३२ अखण्डार्थतादूषणम्

वृथा मुण्डनमेवेदं तस्मात्तद्धर्ममुण्डनम्

अखण्डार्थतादूषणम्

युक्तिमल्लिका

वृथा मुण्डनमेवेदं तस्मात्तद्धर्ममुण्डनम् ।

न्यासानर्हस्य शूद्रस्य यथा मूर्धजमुण्डनम् ॥ १०७५ ॥

सुरोत्तमटीका

तस्माच्चैतन्ययोरेव नीचोच्चत्वेन विरुद्धत्वात् । तद्धर्म-मुण्डनं जीवब्रह्मचैतन्यनिष्ठसर्वज्ञत्वाल्पज्ञत्वादिधर्ममुण्डनम् । चितोरैक्यघटनाय हि विरुद्धधर्मं मुण्डनम् । उक्तविधया चितोरेव नीचोच्चतया विरुद्धत्वेनैक्यायोगे व्यर्थं धर्ममुण्डनमिति भावः । तत्र दृष्टान्तमाह ॥ न्यासानर्हेति ॥ १०७५ ॥

सत्यप्रमोदटीका

मुण्डनं भागत्यागलक्षणा । वृथा चितोरेव तरतम-भावान्नैक्यसाधकम् । वृथात्वमेवोपपादयति यत इति ॥ १०७५,१०७६ ॥

युक्तिमल्लिका

यतश्च मुण्डिता व्यक्तिरपि तेऽर्थस्य बाधिका ।

यस्माच्चिन्मात्रमप्यैशं शक्तं शोकादिधूनने ।

जैवं तु तदशक्तं चेत्युक्तं भागवते स्फुटम् ॥ १०७६ ॥

सुरोत्तमटीका

वैयर्थ्यमेव विशदयति ॥ यतश्चेति ॥ ते अर्थस्य ऐक्य-रूपार्थस्य । कथं बाधिकेत्यतः पूर्वोक्तहेतुमेव स्मारयति ॥ यस्मादिति ॥ तस्मात्तद्धर्ममुण्डनं व्यर्थमिति पूर्वेणान्वयः ॥ १०७६ ॥

युक्तिमल्लिका

अतो न मुख्यतः काचिच्छ्रुतिर्वक्ति जगत्त्रये ।

तवापेक्षितमद्वैतं यत्सा वक्ति न तत्तव ॥ १०७७ ॥

सुरोत्तमटीका

प्रकारान्तरेणापि ऐक्यवाक्यं खण्डयति ॥ अत इति ॥ अतस्सकलदेववाक्यानां विशिष्टार्थपरत्वाद् ब्रह्मचिदेव जीवचिदिति वाक्यस्य क्वाप्यभावाच्च । मुख्यतो ऽभिधावृत्त्या तवापेक्षितमद्वैतं चिन्मात्राद्वैतम् । सा तत्त्वमसीत्यादि श्रुतिः ॥ १०७७ ॥

सत्यप्रमोदटीका

अतो भक्षितेऽपि लशुने न शान्तो व्याधिरित्या-भाणकविषयस्त्वमभूरित्याह यदिति । सा तत्त्वमस्यादिश्रुतिः । तदा वक्ति ऐक्यबोधकमिति तवाभिमतम् । न तव लक्षणापक्षेऽपि भेदबोधकत्वान् न त्वदनुकूला ॥ १०७७ ॥

युक्तिमल्लिका

पदद्वयेऽपि लक्ष्यार्थस्वीकारादेकलक्षणा ।

लघीयसी ततस्सर्वा श्रुतिः परमतानुगा ॥ १०७८ ॥

सुरोत्तमटीका

यद् विशिष्टैक्यं यच्च विशिष्टपरवाक्यादेव जहदजह-ल्लक्षणया चिन्मात्रैक्यमाशास्यते तदपि तदा स्याद् यदि चिन्मात्रयोस्स्पष्टमैक्य-प्रतिपादकं वाक्यं क्वापि स्यात् । तस्यैवाभावे अप्रामाणिकतदर्थपरत्व-कल्पनादपि प्रमाणिकतदधीनत्वार्थपरत्ववर्णनमेव ज्यायः । एकपदलक्षणा-रूपत्वेन लघुत्वाच्चेति भावः ॥ १०७८ ॥

सत्यप्रमोदटीका

परमतानुगा सादृश्यादिगौणैक्यपरा ॥ १०७८ ॥

युक्तिमल्लिका

किं च मुख्यार्थपरयोश्शब्दयोर्लक्षणा तव ।

सामानाधिकरण्यार्थमात्रस्यामुख्यता मम ॥ १०७९ ॥

अतो गुणवती गौणीवृत्तिरेतादृशस्थले ।

आदरार्हा शिरश्छेदात्करच्छेदो यतो लघुः ॥ १०८० ॥

सुरोत्तमटीका

अपि च धर्मिभूतपदार्थद्वयप्रतिपादक पदद्वयलक्षणातोपि तद्धर्मभूतैक्यार्थकविभक्तेर्लक्षणया सादृश्यपरत्वकल्पनारूपा गौणीवृत्तिरेवात्र न्याय्या योग्येतरान्वितस्वार्थाभिधायकानि पदानीति वदता त्वयापि आपाततोऽद्वैत प्रतिपादकतया प्रतीयमानेषु तत्त्वमसि । अहं ब्रह्मास्मि । सर्वं खल्विदं ब्रह्मेत्यादि वाक्येषु स्थितानां तत्त्वमादिपदानां बाधितत्वेनायोग्यमैक्य-रूपमन्वयं विहाय न्यायप्राप्ततया योग्यं सादृश्यरूपमन्वयमादायैव योजना कर्तव्या । अतश्श्रुतिः काप्यद्वैते न वर्तते । अक्षन्तु भेदपक्षपाति । शुष्कानुमा तु व्यर्था । एवं चाप्रामाणिकमेव चैक्यमासीदित्याह ॥ किं चेत्यादिना ॥ यद् यस्मात् । तत् तस्मात् । युक्तायुक्तयोरन्वययोर्विन्यास सन्न्यासावित्यर्थः ॥ १०७९-१०८२ ॥

सत्यप्रमोदटीका

सामानाधिकरण्येति । अभेदबोधकविशेषणमात्र-विभक्तीत्यर्थः । विशेष्यविभक्त्या नीलं घटमानय इत्यादौ कर्मत्वादिबोधनात् । तेन प्रत्ययार्थबाधेऽपि बहुबाधः समान इति दोषोऽलग्नको वेदितव्यो ऽत्र सुधायां सन्न्यायरत्नावल्याश्च फलतो विरोधाभावस् तर्कताण्डवे ‘लक्षणातो गौण्याः प्राबल्यनिर्णयः’ इति भङ्गे उपपादितो द्रष्टव्यः ॥ १०७९,१०८० ॥

युक्तिमल्लिका

यदन्विताभिधायीनि पदान्यन्वयबोधनम् ।

उपसर्जनतः कुर्युस्तन्मुख्योऽर्थः पदोदितः ॥ १०८१ ॥

अयोग्यस्त्वन्वयोऽर्थो न मुख्यार्थो न तरामसौ ।

यद्युक्तायुक्तविन्याससंन्यासौ च गुणोचितौ ॥ १०८२ ॥

सत्यप्रमोदटीका

पदानि वाक्यस्थानि । उपसर्जनतः पदार्थविशेषण-त्वेन । अन्वयश्च वाक्यबोध्यः प्रमाणाविरुद्ध एव भवेत् । अन्यथा पदानां योग्यताहाने तद्घटितवाक्यस्याप्रमाणत्वापत्तेः । तत् तस्माद् युक्तस्यान्वयस्य विन्यासः स्वीकारो ऽयुक्तस्य च परित्याग इत्येतौ गुणोचितौ गौणीवृत्त्या-श्रयणेनापि न्यायप्राप्तौ ॥ १०८१,१०८२ ॥

युक्तिमल्लिका

योग्यान्वयं समादाय जहती बाधितं च तम् ।

मुख्यार्थावभिरक्षन्ती वृत्तिस्साति बलीयसी ॥ १०८३ ॥

सुरोत्तमटीका

गौणीलक्षणयोर्भेदं स्पष्टयितुं तयोराकारं दर्शयति ॥ योग्येत्यादिना ॥ सा गौणी ॥ १०८३ ॥

सत्यप्रमोदटीका

अमुख्यवृत्त्योर् गौणीलक्षणयोः स्वरूपनिरूपणपूर्वकं बलाबले वक्ति । योग्येत्यादिभिः । योग्यान्वयं सादृश्याभेदरूपं समादाय । बाधितं तं स्वरूपैक्यरूपम् अन्वयम् । ‘सिंहो माणवक’ इत्यत्र मुख्यार्थौ सिंहमाणवकरूपौ । सा गौणीवृत्तिः । बलीयसी लक्षणापेक्षयेति शेषः ॥ १०८३ ॥

युक्तिमल्लिका

यस्यां लक्ष्यार्थनिर्दिष्टे नास्ति तद्वाचकं पदम् ।

लक्षकेणैव बोध्योऽसौ युक्तोऽन्योऽप्यन्वयोऽस्ति न ।

अगत्या जहती मुख्यं वृत्तिस्साऽतिलघीयसी ॥ १०८४ ॥

आद्या गौणीति निर्दिष्टा द्वितीया लक्षणा किल ।

विरुद्धाकारसम्पत्ती वृत्ती द्वे नात्र संशयः ॥ १०८५ ॥

सुरोत्तमटीका

यस्यां लक्षणायाम् । अगत्या गौणीवद्योग्यान्वयान्तरा- भावेन मुख्यमर्थम् । सा लक्षणा ॥ १०८४,१०८५ ॥

सत्यप्रमोदटीका

यस्यां गङ्गायां घोष इत्यत्र गङ्गापदस्य तीरे लक्षणा-याम् । निर्दिष्टे तीरे । तद्वाचकं तीरवाचकम् । लक्षकेणैव गङ्गापदेनैव । असौ तीरो ऽगत्या = सादृश्यान्तर्गणिकभेदे सत्यपि सादृष्यत्वरूपेणानुगतस्यैकस्य तात्पर्यविषयस्य अन्वयस्याभावात् । सा लक्षणा । लघीयसी गौणीतः । केचित् सादृष्यमपि सम्बन्धविशेषं विवक्षित्वा गौण्या लक्षणायामन्तर्भाव-मिच्छन्ति । तन्मतं खण्डयति विरुद्धेति । दूषणप्रकारे विस्तरस् तर्कताण्डवे ‘गौण्या लक्षणातो भेदसमर्थनं’ इति भङ्गे अत्रोक्तबलवत्त्वप्रकारस्य प्रायिकत्वं तत्रैव व्यक्तम् ॥ १०८४,१०८५ ॥

युक्तिमल्लिका

तदाद्यायां मुख्ययोगोऽप्यार्थिको न तु शाब्दिकः ।

वाक्यार्थोऽप्यन्वयस्तीरघोषयोरेव न स्वयम् ॥ १०८६ ॥

सुरोत्तमटीका

यद् यस्मात् । तत् तस्मात् । अयं मुख्यलक्ष्यार्थसम्बन्धः ॥ १०८६ ॥

सत्यप्रमोदटीका

लक्षणायां मुख्ययोगः गङ्गासम्बन्धस् तीरेण । आर्थिकः लक्ष्य एव । न शाब्दिकः न वाच्यः । न स्वयं न गङ्गाघोषयोरपि । अजहत्स्वार्थलक्षणायां तु दध्युपघातकत्वरूपलक्ष्यताऽवच्छेदकरूपेण उपस्थिते काकेऽप्यन्वय इति विशेषः । लक्षणायामपि गङ्गाशब्दो गङ्गातीरत्वेनैव तीरोपस्थापक इत्यस्य पञ्चधोपपादनं तर्कताण्डवे ‘लाक्षणिकादेरपि शक्य-सम्बन्धित्वादिनैव लक्ष्याद्युपस्थापकत्वसमर्थनम्’ इति भङ्गे (६८) द्रष्टव्यम् ॥ १०८६ ॥

युक्तिमल्लिका

लक्ष्यार्थो निर्विकल्पा धीर्यस्य तस्य मते पदम् ।

मुख्यार्थयोगं मुख्यं च न वदेन्नापि लक्षयेत् ॥ १०८७ ॥

सुरोत्तमटीका

तस्य तार्किकस्य ॥ १०८७ ॥

सत्यप्रमोदटीका

निर्विकल्पा अन्वयानुभावकत्वशून्या । यस्य तार्किकस्य पदं लाक्षणिकादिपदम् । अन्वयं स्वार्थं वा न वदेन् नापि लक्षयेदिति । ‘वाचकमेवानुभावकम् । लाक्षणिकादिकं तु स्मारकमेव । शक्तस्यैवानुभावकत्वे तन्त्रत्वात्’ इति मण्युक्तेः । अत्र विस्तरस् तर्कताण्डवे ‘लाक्षणिकादेरनुभावकत्वसमर्थनं’ इति भङ्गे (६७) ॥ १०८७ ॥

युक्तिमल्लिका

पौनरुक्त्यात्सिंहपदं देवदत्तं न लक्षयेत् ।

किन्तु सिंहात्मतां सिंहसादृश्यं वाऽस्य शंसति ॥ १०८८ ॥

सुरोत्तमटीका

ननु गङ्गापदेन तीरवत्सिंहपदेनापि देवदत्तस्यैव लक्षणया निरूपणे कथं गौणी लक्षणयोर्भेद इत्यत आह ॥ पौनरुक्त्यादिति ॥ सिंहो देवदत्त इति वाक्ये देवदत्तपदेनैव देवदत्तस्य निरूपितत्वेन पुनः सिंहपदेनापि तस्यैव निरूपणे पुनरुक्तत्वादित्यर्थः । एवं च पदद्वयमुख्यार्थौ सिंहदेवदत्तौ ताभ्यां पदाभ्यामभिधाय मुख्यान्वयमात्रस्य परित्यागे गौणी । वाक्यार्थ-भूतमुख्यान्वयमङ्गीकृत्य एकपदमुख्यार्थस्यैव त्यागेन अमुख्यार्थान्तरनिरूपणे लक्षणेति कथं न भेदः । कथं वा लक्षणातो न गौणी गुणवतीति भावः ॥ १०८८ ॥

सत्यप्रमोदटीका

लक्षणायां मुख्यस्य प्रातिपदिकस्यैव अर्थत्यागः । गौण्यां तु अमुख्यस्य प्रत्ययमात्रस्य इति प्रागुक्तं गौण्याः प्राबल्यं स्मारयति । पौनरुक्त्यादिति । किन्तु प्रातिपदिकार्यात्यागेनैव ॥ १०८८ ॥

युक्तिमल्लिका

अक्षस्य पक्षपातस्तु साक्षाद्भेदः प्रदृर्श्यते ।

कामाच्च नानुमापेक्षेत्युक्तेश्शुष्कानुमाऽफला ॥ १०८९ ॥

तस्मात्त्वदैक्यगाधा या मानं मूलं न दृश्यते ।

कृष्णस्नेहविनाशाय सा निर्मूला लतेव ते ॥ १०९० ॥

सुरोत्तमटीका

ते तव । कृष्णस्नेहविनाशाय भक्तिविनाशाय । तैलनाशायेति ध्वनिः । सा ऐक्यगाधा । निर्मूललतेति सम्बन्धः । मूलरहिता काचन लता गुल्मादिषु तिष्ठति । तद्रसेन अङ्गाभ्यक्ततैलनाशो भवतीति लोकप्रसिद्धिः । तद्वदियमपि तव कृष्णस्नेहविनाशाय निर्मूललतैवेति भावः ॥ १०८९,१०९० ॥

सत्यप्रमोदटीका

सर्वप्रमाणविरुद्धा निर्मूला इयं तव प्रक्रिया कृष्णे परमात्मनि तद्गुणापलापेन स्नेहविनाशिनी इति लताश्लेषेण साहित्यमुद्रयाऽऽह अक्षस्येति । काचन मूलरहिता गुल्मादिस्थिता लता अङ्गाभ्यक्तस्नेहयुक्ततैल-विनाशिनी इति प्रसिद्धिः ॥ १०८९, १०९० ॥

युक्तिमल्लिका

पदद्वयोक्तयोरैक्ये विरोधान्नास्ति ते श्रुतिः ।

ऐक्यं न मुख्यतोऽर्थस्याल्लक्ष्यत्वे पदयोर्द्वयोः ॥ १०९१ ॥

सुरोत्तमटीका

प्रकारान्तरेणाप्यैक्यश्रुतेर्दौर्बल्यमुपपादयति ॥ पदद्वयेति ॥ १०९१ ॥

सत्यप्रमोदटीका

ऐक्यं चिन्मात्रैक्यम् । पदयोर्द्वयोरमुख्यार्थ इत्युत्तरे-णान्वयः । श्रुतिः कथं वक्तीति योजना । तत्र हेतुर् भेदश्रुतीति । अर्दिता बाधिता । नामुख्यात् फलमित्यस्यानुकर्षः । नेति निर्धर्मिताऽवच्छेदक-शाब्दबोधस्यालीकत्वात् । चितश्च निर्धर्मिकत्वात् ॥ १०९१-१०९३ ॥

युक्तिमल्लिका

अमुख्यार्थं च मुख्यार्थभेदश्रुतिशतार्दिता ।

कथं वक्ति श्रुतिर्मुख्यामुख्ययोर्मुख्यतः फलम् ॥ १०९२ ॥

नामुख्यान्न हि हर्यक्षस्याग्रे हरिणगर्जितम् ।

चिन्मात्रैक्ये न काऽप्यस्ति श्रुतिरित्यश्रुतं हि तत् ॥ १०९३ ॥

सुरोत्तमटीका

अमुख्यार्थम् अमुख्यया वृत्त्याऽर्थरूपमैक्यम् । प्राक्पद-द्वयोदितविशिष्टैक्यादर्धांशत्यागेनैक्यमपि भाक्तमिति भावः । श्रुतिस् तत्त्वमसी-त्यादि श्रुतिः । मुख्यामुख्ययोर्मध्ये मुख्यामुख्ययोर्मुख्ये संप्रत्यय इति वचनात् । मुख्यार्थत्वेन निरवकाशत्वेन बहुत्वेन च प्रबला भेदश्रुतिर् अमुख्यार्थत्वेन दुर्बलामैक्यश्रुतिमाभासीकरोति । ब्रह्मचिज् जीवचिदभिन्नेति मुख्यया वृत्त्या चितोरेवाभेदप्रतिपादिका श्रुतिस्त्रैलोक्येऽपि नास्ति । अतोऽपि गतमद्वैतमतमिति भावः ॥ १०९२,१०९३ ॥

युक्तिमल्लिका

प्रवव्राज तदद्वैतं त्वमिवाम्नायमन्दिरात् ।

शिरोमुण्डितमस्माभिर्बाह्येभ्यो भैक्षमाददे ॥ १०९४ ॥

सुरोत्तमटीका

साहित्यमुद्रया परमपहसति ॥ प्रवव्राजेति ॥ आम्नायाख्यमन्दिरात् । शिरः श्रुतिशिरोरूपम् ऐक्यप्रतिपादकतयाऽभिमतं वेदान्तवाक्यम् । मुण्डितम् ऐक्यमस्तकादुच्छिद्यान्यत्र स्थापितम् । बाह्येभ्यः वेदबाह्येभ्यः शून्यवादिभ्यः स्वपोषकवेदान्तवाक्याभावात् शून्यवादिवचनान्येव गतिरिति तत्रैव स्थिरमभूदिति भावः ॥ १०९४ ॥

सत्यप्रमोदटीका

त्वमिव जनानां वञ्चनायैव सन्यासभाक् इव । ‘न वर्णाश्रमाचारधर्माः’ इति मन्वानस्य कुतः वास्तवं प्रव्रजनमि’ति ध्वनिः । शिर ऐक्यवाक्यं चिन्मात्रैक्यरूपादर्थात् प्रच्यावितम् । बाह्येभ्य इति निर्विशेषचितः शून्यादविशेषाद् इति भावः ॥ १०९४ ॥

युक्तिमल्लिका

स्वशिरःपातिवृक्षस्य च्छेदेनाधो मरिष्यति ।

भेदे भिन्नादिकल्पोक्तदोषेण स्वैक्यदोषवत् ॥ १०९५ ॥

सुरोत्तमटीका

भेदो भेदिभ्यां भिन्नो वाऽभिन्नो वा भिन्नाभिन्नो वेति विकल्प्य अनवस्थान्यतरमात्रपरिशेषविरोधाख्यदूषणमुक्त्वा यत् खण्डनकारेण भेददूषणं कृतं तद् ऐक्यं ब्रह्मणो भिन्नमभिन्नं भिन्नाभिन्नं वेति विकल्पस्य दूषणस्य चैक्येऽपि समत्वाद् दुर्नीतिरित्याह ॥ स्वशिर इति ॥ स्वयमेवाधो मरिष्यतीत्यर्थः । अस्यार्थस्य खण्डनकार एव निदर्शनमिति भावेनोक्तम् ॥ भेद इति ॥ आदिपदेनाभिन्नभिन्नाभिन्नयोर्ग्रहणम् । कल्पो विकल्पः ॥ १०९५ ॥

सत्यप्रमोदटीका

‘विशिष्टादिनिराकरणयुक्तीनामपि विशिष्टाद्यपेक्ष-त्वाज्जात्युत्तरमिति न युक्तिबाधाऽपी’ति तत्त्वोद्योतं हृदि कृत्वा खण्डनकारोक्तं भेदविकल्पदूषणम् अभेदपक्षेऽपि साम्योक्त्या व्याघातेन दूषयति स्वशिर इति ॥ १०९५ ॥

युक्तिमल्लिका

शिशोर्जातस्य या रक्षां कुरुते जननी हि सा ।

सर्वखण्डनकारस्तु पूतनायाः कुमारकः ॥ १०९६ ॥

सुरोत्तमटीका

पुनश्च खण्डनकारमपहसति ॥ शिशोरिति ॥१०९६॥

सत्यप्रमोदटीका

शिशोः स्वाभिमतप्रमेयस्य । सा जननी स एव कथायामधिकारी ॥ १०९६ ॥

युक्तिमल्लिका

सर्वं खण्डयतोप्यऽस्य खण्डनं रक्ष्यमेव हि ।

आत्मा च रक्ष्यस्तत्काले भिक्षापात्रं करे भवेत् ॥ १०९७ ॥

सुरोत्तमटीका

युक्त्यन्तरं चाह ॥ सर्वमिति ॥ खण्डनं सर्वखण्डनम् । एवकारेण खण्डनरक्षणाभावे सर्वस्योत्थानं भवतीति सूचयति । तत्काले सर्वखण्डनस्य आत्मनश्च प्रमाणादिना रक्षणकाले ॥ १०९७ ॥

सत्यप्रमोदटीका

‘यदि भेददर्शनं न स्यात् तर्हि सकलव्यवहारविधुरः परः प्रसज्येत’ इति वादावलीम् अनुरुध्याह सर्वमिति । ऐक्यस्य बाधितत्वे भेदोन्मज्जनप्रसङ्गात् । भिक्षेति परेभ्यो भेदं भिक्षित्वा खलु त्वया आत्मभिन्नेभ्य आत्मा रक्ष्य इति भावः ॥ १०९७ ॥

युक्तिमल्लिका

परन्यायैः परो दूष्यस्स्वार्थस्साध्यो मतो यदि ।

याचिता अपि ते न्यायास्सन्याया वा न वा वद ॥ १०९८ ॥

सुरोत्तमटीका

परन्यायैः परो दूष्यते स्वार्थश्च साध्यत इति खण्डन-कारस्याभिमानं खण्डयति ॥ परन्यायैरिति ॥ ते न्यायाः परन्यायाः

॥ १०९८ ॥

सत्यप्रमोदटीका

‘नापि परन्यायैः परस्य दूषणम् । परस्यापि स्वन्याय स्वक्रियाविरुद्धविकल्पसाधुत्वाप्रसिद्ध्या बोधयितुमशक्यत्वात्’ इति वादा-वल्युक्तमाह परेति ॥ १०९८ ॥

युक्तिमल्लिका

सन्न्यायाश्चेज्जितं तेन दुर्न्याया अपि चेज्जितम् ।

स्वेष्टापुष्टेः किमु व्योमनीलिम्ना सोमनीलिमा ॥ १०९९ ॥

सुरोत्तमटीका

तेन प्रमाणादिव्यवस्थामङ्गीकुर्वता । जितं तेनैव जितम् । कथमित्यत उक्तम् ॥ स्वेष्टापुष्टेरिति ॥ स्वेष्टस्य स्वाभिमतस्य सर्वखण्डनस्य आत्मनश्च अपुष्टेर् असिद्धेरित्यर्थः । दुर्न्यायस्य साधकत्वायोगात् । साधकत्वे च स्वाभीष्टवत् पराभिमतप्रमेयस्यापि सिद्धिप्रसङ्गादिति भावः । दुर्न्यायस्या-साधकत्वे दृष्टान्तमाह । किम्विति ॥ गगननैल्यस्यैवाभासत्वाद् यथा तेन सोमनीलिमा न भवति । तथा दुर्न्याया अपि साधका न भवन्तीत्यर्थः ॥ १०९९ ॥

सत्यप्रमोदटीका

सन्न्याया इति पक्षे । तेन परेण त्वयैव तन्न्यायानां साधुत्वाङ्गीकारात् । दुर्न्याया इति चेन् न याचितैरपि तैस् तव पक्षसिद्धिः । तदाह स्वेष्टापुष्टेः । स्वेन इष्टस्य खण्डनस्यापि असिद्धेः । तत्रार्थान्तरं किमु इति याचितस्य व्योमनीलिम्न एवाप्रामाणिकत्वात् ॥ १०९९ ॥

युक्तिमल्लिका

उष्ट्रः कण्टकमेवात्ति तृणं गौर्दर्दुरो मृदम् ।

शिलाकणान्कपोतोऽत्ति स्वयं शाल्योदनप्रियः ॥ ११०० ॥

सुरोत्तमटीका

किं च परन्यायैस्स्वार्थं साधयामीत्याशामात्रं वस्तुतस्तन्न घटत इत्याह ॥ उष्ट्र इत्यादिना ॥ स्वयं खण्डनकारः । परन्यायेन स्वार्थं साधयति चेद् उष्ट्रादिवत् कण्टकादिभक्षणेनैव स्वोदरं पूरयेदिति भावः ॥ ११०० ॥

सत्यप्रमोदटीका

स्वयमित्यपहासः स्वयमपि कण्टकाद्याहारवान् भवेरिति ॥ ११०० ॥

युक्तिमल्लिका

गोपुच्छग्रहणेनापि गोष्ठप्राप्तिर्भवेत्तव ।

गोष्ठात्तु स्वगृहप्राप्त्यै स्वयमेव यतेत हि ॥ ११०१ ॥

सुरोत्तमटीका

किं च प्रमाणादिलक्षणव्यवस्थामात्रस्य परकीयग्रन्थ-च्छायया कर्तुं शक्यत्वेऽपि स्वाभिमतप्रमेयसिद्धौ परैः प्रमाणस्यानुदितत्वात् तदर्थं स्वेनैव प्रयतितव्यमित्यत्र दृष्टान्तमाह ॥ गोपुच्छेति ॥ ११०१ ॥

सत्यप्रमोदटीका

गोपुच्छग्रहणेन पराभ्युपगतप्रमाणाद्यभ्युपगमेन गोष्ठ-प्राप्तिः परसिद्धान्तसिद्धिः । स्वगृहप्राप्त्यै स्वाभ्युपगतचिन्मात्रस्य अनिर्वच-नीया विद्यादिकस्य सिद्ध्यै स्वयमेव यतेत अविद्यातत्कार्यमिथ्यात्वसाधक-प्रमाणानाम् उपन्यस्य समर्थनीयत्वात् । पराक्रान्तं च परेण तदर्थम् ॥११०१॥

युक्तिमल्लिका

अभेदार्थे बाधिते तु श्रुतेरन्यार्थतां परः ।

ब्रूते परस्य न्यायेऽस्मिंस्त्वं कस्मान्न प्रवर्तसे ॥ ११०२ ॥

सुरोत्तमटीका

स्वयं शाल्योदनप्रिय इत्युक्तन्यायं तदीयशास्त्रार्थेऽपि दर्शयति ॥ अभेदार्थ इत्यादिना ॥ अस्मिन् बाधितार्थपरित्यागरूपे ॥११०२॥

सत्यप्रमोदटीका

किञ्च ‘वेदवेदानुसारेषु विरोधेऽन्यार्थकल्पना’ इति न्यायम् । परो ब्रूते । तत्र तव न प्रवृत्तिः । प्रत्युत भेदवाक्यानां सर्वथाऽ-तत्त्वावेदकतैवेति त्वम् आस्थितः । अतो रिक्थमिदं ते वचः परन्यायाङ्गीकार इतीत्याह अभेदार्थे इति ॥ ११०२ ॥

युक्तिमल्लिका

विच्छिद्य सिंहपुच्छादिपुरुषस्य करादि च ।

तयोरैक्यं वदन्तः के परे यद्याचको भवान् ॥ ११०३ ॥

सुरोत्तमटीका

तयोर्मुण्डितसिंहपुरुषव्यक्त्योः । यद्याचकः येषां परेषां याचकः । ते परे क इति पूर्वेणान्वयः ॥ ११०३ ॥

सत्यप्रमोदटीका

किञ्च त्वया दुर्भाषिता न्याया न केनापि परेणोक्ता इति अनेकधा निरूपयति विच्छिद्येति जहदजहल्लक्षणा न केनापि स्वीकृतेति भावः ॥ ११०३ ॥

युक्तिमल्लिका

परन्यायैः परो बोध्य इति वाङ्मात्रमेव ते ।

मिथ्याभूतप्रमाणेन कोऽर्थसिद्धिं परो वदेत् ॥ ११०४ ॥

ऐक्यवेदकवाक्यानां मानत्वं कः परो वदेत् ।

अन्येषां वेदभागानाममानत्वं च को वदेत् ।

शब्दादेवापरोक्षं च कः परो वक्ति भूतले ॥ ११०५ ॥

सुरोत्तमटीका

प्रमेयान्तरेष्वपि दर्शयति ॥ मिथ्याभूतेत्यादिना

॥ ११०४, ११०५ ॥

सत्यप्रमोदटीका

एवं मिथ्याभूतस्य साधकत्वं, प्रत्यक्षादिसकल-प्रमाणविरुद्धार्थे वाक्यानां प्रामाण्यं, तत्सिद्धार्थबोधकानाम् अमानत्वं, शब्दादेवापरोक्षम् इत्यादीनि न केनापि परेण स्वीकृतानि । अत्र सर्वत्रापि अगत्या स्वन्यायानुसृतिरेव वक्तव्या । तथैव परःप्रमेयं स्वं स्थापयेदेवेत्याह मिथ्येत्यादिना । अस्थापीति लुङ् ॥ ११०४-११०६ ॥

युक्तिमल्लिका

इत्थं न्यायस्यैव भेदान्नान्यस्य न्यायतस्तव ।

अर्थसिद्धिर्भवेन्मन्दस्वन्यायानुसृतौ च ते ।

वाच्या सर्वा व्यवस्थापि तेनास्थापि मतं परैः ॥ ११०६ ॥

सुरोत्तमटीका

इत्थं पूर्वोक्तप्रकारेण । न्यायस्य स्वन्यायस्य । जात्येक- वचनम् । स्वन्यायानामित्यर्थः । स्वन्यायानुसृतौ स्वन्यायानां स्वकपोल-कल्पितसाधक प्रमाणाद्यनुसृतौ । व्यवस्था प्रमाणलक्षणादिव्यवस्था । परेण हि तत्त्वावेदकत्वं प्रमाणलक्षणमुदितं शब्दरूपप्रमाणस्य च शाब्दप्रमाजनकत्वमेव लक्षणमुदितम् । अतत्वावेदकप्रमाणं शब्दादेवापरोक्षज्ञानं शब्दादेव निर्विकल्पकं च वदतस्तव तानि लक्षणानि मा भूवन् । अतस्त्वयापि प्रमाणलक्षणादिकं स्वाभीष्ट साधकप्रमाणनि च पृथगेव वक्तव्यानीति भावः । तेन परेणापि प्रमाणादिव्यवस्थाङ्गीकारेण । मतं प्रमाणादिव्यवस्थायाः प्रामाणिकत्वमतम् ॥ ११०६ ॥

युक्तिमल्लिका

सोऽयमित्यादिवाक्येऽपि न त्यागोस्ति पदार्थयोः ॥ ११०७ ॥

सुरोत्तमटीका

सोऽयं देवदत्त इत्यत्र पदद्वयस्य स्वरूपमात्रे लक्षणेति परस्य पक्षः । सोपि न । तद्देशकालादीनामिदानीमभावेन तत्पदमात्रे लक्षणा-याः कथञ्चिद्वक्तुं शक्यत्वेऽपि एतत्पदार्थभूतैतद्देशकालसंयोगस्य वाक्यप्रयोग-कालेऽपि विद्यमानत्वेन पररीत्याप्येतत्पदलक्षणायां कारणाभावात् । विचार्य-माणे तु पदद्वयेऽपि न लक्षणेत्याह ॥ सोऽयमिति ॥ ११०७,११०८ ॥

सत्यप्रमोदटीका

तत्त्वमस्यादिवाक्यम् अखण्डार्थनिष्ठम् अकार्यकारण-द्रव्यमात्रनिष्ठत्वे सति समानाधिकृतत्वात् तन्मात्रप्रश्नोत्तरत्वात् । सोऽयं देवदत्त इति वाक्यवद् इति परानुमानं दूषयति सोऽयमित्यादिना । तद् दृष्टान्तः साध्यविकलः । अनुपपत्त्यभावेन सो ऽयम् इति पदयोर् लक्षणाऽऽश्रयणा-नुपपत्तेरित्याह नेति ॥ ११०७ ॥

युक्तिमल्लिका

प्राग्देशकालयोगस्यातीतत्वं वक्ति तत्पदम् ।

इदम्पदं तु वक्त्येतद्देशकालानुबन्धिताम् ॥ ११०८ ॥

तद्देशकालयोगस्य ह्यस्य यं तत्पदोदितम् ।

कस्त्यजेदन्यदस्त्येव विशेषणपदोदितम् ॥ ११०९ ॥

सुरोत्तमटीका

तत्पदं तदिति पदम् । अन्यद् एतद्देशकालसम्बन्धि-त्वम् । इदानीमतीतो यः काशीदेशकालसम्बन्धः स एव तत्पदार्थः । तथा च सोऽयमित्यत्र स इत्युक्त प्राग्जातकाशीदेशकालसम्बन्ध ध्वंसवानेवायं न त्वन्य इति वाक्यार्थपर्यवसानं स्यात् । अन्यथा काशीस्थस्य चास्य चैक्यासिद्धिः । देवदत्तस्वरूपमात्रस्य च अयमिति पदेनैव बोधयितुं शक्यत्वात् पदान्तरेवैयर्थ्यं च स्यादिति भावः ॥ ११०९ ॥

सत्यप्रमोदटीका

‘अनित्यदेशकालसम्बन्धित्वस्य सत्त्वान्न सोऽयं देवतेत्युपमा च’ इति तत्त्वोद्योतवाक्यं विवृणोति प्रागिति स इति । स इति पदं खलु न अतीतदेशकालसम्बन्धमाह येन तस्य अयमिति इदन्ताविधान-कालेऽभावेन अनुपपत्त्या पदार्थस्वरूपमात्रे लक्षणाऽऽश्रयणं किं नाम तस्यातीतत्वमपि । अतीतत्वं च ध्वंस इदानीमस्त्येवेति काऽनुपपत्तिर् इत्याह क इति । अन्यद् इदन्ता एतद्देशकालसम्बन्धः । स तु अस्त्येवेत्यविवादम् । अतः न पदद्वयेऽपि लक्षणाऽवकाशः ॥ ११०८, ११०९ ॥

युक्तिमल्लिका

विशेष्यपदवाच्यस्य त्वीषत्त्यागोऽपि नेष्यते ।

वाक्येऽस्मिन्नन्यवाक्ये तु मृद्घटस्स्वर्णमेव हि ।

कर्णभूषणमित्याद्ये नैकत्यागेऽपि विद्यते ॥ १११० ॥

सुरोत्तमटीका

विशेष्यपदवाच्यस्य देवदत्तपदवाच्यस्येत्यर्थः । मायिनस्तु तद्ब्रह्म त्वमसीत्यत्र विशेष्यपदवाच्यब्रह्मत्वस्यापि त्यागोऽस्ति । अतोऽपि नेदं तस्योदाहरणमिति भावः । अस्मिन्वाक्ये सोऽयं देवदत्त इति वाक्ये । इत्याद्ये अन्यवाक्ये इति सम्बन्धः । अन्यवाक्ये ऐक्यप्रतिपादक-वाक्यान्तरे । एकत्यागेऽपि एकपदवाच्यस्यापि त्याग इत्यर्थः । मृत्त्व-घटत्वादिविशिष्टयोरैक्यम् । न त्वेकस्यापि पदवाच्यस्य त्यागोऽस्ति । इदमेव च तवोदाहरणम् । न तु तत् । तत्र हि तत्पदवाच्यातीतदेशकालयो-रिदानीमभावेनागत्या तवापि मते स्वरूपमात्रलक्षणा । तत्त्वमसीति वाक्ये तु तत्पदं न देशकालपरं किंतु पूर्वोक्तसत्यत्व आत्मत्वादि गुणपरामर्शि । तेषां च ऐक्योक्तिदशायामपि सत्त्वेन अनुपपत्तेरभावात् किमर्थं लक्षणा । विरुद्धधर्म-विशिष्टयोरैक्यानुपपत्त्या लक्षणा चेत् । कुत्रेदं दृष्टम् । मृद्घटाद्यैक्यवाक्ये लक्षणाया एवाभावात् । सोयमिति वाक्ये च निमित्तान्तरेणैव लक्षणा न तु विशेषणयोः परस्पर विरोधात् । एकस्यैव गगनस्य द्विदेशकालवर्तित्व-दर्शनात् । अतस्तवैक्यवाक्यस्य ब्रह्मसदृशत्वार्थकत्वे सिंहो देवदत्त इत्यैक्य-वाक्यमेवोदाहरणं स्यात् । पदद्वयोक्तसिंहत्वदेवदत्तत्वयोस्तत्रैव विरोधात् । विरुद्धगुणत्यागेन मुण्डितव्यक्त्योरैक्यकथने तु अदृष्टकल्पनाख्यरोगस्य न किञ्चिदौषधमिति भावः ॥ १११० ॥

सत्यप्रमोदटीका

ऐक्यसिद्धये मृद्घटः सुवर्णभूषणम् इत्यादिकमेव त्वया उदाहर्तुमुचितम् ।तत्र तु एकस्यापि न त्याग इत्याह मृदिति॥१११० ॥

युक्तिमल्लिका

यो दण्डी कुण्डली चासाविति दण्डविशिष्टतः ।

स्यात्कुण्डलविशिष्टैक्यं किमेके दण्डकुण्डले ॥ ११११ ॥

सुरोत्तमटीका

नन्वेवं सोऽयमिति वाक्यस्थ पदद्वयस्यापि विशिष्टपरत्वे तयोश्च विशेष्यभूतदेवदत्तेनैक्ये विशेषणभूतयोरतीतवर्तमानदेशकालयोरपि तेनैक्यं स्यादित्यत आह ॥ यो दण्डीति ॥ ११११ ॥

सत्यप्रमोदटीका

सामानाधिकरण्यं हि दण्डाश्रयस्य कुण्डलाश्रयेणैव तादात्म्यमवलम्बते न तु दण्डकुण्डलयोरित्याह य इति ॥ ११११ ॥

युक्तिमल्लिका

विशेष्योपादानकस्य विशिष्टस्य हि जन्मनि ।

विशेषणं निमित्तं नस्तदैक्येऽस्यैकता कुतः ॥ १११२ ॥

सुरोत्तमटीका

विशिष्टैक्येऽपि विशेषणैक्याभावे कारणमाह ॥ विशेष्येति ॥ विशेष्यो देवदत्तः नः मते । तदैक्ये उपादानोपादेय-रूपविशेष्यविशिष्टयोरैक्ये । अस्य निमित्तभूतं दण्डादेः ॥ १११२ ॥

सत्यप्रमोदटीका

विशेष्यः पुरुषः, विशिष्टः दण्डी, विशेषणं दण्डः । तत्र पुरुषोपादानकदण्ड््युत्पत्तौ दण्डः निमित्तकारणम् । तदैक्ये पुरुषाद्दण्डिनो भेदाभेदेन अभेदस्यापि सत्त्वे । अस्य दण्डस्य ॥ १११२ ॥

युक्तिमल्लिका

अथौद्धत्याद्विशिष्टैक्यं यदि क्वापि न मन्यसे ।

तर्हि दृष्टान्तशून्यत्वाद्गतमापादनं तव ॥ १११३ ॥

सुरोत्तमटीका

ननु क्वापि विशिष्टैक्यं मया नाङ्गीक्रियते । अतो मदुक्त-व्याप्तिव्यभिचारस्य नेदमुदाहरणमित्यत आह ॥ अथेति ॥ उपादानोपादेय-योस्सम्भावितैक्यस्य परित्यागादौद्धत्यादित्युक्तम् । आपादनं विशिष्टैक्ये विशेषणयोरप्यैक्यं स्यादित्यापादनम् ॥ १११३ ॥

सत्यप्रमोदटीका

एवं व्यभिचारे प्रदर्शिते तत्परिहाराय यदि वैयात्या-त्कुत्रापि विशिष्टैक्यं नाङ्गीकरोमि इति ब्रूयात्तर्हि तर्के आपादकासिद्धिरित्याह अथेति ॥ १११३ ॥

युक्तिमल्लिका

अस्ति रूपविशिष्टैक्ये रूपैक्यमपि यद्यपि ।

भेदाभेदमते तच्च न ते तर्कनिदर्शनम् ॥ १११४ ॥

सुरोत्तमटीका

ननु रूपविशिष्टस्य घटेनैक्ये आवयोर्मते धर्मधर्मिणो-र्भेदाभेदाङ्गीकाराद् विशेषणीभूतरूपस्यापि घटेनैक्यमस्ति । अत इदमेव मम व्याप्तेरुदाहरणं भविष्यतीति शङ्कामनूद्य दूषयति ॥ अस्तीति ॥ १११४ ॥

सत्यप्रमोदटीका

रूपविशिष्टैक्ये रूपी घट इत्यत्र रूपविशिष्टस्य घटेनैक्ये रूपैक्यं रूपस्य घटेनैक्यम् । भेदाभेदमते अयावद्द्रव्यभाविधर्माणां धर्मिणा भेदाभेदौ इति मते । तत्रोपाधिनिमित्त एवाभेदः काचित्कः न त्वत्तर्कोपयोगिव्याप्तिं प्रयोजयतीत्याह औपाधिकेति । ‘सहदर्शनमात्रेण न व्याप्तिरवसीयते’ इत्युक्तेः । सोपाधिकसम्बन्धेनापि व्याप्त्यध्यवसाये वह्ने-र्धूमेनापि तन्निश्चयः स्यादिति भावः ॥ १११४-१११६ ॥

युक्तिमल्लिका

कार्यकारणभावाद्वा धर्मधर्मित्वतोऽपि वा ।

ईदृग्विशेषणैक्यस्य प्राप्तिस्तव ममापि च ॥ १११५ ॥

सुरोत्तमटीका

तद्रूपविशिष्टैक्ये विशेषणीभूतरूपैक्यं कुत इत्यत आह ॥ कार्येति ॥ १११५ ॥

युक्तिमल्लिका

अप्रयोजकमेवाभूद्विशिष्टैक्यमिहावयोः ।

औपाधिकसमावेशे व्याप्यव्यापकता न हि ॥ १११६ ॥

सुरोत्तमटीका

अप्रयोजकं रूपघटयोरैक्ये उपादानोपादेयभावस्यैव प्रयोजकत्वेन विशिष्टैक्यं प्रयोजकं नेत्यर्थः । इह रूपविशिष्टैक्यस्थले । औपाधिकसमागमे उपादानोपादेयत्वरूपैक्योपाधिसम्बन्धनिमित्तसमागमे ॥ १११६ ॥

युक्तिमल्लिका

अतो निदर्शनं नेदं यदि भिन्ने विशेषणे ।

विशिष्टैक्यबलादेव स्यादैक्यमपि कुत्रचित् ॥ १११७ ॥

निदर्शनं तदेव स्यात्तच्च नाङ्गीकृतं त्वया ।

तदा निदर्शनं नेति सुष्ठूक्तं पूर्वसूरिभिः ॥ १११८ ॥

सुरोत्तमटीका

अतो ऽत्र विशिष्टैक्यस्याप्रयोजकत्वात् । भिन्ने कार्यकारणभावानवलम्बिनि अत्यन्तभिन्ने दण्डकुण्डलादौ । तद् अत्यन्तभिन्न-विशेषणस्थलीयविशिष्टैक्यम् । नाङ्गीकृतमित्युपलक्षणम् । दण्डकुण्डलविशिष्टै-क्येऽपि दण्डकुण्डलैक्यादर्शनेन व्यभिचार इत्यपि द्रष्टव्यम् ॥१११७,१११८॥

सत्यप्रमोदटीका

इदं रूपघटनिदर्शनम् । न व्याप्तिसाधनं न । तर्हि कीदृशं निदर्शनं व्याप्तिगमकं स्यादित्यत आह यदीति । भिन्ने कार्यकारण-भावाद्युपाधिमन्तरेणापि स्वभावत एव भिन्ने धूमवह्निरूपे विशेषणे विशिष्टैक्य-बलाद् धूमवतः वह्निमतश्च पर्वतस्य विशिष्टस्यैक्यबलाद् ऐक्यं धूमवह्निरूप-विशेषणयोरैक्यं स्यात् । तर्हि तदेव निदर्शनं व्याप्तिनिश्चायकं स्याद् इति उत्तरेणान्वयः । तादृशं निदर्शनं नास्ति त्वया नाङ्गीकृतं च । सुष्ठु उक्तं व्याप्तिविकलस्तव तर्काभास इत्युक्तम् ॥ १११७, १११८ ॥

युक्तिमल्लिका

किञ्चैवमपि सार्वज्ञपूर्वधर्मविशिष्टतः ।

अज्ञतादिविशिष्टाच्च चिन्मात्रैक्यमिहोच्यताम् ॥ १११९ ॥

सुरोत्तमटीका

अपि च सोऽयमित्यत्र दृष्टान्ते तर्कबलेन विशिष्टैक्यं निराकुर्वता परेण तत्त्वमसीत्यत्रापि तेनैव तर्केण विशिष्टैक्यनिराकरणं कर्तव्यम् । अन्यथा दृष्टान्तदार्ष्टान्तिकयोर्वैषम्यप्रसङ्गात् । अत्र च तर्कस्येष्टापादन रूपाभासत्वमित्याह ॥ किं चेति ॥ चिन्मात्रैक्यं चिन्मात्रेणैक्यम् । चिन्निष्ठविशेषणानामपि चिद्रूपत्वाद् ईदृशविशिष्टैक्यमपि चिन्मात्रैक्यमेवेति परपरिहासार्थमुदितम् ॥ १११९ ॥

सत्यप्रमोदटीका

विपर्यये पर्यवसानविकालोऽपीत्याह किञ्चेति । ‘नास्ति च विशेषणयोः सर्वज्ञत्वाल्पज्ञतयोरैक्यम् अतो विशिष्टयोर्जीवेशयोरपि नैक्यम् इति अखण्डवादिना त्वया पर्यवसातव्यम् । न च तथा प्रकृते सम्भवति । अल्पज्ञत्वादिधर्माणां जीवेन चिता सर्वज्ञत्वादिधर्माणां परमात्मना चिता चाभिन्नत्वेन, जीवेशयोरिव तत्तदभिन्नयोर्विवशेषणयोश्चिन्मात्रैक्यस्य त्वद्रीत्यैव निष्प्रत्यूहत्वादित्याह चिन्मात्रेति । उक्तैतद्बाधकाभावात् ।बाधकाभिमतस्य तर्कस्य आभासत्वादिति भावः ॥ १११९, ११२० ॥

युक्तिमल्लिका

यतोऽस्ति गुणगुण्यैक्यमपि जीवे हरौ च नः ।

उक्तैतद्बाधकाभावाल्लक्षणावसरोऽत्र न ॥ ११२० ॥

सुरोत्तमटीका

अस्मिन्विशिष्टैक्ये विशेषणैक्यमपि इष्टमेवेत्याशयेनोक्तम् ॥ यत इति ॥ नः मते । इदं चोपलक्षणम् । परेणापि धर्मधर्मिणोरैक्याङ्गी-कारात् । उक्तैतद्बाधकाभावाद् विशिष्टैक्ये विशेषणैक्यमपि स्यादिति बाधका-भावादित्यर्थः । अत्र तत्त्वमसीति वाक्ये ॥ ११२० ॥

युक्तिमल्लिका

विशेषणद्वयस्यात्र यद्यप्यस्ति विरुद्धता ।

न सा दृष्टान्तवाक्ये मे तदेतौ द्राविडान्ध्रकौ ॥ ११२१ ॥

सुरोत्तमटीका

विशेषणद्वयस्य तत्पदोक्तसार्वज्ञादिविशेषणस्य त्वंपदोक्त किंचिज्ज्ञात्वादिविशेषणस्य चेत्यर्थः । सा विशेषणद्वयविरुद्धता । दृष्टान्त-वाक्ये सोऽयमितिवाक्ये । एकस्यैव देवदत्तस्य काशीदेशकालस्थत्वस्य एतद्देशकालस्थत्वस्य च क्रमेण सम्भवेन विरोधाभावात् । युगपद्देशकाल-द्वयवर्तित्वं च न वाक्यार्थः । वक्तुरनभिप्रेतत्वात् । म इत्युपलक्षणम् । विद्वन्मात्रस्य चेति द्रष्टव्यम् । तत् तस्माद् दृष्टान्ते विरोधाभावात् । दार्ष्टान्तिक वाक्ये तर्कस्यानवकाशात् । एतौ दृष्टान्तदार्ष्टान्तिकौ । द्राविडभाषाम् आन्ध्रो न जानाति । आन्ध्रवार्तां च द्राविडो न जानाति । तद्वदेतावप्यभूतामिति भावः ॥ ११२१ ॥

सत्यप्रमोदटीका

अत्र दार्ष्टान्तिके । विरुद्धता कदाऽपि असहाव-स्थानम् । सा विरुद्धता । दृष्टान्तवाक्ये सोऽयं देवदत्त इत्यत्र मे न । क्रमेण श्यामत्वरक्तत्वयोरेकस्मिन् फले इव तत्तेदन्तयोरपि एकस्मिन् देवदत्ते समावेशसम्भवादेव । तदुक्तं न्यायामृते

‘कालद्वयेन योगस्य क्रमेण स्थायि वस्तुनि ।

नैल्यरक्तत्ववत्सत्त्वात्तदुक्तौ का विरुद्धता’

इति (१९३ । प.४९१) । एतौ दृष्टान्तदार्ष्टान्तिकौ । द्राविडान्ध्रकौ अन्योन्यवार्तानभिज्ञौ ॥ ११२१ ॥

युक्तिमल्लिका

तत्ते दृष्टान्तचर्चेयं न दार्ष्टान्तिकसिद्धये ।

क्रमेलकोयङ्कदली पक्वत्वङ्मोचनं च सा ॥ ११२२ ॥

सुरोत्तमटीका

तत्तस्माद् दृष्टान्ते क्रियमाणचर्चाया दार्ष्टान्तिकाननु-गुणत्वात् । अयं दार्ष्टान्तिकः । सा दृष्टान्तचर्चा । यथा महता प्रयत्नेन आपणादानीय कदलीपक्वत्वङ्मोचनेऽपि कण्टकभक्षकस्योष्ट्रस्य न तेन प्रयोजनम् । तथेयमपि चर्चा दार्ष्टान्तिकाननुगुणत्वाद्व्यर्थेति भावः । ननु दण्डविशिष्ट कुण्डलविशिष्टैक्ये दण्डकुण्डलयोरुपलक्षणत्वमेव न विशेषणत्वमिति चेत् । तर्हि विशिष्टैक्यस्याप्यभावाद् देवदत्तो देवदत्त इतिवद् वाक्यस्य वैयर्थ्यं स्यात् । अदण्डिव्यावृत्त्या अकुण्डलिव्यावृत्त्या च विशिष्टैक्यान् न वैयर्थ्यमिति चेत् । न । दण्डकुण्डलपदाभ्यां दण्डकुण्डलयोरसमर्पणे उक्तव्यावृत्त्योरप्यसम्भवात् । कथं तर्हि काकवद्देवदत्तगृहमित्यत्र काकादीनां गृहव्यावर्तकत्वमिति चेत् तत्रापि कदाचित्काकसम्बन्धस्य विद्यमानत्वादेव तदसम्बन्धिगृहाद्व्यावृत्तिः । न तूष्णीम् । अन्यथा सर्वथा काकासम्बन्धिनि गृहेऽपि काकवदिति प्रयोगप्रसङ्गात् । मतुपो वैयर्थ्याच्च । एवं तर्हि काकोऽपि विशेषणमेवाभूत् । नोपलक्षणमिति चेत् । सत्यम् । तदसम्बन्धिनस्तद्व्यावर्तकत्वायोगात्तत्सम्बन्धे च तद्विशेषणत्वा-परिहारान्न महदन्तरं विशेषणोपलक्षणयोः । कुण्डलादीनां बहुकालसम्बन्धाद् व्यावर्तकान्तरमनन्तर्भाव्यसाक्षाद्व्यावर्तकत्वाद्वा काकादीनामल्पकालं सम्बन्धा-त्स्वापगमेऽप्युत्तृणत्वादिव्यावर्तकान्तरमन्तर्भाव्य व्यावर्तकत्वाद्वा क्वापि द्वि-प्रकारत्वकथा । किं च वसति सोऽयमित्यत्रापि तत्पदेना तद्व्यावृत्तेर् इदंपदेन चानिदंपदार्थव्यावृत्तेश्चावश्यकत्वेन विशिष्टैक्यस्यैवापातात् स्वरूपैक्यकथायां नेदमुदाहरणं स्यात् ।

ननु तत्त्वमसीत्यत्राप्यस्तु तर्हि व्यावृत्तिविशिष्टैक्यं सार्वज्ञादिगुण-विशिष्टैक्यमेव नाङ्गीक्रियत इति चेन्न अभाववैशिष्ट्याङ्गीकारे सुतरां निर्विकल्प- कत्वासम्भवात् । किं च देवदत्तस्सोयमित्यत्र एकस्यैव देवदत्तस्यैकदोभय-देशस्थत्वायोगाद् अतीत काशीदेशस्थत्वानुवादकतत्पदव्यावर्त्यस्य तदा काशी-देशावर्तिनोन्यत्वस्यैव प्राप्त्या इदानीमेतद्देशस्थत्वार्थकेदंपदव्यावर्त्यस्य चेदानीमे-तद्देशातिरिक्त देशवर्तिनोन्यत्वस्यैव प्राप्त्या व्यावृत्तिविशिष्टैक्यस्याप्यसम्भवात् । तत्त्वमसीत्यत्र सार्वज्ञादिगुणविशिष्टार्थकतत्पदेन किञ्चिज्ज्ञजीवस्यैव व्यावर्तित-त्वेनाल्पज्ञत्वादिविशिष्टार्थकत्वंपदेन च सर्वज्ञब्रह्मण एव व्यावर्तितत्वेन व्यावृत्तेश्च भेदापरपर्यायत्वेन पुनस्तयोरैक्यायोगात् । अङ्गीकृत्य चेदमुदितम् । वस्तुतस्त्वतद्व्यावृत्तिवैशिष्ट्यापेक्षया तत्तद्वैशिष्ट्यस्यैव लघुत्वाद् यथासम्भवं वाक्यार्थत्वमूह्यम् । अतः सोऽयमिति दृष्टान्तस्य न कथञ्चिदपि परमते प्रकृतोपयोगः । प्रत्युताविरुद्धपदद्वयार्थकतया ऐक्योपयोगितद्वाक्यं विरुद्धपद-द्वयार्थकतया साक्षादैक्यविरोधिनस्तत्त्वमसीति वाक्यस्य प्रतिकूलमेव ।

किं च विशेषणस्योपलक्षणस्य वा किमिदं व्यावर्तकत्वं नाम । न तावद्वस्तु निष्ठव्यावृत्तिजनकत्वम् । घटपटादिनिष्ठव्यावृत्त्याख्यभेदस्य विलक्षण तत्त-त्सामग्रीभेदेनैव सम्भवात् । उत्पद्यमानघटेन सहजायमानस्य भेदस्य वस्तु-निष्ठविशेषणस्य च सहोत्पद्यमानस्यान्योन्यं जन्यजनकभावासम्भवाच्च । नापि वस्तुनिष्ठव्यावृत्तिबोधजनकत्वं विलक्षणस्वस्वसामग्य्रा बोध्यमानवस्तुतस्स्वेतर-सकलासङ्कीर्णतयैव बोधनियमेन तत्तद्वस्तुनिष्ठव्यावृत्तिबोधेऽपि विशेषणा-द्यनपेक्षणात् । किं तु व्यावृत्तौ विप्रतिपन्नं मन्दं प्रतिलिङ्गतया व्यावृत्त्यनु-मापकत्वमेव । अनुभवस्य परं प्रत्युपन्यासायोगात् । लिङ्गं च तत्र सदेव भवेत् । अन्यथा स्वरूपासिद्धिप्रसङ्गात् । कथं तर्हि काकादीनामुपलक्षणत्वमिति चेत् । न । तस्यापि गृहे विद्यमानतादशायां न काप्यनुपपत्तिः । गृहादपगमे तु तत्कृतमुत्तृणत्वादिकमेव व्यावर्तकम् । गुरूणां टीका कुरूणां क्षेत्रमित्यत्रापि गुरुकृतत्वं कुरुयुद्धयोग्यभूमित्वं च तत्तन्निष्ठमेव लिङ्गम् । घटाभाव इत्यत्र चा भावनिष्ठं घटप्रतियोगिकत्वमेव लिङ्गम् । गुर्वादीनां च साक्षात्तन्निष्ठत्वाभावेन मुख्यव्यावर्तकत्वाभावाद् व्यावर्तकघटकतया व्यावर्तकत्वोपचाराद् उपलक्षणत्व- कथा । ज्ञानस्य च भिन्नभिन्नस्वस्वसामग्रीसामर्थ्याद् व्यावृत्ततयैव जायमानस्य न घटो व्यावर्तकः । ज्ञानग्राहकसाक्षिणैव तन्निष्ठव्यावृत्तेरपि स्वसामर्थ्येन ग्रहणसम्भवाज् ज्ञाननिष्ठव्यावृत्तिबोधेऽपि न घटस्योपयोगः । अतीतानागतज्ञाने उभयोरप्यसम्भवात् । एकस्मिन्नेव घटे भूयोभूयोजायमान ज्ञानस्य तत्प्रागभाव-भेदात्सामग्रीभेदोऽस्त्येव । ज्ञानजनकसन्निकर्षाश्रयतया विषयस्यापि ज्ञाने नियमेनोल्लेखाद् विषयस्यापि व्यावर्तकत्वोपचारः । ज्ञानव्यावृत्तौ विवदमानं प्रति तु घटविषयकत्वाख्यज्ञाननिष्ठलिङ्गेन ज्ञानान्तराद्व्यावृत्तिर्बोध्यते । भ्रमे च भिन्नभिन्नदोषघटितसामग्य्रा भिन्नोभिन्नो भ्रमोऽपि जायते । तस्मिंश्च भ्रमे दोषसामर्थ्यादेवाविद्यमानस्य तस्य तस्य भ्रान्तार्थस्य चोल्लेखनियमाद्व्यावर्त-कत्वोपचारः । परं प्रति व्यावृत्तिबोधनाय तु शशविषाणविषयकत्वं ज्ञान-निष्ठमेव लिङ्गम् । तस्य च सत्यत्वेन कारणत्व सम्भवान्न काप्यनुपपत्तिः । न हि भिन्नभिन्नांकुरजन्यकलमबीजभेदो देवदत्त सम्बन्धायत्तः । मध्येमार्गं पतितबीजभेदाभावप्रसङ्गात् । देवदत्तस्यैव बीजेषु परस्परं भेदाभावप्रसङ्गाच्च । बीजनिष्ठदेवदत्तसम्बन्धित्वं यज्ञदत्तीय बीजादितो व्यावृत्तिबोधे कदाचिदुप-युज्येतापि । एवं च दण्डकुण्डलयोरुपलक्षणत्वोक्तावपि विशेषणत्वस्यैवोक्त-त्वेनोक्ततर्कस्य व्यभिचारतादवस्थ्यम् ॥ ११२२ ॥

सत्यप्रमोदटीका

तत् तस्मात् । न सिद्धये प्रत्युत अखण्डार्थत्व-खण्डनायैव । दृष्टान्तवाक्यस्य विशिष्टार्थकत्वादेव । तदुक्तं तत्त्वोद्योते ‘अतः कैर्विशेषणैर्विशिष्ट इति प्रश्ने प्रकृष्टप्रकाश तद्देशकालादिविशिष्ट एव वाक्यार्थः’ इति । अतः स्वरूपमात्रप्रश्नोत्तरत्वहेतोर् अखण्डार्थनिष्ठत्वरूपसाध्यस्य च अभावाद् दृष्टान्तचर्चा त्वया क्रियमाणा सर्वाऽपि अनर्थायैव । तत्र दृष्टान्तः क्रमेलक उष्ट्रः । अयं दार्ष्टान्तिकः । सा चर्चा । कदलीफलस्येव पुरुषार्थस्य हेतोः प्रमाणादिकस्य चर्चा, कण्टकभक्षयितुरिव जगत्कण्टकस्यैक्यस्य प्रतिपादयितुस्तस्य वाक्यस्य प्रमाणविचारोऽनर्थकर एवेति ध्वनिः ॥ तथा हि । विशिष्टैक्यानुपपत्तावपि दुण्डकुण्डलोपलक्षितयोरैक्यं विवक्ष्यते इति चेद् देवदत्तस्वरूपमात्रैक्यसिद्ध्या वाक्यवैयर्थ्यम् । अदण्डिव्यावृत्त्यादिसिद्ध्या सार्थक्यम् इति च न युक्तम् । दण्डसम्बन्धानुक्तौ व्यावर्तकत्वासिद्धेः । काकस्य उपलक्षकत्वमपि तस्य वा तत्कृतस्योत्तृणत्वादिधर्मस्य गृहसम्बन्ध एव सिद्ध्यति । सर्वथा तदसम्बन्धिनस्तद्व्यावर्तकत्वमलौकिकम् । व्यावृत्ति-वैशिष्ट्यासिद्ध्याऽपि सखण्डार्थत्वमेव । अभाववैशिष्ट्याङ्गीकारेऽपि तदपरि-हारात् । व्यावृत्तेश्च भेदापरपर्यायत्वेन तदङ्गीकारस्य सुतरामनर्थकत्वात् । व्यावर्तकत्वं च न व्यावृत्तिजनकत्वम् । धर्मिस्वरूपायाव्यावृत्तेर् धर्मिजनकेनैव उत्पत्तेः । विशेषणस्य वा उपलक्षणस्य वा तज्जनकत्वायोगात् । नापि व्यावृत्तिधीजनकत्वम् । धर्मिज्ञाने एव सर्वतो व्यावृत्तिज्ञानस्यापि सिद्धत्वात् । तदुक्तं तत्त्वनिर्णये ‘भेदश्च स्वरूपदर्शन एव सिद्धः’ । किन्तु व्यावृत्तिधी-हेतुधीविषयत्वम् । तच्चानुमापकत्वं व्यावर्त्यसम्बन्धमेवापेक्षते । पर्वतसम्बन्धिनि एव धूमे अवह्निमद्व्यावर्तकत्वदर्शनात् । तथा च सत्यत्वादेः सर्वथा चिदसम्बन्धिनः कथं व्यावर्तकत्वम् । ज्ञानं च विषयमनन्तर्भाव्य स्वसामग्री-महिम्नैव ज्ञानान्तरव्यावृत्तम् । कलमबीजाद्भिन्ने वेत्रबीजे तथाभावदर्शनात् । देवदत्तसम्बन्धित्वस्य उभयत्राविशेषात् । मध्येमार्गं पतितयोस्तदभावाच्च ॥ अत उपलक्षणत्वेऽपि उपलक्ष्यसम्बन्धस्यानिवार्यत्वेन सखण्डार्थमेव । विस्तरो न्यायामृते । (२१३) ॥ ११२२ ॥

युक्तिमल्लिका

यथा धूमविशिष्टस्य वह्निवैशिष्ट्यवर्णने ।

न विशेषणयोरैक्यं न त्यागो नापि लक्षणा ॥ ११२३ ॥

सुरोत्तमटीका

अधुना परोदीरिततर्कस्योक्तकुत्सितशङ्कानर्हं व्यभिचार-स्थलमाह ॥ यथाधूमेति ॥ त्यागो विशेषणयोः । लक्षणा पर्वतस्वरूपमात्र-लक्षणा ॥ ११२३ ॥

सत्यप्रमोदटीका

विशिष्टैक्येऽपि न विशेषणैक्यं न वा विशेषणत्यागेन स्वरूपमात्रे लक्षणा इत्यत्र स्पष्टं दृष्टान्तमाह यथेति ॥ ११२३ ॥

युक्तिमल्लिका

तथा सति कथं व्याप्तिर्धूमवह्न्योः प्रसिद्ध्यति ।

व्याप्तिबोधार्थमेवैतद्वचनं सर्ववादिनाम् ॥ ११२४ ॥

सुरोत्तमटीका

तथा सति विशेषणत्यागादौ सति । धूमवन्ह्योर्व्याप्ति-बोधनाय प्रयुज्यमानेऽस्मिन्वाक्ये तयोरवश्यं ग्राह्यतया विशेषणत्वाद् उभय-विशिष्टेन विशेष्यभूतपर्वतेनैक्याभावाच्च सुस्थः परकीयतर्कस्यात्र व्यभिचार इति भावः ॥ ११२४ ॥

सत्यप्रमोदटीका

विपक्षे व्याप्तेरेवासिद्धिं दोषमाह तथेति ॥ ११२४ ॥

युक्तिमल्लिका

इदं तु तत्पदं पूर्ववाक्योक्तगुणयुक्तताम् ।

ब्रह्मणो वक्ति देशादिव्यापकस्य न चापरम् ॥ ११२५ ॥

सुरोत्तमटीका

प्रकारान्तरेण दृष्टान्तदार्ष्टान्तिकयोर्वैषम्यं सूचयन् तत्पदोक्तगुणत्यागे वाक्यार्थत्याग एव स्यादित्याह ॥ इदं त्विति ॥ देशादिव्यापकस्य । अपरं सोऽयमिति वाक्यस्थ तत्पदवद् अतीतदेशकाल-सम्बन्धिताम् । सर्वदेशसम्बन्धिनि ब्रह्मणि अतीतदेशस्यैवायोगात् । इदानीं त्यक्तो देशो ह्यतीतदेशः । स चाणोरेव घटते न व्याप्तस्य । अतः प्रागुक्त धर्मपरामर्शकमेव तत्त्वमसीत्यत्र तदिति पदमिति भावः ॥ ११२५ ॥

सत्यप्रमोदटीका

इदं तत्त्वमसीत्यत्र विद्यमानम् । न चापरमिति । देवदत्तस्येव तदेतद्देशकालसम्बन्धिताम् । तस्या देशकालापरिच्छिन्नो सिद्धत्वेनाबोधनीयत्वात् ॥ ११२५ ॥

युक्तिमल्लिका

सत्यत्वात्मत्वैतदात्म्यपूर्वाः पूर्वपदोदिताः ।

गुणास्स्वार्थसमास्तेषां त्यागोऽर्थत्याग एव ते ॥ ११२६ ॥

सुरोत्तमटीका

पूर्वपदोदिताः । ऐतदात्म्यमिदं सर्वं तत्सत्यं स आत्मेति वाक्यस्थैतदात्म्यादिपदोदिता इत्यर्थः । तदात्म्यपदेनैक्यमेव हि परो वक्ति । सत्यत्वात्मत्वादिकं च पराभिलषितं प्रमेयम् । अतस्तत्त्यागो वाक्यार्थ-त्याग एवेति भावः ॥ ११२६ ॥

सत्यप्रमोदटीका

पूर्वपदेति ऐतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा इति पूर्वपदेत्यर्थः । ते इति उक्तगुणानां त्वत्सिद्धान्तपरमप्रमेयत्वात्

॥ ११२६ ॥

युक्तिमल्लिका

अतः क्लीबविवाहार्थं चित्रस्त्रीप्रार्थनं तव ॥ ११२७ ॥

सुरोत्तमटीका

अतस् तत्पदोक्तब्रह्मगुणत्यागायोगात् । चित्रस्त्रीप्रार्थनं चित्रलिखितस्त्रीप्रार्थनम् । उक्तविधया तत्त्वमसीति वाक्यस्थतत्पदस्वरूपमात्र लक्षणायोगात् तदर्थमसाध्यदृष्टान्तगवेषणं क्लीबविवाहाय चित्रस्त्रीप्रार्थनवत् स्वाकौशलस्योतकमेवेत्यर्थः ॥ ११२७ ॥

सत्यप्रमोदटीका

क्लीबेति सर्वथा ज्ञानरूपसूत्यजनकतत्त्वमसि-वाक्येत्यर्थः । अखण्डार्थत्वं ज्ञानाजनकमिति चानर्थान्तरम् । सर्वेषां ज्ञानानाम् इदमित्थमिति सप्रकारकतयैव उत्पद्यमानत्वस्वरूपत्वात् । चित्रस्त्रीप्रार्थनम् असम्भविदृष्टान्तगवेषणम् ॥ ११२७ ॥

युक्तिमल्लिका

विशेष्यब्रह्मशब्दार्थसार्वज्ञादिगुणाम्बुधेः ।

निषेधः कुत्र दृष्टस्ते त्वं पदार्थगुणस्य च ॥ ११२८ ॥

सुरोत्तमटीका

अपि च सोऽयं देवदत्त इति वाक्येऽपि देवदत्तपदार्थ-स्यायमिति पदार्थस्य च त्यागादर्शनेन तत्त्वमसीत्यत्रापि तद्ब्रह्मेति विशेष्य-वाचकब्रह्मपदार्थस्य त्वमिति पदार्थस्य च त्यागे निदर्शनाभावेन सुस्थिरत्वात् तयोश्च त्वदभिलषितैक्य घातकत्वात् कथमैक्यं वाक्यार्थ इत्याह ॥ विशेष्येति ॥ ‘अथ कस्मादुच्यते ब्रह्मेति बृहंतो ह्यस्मिन्गुणा’ इति श्रुतेस्सार्वज्ञादि गुणाम्बुधेरित्युक्तम्

॥ ११२८ ॥

सत्यप्रमोदटीका

गुणानां त्यागः न तन्मिथ्यात्वं प्रमाणाभावात् । प्रत्युत जीवगुणानां ‘अविनाशी वे’त्यादिश्रुतिभिः, ईशगुणानां च ‘न कर्मणा वर्धते’ । ‘एष नित्यो महिमा’ इत्यादिभिः सत्यत्वेन सिद्धत्वादित्याह विशेष्येति ॥ ११२८ ॥

युक्तिमल्लिका

किञ्चाविनाशी जीवोनुच्छित्तिधर्माश्रुतौश्रुतः ।

न कर्मणा कनीयान्यो नित्योऽस्य महिमाऽपि च ॥ ११२९ ॥

सुरोत्तमटीका

जीवगुणानां ब्रह्मगुणानां चाविनाशित्वाच्च न त्याग इत्याह ॥ किं चेति ॥ अविनाशी वा ओऽयमात्मानुच्छित्तिधर्मा । एष नित्यो महिमा ब्राह्मणस्य । न कर्मणा वर्धते नो कनीयान् इति श्रुतिद्वयमनेन गृह्णाति । कर्मनिमित्तकहान्यभावश्रवणात् परं ब्रह्मैवायं ब्राह्मणो न ब्राह्मण-मात्रमिति युक्तिसूचनाय यः कर्मणा नो कनीयानित्युक्तम् । तद्गुणसंत्यागस् तयोर्जीवब्रह्मणोर्गुणसंत्यागः । सिंहो देवदत्तः यजमानः प्रस्तर इत्यादि विरुद्धार्थकवाक्येषु जहदजहल्लक्षणया परैरैक्यानङ्गीकारात्परन्यायो नैवास्ती-त्युक्तम् । अतस्त्वं दग्धारण्यमृगोऽभवः । दग्धारण्यमृगस्य हि वनस्थतृणा-भावात् स्वन्यायो नास्ति । तस्मिन्सस्यादेरभावात्परन्यायोऽपि यथा नास्ति तथा तवापि स्वरीत्या गुणत्यागोऽपि नाभूत् । गुणत्यागे पररीतिस्तु नास्त्येव । अतस्त्वमपि तादृशोऽभूरिति भावः ॥ ११२९,११३० ॥

युक्तिमल्लिका

अतस्तद्गुणसन्त्यागः प्राणत्यागः श्रुतेर्भवेत् ।

परन्यायस्तु नैवास्ति दग्धारण्यमृगोऽभवः ॥ ११३० ॥

सत्यप्रमोदटीका

दग्धेति तस्य स्वतो वा वनाद्याचितस्य वाऽऽहारस्या- भावादित्याशयः ॥ ११३० ॥

युक्तिमल्लिका

यद्यैक्योक्तिबलादेव गुणानां बाधनं तदा ।

उत्पन्नबालमन्त्रेण विरोधग्रहनिग्रहः ।

निगृहीते च तस्मिंत्स्याद्बालस्योत्पादनं तव ॥ ११३१ ॥

सुरोत्तमटीका

ऐक्योक्तया निर्गुणोक्तया वा विरुद्धगुणसंत्याग इति शङ्कां गुणसौरभोक्त युक्तिमेव साहित्यमुद्रया स्मारयन्परिहरति ॥ यदीति ॥ विरोधिग्रहनिग्रह उत्पत्ति विरोधिग्रहपरिहार इत्यर्थः । तस्मिन्विरोधिग्रहे । तव मते ॥ ११३१,११३२ ॥

सत्यप्रमोदटीका

वाक्येति तत्त्वमस्यादिवाक्येत्यर्थः । तदेवाद्यापि गहननिविष्टमिति नैक्यसाधनमित्यर्थः । तथा चान्योन्याश्रय इति भावः । तत्र दृष्टान्त उत्पन्नेति ॥ ११३१ ॥

युक्तिमल्लिका

सामान्यनिर्गुणोक्त्यापि न गुणोक्तेः पराभवः ।

यदग्नीषोमवाक्येनैव हिंसा वागपोद्यते ॥ ११३२ ॥

यदि तत्त्वंपदाभ्यां ते रूपमात्रनिरूपणम् ।

चिच्चिदित्येव चोक्तं स्यात्कस्यैक्यं तेन साध्यते ॥ ११३३ ॥

सुरोत्तमटीका

दोषान्तरं च वदति ॥ यदि तत्त्वंपदाभ्यामिति

॥ ११३३,११३४ ॥

सत्यप्रमोदटीका

विशेषविषयकत्वेन निरवकाशत्वेन च गुणोक्तीनां प्राबल्ये दृष्टान्तः यदिति । निर्गुणवाक्यं तु सामान्यविषयकं प्राकृतगुण-राहित्यार्थकत्वेन सावकाशं चेति भावः ॥ ११३२, ११३३ ॥

युक्तिमल्लिका

सोऽयमित्यत्र चोक्तं स्यात्प्राक्कालाद्यविवक्षणे ।

देवदत्तो देवदत्तो घटो घट इति स्फुटम् ॥ ११३४ ॥

एवं च प्रत्यभिज्ञानस्वरूपस्यैव भर्जनात् ।

स्थैर्यासिद्धिः पदार्थानां प्राप्ता च पुनरुक्तता ॥ ११३५ ॥

सुरोत्तमटीका

प्रत्यभिज्ञानस्वरूपस्य सोयं घट इत्यादि प्रत्यभिज्ञान-स्वरूपस्य ॥ ११३५ ॥

सत्यप्रमोदटीका

सोऽयमित्यत्र प्राक्कालाद्यविवक्षणे देवदत्तः देवदत्त इति स्फुटम् उक्तं स्यादिति योजना । अतो ऽभिज्ञाद्वयात्प्रत्यभिज्ञायाः प्रमेय-भेदो न स्यात् । एकस्मिन्कालद्वयसम्बन्धस्याग्रहणात् । भेदभ्रमनिवृत्तिः स्थैर्य-बोधकत्वं च न स्यात् । तथा च जितं क्षणिकवादिभिः । प्रत्यभिज्ञा-व्यतिरिक्तस्य तन्निराकरणोपायस्याभावादिति भावः । एतेन यदुक्तं विवरणे ‘सिद्धं तु निवर्तकत्वादि’ति । अभेदाबोधनेऽपि भेदभ्रमनिवर्तकत्वमात्रेण वाक्यप्रामाण्यमिति तदपि निरस्तम् । अभिज्ञाद्वयेनेव तन्निरासासम्भव-स्योक्तत्वात् ॥ ११३४,११३५ ॥

युक्तिमल्लिका

पदेनानुदितो धर्मो नैव व्यावर्तको भवेत् ।

न ह्ययं घट इत्युक्ते सिद्ध्येद्रक्तघटान्यता ॥ ११३६ ॥

सुरोत्तमटीका

व्यावर्तकधर्मानुक्तौ व्यावृत्तेरप्यसिद्धिरित्यत्र दृष्टान्त-माह ॥ न हीति ॥ ११३६ ॥

सत्यप्रमोदटीका

तदेव विवृणोति पदेनेति । धर्मः सत्यत्वादिः । व्यावर्तको ऽसत्यादितः । निदर्शयति नेति किन्तु घटे रक्तत्वविरोधि-श्यामत्वाद्युक्तावेवेति शेषः ॥ ११३६ ॥

युक्तिमल्लिका

अतस्स्वेष्टार्थसिद्ध्यर्थं तत्तदर्थपरिग्रहे ।

आवश्यके रूपमात्रलक्षणा कुत्र कथ्यताम् ॥ ११३७ ॥

सुरोत्तमटीका

अत उक्तदृष्टान्तबलात् । स्वेष्टार्थो व्यावृत्तिः । तत्सिद्ध्यर्थम् ॥ ११३७ ॥

सत्यप्रमोदटीका

रूपेति स्वरूपेत्यर्थः ॥ ११३७ ॥

युक्तिमल्लिका

पूर्वोत्तरत्वं चैकस्य स्यादेवोक्तव्यवस्थया ।

तत्सोऽयमिति वाक्यार्थ ऐक्यं स्यादविरोधतः ॥ ११३८ ॥

सुरोत्तमटीका

उक्तव्यवस्थया क्रमिकदेशकालव्यवस्थया । तत्पदस्य पूर्वदेशकालध्वंस वैशिष्ठ्यव्यवस्थया वा । तत्तस्मात् ॥ ११३८ ॥

सत्यप्रमोदटीका

उक्तव्यवस्थयेति । यथोक्तं न्यायामृते ‘तत्तादेरतीत-त्वेऽपि यदान्विततया ज्ञाते एव तात्पर्यविषयीभूतेतरान्वयधीस् तत्त्वरूप-विशेषणत्वस्य सम्भवात्’ इति अत एवाहुः सदसद्वा समानाधिकरणं विशेषणमि’ति च ॥ ११३८-११४० ॥

युक्तिमल्लिका

सार्वज्ञसर्वशक्तत्वपूर्णानन्दत्वपूर्वकः ।

तत्पदार्थो ब्रह्मगुणो दुःखित्वाज्ञत्वपूर्वकः ॥ ११३९ ॥

जैवो गुणस्त्वं पदार्थो यदि तत्त्वं पदोदितः ।

कथं पुनस्तयोरैक्यं स्यादत्यन्तविरुद्धयोः ॥ ११४० ॥

सुरोत्तमटीका

विरोधं स्फोरयितुं तत्त्वंपदाभ्यामुक्तगुणान्स्पष्टमाह ॥ सार्वज्ञेति ॥ ११३९,११४० ॥

युक्तिमल्लिका

असीत्यैक्यस्य धर्माणां लटोक्ता वर्तमानता ।

श्रुत्युक्तधर्मस्याध्यासे त्वैक्याध्यासः कुतो न ते ॥ ११४१ ॥

सुरोत्तमटीका

मिथ्यात्वाद् विरुद्धगुणत्याग इति शङ्कां परिहर्तुं धर्माध्यासपक्षमैक्यप्रतिबन्द्या दूषयति ॥ असीति ॥ ऐक्यस्य धर्माणां च वर्तमानता । त्वमेव दण्डीकुण्डली चासीत्युक्ते दण्डकुण्डलयोरपि वर्तमानत्व-लाभादिति भावः । एवं च धर्माणामैक्यस्य च सह वा प्रवृत्तिस्सह वा निवृत्तिरित्याह ॥ श्रुत्युक्तेति ॥ ११४१ ॥

सत्यप्रमोदटीका

तत् त्वमसीत्यनेन तत् त्वम्पदाभ्यां धर्माः, असीत्यैक्यं, लटा च वर्तमानता इति त्रयम् उक्तम् । तत्र धर्माणाम् अध्याये ऐक्यस्यापि तथात्वं, ऐक्यस्य सत्यत्वे वा धर्माणामपि सत्यत्वम् अवश्यम् अङ्गीकार्यं श्रुत्युक्तत्वाविशेषाद् इत्याह असीति

॥ ११४१ ॥

युक्तिमल्लिका

त्यजेदेकं कुलस्यार्थ इति न्यायमनुस्मर ॥ ११४२ ॥

सुरोत्तमटीका

विरुद्धबहुगुणानां तत्प्रतिपादकबहुश्रुतीनां च रक्षणाय ऐक्यत्याग एव न्याय्य इत्याह ॥ त्यजेदिति ॥ अनेन त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् । ग्रामं जनपदस्यार्थ आत्मार्थे पृथिवीं त्यजेदिति वाक्यं सङ्गृह्णाति ॥ ११४२ ॥

सत्यप्रमोदटीका

इदं चोपेत्योक्तम् । वस्तुतस्तु बहुधर्मरक्षणाय एकस्यैक्यमात्रस्य परित्याग एवोचित इत्याह त्यजेदिति ॥ ११४२ ॥

युक्तिमल्लिका

अद्याप्यसिद्धेरैक्यस्य धर्माध्यासः कुतो हरेः ।

सत्यस्सो अस्य महिमेत्यस्ति हि श्रुतिरञ्जसा ॥ ११४३ ॥

सुरोत्तमटीका

नन्वैक्यश्रुतिबलादेव धर्माध्यास इत्यत आह ॥ अद्यापीति ॥ ११४३ ॥

सत्यप्रमोदटीका

ऐक्यवाक्यबलादेव धर्माध्याससिद्धिरिति न युक्तमित्याह अद्यापीति ॥ ११४३ ॥

युक्तिमल्लिका

अध्यस्तधर्माद्व्यावृत्तौ भवेच्छुक्तिरशुक्तिका ।

इतरस्माद्विरूप्यत्वं व्यावर्तयति धर्मिणम् ॥ ११४४ ॥

सुरोत्तमटीका

धर्माध्यासे व्यावृत्तचैतन्यद्वयासिद्ध्या जीवब्रह्मैक्या-सिद्धिश्चेत्याह ॥ अध्यस्तधर्मादिति ॥ इतरस्मात् स्वाधारादन्यस्मात् शुक्त्यादेः ॥ ११४४ ॥

सत्यप्रमोदटीका

वस्तुवृत्तिधर्मस्यैव व्यावर्तकत्वं न तु अध्यस्तस्येत्य-नङ्गीकारेऽतिप्रसङ्गमाह भवेदिति । रूप्यत्वं विद्यमानमेव नत्वध्यस्तम्

॥ ११४४,११४५ ॥

युक्तिमल्लिका

किञ्च सर्वज्ञताल्पज्ञाद्व्यावर्तयति धर्मिणम् ।

व्यावृत्तिर्नामभेदोऽतो व्याहतिश्च ध्रुवा तव ॥ ११४५ ॥

सुरोत्तमटीका

दोषान्तरं चाह ॥ किं चेति ॥ व्याख्यातप्रायमेतत् ॥ ११४५ ॥

युक्तिमल्लिका

किञ्च कल्प्यमकल्प्यं वा सार्वज्ञं ब्रह्मणश्चितः ।

सार्वज्ञरहितायास्ते शुद्धायास्स्वोपलक्षिताम् ॥ ११४६ ॥

चितं व्यावर्तयेन्न्यायसाम्याज्जीवचितो यथा ।

जैवो धर्मोऽपि तच्छून्यचिन्मात्रात्स्वोपलक्षिताम् ॥ ११४७ ॥

चितं व्यावर्तयेदेव ततश्चिन्मात्रयोस्तव ।

कथमैक्यमिदं वाक्यं वक्ति यौक्तिकसंसदि ॥ ११४८ ॥

सुरोत्तमटीका

पुनरपि प्रबलं दोषान्तरमाह ॥ किं च कल्प्यमिति ॥ कल्प्यमध्यस्तम् । ब्रह्मणः सर्वज्ञब्रह्मचैतन्यस्य । तत्कल्प्यमकल्प्यं वा भवतु । तथापि ते मते सार्वज्ञरहितायाश्शुद्धचितः निर्गुणचैतन्यात् स्वोपलक्षितां चितं ब्रह्मचितं जीवचितो यथा व्यावर्तयेत् तथा व्यावर्तयेदेव । न्यायसाम्यादित्यनेन सार्वज्ञराहित्यस्य जीवचैतन्ये शुद्धचैतन्ये च वर्तमानत्वसाम्येन सार्वज्ञाद्यर्थ-कतत्पदेनोभयव्यावृत्तिरपि न्याय्येति सूचयति । जैवो धर्मो ऽल्पज्ञत्वादिः । ततः पदद्वयेनापि शुद्धचैतन्यस्य व्यावर्तितत्वेन तद्भिन्नयोः किञ्चिज्ज्ञत्वसर्वज्ञ-त्वाश्रययोश्चैतन्ययोरेवैक्यलाभाच् चिन्मात्रयोर्द्वेधा क्रोडीकृत सकलचितोश्शुद्ध-ब्रह्मचिदैक्यस्यात्राप्रतिपादनादिति भावः ॥ ११४६-११४८ ॥

सत्यप्रमोदटीका

चिन्मात्रैक्यं तु सर्वथा न सिद्ध्यतीत्याह त्रिभिः किञ्चेत्यादिना । कल्प्यमित्यनास्थया । सार्वज्ञं तत्पदोक्तम् । ब्रह्मणश् चितः ब्रह्मचिति विद्यमानम् । सार्वज्ञरहितादिति हेतुगर्भम् ॥ शुद्धायाश् चितश् चिन्मात्रा । स्वोपलक्षितां चितं सर्वज्ञत्वोपलक्षितां ब्रह्मचितम् । व्यावर्तयेत् तत्र हेतुर् न्यायसाम्याद् इति । साम्यस्थलं जीवचितो यथेति । एवं जैवो धर्मो ऽल्पज्ञत्वं त्वम्पदोक्तम् । स्वोपलक्षितां चितम् अल्पज्ञत्वोपलक्षितां जीव-चितम् । व्यावर्तयेदेव न्यायसाम्याद् ब्रह्मचितं यथा इति योजनीयम् । तथा च तदित्यस्य सर्वज्ञं ब्रह्मचिदेव न तु जीवचिन् नापि चिन्मात्रम् इत्यर्थः, त्वमित्यस्य च अल्पज्ञजीवचिदेव न तु ब्रह्मचिन् नापि चिन्मात्रम् इत्यर्थः सम्पन्न इति चिन्मात्रस्य पदद्वयेनापि व्यावर्तितत्वान् न कथञ्चित्तदैक्य-सिद्धिरित्याशयः॥ ११४६-११४८ ॥

युक्तिमल्लिका

व्यावृत्तेरनपेक्षायां चिच्चिदित्येव तद्वदेत् ।

का नो हानिरतो भेदवादिनां तत्त्ववादिनाम् ॥ ११४९ ॥

सुरोत्तमटीका

मास्तु तर्हि पदद्वयस्यापि व्यावर्तकत्वमित्यत आह ॥ व्यावृत्तेरिति ॥ तद्वाक्यम् । अतिसूक्ष्मत्वात् प्रबलत्वाच्च अस्य दूषणस्य किमन्येनेत्युपसंहरति ॥ अत इति ॥ अतो घटो घट इतिवच् चिदेव चिदिति सर्वसिद्धप्रमेयानुवादात् तत्त्वमसीति पदच्छेदेऽपि मायावाद्युक्तार्थस्यायोगात् ॥ ११४९ ॥

सत्यप्रमोदटीका

व्यावृत्तेरनपेक्षायाम् अन्यापोह एव शब्दार्थ इति बौद्धमताप्रमोषेण लक्षणचिन्मात्रैक्याङ्गीकारे । का नो हानिः प्रत्युत तदैव आगतः स एव पौनरुक्त्यवैयर्थ्यादिरूपः दुरात्मा दोष पिशाच इति भावः ॥ ११४९ ॥

युक्तिमल्लिका

अतः प्रत्यक्पराग्भावादल्पसाम्यात्तयोस्सदा ।

सादृश्यैक्यपरैवेयं वाग्बिम्बप्रतिबिम्बयोः ॥ ११५० ॥

सादृश्यैक्येऽपि वाक्सिंहो देवदत्त इति स्फुटा ।

मुखं चन्द्रः पदं पद्ममित्याद्याश्च सहस्रशः ॥ ११५१ ॥

सुरोत्तमटीका

प्रतिमुखे इदं मुखमितिवत् प्रतिबिम्बे जीवे त्वं तदसीति बिम्बैक्योक्तिरेवेयं श्रुतिरित्याह ॥ अत इति ॥ अतः मुख्यैक्यायोगात्

॥ ११५०,११५१ ॥

सत्यप्रमोदटीका

‘प्रतिबिम्बेष्वल्पसाम्यं’ इति भाष्योक्तमाह अल्पेति ॥ ११५०,११५१ ॥

युक्तिमल्लिका

एकत्वरूपणे न स्यादुपमानोपमेययोः ।

रूपकाख्यो ह्यलङ्कारो वाक्यसौन्दर्यपोषकः ॥ ११५२ ॥

सुरोत्तमटीका

तत्सदृशस्य तदभिन्नतया व्यवहारे किं कारणमित्यत आह ॥ एकत्वेऽपि ॥ हीत्यनेन एकत्वरूपणं यत्स्यादुपमानोपमेययोः रूपकं नामेति रूपकालङ्कार लक्षणप्रसिद्धिं सूचयति । उपलक्षणं चैतत् । शौर्यधैर्य-पराक्रम शत्रुसंहारापलायनसाहसादिधर्माणां लघूक्तया लाभाच्चेत्यपि द्रष्टव्यम् ॥ ११५२ ॥

सत्यप्रमोदटीका

यादृश्यैक्ये अभेदव्यवहारः ‘अखिलाज्ञानमतध्वान्तदि वाकरः’ इत्यत्रेव रूपकालङ्कारपोषक इत्याह एकत्वेति । एवं प्रयोगे लघुमाशब्देन बह्वर्थलाभश्च फलम् ॥ ११५२,११५३ ॥

युक्तिमल्लिका

अतस्सार्वजनीनेऽर्थे सति सर्वा विरोधिनि ।

स्वतोऽन्यतो विरुद्धार्थं को नून्मादी वदेद्वद ॥ ११५३ ॥

सुरोत्तमटीका

स्वतः स्वपदाभ्याम् । अन्यतः भेदश्रुत्यादितः ॥११५३॥

युक्तिमल्लिका

ईशाभेदस्य कथनं स्तब्धस्तब्धत्ववृद्धिदम् ।

प्रकृतासङ्गतं च स्याच्छिष्यकल्पतरोर्गुरोः ॥ ११५४ ॥

सुरोत्तमटीका

ऐक्यार्थे दोषान्तरं चाह ॥ ईशेति ॥ स्तब्धस्य श्वेतकेतोः । स्तब्धत्व वृद्धिदं गुरोः कथनमिति सम्बन्धः । अनूचानमानीस्तब्ध एयायेति श्रुत्युक्तस्याहंकारेण स्तब्धस्य श्वेतकेतोर् ईशैक्यकथनं पुनरपि गर्वाभिवृद्धिहेतुत्वादसङ्गतमिति भावः । शिष्यकल्पतरोरित्यनेन शिष्यानिष्ट-करणमनुचितमिति सूचयति ॥ ११५४ ॥

सत्यप्रमोदटीका

शिष्यकल्पतरोः पुत्रवत्सलस्य उद्दालकमुनेः । स्तब्धस्य प्रागेवानूचानमानिनः स्तब्धस्य पुत्रस्य । स्तब्धत्ववृद्धिदः । ‘ईश्वरोऽहमहं भोगी’ इति अभेदानुसन्धानस्य स्तब्धतारूपत्वात् ॥ ११५४ ॥

युक्तिमल्लिका

मानेन स्तब्धचित्तस्य प्रतिबिम्बत्वरूपणे ।

ईशाधीनत्वबोधाप्त्या वाक्यं स्यादतिसङ्गतम् ॥ ११५५ ॥

सुरोत्तमटीका

अस्मदर्थस्तु प्रकृतसङ्गत एवेत्याह ॥ मानेनेति ॥ ११५५ ॥

सत्यप्रमोदटीका

गर्वपरिहारप्रकरणत्वाद् ईशाधीनत्वोक्तिरेव श्लिष्टे-त्याह मानेनेति । तदुक्तं तत्त्वनिर्णये सर्वान् वेदानधीत्य महामना अनूचानमानी स्तब्ध एयास’ इत्यात्मनोऽन्यम् अनूचानत्वादिगुणप्रदं परम-विज्ञाय स्तब्धस्य पराधीनत्वज्ञापनेन स्तब्धतां निरस्य तन्निष्ठा ह्यत्रोपदिश्यते इति ॥ ११५५ ॥

युक्तिमल्लिका

दृष्टेऽर्थेऽयुक्तशिष्टोक्तेस्तमेवार्थं विमर्शवान् ।

को गृहणीयाद्विषं भुंक्ष्वेत्युक्ते किं विषमत्ति तत् ॥ ११५६ ॥

सुरोत्तमटीका

ननु यथास्थितवाक्यार्थग्रहणेन गर्ववृद्धेः परिहार इत्यत आह ॥ दृष्ट इति ॥ दृष्टेऽर्थे आपाततः दृष्टेऽर्थे । अयुक्ताया युक्तिबाधितायाः । शिष्टस्य आप्तस्य उक्तेरित्यर्थः । तद् अयुक्तमापातार्थम् । तत् तदेव ॥११५६॥

सत्यप्रमोदटीका

दृष्टेऽर्थे आपातप्रतीतार्थे अयुक्ता च सा शिष्टोक्तिर् इति विग्रहः । शिष्टस्य आप्तस्य उक्तिः । आप्तोक्तस्यापि प्रमाणविरुद्धस्या-पातार्थस्य, विमर्शवान् शिष्यः, कस् तमेवार्थम् अयुक्तमेवार्थं गृह्णीयात् । तत्र निदर्शनं विषं भुंक्ष्वेति । द्विषदन्नं न भोक्तव्यमिति तात्पर्येण आप्तेनोक्ते सति । किं विषमत्ति नैव अत्ति । किन्तुं प्रमाणविरुद्धार्थप्रयोगेण तस्य क्रोधम् अनुमाय, क्रोधस्य च आत्मनः शत्रुगृहान्न भक्षणोद्यमत इति च अनुमाय, द्विषदन्नस्य अभोक्तव्यतामेव वाक्यतात्पर्यार्थं निश्चिनोति । तदुक्तं ‘वाक्यलिङ्गानुमा हि सा’ इति ॥ ११५६ ॥

युक्तिमल्लिका

अत एव गुरुशिष्यस्तब्धबुद्धिं पदे पदे ।

विचारशीलां रचयन्स्पष्टं नाचष्ट कार्यवित् ॥ ११५७ ॥

सुरोत्तमटीका

तर्हीशाधीनोऽसीति स्पष्टं किमिति नोक्तवानित्यत आह ॥ अत एवेति ॥ कार्यवित् स्तब्धत्वविमोचनाख्यकार्यवित्॥११५७ ॥

सत्यप्रमोदटीका

तदाधीनोऽसीति स्पष्टमनुक्तौ कारणमाह विचारेति ॥ ११५७ ॥

युक्तिमल्लिका

अद्यापि बुद्धिवैशद्यसिद्ध्यर्थं वक्रमुद्रया ।

आलिख्य वर्णशिक्षायां मेधामाधावयन्ति हि ॥ ११५८ ॥

सुरोत्तमटीका

वक्रमुद्रया आलिख्य । नाम्नोनुलोमवर्णानां प्रतिलोम्ना लेखनं कृत्वा । वर्णशिक्षायाम् अक्षरशिक्षाकाले ॥ ११५८ ॥

सत्यप्रमोदटीका

वक्रमुद्रया क्रममुल्लङ्घ्य ॥ ११५८ ॥

युक्तिमल्लिका

बोधोबुद्ध्यै तथा प्राह मन्तारं मन इत्यपि ।

अभ्रमाय प्रजाशब्दं तत्र प्रायुंक्त चोपरि ॥ ११५९ ॥

सुरोत्तमटीका

तथा ऐक्यव्यपदेशवत् । तत्र मनश्शब्देनोक्ते इदमपि बोधो बोधनार्थमेवेति भावः ॥ ११५९ ॥

सत्यप्रमोदटीका

‘मननान्मन उद्दिष्ट’ इति विमर्शार्थं मन्तारं जीवं मनःशब्देन प्राह । मम भ्रमो मा भूदिति कृपया प्रजाशब्दप्रयोगेण तदर्थं व्यवृणोत् ॥ ११५९ ॥

युक्तिमल्लिका

अहं ब्रह्मेति योऽनुक्त्वा त्वं ब्रह्मेत्याह मां गुरुः ।

अतो नास्य प्रतीतार्थ इत्यन्यार्थे करोन्मतिम् ॥ ११६० ॥

सुरोत्तमटीका

श्वेतकेतोर्विमर्शप्रकारमाह ॥ अहमिति ॥ यः गुरुर् अतः मत्तोऽप्यधिकस्य स्वस्य ब्रह्मत्वाकीर्तनात् । अस्य गुरोः । इति हेतोः

॥ ११६० ॥

सत्यप्रमोदटीका

यदि जीवाभेद एव पित्रा जिज्ञापयिषितस् तदा मदधिकस्य स्वस्यैव अग्रतः ब्रह्मतां ‘अहं ब्रह्मेति शब्दविन्यासेन अवदिष्यत् । तथाऽनुक्त्वा अधमं मां ‘त्वं ब्रह्मेति’ उक्तवान् । अतः, अस्य वाक्यस्य । न प्रतीतार्थः प्रतीत एवार्थः, न तात्पर्यविषयभूतः । स्वाशिष्यब्रह्मतां स्वस्य अशिष्यरूपं प्रत्युत स्वामित्वेन नित्यम् आराध्यदेवतारूपं यद् ब्रह्म, तदात्मतां तदैक्यम् । यद्वा स्वेन अशिष्या, उपदेष्टुमनर्हा अनर्थहेतुभूता या ब्रह्मता ब्रह्मैक्यं ताम् । अधुना असीत्युक्त्या वर्तमानकाले । स्वकाले ‘नाहं निर्दुःख’ इति भेदस्य अस्तितां गृह्णान् साक्षी तस्य त्रिकालबाध्यतामेव निश्चिनोतीति हृदयम् । तदुक्तं

‘स्वकाले ह्यस्तितां गृह्णन् साक्षात्कारस्त्रिकालगम् ।

प्रतिषेधं निरुन्धानो गृह्णात्येवात्यबाध्यतामि’ति ॥ ११६०,११६१ ॥

युक्तिमल्लिका

कथं स्वशिष्यस्य मम स्वाशिष्यब्रह्मतां वदेत् ।

कथं च दुःखिनोऽज्ञस्य ब्रह्मत्वमपि मेऽधुना ॥ ११६१ ॥

सुरोत्तमटीका

विमर्शान्तराण्याह ॥ कथमित्यादिना ॥ स्वाशिष्य-ब्रह्मतां स्वाशिष्यभूतं प्रत्युत देवरूपं यद्ब्रह्म तद्भावम् । अहं तु शिष्यतया स्वोपासकः । ब्रह्म तु स्वस्याप्युपास्यं तदैक्यं मम कथं ब्रूयात् । ब्रूयाच्चे-द्ब्रह्मोपासनवन्मदुपासनमपि कुतो न कुर्यात् । अतस्स्वोपास्यब्रह्मैक्यमपि नोक्तवान् । किं त्वस्य वाक्यस्यान्योऽर्थोऽस्तीति मतिं कृतवानिति भावः । दुःखिनो ज्ञस्य मे इति सम्बन्धः । ब्रह्मत्वं सर्वज्ञनित्यसुखित्वरूपब्रह्मत्वम् । अधुना स्यात् । भाव्यैक्यस्य कथञ्चित्सम्भवेऽपि असीति लटोक्तवर्तमानैक्यं कथं स्यादिति सूचनायाधुनेत्युक्तम् ॥ ११६१ ॥

युक्तिमल्लिका

प्रजामूलब्रह्मता स्यात्कथं तास्वधमस्य मे ।

प्राणसंस्थस्य जीवस्य प्राणाख्यब्रह्मता च न ।

सुप्तौ च येन सम्पन्नस्सो सुप्तौ स्यामहं कथम् ॥ ११६२ ॥

सुरोत्तमटीका

तासु प्रजासु । ‘प्राणसंस्थं मन’ इति श्रुतेः प्राणाधारस्य जीवस्य । न युक्तियुक्ता न । येनेशेन । स ईशः ॥ ११६२ ॥

सत्यप्रमोदटीका

प्रजामूलेति ‘सन्मूलाः सोम्य इमाः सर्वाः प्रजाः’ इत्यत्रोक्तेत्यर्थः । प्राणसंस्थस्येति । ‘प्राणबन्धनं हि सोम्य मनः’ इत्युक्त-स्येति भावः । सम्पन्नः न तु एकीभूतः ॥ ११६२ ॥

युक्तिमल्लिका

करुणापूर्णगुरुणा तन्नात्र ब्रह्मतोच्यते ।

ममेति निर्ममो भूत्वा पुनर्मीमांसकोऽभवत् ॥ ११६३ ॥

सुरोत्तमटीका

तत्तस्मात् । इति एवं विमृश्य ॥ ११६३ ॥

सत्यप्रमोदटीका

निर्ममः ममैवेदम् अनूचानत्वम् इति स्तब्धताया निष्क्रान्तः ॥ ११६३ ॥

युक्तिमल्लिका

अस्ति सादृश्यमात्राच्च वस्तुवस्त्वन्तरात्मना ।

कथ्यमानं तत्र तत्र सेयं वाक्तावतैव न ॥ ११६४ ॥

सुरोत्तमटीका

तत्र सिंहो देवदत्त इत्यादौ । इयं तत्त्वमसीत्यादिरूपा । तावता सादृश्यैक्यमात्रेण ॥ ११६४ ॥

सत्यप्रमोदटीका

तत्र तत्र आदित्यो यूपः, अग्निर्माणवक इति लोकवेदयोः । तावतैव केवलं सादृश्यमात्रेण । किन्तु प्रतिबिम्बस्येव तन्नियम्यत्वेनापि । यथोक्तं भाष्ये ‘अत एव भिन्नत्वतदधीनत्वतत्सादृश्यैरेव सूर्यकाद्युपमा’ इति ॥ ११६४-११६६ ॥

युक्तिमल्लिका

प्रतीचस्स्वनियन्तुश्च कथं सादृश्यमात्रतः ।

पराचीशनियम्ये च मयीयं वाक्प्रवर्तताम् ॥ ११६५ ॥

सुरोत्तमटीका

स्वनियंतुश्च ब्रह्मणः सादृश्यमात्रतः कथं प्रवर्ततामिति सम्बन्धः ॥ ११६५ ॥

युक्तिमल्लिका

प्रतिबिम्बं दर्पणस्थं मुखमित्येव लौकिकाः ।

वदन्ति तन्नियम्योऽसौ परा क्व प्रतिदृश्यते ॥ ११६६ ॥

सुरोत्तमटीका

तन्नियम्यस् तेन बिम्बेन नियम्यः । असौ प्रतिबिम्बः । प्रतिदृश्यते आभिमुख्येन दृश्यते ॥ ११६६ ॥

युक्तिमल्लिका

अतस्तद्विधतामेव लघूक्त्या मयि बोधयन् ।

मतिं प्रचारयंश्चोचे नोचेदाचार्यता कथम् ॥ ११६७ ॥

सुरोत्तमटीका

अतः ब्रह्मणः बिम्बस्वभावत्वान् मम च प्रतिबिम्ब-स्वभावत्वात् । तद्विधतां प्रतिबिम्बवद् बिम्बभूतपरमात्मनियम्यताम् । तस्मा-त्पराक्त्वं तदाभिमुख्यं चेत्यर्थः । लघूक्त्या त्वं तदसीति अक्षरचतुष्टयात्मक-वाक्योक्त्या । नो चेन् नियम्यत्वतदधीनत्वतत्सादृश्यपराक्त्वाऽऽभि-मुख्यरूपाणां बहूनामर्थानां लघूक्त्या कथमकुशलो नो चेत् ॥ ११६७ ॥

सत्यप्रमोदटीका

तद्विधतां प्रतिमुखविधतां तदधीनत्वतत्सादृश्य-पराक्त्वाभिमुख्यरूपाम् ॥ ११६७ ॥

युक्तिमल्लिका

तस्मात्प्रत्यक्पराग्भावो नियामकनियम्यता ।

अशब्दोच्चारणस्येव सादृश्यं चाल्पमेव मे ।

इति प्रबुध्य दुर्बुद्धिं त्यक्त्वा भक्तो भवत्प्रभोः ॥ ११६८ ॥

सुरोत्तमटीका

अशब्दोच्चारणस्येव शब्दोच्चारणरहितप्रतिमुखस्येव । यथा शब्दोच्चारण सहितमुखस्य तद्रहितप्रतिमुखस्य च नैक्यं नापि सर्वसादृश्यं तथा मे सादृश्यं ब्रह्मसादृश्यम् अल्पं तत्स्वातन्त्र्याभावात् । चशब्दसमुच्चितमैक्यं च अल्पम् । किञ्चित्सादृश्यादिरूपं न तु सर्वथैक्यमित्यर्थः ॥ ११६८ ॥

सत्यप्रमोदटीका

अशब्दोच्चारणस्य शब्दोच्चारणरहितस्य प्रतिमुखस्य । अल्पमेव चित्वादिना न तु सार्वज्ञादितद्गतासाधारणधर्मैः

॥११६८-११७०॥

युक्तिमल्लिका

अथापि कृपया शिष्यस्यायोग्यार्थे प्रमादतः ।

गतिं निवारयंत्सूत्रशकुन्यादीन्न्यदर्शयत् ॥ ११६९ ॥

सुरोत्तमटीका

अथापि युक्त्या स्वाभिप्रायस्य बोद्धुं शक्यत्वेऽपि । न्यदर्शयद् दृष्टान्ततयोक्तवान् ॥ ११६९ ॥

युक्तिमल्लिका

तदुक्तस्पष्टदृष्टान्ते स्वयोग्यां प्रतिबिम्बताम् ।

ज्ञात्वेशाधीनताबोधादस्तब्धोऽभूदिति स्थितम् ॥ ११७० ॥

सुरोत्तमटीका

तत्तस्माद् उक्तयुक्तिसमुदायात् ॥ ११७० ॥

युक्तिमल्लिका

किञ्च जीवब्रह्मभावो यदि तस्य विवक्षितः ।

तर्ह्यहं तदिति ब्रूयात्सर्वं तदिति वा वदेत् ।

त्वं तदित्युपदेशस्तु व्यर्थस्तद्भावमानिनि ॥ ११७१ ॥

सुरोत्तमटीका

प्रागुक्तस्यातदिति पदच्छेदस्यातिसुलभत्वात्पुनरपि तमेव स्मारयति ॥ किं चेति ॥ तद्भावमानिनि गर्वेणाहमीश्वर इति भावनायुक्ते ॥ ११७१ ॥

सत्यप्रमोदटीका

तद्भावमानिनि ब्रह्मनिष्ठस्य स्वातन्त्र्यलक्षणस्य स्वस्मिन्नस्तीत्यनुसन्धानवति ।व्यर्थः ज्ञातज्ञापकत्वेन निष्फलः॥११७१ ॥

युक्तिमल्लिका

गर्विष्ठगर्वनिर्वाणकुर्वन्गुर्वग्रणीरसौ

अतद्वस्तुत्वमित्याहेत्यस्ति शस्ता गतिश्च मे ॥ ११७२ ॥

सुरोत्तमटीका

शस्ता प्रशस्ता । उपक्रमोपसंहारानुगुणतया काठिन्या-भावेन च सर्वजनमनो हरेत्यर्थः ॥ ११७२ ॥

सत्यप्रमोदटीका

अतः प्रकरणानुरोधाय अतदित्येव पदच्छेद इत्याह अत इति ॥ ११७२ ॥