्वाद् उपादानत्वाद्वा अन्ततोऽधिष्ठानतया जगद्भ्रमहेतुत्वाद्वा तव व्यावहारिकत्व लक्षणमिदं ब्रह्मण्यतिव्याप्तम् । अर्थक्रियाशून्यत्वरूपं पारमार्थिकत्वलक्षणं च शश-शृृङ्गेऽतिव्याप्तमिति भावः ॥ १२९८ ॥
सत्यप्रमोदटीका
ब्रह्मण्यतिव्याप्तिश्च । ‘न चात्मन्यर्थक्रियाकारित्वं मास्तीति वाच्यम् । तस्य निखिलप्रपञ्चकारणत्वेन श्रुतिशतसमधिगतत्वात्’ (वादा.) पररीत्याऽप्याह उपादानमिति । उपादाननिमित्तं वा इत्यनास्था । विवर्तोपादानत्वपक्षे आह अधिष्ठानमेव वेति । अन्ततो ऽज्ञानसाधकताङ्गी-कृतैव । ‘साधकत्वं सतस्तेन साक्षिणा सिद्धिमिच्छता । स्वीकृतमि’ति उक्तेः । अस्त्वतिव्याप्तिः किं तत इत्यत आह अपरमार्थत्वादुपेक्ष्यम् इति ॥ १२९८ ॥
युक्तिमल्लिका
मुक्तेश्च साधको मुक्तो मुक्तिदं चाभवन्मृषा ॥ १२९९ ॥
सुरोत्तमटीका
मुक्तिदं ब्रह्म ॥ १२९९ ॥
सत्यप्रमोदटीका
तदुक्तं गौडपादकारिकायां ‘न बद्धो न च साधकः । न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता’ इति । तदप्यस्तु इति वैयात्येन वदन्तं प्रति तु ‘कशावेत्रादिकं तु तस्करस्योत्तरं भवेदित्युक्त्यैव गतिः ॥ १२९९ ॥
युक्तिमल्लिका
भयकम्पादिहेतुत्वं रज्जुसर्पस्य ते मते ।
स्वाप्नस्य चास्ति तेनेदं व्यावहारिकता कथम् ॥ १३०० ॥
सुरोत्तमटीका
प्रातिभासिकेऽतिव्याप्तिमाह ॥ भयेति ॥ इदम् अर्थक्रियाकारित्वम् ॥ १३०० ॥
सत्यप्रमोदटीका
प्रातिभासिके रज्जुसर्पादौ स्वाप्ने रम्भासम्भोगादौ चातिव्याप्तिः । न च प्रातिभासिकपदार्थज्ञानमेवार्थक्रियाकारीति युक्तम् । त्वन्मते प्रतिभासातिरिक्तप्रातिभासिकानङ्गीकारादित्याह भयेति ॥ १३००, १३०१ ॥
युक्तिमल्लिका
प्रातिभासिक एवार्थो ज्ञानं च प्रातिभासिकम् ।
इति यो वक्ति किं नास्य प्रातिभासिकमर्थकृत् ॥ १३०१ ॥
सुरोत्तमटीका
अस्य अर्थज्ञानयोरुभयोरप्यध्यासं वदतो मायिनः ॥ १३०१ ॥
युक्तिमल्लिका
अतत्वमभवत्तेऽन्नं तृणं तत्वमभूदहो ॥ १३०२ ॥
सुरोत्तमटीका
किं च अर्थक्रियाकारित्वस्यातत्वापरपर्यायव्यावहारिकत्व प्रयोजकत्वे तवार्थक्रियाकारि अन्नं रासभस्यैव तत्वम् । तस्य तेनार्थाभावात् । तव तु अतत्वमेव । तृप्तिरूपार्थक्रियाकारित्वात् । तत्वं तु तव रासभस्यार्थ-क्रियाकारितया तस्यातत्वभूतं तृणमेव । ततस्तवार्थाभावादित्यापतितम् अतस्त्व-मेव पशुत्वयोग्योऽसीत्याह ॥ अतत्वमिति ॥ १३०२ ॥
सत्यप्रमोदटीका
पशोरर्थक्रियाऽर्हं तव च अनर्हं तृणमेव तव व्यावहारि-कत्वाभावात् तत्वमभूत् तेन विरुद्धं लक्षणम् आचक्षाणस्य तव पशुत्वमेवा-भूदित्यपहासः ॥ १३०२ ॥
युक्तिमल्लिका
समर्थायां प्रवृत्तौ तु प्रामाण्यं हीयते किल ।
असमर्थप्रवृत्तौ तु प्रामाण्यमुपचीयते ॥ १३०३ ॥
सुरोत्तमटीका
दोषान्तरं चाह ॥ समर्थायामिति ॥ अर्थक्रियाकारि-त्वस्य मिथ्यात्व प्रयोजकत्वेनोक्तेस्तदभावस्य च पारमार्थ्योपयोगित्वोक्ते-रितिभावः । इदं च न विदुषां संमतमिति ज्ञेयम् ॥ १३०३ ॥
सत्यप्रमोदटीका
तदिदमापन्नं गोशृङ्गज्ञानमप्रमाणं समर्थप्रवृत्तिजन-कत्वात् । अतथाभूतं शशशृङ्गज्ञानमेव प्रमाणमिति । अपहसति किलेति ॥
युक्तिमल्लिका
इयं हि शास्त्रमर्यादा न वार्यादायवेदिभिः ।
यत्सार्थक्यं परस्याह वैयर्थ्यं स्वस्य स स्वयम् ॥ १३०४ ॥
सुरोत्तमटीका
दोषान्तरं चाह ॥ इयमिति ॥ दायवेदिभिर् आदाय-वेदिभिः । यद् यस्माद् भेदस्यार्थक्रियाकारित्वं वदन् परस्य भेदवादिनः मोक्षाद्यर्थक्रियावत्त्वेन सार्थक्यमाह ॥ ऐक्यस्यार्थक्रियाकारित्वाभावं वदन्स्वस्य वैयर्थ्यमाह ॥ सः वादी । तत्तस्मान् न वार्येति पूर्वेणान्वयः । एवं वदतस्स्वव्याहतिरिति भावः ॥ १३०४ ॥
सत्यप्रमोदटीका
इयं=भेदः मोक्षरूपार्थक्रियाकारी व्यावहारिको ऽतत्वम् । ऐक्यम् अतथाभूतं तत्त्वम् इत्येवंरूपा । न वार्या आदायवेदिभिर् इति पदच्छेदः । व्याहतभाषिणा परेणास्मदभिलषितस्यैवार्थस्य शब्दभेदेन साधनात् ॥ १३०४ ॥
युक्तिमल्लिका
सत्त्वमर्थक्रियाकृत्त्वं तेन च क्षणिकं जगत् ।
यो वक्ति तेन ते सख्यं महदासीद्भवान्तरे ।
अर्थक्रियाकारि सर्वं यस्त्वं मिथ्येति कत्थसे ॥ १३०५ ॥
सुरोत्तमटीका
किं चैवं वदतो बौद्धमतप्रवेशापत्तिरित्याह ॥ सत्त्व इति ॥ तेन अर्थक्रियाकारित्वाख्यसत्त्वेन यत्सत्तत्क्षणिकमिति वदन्बौद्धः । भवान्तरे जन्मान्तरे । यस्त्वं कत्थसे । तस्य तव तेन सख्यमासीदिति पूर्वेणान्वयः । इदं तव मतं बौद्धमतं चैकप्रकारमेवाभूदिति भावः ॥ १३०५ ॥
सत्यप्रमोदटीका
‘सर्वं क्षणिकम् अर्थक्रियाकारित्वात्’ इति क्षणि-कत्वादि मतं व्याहतेर्हेयम् । व्याहतत्वेन उभयोः सख्यम् । तदुक्तमनुव्याख्याने ‘पूर्वमध्यापरकलाविकलः क्षण इष्यते’ इति । ‘विनाशे चेन्न तत्कार्य’ इति च । तथा च न तन्मते संस्काररूपार्थक्रियासाधकत्वं तदुक्तं तत्रैव
‘उत्तरोत्पत्तिमात्रेण विनाशात्पूर्ववस्तुतः ।
न संस्कारार्पकत्वं’ इति,
‘मायावादिवदेवासावुपेक्ष्यो भूतिमिच्छता’ इति च ॥ १३०५,१३०६ ॥
युक्तिमल्लिका
एतादृशं च मिथ्यात्वं भेदस्यास्तु सदा मम ।
मुक्तिं च सद्यस्सन्दध्याद्य एवं व्यावहारिकः ॥ १३०६ ॥
सुरोत्तमटीका
एतादृशं च व्यावहारिकत्वं त्वदभिलषितबाध्यत्व-विरोधितयाऽस्मदभिमत सत्त्वसंपादकतया च नानिष्टमित्याह ॥ एतादृश-मिति ॥ यः व्यावहारिको भेदः ॥ १३०६ ॥
युक्तिमल्लिका
महातत्त्वं तवैक्यं च न भेदस्य विरोधकृत् ।
अतो यमप्रतिद्वन्द्वो द्वन्द्वं सर्वत्र साधयेत् ॥ १३०७ ॥
सुरोत्तमटीका
प्रकारान्तरेणापि ममैवानुकूलमभूदित्याह ॥ महातत्व-मिति ॥ तत्वस्य त्वयाऽर्थक्रियाकारित्वानङ्गीकारादिति भावः । अत ऐक्यस्याकिञ्चित्करत्वात् । अयं भेदः । द्वन्द्वं द्विताम् । सर्वत्र जीवेश्वरजडेषु ॥ १३०७ ॥
सत्यप्रमोदटीका
न विरोधकृद् अर्थक्रियाऽनर्हत्वात् । अयं भेदः । द्वन्द्वं भेदव्यवहारम् ॥ १३०७ ॥
युक्तिमल्लिका
नाप्यविद्याकार्यता ते व्यावहारिकतोचिता ।
अविद्यायामभावेन भेदेऽनादावभावतः ।
सत्वाच्च रज्जुसर्पादिप्रातिभासिकराशिषु ॥ १३०८ ॥
सुरोत्तमटीका
पक्षान्तरमप्यनूद्य दूषयति ॥ नापीति ॥ अनादौ भेद इति सम्बन्धः । पूर्ववदव्याप्तत्वादतिव्याप्तत्वाच्चेति भावः॥१३०८ ॥
सत्यप्रमोदटीका
अविद्यायाम् आत्माश्रयात् । अनुपादानकत्वाच्च । व्यक्तिभेदकल्पने च अनवस्थाद्यापत्तेः । ‘अज्ञानस्य च मिथ्यात्वमज्ञानादिति कल्पने । अनवस्थितिस्तथा च स्यादन्योन्याश्रयताऽथवा’ इत्युक्तेः । भेदे उपलक्षणम् । ईशे अविद्यासंयोगे, जीवे चेत्यपि ग्राह्यम् ॥ १३०८ ॥
युक्तिमल्लिका
न हि हानमुपादानमभिलापोऽपि वा तव ।
व्यवहारो मतस्तस्मात्तदर्हत्वं च सा न ते ॥ १३०९ ॥
सुरोत्तमटीका
लोकप्रसिद्धव्यवहारयोग्यत्वं च व्यावहारिकत्वं नेत्याह ॥ नहीति ॥ सा व्यावहारिकता ॥ १३०९ ॥
युक्तिमल्लिका
या ब्रह्मण्यभिलापार्हे सदाऽऽदेये मुमुक्षुभिः ।
हेये च शुक्तिरूप्यादौ जगतीव प्रदृश्यते ॥ १३१० ॥
सुरोत्तमटीका
कुत इत्यत आह ॥ या ब्रह्मणीति ॥ आदेये उपादेये ॥ १३१० ॥
सत्यप्रमोदटीका
व्यवहारयोग्यत्वं व्यावहारिकता इत्यपि न युक्तम् । अत्र व्यवहारः हानमुपादानम् अभिलापो वा इति वक्तव्यम् । लक्षणं ब्रह्मणि पारमार्थिकेऽतिव्याप्तम् इत्याह येति । सदादेये सदा आदेये इति पदच्छेदः । जगति व्यावहारिके वियदादौ ॥ १३१० ॥
युक्तिमल्लिका
उभयत्र ह्यतिव्याप्ता कथं मध्यस्य सा दशा ॥ १३११ ॥
सुरोत्तमटीका
उभयत्र पारमार्थिके प्रातिभासिके च । सा लोक-सिद्धव्यवहारार्हता । मध्यस्य तयोर्मध्यपतितस्य जगतः कथं दशेति सम्बन्धः
॥ १३११ ॥
सत्यप्रमोदटीका
सा व्यवहारयोग्यतारूपा । योग्यतायां योग्यतान्तरा-भावाद् व्यवहारयोग्यतायामव्याप्तिश्च ध्येया ॥ १३११, १३१२ ॥
युक्तिमल्लिका
व्यावहारिकतोक्तिस्तद्व्यवहारज्ञसंसदि ।
न भाति प्राङ्गणकथा न हि भाति रणाङ्गणे ॥ १३१२ ॥
सुरोत्तमटीका
व्यावहारिकत्वखण्डनमुपसंहरति ॥ व्यावहारिकतोक्ति-रिति ॥ तन्निर्वक्तुमशक्यत्वात् । तत्र दृष्टान्तमाह ॥ प्राङ्गणेति
॥ १३१२ ॥
युक्तिमल्लिका
प्रत्यक्षश्रुतियुक्तीनां विरोधादैक्यमेव ते ।
स्याद्व्यावहारिकं सिंहदेवदत्तादिकैक्यवत् ॥ १३१३ ॥
सुरोत्तमटीका
प्रमाणान्तरसंवादवतो भेदस्य न व्यावहारिकत्वं किं तु तद्विरुद्धैक्यस्यैव तदुचितमित्याह ॥ प्रत्यक्षेति ॥ प्रकारान्तरेणापि व्यावहारि-कतामाह ॥ सिंहेति ॥ न चेल्लोकसिद्धरीत्या व्यावहारिकैक्यं नोच्यते चेत् । तदैक्यम् ॥ १३१३-१३१५ ॥
सत्यप्रमोदटीका
व्यावहारिकं बाध्यम् ॥ १३१३ ॥
युक्तिमल्लिका
सादृश्यैक्यपरत्वे स्यादेव वाऽव्यावहारिकम् ।
न चेत्पूर्वोक्तमार्गेण स्यात्तद्धि प्रातिभासिकम् ॥ १३१४ ॥
भेदस्तु श्रुतियुक्तिभ्यां प्रत्यक्षेण च साधितः ।
ब्रह्मवत्पारमार्थ्यार्हः कथं स्याद्व्यावहारिकः ॥ १३१५ ॥
सत्यप्रमोदटीका
वा अव्यावहारिकम् इति पदच्छेदः । पारमार्थिकम् इत्यर्थः ॥ १३१४,१३१५ ॥
युक्तिमल्लिका
भेदस्तन्मतिभेदादेर्विरोध्यैक्यस्य चोद्धृतेः ।
त्रिधाऽपि परमार्थोऽभूद्योत्युच्च ब्रह्मधर्मिकः ॥ १३१६ ॥
सुरोत्तमटीका
तत्तस्मात् प्रमाणत्रयसिद्धत्वेन व्यावहारिकत्वानर्हत्वात् । उद्धृतेर् निरासात् । त्रिधा श्रुत्यादिप्रमाणसिद्धत्वात् श्रुतेर्मतिभेदाद्यर्थान्तरे नेतुमशक्यत्वाद् विरोध्यैक्यस्याप्रामाणिकत्वेन निरासाच्च । यो भेद इति सम्बन्धः ॥ १३१६ ॥
सत्यप्रमोदटीका
मतिभेदादेर् आदिपदेन स्थानभेदग्रहणम् । सयुजौ सखायौ इति वचनाद् उद्धृतेर् निरासात् । ऐक्यस्य स्वरूपैक्यस्य । उद्धृतेस् त्वयैवासाधकत्वकथनेन निरासात् । चशब्देन भेदस्य पूर्वोक्तप्रमाणत्रय-सिद्धत्वसमुच्चयः । एवं त्रिधा अत्युच्चब्रह्मधर्मिकः । परमार्थब्रह्मस्वरूपत्वादिति हेत्वन्तरम् । तुल्यवित्तिवेद्यतया इतरधर्मिकोऽपि परमार्थ एव सेत्स्यतीत्याशयः ॥ १३१६ ॥
युक्तिमल्लिका
एवमाविद्यकं भेदमथवौपाधिकं वदन् ।
प्रष्टव्यो यद्यविद्याद्यैः कृतत्वं तस्य कीर्त्यते ॥ १३१७ ॥
तदा तवापसिद्धान्तः षडस्साकमनादयः ।
इत्याहुः किल ते पूर्वे तस्माज्जीवेशयोर्भिदा ।
अनादिस्ते ततस्तस्याः कृतत्वोक्तिरविद्यया ॥ १३१८ ॥
सुरोत्तमटीका
भेदस्याविद्यकत्वमौपाधिकत्वं च यत्परो वक्ति तदपि किमविद्यादिना कृतत्वं ज्ञापितत्वम् अविद्यमानस्य ज्ञापितत्वं सम्बन्धमात्रम् अविद्यानाशनाश्यत्वं वेति विकल्पं मनसि निधाय क्रमेण दूषयति ॥ एवमित्यादिना ॥ तस्य भेदस्य । ततो ऽनादित्वात् । तस्या भिदायाः । अविद्यया पूर्वोत्तराज्ञानेन कृतत्वोक्तिरिति सम्बन्धः ॥ १३१७-१३१८ ॥
सत्यप्रमोदटीका
आविद्यकम् औपाधिकम् इत्यत्र उभयत्र विकल्पः । न अविद्यादिकार्यत्वम् । अपसिद्धान्तात् । अनादिभेदस्य कार्यत्वासम्भवात् । अविद्यया स्वसिद्धान्तापरिज्ञानेन ॥ १३१७-१३१८ ॥
युक्तिमल्लिका
यदि तज्ज्ञापितत्वाच्च भेदे दोषः प्रभाष्यते ।
तदैक्यमपि दोषि स्यात्तच्च मानसवेदने ।
आज्ञा नाज्ज्ञापितं किं न किं वा देहाद्युपाधिभिः ॥ १३१९ ॥
सुरोत्तमटीका
तच्च ऐक्यं च । देहाद्युपाधिभिर्ज्ञापितं किं न । आदिपदेनान्तःकरणादिकमुच्यते । औपाधिकत्वपक्षे प्रतिबन्दीग्रहणायेद-मुदितम् ॥ १३१९ ॥
सत्यप्रमोदटीका
न तज्ज्ञापितत्वम् । ऐक्येऽपि दोषप्रसरात् । तस्यापि देहान्तःकरणाद्युपाधिभिर्ज्ञापितत्वात् ॥ १३१९ ॥
युक्तिमल्लिका
अविद्याकार्यमखिलं कार्यं किल भवन्मते ।
एवं सत्यैक्यधीरन्ते किं ते हन्तैतदन्तरा ॥ १३२० ॥
सुरोत्तमटीका
ऐक्यज्ञानस्याविद्याकार्यत्वे हेतुमाह ॥ अविद्येति ॥ एवं सति सर्वस्य कार्यस्याविद्याकार्यत्वे सति । एतद् अज्ञानम् । अन्तरा विना
॥ १३२० ॥
सत्यप्रमोदटीका
अखिलं कार्यं देहेन्द्रियादिकम् । अविद्याकार्यम् । ब्रह्मातिरिक्तस्य सर्वस्य न कार्यत्वोपगमात् । अन्ते तत्त्वमस्यादिवाक्योक्त-सम्यग्धीजन्मकाले । एतदन्तरा अविद्यां विना । देहाद्युपाधिभिर्ज्ञापितत्वे अविद्याज्ञापितत्वमेव पर्यवस्यति ॥ १३२० ॥
युक्तिमल्लिका
अविद्यमानं भातीति वादो नादौ कथं वद ।
बन्धेऽप्याविद्यकत्वं तदन्धते निर्निबन्धनम् ॥ १३२१ ॥
सुरोत्तमटीका
अनादौ भेदे । अन्यथा ऐक्यस्याप्यविद्यमानत्वप्रसङ्गा-दिति भावः । तत्तस्माद् अनादेराविद्यकत्वायोगात् । ते मते ॥१३२१,१३२२॥
सत्यप्रमोदटीका
भेदः न अविद्यमानो ऽनादित्वाद् ऐक्यवद् इति प्रयोगो ऽभिप्रेतः । न च दृष्टान्तः साध्यसाधनविकलः । ऐक्यस्य ब्रह्मस्वरूप-त्वोपगमात् । बन्धोऽप्यत्र पक्षत्वे नाभिमत एवेत्याह बन्ध इति ॥ १३२१ ॥
युक्तिमल्लिका
अतस्तत्सम्बन्धमात्राद्यद्यवद्यं निगद्यते ।
तर्ह्यैक्यस्याप्यवद्यं स्यात्तदज्ञानावृतं हि ते ॥ १३२२ ॥
सत्यप्रमोदटीका
अविद्यासम्बन्धित्वमात्रम् आविद्यकत्वम् इत्यपि पक्षः दुःष्ट इत्याह अत इति । अवद्यम् आविद्यकत्वदोषः । तद् ऐक्यम् । अज्ञानावृतं ब्रह्मस्वरूपत्वात् ॥ १३२२ ॥
युक्तिमल्लिका
यतो ब्रह्मचितोऽप्यस्ति तत्संसर्गोपवर्गतः ।
पुरा ततस्सापि भेदसमैवासीन्मते तव ॥ १३२३ ॥
सुरोत्तमटीका
तत्संसर्गो ऽविद्यासंसर्गः । सा ब्रह्मचित् ॥ १३२३,१३२४ ॥
सत्यप्रमोदटीका
सा विशुद्धा ब्रह्मचित् । तव मते ‘अविद्यातच्चितो-र्योगः’ इति अनादिरेव शुद्धचितो ऽविद्यासंसर्ग इति वादिनो मते ॥१३२३॥
युक्तिमल्लिका
अज्ञाननाशाद्भेदस्य नाशे ब्रह्मापि नश्यतु ॥ १३२४ ॥
यद्यज्ञानानुपादानं ब्रह्मतन्नाशनाशिन ।
तर्ह्यनादिविभेदोऽयं कुतस्तन्नाशनाशवान् ॥ १३२५ ॥
सुरोत्तमटीका
तन्नाशनाशि अज्ञाननाशान्नाशि ॥ १३२५ ॥
सत्यप्रमोदटीका
नापि अविद्यानाशनाश्यत्वम् औपाधिकत्वम् । अनादे-र्भेदस्य तदसम्भवात् । अन्यथा अनादित्वाविशेषाद् ब्रह्मणोऽपि तन्नाश-नाश्यत्वेन औपाधिकत्वापातात् । अनादित्वेन तत्र परिहारे भेदस्यापि तथेत्याह अज्ञानेति ॥ १३२४, १३२५ ॥
युक्तिमल्लिका
तद्ब्रह्मसमसामर्थ्यो भेदो भेद्यो न केनचित् ॥ १३२६ ॥
सुरोत्तमटीका
तत्तस्माद् अनादित्वात् । भेद्यः निराकार्यः ॥१३२६॥
सत्यप्रमोदटीका
भेद्यः दूषणार्हः ॥ १३२६ ॥
युक्तिमल्लिका
किञ्च मायानिवृत्तौ च स्मर्यते श्रूयते च या ।
साभिदा नपरैर्भेद्या भिनत्ति निखिलं जगत् ॥ १३२७ ॥
सुरोत्तमटीका
मोक्षकाले श्रूयमाणत्वाच्च न भेदस्य व्यावहारिकत्वादिक- मित्याह ॥ किं चेति ॥ भिनत्ति पञ्चभेदयुक्तं करोति ॥ १३२७ ॥
सत्यप्रमोदटीका
मायानिवृत्तौ मोक्षे ‘अविद्याऽस्तमयो मोक्षः’ इति तदुक्तेः । सा भिदा पञ्चविधो भेदः । भिनत्ति पञ्चधा जडजीवादिकं परस्परं व्यावर्तयति ॥ १३२७ ॥
युक्तिमल्लिका
यद्ब्रह्मणा सहेत्युक्तं मुक्तौ तन्नासती भिदा ।
व्रणादप्यधिको बाधस्सहोक्त्याऽद्वैतवादिनः ॥ १३२८ ॥
सुरोत्तमटीका
यद् यस्मात् । तत् तस्मात् । औतवादिनः पराचार्यस्य । व्रणं न बाधते सह शब्दो बाधत इति स्वमरणकाले संकराचार्येण कथितमिति प्रभा । अत इदमुक्तम् ॥ १३२८ ॥
सत्यप्रमोदटीका
श्रूयते इत्युक्तं प्रमाणयति सहेति । व्रणादिति अन्त्यकाले भगन्दरव्रणपीडितेन शिष्यान्प्रति तथोक्तेर् इति कथा ॥ १३२८ ॥
युक्तिमल्लिका
अपि स्वरूपनिष्पत्तौ समीपप्राप्तिरुच्यते ।
परंज्योतिरिति श्रुत्या तत्त्यागार्हा कथं भिदा ॥ १३२९ ॥
सुरोत्तमटीका
तन्मुक्तौ विद्यमानत्वात् ॥ १३२९ ॥
सत्यप्रमोदटीका
उपसम्पद्येत्यत्र सामीप्यवाचिना उपशब्देनापि मुक्तौ भेदसिद्धिरित्याह समीपेति । तदुक्तं ‘अतिक्रमं वदन्तं तमुपशब्दो निवार-येदि’ति ॥ १३२९, १३३० ॥
युक्तिमल्लिका
पूर्वोक्तब्रह्मसूत्राणि भेदमाघोषयन्ति हि ।
अभेदोक्तीस्तिरस्कृत्य कुतस्तस्य ह्यसत्यता ।
अतो भेदश्रुतेरग्रे कस्य स्यात्प्रत्यवस्थितिः ॥ १३३० ॥
सुरोत्तमटीका
तस्य निर्णयसूत्रनिर्णीतस्य ॥ १३३० ॥
युक्तिमल्लिका
अनादिवेदवाक्येषु परापरकथा वृथा ।
निषेधविधिवार्ताद्धा दग्धाग्नीषोमपावके ॥ १३३१ ॥
सुरोत्तमटीका
भेदवाक्यस्य पूर्वत्वेन दौर्बल्यम् । अभेदवाक्यस्य परत्वेन प्राबल्यं परो वक्ति तदपि न युक्तमित्याह ॥ अनादीति ॥ अपरं पूर्वम् । विधितो निषेधस्य प्राबल्यं परो वक्ति । तच्च न युक्तमित्याह ॥ निषेधेति ॥ न हिंस्यादिति निषेधवाक्ये सत्यपि अग्नीषोमीयं पशुमालभेतेति विधिवाक्यबलाद् अग्नीषोमपावकस्य जाज्वल्यमानस्य प्रत्यक्षतो दर्शनात् पावके दग्धेत्युक्तम्
॥ १३३१ ॥
सत्यप्रमोदटीका
यत्तूक्तं वाचस्पतिना पूर्वस्य परेण बाध इति तदपाकरोति अनादीति । तथा च अभेदवाक्यानां भेदवाक्येभ्यः परत्वम-सिद्धम् । अतो न तेषां तेन भेदवाक्येभ्यः प्राबल्यसिद्धिरिति ॥ विधितो निषेधप्राबल्यमित्यपि न नियम इत्याह दग्धेति । तत्र ‘मा हिंस्यात्सर्वा भूतानि’ इति निषेधापेक्षया ‘अग्नीषोमीयं पशुमालभेते’ति विधेरेव प्राबल्यस्य दृष्टेः । तथा च तत्र तव न्यायः दग्धः व्यभिचरित इति ध्वनिः ॥ १३३१ ॥
युक्तिमल्लिका
परस्मात्पूर्वबाधश्चेत्स्मृत्या स्याच्छ्रुतिबाधनम् ।
परस्माज्जगतः पूर्वब्रह्मबाधश्च ते भवेत् ॥ १३३२ ॥
सुरोत्तमटीका
अनादिषु वेदवाक्येषु पूर्वापरविभाग एव न घटत इत्युक्तम् । अधुना परस्मात्पूर्वं बाधो न युक्त इत्याह ॥ परस्मादिति ॥१३३२॥
सत्यप्रमोदटीका
बहुत्वनिरवकाशत्वादिकमेव प्राबल्यप्रयोजकं न केवलं परत्वं निषेधरूपत्वं वा ।
‘द्विविधं बलवत्त्वं च बहुत्वाच्च स्वभावतः ।
तयोः स्वभावो बलवानुपजीव्यादिकश्च सः’
इति तत्त्वनिर्णयोक्तिं समर्थयमानः केवलं परत्वस्य प्राबल्यप्रयोजकत्वेऽति प्रसङ्गमाह स्मृत्येति ॥ १३३२ ॥
युक्तिमल्लिका
निषेधाद्विधिबाधश्चेद्बौद्धोक्त्या धर्मबाधनम् ।
तथा शून्यत्वकथया ब्रह्मबाध्यं भवेत्तव ॥ १३३३ ॥
सुरोत्तमटीका
ते मते । निषेधस्य बाधकत्वे दोषान्तरं चाह ॥ निषेधादिति ॥ १३३३ ॥
सत्यप्रमोदटीका
निषेधमात्रस्य बाधकत्वप्रयोजकत्वे च दोषान्तराण्याह निषेधादिति । शून्यत्वकथया बौद्धसम्बन्धिन्या ‘शून्यं तत्त्वमविज्ञेय-मि’त्यादिरूपया । यद्वा ‘असदेवेदमग्र आसीदि’ति निषेधश्रुत्या ‘सत्यज्ञान-मनन्तं’ इति श्रुतेः । इदम् उपलक्षणम् । ‘परत्वं तु प्रमानन्तरभ्रमे व्यभिचारि दृश्यते च नक्त्वा सेडिति परं प्रति मृडेत्यादिपूर्वं बाधकम्’ इत्यादिकं चात्र पूर्वत्र चानुसन्धेयम् । (न्याया.१ । १४ प.११८) ॥ १३३३ ॥
युक्तिमल्लिका
परया भार्यया कार्यनिषेधपरया तव ।
पतिस्त्वं गृहकृत्यानां विधाता हन्त बाध्यसे ॥ १३३४ ॥
सुरोत्तमटीका
परं परिहसन्पक्षद्वयस्यापि व्यभिचारमाह ॥ परयेति ॥ कार्यनिषेधपरया गृहकृत्यं कर्तव्यमित्युक्तेन शक्यत इति प्रतिवक्त्र्येत्यर्थः ॥ १३३४ ॥
सत्यप्रमोदटीका
लोकरीत्या परन्यायम् अपहसति परयेति ॥ १३३४ ॥
युक्तिमल्लिका
किञ्च पूर्वं निषेध्यं च तादात्म्यमभवत्तव ।
भेदः परो निषेधो मे योऽन्योन्याभावरूपकः ॥ १३३५ ॥
सुरोत्तमटीका
अपि चायं न्यायस्तवैवानिष्ट इत्याह ॥ किं चेति ॥ यः भेदः ॥ १३३५ ॥
सत्यप्रमोदटीका
स्वव्याघातकरश्चायं परस्य न्याय इत्याह किञ्चेति ॥ १३३५-१३३७ ॥
युक्तिमल्लिका
अतस्त्वन्न्याय एवायं चित्रं मत्कार्यसाधकः ।
यद्बलादैक्यवाक्यानां बाधिका भेदवागभूत् ॥ १३३६ ॥
अतो निरवकाशं यत्तदेव बलवत्तरम् ।
दुर्बलं सावकाशं स्यादिति सर्वं मनोरमम् ॥ १३३७ ॥
सुरोत्तमटीका
यद्बलाद् यस्य न्यायस्य बलात् ॥ १३३६,१३३७ ॥