३३ मायामतस्यासुरत्वसमर्थनम्

त्वं वासुदेवो भगवानवतीर्णो जगत्पतिः

मायामतस्यासुरत्वसमर्थनम्

युक्तिमल्लिका

त्वं वासुदेवो भगवानवतीर्णो जगत्पतिः ।

इति प्रस्तोभितोबालैर्मेने स्वात्मानमच्युतम् ॥ ११७३ ॥

कदाचित्पौण्ड्रको नाम काशीराजः प्रतापवान् ।

वासुदेवोऽहमित्यज्ञो दूतं कृष्णाय प्राहिणोत् ॥ ११७४ ॥

कत्थनं तदुपाकर्ण्य पौण्ड्रकस्याल्पमेधसः ।

उच्चकैरुग्रसेनाद्यास्सभ्याः प्रजहसुस्तदा ॥ ११७५ ॥

ये सोहम्भावनामूलास्ते बालाः किल सर्वशः ।

वञ्चनं किल तज्ज्ञानं कत्थनं किल तद्वचः ॥ ११७६ ॥

सुरोत्तमटीका

स्पष्टभागवतोक्तिभिश्च जीवब्रह्मैक्यस्य निन्दितत्वात् तद्भेद एव व्याससिद्धान्त इत्याह ॥ त्वं वासुदेव इत्यादिना ॥ अत्र च श्लोकत्रयं भागवतीयम् । ये सोहंभावनामूला इत्यादि तु मूलस्थभावप्रकाशनाय ग्रन्थकारस्यैव वचनम् । इति बालैः प्रस्तोभितस्स्वात्मानमच्युतं मेने इत्यस्याभिप्रायकथनम् ॥ ते बालाः, वञ्चनं किलज्ज्ञानमिति ॥ कत्थनं तदुपाकर्ण्येत्यस्याभिप्रायकथनम् ॥ कत्थनं किल तद्वच इति ॥ तद्वचो ऽहमेवाच्युत इति वचः । शुनोध्वनिसमानम् । अतिहीनं वचनं कत्थन-मित्युच्यते ॥ ११७३-११७६ ॥

सत्यप्रमोदटीका

त्वमित्यादिभागवतश्लोकत्रयम् अनूद्य तदभिप्रायं स्वयं विवृणोति य इत्यादिभिः । बाला विवेकविधुराः । प्रस्तोभित इत्यस्यार्थः ‘वञ्चनं किलेति । वञ्चित इत्यर्थः । कत्थनम् अतिहीनं वचनं, मुधा श्लाघनम् ॥ ११७३-११७६ ॥

युक्तिमल्लिका

अज्ञोल्पमेधास्स किल यस्तत्र कृतनिश्चयः ।

सभ्यानां न तदभ्याशयोग्यं हास्यं किलाखिलैः ॥ ११७७ ॥

सुरोत्तमटीका

वासुदेवोऽहमित्यज्ञः पौण्ड्रकस्याल्पमेधस इत्यस्याभि-प्रायकथनम् ॥ अज्ञोऽल्पमेधास्स किलेति ॥ तत्र सोहंभावे । सभ्याः प्रजहसुरित्यस्याभिप्रायकथनम् ॥ सभ्यानामिति ॥ ११७७ ॥

सत्यप्रमोदटीका

तत्र प्रतारकवाक्ये । कृतनिश्चयः याथार्थ्यनिश्चयवान् ॥ ११७७ ॥

युक्तिमल्लिका

मुख्याधिकारी तद्भावे पौण्ड्रकाख्यो सुरः किल ।

एवं विनिन्दितं सोऽहंभावं कः श्रद्दधीत तत् ॥ ११७८ ॥

सुरोत्तमटीका

तद्भावे तस्य सोहंभावस्य भावनायाम् । तत्तस्माद् उक्तदूषकशब्दसमुदायात् ॥ ११७८ ॥

सत्यप्रमोदटीका

मुख्याधिकारी निसर्गत ‘ईश्वरोऽहं’ इति आसुर-भावनावान् ॥ ११७८ ॥

युक्तिमल्लिका

यदि तत्त्वं महदिदं कथं निन्द्यं भवेत्सताम् ।

सकृन्निन्दाऽपि निन्दैव किमु निन्दापदे पदे ॥ ११७९ ॥

सुरोत्तमटीका

सतां निन्द्यमिति हरिणा कृततच्छिरच्छेदस्याप्युप-लक्षणम् ॥ ११७९ ॥

सत्यप्रमोदटीका

अत्र अनेकधा अभ्यासेन ऐक्यस्य निन्दितत्वात् तत्र निन्दायां, भेदसत्यत्वे च तात्पर्यातिशयो ज्ञापित इत्याह पदे पदे इति

॥ ११७९ ॥

युक्तिमल्लिका

नन्वसौ दूरमानीय शेते मामिह साधुवत् ।

इति मत्वाऽच्युतं मूढस्स्वपदातमताडयत् ॥ ११८० ॥

सुरोत्तमटीका

भागवतवाक्यान्तरमपि पठित्वा तस्याभिप्रायमाह ॥ नन्वसाविति ॥ मूढः मिथ्याज्ञानी कालयवनः । तं मुचुकुन्दम् ॥ ११८० ॥

सत्यप्रमोदटीका

नन्विति कालयवनस्य ऐक्यानुसन्धाननिरूपणम् ॥ ११८० ॥

युक्तिमल्लिका

पृथक्स्थिताच्युताज्ञानात्तत्सादृश्ययुते नृपे ।

यवनस्याच्युतमतिश्च्युतिकालेऽभवत्किल ॥ ११८१ ॥

सुरोत्तमटीका

तत्सादृश्ययुते तस्य कृष्णस्य सादृश्ययुते । कृष्णेन पीताम्बरकिरीटादिकं मुचुकुन्ददेहेऽर्पितम् । अतस्तस्मिन्मुचुकुन्दे एव कृष्ण इति भ्रमो यवनस्यासीदिति हरिवंशप्रथां किलेत्यनेन सूचयति । तं राजानम् अच्युतं मत्वेत्यस्याभिप्रायकथनं नृपे यवनस्याच्युतमतिरभवदिति । नृप एवाच्युत इति मतिरित्यर्थः ॥ ११८१ ॥

सत्यप्रमोदटीका

पृथक् तत्रैव गुहायां पार्श्वतो निलीनतया । च्युतिकाले तमःसंस्थितिसाधनकाले । ‘अथ च दैत्यहतिस् तमसि स्थिरा नियतसंस्थितिरि’त्युक्तेः ॥ ११८१ ॥

युक्तिमल्लिका

एकस्मिन्नपि जीवेऽस्मिन्मूढस्याच्युतधीः किल ।

अतस्सर्वेषु जीवेषु सा धीर्मूढतमस्य हि ।

निनिन्द शुकयोगीन्द्रो यां सभास्थस्स्थले स्थले ॥ ११८२ ॥

सुरोत्तमटीका

सा धीर् अच्युतधीः । यां जीवेष्वच्युतमतिम् ॥११८२॥

सत्यप्रमोदटीका

सभास्थः गङ्गातीरे मुनिसभास्थः ॥ ११८२ ॥

युक्तिमल्लिका

ईश्वरोऽहमिति ब्रूयुर्मदिरामत्तवृत्तयः ।

दैत्या इत्याह स मुनिर्व्यक्तं भूगोलनिर्णये ॥ ११८३ ॥

सुरोत्तमटीका

स मुनिः शुकमुनिः । ईश्वरोहमित्यनेन यस्मिन्नुपयुक्ते पुरुष ईश्वरोहं सिद्धोहमिति अयुतगजमहाबल आत्मानं मन्यमानः कत्थते मदान्धवदिति पञ्चमस्कन्धवाक्यं संगृह्णाति । यस्मिन्मैरेयीनामकमद्ये उपयुक्ते सतीत्यर्थः ॥ ११८३ ॥

सत्यप्रमोदटीका

यस्मिन्नुपयुक्ते इति मैरेयीनाममदस्य पानानन्तरम् इति पूर्वकथाऽनुसन्धेया । भूगोलनिर्णये पञ्चमस्कन्धे अधस्तनलोकवर्णनावसरे ॥ ११८३ ॥

युक्तिमल्लिका

यस्त्वया मन्दभाग्योक्तो मदन्यो जगदीश्वरः ।

क्वासौ यदि स सर्वत्र स्तम्भे कस्मान्न दृश्यते ॥ ११८४ ॥

सुरोत्तमटीका

यस्त्वयेति ॥ सप्तमस्कन्धे हिरण्यकशिपुवचनम् । मदन्यो जगदीश्वरः क्वेति स्वान्येश्वरनिषेधेन उपलक्षणं चैतत् । स्वान्यमीश्वरं नरहरिं भावयतः प्रह्लादस्य मन्दभाग्येति निन्दनाच्चेत्यपि द्रष्टव्यम् । अत्र वाक्ये अत्र अच्युतोऽहमिति बुद्धौ ॥ ११८४-११८६ ॥

सत्यप्रमोदटीका

य इति हिरण्यकशिपोर्विनाशाभिमुखस्य वचनम् ॥ ११८४ ॥

युक्तिमल्लिका

स्वान्येश्वरनिषेधेन स्वस्यैवेश्वरता हृदि ।

हिरण्यकशिपोश्चेति स्पष्टं ह्यत्र प्रतीयते ॥ ११८५ ॥

सत्यप्रमोदटीका

अत्र ईश्वरस्य अन्यत्वनिषेधे ऐक्यानुसन्धानं सुतरां ज्ञायते ॥ ११८५ ॥

युक्तिमल्लिका

इति भागवते प्रोक्तं तत्र तत्र कथान्तरे ।

अत्राधिकारिणस्सर्वे श्रूयन्ते क्रूरराक्षसाः ॥ ११८६ ॥

ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्सुखी ।

असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् ॥ ११८७ ॥

इदं गीतासु कृष्णेन ह्यासुरीं पार्थ मे शृृणु ।

इत्यारभ्योदितं तस्मान्मतमेतद्धि रक्षसाम् ॥ ११८८ ॥

सुरोत्तमटीका

ईश्वरोहमिति गीतावाक्यम् । तेऽसुराः । इदं वचनद्वयम् ॥ ११८७,११८८ ॥

सत्यप्रमोदटीका

गीतायाम् ऐक्यभावनाया विशिष्य आसुरत्वेन अवधारितत्वाच्च न तत्तत्त्वमित्याह ईश्वर इति । ‘असत्यमप्रतिष्ठं’ इत्यादिकं तत्रैव वाक्यान्तरम् । अत्र जगदन्तःपातिनां सर्वज्ञत्वाल्पज्ञत्वादीनां मिथ्यात्वेन भागत्यागलक्षणाश्रयणं निन्दितमिति प्रकृतोपयोगः ॥ ११८६-११८९ ॥

युक्तिमल्लिका

अतोऽपि जीवभेदोऽयं बुधैर्मान्यो मुमुक्षुभिः ॥ ११८९ ॥

सुरोत्तमटीका

अत ईश्वरोहमिति बुद्धेर् जगदसत्यत्वबुद्धेश्च आसुर-मतत्वकथनात् ॥ ११८९ ॥